भेक = पुंस्त्री० भी–कन् कस्य नेत्त्वम्। (व्याङ) १ जन्तुभेदे अमरः स्त्रियां जातित्वात् ङीष्। “तेजःसद्योबलकरः भ्रमतृड्दाहमेहनुत्। स्वापकुष्ठच्छर्दिनाशी भेकस्तु परिकीर्त्तितः” राजनि०। २ मेघे मेदि० ३ मण्डूकपर्ण्यां स्त्री ङीप् अमरः
भेकट = पु० भेक इव टलति टल–ड। मत्स्यभेदे द्विरूपकोषः।
भेकनि(लि) = पु० (भाङ्गन) मत्स्यभेदे राजव०।
भेकपर्णी = स्त्री भेक इव पर्णमस्याः ङीप्। मण्डूकपर्ण्याम्
भेकभुज् = पु० भेकं भुङ्क्ते भुज–क्विप्। सर्पे त्रिका०।
भेकासन = न० रुद्रयामलोक्ते पूजाङ्गे आसनभेदे तल्लक्षणं यथा “भेकनामासनं योगं निजवक्षसि स्वं मुखम्। निधाय पादयुगलं स्कन्धे बाहौ पदोपरि। ध्यायेदिष्टपदं श्रीमात्र आसनस्थः सुखाच्च तत्। यदि सर्वाङ्गमुत्तोल्य गगने खेचरासनम्। महाभेकासनं प्रोक्तं सर्वसिद्धिप्रदायकम्। महाविद्यामहामन्त्रं पाषोति जपतीह यः”।
भेकुरि = स्त्री अप्सरोरूपे नक्षत्रे “सुषुम्णः सूर्य्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम” यजु०। १८। ४० “तस्य चन्द्रमसः नक्षत्राणि नाम अप्सरसः कीदृश्यः भेकुरयः भां कान्तिं कुर्वन्तीति भेकुरयः पृषोदरादित्वात्साधुः “चन्द्रमाह गन्धर्वो नक्षत्रैरपसरोभिर्मिथुनेन सहोच्चक्रामभेकुरयो नामेति भेकुरयोह नामैते भां हि नक्षत्राणि कुर्वन्नीति” शत० ब्रा० ९। ४। १। ९।
भेड = पुंस्त्री० भी–ड तस्य नेत्त्वम्। मेषे (भेडा) हेमच० स्त्रियां ङीष्।
भेड्र = पुंस्त्री० भेड + पृषो०। मेषे त्रिका० स्त्रियां ङीष्।
भेद = पु० भिद–घञ्। १ पृथक्करणे २ अन्यतो विशेषे राज्ञामुपायभेदे विपक्षशासनार्थं ३ तत्पक्षीयामात्यादिभेदने ४ न्यायमतोक्ते अन्योऽन्याभावे च यथा घटात् पटस्य भेदः (तादात्म्येनाभावः) उपायभेदभेदप्रकारो यथा “परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः। तेषां भेदं प्रयुञ्जीत परमं दर्शयेत् भयम्। आत्मीयान् दर्शयेदाशां येन दोषेण विभ्यति। परास्तेनैव ते भेद्या रक्ष्यो वै ज्ञातिभेदकः। सामन्तकोपो बाह्यस्तु मन्त्र्य मात्यात्मजादिकः। अन्तःकोषञ्चोपशाम्यं कुर्वन् शत्रीश्च नं जयेत्” अग्निपु० २२५ अ०। ५ द्वैधे ६ विदारणे मेदि०। ७ विरेके वैद्यकम्।
भेदक = त्रि० भिद–ण्वुल्। १ रेचके २ विदारके ३ भेदकारके ४ विशेषणे च। “स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः। गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः” अमरः
भेदन = त्रि० भेदयति भिद–णिच्–ल्यु। १ विरेचने २ विशेषणे च ३ हिङ्गौ न० ४ शूकरे ५ अम्लवेतसे च पु० राजनि०। भिदभावे ल्युट्। ६ विदारणे ७ द्वैधीकरणे न०।
भेदित = त्रि० भिद–णिच्–क्त। १ विदारिते भिन्ने च “आद्वयं हृदये, शीर्षे वषट् वौषट् च मध्यमे। स एव भेदितो मन्त्रः सर्वशास्त्रविवर्जितः” तन्त्रसारोक्ते ३ मन्त्रभेदे पु०।
भेदिन् = त्रि० भिद–णिनि। १ भेदकारके स्त्रियां ङीप्। २ अम्लवेतसे पु० राजनि०।
भेदुर = न० भिदुर + पृषो०। वज्रे द्विरूपकोषः।
भेद्य = त्रि० भिद–ण्यत्। १ शस्त्रादिना विदार्य्ये २ विशेष्ये च। “त्रिष्वैषां भेद्यगामि यत्” अमरः। भेद्यरोगप्रतिषेधश्च सुश्रुते उक्तो यथा “अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः। स्वेदयित्वा विसग्रन्धिं छिद्रमस्य निराश्रयम्। पक्कं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत्। कासीसमागधीपुष्पनैपाल्ये लायुगेन तु। ततः क्षौद्रं घृतं दत्त्वा सम्यगेवमुपाचरेत्। रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च। प्रतिसारणमेकैकं भिन्ने च गण इष्यते। महत्यपि च युञ्जीत क्षाराग्निविधिकीविदः। स्विन्नां भिन्नां विनिष्पीड्य भिषगञ्जननामिकाम्। शिलैलानतसिन्धूत्थैसक्षौद्रैः प्रतिसारयेत्। रसाञ्जनमधुभ्यां वा भिन्नां वा शस्त्रकर्मवित्। प्रतिसार्य्याञ्जनैर्युञ्ज्यादुष्णैर्दोपशिखोद्भवैः। सम्यक्स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम्। त्रिफलातुत्थकासीससैन्धवैस्तु रसक्रियाम्। भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः। लेखयेन्मण्डलाग्रेण समन्तात् प्रोञ्छयेदपि। संस्नेह्म पत्रभङ्गैश्च स्वेदयित्वा यथासुखम्। आपाकाद्विधिनोक्तेन पञ्च भेद्यानुपाचरेत्। सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम्। सम्पक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम्”।
भेर = पु० भी–रन्। पटहे संक्षिप्तसा०। उज्ज्वलदत्तेन गौरा० ङीष् भेरीत्येवमुक्त्वा भेरी दुन्दुभिरित्युक्तम्।
भेरि(री) = स्त्री भी–क्रिन् वङ्क्य्रा० नि० वा ङीप्। १ वृहड्ढक्कायाम्। २ पटहे “रवः प्रगल्भाहतभेरिसम्भवः” कुमारः उज्ज्वलदत्तः। “ततः शङ्खाश्च भेर्य्यश्च” गीता।
भेरीस्वनमहास्वना = स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ०
भेरुण्ड = न० १ गर्भधारणे शब्दर० २ भयानके त्रि० ३ देवताभेदे कालिपु० “महाविश्वेश्वरी श्वेता भेरुण्डा कुलसुन्दरी” तत्सहस्रनाम। ४ यक्षिणीभेदे स्त्री मेदि०
भेल = त्रि० भी–र रस्य लः। १ पुरे २ भीरुके ३ निर्बुद्धौ ४ मुनिभेदे विश्वः। ५ चञ्चले शब्दर०। स्वार्थे क। भेलक प्लवे उडुपे (भेला) शब्दर०।
भेष = भये भ्वा० उभ० अक० सेट्। भेषति ते अभेषीत् अभेषिष्ट। ऋदित् चङि न ह्रस्वः। अबिभेषत् त।
भेषज = न० भेष–घञ् भेषं रोगभयं जयति जि–ड। १ औषधे। स्वार्थे ष्यञ्। भैषज्य तत्रार्थे भेषजसेवनकालादि भावप्र० उक्तं यथा
“अथ भेषजभक्षणसमयः “भैषज्यमभ्यवहरेत् प्रभाते प्रायशो वुधः। कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः। ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम। किञ्चित् सूर्य्योदये जाते तथा दिवसभोजने। सायन्तने मोजने च मुहुश्चापि तथा निशि। तत्र प्रथमकालः “प्रायः पित्तकफोद्रेके विरेकवमनार्थयोः। लेखनार्थे च भैषज्यं प्रभातेऽनन्नमाहरेत्”। अथ द्वितीयकालः “भैषज्यं विगुणे पाने भोजनाग्रे प्रशस्यते। अरुचौ चित्रभोज्यैश्च मित्रं रुचिरमाहरेत्। समानवाते विगुणे मन्देऽग्नावतिदीपनम्। दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक्। व्यानकोपे तु भैषज्यं भोजनान्दे समाहरेत्। हिक्काक्षेपककम्पेषु पूर्वमन्ते च भोजनात्”। अथ तृतीयकालः “उदाने कुपिते वाते स्वरभङ्गादि कारिणि। ग्रासग्रासान्तरे देयं भैषज्यं सान्ध्यभोजने। प्राणे प्रदुष्टे सान्ध्यस्य भुक्तस्यान्ते प्रदीयते। औषधं प्रायशो धीरैः कालोऽयं स्यात् तृतीयकः”। अथ चतुर्थकालः “मुहुर्मुहुश्च तृट्छर्द्दिहिक्वाश्वासगरेषु च। सान्नञ्च भेषजं दद्यादिति कालश्चतुर्थकः”। अथ पञ्चमकालः “ऊर्ध्वजत्रुविकारेषु लेखने वृंहणे तथा। पाचने शमने देयमनन्नं भेषजं निशि” इति पञ्चमकालः। निरन्नस्य मेषजस्य गुणमाह “वीर्य्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव। तद्बालवृद्धयुवतीमृदुभिश्च पीतम् ग्लानिं परां नयति चाशु बलक्षयञ्च”। सान्नस्य भेषजस्य गुणमाह “शीध्रं विपाकमुपयाति बलेन हिंस्यादन्नावृतन्न च मुहुर्वदनान्निरेति। एतद्धितं स्थविरबालकृशाङ्गनाभ्यः प्राग्भोजनाद्यदशितं किल तच्च तद्वत्” तद्वत् अन्नावृतवत् भेषजमिति शेषः। “औषधशेषे भुक्तं भोजनशेषे यदौषधं पीतम्। न करोति गदोपशमं प्रकोपयत्यन्यरोगांश्च”। पीतमित्युपलक्षणं लीढादिकञ्च। “अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णासुमनस्कताः। लघुत्वमिन्द्रियोद्गारशुद्धिजीर्णौषधाकृतिः। क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छा शिरोरुजः। अरतिर्बलहानिश्च सावशेषौषधाकृतिः”। अथ भेषजभक्षणविधिमाह चरकः “देवान् गुरूंस्तथा विप्रान् पूजयित्वा प्रणम्य च। आशिषश्च समादाय श्रद्धया भेशजं भजेत्। रसायनमिवर्षीणां देवानाममृतं यथा। सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते। ब्रह्मदक्षाश्विरुद्रेन्द्रमूचन्द्रार्कानिलानलाः। देवाश्च सौषधिग्रामा भूमिदेवाश्च पःन्तु वः। औषधं हेम रजतमृद्नाजनपरिस्थितम्। पिबेदाप्तजनस्याग्रे प्रसन्नवदनेक्षणः। विश्रान्तस्तूपविथ्याथ पीत्वा पात्रमधोमुखम्। निःक्षिप्याचम्य सलिलताम्बूलाद्युपयोजयेत्।” २ जल ३ सुणे च निघण्टुः। ४ विष्णौ पु० “निर्वाणं भेषजं भिषक्” विष्णुस०। तद्भक्षणविहितनक्षत्रादिकं ज्यो० त० उक्तं यथा “विष्णुधर्मोत्तरे। हरिं गोद्विजचन्द्रार्कसुराग्नीन् प्रतिपूज्य च। शृण्वन् मन्त्रमिमं पुण्यं विद्वान् भेषजमारभेत्। ब्रह्मदक्षाश्विरुद्रेन्द्राभूचन्द्रार्कानिलानलाः। ऋषयश्चौषधिग्रामाभूतसङ्घाश्च पान्तु ते। रसायनमिवर्षीणां देवानाममृतं यथा। सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते। स्वय मक्षणे तु ते इत्यत्र मे इति वदेत्। अविशेषेण स्वयंभक्षणेऽपि पठेत्। “द्व्यङ्गोदये गुरुबुधेन्दुसितेषु तेषां वारे रवेश्च सुविधौ सुतिधौ सुयोगे। भेषूग्रपन्नगविशाखशिवेतरेषु जन्मर्क्षविष्टिरहितेष्वगदः शुभाय”। “औषधकरणं चित्रायुगे विधियुगे मित्रयुगे लघुषु वारुणविष्णौ। वस्तिविरेचनवेधाः शुभदिनतिथिचन्द्रलग्नेषु”। वस्तिश्चर्मपुटं विरेचनं विरेकः। वेधोव्रणादिवेधः। “पौष्णाश्विनीद्रविणशक्रसमेन्द्रपुष्याहस्तादितीन्दुहरिमूलहुताशमित्रैः, चित्रान्वितैर्भृगुबुधेन्दुरवीज्यवारे भैषज्यपानमचिरादपहन्ति रोगान्। रत्नमालायाम् द्यूनशत्रुनिधनव्ययशुद्धौ सद्गृहेषु निरतां बलबत्सु। आयुषश्च हित्कारिणि योगे कीर्त्तिता नियतमौषसेवा। द्यूनादिषु पापयोगेक्षणशून्येषु। आयुष्मानित्यादिशुभयोगे। भीमपराक्रमे, “भैषज्यपाने गुरुसोमशुक्राः शुभं विलग्नं दिवसोरवेश्च। तिथावरिक्ते करणे च शस्ते योगे च लग्ने द्विशरीर संज्ञे”। तत्रैव “रोहिणी चानुराधा च शस्तमौषधभक्षणे” इति वचनाद्रोहिण्यामपिं। “भैषज्यं सल्लथु मृदुचरे मूलभे द्व्यङ्गलग्ने शुक्रेश्वीज्ये विदि च दिवसे चापि तेषां रवेश्च। शुद्धे रिप्फद्युनमृतिगृहे सत्तिथौ नोजनेभे” मु० चि०। “लघुमृदुचरे अश्विनी पुष्यहस्तचित्रासृगानुराधारेवतीश्रवणधनिष्ठाशततारकस्वातीपुनर्वसुभेषु मूले च भैषज्यम् ओषधं प्रारब्धं भक्षितं वा सत् शुभफलदं भवतीत्यधः तथाचाह श्रीपतिः “पौष्णद्वये चादितिभद्वये च हस्तत्रये च श्रवणत्रये च। मैत्रे च मूले च मृगे च शस्त भैषज्यकर्म प्रवदन्ति सन्तः”। वसिष्ठोऽपि “हस्तत्रये चाश्विनपौष्णभेषु मित्रेन्दुमूलेषु च सूर्य्यवारे। भैषज्यमुक्तं शुभवासरेऽपि”। अथ द्व्यङ्गलग्नें द्विस्वभावराशिषु मिथुनकन्याधनुर्मीनेषु सत्सु शुक्रेन्द्वीज्ये विदि च शुकचन्द्रवृहस्पतिबुधेषु द्विस्वभावलग्नस्थेषु सतसु च पुनस्तेषां शुक्रेन्द्वीज्यबुधानां रवेश्च दिवसे बारे सत्तिथौ रिक्तामारहिते दिने भैषज्यं सत्। उक्तञ्च दीपिकायाम् “द्व्यङ्गोदये गुरुबुधेन्दुसितेषु तेषां वारे रवेश्च सुविधौ सुतिथौ सुयोगे”। अथ रिप्फद्युनमृतिगृहे लग्नात् द्वादशसप्ताष्टमगृहेषु शुद्धेषु शुभपापरहितेषु सत्सु भैषज्यं सत् तत्र वर्षफलप्रश्नादिना सत्यायुर्द्दाययोगे औषधसेवनं हितमित्ययं विशेषो ध्येयः। तदुक्तं श्रीपतिना “द्यूनशत्रु निधनव्ययशुद्धौ सद्ग्रहेषु नितरां बलवत्सु। आयुषश्च हितकारिणि योगे कीर्त्तिता नियतमौषधसेवा”। कश्यपोऽपि “षट्सप्ताष्टान्त्यशुद्धौ च बलिनः शुभखेचराः। आयुर्दाय करे योगे कर्त्तव्या ह्यौषधक्रियेति”। अथ जनेर्भे जन्म नक्षत्रे नो भैषज्यं सत् तदुक्तं दीपिकायां “जन्मनक्षत्रगश्चन्द्रः प्रशस्तः सर्बकर्मसु। क्षौरभैमज्यवादाध्वकर्त्तनेषु च वर्जयेत्।” पी० धा०।
भेषजाङ्ग = न० ६ त०। औषधस्य अनुपेये वस्तुनि शब्दच०।
भैक्ष = न० भिक्षैव तत्समूहो वा अण्। १ भिक्षायां २ भिक्षासमूहे च। भिक्षायां भवः तत्प्रतिपाद्यग्रन्थव्याख्या वा ऋगयना० अण्। ३ भिक्षाभवे त्रि० स्त्रियां ङीप्। ४ तत्प्रतिपादकग्रन्थव्याख्याने च। “भिक्षाशनमनुद्यागात् प्राक् केनाप्य निमन्त्रितम्। अयाचितं तु तद्भैक्षं भोक्तव्यं मनुरब्र वीत्” उशनाः।
भैक्षचर्य्या = स्त्री चर–भावे क्यप् ६ त०। भिक्षाचरणे मनुः २। १०८
भैक्षजीविका = स्त्री ३ त०। भिक्षया जीवने त्रि०।
भैक्षव = न० भिक्षूकाणां समूहः खण्डिका० अञ्। भिक्षुसमूहे।
भैक्ष्य = न० भिक्षाणां समूहः ष्यञ्। १ भिक्षासमूहे। भिक्षैव चातुर्वर्णा० ष्यञ्। २ भिक्षायाम्।
भैदिक = त्रि० भेदं नित्यमर्हति छेदा० ठञ्। नित्यभेदनार्हे
भैम = त्रि० भीमस्य नृपस्येदम् अण्। १ भीमनृपसम्बन्धिनि स्त्रियां ङीप्। सा च २ नलपत्न्यां दमयन्त्याम्। भीमेनोपासिता अण् ङीप्। ३ माघशुक्लैकादश्याम्। एका० त० विष्णुधर्मोत्तरे “मृगशीर्षे शशधरे माघे मासि प्रजायते। एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः। द्वादश्यां षट्तिलाचारं कृत्वा पापात् प्रमुच्यते। तिलस्नायी तिलोद्वत्तीं तिलहोमी तिलोदकी। तिलस्य दाता भोक्ता च षट्तिली नावसोदति”। मत्स्यपुराणे “यद्यष्टम्यां चतुर्दश्यां द्वादश्यामथ भारत!। अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम्। ततः पुण्यामिमां भीमतिथिं प्रापप्रणाशिनीम्। उपोष्य विधिनानेन गच्छेद्विष्णोः परं पदम्। भीमतिथिं भैमीत्वेन ख्यातामेकादशीम्” रघु०
भैमगव = पु० गोत्रभेदे “हरितकुत्सपिङ्गलशङ्घदर्भमैमगवानामाङ्गिरसाम्वरीषयौवनाश्वेति” आश्व० श्रौ० १२। १२। ३
भैमरथ = पु० भीमरथमधिकृत्य कृतो ग्रन्थः। भीमरथाधिकारेण कृते ग्रन्थे
भैमसेन्य = पु० भीमसेनस्यापत्यम् कुरुत्वात् अणि प्राप्ते वार्त्ति० {??}। भीमसेनापणे बा० इञ्। भैमसेनि तत्रार्थे
भैमायन = पुंस्त्री० भीमस्वापत्यं युवा इञन्तात् फक्। भीमण यून्यपत्ये।
भैरव = पु० भीरोरिदम् अण्। १ भये २ तद्वति त्रि० अमरः। नाट्यादिप्रसिद्धे ३ भयानके रसे। ४ भयसाधने त्रि० मेदि० स्त्रियां ङीप्। ५ शङ्करे ६ तदवतारतद्गणभेदे शब्दर० ७ नदभेदे च पु० हेमच०। ८ शिवपत्न्यां स्त्री ङीप्। भैरवभेदानामुत्पत्तिर्वामनपु० २७ अ० यथा “दैत्याधिपः समुत्पत्य हरोरसि गदां क्षिपत्। संहितस्तु महायोगी सर्वाधारः प्रजापतिः। गदापातक्षताद्भूरि चतुर्धाऽसृगथापतत्। पूर्वधारासमुद्भूतो भैरवोऽग्निसमप्रभः। विद्याराजेति विख्यातः पद्ममालाविभूषितः। तथा दक्षिणधारीत्थो भैरवः प्रेतमास्थितः। कामराजेति विख्यातः कृष्णाञ्जनसमप्रभः। नागराजेति विख्यातश्चक्रमालाविभूषितः। क्षतजाद्रुधिराज्जातो भैरवः शूलभूषितः। सच्छन्दराजेति ख्यात इन्द्रायुधसमप्रभः। भूयिष्ठाद्रुधिराज्जातो भैरवः फलमूमितः। ख्यातो लग्वितराजेति शीभाञ्जनसमप्रभः। ततो भूद्देवराजेति भैरवः क्षतजादथ। उग्रराजो बभूवाथ क्षतजाद्भैरवोऽपरः। एवं हि सप्तरूपोऽसौ कथ्यते भैरवोमुने!। विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते।” शारदीयदुर्गापूजायां तस्याश्चाष्टौ भैरवा यथोक्तं ब्रह्मवै० प्र० ख० ६१ अ०। “आदौ महाभैरवञ्च संहारभैरवन्तथा। असिताङ्गभैरवञ्च रुरुभैरवमेव च। ततः कालभैरवञ्च क्रोधभैरवमेव च। ताम्रचूडं चन्द्रचूडम् अन्ते च भैरवद्वयम्। एतान् संपूज्य मध्ये च नव शक्तीश्च पूजयेत्।” कालीपूजादौ पूजनीया भैरवाश्च तन्त्रसारोक्ता यथा “ससिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः। कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः”। ९ शिवगणाधिपभेदे कालि० पु० ४४ अ० यथा “नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा। अङ्गं भूत्वा महेशस्य वीतभीतास्तपोधनाः। यैर्मानुषशरीरेण प्रापिरे तपसोबलात्। गणानामाधिपत्यन्तु ते जानन्ति हरं परम्।” शिवांशकरवीरभूपचन्द्रशेखरस्य पार्वत्यंश तारावतीगर्भजाते १० वेतालसोदरे च यथोक्तं कालिपु० ४५ अ०। “प्रविवेश ततो देवी स्वयं तारावतीतनौ। महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः। कामावसाने तस्यान्तु सद्योजातं सुतद्वयम्। अभवन्नृपशार्दूल! तथा शाखामृगाननम्। ततस्तयोर्नाम चक्रे नारदवचनान्नृपः। ज्येष्ठो भैरबनामाभूत् भीरोः पुत्रो भयङ्करः। वेतालसदृशः कृष्णो वेतालोऽभूत्तथाऽपरः”। अपि च “यीऽसौ भृङ्गी हरसुतो महाकालोऽपि भूगतः। तावेव गौरीशापेन सम्भूय नरयोनिजौ। वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि। यथा भृङ्गिमहाकालावुत्पन्नौ प्राक् तथा शृणु। योऽसौ महाभैरवाख्यः सकायः शारमो हरः। भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः।” देवीभेदेषु शिवरूपभैरवभेदाश्च तीडलतन्त्रे १ पटले उक्ता यथा “शिव उवाच। शृणु चार्वङ्गि! शुभगे! कालिकायाश्च भैरवम्। महाकालं दक्षिणाया दक्षभागे प्रपूजयेत्। महाकालेन वै सार्द्धं दक्षिणा रमते सदा। ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत्। समुद्रमथने देवि! कालकूटं समुत्थितम्। सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः। क्षोभादिरहितं यस्मात् पीतं हालाहलं विषम्। अतएव महेशानि! अक्षोभ्यः परिकीर्त्तितः। तेन सार्द्धं महामाया तारिणी रमते सदा। महात्रिपुरसुन्दर्य्या दक्षिणे पूजयेत् शिवम्। पञ्चवक्त्रं त्रिनेत्रञ्च प्रतिवक्त्रं सुरेश्वरि!। तेन सार्द्धं महादेवी सदा कामकुतूहला। अतएव महेशानि! पञ्चमीति प्रकीर्त्तिता। श्रीमद्भुवनसुन्दर्य्या दक्षिणे त्र्यम्बकं यजेत्। स्वर्गे मर्त्त्ये च पाताले या चाद्या भुवनेश्वरी। एतया रसते तेन त्र्यम्बकस्तेन कथ्यते। सशक्तिश्च समाख्यातः सर्वतन्त्रे प्रपूजितः। भैरव्या दक्षिणे भागे दक्षिणामूर्त्तिर्सज्ञकम्। पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि। छिन्नमस्तादक्षिणांशे कबन्धं पूजयेत् शिवम्। कबन्धपूजनाद्देवि! सर्वसिद्धीश्वरी भवेत्। धूमावती महामिद्या विधवा रूपधाऐणी। वगलाया दक्षभागे एकवक्त्रं प्रपूजयेत्। महारुद्रेति विख्यातं जगत्संहार- कारकम्। मातङ्गीदक्षिणांशे च मतङ्गं पूजयेत् शिवम्। तमेव दक्षिणामूर्त्तिं जगदानन्दकारकम्। कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम्। पूजयेत् परमेशानि! स सिद्धो नात्र संशयः। पूजयेदन्नपूर्णाया दक्षिणांशे च रूपकम्। महामोक्षप्रर्द देवं दशवक्त्रं महेश्वरम्। दुर्गाया दक्षिणे देशे नारदं परिपूजयेत्। नकारः सृष्टिकर्त्ता च दकारः पालकः सदा। रेफसंहाररूपत्वान्नारदः परिकीर्त्तितः। अन्यासु सर्वविद्यासु ऋषिर्यः परिकीर्त्तितः। स एव तस्या भर्त्ता च दक्षभागे तु पूज्यते”। ११ रागभेदे स च महादेवस्वरूपः। धैवतनिषादषड्जगान्धारमध्यमरूपपञ्चस्वरमिलितैर्गेयः। अस्य स्थानं धैवतस्वरः शरदृतौ प्रातर्गेयता। मतान्तरे अस्य रागिण्यः पञ्च। भैरवी वैराटी मधुमाधवी सिन्धवी वङ्गाली चेति” कलानाथमते भैरवो गुर्लरी भाषा विलाबली कर्णाटी वतंसा वडहंसी चेति षट्। भरतमते मधुमाधवी ललिता वरारी बहाकुली भैरवी चेति अन्यविधा पञ्च सङ्गी० दा० दृश्या। १२ महाविद्यामूर्त्तिभेदे स्त्री ङीप् सा च पञ्चदशविधा तन्त्रसारे उक्ता यथा १ त्रिपुरभैरवी २ सम्पत्प्रदा भैरवी ३ कौलेशभैरवी ४ भयविध्वंसिनी भैरवी ५ सकलसिद्धिदा भैरवी ६ चैतन्यभैरवी ७ कामेश्वरी भैरवी ८ षट्कूटा भैरवी ९ नित्या भैरवी १० रुद्रभैरवी ११ भुवनेश्वरी भैरवी १२ सकलेश्वरी भैरवी १३ त्रिपुरबालाभैरवी १४ नवकूटा वालाभैरवी १५ अन्नपूर्णेश्वरीभैरवी च एतासां मन्त्रध्यानादिकं क्रमेण तत्र दृश्यम्। १३ तारिणीशक्तियोगिनीभेदे च “महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च। घोरास्या भ्रामरी चैव महारात्रिश्च सप्तमी। अष्टमी भैरवी प्रोक्ता योगिनीस्ताः प्रपूजयेत्” तन्त्रसा०। तत्र शिवस्य पत्न्यां “कालीतन्त्रादौ “भैरव्युवाच “कालीपूजा श्रुता नाथ” कालीकवचम् १४ भैरवरागस्य पत्नीरूपरागिणीभेदे स्त्री “भैरवी कौशिकी चैव भाषा वेलाबली तथा। बङ्गाली चेति रागिण्यो भैरवस्यैव वल्लभाः” संगीतसा०। मतान्तरे १५ मालवरागस्य पत्नीभेदे “धानसी मानसी चैव रामकीरी च सिन्धुता। आशावरी भैरवी च मालवस्य प्रिया इमाः”। तस्या गानकालः पूर्वाह्णः। “विभाषा ललिता चैव कामोदा पठमञ्जरी। रामकीरी रामकेली वेला मारी च गुर्जरी। देशकारी च सुभगा पञ्चमी च गडातुडी। भैरवी चाथ कौमारी रागिण्यो दश पल्ल च। एताः पूर्वाह्णकाले तु गीयन्ते गायनोत्तमैः” सङ्गीतदा०। १५ नागभेदे पु० भा० आ० ५७ अ०।
भैरवीचक्र = न० भैरव्याः पूजनार्थं चक्रमू। देवीपूजार्थे कुलाचारवतां चक्राकारसमूहे तद्विधिर्यथा उत्पत्तितन्त्रे
“नित्यं नैमित्तिकं काम्यं प्रकुर्य्याच्च दिने दिने। कुलवारे कुलर्क्षे च तिथौ चन्दनके तथा। भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्ववत् प्रिये। सुराणां शोधनं कुर्य्याद् यथावत् परमेश्वरि!। प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजोत्तमाः। निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक्”।
भैषज = न० भेषजमेव स्वार्थे अण्। १ औषधे २ लावकखगे जटा० भिषजो गोत्रापत्यं गर्गा० यञ्। भैषज्य तस्य छात्राः कण्वा० अण् यलोपः। ३ भिषजो गोत्रापत्यच्छात्रेषु व० व०
भैषज्य = न० भिषजः कर्म भेषज–स्वार्थे वा ष्यञ्। १ औषपे भिषजोऽपत्यं गर्गा० यञ्। २ भिषजोऽपत्ये पुंस्त्री०।
भैष्णज = पु० ब० व० भिष्णजो गोत्रापत्यं गर्गा० यञ् तस्य छात्राः कण्वा० अण् यलोपः। भिष्णग्गोत्रापत्यच्छात्रेषु।
भैष्णज्य = पुंस्त्री० भिष्णजो गोत्रापत्यं गर्गा० यञ्। तद्गोत्रापत्ये
भैष्मकी = स्त्री भीष्मकस्य रच्यपत्यम् इञ् ङीप्। भीष्मकनृपकन्यायां रुक्मिण्याम् हरिवं० १२० अ०।
भोक्तृ = त्रि० भुज–भोजने अवने च तृच्। १ भोजनकर्त्तरि २ भोगकर्त्तरि च ३ त्राणकर्त्तरि हेमच०। स्त्रियां ङीप्। ४ विष्णौ पु० “भ्राजिष्णुर्भोजनं भोक्ता” विष्णुस०।
भोग = स्त्री भुज–भावकर्मादौ घञ्। १ सुखे २ दुःखे ३ सुखदुःखाद्यनुभवे ४ स्त्र्यादीनां भाटके ५ भाटकमात्रे च ६ सर्पदेहे ७ तत्फणायाञ्च अमरः। ८ धने ९ पालने १० भोजने च मेदि० ११ देहे १२ सर्पे १३ माने च शब्दरत्ना० १४ रव्यादीनां राशिगतिकाले “अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः” तिथित०। १५ भूम्यादीनां फलभुक्तौ भुक्तिशब्दे दृश्यम्। १६ विभवभेदे “कर्त्ता च देही भोक्ता च आत्मा भोजयिता सदा। भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च” ब्रह्मवै० प्र० ख० २३ अ०।
भोगक = त्रि० भोग + संज्ञायां कन्। भोगकालीने ततः विदा० अपत्ये घञ्। भौगक तदपत्ये पुंस्त्री०।
भोगगृह = न० भोगार्थं गृहम्। वासगृहे हेमच०।
भोगदेह = पु० भुज्यते सुखदुःखादिकमत्र भुज–आधारे घञ् कर्म०। पुण्यपापफलभोगार्थे देहे “प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते” शु० त०। २ भोगसाधने देहे स च लिङ्गशरीरात्मकः तस्यैव भोगसाधनत्वात् “पञ्चप्राण मनोबुद्धिदशेन्दियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्” वेदान्तिनः। सांख्यमते पञ्चप्राणस्थले पञ्चभूतमात्रा इति भेदः। स्थूलदेहस्य भोगावच्छेदकत्वात् उपचारात् तथात्वमिति बोध्यम्। तद्विवृतिर्यथा “शृणु देहविवरणं कथयामि यथागमम्। पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम्। देहिनां देहवीजञ्च स्रष्टुः सृष्टिविधौ परम्। पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत्। स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह। वृद्धाङ्गुष्ठप्रमाणञ्च यो जीवः पुरुषः कृतः। विभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे। स देहो न भवेद्भस्म ज्वलदम्रौ यमालये। जले न नडो देहो वा प्रहारे सुचिरे कृते। न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा। तप्तद्रवे तप्नलोहे तप्तपाषाण एव च। प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्ध्वपतनेऽपि च। न च दग्धो न भग्नश्च मुङ्क्ते सन्तापमेव सः” ब्रह्मवै० प्र० २९ अ०।
भोगपाल = पु० भोगं भोगसाधनमश्वं पालयति पालि–अण् उप० स०। अश्वरक्षके शब्दमा०।
भोगपिशाचिका = स्त्री भोगे पिशाचिकेव। क्षुधायाम् हारा०
भोगप्रस्थ = पु० उत्तरस्थदेशभेदे वृ० स० १४ अ० दृश्यम्।
भोगभूमि = स्त्री भोगार्थैव भूमिः न कर्मार्था। भारतवर्षातिरिक्ते वर्षे “तत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने!। यतो हि कर्मभूरेषा ततोऽप्या भोगभूमयः” विष्णुपु० २ अंशे ३ अ०।
भोगवती = स्त्री भोगः सर्पशरीरं भूम्नाऽस्त्यस्याम् मतुप् मस्य वः ङीप्। १ पातालगङ्गायाम् “भोगवती च पाताले स्वर्गे मन्दाकिनी तथा” इति पुराणम्। २ कुमारानुचरमातृभेदे भा० श० ४७ अ०। ३ नदीभेदे भा० व०। २ अ०। ४ भोगयुक्ते त्रि० स्त्रियां ङीप्।
भोगवर्द्धन = पु० देशभेदे मार्क० पु० ५७ अ० ४८ श्लो०।
भोगसद्मन् = व० भोगार्थं सद्म। वासगृहे शब्दरत्ना०।
भोगायतन = न० ६ त०। स्थूलदेहे “भोक्तुरधिष्ठानात् भोगायतननिर्माणमन्यथा भूतिभावः” सा० सू०।
भोगार्ह = न० भोगमर्हति अर्ह–अण् उप० स०। १ धान्ये राजनि० भोग्ये ३ वस्तुमात्रे च त्रि०।
भोगावली = स्त्री ६ त०। १ भोगश्रेणौं। २ स्तुतौ उपचारात् ३ स्तुतिपाठके जटा० ४ नागपुर्य्या हेमच०।
भोगावास = पु० भोगार्थ आवासः। वासगृहे हारा०।
भोगिक = पु० भोगः अश्वभोगः अस्त्यस्य कर्मत्वेन ठन्। अश्वरक्षके शब्दमा०।
भोगिकान्त = पु० ६ त०। वायौ त्रिका०। सर्पाणामनिलाहारत्वात् तस्य तत्कान्तत्वम्।
भोगिगन्धिका = स्त्री भोगिनः सर्पस्येव गन्धो यस्याः कप् कापि अत इत्त्वम्। लघुमङ्गुष्ठाख्ये वृक्षे भैषण्टुप्र०।
भोगिन् = पु० भोगः फणाऽस्त्यस्य इनि। १ सर्पे अमरः तद्देवताके। २ अश्लेषानक्षत्रे च ३ ग्रामपात्रे ४ नृपे मेदि० तस्य प्रशस्तभोगवत्त्वात्तथात्वम्। ५ नापिते विश्वः। ६ व्यावृत्तिकरे हेमच० ७ भोगयुते त्रि० स्त्रियां ङीप् सा च ८ महिषीभिन्नराजभार्य्यायाम् अमरः भट्टिनीत्यत्र पाठान्तरम्।
भोगिभुज् = पु० भोगिनं सर्पं भुङ्क्ते मुज–क्विप्। मयूरे नैघण्टुप्र०।
भोगिवल्लभ = न० ६ त०। चन्दने राजनि०।
भोगीन्द्र(श) = पु० भोगी इन्द्र इव ६ त० वा। १ अनन्तदेवे शब्दरत्ना० २ वासुकौ च।
भोग्य = न० भुज–ण्यत् कुत्वम्। १ धने २ धान्ये च। भोगमर्हति यत्। ३ भोगार्हे त्रि०। भोगार्हस्त्रियां ४ वेश्यायाञ्च स्त्री राजनि०। ५ आधिभेदे पु० यथाह नारदः “विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च। अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः। कृतकालोपनेयश्च यावद्देयोद्यतस्तथा। स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च”।
भोज = पु० भुज–अच्। १ स्वनामख्याते देशभेदे स च दशः (भोजपुर) इति ख्यातः। २ धारापुरस्य नृपभेदे भोजप्रबन्ध भोजचरितादौ तद्वृत्तान्तो दृश्यः। “धन्थः श्रीभोजराजस्त्रिभुवनविजयी” उद्भटः। वसुदेवस्य शान्तिदेवागर्भजाते ३ पुत्रभेदे पु० हरिवं० ६६ अ०। ४ द्रुह्युनृपपुत्रभेदे भा० आ० ८३ अ०।
भोजक = त्रि० भोजयति भुज–णिच्–ण्वुल्। १ भोजनसम्पादके याज्ञ० २। २३५ श्लो० भुज–ण्वुल्। २ भोजनकर्त्तरि त्रि०
भोजकट = पु० भोजः कट इव। भोजाख्ये देशे भा० स० ३५ अ०। भोजकटे भवः “एङ्प्राचां देशे” पा० वृद्धसंज्ञायाम् “वृद्धाच्छः” पा० छ। भोजकटीय तद्देशभवे त्रि०।
भोजदेव = पु० भोजो देव इव। भोजराजे तेन च पातञ्जलवृत्तिप्रभृतिग्रन्थाः कृताः।
भोजन = न० भुज–ल्युट्। १ कठिनद्रव्यस्य गलबिलाधःसंयोजने। करणे ल्युट्। २ धने निघण्दुः ३ विष्णौ पु०। “भ्राजिष्णु- भोजनं भोक्ता” विष्णुस०। “भोज्यरूपा च प्रकृतिर्यया भोजनमुच्यते” मायाया भोज्यरूपेण परिणामात् विष्णोस्तदधिष्ठानत्वात् तथात्वमिति भाष्यादौ दृश्यम्। भोजनगुणादि भावप्र० उक्तम् आहारशब्दे ८९७ पृ० दृश्यम्। तत्र विशेष आह्निकतत्त्वोक्तोत्राभिधीयते “विष्णुपु० “मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप!। अन्यत्र फलमांसेभ्यः शुष्कशाकादिकात् तथा। तद्वदौदरिकेभ्यञ्च गुरुपक्वेभ्य एव च। भुञ्जीतोद्धृतसाराणि न कदाचिन्नरेश्वर!। नाशेषं पुरुषोऽश्नीयादन्यत्र जगतोपते!। मध्वन्नदधिसर्पिर्भ्यः सक्तुभ्यश्च विवेकवान्। अश्नीयात्तन्मना भूत्वा पूर्वन्तु मधुरं रसम्। लवणाम्नौ तथा मध्ये कटुतिक्तादिकांस्तथा। प्राग्द्रवं पुरुषोऽश्रन् वै मध्ये च कठिनाशनः। पुनरन्ते द्रवाशी तु बलारोग्ये न मुञ्चति। अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन्। पञ्च ग्रासान् सहामौनं प्राणाद्य प्ययनाय तत्”। मन्त्राभिमन्त्रितमिति मन्त्रानादेशे गायत्रीति वचनात् गायत्राभिमन्त्रितम्। गारुडे “शाकं सूपञ्च भूयिष्ठम् अत्यम्लञ्च निवर्जयेत्। न चैकरससेवायां प्रसज्येत कदाचन।” “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम्। अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः” छन्दोगप०। विष्णुः “न तृतीयमथाश्रीयादापद्यपि कदाचन”। भगवत्गीतासु “आयुःसत्त्वबलरोग्यसुखप्रीतिविवर्सनाः। रखाः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः। कड्ववणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहाराराजसस्येष्टा दुःखशोकामयप्रदाः। यातयामं गतरसं पूति पर्य्युषितञ्च यत्। उच्छिष्टमपि चामेध्यं भोजनं ताममप्रियम्”। महाभारते “इन्दुव्रतसहसृस्तु यश्चरेत् कायशोधनम्। पिबेद्यश्चापि गङ्गाम्भस्तस्य साम्यं न यात्यसौ”। गङ्गामधिकृत्य मत्स्यपुराणम् “अवगाह्म च पीत्वा च पुनात्यासप्तमं कुलम्”। देवीपुराणम् “ये चैव नृत्तिका स्तस्मात्तीर्थादाहृत्य भुञ्जते। ते सर्वपापनिर्मुक्ताः प्रभवन्ति गतामयाः”। मनुः “आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः। श्रियः प्रत्यङ्मुणो भुङ्क्त ऋतं भुङ्क्ते ह्युदङ्मुखः”। नियमे त्वेवम्। अनियमे तु नोदङ्मुखः। हारीतः “नोदङ्मुखोऽश्नीयात्” इति “निष्कानस्य तु प्राङ्मुखेनैव भीजनम्। यथाह देवलः “प्राङ्मुखोऽन्नानि भुञ्जीत शुचिः पीठमधि- ष्ठितः। विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः” जीवन्मातृकस्य दक्षिणामुखत्वनिषेधमाह आपस्तम्बः “दक्षिणामुखो न भुञ्जीत एवंविधभोजनमनायुष्यं गातुरुपदिशति” केचित्तु “कुहूस्नानं गयाश्राद्धं तिलैस्तर्पणमेव च। न जीवत्पितृकः कुर्य्यादृक्षिणामुखभोजनम्” इत्याचारत्न करवृताज्जीवत्पितृकस्यापि निषेध इत्याहुः। व्यासः “पञ्चार्द्रो भोजनं कुर्य्यात् प्राङ्मुखो मौनमास्थितः। हस्तौ पादौ तथैवास्यमेषु पञ्चार्द्रता मता।” गोभिलः “भुञ्जानेषु तु विप्रेषु यस्तु पात्रं परित्यजेत्। भोजने विघ्नकर्त्तासौ ब्रह्महापि तथोच्यते”। आपस्तम्बः “दिवा पुनर्न भुञ्जीतान्यत्र फलमूलेभ्यः”। मनुः “नातिप्रगे नातिमायं न सायं प्रातराशितः”। अतिप्रगेऽचिरोदितसूर्य्ये अतिसायं सूर्य्यास्तमितिसमय एवं प्रातराशितः दिनभीजनेनातितृप्तः न सायं न रात्रौ भुञ्जीतेत्यर्थः। आपस्तम्बः “यस्तु भोजनशालायां भोक्तुकाम उपस्पृशेत्। आसनस्थो न चान्यत्र स विप्र पङ्क्तिदूषकः” भोजनशालायां भोक्तुकामः सन् आसनस्थो वान्यत्र स्थितो वा न चोपस्पृशेत्। बौधायनः “उपलिप्ते समे स्थाने शुचौ सध्यासनान्विते। चतुरस्रं त्रिकोणञ्च वर्त्तुलञ्चार्द्ध चन्द्रकम्। कर्त्तव्यमानुपूर्वेण ब्राह्मणादिषु मण्डलम्। अकृत्वा मण्डलं ये तु भुञ्जतेऽधमयोनयः। तेषान्तु यक्षरक्षांसि हरन्त्यन्नानि तद्बलात्”। आपस्तम्बः “भिन्नकांस्ये तु यो विप्रो यदि भुङ्क्ते तु कामतः। उपवासेन चैकेन पञ्चगव्येन शुद्ध्यति”। तथा शूद्रादिभोजनेनापरिष्कृतपात्रेऽपि। वृद्धमनुः “ताम्मपात्रे न भुञ्जीत भिन्नकांस्ये मलाविले। पलाशपद्मपत्रे वा गृही भुक्तैन्दवं चरेत्”। गव्यवर्द्धमानधृताग्निपुराणम् “अर्कपत्रे तथा पृष्ठे आयसे ताम्रभाजने। करे कर्पटके चैव भुक्त्वा चीन्द्रायणं चरेत्” पृष्ठे कदलीपत्रादिपृष्ठे। पैठीनसिः “ताम्ररजतसुवर्णाश्मशङ्खशुक्तिस्फटिकानां भिन्नमभिन्नम् इति न दोषः”। अत्र पाषाणपातं भाजने विहितम् “तैजसानां मणीनाच्च सर्वस्याश्ममयस्य च। भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः” इति मनुना पाषाणपात्रस्य शुद्धिविधानाच्च। प्रचेताः “तान्घूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम्। यंतश्च ब्रह्मचारी च विधवा च विवर्जयेत्”। अत्रिः “आसने पादमारीप्य बो भुङ्क्ते ब्राह्मणः क्वचित्। मुखेन चान्नमश्नाति तुल्यं गोमांसभक्षणैः”। मुखेन हस्तोत्तोलनं विना गवादिवदित्यर्थः। आश्वमेधिके “आर्द्रपादस्तु भुञ्जीत प्राङ्मुखश्चासने शुचौ। पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः”। बौधायनः “भोजनं हवनं दानमुपहारः परिग्रहः। बहिर्जानु न कार्य्याणि तद्वदाचमनं स्मृतम्”। हारीवः “मार्जनाच्च वलिकर्म भोजनानि दैवतीर्थेन कुर्य्यात्”। पराशरभाष्ये वृद्धमनुः “न पिबेन्न च भुञ्जीत द्विजः सष्येन पाणिना। नैकहस्तेन च जलं शूद्रेणावर्जितं पिबेत्”। मार्कण्डेयपुराणम् “पादप्रसारणं कृत्वा न च वेष्टितमस्तकः”। मनुः “पूजयेदशनं नित्यं चाद्याच्चैव मकुत्सयन्। दृष्ट्वा हृष्येत् प्रसीदेच्च प्रणमेच्चैव सर्वदा। अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः प्रार्थयेत्ततः। अस्माकं नित्यमस्त्वेतदिति भक्त्याथ वन्दयेत्”। विष्णुपु० “नागः कूर्मश्च क्रकरो देवदत्तो धनञ्जयः। वहिस्था वायवः पञ्च तेषां भूमौ प्रदीयते। अदत्त्वा बाह्यवायुभ्यः प्राणादिभ्यो न होमयेत्”। इति शिष्टपठितवचनान्नागादिभ्यो बलिदानमिति प्राचीनाचारः। तत्रान्नं देवेभ्योदत्त्वा भोक्तव्यं तथा च भगवद्गीतायाम् “इष्टान् भोगान् हि वो देवादास्यन्ति यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्“क्ते स्तेन एव सः”। यज्ञैः संवर्द्धिता देवा वो युष्मभ्यं भोगानन्नादीनि वृष्ट्यादिद्वारा दास्यन्ति। अतो देवैर्दत्तान् अन्नादीन् तेभ्योऽदत्त्वा यो भुङ्क्ते स चौर एव। स्मृतिः “निवेद्य प्राशनात् पूर्वं देवपादोदकाहुतिः। होतव्या जठरे वह्नौ स्वेन पाणितलेन तु”। तेन पादोदकेनापोशानं कृत्वा प्राणाहुतिर्नैवेद्येन कार्य्या” आ० त० रघु०।
भोजनगर = न० भोजदेशस्थे नगरे धारापुरे भा० उ० ११७ अ० भोजपुरादयोऽप्यत्र।
भोजपति = पु० ६ त०। १ भोजदेशाधिपे २ कंसराजे च भाग० १०। ४७ अ० भोजनाथादयोऽप्युत्र
भोजिन् = त्रि० भुज–णिनि। भोजनकर्त्तरि स्त्रियां ङीप्।
भोज्य = त्रि० भोज–ण्यत् भक्षणार्थत्वान्न कुत्वम्। १ भक्षणीयद्रव्यमात्रे २ भक्ष्यभेदे आहारशब्दे दृश्यम्। श्राद्धानकल्पे पितॄणां तृप्त्यर्थं देये ३ अन्नादौ च।
भोज्यसम्भव = पु० सम्भवत्यस्मात् सम् + भू–अपादाने अप् ६ ब०। भोज्यजाते देहस्थे रसधातौ शब्दच०।
भोट = पु० (भोटान) देशभेदे शब्दरत्ना०।
भोटाङ्ग = पु० (भोटान) देशभेदे शब्दर०।
भोलि = पु० भा–उलि। १ उष्ट्रे त्रिका०।
भोस् = अव्य० भा–डोसि। १ सम्बोधने अमरः २ प्रश्नविधाने शब्दर०
भौजीय = त्रि० भोजे देशभेदे भवः गहा० छ। भोजदेशभवे।
भौत = पु० भूतानि प्राणिनोऽधिकृत्य प्रवृत्तः तानि देवता वा अस्य अण्। १ देवले ब्रोह्मणे शब्दमा०। बलिकर्मरूपे गृहस्थकर्त्तव्ये पञ्चयज्ञान्तर्गते २ महायज्ञभेदे। “होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम्” मनुः। २ रात्रौ स्त्री ङीप् हेमच०। भूतप्रियत्वात्तस्यास्तथात्वम्।
भौतिक = त्रि० मूतानि पृथिव्यादीनि पिशाचान् वा अधिकृत्य जातानि ठक्। १ भूताधिकारेण जाते “आहङ्कारिकत्वश्रुतेर्न भौतिकानि” सा० सू०। २ उपद्रवे व्याध्यादौ। ३ मुक्तायां राजनि०। ४ महादेवे पु० त्रिका०।
भौत्य = पु० भूतेरपत्यं बा० यक्। चतुर्दशमनौ हरिवं ७ अ०। “बभूवाङ्गिरसःपुत्रो भूतिर्नाम्नातिकोपनः” इत्युपक्रमे मार्कपु० १०० तदुत्पत्त्यादिकमुक्तम्।
भौम = पु० भूमेरपत्यं तस्या इदं वा अण्। १ नरकासुरे “त्वयि भौमं गते जेतुम्” माघः। २ मङ्गलग्रहे च। ३ भूमिभवे त्रि० मेदि। भौमजलगुणादिकम् अम्बुशब्दे ३३० पृ० दृश्यम्। ४ भूमिव्यापके अम्बरे धरणिः। ५ रक्तपुनर्नवायां राजनि०
भौमन = पु० भूम्नोऽपत्यम् अण् मन्नन्तत्वात् न टिलोपः। विश्वकर्मणि भा० आ० ३२ अ०।
भौमिक = त्रि० भूमौ तिष्ठति अधिकरोति वा ठक्। भूम्यधिकारिणि २ भूमिस्थिते च मनुः ५। १४२।
भौरिक = त्रि० भूरि स्वर्णमधिकरोति ठक्। कनकाध्यक्षे अमरः।
भौरिकि = पुंस्त्री० भूरिकस्यर्मरपत्यमिञ्। भूरिकर्षेरपत्ये स्त्रियां क्रौड्या० ष्यङ्। भोरिक्या तदपत्ये स्त्रियां षित्त्वात् ङीष् च भौरिकीत्यपि तत्रार्थे। ततः अपत्ये तिका० फिञ्। भौरिक्यायणि भौरिकेरपत्ये पुंस्त्री०। भौरिक्या० विषये र्थे विधल्। भौरिकिविध तद्विषये देशे
भौरिक्यादि = पु० देशे विषये विधल्प्रत्ययनिमित्ते शब्दनणे स च गणः पा० ग० उक्तो यथा “भौरिकि भौलिकि चौपयत चैटयत काणेय बाणिजक बालिकाज्य सैकयत वैकयत”।
भौलिकि = पुंस्त्री० भौरिकि + वा रस्य लः। भौरिकिशब्दार्थे भौरिकिशब्दवत् सर्वम्।
भौलिङ्ग = पुंस्त्री० भूलिङ्गस्य खगभेदस्यापत्यम् अण्। भूलिङ्गखगापत्ये स्त्रियां गौरा० ङीष्। ततः युवप्रत्ययस्य लुक्
भौवादिक = पु० भ्वादौ गणे पठितः ठक् वात्पूर्वम् ऐच्। भ्वादिनणपठिते धातौ। एवम् आदादिकजौहुत्यादिकदैवादिकादयोऽपि अदाद्यादिगणपठिते धातौ।
भ्यस = भये भ्वा० आ० अक० सेट्। भ्यसते अभ्यसिष्ट।
भ्यसते = अव्य०। उत्तरदिशि निघण्टुः।
भ्रंश = पु० भ्रन्श–भावे घञ्। व्यसने अमरः। अतःपाते च
भ्रंशकला = अव्य० ऊर्य्या०। हिसायाम् गणरत्र० टी०। भ्रंशकलाकृत्य हिसित्वेत्यर्थः।
भ्र(भ्रु)(भ्रू)कंश = पु० भ्रुवा कुंशा इङ्गितज्ञापनं यस्य। “अभ्रूकुंशादीनाम्” वार्त्ति० अ पक्षे वा ह्रस्वः इति रूपत्रयम् स्त्रीवेशधारिणि नटे अमरः।
भ्र(भ्रु)(भ्रू)कुटि = पुंस्त्री० भ्रुवः कुटिः कौटिल्यम्। भ्रकुंशवत् रूपत्रयम्। भ्रुवः कौटिल्ये अमरः।
भ्र(भ्ल)क्ष = अदने भ्वा० उ० सक० सेट् वा रस्य लः धातुपाठः। भ्र(भु)क्षति ते अभ्र(भ्ल)क्षोत्। बभ्र(भ्ल)क्ष।
भ्रजस् = पु० भ्राजते भ्राज–असुन् पृषो० ह्रस्वः। १ अग्नौ छन्दसि यजु० १५। ५। “अग्निर्वै भ्रजश्छन्दः” शत० ब्रा० ८। ५। २। ५। २ आदित्यरूपे क्षुरे च “क्षुरो भ्रमश्छन्द इत्यसौ वा आदित्यः क्षुरो भ्रजश्छन्दः” तत्रैव।
भ्रण = शब्दे भ्वा० पर० सक० सेट्। भ्रणति अभ्राणीत् अभ्रणीत् बभ्राण।
भ्रन्श = अधःपतने दिवा० अक० सेट्। भ्रश्यति इरित् अभ्रशत् अभ्रंशीत् भ्रश्यत।
भ्रन्श = अधःपाते अक० सेट्। भ्रंशति ऋदित् अभ्रशत्। उदित्। भ्रंशित्वा भ्रष्ट्वा। भ्रष्टः।
भ्र(भ्रु)(भ्रू)भङ्ग = पु० ६ त०। भ्रुकुंशवत् वा अकारह्रस्वौ भ्रुवो भङ्गे।
भ्रम = चलने भ्वा० पर० अक० सेट्। भ्रमति कौटिल्ये इरित्। अभ्रमत् अभ्रमीत्। बभ्राम कणा० भ्रेमतुः बभ्रतुः।
भ्रम = चलने दिवा० पर० सक० सेट् शमा०। भ्राम्यति अभ्रमीत्।
भ्रम = भ्वा० पर० अक० सेट्। भ्रमति अभ्रमीत् फणा० भ्रेमतुः बभ्रमतुः चङि न ह्रस्वः। ज्वला० भ्रमः भ्रामः।
भ्रम = पु० भ्रम–घञ्। १ मिथ्याज्ञाने (अन्यथाभूतस्य वस्तुनोऽन्यथारूपेण ज्ञाने) २ जलनिर्गमस्थाने ३ कुन्दे (कुंद) ४ भ्रमणे च मेदि०। भ्रमश्च तद्वति तत्प्रकारकज्ञानम्। व्यधिकरणप्रकाराच्छिन्नविषयताशालिज्ञानम्। यत्प्रकारिका या विषयता तत्प्रकारव्यधिकरणविषयताकज्ञानम्। स्वप्रकारव्यधिकरणविषयताकज्ञानम्। स्वव्यधिकरणप्रकारावच्छिन्नविषयताप्रतियोगिज्ञानम्” (चि०) तदभाववन्निरूपिततन्निष्ठविषयताप्रतियोगिताकतदभाववति तत्सम्बन्धेन तद्धर्मविशिष्टतन्निरूपितवैशिष्ट्यविषयताशासि ज्ञानम्। विशेष्यितासम्बन्धेन तत्तद्व्यक्तित्वावच्छिन्नप्रतियोतिताकतदभाववदवच्छिन्ना या तद्व्यक्तिप्रकारिता त- च्छालिज्ञानम्। (मू० मा०) “मिथ्याज्ञानापरपर्य्यायोऽयं निश्चयः” (गौ० वृ०) अतस्मिंस्तद्ग्रहः (भा० प०)। तदभाववति तत्प्रकारकं ज्ञानम् यथा शुक्तौ इदं रजतम् इति ज्ञानम्। (त० प्र०) भ्रमो द्विविधः। विपर्य्यासः संशयश्च। तद्धेतवश्च दोषा दोषशब्दे ३७६३ पृ० दृश्याः
भ्रमण = न० भ्रम–ल्युट्। गतिभेदे पर्य्यटने कर्मन्शब्दे दृश्यम्
भ्रमणी = स्त्री भ्रम–करणे ल्युट् ङीप्। १ क्रीडार्थपर्य्यटने तत्साधने २ क्रीडिकायाञ्च मेदि०।
भ्रमत्कुटी = स्त्री भ्रमन्ती कुटीव। तृणादिनिर्मिते छत्रे त्रिका०
भ्रमर = पुंस्त्री० भ्रम–करन्। १ मधुकरे अमरः स्त्रियां जातित्वात् ङीष्। २ कामुके मेदि०। ३ भ्रमरच्छल्लीलताभेदे स्त्री राजनि० टाप्।
भ्रमरक = पु० भ्रमर इव कायति कै–क। ललाटलम्बिते भ्रमरतुल्ये चूर्णकुन्तले अमरः। स्वार्थे क। भ्रमरक भ्रमरे वालमूषिकायाञ्च मेदि०। (तुरमीन) वेधनयन्त्रभेदे दशकुमा०। जलभ्रमणे विश्वः।
भ्रमरकीट = पु० भ्रमर इव कीटः। (कुमेरपोका) कीटभेदे
भ्रमरच्छल्ली = स्त्री लताभेदे राजनि०। भृङ्गच्छल्ल्य दयोऽप्यत्र “भृङ्गच्छली च कटुका तिक्ता दीपनरोचनी” राजनि०।
भ्रमरपदक = न० “भ्रमरपदकमिदमभिहितम्” द्वादशाक्षरपादके वृ० र० टी० उक्ते छन्दोभेदे।
भ्रमरप्रिय = पु० ६ त०। धाराकदम्बे रत्नमा०।
भ्रमरमारी = स्त्री भ्रमरं मारयति मारि अण् उप० स० गौरा० ङीष्। भृङ्गारिलतायाम् राजनि०। भृङ्गार्य्यादयोऽप्यत्र “भ्रमरारिश्च तिक्ता स्यात् पित्तश्लेष्मकफापहा। त्रिदोषकुष्ठकण्डूतिशोफव्रणविनाशिनी” राजनि०।
भ्रमरविलसिता = स्त्री “मोगो नौगो भ्रमरविलसिता” छन्दोम० उक्तै एकादशाक्षरपादके छन्दोभेदे अस्य क्लीवत्वमेके वदन्ति।
भ्रमरातिथि = पु० भ्रमरः अतिथिर्यस्य। चम्पके राजनि०।
भ्रमरानन्द = पु० भ्रमरान् आनन्दयति आ + नन्द–णिचण् उप० स०। १ बकुले २ अतिमुक्तके रक्ताम्लाने च राजनि०
भ्रमरालक = पु० भ्रमर इव अलति पर्य्याप्नोति अल–ण्वुल्। ललाटस्थे चूर्णकुन्तले हेमच०।
भ्रमरी = स्त्री भ्रमर + ङीष्। १ षट्पद्यां अस्त्यर्थे अच् गौरा० ङोष्। तदाकारवत्यां २ जतुकायां ३ पुत्रदात्र्याञ्च राजनि०
भ्रमरेष्ट = पु० ६ त०। १ श्योनाकवृक्षे २ भार्ग्या ३ भूमिजम्ब्वाञ्च स्त्री राजनि०।
भ्रमरोत्सवा = स्त्री भ्रमराणासुत्सवो मोदो यत्र। माधवीलतायाम् राजनि०।
भ्रमासक्त = त्रि० भ्रमे निशानार्थचक्रभ्रमणे आसक्तः। शस्त्रनिशानासक्ते शस्त्रमार्जके हेमच०।
भ्रश = अधःपतने दि० पर० सक० सेट्। भ्रश्यति अभ्राशीत् अभ्रशीत्। उदित् क्त्वा वेट्। भ्रशित्वा भ्रष्ट्वा। भ्रष्टः।
भ्रशिमन् = पु० भृशस्य भावः अतिशये वा इमनिच् ऋतोरः। १ भृशत्वे २ अतिशयभृशे च। अतिशये इष्ठन् भ्रशिष्ठ ईयसुन् भ्रशीयस् अतिशयभृशे त्रि० ईयसुनि स्त्रियां ङीप्।
भ्रष्ट = त्रि० भ्रश–क्त। च्युते गलिते स्वार्थे क। तत्रार्थे स च उपका०।
भ्रस्ज = पाके तु० उ० सक० अनिट्। भृज्जति आर्द्धधातुके वा भर्जादेशः स च सेट् अभ्राक्षीत् अभर्जीत्। अभ्रष्ट अभर्जिष्ट। बभर्ज वभ्रज्ज।
भ्राज = दीप्तौ भ्वा० आत्म० अक० सेट्। भ्राजते अभ्राजिष्टं फणा० भ्रेजे बभ्राजे। चङि वा ह्रस्वः। द्वितं अथु भ्राजर्थुः।
भ्राज = न० वर्षसाध्ये गवामयनसत्रे विषुवन्नामके प्रधानदिने गेये दिवाकीर्त्त्ये सामभेदे “दिवाकीर्त्त्य सामा भवति” इत्युपक्रमे तस्य दिवाकीर्त्त्यत्वं समर्थ्य “भ्राजाभ्राजे पवमानमुखे भवतो मुखत एवास्य ताभ्यां तमोऽपघ्नन्ति” ता० ब्रा० ४। ६। १४। “यद्यप्यत्र पवमानमुख इति सामान्यसम्बन्ध एव दृश्यते ये गायत्रे ते गायत्रीषूत्तरयोः पवमानयोरिति विशेषावगतेरेवं व्याख्यातं स्पष्टमन्यत्। अनेन भ्राजाभ्राजयोः साम्नोः स्थाननियमोऽर्थादुक्तो भवति” भा० तच्च स म “परिस्वानो गिरिष्ट” इत्यस्मिन् गेयम् तच्च ऊहगाने ३ प्र० १२।
भ्राजक = त्रि० भ्राज–ण्वुल्। १ दीप्तिशीले २ पित्तभेदे न० शब्दरत्ना० पित्तशब्दे ४३३५ पृ० भावप्र० वाक्यं दृश्यम्।
भ्राजिर = पु० भौत्यमन्वन्तरे देवभेदे मार्कपु० १०० अ०।
भ्राजिष्णु = त्रि० भ्राज–इष्णुच्। १ दीप्तिशीले २ विष्णौ पु०। “भ्राजिष्णुर्भोजनं भोक्ता” विष्णुस०।
भ्रातुष्पुत्र = पु० ६ त० अलुक्स० कस्का०। भ्रातुः पुत्रे।
भ्रातृ = पु० भ्राज–तृच् पृषो०। एकपितृजाते (भाइ) इति ख्याते पदार्थे तस्य स्वस्ना सहोक्तौ एक०। २ भ्रातृभगिन्योः द्वि० व०।
भ्रातृक = त्रि० भ्रातुरिदम् ठञ्। भ्रातृसम्बन्धिनि।
भ्रातृज = पुंस्त्री० भ्रातुर्जायते जन–ड ५ त०। १ भ्रातुपुत्रे २ तत्कन्यायां स्त्री।
भ्रातृजाया = स्त्री ६ त०। भ्रातृपत्न्यां कलौ नियोगेनापि तद्- गमननिषेधो यथा “भ्रातृजायां कमण्डलुम्” कलिशब्दे १८७३ पृ० दृश्यम्। अनियोगेन तद्गमने दोषो यथा “भ्रातृजायापह्वारी च मातॄगामी भवेन्नरः” ब्रह्मवै० प्र० ५६ अ०। भ्रातृपत्न्यादयाऽप्यत्र।
भ्रातृद्वितीया = स्त्री भ्रातृभीजनार्था द्वितीया। कार्त्तिकशुक्लपक्षस्य द्वितीयायाम् यमद्वितीयायां तद्विधिः निर्णयसि० भविष्ये “कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर!। यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः। अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता। अस्यां निजगृहे विद्वन्! न भोक्तव्यं ततो नरैः। स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम्। दानानि च प्रदेयानि भगिनीभ्योऽपि विधानतः। स्वर्णालङ्कारवस्त्रान्नपूजासत्कारभोजनैः। सर्वा भगिन्यः संपूज्या अभावे प्रतिपन्नकाः” प्रतिपन्नाः मातृभगिन्य इति हेमाद्रिः। “पितृव्यभगिनीहस्तात् प्रथमायां युधिष्ठिर!। मातुलस्य सुताहस्ताद्द्वितीयायां तथा नृप!। पितुर्मातुः स्वसः कन्ये तृतीयायां तयोः करात्। भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम्। सर्वासु भगिनीहस्ताद्भोक्तव्यं बलबर्द्धनम्। यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितः प्रतिजगत् स्वसृसौहृदेन। तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति रत्नसुखधान्यमनुत्तमं सः। गौडास्तु “यसं च चित्रगुप्तं च यमदूतांश्च पूजयेत्। अर्व्यञ्चात्र प्रदातव्यं यमाय सहजद्वयैः मन्त्रः “एह्येहि मार्त्तण्डज! पाशहस्त! यमान्तकालोकधरामरेश!। भ्रातृद्वितीयाकृतदेवपूजां गृहाण चाऽर्घ्यं भगवन्नमस्ते! भ्रातस्तवानुजाताहं भुङ्क्ष्य भक्तमिदं शुभम्। प्रीतये यमराजस्य यमुनाया विशेषतः” ज्येष्ठाऽग्रजातेति वदेदिति स्यार्त्ताः। इत्यन्नदानमित्यप्याहुः। ब्रह्माण्डपुराणेऽपि “या तु भोजयते नारी भ्रातरं युग्मके तिथौ। अर्च्चयेच्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात्। भ्रातुरायुःक्षयो राजन् न भवेत् तत्र कर्हिचित्”।
भ्रातृबधू = स्त्री ६ त०। (भादरवौ) कृनिष्ठभ्रातृजायार्यां हला०
भ्रातृभगिनी = स्त्री द्वि० व०। वा एकशेषः। भ्रात्रासहित भगिन्याम्।
भ्रातृवल = त्रि० भ्राताऽस्त्यस्य वलच्। भ्रातृयुक्ते।
भ्रातृव्य = पु० भ्रातुः पुत्रः भ्रातृ + व्यत्। १ भ्रातुष्पुत्रे २ शत्रौ च हेमच० “अतिपाप्मानं भ्रातृव्यं क्षपयति य एतया स्तुते” ता० ब्रा० २। ७। २।
भ्रातृश्वशुर = पु० भ्रात्रा पतिभ्राता श्वशुर इव पूज्यत्वात्। पतिज्येष्ठभ्रातरि (भासुर) शब्दरत्ना०।
भ्रात्र = न० भ्रातुरिदम् शिवा० अण्। भ्रातृसम्बन्धिनि।
भ्रात्रीय = पुंस्त्री० भ्रातुरपत्यम् छ। भ्रातुष्पुत्रे अमरः।
भ्रान्त = न० भ्रम–भावे क्त। १ भ्रमणे “जनस्थाने भ्रान्तम्” नाट० कर्त्तरि क्त। २ मिथ्याज्ञानयुक्ते ३ भ्रमणयुक्ते च त्रि०। ४ धुस्तूरे ५ मत्तगजे च पु० राजनि०।
भ्रान्ति = स्त्री भ्रम–क्तिन्। १ भ्रमणे २ अयथार्थज्ञाने च। “षाण्मासिके तु संप्राप्तै भ्रान्तिः संजायते नृणाम्। धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा” ज्यो० त०। भ्रान्तिज्ञानञ्च चित्तविक्षेपः योगान्तरायः पात० सू० उक्तः चित्तविक्षेपशब्दे २९४१ पृ० दृश्यम्।
भ्रान्तिमत् = त्रि० भ्रान्तिरस्त्यस्य मतुप् मस्य वः। १ भ्रमज्ञानयुते स्त्रियां ङीप्। २ अर्थालङ्कारभेदे पु० अलङ्कारशब्दे दृश्यम्।
भ्रान्तिहर = पु० भ्रान्तिं हरति हृ–ट। १ मन्त्रिणि शब्दरत्ना० २ भ्रमनाशके त्रि० स्त्रियां ङीप्।
भ्राम = त्रि० भ्रम–ज्वला० कर्त्तरि ण। भ्रमयुक्ते।
भ्रामक = त्रि० भ्रामयति भ्रम–णिच्–ण्वुल्। १ भृमजनके २ शृगाले पुंस्त्री० स्त्रियां ङीप्। ३ धूर्त्ते त्रि०। ४ सूर्य्यावर्त्ते मणौ ५ अयस्कान्ते (चुम्बकपातर) मेदि० तस्य लौहचालकत्वात् तथात्वम्।
भ्रामर = न० भ्रमरेण संभृतं सम्पादितम् अस्येदं वा अण्। १ मधुनि। २ भ्रमरसम्यन्धिनि त्रि० ३ अयस्कान्ते पु० मेदि०। “तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट् पदम्” इत्युपक्रम्य “भ्रामरीति च मां लोकाः” इति देवीमा० उक्ते ४ चण्डीमूर्त्तिभेदे स्त्री। भ्रामरमधुगुणादि “किञ्चित् सृक्ष्मैः प्रसिद्धेभ्यः पुष्पेभ्योऽलिभिश्चितम्। निर्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम्। भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु। स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं हिमम्” भावप्र० उक्तम्। ५ अपस्माररोगे शब्दमाला।
भ्रामरिन् = त्रि० भ्रामरं भ्रमरस्येव धूर्णनवत्त्वात् रूपमस्य इनि। अपस्माररोगयुते “भ्रामरी गण्डमाली च” मनुः ३। १६१। टीकायां कुल्लू०।
भ्राशं = भासे भ्वा० आ० अक० सेट्। भ्राशते भ्राश्यते अभ्राशिष्ट। फणा० भ्रेशे बभ्राशे। ऋदित् चङि न ह्रस्वः। द्वित् अथुः भ्राशथुः।
भ्राष्ट्र = पु० भ्रस्ज–करणे ष्ट्रत्। १ अम्यरीषे (भाजनाखोसा) अमरः। भ्राष्ट्रे संस्ततः अण्। २ अम्बरीषसंस्तते भृष्टतण्डुलादौ त्रि० स्त्रियां ङीप्।
भ्राष्ट्रकि = पु० गोत्रर्षिप्रवरभेदे प्रवरा०।
भ्राष्ट्रिव्रतिन् = पु० गोत्रप्रवरर्षिभेदे हेमा० व्र० प्रवराध्यायः।
भ्रास = दीप्तौ दिवा० आ० अक० सेट्। भ्रास्यते अभ्रासिष्ट।
भ्रास = दीप्तौ भ्वा० आ० अक० सेट्। भ्रास्यते अभ्रासिष्ट कणा० भ्रेसे बभ्रासे द्वित्। भ्रासथुः ऋदित् चङि ग ह्रस्वः।
भ्री = भवे अक० भरणे सक० क्य्रा० वा प्त्वा० पर० अनिट्। भ्रीणाति भ्रिणाति अभ्रैषीत्।
भ्रुड = संवरणे सक० संघाते अक० तु० कु० पर० सेट्। भ्रुडति अभ्रुडीत् बुभ्रोड।
भ्रू = स्त्री भ्रम–डू। नेत्रयोरूर्ध्वस्वायां रोमराजौ अमरः। तच्छुभाशुभलक्षणं गरु० ६६ अ० उक्तं यथा “विशालोन्नता सुखिनो दरिद्रा विषमभ्रुवः। धनी दीर्घासंसक्तम्बूर्बालेन्दून्नतसुभ्रुवः। आद्यो निस्वश्च खड्गभ्रूर्मध्याश्च विनतभ्रुवः”। भ्रुवो मूलम् जाहच्। भ्रूजाह भ्रूमूले न०।
भ्रूक्षेप = पु० ६ त०। १ भ्रूभङ्गे २ सङ्केतज्ञापनाय भ्रुवोस्तिर्य्यक्चालने “भ्रूक्षेपमात्रानुमितप्रवेशाम्” कुमारः।
भ्रूण = आशायां विशङ्कायाञ्च चु० आत्म० सक० सेट्। भ्रूणयते अयुभ्रुणत
भ्रूण = पु० भ्रूण–घञ्। स्त्रीणां १ गर्भे २ वासके च अमरः।
भ्रूणघ्न = त्रि० भ्रूणं गर्भं हन्ति हन–क। भ्रूणहत्याकारके क्विप् भ्रुणहाप्यत्र। “अपि भ्रूणहनं मासात्” मनुः। तत्प्रायश्चित्तं प्रा० वि० उक्तं यथा “तत्र पुंस्त्रेन ज्ञाते पुरुषबधप्रायश्चित्तं स्त्रीत्वेन ज्ञाते स्त्रीबधप्रायश्चित्तम्। अविज्ञाते तु पुंबधप्रायश्चित्तमाह मनुः “हत्या गर्भमविज्ञातमेतदेव व्रतञ्चरेत्। राजन्यवैक्ष्यौ चेच्ज्ञानादात्रेयी (रजस्वलां) मेव च स्त्रियम्” एतदेवेति। ब्रह्मवधप्रायश्चित्तमित्यर्थः। ब्राह्मणीगर्भबधविधयमिदं तस्यैव प्रकृतत्वात्। क्षत्रियादिगर्भबधे तु यद्वर्णो गर्भस्तद्वर्णबधप्रायश्चित्तं कार्य्यं यथा याज्ञवल्क्यः “यागस्यक्षत्रविड्घाते चरेद्ब्रह्महणो व्रतम्। गर्भहा च यथावर्णं तथात्रेयीनिसूदनः” व्रतपदोपादानात् ज्ञानत इदम् अज्ञानतस्तदर्द्धं तेन ज्ञानकृते ब्राह्मणगर्भबधे द्वादशवार्षिकम्। क्षत्रियगर्भबधे त्रैवार्षिकं वैश्यगर्भबधे सार्द्धवार्षिकं शूद्रगर्भबधे नवमासिकं, धेनुसङ्कलनमप्यूहनीयम्”।
भ्रूभङ्ग = पु० ६ त०। क्रोधादिज्ञापनार्थं भ्रुवस्तिर्प्यक्चासने “भ्रूभङ्गदुष्प्रेक्षसुणस्य तस्य” इति कुमारः।
भ्रेज = भासे भ्वा० आत्म० अस० सेट्। भ्रेजते अम्रेजिष्ट। ऋदित् चङि ग ह्रस्वः। अगिभ्रेजत् त।
भ्रे(भ्ले)ष = पतने चलने च अक० भ्वा० उभ० सेट्। भ्रे(भ्ले)षति ते अभ्रे(भ्ले)षीत् अभ्र(भ्ले)षिष्ट। ऋदित् चङि न ह्रस्वः। अबिभ्रे(भ्ले)षत् त। तत्र पतने आ० भये चलने उभ० अक० इति भेदः।
भ्रेष = पु० भ्रेष–घञ्। उचितस्थानात् पतने अमरः। “कारणभ्रेषे कार्य्यभ्रेषो मा भूदिति” वृ० उ० भा०।
भ्रौवेय = त्रि० भ्रुव इदम् “भ्रुवो वुक् च” पा० टक् वुक् च। भ्रूसम्बन्धिनि च।
भ्लक्ष = भक्षणे भ्वा० उभ० सक० सेट्। भ्लक्षति ते अभ्लक्षीत् अभ्लक्षिष्ट। दुर्गनते भ्रक्षधातुरयम्।
भ्लाश = दीप्तौ वा दिवा० पक्षे भ्वा० आ० अक० सेट्। भ्लाश्यते भ्लाशते अभ्लाशिष्ट फणा० भ्लेशे बभ्लाशे। द्वित् (अक्षु) भ्लाशक्षुः। वोपदेबमते भ्राशधातुरयम्।
इति श्रीतारानाथतर्कबाचस्पतिभट्टाचार्य्यसङ्कलिते वाचस्पत्ये भकारादिशब्दार्थसङ्कलनम्।
***