—म—

मकारः = पवर्गस्य पञ्चमवर्णः। अस्योच्चारणस्यानमोष्ठौ नासिका च जिह्वाग्रेण ओष्ठयोः स्यर्शेनोच्चारणम् आभ्यन्तरः प्रयत्नः अतएवास्य स्पर्शवर्णता अशुनासिकता च। बाह्यप्रयत्नाश्च संवारनादघोषाः अस्त्रप्राणश्च। अस्य ध्येवस्वरूपसुक्तं कामधेनुत० “मकारं शृणु चार्वङ्गि! स्वयं परमकुण्डली। तरुणादित्यसङ्काशं चतुर्वर्गप्रदाघकम्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा”। वर्णाभिधानेऽस्य पर्य्यावा उक्त्रा यथा “मः कासी क्लेशितः कालो महाकालो महान्तकः। वैकुण्ठो बसुधा चन्द्रोरविः पुरुषराजकः। कासभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः। जठरञ्च भ्रमो मानं सक्ष्मीर्मातोग्रबन्धनी। विषं शिवो महावीरः शशिप्रभा जनेश्वरः। प्रमतः प्रियसृ रुद्रः सर्वाङ्गो वह्निमण्डलम्। मातङ्गमालिनी विन्दुः श्रवणा भरयो वियत्”। तदधिष्ठानृदेवताध्यानं यथा “कृष्णां दशभुजां भीमां पीतलोहिमसोचनाम्। कृष्णाम्बरधरां नित्यां धर्मकामार्थमोक्षदाम्। एवं ध्यात्वा मकारन्तु तन्मन्त्रं दशधा जपेत्”। मातृकान्यासेऽस्य जठरे न्यास्यता। काव्यादौ प्रथमं प्रयोगे दुःखं फलं “सुखभयमरणं क्लेशदुःखं पवर्गः” वृ० र० टी० उक्तेः।

= पु० मा–क। १ शिवे २ चन्द्रे ३ चतुर्मुखे ब्रह्मणि एकाक्ष०। ४ यमे ५ समये ६ विषे ७ विष्णौ च मेदि०। छन्दःशास्त्रोक्ते ८ त्रिगुरुके गणे “मो भूमिस्त्रिगुरुः श्रियं दिशति यः” वृ० र० टी०। तस्य देवता भूमिः काव्यादौ प्रथमप्रयोगे श्रीलाभः फलम्।

मक = भूषणे गतौ च भ्वा० आ० सक० सेट् इदित्। मङ्कते अमङ्किष्ट ममङ्के।

मक = पुंन० म इव कायति कै–क अर्द्धर्चादि। शिवादितुल्ये।

मकर = पुंस्त्री० मं विषं किरति कॄ–अच्। १ जलजन्तुभेदे अमरः स्त्रियां जातित्वात् ङीष्। स च गङ्गावाहनं कामस्य ध्वजश्च। मकराकरत्वात् २ मेषादितो दशमे राशौ। तद्राशिश्च उत्तराषाढाशेषपादययसहितं श्रवणं धनिष्ठार्द्धञ्चेति नवपादात्मकः। तद्राशिस्वरूपादिकं नी० ता० उक्तं यथा “मृगश्चरः क्ष्माऽर्द्धरवो यमाशा स्त्री पिङ्गरूक्षः शुभभूमिशीतः। स्वल्पप्रजासङ्गसमीररात्रिरादौ चतुष्पात् विषमोदयो विट्। मकि–घञ् पृषो० मकं भूषणं राति ददाति रा–क। ३ निधिभेदे निधिशब्दे ४६८ पृ० दृश्यम्।

मकरकुण्डल = पु० मकराकृति कुण्डलं कर्णभूषणम्। मकराकारे कर्णभूषणे।

मकरकेतन = पु० मकरः मकरचिह्नितं केतनं ध्वजो यस्य। कन्दर्पे हेमच० मकरकेत्वादयोऽप्यत्र।

मकरध्वज = पु० मकरो ध्वजोऽस्य। कामदेवे अमरः।

मकरन्द = पु० मकरमपि द्यति कामजनकत्वात् दो–अवखण्डने क पृषो० मुम्। १ पुष्पमधौ अमरः। २ कुन्दवृक्षे च ३ किञ्जल्के न० राजनि०।

मकरन्दवती = स्त्री मकरन्द + बाहुल्ये मतुप् मस्य वः ङीप्। १ पाटलायाम् शब्दच० २ मधुविशिष्टे त्रि०।

मकरन्दिका = स्त्री “रसैः षड्भिर्लोकैर्ममनसजजा गुरुर्मकरन्दिका” वृ० र० टीकोक्ते ऊनविंशत्यक्षरपादके छन्दोभेदे।

मकरव्यूह = पु० मकर इव व्यूहः। मकराकारे सैन्यनिवेशनभेदे भा० भी० ६९ अ०।

मकरसंक्रान्ति = स्त्री ७ त०। मकरे राशौ रवेः १ संक्रमणे २ तदुपलक्षितपुण्यकालोपलक्षिते च दिने।

मकराकर = पु० ६ त०। समुद्रे हेमच०।

मकराकार = पु० मकरस्येवाकारः फले यस्य। (का~टाकरमचा) करञ्जभेदे शब्दच०।

मकराक्ष = पु० रावणपक्षस्थे राक्षसभेदे रामा० लङ्का० १७ अ०।

मकराङ्क = पु० मकरोङ्को यस्य। १ कामदेवे २ मनुभेदे अजयपालः

मकरालय = पु० ६ त०। समुद्रे मकरावासादयोऽप्यत्र।

मकरासन = न० रुद्रयामलोक्ते पूजाङ्गे आसनभेदे “मकरासनमावक्ष्ये वायूनां स्तम्भकारणात् पृष्ठे। पादद्वयं बद्ध्वा हस्ताभ्यां पृष्ठबन्धनम्”।

मकरीप्रस्थ = पु० मकर्य्या उपलक्षितः प्रस्थः। यदा कदाचित् मकरीसम्बद्धे प्रस्थे सानौ कर्क्या० अस्य नाद्युदात्तता।

मकष्टु = पु० ऋषिभेदे तस्यापत्यं शुभ्रा० ढक्। माकुष्टवेय तदपत्ये पुंस्त्री०।

मकार = पु० म + स्वरूपे कार। मस्वरूपे वर्णे। मकारादिर्वर्ण आद्यक्षरेऽस्त्यस्य अच्। मद्यमत्स्यमांसमैथुनमुद्रारूपे मकारादिवर्णयुक्ते तन्त्रोक्ते पदार्थपञ्चके।

मकुट = न० मकि–भूषणे उट पृषो०। शिरोभूषणे मुकुटे द्विरूपको०।

मकुति = स्त्री मकि–उति पृषो०। शूद्रशासने त्रिका०।

मकुर = पु० मकि–उरच् पृषो०। १ दर्पणे २ बकुलवृक्षे ३ कुलालदण्डे ४ कलिकायाञ्च हेमच०।

मकुल = पु० मकि–उलच् पृषो०। १ मुकुले २ बकुलवृक्षे शब्दरत्ना०।

मकुष्टक = पु० मकि–भूषायां उ–पृषो० मकुं भूषां स्तकति प्रतिहन्ति स्तक–अच् सुषामा० षत्वम्। वनसुद्गे (मुगानि) राजनि०।

मकुष्ठ = पु० मीयते मा–ड कुत्सितं तिष्ठति स्था–क अम्बष्ठा० षत्वम् कर्म०। १ ब्रीहिभेदे “मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः। वान्तिकृन्मधुरः पाके कृमिकृज्ज्वरनाशनः” भावप्र०। २ मृदुगामिनि त्रि०। स्वार्थे क। ३ वनमुद्गे

मकूलक = पु० मकि–ऊलच् पृषो० संज्ञायां कन्। १ दन्तीवृक्षे अमरः। २ मुकुले रमानाथः।

मक्क = गतौ भ्वा० आ० सक० सेट्। मक्कते अमक्किष्ट ममक्के।

मक्कल्ल = पु० शूलरोगभेदे “प्रजातायाश्च नार्य्या रूक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वायुना तद्देशगेनातिसंरुद्धं नाभेरधःपार्श्वयोर्वस्तौ वस्तिशिरसि वा ग्रन्थिं करोति। ततश्च नाभिवस्त्युदरशूलानि भवन्ति सूचीभिरिव निस्तुद्यते भिद्यते दीर्य्यत इव च पक्वाशयः। समन्तादाध्मानमुदरे सूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम्” सुश्रुतः।

मक्कूल = न० मक्क–ऊलच्। शिलाजतुनि शब्दर०।

मक्कोल = पु० मक्क–बा० ओल। खटिकायां त्रिका०।

मक्ष = रोधे संघाते च भ्वा० पर० अक० सेट्। मक्षति अमक्षीत्।

मक्षवीर्य्य = पु० मक्षं संहतं वीर्य्यं यस्मात्। ५ ग० पियालवृक्षे राजनि०।

मक्षिका = स्त्री मश–सिकन्। कीटभेदे वंभरालीकीटे (मौमाछि) उज्वल० पृषो० दीर्घः तत्रार्थे राजनि०।

मक्षिकामल = न० ६ त०। सिक्थके (मोम) राजनि०।

मक्षिकासन = न० ६ त०। (मौचाक) सिक्थकाधारे राजनि० पाठान्तरम्।

मक्षु = न० मक्ष–उन्। १ शीघ्रे निघण्टुः २ शीघ्रगतियुते त्रि० ऋ० ८। २६। ६

मख = सर्पणे भ्वा० पर० सक० सेट्। मखति अमाखीत् अमखीत् ममाख मेखतुः।

मख = सर्पणे भ्वा० पर० सक० सेट् इदित्। मङ्खति अमङ्खीत् मङ्ख्यते।

मख = पु० मख–संज्ञायां घ। यज्ञे अमरः।

मखत्रातृ = पु० मखं विश्वामित्रर्षिमखं त्रायते त्रै–तृच्। श्रीरामे शब्दर०।

मखद्विष् = पु० मखाय द्वेष्टि द्विष–क्विप्। १ राक्षसे २ यज्ञद्वेषिणि त्रि०।

मखाग्नि = पु० ६ त०। यज्ञे संस्कृताग्नौ जटा०। मखानलादयोऽप्यत्र।

मखान्न = न० मखे तत्काले भोज्यमन्नं मुन्यन्नत्वात् शा० त०। (माखना) १ जलजाते मूलजे फलभेदे “मखान्नं पद्मवीजस्य गुणैस्तुल्यं विनिर्दिशेत्” भावप्र०। ६ त०। २ यज्ञान्ने च।

मखासुहृत् = पु० ६ त०। दक्षयज्ञस्य नाशके महादेवे हेमच०

मग = सर्पणे भ्वा० पर० सक० सेट् इदित्। मङ्गति अमङ्गीत्।

मगध = पु० मङ्ग्यते अधोगम्यतेऽनेन मगि–क पृषो० भगं दोषं पापं वा दधाति धा–क। १ देशभेदे २ तद्देशस्थे जने ब० व०। स च कीकटेतिसंज्ञः अङ्गदेशस्थश्च। कीकटेषु गया पुण्या नदी पुण्या पुनःपुना” इत्युक्तेः गयादीनामेव पुण्यत्वम्। अन्येषामपुण्यत्वं प्रत्युत पापजनकत्वम् “अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारमर्हति” मिता० देवलोक्तेः। “तीर्थयात्रा व्यतिरेकेणैतान् गत्वा तत्रैव चिरसुषित्वा गङ्गागमनं प्रायश्चित्तम्। तदशक्तौ पुनरुपनयनं अतिचिरवासे तु पुनरुपनयनं कृत्वा चान्द्रायणं कर्त्तव्यम्” प्रा० वि०। अतस्तस्य पापजनकत्वात् तथात्वम्। ततः भवार्थे गहा० छ। मगधीय तत्र भवे त्रि०

मगधा = स्त्री मगध उत्पत्तिस्थानत्वेनास्त्यस्या अच्। पिप्पल्यां रत्नमा०।

मगधेश्वर = पु० ६ त०। १ जरासन्धनृपे हेम०। २ तद्देशपतिमात्रे च।

मगधोद्भवा = स्त्री मगधदेशे बाहुल्येनोद्भवति अच्। पिप्पल्याम् राजनि०। तद्देशे तस्याः प्रचुरभवत्वात्तथात्वम्।

मगध्य = परिवेष्टने कण्ड्वा० प० सक० सेट्। मगध्यति अमगध्यी(धी)त्।

मगन्द = पु० मगं पापं ददाति दा ड पृशो० मुमृ च। कुशीदिनि निरु० ६। २२।

मगण = पु० छन्दःशास्त्रोक्ते सर्वगुरुके वर्णत्रये।

मगल = पु० गोत्रप्रवरर्षिभेदे प्रवरा०।

मग्न = त्रि० मस्ज–क्त। (डोवा) जलादौ कृतमज्जने।

मघ = कैतवे द्यूतक्रीडादौ अक० गतौ निन्दायां आरम्भे च सक० भ्वा० आ० सेट् इदित्। मङ्घते अमङ्घिष्ट।

मघ = भूषणे भ्वा० पर० सक० सेट् इदित्। मङ्घति अमङ्घीत्।

मघ = पु० मघि–अच् पृषो०। १ द्वीपभेदे मेदि०। (मग)नामके २ म्लेच्छदेशभेदे। ३ पुष्पभेदे न० शब्दरत्ना०।

मघवन्(त्) = पु० मह–कनिन् नि० हस्य घः “मथवा बहुलम्” पा० वा तृच्। १ इन्द्रे अमरः २ तन्नामनामके पेचके च। तृचि मघवान् अतृचि मघवा। एवं मघवानौ मघवन्तावित्यादिरूपद्वयम्। भत्वे अन्नन्तस्य सम्प्र०। मघोनः तृजन्तस्य न मघवतः इत्यादि ङीपि मघोनी मघवतीत्यादि तद्धिते न सम्प्र०। माघवनम् इत्यादि भाष्ये तु मघशब्दात् मतुपिरूपं साधयित्वा शब्दान्तरमित्युक्त्वा न तृजित्युक्तम्।

मघा = स्त्री मह–घ हस्य घत्वम्। अश्विन्यवधिके दशमे नक्षत्रे तस्याश्च पञ्चतारात्मकत्वात् बहुत्वमपि “पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च” स्मृतिः। “मघां मूलञ्च वर्जयेदिति “मघायां पिण्डदानञ्चेति” स्मृतिस्तु समुदायस्येकत्वाभिप्रायेण। अस्या योगतारादिकमश्लेषाशब्दे ४९७ पृ० उक्तम्। २ औषधभेदे धरणिः।

मघात्रयोदशी = स्त्री मघानक्षत्रेण युक्ता त्रयोदशी शा० त०। भाद्रकृष्णत्रयोदश्यां तत्रैव मघानक्षत्रसंयोगसम्भवात्। तत्र श्राद्धमावश्यकं यथोक्तं ति० त०

“प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदश्यां मधायुक्तायामनिषिद्ध यत्किञ्चिद्द्रव्येण श्राद्धमावश्यकं शङ्खादिविधिवाक्ये नक्षत्रविशिष्टतिथेः श्रुतेः। ततश्च केवलत्रयोदशीकेवलमघाश्राद्धार्थवादा अपि क्लप्तविशिष्टविधिप्राप्तकर्मणो नित्यत्वबोधकाः न तु केवलबिध्यन्तरकल्पना गौरवात्। तथाच शङ्खः “प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम्। प्राप्य श्राद्धं हि कर्त्तव्यं मधुना पायसेन च” मनुः “यत्किञ्चित् मधुना मिश्रं प्रपद्यात्तु त्रयोदशीम्। तदप्यक्षयमेव स्यात् वर्षामु च मघासु च”। विष्णुधर्मोत्तरम् “पौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी। एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः”। शाता- तपः “पितरः स्मृहयन्त्यन्नमष्टकासु मघासु च। तस्माद्दद्यात् सदोद्युक्ता विद्वत्सु ब्राह्मणेषु च”। अत्रान्नमात्रश्रुतेः मनुवचने यत्किञ्चिदिति श्रुतेश्च शङ्खोक्तपायसः फलातिशयार्थः। “गुणविशेषे फकविशेषः स्यात्” इति न्यायात्। व्यक्तं विष्णुवर्मोत्तरे “मधायुक्ता च तत्रापि शस्ता राजंस्ययोदशो। तत्राक्षयं भवेच्छ्राद्धं मधुना पाडसेन च”। तत्राश्वयुक्कृष्णपक्षे। अत्र यत् श्राद्धं तन्मधुयोगेन पायसयोगेन बाऽक्षयं भवेत्। एवं मनुवचने यत्किञ्चिन्मधुना मिश्रम् इत्यगेन मधुनात्रयुक्तत्वसुक्तम्। अतोऽत्र सुतरां शूद्रस्याप्यधिकारः। अत्र गगच्छायायोगे फलातिशयः। तथाच कृत्यचिन्ता मणौ स्मृतिः “कृष्णपक्षे त्रयोदव्यां मघास्मिन्दुः करे रविः। यदा तदा गजच्छाया श्राद्धे पुण्यैरवाष्यते। करे हस्तानक्षत्रे कम्यादशकांशोपरि सपादत्रयोविंशांशं यावत्। अविभक्तानानप्यत्र पृथक् श्राद्धमावश्यकम्”। यथा श्राद्धचिन्तामणौ स्मृतिः “विभक्ता अविभक्ता बा कुर्युः श्राद्धमदैविकम्। मथासु च तधान्यत्र नाधिकारः पृथन्विना”। अदैविकं प्रत्याब्दिकैकोद्दिष्टम् अन्यत्रं कृष्णवक्षादौ नाधिकारः न नित्याषिकारः। “सपिण्डीकरणान्मानि यानि श्राद्धानि षोडश। पृथक् नैव सुताः कुर्य्युः पृथग्द्रव्या अपि क्वचित्” इत्यत्रापिना समुच्चितानामघृथम्द्रव्याणां पुंसां संपिण्डीकरणान्तानीति विशेषणात् तदुन्नरं श्राद्धानां पृथक्करणमपि प्रतीयते। मथात्रयोदशीनिमित्तकश्राद्धे पुत्रवता पिण्डा ग देयाः। “भौजङ्गीं तिषिमासाद्य यावच्चन्द्रार्क सङ्गमम्। तत्रापि महती पूजा कर्त्तव्या पितृदैवते। ऋक्षे पिण्डप्रदानन्तु ज्येष्ठपुत्री विवर्जयेत्” इति देवीपुराणात् भोजङ्गीं पञ्चनीं चन्द्रार्कसङ्गमम् अमावास्यां पितृदैवते ऋणे मघायाम। शातातषः “पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते। स्मधावाचनमोपोऽत्र विकिरस्तु न लुप्यते। अक्षय्यदक्षिणा स्मस्ति लौमनस्यं तथाण्विति” रघु०।

मघाभू = पु० मघासन्निकृष्टे ऋक्षे भवति भू–क्विप्। पूर्वफल्गुनी जाते शुक्रग्रहे त्रिका०। भगदैवतशब्दे ४६३१ पृ० दृश्यम्

मघी = पु० मधानक्षत्रमुत्पत्तिकापत्येनास्त्यस्य अच् गौरा० ङीष्। मघानक्षत्रस्त्ररविभुज्यमानयुक्ते काले सौरमाद्रमासे जायमाने (आउस) धान्यभेदे मेदि०।

मङ्कलक = पु० १ ऋषिभेदे भा० व० ८३ अ०। २ यक्षभेदे तत्रैव।

मङ्कि = पु० मकि–इन्। धनेच्छुवणिग्भेदे भा० शा० १७७ अ०।

मङ्कु = पु० मकि–उन्। सञ्चलद्गतिके शत० ब्रा० ५। ५। ४। ११।

मङ्कुर = पु० मकि–उरच्। दर्पणे भरतः।

मङ्क्षण = मङ्क्ष–ल्युट्। जङ्घात्राणे हारा०।

मङ्क्षु(ङ्खु) = अव्य० मखि–उन्। १ शैव्य्रे २ मृशार्थे च। पृषो० खस्य क्षत्वमपि।

मङ्ग = पु० मगि–घञ्। नौकाशिरसि हेम०।

मङ्गल = पु० मगि–अलच्। १ भूमिसुते ग्रहभेदे २ प्रशस्ते ३ अभीष्टार्थसिद्धौ च। ४ तद्वति त्रि० अमरः। स्त्रियां ङीप् “सुमङ्गलीरियं बधूः” सि० कौ०। ५ दुर्गायां ६ हरिद्रायां ७ दूर्वायां ८ पतिव्रतायाञ्च स्त्री शब्दरत्ना० ९ करञ्जभेदे स्त्री शब्दच०। १० वृत्तार्हन्मातृभेदे स्त्री हेम० ११ योनिनीदशाभेदे “मङ्गला पिङ्गलेति” दशाशब्दे दृश्यम्। अभिप्रेतसिद्धिर्मङ्गलं तद्धे तुत्वात् गोरोचनादेरपि तघात्वम्। मङ्गसद्रव्याणि च मत्स्यसूक्ते ४२ प० उक्तानि यथा “लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः। हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः। एतानि सततं पश्येन्नमस्येदर्चयेत्ततः। प्रदक्षिणन्तु कुर्वीत तथाचायुर्प हीयते। दूर्वां दथिं सर्पिरथोदकुम्भं धेतुं सवत्सां वृषगं सुवर्णम्। मृद्गोमयं स्यस्तिकमक्षतानि साजा मधु ब्राह्मणकन्यकाश्च। श्वेतानि पुष्पाणि तधा शमीस” हुताशनं चन्दनमर्कविम्बम्। अश्वत्थवृक्षञ्च समालभेत ततश्च कुर्य्याद्द्विजजातिधर्मम्” दधिमित्यार्षम्। १२ विष्णौ न० “पवित्रं मङ्गलं परम्” विष्णुस०। कुजशब्दे २०६६ पृ० मङ्गसग्रहकक्षादि दृश्यम्। “प्रशस्तचरणं नित्यमप्रशस्तविवर्जनम्। एतच्च मङ्गलं प्रोक्तनृषिभिर्मन्त्रदर्शिभिः” अत्रि० उक्ते १३ प्रशस्ताचरणे निन्द्यवर्जने।

मङ्गलचण्डी = स्त्री मङ्गले चण्डी दक्षा। १ देवीभेदे स्वार्थे क। मङ्गलचण्डिकाव्यत्र तन्नामनिरुक्तिः ब्रह्मवै० प्र० ४१ अ० उक्ता यथा “दक्षायां वर्त्तते चण्डी कस्याणेषु च मङ्गलम्। मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका। पूज्यायां वर्त्तते चण्डी मङ्गलेऽपि महीसुतः। मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका। मङ्गलो भषुवंशश्च सप्तद्वीपधरापतिः। तस्य पूज्याभीष्टदेवी तेन मङ्गलचण्डिका”।

मङ्गलच्छाय = पु० मङ्गला प्रशस्ता छाया यस्य। वटवृक्षे राजनि०।

मङ्गलपाठक = पु० मङ्गलार्थं स्तुतीः पठति पठ–ण्वुल्। स्तुतिपाठके हेमच०। “आ वृथामङ्गलपाठक।” वेणी०।

मङ्गलागुरु = न० नित्यक०। अगुरुभेदे राजनि०।

मङ्गल्य = न० मङ्गलाय हितं यत्। १ चन्दने २ मङ्गलागुरुणि ३ स्वर्णे ४ सिन्दूरे राजनि० ५ दध्नि च। ६ रुचिरे त्रि० हेम० ७ मङ्गलकरे त्रि० मेदि०। “सर्वमङ्गलमङ्गल्ये” इति देवीमा०। ८ षश्वत्थे ९ बिल्वे १० जीरके० ११ मसूरके च पु० मेदि० १२ नारिकेले १३ कपित्थे १४ रीठाकरञ्जे च पु० राजनि०। १५ त्रायमाणौषधौ पु० धरणिः।

मङ्गल्यक = पु० मङ्गलग्रहस्य प्रियः तद्दोषनिवारणार्थं दीयमानत्वेन शास्त्रविधानात्। मसूरे अमरः।

मङ्गलकुसुमा = स्त्री मङ्गल्यं कुसुमं यस्याः। शतपुष्प्याम् भावप्र०।

मङ्गल्यतामधेया = स्त्री ६ ब०। जीवन्त्यामोषधौ जटा०।

मङ्गल्या = स्त्री मङ्गलाय हिता यत्। १ मल्लिकागन्धयुक्तागुरुणि अमरः २ रोचनायाम् ३ अवाक्पुष्प्याम् ४ शम्यां २ शुक्लवचायां मेदि० ६ प्रियङ्गौ ७ माषपर्ण्यां हेमच० ८ शतपुष्प्याम् ९ जीवन्त्याम् १० ऋद्धिनामौषधौ ११ हरिद्रायां १२ दूर्वायां राजनि० १३ दुर्गायाञ्च स्त्री रत्नमा०। “मङ्गल्याऽगुरुशिशिरा गन्धाणा दोषवाहिका” राजनि०

मङ्गिनी = स्त्री मङ्गी नौकाशिरः अस्त्यस्या इनि ङीप्। नौकायां हेमच०।

मङ्गुष = पु० नृपभेदे तस्यापत्यं कुर्वा० ण्य। माङ्गुष्य तदपत्ये पुंस्त्री

मच = दम्भे शाठ्ये च अक० भ्वा० आ० सेट्। मचते अमचिष्ट मेचे।

मच = उच्चताकरणे धारणे पूजायां च सक० दीप्तौ अक० भ्वा० आत्म० सेट् इदित्। मञ्चते अमञ्चिष्ट। मञ्च्यते।

मचक्रुक = न० कुरुक्षेत्रान्तर्गते तीर्थभेदे। कुरुक्षेत्रशब्दे दृश्यम्

मचर्चिका = स्त्री चर्च–धात्वर्थनिर्देशे ण्वुल् मस्य शम्भोरिव चर्चिका ध्यानम्। प्रशस्ते अमरः अव्युत्पन्नोऽयमित्येके “मतल्लिकादयो नियतलिङ्गा न तु विशिष्यनिघ्नाः” सि० कौ० “प्रशंसावचनैश्च” पा० अस्य विशेषणत्वेऽपि परनिपातः गोमचर्चिका गोतमल्लिका इत्यादि।

मच्छ = पुंस्त्री० माद्यति मद–क्विप् तथा सन् शेते शी–ड। मत्स्ये शब्दर०। स्त्रियां जातित्वात् ङीष्।

मजिर = पु० ऋषिभेदे तस्यापत्थं शिवा० अण्। माजिर तदपत्ये पुंस्त्री०।

मज्जकृत् = न० मज्जानं करोति कृ–क्विप्। १ देहस्थे अस्थिरूपे पदार्थे हेमच० अन्नादिषु भुक्तेषु रसादिपरिपाकेन क्रमेणशोणितमांसत्वगस्थिशुक्राणामुत्पत्तेः अस्थ्नः मज्जाकृत्त्वम्।

मज्जत् = पु० मस्ज–कनिन्। १ अस्थिजाते अस्थिमध्यस्थे स्नेहाकारे पदार्थे २ वृक्षादेः सारांशे च अमरः। फलमज्ज- गुणाः “यस्य यस्य फलस्थेह वीर्य्यं भवति यादृशम्। तस्य तस्यैव वीर्य्येण मज्जानमपि निर्दिशेत्” राजवल्लभः “अस्थि यत्स्वाग्निना पक्वं तस्य सारो द्रवो घनः। यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते”। मज्जस्थानमाह “स्थूलादिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः” भावप्र०।

मज्जन = न० मस्ज–भावे ल्युट्। १ स्नाने (डोवा) जटाध०। कर्त्तरि ल्यु। २ मज्जायां शब्दर० अस्थिभध्यमज्जनात्तस्यास्तथात्वम्। ३ कुमारानुचरगणभेदे भा० श० ४६ अ०।

मज्जसमुद्भव = न० मज्ज्ञः समुद्भवति सम् + उद् + भू–अच् ५ न०। शुक्रे तस्य मज्जजातत्वम् मज्जनच्छब्दे द्रष्टव्यम्।

मज्जा = स्त्री मस्ज–अच् टाप्। १ अस्थिसारे २ वृक्षादेः सारांशे च हेम०। “भल्लातकी मूलकशिग्रुसिद्धैः प्रियालमल्लासहितैः” सुश्रुतः।

मज्जाज = न० मज्जातो जायते जन–ड। १ भूमिजे गुग्गुलौ राजनि० २ शुक्रधातौ न०

मज्जारस = मज्जायाः रसः परिपाकः। शुक्रे राजनि०। तस्य मज्जासम्भवत्वं मज्जकृच्छब्दे उक्तम्।

मज्जासार = न० मज्जायां सारोऽस्य। जातीफले राजनि०।

मज्जूषा = स्त्री मस्ज–ऊषन्। मञ्जूषायां रायमुकुटः।

मज्मन् = न० मस्ज–मनिन् पृषो०। बले निघण्टुः।

मञ्च = पु० मचि–उच्छ्राये घञ्। १ खट्वायाम् अमरः (मांचा) वंशनिर्मिते २ उच्चासने ३ उच्चमण्डपमेदे हारा० “मञ्चस्थं रघुनन्दनम्” पुराणम्। स्वार्थे क। तत्रैव “वृद्धोऽन्धः पतिरेष मञ्चकगतः” इति सा० ३ प०।

मञ्चकाश्रय = पु० ६ ब०। मत्कुणे (छारपोका) राजनि०।

मञ्चमण्डप = पु० मञ्च इव मण्डपः। शस्यरक्षार्थे उच्चे पत्रादिकुटीरे (टङ्) हारा०।

मञ्जर = न० मन्ज–अरच्। १ तिलकवृक्षे २ मुक्तायाञ्च ३ बल्ल्याञ्च शब्दरत्ना०।

मञ्जरि(री) = स्त्री मञ्जु ऋच्छति ऋ० इन् शक० पररूपं वा ङीप्। अभिनवोद्गतायां सुकुमारायां पल्लवाङ्कुररूपायां १ वल्लर्य्याम् अमरः ङीबन्तस्तु तत्र २ मुक्तायां ३ तिलकलतायां शब्दरत्ना०। ४ तुलस्याम् राजनि० ततः तारका० इतच्। मञ्जरित जातमञ्जरीके त्रि०। ङीबन्तः “सजसा यलौगिति शरग्रहैर्मञ्जरी” व० र० टी० उक्ते चतुर्दशाक्षरपादके छन्दोभेदे।

मञ्जरीनम्र = पु० मञ्जर्य्यां तदवस्थायामपि नम्रः। वेतसे। राज न०।

मञ्जा = स्त्री मजि–अच्। १ छाग्यां त्रिका०। २ मञ्जर्य्यां हेमच०।

मञ्जि(ञ्जी) = स्त्री मन्ज–इन् वा ङीप्। मञ्जर्य्याम् त्रिका०।

मञ्जिका = स्त्री मजि–ण्वुल् टाप् अत इत्त्वम्। वेश्यायां हारा०।

मञ्जिफला = स्त्री मञ्जिः मञ्जरी फले यस्याः। कदल्याम् त्रिका०

मञ्जिष्ठा = स्त्री अतिशयेन मञ्जीमती इष्ठन् मतुपो लोपः। स्वनामख्यातायां लतायाम् अमरः। “मञ्जिष्ठा मधुरा तिक्ता कषाया स्वर्णवर्णकृत्। गुरूष्णा विषश्लेष्मघ्नी शोथयोन्यक्षिकर्णरुक्। रक्तातीसारकुष्ठास्रविसर्पव्रणमेहनुत्” भावप्र०। मञ्जिष्ठया रक्तम् अण। माञ्जिष्ठ तत्क्वाथेन रक्ते त्रि०।

मञ्जिष्ठामेह = पु० सुश्रुतीक्ते मेहभेदे तल्लक्षणं तत्रोक्तं यथा मेहतीत्यनुषङ्गे “मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही”।

मञ्जिष्ठाराग = पु० मञ्जिष्ठेव रागः। “मञ्जिष्ठारागमाहुस्तं यन्नापैत्यतिशोभते” सा० द० उक्ते पूर्वानुरागभेदे।

मञ्जीर = न० मन्ज–ध्वनौ ईरन्। १ नुपूरे अमरः। “मञ्जुमणिमञ्जीरे कलगम्भीरे” इति सा० १० प०। २ दधिमन्यनदण्डबन्धस्तम्भे पु० हेमच

मञ्जीरक = पु० मञ्जीर इव कायति शब्दायते कै–क। नुपूरध्वनितुल्यध्वनियुते ततः शिवा० अपत्ये अण्। माञ्जीर तदपत्ये पुंस्त्री०।

मञ्जु = त्रि० मन्ज–उन्। मनोहरे अमरः। सिध्मा० लच्। मञ्जुल तद्वति त्रि०।

मञ्जुकेशिन् = पु० कर्म० प्राशस्त्ये इनि। १ श्रीकृष्णे हला० २ सुन्दरकेशयुते त्रि० स्त्रियां ङीप्।

मञ्जुगमना = स्त्री ६ व०। १ हंस्यां राजनि० २ सुन्दरगतियुते त्रि०।

मञ्जुघोष = पु०। तन्त्रोक्ते १ उपास्यदेवभेदे तन्त्रसारे दृश्यम्। २ पूर्वजिनभेदे त्रिका०। कर्म०। ३ मनोहरशब्दे पु०।

मञ्जुपाठक = पुंस्त्री० मञ्जु पठति पठ–ण्वुल्। १ शुकखगे राजनि० स्त्रियां जातित्वात् ङीष्। २ मनोहरपाठके त्रि०

मञ्जुप्राण = पु० ६ ब०। चतुर्मुखे ब्रह्मणि जटा० सर्वव्यापित्वेन विधातृप्राणस्य महाप्राणत्वात् तस्य तथात्वम्।

मञ्जुभद्र = पु० जिनभेदे त्रिका०।

मञ्जुभाषिन् = त्रि० मञ्जु भाषते माष–णिनि। १ सुन्दरभाषके स्त्रियां ङीप् सा च “सजसाजगौ भवति मञ्जुभाषिणी” वृ० र० उक्ते २ त्रयोदशाक्षरपादके छन्दोभेदे।

मञ्जुल = त्रि० मन्ज–सिध्मा० लच् मजि–उलच् वा। १ मनो हरे २ निकुञ्जे मेदि० ३ शबले न० विश्वः। ४ जसरष्ठणगे पुंस्त्री० मेदि० स्त्रियां ङीष्।

मञ्जुश्री = पु० ६ ब०। १ मञ्जुघोपे २ पूर्वजिनभेदे त्रिका०। ३ सुन्दरश्रीके त्रि०।

मञ्जुहासिनी = स्त्री “जतो सजौ गो भवति मजुहासिनी” वृ० र० टी० उक्ते १ त्रयोदशाक्षरपादके २ छन्दोभेदे। ३ सुन्दरहासयुते त्रि०।

मञ्जूषा = स्त्री मन्ज ऊषन् (पेटरा) १ पेटिकायाम् अमरः। २ मञ्जिष्ठायाञ्च राजनि० ३ पाषाणे उणा० को०।

मट = सादे भ्वा० प० सक० सेट्। मटति अमटीत् अमाटीत् मेटतुः

मटची = स्त्री मट–बा० अचि ङीप्। १ पाषाणवृष्टौ “मटचीहतेषु कुरुषु” छन्दोग्यश्रुतिः। २ रक्तवर्णक्षुद्रखगभेदे गोविन्दः।

मटस्फटि = पु० दर्पारम्भे जटा०।

मठ = वासे अक० मर्दने सक० भ्वा० पर० सेट्। मठति अमठीतमाठीत् मेठतुः।

मठ = आध्याने आ० सक० सेट् इदित्। मण्ठते अमण्ठिष्ट।

मठ = पुंन० अर्द्धर्चा० मठत्यत्र मठं–घञर्थे क। १ छात्राद्यावासे २ देवागारे अमरः। मठप्रतिष्ठातत्त्वे तत्प्रतिष्ठाविधिर्दृश्यः। देवगृहशब्दे चात्र दृश्यम्। ३ गन्त्रीरथे हारा०।

मठर = पु० मठ–अरन्। १ मुनिभेदे २ शौण्डे त्रि० उज्ज्वल०। राजद० परनिपातः राजमठरः। गर्गा० यञ्। माठर्य्य तन्मुनेरपत्ये पुंस्त्री० स्त्रियां ङीप् यलोपः। शौण्डार्थकस्यापत्ये विदा० अञ्। माठर तदपत्ये पुंस्त्री०।

मड = मोदे चु० उभ० अक० सेट् इदित्। भण्डयति–ते अममण्डत् त। विभागे भ्वा० आत्म०। मण्डते।

मड = भूषणे चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। मण्डयति ते मण्डति अममण्डत्–त अमण्डीत्।

मडक = पु० मडि–क्वुन् पृषो० नलोपः। धान्यभेदे (मेडुया) जटा०।

मडर = पु० मडि–षा० अरन् पृषो० नलोपः। शिल्पिभेदे कन्धाशब्दे परे अस्याद्युदात्तता।

मडार = पु० मडि–वा० आरन् पृषो०। भूषके ततः चतु रर्थ्यां प्रगद्या० ञ्य। माडार्य्य तेन र्निर्वृत्तादौ त्रि०।

मड्डु = पु० मज्जन्ति अन्ये शब्दा अत्र मस्ज + उन् पृषो०। वाद्यभेदे अमरः स्वार्थे क मड्डुक तत्रार्थे। मड्डुकस्तवादनं शिल्पमस्य वा ठक् पक्षे अण्। माड्डुकिकमाड्डुक तद्वादनशिल्पयुते त्रि०।

मण = अव्यक्तशब्दे भ्वा० प० अक० सेट्। मणति अमाणीत् अभणीत् मेणतुः।

मणि(णी) = पुंस्त्री० मण–इन् स्त्रीत्वपक्षे वा ङीप्। सुक्तादौ रत्ने “मणिरत्नं सरं शीतं कषायं स्वादु लेखनम्। चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम्” राजवल्लभः। “मणिहारावसिरामणीयकमिति” “नृपनीलमणीगृहत्विषेति च” नैषधम्। २ मृण्मयपात्रभेदे अलिञ्जरे (जाला) ३ लिङ्गाग्रे ४ नागभेदे जटा० ५ मणिवन्धे हेमच० स्वार्थे संज्ञायां कन् वा। मणिक व्यलिष्मरे न० प्रमरः। अजागलस्तने मेदि० योन्यग्रे शब्दरत्ना०

मणिकर्ण = पु० १ कामरूपस्थे २ शिवलिङ्गभेदे मणिकूटशब्दे दृश्यम्।

मणिकर्णिका = स्त्री मणिकर्णः मणिमयकर्णभूषणमस्त्यस्यां ठन्। विष्णुतपस्यादर्शनात् विस्मयेन शिवस्य मणिमयकुण्डलपतनस्थाने काशीस्थे १ तीर्थभेदे। तन्नामनिरुक्तिः काशी० २६ अ० यथा विष्णुं प्रति शिववाक्यम् “त्वदीयस्वास्य तपसो महोचयदर्शनात्। यन्मयान्दोलितो मौलिरहिश्रवणभूषणः। तदान्दोलनतः कर्णात् पपात मणिकर्णिका। मणिभिः खचिता रम्या ततोऽस्तु मणिकर्णिका। चक्रपुष्करिणीतीर्थं पुराख्यातमिदं शुभम्। त्वया चक्रेण स्वननाच्छङ्खचक्रगदाधर!। मम कर्णात् पपातेयं यदा च मणिकर्णिका। तदा प्रभृति लीकेऽत्र ख्यातास्तु मणिकर्णिका” मणिकर्णीत्यप्यत्र। २ मणिमयकर्णभूषणे च।

मणिकर्णीश्वर = न० काशीस्थे शिवलिङ्गभेदे काशीख० १०० अ०

मणिकर्णेश्वर = न० कामरूपस्थे शिवलिङ्गभेदे कालिपु० ८१ अ०।

मणिकानन = न० मणिकमिवाननं यत्र। कण्ठे शब्दर०।

मणिकार = पु० मणिमयं भूषणं करोति कृ–अण्। (जहरि) १ माणमयभूषणकारके २ प्रत्यक्षादिचतुःखण्डात्मकतत्त्वचिन्तामणिनामकग्रन्थकारे गङ्गेशोपाध्याये च। कृ–क्विप् ६ त०। मणिकृदादयोऽप्यत्र।

मणिकुट्टिका = स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ०।

मणिकूट = पु० मणिमयः कूटोऽस्य। कामरूपस्थे पर्वतभेदे यथोक्तम् “भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः। मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकः” कालिकापु० ८१ अ०।

मणिकेतु = पु० केतुभेदे वृ० स० ११ अ० केतुशब्दे दृश्यम्।

मणिगणनिकर = पु० “वसुहययतिरिह मणिगणनिकरः” वृ० र० उक्ते पञ्चदशाक्षरपादके छन्दोभेदे द्विगुणहय लघुरित्यस्यात्रानुवृत्तिः।

मणिग्रीव = पु० कुवेरपुत्रभेदे शब्दर०।

मणिच्छिद्रा = स्त्री मणिरिव छिद्रमस्याम्। १ मेदानामौषधौ २ ऋषभानामौषधौ च मेदि०।

मणिजला = स्त्री मणिप्रचुरं जलमस्याम्। नदीभेदे भा० च० ११ अ०।

मणित = न० मण–क्त। रतिकाले स्त्रीणामव्यक्तशब्दभेदे हेम०

मणितारक = पुंस्त्री० मणिरिव तारकास्य। सारसखगे राजनि० स्त्रियां जातित्वात् ङीष्।

मणिद्वीष = पु० मणिमयः मणिप्रचुरो वा द्वीपः। क्षीरसमुद्रमध्यस्थे श्रीविद्यापीठरूपे द्वीपभेदे “सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिसरे मणिद्वीपे लीलोपवनचिन्तामणिगृहे” आनन्दल०।

मणिनाग = पु० नागभेदे भा० आ० ३५ अ०।

मणिपर्वत = वृ० मणिप्रचुरः पर्वतः शा० त०। पर्वतभेदे हरिवं० १५८ अ०।

मणिपालि = त्रि० मणिं पालयति पालि–इनि। मणिपालके तस्य धर्म्यं महिष्या० अण्। मणिपाल तस्य धर्म्ये त्रि०। तस्यापत्यम् रेवत्या० ठक्। माणिपालिक तदपत्ये पुंस्त्री०

मणिपुच्छी = स्त्री मणिरिव पुच्छं यस्याः नित्यं ङीष्। मणितुल्यपुच्छयुतायां स्त्रियाम्।

मणिपुष्पक = पु० सहदेवस्य शङ्खे गीता १। १६।

मणिपुर = न० पौरस्त्ये देशभेदे।

मणिपूर = न० सुषुम्णान्तर्गते षट्चक्रमध्ये नाभिस्थे पद्मभेदे “तदूर्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम्। मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः। म णवद्भिन्नं तत्पद्मं मणिपूरं तथोच्यते। दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम्। शिवेनाधिष्ठितं पद्मं विश्वलोकनकारणम्”

मणिबन्ध = पु० मणिर्बध्यतेऽत्र बन्ध–आधारे घञ्। प्रकोष्ठपाण्योर्मध्यस्थे १ करग्रन्थौ तस्य शुभाशुभलक्षणं गरु० पु० ६६ अ० उक्तं यथा “मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः। नृपा हीनैः करच्छेदसशब्दैर्धनवर्जिताः” २ सैन्धवलवणाकारे पर्वतभेदे च।

मणिबी(वी)ज = पु० मणिरिव बी(वी)जमस्य। दाडिमवृक्षे राजनि०।

मणिभद्र = पु० यक्षभेदे भा० स० ३० अ०।

मणिभूमि = स्त्री ६ त०। मणीनामाकरे।

मणिमञ्जरी = स्त्री “इनाश्वैः स्यात् यभनयजजगाः कीर्त्तिता मणिमञ्जरी” वृ० र० टीकोक्ते ऊनविंशत्यक्षरपादके छन्दोभेदे।

मणिमण्डप = पु० मणिमयः मणिप्रचुरो वा मण्डपः। १ मणिखचिते मण्डपे २ देवतापीठस्थानभेदे तन्त्रसारः।

मणिमत् = त्रि० मणिरस्त्यस्य मतुप्। १ मणियुते त्रि० स्त्रियां ङीप्। २ यक्षभेदे पु० भा० अ० १ अ०। वृत्रासुरांशजाते द्वापरयुगीये ३ नृपभेदे पु० भा० अ० ६७ अ०। ४ नागभेदे भा० स० ९ अ०। ५ राक्षसभेदे भा० व० १६० अ०। ६ दैत्यभेदे हरिवं० ३ अ०। ७ पश्चिमस्थे देशभेदे वृ० स० ११ अ०।

मणिमध्य = न० “स्यान्मणिमध्यं चेद्भमसाः” छन्दोम० उक्ते नवाक्षरपादके छन्दोभेदे।

मणिमन्थ = न० मणिरिव मथ्यते मन्थ–कर्मणि घञ्। सैन्धवलवणे अमरः।

मणिमाला = स्त्री ६ त०। “त्यौ त्यौ मणिमाला छिन्ना गुह- वक्त्रैः” छन्दो० उक्ते द्वादशाक्षरपादके १ छन्दोभेदे। २ हारे ३ दन्तक्षतभेदे मेदि०। ४ लक्ष्म्यां शब्दर०। ५ दीप्तौ शब्दमा०

मणिराग = न० मणेरिव रागो वर्णोऽस्य। १ हिडुले रांजनि० ६ त०। २ मणिवर्णे पु०।

मणिल = त्रि० मणि + सिध्मा० अस्त्यर्थे अच्। मणियुते।

मणिव = पु० मणि–अस्त्यर्थे व। नागभेदे सि० कौ०।

मणिवाल = पु० मणिरिव शुद्धत्वात् वालः केशोऽस्य। अश्विदैवत्ये पशुभेदे यजु० २२४। ३।

मणिवाहन = पु० नृपभेदे भा० अ० ६३ अ०।

मणिशैल = पु० मन्दराचलस्य पूर्वस्थे पर्वतभेदे मार्कपु० ५५।

मणिसर = पु० मणीन् सरति कारणत्वेन गच्छति सृ–अच् ६ त०। मणिखचिते हारभेदे।

मणिस्कन्ध = पु० नागभेदे भा० आ० ५७ अ०।

मणीचक = न० मणेः ईं शोभां चकते प्रतिहन्ति चक–अच् ६ त०। १ चन्द्रकान्तमणौ त्रिका०। २ मत्स्यरङ्गखगे पुंस्त्री० हारा० स्त्रियां ङीष्।

मणीवक = न० मणीव कायति कै–क। पुष्पे हारा०।

मणीवती = स्त्री मणि + अस्त्यर्थे मतुप् नि० मस्य वः शरा० दीर्घः। मणियुक्तनदीभेदे।

मण्टपी = स्त्री मण्टं पाति पा–क गौरा० ङीष्। क्षुद्रोपद। क्याम् राजनि०।

मण्टि = पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः।

मण्ठ(ठ) = पु० मठ–अच् पृषो० वा। (भाठ) कृतान्नभेदे राजनि०। “समितां मर्दयदाज्यैर्जलेनापि च सन्नयेत्। अस्यास्तु वटकं कृत्वा पचेत् सर्पिषि नीरसम्। एलालवङ्गकर्पूरमरिचाद्यैरलङ्कृते। मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत्। अय प्रकारः संसिद्धो मण्ठ इत्यभिधीयते”। अस्य गुणाः “मण्ठस्तु वृंहणा वृष्यो बल्यः सुमधुरो गुरुः। पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः” भावप्र० मठ इति पठितम् कृतान्नशब्दे २१८३ पृ० दृश्यम्

मण्ड = पुंन० मन–ड तस्य नेत्त्वम्। १ सर्वान्नानामग्ररसे (माड) २ सारे ३ पिच्छे च। ४ आमलक्यां ५ सुरायाञ्च स्त्री ६ दधिमण्डे (मात्) न० मेदि०। ७ एरण्डवृक्षे ८ शाकभेदे भूषायां च पुंन० हेमच० अर्द्धर्चादि भावप्र० तद्विधानं यथा “तण्डुलानां सुसिद्धानां चतुर्दशगुणे गले। रसः सिक्थैर्विरहितो मण्ड इत्यभिधीयते। सैन्धवसंयुक्तो दीपनः पाचनश्च सः। अन्नस्य सम्यक्सिद्ध्यात्र ज्ञेया मण्डस्य सिद्धता। पेय यूपपवागूनां विलेपी भक्तयोरपि”। तस्य गुणाः “मण्डी ग्राही लघुः शीतो दीपनो धातुसाम्यकृत्। जरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः”। “क्षुद्बोधनो वस्तिविशोधनश्च प्राणप्रदः शोणितवर्द्धनश्च। ज्वरापहारी कफापत्तहन्ता बायुं जयेदष्टगुणो हि मण्डः। लाजमण्डोऽग्निजननो दाहतृष्णानिवारणः। ज्वरातीसारशमनोऽशेषदोषामपाचनः। वाट्यमण्डोऽग्निजनः शूलानाहविनाशनः। पाचनो दीपनो हृद्यः पित्तश्लेष्मानिलापहः” राजवल्लभः। वाट्यमण्डो भृष्टयममण्डः।

मण्डक = पु० भाव० उक्ते पिष्टकभेदे कृतान्नशब्दे २१८१ पृ० दृश्यम् सङ्गीतदामो० उक्ते गीताङ्गभेदे यथा “जयप्रियः कलापश्च कमलः सुन्दरस्तथा। मङ्गलो वल्लभश्चेति मण्डकाः षट् प्रकीर्त्तिताः। जयप्रियो हंसताले सघुमध्ये यदा गुरुः। ऊनविंशाक्षरैर्युक्तो रसे वीरे स वर्त्तते। लघुर्गुरुर्लघुर्यत्र हंसतालः स उच्यते १। कलापो रङ्गतालेन युक्तो रौद्ररसेहि सः। द्वाविंशत्यक्षरैर्युक्ता लघुरादौ गुरुद्वयम्। लघुरादौ गुरुद्वन्द्वं रङ्गताल इतीरितः २। लघुद्वन्द्वं गुरुश्चैकोऽनिलोऽत्र सगणात्मकः। पञ्चविंशत्यक्षरैः स्यात् कमलः शान्तहास्ययोः ३। गुरुरेको लघुद्वन्द्वं त्रिपुटे भगणात्मके। अष्टाविंशत्यक्षरैस्तु शृङ्गारे सुन्दरे मतः ४। आदौ गुरुर्लघुर्मध्ये प्लुतोऽन्ते भृङ्गतालके। एकरिंशत्यक्षरैस्तु वीरे मङ्गलमण्डकः ५। षड्मितापुत्रके ताले गलसागजगात्मके। चतुस्त्रिंशदक्षरोऽयं वल्लभो रौद्रके रसे ६।”

मण्डन = पु० मण्डयति मडि–ल्यु। १ अलङ्कारके २ प्रसिद्धमीमांसकभेदे पु० “शिष्यप्रशिष्यैरुपगीयमानमवेहि तत् मण्डनमिश्रधाम”। शङ्करदिग्विजयः तेन सह शङ्कराचार्य्यता विचारकथा तत्र दृश्या। भावे ल्युट्। ३ भूषायाम् न०

मण्डप = पुंन० मडि–घञ् मण्डं भूषां पाति रक्षति पा–क मडि–कपन् वा। १ जनविश्रामस्थाने २ देवादिगृहे च अमरः। यथा चण्डीमण्डप विष्णुमण्डप इत्यादि। ३ मण्डपानकर्त्तरि त्रि० शब्दरत्ना०। ४ निष्पाव्यां (शूकशिम्बीभेदे) स्त्री राजनि०।

मण्डयन्त = त्रि० मडि–झच्। १ अलङ्कारके सि० कौ०। २ योषिति स्त्री त्रिका० ङीप्।

मण्डर = त्रि० मडि–अरन्। १ भूषणे ततः अङ्गुल्या० स्वार्थे ठक्। माण्डरिक तत्रार्थे। २ घुर्घुर्य्यां स्त्री हारा० ङीप्।

मण्डल = न० मडि–कलच्। १ चक्राकारेण वेष्टने अमरः यथा सूर्य्यमण्डलं भूमण्डलम्। उभयतोविंशतियोजनमिते २ देशभेदे ३ सूर्य्यचन्द्रयोः परिवेषे ४ द्वादशनृपचक्रे ५ कोठरोगे च मेदि०। ६ गाले अनेकतीर्थको०। ७ समूहे हेम० “अर्थमण्डपमण्डलम्” इति वोपदेवः। ८ चक्रे त्रिका०। “मण्डलाकारपादाख्यं मण्डलं स्थानमीरितम्” इत्युक्ते ९ धन्विनां स्थानभेदे शब्दर०। “मण्डलं सर्वतो वृत्तिः” इत्युक्ते १० सैन्यव्यूहभेदे कामन्द०। कृत्रिमरेखासन्निवेशेन रचिते ११ पदार्थे च यथा ग्रहमण्डलं सर्वतोभद्रमण्डलमित्यादि। १२ विम्बे त्रि० अमरः स्त्रियां गौरा० ङीष्। सा च १३ दूर्वायाम् हारा० १४ कुक्कुरे पु० मेदि० १५ सर्पभेदे पु० विश्वः १६ व्याघ्रनखाख्यगन्धद्रव्ये शब्दच०। ततः स्वार्थे क। विम्बे कुष्ठभेदे आदर्शे च। कृत्रिममण्डलविधानमुक्तं देवोपु० यथा “चतुर्हस्तं समारभ्य यावद्धस्तशतं भवेत्। मण्डलं तत्र कर्त्तव्यमत ऊर्ध्वं न कारयेत्। विमलं १ विजयं २ भद्रं ३ विमानं ४ शुभदं ५ शिवम् ६। वर्द्धमानञ्च ७ दैवञ्च ९ लताक्षं १० कामदायकम्। रुचकं ११ स्वस्तिकाख्यञ्च १२ द्विदशमिति मण्डलम्। सितादिहरितान्ताश्च रागाः कार्य्याः सुशोभनाः। शालिषष्टिककौसुम्भरजनीहरिपत्रजाः। मणिविद्रुमरागाश्च भस्मना अभिमन्त्रिताः। सितसर्षप धूपाढ्यं रजः कृत्वा तु पातयेत्। अस्त्रवीजं न्यसेन्मन्त्री सम्भवति पदं च वा। समोत्यानं शुभं कृत्वागोमये नोपलेपितम्। चन्दनागुरुकर्पूरक्षोदधूपाधिवासितम्। भूभागं सुमितं सिद्धं पूर्वपश्चिमकोत्तरम्। याम्यं स्वस्तिकमत्स्याद्यैः सूत्रैर्वोर्णाण्डपत्रजैः। पद्मपत्राष्टकं मध्ये द्विगुणं त्रिगुणञ्च वा। द्वाराणि समसूत्राणि कर्णिकाकेसरोज्ज्वलम्। पद्मं तथावशेषानि स्वस्तिकान्युत्पलानि च। सव्यावलम्बहस्तस्तु रजःपातं समाचरेत्। मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद् यथेप्सया। अधोमुखाङ्गुलिं कृत्वा पातयेत्तु विचक्षणः। समा रेखा तु कर्त्तव्याऽविच्छिन्ना पुष्टिवर्जिता। अङ्गुष्ठपर्ववैपुल्या समा कार्य्या विजानता। संसक्तं विषमं स्थूलं विच्छिन्नं कृषरावृतम्। पर्य्यन्तमर्पितं ह्रस्वमालिखेन्न कदादन। संसक्ते कलहं विद्याद्वज्ररेखे तु विग्रहम्। अतिस्थाने भवेद्व्याधिर्नित्यं पीडा विमिश्रिते। दुन्दुभेर्भयमाप्नोति शत्रूपक्षान्न संशयः। कृशायाञ्चार्थहानिः स्यात् विच्छिन्ने मरणं ध्रुवम्। वियोगात्तु भवेत्तस्य इष्टद्रव्यसुतस्य वा। अविदित्वा लिखेद्यस्तु मण्डलन्तु यथेप्सया। सर्वदोषानवाप्नोति ये दोषाः पूर्वभा- षितः”। भोजनमण्डलं यथा “यातुधानाः पिशाचाश्च असुरा राक्षसास्तथा। घ्नन्ति केवलमन्नस्य मण्डलस्य विवर्जनात्। आदित्यावसवो रुद्रा ब्रह्मा चैव पितामहः। मण्डलान्युपजीवन्ति तस्मात् कुर्वन्ति मण्डलम्। चतुःकोणं द्विजाग्र्यस्य त्रिकोणं क्षत्रियस्य तु। द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा” वह्नि पु०। भोजनशब्दे आह्निकत० वाक्यं दृश्यम्। व्यूहभेदलक्षणं कामन्दकीये उक्तं यथा “मण्डलोऽसंहतो भोगो दण्डश्चेति मनीषिभिः। कथिताः प्रकृतिव्यूहा भेदास्तेषां प्रकीर्त्तिताः। सन्ततं व्यूह्य मतिमान् काले स्थाने प्रकल्पयेत्। तिर्य्यग्वृत्तिश्च दण्डः स्याङ्गोगः स्याद् वृत्तिरेव च। प्रदरो दृढकोऽसह्यश्चापो वै तद्विपर्य्ययः। प्रतिष्ठः सुप्रतिष्ठश्च श्येनौ विजब० सञ्जयौ। विशालविजयः सूची स्थूणाकर्णञ्च भूमुखः। सुखाख्यो बलयश्चैव दण्डभेदाः सुदुर्जयाः। अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकपक्षतः। अतिक्रान्तश्च पक्ष भ्यां ततोऽन्यस्तु विपर्य्ययः। स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः। द्विगुणान्तस्त्वतिक्रान्तपक्षोऽन्योऽस्य विपर्य्ययः। द्विचतुर्दण्ड इत्येवं ज्ञेयो लक्षणतः क्रमात्। गोमूत्रिकाऽहिसञ्चारी शकटो मकरस्तथा। भोगभेदाः समाख्यातास्तथा परिपतन्तकः। दण्डपक्षो युगोरस्यः शकटस्तद्विपर्य्ययः। मकरो व्यवकीर्णश्च शेषः कुञ्जरराजिभिः। मण्डलव्यूहभेदौ च सर्वतो भद्रदुर्जयौ। गजानीको द्वितीयस्तु प्रथमः सर्वतोमुखः। अर्द्धचन्द्रक उद्धारो वज्रभेदास्त्वसंहताः। तथा कुक्कुटशृङ्गी च काकपादी च गोधिका। त्रिचतुःपञ्चसैन्यानां ज्ञेया आकारभेदतः। इति व्यूहाः समाख्याता व्यूहभेदप्रयोक्तृभिः। एते सप्तदश प्रोक्ता दण्डव्यूहाश्च पञ्चधा। तथा व्यूहद्वयञ्चैव मण्डलस्य प्रयोक्तृभिः। असंहतास्तु षड्व्यूहा भोगव्यूहाश्च पञ्चधा। व्यूहा एते प्रयोज्याः स्युर्युद्धकाल उपस्थिते।”

मण्डलनृत्य = न० मण्डलाकारेण नृत्यम्। चक्राकारेण परिभ्रमणरूपे नृत्ये शब्दमाला।

मण्डलपत्रिका = स्त्री मण्डलाकारं पत्त्रमस्याः। रक्तपुनर्णवायाम् राजनि०।

मण्डलपुच्छक = पु० कीटभेदे सुश्रुतः कीटशब्दे दृश्यम्।

मण्डलब्राह्मण = न० शत० ब्रा० १० अध्याये पठिते “यदेतत्मण्डलं तपतीत्यादिके” ब्राह्मणे मण्डलाध्यायोऽप्यत्र।

मण्डलाग्र = पु० मण्डल इवाग्रमस्य। खड्गभेदे अमरः।

मण्डलाधिप = पु० ६ त०। मण्डलेश्वरे नृपभेदे चतुर्योजनपर्य्यन्तो ह्यधिकारो नृपस्य च। यो राजा तच्छतगुणः स एव मण्डलेश्वरः” ब्रह्मवै० ज० ख० ८६ अ०। मण्डलाधीश मण्डलेश्वरादयोऽप्यत्र।

मण्डलाकृत = त्रि० मण्डल + क्यङ् कर्त्तरि–क्त। वर्तुलाकारे शब्दर०।

मण्डलिन् = पु० मण्डलं कुण्डलनमस्त्यस्य इनि। १ सर्पे २ विडाले शब्दमाला। ३ जाहके (खट्टाश) हेमच०। ४ वटवृक्षे त्रिका० ५ गोनससर्पे च राजनि०।

मण्डहारक = पु० मण्डं हरति सृ–ण्वुल्। शौ। डके अमरः

मण्डा = स्त्री मण्डःकारणत्वेनास्त्यस्या अच्। सुरायां हारा० मडि–अच् टाप्। २ आमलक्यां मेदि०।

मण्डित = त्रि० मडि–क्त। १ भूथिते २ बौद्धभेदे पु० हेमच०।

मण्डु = पु० ऋषिभेदे तस्यापत्यं गर्गा० यञ्। माण्डव्य तदपत्ये ऋषिभेदे।

मण्डूक = पुंस्त्री० मण्डयति वर्षासमयम् मडि–ऊक। १ मेके अमरः स्त्रियां जातित्वात् ङीष्। २ शोणके ३ मुनिभेदे च पु० मेदि० ४ बन्धभेदे विश्वः। ५ गाढतेजस्के त्रि० शब्दर०।

मण्डूकपर्ण = पु० मण्डूक इव पर्णमस्य। १ श्योनाके अमरः २ शोणके मेदि०। ३ मञ्जिष्ठायां स्त्री टाप् ङीप् वा। ४ ब्राह्म्यां (वामनहाटि) ५ ओषधिभेदे (थुलकुडी) रत्नमा०। स्त्री ङीप् मेदि०। ६ आदित्यभक्तायां स्त्री ङीप् राजनि०। स्वार्थे क। मण्डूकपर्णिका तत्रार्थे “मण्डूकपर्णिका लज्वी स्वादुपाका सरा हिमा”। “मण्डूकपर्णिका लज्वी रूक्षा वातविबन्धनुत्” राजवल्लभः।

मण्डूकमातृ = स्त्री मण्डुकस्य मातेव पोषकत्वात्। ब्राह्म्यां (वामनहाटी) राजनि०।

मण्डूकसरस = न० मण्डूकप्रचुरं सरः जातौ अच्समा०। सरोवरभेदे अमरः।

मण्डूर = न० मडि–ऊरच्। लौहमले अमरः।

मण्डूरवज्र = पु० चक्रदत्तोक्ते वज्रकभेदे “पञ्चकोलं समरिचं देवदारु पलत्रिकम्। विडङ्गसस्तयुक्ताश्च भागास्त्रिप्रलसम्मिताः। यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः। पक्त्वा चाष्टगुणे मूत्रे धनीभूते तदुद्धरेत्। ततोऽक्षमात्रान् गुडकान् पिबेत् माकेण तक्रभुक्। पाण्डुरोगं जयत्येष मन्दाग्नित्व मरोचकम्। अर्शांसि ग्रहणीदोषमुरस्तम्भमथापि वा। किमिं प्लीहानमुदरं गररोगञ्च नाशयेत्। मण्डूरवज्रनामायं शोमानीकविनाशनः।”

मण्डूरवटक = पु० चक्रदत्तोक्ते मण्डूरादिघटिते वटकभेदे “त्र्यूषणं त्रिफलामुस्तं विडङ्गचव्यचित्रकौ। दार्वी त्वग्माक्षिको धातुर्ग्रन्थिकं देवदारु च। एषां द्विपलिकान् भागांश्चूर्णं कृत्वा पृथक् पृथक्। मण्डूरं द्विगुणं चूर्णं शुद्धमञ्जनसन्निभम्। मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तु प्रक्षिपेत् ततः। उडुम्बरसमान् कुर्याद्वटकांस्तान् यथाग्नितः। उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजनम्। मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम्। कुष्ठान्यजवकं शोथमुरुस्तम्भकफा मयान्। अर्शांसि कामलां मेहान् प्लीहानं ग्राहवच्च ते। ग्राहयन्त्यष्टगुणितं मूत्रं मण्डूरचूर्णतः।”

मण्डोदक = न० मण्ड इवोदकं यत्र। १ आतर्पणे (आलिपोना) २ चित्ररागे ३ चित्रवर्णे मेदि०। सुश्रुतोक्ते सुराकल्पान्तर्गतक्वाथभेदे “वैरेचनिकमूलानां क्वाथे माषान् सुभावितान्। सुधौतांस्तत्कषायेण शालीनाञ्चापि तण्डूलान्। अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान्। शालितण्डुलचूर्णञ्च तत्कषायोष्णसाधितम्। तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान्। मण्डोदकार्थे क्वाथञ्च दद्यात्तत् सर्वमेकतः। निदध्यात् कलसे तान्तु सुरां जातरसां पिबेत्। एष एव सुराकल्पो वसनेष्वपि कीर्त्तितः।”

मत = त्रि० मन–क्त। १ सम्मते २ अभिप्रेते ३ ज्ञाते ४ अर्चिते च। भावे क्त। ५ सम्मतौ ६ अभिप्राये ७ ज्ञाने ८ अर्चायाञ्च न०। ९ समीकृते त्रि० मत्यशब्दे दृश्यम्। ततः ऋश्या० चतुरर्थ्यां क। मतक तत्समीपादौ त्रि०। स्वार्थे क। मत शब्दार्थे।

मतङ्ग = पु० माद्यति अनेन मद–अङ्गच् दस्य तः। १ मेघे उणा० दिकोषः। २ मुनिभेदे भा० स० ८ अ०। ३ दानवभेदे हरिवं० २४२ अ०। ४ राजर्षिभेदे आ० ७१ अ०। ब्राह्मण्यां नापितेन जाते ५ चण्डामभेदे च तत्कथा भा० आनु० २९ अ०।

मतङ्गज = पुंस्त्री० मतङ्गः मेघ इव जायते जन–ड। १ गजे अमरः तस्य मेघाकृतित्वात् तथात्वम्। स्त्रियां ङीष्। ग्रीष्मे गजानामूष्मणा कुष्ठादिरोगो भवति यथोक्तं कामन्द०

“ऋते त्वम्भो ग्रीष्मकृतात् प्रतापाद्भवन्ति कुष्ठानि मतङ्गजानाम्। स्वस्थक्रियाणामपि कुञ्जरणामूष्मा शरीरेष्वभिजाज्वलीति। आयासयोगेन हि सम्प्रवृद्धः प्रसह्य हन्ति द्विरदान् प्रतापः। सर्वाणि गत्त्वानि खलूष्मकाले बिनाम्बुना यान्ति परामवस्थाम्। अन्धत्वमुष्णप्रवितप्तकायाः प्रयान्ति सद्यः करिणोऽपिबन्तः।”

मतङ्गवापी = स्त्री तीर्थभेदे भा० अनु० ३० अ०।

मतम्न = पु० पार्श्वस्थे आम्रफलाकृतिवुक्वे ऋ० १०। १६३। ३ भा०

मतल्लिका = स्त्री मतं मतिमलति भूषयति ण्वुल् पृषो०। प्रशस्ते अमरः। अव्युत्पन्नोऽयमित्येके नियतलिङ्गोऽयम् सि० कौ०।

मतानुज्ञा = स्त्री निग्रहस्थानभेदे गौ० सू० तल्लक्षणमुक्तं यथा “स्मपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो मतामुज्ञा” “यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्यानुद्धृत्य वदति भवत्पक्षे समानो दोष इति स स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषं प्रसन्जयन् परमतमनुजानातीति मतानुज्ञां नाम निग्रहस्थानमापद्यते” भा०।

मति = स्त्री मन–भावे क्तिन्। १ ज्ञाने अमरः। २ इच्छायां ३ स्मृतौ च। कर्त्तरि क्तिच्। ४ आर्य्ये मेदि० ५ शाकभेदे अजयपालः। ६ मेधाविनि निघण्टुः। ७ मतिकरौषधं गरु० १९८ अ० उक्तं यथा “पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम्। वचात्रिकटुकञ्चैव लवणं चूर्णमुत्तमम्। ब्राह्मीरसे भावितञ्च सर्पिर्मधुसमन्वितम्। सप्ताहभक्षितं कुर्य्यान्तदैश्वर्य्यं मतिं पराम्।”

मतिदा = स्त्री मतिं द्यति दो–क। १ ज्योतिष्मतीलतायाम् (शिमुडी) राजनि०। दा–क। २ बुद्धिदातरि त्रि०।

मतिनीर = पु० नृपभेदे भा० आ० ९४ अ०।

मतिभ्रम = पु० मतेर्भ्रमः अयथार्थविषयत्वेन भ्रमणम्। १ बुद्धिभ्रंशे भ्रान्तौ अमरः। भ्रम–भावे क्तिन्। मतिभ्रान्तिरप्यत्र स्त्री।

मतिविभ्रम = पु० मतेर्बिभ्रमोऽत्र। उन्मादरोगे राजनि०। मतिभ्रंशादयोऽप्यत्र।

मतुख = त्रि० १ मतगाथके ऋ० ९। ७१। ५। २ मेधाविनि निघ०।

मत्क = पु० मद–क्विप् स्वार्थे क। १ मत्कुणे (छारपोका) ममेदम् कन् मदादेशः। २ मत्सम्बन्धिनि “नैतन्मतं मत्कमिति ब्रुवाणः” भट्टिः।

मत्कुण = पु० मद–क्विप् कुणति कुण–अच् कर्म०। १ कीटभेदे (छारपोका) राजनि०। २ निर्दन्तगजे ३ श्मश्रुशून्यपुरुषे ४ नारिकेले मेदि० ५ जङ्घात्राणे हेम०। ६ अजातलोमभगायां स्त्रियां स्त्री शब्दर०।

मत्कुणारि = पु० ६ त०। (सिद्धि) भङ्गायां शब्दमाला। तत्सम्पर्केण हि तस्य नाशः।

मत्कुणिका = स्त्री कुमारानुचरमातृभेदे भा० श० १७ अ०।

मत्त = पु० मद–क्त। १ दुर्मदे गजे अमरः। २ क्षीवे ३ मदयुक्ते ४ हृष्टे च त्रि०। ५ धुस्तूरे ६ कोकिले ७ महिषे पु० राजनि० मत्तं मदोऽस्त्यस्याम् अच्। ८ मदिरायां स्त्री राजनि०। “ज्ञेया मत्ता मभनगयुता” वृ० र० उक्ते ९ दशाक्षरपादके छन्दोभेदे स्त्री।

मत्तकाशि(सि)नी = स्त्री मत्तेव क्षीवेव काशते कसति गच्छति वा णिनि पृषो० ह्रस्वः। उत्तमयोषिति अमरः।

मत्तकीश = पु० मत्तः कीश इव। गजे शब्दमा० स्त्रियां जातित्वात् ङीष्।

मत्तमयूर = पु० मत्तो मयूरो यस्मात्। १ मेघे “वेदैरन्ध्रैर्म्तौ यसगा मत्तमयूरम्” वृ० र० उक्ते त्रयोदशाक्षरपादके २ छन्दोभेदे च।

मत्तवारण = पु० कर्म०। १ मत्तहस्तिनि। मत्तं वारयति वृ–णिच् ल्यु। २ प्रासादवरण्डे न० (वारेण्डा) हेमच०। ३ पूगचूर्णे शब्दमा०।

मत्ताक्रीडा = स्त्री “मत्ताक्रीडा मौ त्नौ नौ नल्गिति भवति वसुशरदशयतियुता” वृ० र० उक्ते त्रयोविंशत्यक्षरपादके छन्दोभेदे।

मत्तालम्ब = पु० मत्तैरालम्ब्यते आ + लवि–कर्मणि घञ्। (वारेण्डा) प्रासादवरण्डं हेमच०।

मत्तेभविक्रीडित = न० “सभरा न्मौ यलगास्त्रयोदशयतिर्मत्तेभविक्रीडितम्” वृ० र० टी० उक्ते एकविंशत्यक्षरपादके १ छन्दोभेदे। ६ त०। २ मत्तगजक्रीडायाञ्च।

मत्य = न० मते समीकरणे साधु यत्। कृष्टक्षेत्रस्य समीकरणसाधने १ फलकभेदे (मै) “सप्तास्थितेन मत्येन मतीकरोति” ताण्ड्य० ब्रा० २। ९। २। “यथा लोके सप्तास्थितेन सप्तभिरनडुद्भिः सप्तभिस्तौक्ष्णमागैः शङ्कुभिर्वा अधिष्ठितेन मत्येन मत्यन्नाम कृष्णस्य क्षेत्रस्य समीकरणादिसाधनं फलकम्। तेन मतीकरोति समीकरणार्थं कर्षकः प्रव्रजति क्षेत्रम्” भा० २ दात्रादिमुष्टौ हेम०

मत्र = गुप्तभाषणे चु० आ० सक० सेट् इदित्। मन्त्रयते अममन्त्रत।

मत्स = पुंस्त्री० मद–स। मत्स्ये उणा०।

मत्सगण्ड = पु० मत्सेन गण्डो लेपोऽत्र (माछेरथण्ट) व्यञ्जनभेदे शब्दच०।

मत्सर = पु० मद–सरन्। १ अन्यशुभद्वेषे परसम्पत्त्यसहने २ क्रोधे च ३ तद्वति ४ कृपणे च त्रि० अमरः। ५ कीटभेदे मक्षिकायां स्त्री विश्वः। मत्सरश्च “निन्दन्ति मां सदा लोका धिनस्तु मम जीवनम्। इत्यात्मनि भवेद्यस्त धिक्कारः स श्च मत्सरः” किया- योगसारोक्तः। “स्वप्रयोजनप्रतिसन्धानं विना पराभिगतनिवारणेच्छा।” गौ० वृ० उक्तश्च बोध्यः।

मत्स्य = पु० मद–स्यन्। (माछ) १ मीने २ जलचरभेदे स्त्रियां ङीष् यलोपः मत्सी। तद्भेदगुणादि भावप्र० उक्तं यथा तत्र मत्स्येषु रोहितस्य “रक्तोदरो रक्तमुखो रक्षाक्षो रक्तपक्षतिः। कृष्णपुच्छो झषश्रेष्ठो रोहितः कथितो बुधैः। रोहितः सर्वमत्स्यानां वरो वृष्योऽर्दितार्त्तिजित्। कषायानुरसः स्वादुर्वातघ्नो नातिपित्तकृत्। ऊर्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम्।” (सिलन्धा) “सिलन्धः श्लेष्मलो बल्यो विपाके मधुरो गुरुः। वातपित्तहरो हृद्य आमवातकरश्च सः।” (अथ भांगन) “भङ्कुरो मधुरः शीतो वृष्यः श्लेष्मकरो गुरुः। विष्टम्भजनकश्चापि रक्तपित्तहरः स्मृतः”। (मोमाचिका) “मोचिका वातहृद्बल्या वृंहणी मधुरा गुरुः। पित्तहृत् कफकृद्रुच्या वृष्या दीप्ताग्नये हिता। (वोदाल) “पाठीनः श्लेष्मलो वल्यो निद्रालुः पिशिताशनः। दूषयेद्रुधिरंपित्तकुष्ठरोगं करोति च।” (अथ सीङ्गी) “शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपनी। रसे तिक्ता कपाया च लघ्वी रुच्या स्मृता बुधैः।” (अथ हीलसा) “इल्लसो मधुरः स्निग्धो रोचनो वह्निवर्द्धनः। पित्तहृत्कफकृत्किञ्चिल्लघुर्वृष्योऽनिलापहः।” (अथ सौल) “शष्कुली ग्राहिणी हृद्या मधुरा तु वरा स्मृता।” अथ (गर्गरा) “गर्गरः पित्तलः किल्लिद्वातजित् कफकोपनः।” अथ (कवै) “कविका मधुरा स्निग्धा कफघ्नी रुचिकारिणी। किञ्चित्पित्तकरी वातनाशिनी वह्निवर्द्धिनी।” अथ(वर्मी) “वर्मिमत्स्यो हरेद्वातं पित्तं रुचिकरो राधुः।” अथ (दण्डारी) “दण्डमत्स्यो रसे तिक्तः पित्तरक्तं सफं हरेत्। वातसाधारणः प्रोक्तः शुक्रलो बलवर्द्धनः।” (व्यथ आडि) “एरङ्गो मधुरः स्निग्धो विष्टम्भी शीतलो लवुः।” (अथ पावता) “महाशफरसंज्ञस्तु तिक्तः पित्तकफापहः। शिशिरो मधुरो रुच्यो वातसाधारणः स्मृतः।” अथ (गरुइ) “गरघ्नी मधुरा तिक्ता तुवरा बातपित्तहत्। कफघ्नी रुचिकृल्लध्वी दीपनी बलवीर्य्यक्वत्।” अथ (मागुर) “मद्गुरो वातहद्वल्यो वृष्यः कफकरो लघुः। अथ टेङ्गरा “सपादमत्स्यो कत् श्लेष्मक्षयकरश्च सः। वातपित्तकरश्चापि परमो मतः।” अथ शफरी (पोठी) “प्राष्ठी तिक्ता कटुः स्यादुः शुक्रघ्नी कफवातजित्। स्तिग्धास्य कण्ठरीगघ्नी रोचनी च लघुः स्मृतः।” अथ क्षुद्रमत्स्याः “क्षुद्रा मत्स्याः स्वादुरसाः दोषत्रयविनाशनाः। लथुपाका रुचिकरा बलदास्ते हिता मताः।” अथातिक्षुद्रमत्स्याः “अतिसूक्माः पुंस्त्वहरा रुच्याः कासानिलापहाः।” अथ मत्स्याण्डः “मत्स्यगर्भो भृशं वृष्यः स्निग्धः पुष्टिकरो लघुः। कफमेहप्रदो बल्यो ग्लानिकृन्मेहनाशनः।” अथ (शुक्टी) “शुष्कमत्स्याः नवा बल्याः द्जराः विड्विबन्धिनः।” अथ दग्धमत्स्याः “दग्धमत्स्यो गुणैः श्रेष्ठः पुष्टिकृद्बलबर्द्धनः। अथ कूपजादिमत्स्यगुणाः “कौपमत्स्याः शूक्रमूत्र कुष्ठश्लेष्म विवर्द्धनाः। सरोजा मधुराः स्निग्धा बल्या वातविनाशंनाः। नादेया वृंहणा मत्स्या गुरवोऽनिलनाशनाः। रक्तपित्तकरा वृष्याः स्निग्धोष्णाः स्वल्पवर्चसः। चौञ्जाः पित्तकराः स्निग्धा मधुरा लघबो हिमाः। ताडागा गुरवो वृष्याः शीतलाः बलमूत्रदाः। ताडागावक्षिप्तजाताः बलायुर्मतिदृक्कराः।” चथर्त्तुविशेषे मत्स्यविशेषगुणाः “हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः। वसन्ते ते तु नादेया ग्रीष्मे चौञ्जसमुद्भवाः। तडागजाता वर्षासु तास्यपथ्या नदीभवाः। नैर्झराः शरदि श्रेष्ठा विशेषोऽवसुदाहृतः।” तद्भक्षणनिषेधादिकम् “यो यस्य मांसमश्नाति स तन्मांसाद उच्यते। मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान् विवर्जयेत्” मनुः। “जलस्थलचरा ये च प्राणिनस्तान् मृतानपि। न भक्षेन् मानवो ज्ञानी हन्ता तेषां मवेन्नहि। हत्वा हत्वा तु मत्स्याशी सर्वेषां यो विशेषतः। मांसादः प्राणिनां गोऽपि तस्मान् मत्स्यं परित्यजेत्”। पाद्मोत्तरखण्डे १०५ अ०। वर्जनीया मत्स्या यथा। “शृणु देवि! प्रवक्ष्यामि मांसभेदान् निवोध मे। नादेयं तिक्तकमठं पशुं शृङ्गिणमेव च। गोमीनं चक्रशकुलं वडालं राघवं तथा। वामीनं चलकर्णञ्च सचक्रं चेङ्गमेव च। भूबिलञ्चानिरुद्धञ्च गाङ्गेयानि विवर्जयेत्” मत्स्यंसूक्तमहातन्त्रम्। रविवारे मत्स्यभक्षणे निषेधो यथा “आमिषं रक्तशाकश्च यो भुङ्क्ते च रवेर्दिने। सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते” भविष्यपु०। “माषमामिषमांसञ्च मसूरं निम्बपत्रकम्। भक्षयेद् यो रवेर्वारे सप्तजन्मान्यपुत्रकः” ति० त०। “कार्त्तिके मत्स्यभक्षणनिषेधो यथा “न मत्स्यं भक्षयेन्तांसं न कौर्म्यं गान्यदेव हि। चण्डालो जायते राजन्! कार्त्तिके मांसभक्षणात्” नारदीयपु०। माघवैशाखयोर्हविष्य ब्रह्मचर्य्यविधानात् मत्स्यभक्षणं नितरां निषिद्धमिति कृत्यतत्त्वम्। “नाभक्ष्यं नैवेद्यार्थे भक्ष्येष्वजामहिषीक्षीरं वर्जयेत् पञ्चनखमत्स्यवराहमांसानिच” आह्नि० त० विष्णुसूत्रम्। जन्मतिथौ मत्स्यभक्षणनिषेधो यथा “आमिषं कलहं हिंसां वर्षवृद्धौ विकर्जयेत्” “भुङ्क्ते यस्तु निरामिषं स हि भवेज्जन्मान्तरे पण्डितः” ति० त०। शैवस्य मत्स्यभक्षणनिषेधो यथा “क्व मद्यं क्व शिवे भक्तिः क्व मांसं क्व शिवाचनम्। मत्स्यमांसरतानां वै दूरे तिष्ठति शङ्करः” काशीख०। विन्ध्यपर्वतस्य पश्चिमे मत्स्यभक्षणनिषेधो यथा “विन्ध्यस्य पश्चिमे भागे मत्स्यभुक् पतितो नरः” पुराणम्। कामतो मत्स्यभक्षणप्रायश्चित्तं यथा “मत्स्यांस्तु कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत्” अज्ञानतस्तदर्द्धम्” प्रा० वि०। मत्स्यभक्षणनिषेधे प्रतिप्रसवो यथा “मत्स्यान् सशल्कान् भुञ्जीत मांसं रौस्वमेव च। निवेद्य देवताभ्यश्च ब्राह्मणेभ्यश्च नान्यथा। शफसं सिंहतुण्डञ्च तथा पाठीनरोहितौ। मत्स्यास्त्वेते समुद्दिष्टा भक्षणाय तपोधनैः। प्रोक्षितं भक्षयेदेषां मांसञ्च द्विजकाम्यया। यथाविधि नियुक्तश्च प्राणानामपि चात्यये” कौर्मे पु० १६ अ०। “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः। राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः” मनुः। “अनिवेद्य न भोक्तव्यं मत्स्यं मांसञ्च यद्भवेत्। अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम्” आ० त०। प्रेतश्राद्धे मत्स्यदानविधिर्यथा “सपिण्डीकरणं यावत् प्रेतश्राद्धानि षोडश। पक्वान्ने बैव कर्त्तव्यं साभिषेण द्विजातिभिः” श्राद्ध० त०। २ विराटदेशे पु० सोऽभिजनोऽस्य तस्य राजा वा अण्। मात्स्य प्रित्रादिक्रमेण तद्देशवासिनि तस्य नृपे च बहुषु अणो लुक्। ३ तद्देशवासिषु ब० व०। ४ मेषादितोद्वादशराशौ मीनराशौ। ५ भागवतः प्रथमावतारे तत्कथा मत्स्यपु० २ अ०। भा० व० १८७ अ० च। मत्स्यं भगवदवतारभेदमधिकृत्य कृतो ग्रन्थः अण्। मात्स्य महापुराणभेदे तत्प्रतिपाद्यविषयाश्च तत्रैव २९० अ० उक्ता यथा “सूत उवाच। एतद्वः कथितं सर्वं यद्क्तं विश्वरूपिणा। मात्स्यं पुराणमखिलं धर्मकामार्थसाधनम्। यत्रादौ मनुसंवादो व्रह्माण्डकथनन्तथा। साङ्ख्यं शारीरकं प्रोक्तं चतुर्मुखमुखोद्भवम्। देवासुराणा मुत्पत्तिर्मारुतोत्पत्तिरेव च। मदनद्वादशी तद्वल्लोकपालाभिपूजनम्। मन्वन्तराणामुद्देशो वैन्यराजाभिवर्णनम्। सूर्य्याद्वैवस्वतोत्पत्तिर्बुधस्याममनं तथा। पितृवंशानुकथनं श्राद्धकालस्तथैव च। पितृतीर्थप्रवासश्च सोमोत्पत्तिस्तथैव च। कीर्त्तनं सोमवंशस्य ययातिचरितं तथा। कार्त्तवीर्य्यस्य माहात्म्यं वृष्णिवंशानुकीर्त्तनम्। भृगुशापस्तथा विष्णोर्दैत्यशापस्तथैव च। कीर्त्तनं पुरुषेशस्य वंशो हौताशनस्तथा। पुराणकीर्त्तनं तद्वत् क्रियायोगस्तथैव च। व्रतं नक्षत्रसंख्याकं मार्कण्डशयनं तथा। कृष्णाष्टमीव्रतं तद्वद्रोहिणी चन्द्रसंज्ञितम्। तडागविधिमाहात्म्यं पादपोत्सर्ग एव च। सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च। तथानन्ततृतीया तु रसकल्याणिनी तथा। आर्द्रा नन्दकरी तद्वद् व्रतं सारस्वतं पुनः। उपरागाभिषेकश्च सप्तमीस्नपनं पुनः। भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा। अशून्यशयनं तद्वत्तथैवाङ्गारकव्रतम्। सप्तमीसप्तकं तद्वद्विशोकद्वादशी तथा। मेरुप्रदानं दशधा ग्रहशान्तिस्तथैव च। ग्रहस्वरूपकथनं तथा शिवचतुर्दशी। तथा सर्वफलत्थागः सूर्य्यवारव्रतं तथा। संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम्। षष्टिव्रतानां माहात्म्यं तथा स्नानविधिक्रमः। प्रयागस्य तु माहात्म्यं सर्वतीर्थानुकीर्त्तनम्। पैलाश्रमफलं तद्वद्द्वीपलोकानुकीर्त्तनम्। तथान्तरिक्षचारश्च ध्रुवमाहात्म्यमेव च। भवनानि सुरेन्द्राणां त्रिपुरायोधनं तथा। पितृपिण्डदमाहात्म्यं मन्वन्तरविनिर्णयः। वज्राङ्गस्य तु संभूतिः तारकोत्पत्तिरेव च। तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्त्तनम्। पार्वतीसम्भवस्तद्वत् तथा शिवतपोवनम्। अनङ्गदेहदाहस्तु रतिशोकस्तथैव च। गौरीतपोवनं तद्वद्विश्वनाथप्रसादनम्। पार्वत ऋषिसंवादस्त्रथैवोद्वाहमङ्गलम्। कुमारसम्भवस्तद्वत् कुमारविजयस्तथा। तारकस्य वधो घोरी नरसिंहोपवर्णनम्। पद्मोद्भवविसर्गस्तु तथैवान्धकघातनम्। वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च। प्रवरानुक्रमस्तद्वत् पितृनाथानुकीर्त्तनम्। तथोभयमुखीदानं दानं कुष्णाजिनस्य च। तथा सावित्र्युपाख्यानं राजथर्मास्तथैव च। यात्रानिमित्तकथनं स्वप्नमाङ्गल्यकीर्न्तनम्। वामनस्य तु माहात्म्यं तथैवादिवराहकम्। क्षीरोदमयनं तद्वत् कालकूटाभिशासनम्। प्रासादलक्षणं तद्वन्मण्डपानान्तु लक्षणम्। पुरुबंशे तु संप्रोक्तं भविष्यद्राजवर्णनम्। तुलादानादि बहुशो महादानानुकीर्त्तनम्। कल्पानुकीर्त्तनं तद्वद् ग्रन्थानुक्रमणी तथा। एतत्पवित्रमायुष्यमेतत् कीर्त्तिविवर्धनम्। एतत् पवित्रं कल्याणं महापापहरं शुभम्। अस्मात् पुराणादपि पादमेकं पठेत्तु यः सोऽपि विमुक्तपापः। नारायणाख्यं पदमेति नूनमनङ्गवद्दिव्यसुखानि भुङ्क्ते।” तद्दानविधिः मत्स्यपु० “श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः। मत्स्यरूपी च मनवे नरसिंहोपवर्णनम्। अधिकृत्याब्रवीत् सप्तकल्पवृत्तमनुव्रताः!। तन्मानमिति जातीध्वं सहस्राणि चतुर्दश। विष्णवे हेममत्स्येन धेन्वा चै। समन्वितम्। यो दद्यात् पृथिवी तेन दत्ता भवति चाखिला”।

मत्स्यकरण्डिका = स्त्री मत्स्यानां करण्डिकेवाधारः। (खालुइ) मत्स्यरक्षणाधारे पात्रभेदे जटा०।

मत्स्यगन्धा = स्त्री मत्स्यस्येव गन्धोऽस्याः। १ व्यासमातरि सत्यवत्याम् भा० आ० ६३ अ०। २ जलपिप्पल्याञ्च जटा०

मत्स्यघण्ट = पु० स्वनामख्याते व्यञ्जनभेदे शब्दच०।

मत्स्यजाल = न० मत्स्यधारणं जालम् शा० त०। मत्स्यधारणार्थे जालभेदे हेलच०।

मत्स्यजीविन् = पु० मत्स्येन तद्धारणविक्रयादिना जीवति जीव–णिनि। निषादे “मत्स्यघातो निषादानाम्” मनुना तस्य तज्जीविकोक्तेस्तस्य तथात्वम्।

मत्स्यण्डी = स्त्री (राव) ख्याते गुडविकारभेदे भावप्र० “इक्षो रसो यः संपक्वो धनः किञ्चिद्द्रवान्वितः। मदवत् स्यन्दते यस्मान्मत्स्यण्डीति निगद्यते”। अस्या गुणाः “मत्स्यण्डी भेदिनी बल्या लष्वी पितानिलापहा। मधुरा वृंहणी वृष्या रक्तदोषापहा पाता”।

मत्स्यद्वीप = पु० मत्स्यप्रधानो द्वीपः शा० त०। द्वीपभेदे विष्णुपु०

मत्स्यधानी = स्त्री मत्स्या धीयन्तेऽस्यां धा–आधारे ल्युट् ङीप्। मत्स्यरक्षणाधारे (खालुइ) पात्रभेदे अमरः।

मत्स्यनाशन = पुंस्त्री० मत्स्यान् नाशयति ल्यु। १ कुररखगे हेमच०। स्त्रियां जातित्वात् ङीष् ण्वुल्। मत्स्यनाशकोऽपि तत्रार्थे उभाद्वपि २ मीनधातके त्रि०।

मत्स्यपित्ता = स्त्री मत्स्यस्य पित्तनिव रसोऽस्त्यस्याः अच्। कटुरोहिण्याम् (कट्की) अमरः।

मत्स्यबन्धक = त्रि० मत्स्यान् बध्नाति बन्ध–ण्वुल्। १ मीनधारके “नृपायामेव तस्यैव जातो मत्स्यवन्धकः” उशनसोक्ते सङ्कीर्णजातिभेदे २ धीवरे पुंस्त्री०। स्त्रियां जातित्वात् ङीष्। णिनि। मत्स्यबन्धिन् तत्रार्थे मत्स्यधान्यां स्त्री ङीप् हला०।

मत्स्यमुद्रा = पूजाङ्गे मुद्राभेदे “दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत्। अङ्गुष्ठौ चालयेत् सम्यक् मुद्रेयं मत्स्यरूपिणी। मत्स्यमुद्रा च कूर्म्माख्या लेलिहा मुण्डसंज्ञिकाः। महायोनिरिति ख्याता सर्वसिद्धिसमृद्धिदा” तन्त्रसारः। “श्यामादौ मुण्डमुद्रिका। “मत्स्यकूर्मलेलिहाख्या मुद्रा साधरणी मता” तत्रोक्तम्।

मत्स्यरङ्ग = पुंस्त्री० मत्स्ये रजति रन्ज–कर्त्तरि संज्ञायां घञ्। (माछराङ्गा) पक्षिभेदे हारा० “त्रिभुवनविदितो हा भत्स्यरक्ते कलङ्कः” उद्भटः। स्त्रियां ङीष्।

मत्स्यराज = पु० ६ त०। १ रोहितमत्स्ये त्रिका०। २ विराटनृपे “नगरं मत्स्यराजस्य” भा० व० ७२ अ०। तस्य मत्स्यदेशाधिपत्वात् तथात्वम्।

मत्स्यविन्ना = स्त्री विद–लाभे क्त मत्स्यो मत्स्यरसो विन्नो यया तुल्यतिक्तत्वात्। कटुक्याम् वैद्यकम्।

मत्स्यवेधन = न० मत्स्यो विध्यतेऽनेन विध–करणे ल्युट्। १ वडिशे अमरः स्त्रीत्वमपि जटा० ङीप्। कर्त्तरि ल्यु। २ मद्गुपक्षिणि (पानकौडि) स्त्री जटा०।

मत्स्यसन्तानिक = पु० व्यञ्जनभेदे “दग्धाऽङ्गारे सलवणा वेशबारैरुपस्कृतः। सार्द्रकः कटुतैलेन मत्स्यसन्तानिको मवेत्” शब्दच०।

मत्स्याक्षी = स्त्री मत्स्यस्याक्षीवाकारोऽस्याः षच्समा० ङीष्। १ गण्डदूर्वायां राजनि० २ सोमलतायाम् ३ हिलमोचिकायाम् ४ ब्राह्मीशाके रत्नमाला।

मत्स्याङ्गी = स्त्री मत्स्यः तत्पित्तमिवाङ्गं तिक्तत्वात् यस्याः ङीष्। हिलमोचिकायाम् त्रिका०।

मत्स्यादनी = स्त्री मत्स्य इवाद्यते आस्वाद्यते अट–कर्मणि ल्युट्। जलपिप्पल्याम् राजनि०।

मत्स्याशन = पुंस्त्री० मत्स्यमश्नाति अश–ल्यु। (माछराङ्गा) खगे त्रिका० स्त्रियां ङीष्

मत्स्यासन = न० रुद्रयामलोक्ते आसनभेदे “अथ मत्स्यामनं पृष्ठे हस्तोपरिकराङ्गुलि। पादयुगलमानेन वृद्वाङ्गुष्ठस्य योजनम्”।

मत्स्योदरी = स्त्री मत्स्यगन्धयुक्तमुदरमस्याः। १ व्यासमातरि मत्स्यगन्धायां २ काशीस्थे तीर्थभेदे च काशी० ६९ अ० “दुर्गाणि तैः कृतानीह सप्त स्वर्गसमानि च। सद्वाराणि सयन्त्राणि कवाटविकटानि च। कोटिकोटिभटाद्यानि सर्वर्द्धिसहितान्यपि। ततः शैलमहादुर्गं तैः काशीं परितः कृतम्। परिखा च कृतालिन्दा मत्स्योदर्य्या जलाबिला। मत्स्योदरी द्विधा जाता वहिरन्तश्चरा पुनः। तस्य तीर्थं महत् ख्यातं मिलितं गाङ्गवारिणि। यदा संहारमार्गेण गङ्गाम्भः प्रसरेदिह। तदा मत्स्वोदरीतीर्थं लभ्यते पुण्यगौरवात्। सूर्य्याचन्द्रमसोः पर्व तदा कोटिगुणं शतम्। सर्वपर्वाणि तत्रैव सर्वतीर्थानि तत्र वै। तत्रैव सर्वलिङ्गानि गङ्गामत्स्योदरी यतः। मत्स्योदर्य्याञ्च ये स्नाता यत्र कुत्रापि मानवाः। कृतपिण्डप्रदानास्ते न मातुरुदरेशयाः। अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात्। परितः स्वर्धुनीवारिसंहारे परितोवृते। मत्स्योदर्य्यां कृतस्नाना ये नरास्ते नरोत्तमाः। कृत्वापि बहुपापानि नेक्षन्ते भास्करेः पुरीम्। किं स्नात्वा बहुतीर्थेषु किं तखा दुष्करं तपः। यदि मत्स्योदरीस्नाताः कुतो गर्भभयं ततः। यत्र यत्र हि लिङ्गानि नृदेवर्षिकृतान्यपि। तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम्। सन्ति तीर्थान्यनेकानि भूर्भुवःस्वर्गतान्यपि। न समानि परं तानि कोट्यंशेनापि निश्चितम्। इत्थं तीर्थं कृतं तेन विभो! कैलासवासिना। सणाधिपेन सुमहत् सुमहोदारकर्मणा।”

मथ = विलोडने भ्वा० पर० सक० सेट्। मथति पदित् अमथीत् ज्वला० वा ण। मथः माथः। ऋदित् चङि न ह्रस्वः।

मथ = बधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित्। मन्थति अमन्थीत् मन्थ्यते।

मथन = न० मथ–ल्युट्। १ बधे २ क्लेशे ३ विलोडने च। “क्षीरोदमथनोद्भूता” चन्द्रस्तवः। ४ गणिकारिकावृक्षे पु० रत्नमा०।

मथित = न० मथ–क्त। १ निर्जलतक्रे २ पीडिते ३ हते च त्रि०।

मथु(थू)रा = स्त्री मथ–उ(ऊ)रच्। स्वनामख्यातायां नगर्य्याम। “अयोध्या मथुरा माया काशी काञ्ची अवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” काशी० ख०। तन्माहात्म्यं विष्णुपु० ६ अंशे ८ अ०। वराहपु० २७ अ०। ततः चतुरर्थ्यां वरणा० अण्। माथुर तत्पुर्य्यदूरभवे त्रि०। मथूराप्यत्र द्विरूपको०।

मथुरेश = पु० ६ त०। श्रीकृष्णे शब्दर०। मथुरानाथादयोऽप्यत्र

***