भूप = पु० भुवं पाति पा क। भूमिपाले अमरः भूमिपादयोप्यत्र।
भूपति = पु० ६ त०। नृपे भूमिपत्यादयोऽप्यत्र।
भूपद = पु० भुवि पदं मूलं यस्य। १ वृक्षमात्रे शब्दच०। २ मल्लिलायां स्त्री० ङीष् अमरः।
भूपरिधि = पु० ६ त०। भूमेः परिधौ तन्मानं सू० सि० उक्तं यथा “योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु। तद्वर्गतो दशगुणात् पदं भूपरिधिर्भवेत्” “लम्बज्याघ्नस्त्रि जीवाप्तः स्फुटो भूपरिधिः”। सि० शि० सूक्ष्मतयान्थथोक्तं यथा “प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्ग नागाब्धव ४९६७ स्तद्व्यासः कुभुजङ्गशायकभुवः सिद्धांशकेनाधिकः १५८१। १०२। पृष्ठक्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो ७८५३०३४ भूमेः कन्दुकजालवत् कुपरिधिप्यासाहतेः प्रस्फुटम्”।
भूपलाश = पु० भुवि पलाशं यस्य। विशल्यकारके क्षुपभेदे रत्नमा०
भूपाटलि = भुवि ख्याता पाटलिः। भूतालीवृक्षे राजनि०।
भूपाल = पु० भुवं पालयति पाल–अण् उप० स०। भूपतौ शब्दमा०
भूपुत्र = पु० ६ त०। १ मङ्गले २ नरकासुरे च। ३ जानक्यां स्त्री शब्दर० गी० ङीष्।
भूपुर = न० भूरिव पुरम्। यन्त्रवहिःस्थे रेखासन्निवेशविशेषयुते भूम्याकारे स्थाने।
भूपेष्ट = पु० भूपस्येष्टः। राजादनीवृक्षे (पियासाल) राजनि० तद्वीजस्य चिरञ्चि इति ख्यातस्य राजाप्रयत्वात्तथात्वम्।
भूबदरी = स्त्री भुवि ख्याता बदरी। क्षुद्रकोल्यां राजनि०।
भूबल = न० नरपतिजयचर्य्योक्ते जयसाधनोपाये बलभेदे “स्वरोदयैश्च चक्रैश्च शत्रुर्यत्र समीऽधिकः। तत्र युद्धे बलं ज्ञेयं भूपलानां जयार्थिनाम्। तेषां नामानि वक्ष्येऽहं ख्यातानि ब्रह्मयामले। चतुरशीतिसंख्यानां यद्बलेन जयी रणे। उड्री जालन्धरी पूर्णा कामा कोल्लै कवीरिका। शिलीन्ध्रा च महामारी क्षेत्रपाली च यंशजा। रुद्रकालानलं प्रोक्तं कालरेखा निरामया। जयलक्ष्मीर्महालक्ष्मीर्जया विजयभैरवी। बाला योगेश्वरी चण्डी व्योमाम्बुभूककर्त्तरी। शार्दूली सिंहली तन्वी महामाया महेश्वरी। देवकोटी शिवा शक्तिर्घृष्टा माला वराटिका। त्रिमुण्डा मत्सरी धर्मा मृता वृष्टाक्षयाऽक्षया। दुर्मती प्रवरा गौरी कासी नरहरी स्मृता। खेचरी भूचरी गुह्या द्वादशी विष्टि केवला। त्रैलोक्यविजया काली कराला यडवा परा। रौद्री च शिशुमातङ्गी अभेद्या दहनी जिता। बहुला वर्गभूमिश्च कापाली त्वनिलानला। चन्द्रार्कविम्बभूमी च ग्रहभूराशिलग्नगा। राहुकाकानकी भूमिः स्वर भूमिर्द्विधा मता। रुद्रत्रिकालिकाञ्चैव राहुकाष्टविधस्तथा। चन्द्रः सप्तविधः सूर्य्यचतुर्धा योगिनी त्रिधा। कालवेला त्रिभेदा च तिधिनक्षत्रवारगा। इमानि भूवलान्यत्र ज्ञात्वा यः प्रविशत् रक्षे। करयस्तस्य नश्यन्ति मेघा वातहता यथा। सममात्राधिके प्रान्नि स्वरैश्चक्रैश्च भूबलैः। स्यानसैन्याधिके शत्रौ बणविज्ञानसंयुते”। एतल्लक्षणानि तत्र दृश्यानि।
भूभर्तृ = पु० याजका०। ६ त०। भूमिपतौ भूमिभर्त्त्रादयोऽप्यत्र।
भूभुज् = पु० भुवं भुड्क्ते भुनक्ति पालयति वा भुज–क्विप्। भूपाले जटा०।
भूभृत् = पु० भुवं बिभर्त्ति धारयति, पालयति वा भृ क्विप्। १ पर्वते २ भूपाले च मेदि०।
भूमण्डल = त्रि० ६ त०। मण्डलाकारे भूमिभागे।
भूमन् = पु० बहोर्भावः बहु + इमनिच् “बहोर्लोपो भूश्च बहोः” इलोपे भ्वादेशः। १ बहुत्वे अतिशये स्वार्थे इमनिण् प्राप्यत् २ अतिशयबह्वत्वयुते च। “यो वै भूमा तत्मुखं {??} भूमैव सुखं भूमा त्वेव {??}- तव्यः। भूमानं भगवो विजिज्ञासे” छा० उ०। “यो वै भूमा महत् निरतिशयम् बहुरितिपर्य्यायास्तत् सुखं ततोऽर्वाक् सातिशयत्वादल्पम्। अतस्तद्भिन्नेऽक्ष्पे सुखं नास्ति अल्पानां तृष्णाहेतुत्वात् तृष्णा च दुःखवी जम्। न हि दुःखवीजं ज्वरादि सुख दृष्टं लोके। तस्माद्युक्तं नाल्पे सुखमस्तीति। अतो भूमैव सुखम् तृष्णादिदुःखवीजत्वासम्भवाद्भूम्नः” भाष्यम् तस्मिन् प्रपाठके च यणात् या भूमा तन्निरूपितं दृश्यम्।
भूमय = त्रि० भू + मयट्। १ मृदात्मके २ छायायां त्रिका० स्त्री ङीप्
भूमि(मी) = स्त्री भवन्त्यस्मिन् भूतानि भू–मि किञ्च वा ङीप्। १ पृथिव्याम् २ स्थानमात्रे मेदि० ३ जिह्वायां संक्षि० उणा० योगशास्त्रोक्ते ४ योगिनां चित्तस्यावस्थाभेदे, ५ एकसंख्यायाञ्च। पाण्डुसंख्यादितोऽच् समा० बहु०। द्विभूमः प्रसादः पाण्डुभूमो देशः। योगोक्तमूमयश्च “तस्य भूमिषु विनियोगः” पा० सू० उक्ताः। “तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः। नह्यजिताधरभूमिरनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते तदभावाच्च कुतः तस्य प्रज्ञालोकः, ईश्वरप्रसादाज्जितोत्तरभूमिकस्य च नाधारभूमिषु परचित्तज्ञानादि संयमो युक्तः कस्मात् तदर्थस्यान्यतएवावगतत्वात् भूमेरस्या इयमनन्तरा भूमिः” भा०। सा च भूमिः सप्तप्रकारा यथोक्तं तत्रैव “तस्य सप्तधा प्रान्तभूमिः प्रज्ञा” पात० सू०। “तस्मेति प्रत्युदितख्यातेः प्रत्याम्नायः सप्तधेति अशुद्ध्याबरणमलापनमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तगकारैव प्रज्ञा विवेकिनो भवति। तद्यथा परिज्ञातं ज्ञेयं नास्य पुनः परिज्ञेयमस्ति क्षीणा हेयहेतवी न पुनरेतेषां क्षेतव्यमस्ति साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपो हानोपाय इत्येषा चतुष्टवी कार्य्यविमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिगुणा गिरिशिस्वरकूटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति। न चैषां विप्रलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति एतस्यासवस्थायां शुकसम्बन्धातीतस्यरूपमात्रज्योतिरमलः केवली पुरुष पत्येतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कशल इत्याख्यायते प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति सिद्धा भवति विवेकरवा तिर्हामोपायः इति” भा०। “प्रत्युदितख्यातेः वर्त्त- मानख्यातेः योगिनः प्रत्याम्नायः परामशः अशुद्विरेवावरणं चित्तसत्त्वस्य तदेव मलं तस्यापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे तामसराजसव्युत्यानप्रत्ययानुत्पादे निर्विप्लववियेकख्यातिनिष्ठामापन्नस्य सप्तप्रकारैव प्रज्ञा विवेकिनो भवति विषयभेदात् प्रज्ञामेदः प्रकृष्टोऽन्तो यासां भूमीनामवस्थानां तास्तथोक्ता यतः परं नास्ति संप्रकर्षः प्रान्ता भूमयः यस्याः प्रज्ञाया वियेकख्यातेः सा तथोक्ता ता एव सप्तप्रकाराः प्रज्ञा भूमीः उदाहरति। तद् यथेति तत्र पुरुषप्रयत्ननिष्पाद्यासु चतसूषु भूमिषु प्रथमामुदाहरति परिज्ञातं हेयं यावत् किल प्राधानिकं तत् सर्वं परिणामतापसंस्कारैर्गुणवृत्तिविरोधात् दुःखमेवेति हेयं तत् परिज्ञातम्। प्रान्ततां दर्शयति नास्य पुनः किञ्चिद् परिज्ञातं परिज्ञेयमस्ति। द्वितीयायाह क्षीणा इति। प्रान्ततामाह न पुनरिति। तृतीयामाह साक्षात्कृतं प्रत्यक्षेण निश्चितं यथा संप्रज्ञातावस्थायामेव निरोध० समाधिसाध्यं हानं न पुनरस्मात् परं निश्चेतव्यमस्तीति शेषः। चतुर्थीमाह भावितो निष्पादितः विवेकख्यातिरूपो हानोपायो नास्याः परं भावनीयमस्ति इति शेषः। एषा चतुष्टयी कार्य्यविमुक्तिरिति कार्य्यान्तरेख विसुक्तिः प्रज्ञाया इत्यर्था प्रयत्ननिष्पाद्यामुक्त्वाऽनिष्पादनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह चित्तविमुक्तिस्तु त्रयो। तत्र ध्रथमासाह चरिताधिकारा बुद्धिकृतभोगावबर्गकार्य्येत्यर्थः। द्वितीयामाह गुणा इति प्रान्ततामाह न चैवामिति। तृतीयामाह एतस्यामवस्थायामिति तस्यामवस्थायां जीवन्नेव पुरुषः कुशलो मुक्त इत्युच्यते चरमदेहत्वादित्याह एतामिति। अनौपचारिकं मुक्तमाह प्रतिंप्रभवे प्रधानलयेऽपि चित्तस्य मुक्तः कशल इत्येव भवति गुणातीतत्वादिति” विवरणम्। पृथिवीरूपभूमिगुणाश्च भा० शा० उक्ता यथा “भूमेः स्थैर्य्यं गुरुत्वञ्च काठिन्यं प्रसवार्थता। गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः”। प्रथमगुरुत्वं पतनविरोधी गुणः द्वितीयगुरुत्वम् पिण्डपुष्टिरतो न पौनरुक्त्यम्। शक्तिः धारणादिसामर्थ्यम् सधातः संञ्जिष्टावयवत्वम्। स्यापना मनुष्यादेर्धारणानुफुलव्यापारः। धृतिर्धारणा इत्यर्थः।
भूमिकदम्ब = पु० भूमिजातः कदम्बः शा० त०। कदम्भभेदे “त्रिकदम्बाः कटूषप्रास वव्या दोषहरा हिमाः। कपाय निक्ताः पित्तघ्ना वीर्य्यवृद्धिकरा पराः” राजनि०।
भूमिकन्दली = स्त्री भूलम्ना कन्दली शा० त०। कन्दलीभेदे माघः ६। ३०। मल्लि०।
भूमिकम्प = पु० ६ त०। क्षितिचलने तत्कारणादिकं स फलविशेषं वृ० स० ३२ अ० उक्तं यथा “क्षितिकम्पमाहुरेके वृहदन्तर्जलनिवासिसत्त्वकृतम्। भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये। अनिलोऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्येके। केचित्त्वदृष्टकारितमिदमन्ये प्राहुराचार्य्याः। गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च। आकम्पिता पितामहमाहामरसदसि सव्रीडम्। भगवन्नाम ममैत० त्त्वया कृतं यदचलेति तन्न तथा। क्रियतेऽचलैश्चलद्भिः शक्ताह नास्य खेदस्य। तस्याः सगद्गदगिरं किञ्चित् स्फुरिताधरं विनतमीषत्। साश्रुविलोचननमवलोक्य पितामहः प्राह। मन्युं हरेन्द्र! घात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय। शक्रः कृतमित्युक्त्वा मा भैरिति वसुमतीमाह। किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम्। प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पविष्यन्ति। चत्वार्यार्यम्णाद्यान्यादित्यं मृगशिरोऽश्वयुक् चेति। मण्डलमेतद्वायव्यमस्य रूपाणि सप्ता हात्। धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन् भौमम्। विरुजन् द्रुमांश्च विचरति रविरपटुकरावभासी च। वायव्ये मकम्पे सस्याम्बुवनौषधीक्षयोऽभिहितः। श्वयथुश्वासोम्मादज्घरकासभवा वणिक्पीडा। रूपायुधभृद्वैद्याः स्त्रीकविगान्धर्वपण्यशिल्पिजनाः। पीड्यन्ते सौराष्ट्रककुरुमगधदशार्णमत्स्याश्च। पुष्याग्नेषविशाखाभरणीपित्र्याजभाग्यसञ्ज्ञानि। वर्गो हौतभुजोऽयं करोति रूपाण्यथैतानि। तारोल्कापातावृतमादीप्तमिवाम्वरं सदिग्दाहम्। विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः। आग्नेयेऽम्बुदनाशः सलिलाशयसङ्क्षयो नृपतितैरम्। दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डरोगश्च। दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्म० काङ्गबाह्लीकाः। तङ्गणकलिङ्गवङ्गद्रविडाः शवराश्च नैकविधाः। अभिजिच्छ्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमैत्राणि। सुरपथमण्डलमेतद्भवन्ति चास्य स्वरूपाणि। चलिताचलवर्ष्माणो गम्भीरविराविणस्तडित्वन्तः। गवचलिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः। ऐन्द्रं श्रुतिकुलजातिख्यातावनिपालगणपविध्वंसि। अ- तिसारगलग्रहवदनरोगकृच्छर्दिकोपाय। काशियुगन्धरपौरवकिरातकीराभिसारबलभद्राः। अर्बुदसुबास्तुमालबपीडाकरमिष्टवृष्टिकरम्। पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्न्यवरुणदैवानि। मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि। नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो वहुलाः। तडिदुद्भासितदेहा धाराङ्कुशबर्षिखो जलदाः। वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम्। गीनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति। षड्भिर्मासैः कम्पो द्वाम्यां पाकञ्च याति मिर्धातः। अन्यानप्युत्पातान् जगुरन्ये मण्डलैरेतैः। उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः। वातोऽतिचण्डो ग्रहणं रवीत्द्वोर्नक्षत्रतारागणवैकृतानि। व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमोऽनग्नेर्विस्फुलिङ्गार्चिषो बा। वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा। सन्ध्याविकाराः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्य्यनादाः। अन्यच्च यत् स्यात् प्रकृतेः प्रतीपं तत्मण्डलैरेव फलं निगाद्यम्। हन्त्यैन्द्रो वायव्यं वायुश्चात्यैन्द्रमेवमन्योऽन्यम्। वारुणहीतभुजावपि वेलानक्षत्रजाः कम्पाः। पथितनरेश्वरमरणव्यसनान्याग्नेयवायुमण्डलयोः। क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्चापि। वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोके। गावोऽतिभूरिपयसो निवृत्तवैराश्च भूपालाः। पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात्। सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः। पलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम्। सलिलपतिरशीतिसंयुतं कुलिशधरोऽभ्यधिकं च षष्टिकम्। त्रिचतुर्थसप्तमदिने मासे पक्षे तथा त्रिपक्षे च। यदि भवति भूमिकम्पः प्रधाननृपनाशनो भवति।” भूमिचलनादयोऽप्यत्र। “निर्घाते भूमिचलने” म० त०।
भूमिका = स्त्री भूमिरिव कायति कै–क। १ रचनायां “अन्यरूपैर्यदन्यस्य प्रवेशस्तत्र भूमिका” इत्युक्ते नान्ये अभिनेयपात्रादिवेशान्तरसूचके २ ग्रन्थे ३ वक्तव्यकथोद्वाते ४ कक्षायाञ्च “नैयायिकादिभिरात्मा प्रथमभूमिकायामयतारितः” इति सांख्यप्रवचनभाष्यम्।
भूमिकुष्माण्ड = पु० भूमिजातः कुष्माण्डः शा० त० (भु~इ० कुमडा) ख्याते लताभेदे रत्नमा०।
भूमिखर्जूरिका = स्त्री भुवि जाता खर्जूरिका शा० त०। स्वर्जरिकाभेदे “भूमिखर्जूरिका साद्वी दुरारोहा मृदु- च्छदा। अथ स्कन्धफला काककर्कटी स्वादुमस्तका। पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत्। खर्जूरी गोस्तनाकारा पराद्द्वीपादिहागता। जायते पश्चिमे देशे सा छोहोरेति कीर्त्तिता। खर्जूरीत्रितयं शीतं मधुरं रसपाकयोः। स्निग्धं रुचिकरं हृद्यं क्षतक्षय हरं गुरु। तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम्। कोष्ठमारुतकृद्बल्यं बाह्यवातकफापहम्। ज्वराभिघातक्षुत्तृष्णाकासश्वासनिवारणम्। मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत्। महतीभ्यां गुणैरल्पा स्वल्पखर्जूरिका स्मृता। खर्जूरीतरुतोयन्तु मदपित्तकरं भवेत्। वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत्” भावप्र०।
भूमिचम्पक = पु० भूमिलग्नः चम्पकः शाक० त० (भूइचांपा) वृक्षभेदे शब्दच०।
भूमिज = पु० भूमेर्जायते जन–ड। १ मङ्गलग्रहे २ नरकासुरे मेदि० ३ भूमिकदम्बे ४ मनुष्ये च राजनि०। ५ भूमिजातमात्रे त्रि०। ६ सीतायां स्त्री।
भूमिजगुग्गुलु = पु० कर्म०। आशापुरजाते गुग्गुलौ राजनि०
भूमिजम्बु = स्त्री ७ त०। क्षुद्रजम्ब्वां रत्नमा० वा जङ् तत्रार्थे राजनि०। स्वार्थे क। तत्रार्थे स्त्री अमरः।
भूमिजीविन् = पु० भूमिं तत्कर्षणं जीवति जीव–णिनि। वैश्ये शब्दरत्ना०।
भूमिञ्जय = पु० विराटनृपस्य पुत्रभेदे भा० वि० ३५ अ०।
भूमिधर = पु० भूमिं धरति धृ–अच्। १ कुलपर्वते उपचारात् २ पर्वतमात्रे।
भूमिप = पु० भूमिं पाति पा–क। नृपे जटा०। भूमिपालादयोऽप्यत्र।
भूमिपक्ष = पु० भूमिः पक्ष इवास्य। वाताश्वे हारा०।
भूमिपति = पु० ६ त०। भूपतौ भूमिनाथादयोऽप्यत्र।
भूमिपिशाच = पु० भूमौ पिशाच इव। तालवृक्षे जटा०।
भूमिपुत्र = पु० ६ त०। १ मङ्गलग्रहे २ नरकासुरे च भूमिपुत्रादयोऽप्यत्र। ३ जानक्यां स्त्री गौरा० ङीष्।
भूमिप्रविभाग = पु० सुश्रुतोक्ते औषधाङ्गभूमिविभागे “अथातो भूमिप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः। श्वभ्रशकराश्मविषमवल्मीकश्मशानाऽद्यतनदेवतायतनसिकताभिरनुपहतामनूषरामभङ्गुरामदूराद्रिकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरां समां कृष्णां गौरीं लोहितां वा मूमिमौषधार्थं परीक्षेत तस्यां जातमपि कृमिविषशस्त्रातपपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टं पृथ्वपगाढमूलसुदीच्यां चौषधमाददीतेत्यौषधभमिपरीक्षा- विशेषः सामान्यः। विशेषतस्तु। तत्राश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा। स्निग्धा शीतलाऽऽसन्नोदका स्निग्धशस्यतृणकोमलवृक्षप्राया शुक्लाऽम्बुगुणभूयिष्ठा। नानावर्णा लघ्वश्मवती प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा। रूक्षा भस्मरासभवर्णा तनुरूक्षकोटराल्परसवृक्षप्रायाऽऽनिलगुणभूयिष्ठा। मृद्वी समाश्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा। तत्र केचिदाहुराचार्य्याः प्रावृट्वर्षाशरद्धेमन्तवस न्त ग्री ष्म यथासंख्यं मूलपत्रत्वक्क्षीरसारफलान्याददीतेति तत्तु न सम्यक् कस्मात् सौम्याग्नेयत्वाज्जगतः। सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीताग्नेयान्याग्नेयेष्वेवमव्यापन्नगुणानि भवन्ति। सौम्यान्यौषघानि सौम्येष्वृतृषु गृहीतानि सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुरस्निग्धशीतानि जायन्ते। एतेन शेषं व्याख्यातम्। तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्रव्याण्याददीताग्न्याकाशमारुतगुणमूयिष्ठायां वमनद्रव्याणि। उभयगुणभूयिष्ठायामुभयतीभागानि। आकाशगुणभूयिष्ठायां संशमनान्येवं बलवत्तराणि भवन्ति। सर्वाण्येव चाभिनवान्यन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः। सर्वाण्येव सक्षीराणि वीर्य्यवन्ति तेषामसम्पत्तावनतिक्रान्तसंवत्सराण्याददीतेति। भवन्ति चात्र। गोपालास्तापसा व्याधा ये चान्ये वनचारिणः। मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते। सर्वावयवसाध्येषु पलाशलवणादिषु। व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते। गन्धवर्णरसोपेता षड्विधा भूमिरिष्यते। तस्माद्भूमिस्वभावेन वीजिनः षड्रसैर्युताः। अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः। रस एव स चाव्यक्तो भूमेरेव रसाद्भवेत्। सर्वलक्षणसम्पन्ना भूमिः साधारणी स्मृता। द्रव्याणि यत्र तत्रैव तद्गुणानि विशेषतः। विगन्धेनापरामृष्टमविपन्नं रसादिभि। नवं द्रव्यं पुराणं वा ग्राह्यमेव विनिर्दिशेत्। विडङ्गं पिप्पली क्षौदं सर्पिश्चाप्यनवं हितम्। शेषमन्यत्त्वभिनवं गृह्णीयाद्दोषवर्जितम्। जङ्गमानां वयःस्थानां रक्तरोमनखादिकम्। क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत्। प्लोतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम्। प्रशस्तायां दिशि शुचौ भोषजागारमिष्यते।”
भूमिमण्ड = पु० भूमिं मण्डयति मण्ड–अण्। (हापरमालि) लताभेदे रत्नमा०।
भूमिमण्डपभूषण = स्त्री भूमिर्मण्डप इव तं भूषयति भूषिल्यु। माधवीलतायाम् राजनि।
भूमि(मी)रुह = पु० भूम्या भूमौ वा रोहति रुह–क। वृक्षे महीरुहादयोऽप्यत्र।
भूमिलाभ = पु० भूमिर्लभ्यतेऽत्र लभ–आधारे घञ्। मृत्यौ त्रिका०।
भूमिलेपन = न० भूमिर्लिप्यतेऽनेन लिप–करणे ल्युट् ६ त०। गोमये हेमच०।
भूमिवर्द्धन = पु० भूमिं वर्द्धयति स्वदेहस्थपार्थिवांशोपचयेन वृध–णिच्–ल्यु। शवे मृते हेमच० क्षितिवर्द्धनादयोऽप्यत्र
भूमिशय = पु० भूमौ शेते शी–अच्। १ बालके २ भूमौ शयाने त्रि०
भूमिष्ठ = पु० भूमौ तिष्ठति स्था–क अम्ब० षत्वम्। भूपृष्ठस्थे।
भूमिसत्त्र = न० भूमिदानरूपं सत्त्रं शा० त०। भूमिदानरूपे यागभेदात्मके सत्त्रे “इक्षुभिः सहितां भूमिं यवगोधूमशालिनीम्। गोऽश्ववाहनपूर्णां वा बाहुवीर्य्यादुपार्जिताम्। निधिगर्त्तां ददद्भूमिं सर्वरत्नपरिच्छदाम्। अक्षयान् लभते लोकान् भूमिसत्त्रं हि तस्य तत्” भा० अनु०६२ अ०
भूमिसम्भवा = स्त्री भूमिः सम्भवोऽस्याः। १ सीतायां जटा०। २ मङ्गलग्रहे ३ नरकासुरे पु०। ४ भूमिजातमात्रे त्रि०।
भूमिसेन = पु० दशममनोःपुत्रभेदे मार्क० पु० ९४ अ०।
भूमिस्तोम = पु० एकाहसाध्ये यज्ञभेदे आश्व० ९५। २।
भूमिस्पृश् = पु० भूमिं स्पृशति स्पृश–क्विन्। १ वैश्ये २ मनुष्ये ३ चौरभेदे मेदि०। ४ खञ्जे ५ अन्धे च शब्दरत्ना०।
भूमी = स्त्री भू–मि किच्च ङीप्। १ कृष्णमृत्तिकायां विषापहननहेतुतया साच सुश्रुते उक्ता “भूमी कुरुवकश्चैव गण एकसरः स्मृतः। एकशो द्विस्त्रिशो वापि प्रयोक्तव्यो विषापहः”।
भूमीच्छा = स्त्री भूमौ तत्पतने इच्छा। भूमिपतनेच्छायाम्।
भूमीन्द्र = पु० भूमौ इन्द्र इव। नृपे शब्दर०।
भूमीसह = पु० भूमीं सहते सह–अच्। (भुरसर) वृक्षभेदे “भूमीसहस्तु शिशिरः रक्तपित्तप्रसादनः” भावप्र०।
भूम्यनन्तर = पु० भूमेरनन्तरः। स्वविषयसनिष्टदेशस्थे नृपाणां शत्रौ कामन्द० ८५९।
भूम्य = त्रि० भूमिमर्हति यत्। धरार्हे ऋ० ५। ४१। १०।
भूम्यामलकी = स्त्री भूमिलग्ना आमलकी शाक० त०। खनामख्याते क्षुपे राजनि०। “स्यात् भूम्यामलकी तिक्ता कषाया मघुरा हिमा। पिपासाकासपित्तासृक्कण्डूपाण्डुक्षयपणुत्” भावप्र०।
भूम्यामली = स्त्री भूम्या सह आमलति सम्बध्नाति आ + मल अच् गौ० ङीष्। भूम्यामलक्याम् राजनि०।
भूम्याहुल्य = न० क्षुपभेदे (भूजातखड) राजनि०। शब्दरत्ना०
भूयस् = अव्य० भुवे भावाय यस्यति यस–भावे क्विप्। पुनरर्थे
भूयस् = त्रि० अतिशयेन बहुः ईयसुन्। “वहोर्लोपो भूश्चबहोः” ईलोपः भूरादेशश्च। बहुतरे मेदि० स्त्रियां ङीप्।
भूयशस् = अव्य० भूयस् + वीप्सार्थे शस् सलोपः। बहुश इत्यर्थे
भूयिष्ठ = त्रि० अतिशयेन बहुः इष्ठन् भ्वादेशो युक् च। १ बहुतरे २ प्रचुरे च।
भूयुक्ता = स्त्री भुवा युक्ता संबद्धा। भूमिखर्जूर्य्याम् राजनि०
भूर् = अव्य० भू–रुक्। अन्तरीक्षलोकादधःस्थे चरणसञ्चारयोग्यस्थाने लोके भूः स्वाहा इदं भूः यजुषां देवतोद्देशः।
भूरि = त्रि० भू–क्रिन्। १ विष्णौ २ शिवे ३ इन्द्रे च मेदि०। ४ स्वर्णे न० शब्दरत्ना० बहु–रि भ्वादेशः ५ प्रचुरे त्रि० अमरः ६ सोमदपुत्रभेदे पु० भा० आ० १८६ अ०। शिवा० अषत्ये अण्। भौर भूरेरपत्ये पुंस्त्री०।
भूरिगन्धा = स्त्री भूरिः प्रचुरो गन्धो यस्याः। पुरानामगन्धद्रव्ये राजनि०।
भूरिगम = पु० भूरि भारयुक्तत्वेऽपि बहु गच्छति गम–अच्। गर्दभे राजनि० स्त्रियां जातित्वात् ङीष्।
भूरिज् = स्त्री भू–इजि ऊश्च रपरः। पृथिव्यां सि० कौ०।
भूरिदक्षिण = त्रि० भूरिर्दक्षिणा यस्य। १ बहुतरदक्षिणादानयुक्ते २ विष्णौ पु० “कपीन्द्रो भूरिदक्षिणः” विष्णुस०।
भूरिदुग्धा = स्त्री भूरीणि दुग्धानि निर्यासा यस्याः। वृश्चिकालौ राजनि०।
भूरिद्युम्न = पु० भूरि द्युम्नं यस्य। नवममनोः पुत्रभेदे सुद्रितपुस्तके हरिवं० ७ अ०। मार्क० पु०। भूद्युरिम्ण इति पाठः प्रथमादिकः तदेववाक्यतया भूरिद्युम्न इत्येव तत्र पाठस्यौचित्यात्।
भूरिधामन् = पु० नवममनोःपुत्रभेदे हरिवं० ७ अ०।
भूरिपत्र = पु० भूरीणि पत्राण्यस्य। उपर्बलतृणे राजनि०।
भूरिपलितदा = स्त्री भूरि पलितमिव दायति दै–क। पाण्डुरकदलीवृक्षे राजनि०।
भूरिपुष्पा = स्त्री भूरीणि पुष्पाण्यस्याः। शतपुष्प्याम् राजनि०
भूरिप्रेमन् = पु० भूरिः प्रचुरः प्रेमास्य। चक्रवाक राजनि०।
भूरिफेना = स्त्री भूरीणि फेनान्यस्याः। (चामकषा) सप्तलावृक्षे अमरः।
भूरिबला = स्त्री भूरीश्चि बलानि यस्याः ५ न०। २ अतिबलायाम् राजनि०। २ प्रचुरबले त्रि० ३ धृतराष्ट्रपुत्रभेदे पु० भा० श० २७ अ०
भूरिमल्ली = स्त्री भूरि बहु यथा म्यात् यथा मलति मल–लच् गौरा० ङीष्। अम्बष्ठायाम् राजनि०।
भूरिमाय = पुंस्त्री० भूरयः माया यस्य। १ शृगाले अमरः स्त्रियां योपधत्वात् टाप्। २ प्रभूतमायायुते त्रि०
भूरिमूलिका = स्त्री भूरीणि मूलानि यस्याः कप् टापि अत इत्त्वम्। अम्बष्ठायाम् नैघण्टुप्र०।
भूरिशस् = अव्य० भूरि–शस्। बहुश इत्यर्थे।
भूरिश्रवस् = पु० ६ ब०। चन्द्रवंश्ये १ सोमदत्तसुते नृपभेदे। भा० आ० १८७ अ०। २ प्रचुरयशस्के त्रि०।
भूरिश्रेष्ठिक = पु० भूरयः श्रेष्ठिनो यत्र। (भुरसुट्) गौडदेशस्थे पुरभेदे “गौडे राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा पुरी भूरिश्रेष्ठिकनाम धाम परमं तत्रोत्तमोनः पिता” प्रबोधच०।
भूरिहन् = त्रि० भूरीन् हन्ति हन–क्विप्। १ बहुतरनाशके २ असुरभेदे पु० भा० शा० २२७ अ०।
भूरुण्डी = स्त्री भुवं रुण्डति आच्छादयति रुडि–आवृतौ (माधववृत्तौ पठितः) अण् उप० स०। (हातिशु~डा) वृक्षभेदे अमरः।
भूरुह = पु० भुवि रोहति रुह–क ७ त०। महीरुहे वृक्षे शब्द मा०
भूर्ज = पु० ऊर्ज–अच् ७ त०। स्वनामख्याते वल्कप्रधाने वृक्षे। “भूर्जत्वचः स्पर्शवतीर्दधानाः” कुमा०। “भूर्जः कटुः कषायोष्णः भूतरक्षाकरः परः। त्रिदोषशमनः पथ्यः दुष्टकौटिल्यनाशनः” राजनि०। “कर्णरोगपित्तकफ मेदोविषहरश्च सः” भावप्र०।
भूर्जकण्टक = पुंस्त्री० “ब्रात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्टकः” मनूक्ते जातिभेदे स्त्रियां ङीष्।
भूर्जपत्र = पु० भुवि–ऊर्जं पत्रं यस्य। स्वनामख्याते वृक्षे। भूर्जत्वगादयोऽप्यत्र रत्नमा०।
भूर्णि = स्त्री भृ–नि नि० ऊश्च रपरः। पृथिव्यां सि० कौ०।
भूर्लोक = पु० कर्म०। वादसञ्चारयोग्यस्थानरूपे लोके।
भूलग्ना = स्त्री भूवि लग्ना ७ त०। शङ्खपुष्प्याम् राजनि०।
भूलता = स्त्री भुवि लतेब। महीलतायां (के~चो) सरीसृपभेदे हेम०।
भूलिङ्गशकुनि = पु० भूलिङ्गः शकुनिः कर्म०। बिलशायिनि पक्षिभेदे “प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा” भा० स० ४१ अ०। तद्विवृतिर्यथा “अथ चैषा न ते बुद्धिः प्रकृतिं याति मारत!। गयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा। भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे। भीष्म! तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः। मा साहसमितीदं सा सततं वाशते किल। साहसं चात्मनातीव चरन्ती नावबुध्यते। साहि मांसार्गलं भीष्म! मुखात् सिंहस्य खादतः। दन्तान्तरविलग्नं यत्तदादत्तेऽनल्पचेतना। इच्छतः सा हि सिंहस्य भीष्म! जीवत्यसंशयम्। तद्वत्त्वमप्य धर्मिष्ठ! सदा वाचः प्रभाषसे भा० स० ४४ अ०। “भूलिङ्ग शकुनिर्यथान्यद्वदत्यन्यत् करोति तद्वत्ते शुद्धं कामयन्ते शबलं वदन्तीत्यर्थः भुवं लिङ्गतीति भूलिङ्गो बिलशायी पक्षिविशेषः एषेति पाठे एषा अस्मदीया बुद्धिस्ते त्वदीया त्वद्वत्ते इति योज्यं तदा स्वसैव शकुन्युप्रमत्वम् अर्थविगर्हिताः उक्तिविपरीतक्रियया अर्थोविगर्हितो यासां ताः। वाशते शब्दं करोति। मांसार्गलं दंष्ट्रान्तरलग्नस्य मांसस्य वहिर्निर्गतभागमुल्लोलम् इच्छति इति। सा हि पक्षिणी मृत्युमुखे प्रविष्टापि तदुपेक्षया जीवन्ती यथा लोकानुपदिशति मा साहसभिति तथा त्वमुपदेशकारित्वात् मृत्युमुखे पतितोऽपि मृत्युना उपेक्षितो जीवस्यस्मांश्चोपदिशसि मृत्युमुखे न पतितव्यमिति” नील०।
भूवलय = न० भूर्वलयमिव। भूमिपरिधौ।
भूशमी = स्त्री भूलग्ना शमी शाक० त०। लघुशम्यां मदनपाल निघण्टुः
भूशय = पु० भुवि शेते शी–अच् ७ त०। १ बिलशये नकुलादौ। २ विष्णौ च “भूशयो भूषणो भूतिः” विष्णु स०। स हि रामावतारे समुद्रबन्धनाय सागरोपान्तभूमौ शयित इति तस्य तथात्वम्।
भूशर्करा = स्त्री भुवि ख्याता शर्करा शा० त०। कन्दभेदे नैघण्टुप्र०
भूशेलु = पु० भुवि ख्याता शेलुः शा० त०। भूकर्वुदारके राजनि०।
भूष = मण्डने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। भूषयति ते भूषति अबूभुषत्–त अभूषीत्।
भूषण = न० भूष्यतेऽनेन भूष–करणे ल्युट्। १ अलङ्कारे किरीटादौ। भावे ल्युट्। २ भूषायाम्। अलङ्कारभेदाः तत्साधनद्रव्याणि यथा “किरीदञ्च शिरोरत्नं कुण्डलञ्च ललाटिका। तालपत्रञ्च हारश्च ग्रैवेयकमथोर्मिका। प्रालम्विका रत्रसूत्रमुत्तङ्गोऽथर्क्षमालिका। पार्श्वद्योतो नखद्योतोह्यङ्गुलीच्छादक स्तवा। कटिलग्नं माणवको मूर्द्धतारा ललन्तिका। अङ्गदो बाहुवलयः शिस्याभूषणमिङ्गिका। प्रगण्डबन्धं तत्पाशं नाभिपूरोऽथ मालिका। सप्तकी शृङ्खलञ्चैव दण्डपत्रञ्च वर्णकः। जरुसूत्रञ्च नीवी च मुष्टिवद्धं प्रकीर्णकम्। पादाङ्गदं हंसकञ्च मूधुरं क्षुद्रघण्टिका। सुखपट्टमिति प्रोक्ता अशङ्काराः सुशोभनाः। चत्वारिंशदमी प्रोक्ता लोके वेदे च सौख्यदाः। अमङ्काराः प्रदानेन चतुर्वर्गप्रदायकाः। एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये। तेषां दैवतमुच्चार्य्य पूजयेत्तु विच क्षणः। शिरोगतानि चादद्यात् सौवर्णानि तु सर्वदा। चूडारत्नादिकानीह भूषणानि तु भैरव!। ग्रैवेयकादिहंसान्तं सौवर्णं राजतञ्च वा। निवेदयेत् तु देवेभ्यो नान्यतैजससम्भवम्। रीतिवङ्गादिसंजातं पात्रोपकारणादिकम्। दद्यादायसवर्जन्तु भूषणं न कदाचन। घण्टाचामरकुम्भादिपात्रोपकरणादिकम्। तद्भूषणान्तरे दद्यात् यस्मात्तु तदुपभूषणम्। सर्वं ताम्रमयं दद्याद् यत् किञ्चिद्भूषणादिकम्। सर्वत्र स्वर्णवत्ताम्रमर्घ्यपात्रे ततोऽधिकम्। पूजार्घ्यपात्रं नैवेद्याधारपात्रञ्च पानकम्। औडुम्बरं सदा विष्णोः प्रीतिदं तोषदं तदा। ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः। सर्वप्रीतिकरं ताम्रं तस्मात्ताम्रं प्रयोजयेत्। स्मोपयोगे नरः कुर्य्याद्देवानामपि पैरव!। ग्रीवोर्द्धदेशे रौप्यन्तु न कदाचिच्च भूषणम्। प्रावारः पानपात्रञ्च गेण्डुकं गृहमेव च। पर्य्यङ्कादि यदन्यच्च सर्वं तदुपभूषणम्। अयोमयमृते कांस्यमृते यद्भूषणं भवेत्। स्वर्णरौप्यस्य चाभावे त्वधःकाये नियोजयेत्। एतेषां भूषणादीनां यद्दातुं शक्यते नरैः। तत्तद्दद्यात् सम्भवे तु सर्वमेव प्रदापयेत्। चतुर्वर्गषदं नित्यं भूषणं सर्वसौख्यदम्। तुष्टिपुष्टि प्रीतिकरं यथाशक्तीष्टये सृजेत्। इदं ते भूषणं प्रोक्तं सर्वदेवस्य तुष्टिदम्” कालि० पु० ६८ अ०। तद्धारणदिनमुच्यते “रिवत्यश्विप्लनिष्ठासु हस्तादिष्वपि पञ्चसु। गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कारधारणम्। अनिष्टेष्वपि निर्दिष्टं वस्त्रालङ्कारधारणम्। उद्वाहे राजसम्भाने ब्राह्मणानाञ्च सम्मते। शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गुदन्तथा। कङ्कणं वालकञ्चैव मेखलाष्टाविति क्रमात्। प्रधानभूषणान्येषु यथोस्वं याति निश्चयः। पद्मरागश्च वज्रञ्च विजयो गोमेदस्तथा। मुक्तावैदूर्य्यनीलञ्च तथा मरकतं क्रमात्। आदित्यादिदशाजानां सर्वसम्पत्तिदावकाः। शुभर्क्षेणापि घटना सर्वेषामुपयुज्यते। प्रधानभूषणेष्वेवमप्रधाने न निर्णयः। प्रधानभूषणं प्रायः शिरसो ह्यभिधीयते। तस्य प्रधानभूतत्वादित्याह भृगुनन्दनः। सुखदा मणयः शुद्धा दुःखदाः दोषशालिनः।” इति युक्तिकल्पतरुः।
भूषा = स्त्री भूष–भावे अ। मण्डनक्रियायाम् अमरः।
भूषित = त्रि० भूष–क्त। अलङ्कृते।
भूष्णु = त्रि० भू–ग्ष्णु। भवनशीले।
भूसंस्कार = पु० ६ त०। यज्ञादौ भूमिभागस्य परिसमूह नोपलेपन रेखाकरणपांशूद्धरणजलकरणकाभ्युक्षणरूपेषु पञ्चसु संस्कारेषु तत्प्रकारश्च कात्या० श्रौ० २। १। २४ सूत्रपद्धतौ दर्शितो यथा “तत्र पूर्वमाहवनीयस्वरे पञ्च भूसंस्कारा कर्त्तव्याः तद्यथा दर्मैः खरं प्राक्संस्थमुदक्संस्थं वा त्रिः परिसमूह्य १ गोमयेन त्रिरुपलिप्य २ स्फेन प्रागायता उदक्संस्था उदगायताः प्राक्संस्था वा तिस्रो लेखाः स्वरप्रमाणाः कृत्वा ३ अनासिकाङ्गुष्ठेन ताभ्यो रेखाभ्यः पांशूनुद्धृत्य ४ अद्भिस्त्रिरभ्युक्षेत्” ५। परिसमूहनं (तृणानामपलुम्पनम्) कात्या० श्रौ० ४। १२। १० कर्कः।
भूसुत = पु० ६ त०। १ मङ्गलग्रहे शब्दमा० २ नरकासुरे च ३ सीतायां स्त्री।
भूस्तृण = न० भुवस्तृणम् पृषो० सुट्। भूतृणे चात्राके अमरः “गुह्यवीजञ्च भूतीकं सुगन्धं गोमयप्रियम्। भूस्तृणन्तु भवेच्छत्रा माला तृणकमित्यपि। भूस्तृणं कटुकं तिक्तं तीक्ष्णोष्णं रोचनं लघु। विदाहि दीपनं रूक्षमनेत्र्यं मुखशोधनम्। अवृष्यं बहुविट्कञ्च पित्तरक्तपदूषणम्” भावप्र०।
भूस्पृश = पु० भूमिं स्पृशति स्पृश क्विन्। मनुष्ये हेमच०।
भूस्वर्ग = पु० भूमिस्थितः स्वर्गः शा० त०। सुमेरुपर्वते जटा० तस्यामरधारत्वेन स्वर्गत्वात् तथात्वम्।
भृ = भरणे भ्वा० उभ० सक० अनिट्। भरति–ते अभार्षीत् बभार बभ्रे।
भृ = धारणे पोषणे च जु० उभ० सक० अनिट्। बिभर्त्ति बिभृते अभार्षीत् अभृत। बिभरामास–बभार। द्वित्। अथु भरथुः। ड्वित्। क्त्रि–मप् च। भृत्त्रिमः।
भृकुंस(श) = पु० भ्रुवा कुंसा(शा) इङ्गितज्ञापनं यस्य नि० भ्रुवः वा संप्रसारणम्। स्त्रीवेशधारिणि नटे अमरः।
भृकुटि(टी) = स्त्री भ्रुवः कुटिः भङ्गिः वा संप्रसारणं वा ङीपू। भ्रुभङ्गे “रचितभृकुटिबन्धं नन्दिना द्वारिरुद्धे” हरविलासः।
भृगु = पु०। भृज्जति क्विप् भृक् ज्वाला तया सहोत्पन्नः। १ ब्रह्मणः पुत्रे ऋषिभेदे “भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराऽभवत्। अङ्गारसंश्रयाश्चैव कविरित्यपरोऽभवेत्। सह ज्वालाभिरुत्पन्नो भृगुस्तस्मात् भृगुः स्मृतः” भा० अनु० ८५ अ०। “भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वसुदधेः पुनः। तथा धाता विधाता च तस्यां जातौ भृगोः सुतौ। आयतिर्नियतिश्चैव मेरुकन्ये महाप्रभो!। धातुर्विधातुस्ते भार्य्ये ययोर्जातो सुतावुभौ। प्राणश्चैव मृकण्डुश्च मार्कण्डेयी मृकुण्डतः। ततो वेद शिरा जज्ञे प्राणस्य द्युतिमान् सुतः। ततो वंशो मुनिश्रेष्ठा! विस्तरं भार्गवो गतः” वह्निपु०। २ महादेवे ३ शुक्रग्रहे मेदि०। ४ गिरिसानौ ५ जमदग्नौ हेम०। ६ निरवलम्बने पर्वताद्युच्चस्थाने यतः पातेऽवलम्बनं न भवति तस्मिन् अतटस्थाने अमरः। भृगोर्गोत्रापत्यानि अण् बहुषु तस्य लुक्। ८ भृगोरपत्येषु ब० व०। ९ वरुणापत्ये ऋषिभेदे “भृगुर्वै वारुणिर्वरुणं पितरमुपससाद” तैत्ति० उ०।
भृगुक = पु० कूर्मचक्रस्य दक्षिणपार्श्वस्थे देशभेदे मार्कपु० ५८ अ०।
भृगुकर्ण = पु० तीर्थभेदे काशी० ६ अ०।
भृगुकेशव = पु० काशीस्थे भृगुस्थापितकेशवमूर्त्तिभेदे काशी० २३ अ०।
भृगुज = पु० भृगोर्जायते जन–ड। भार्गवे शुक्राचार्य्ये।
भृगुतनय = पु० ६ त०। शुक्राचार्य्ये भृगुनन्दनभृगुसुतादयोऽप्यत्र
भृगुतुङ्ग = न० तीर्थभेदे भा० आ० २१५ अ०। भा० व० ८४ अ०।
भृगुपति = पु० भृगूणां भार्गववंशस्य पतिः। परशुरामे शब्दमा० तेषां हैहयपतितो हि तेन रक्षा कृता इति तस्य तथात्वम्
भृगुभूमि = पु० भार्गवपुत्रभेदे हरिवं० ३ अ०।
भृगुवल्ली = स्त्री भृगुणाऽधीता बल्ली। “भृगुर्वै वारुणिर्वरुणं पितरमुपससादं” इत्यादिकायां तैत्तिरोयापनिषदः तृतीययङ्ख्याम्।
भृगूणांपति = पु० ६ त० अलुक्स०। परशुरामे शब्दर०।
भृङ्ग = पु० भृ–गन् कित् लट् च। भ्रमरे २ कलिङ्गविहगे (सिङ्गा) अमरः। ३ भृङ्गराजे ४ जारे मेदि० ५ भृङ्गार ६ भृङ्गरोखे च कीटभेदे (मीमरुल) शब्दरत्ना०।
भृङ्गक = पु० भृङ्ग इव कायति कै–क। राजवाशनखगे शब्दच०
भृङ्गजा = स्त्री भृङ्ग इव जायते जन–ड। १ भार्ग्याम्। २ अगुरुचन्दने न० राजनि० ३ अभ्रके ४ गुडत्वचि न० रत्नमा०।
भृङ्गपर्णी = स्त्री भृङ्ग इव कृष्णत्वात् पर्णं यस्याः ङीप्। सूक्ष्मैलायाम्। स्वार्थे क। भृङ्गपर्णिका तत्रार्थे शब्दच०
भृङ्गप्रिया = स्त्री ६ त०। मादवीलतायां प्रचुरमधुमत्त्वात् तस्यास्तत्प्रियत्वम् राजनि०।
भृङ्गमूलिका = स्त्री भृङ्गस्य भृङ्गराजस्येव मूलमस्याः कप् कापि अत इत्त्वम्। भ्रमरच्छक्क्याम् राजनि०।
भृङ्गरज = पु० भृङ्गान् रञ्जयति अन्तर्भूतण्यर्थे रन्ज–अच् पृषो० नलोपः। भृङ्गराजे (केशुरिया)। भरतः।
भृङ्गरजस् = पु० भृङ्गान् रजयति अन्तर्भूतण्यर्थे रन्ज–असुन् नलोपः। भृङ्गराजे अमरटीकायां भरतः।
भृङ्गराज = पु० भृङ्गान् रजयति रन्ज–णिच्–अण् नि० ६ त०। (केशुरिया)। १ क्षुपभेदे। “भृङ्गराजः लटुस्तिक्तो रूक्षोष्णः कफवातनुत्। केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत्। दन्त्यो रसायनी बल्यः कण्ठनेत्रक शिरोर्त्तिजित्” भावप्र० २ पक्षिभेदे ६ त० टच्। ३ भ्रमरश्वेष्ठे मेदि० ४ यक्षभेदे च धरणिः।
भृङ्गराजाद्य = न० “भृङ्गराजरसप्रस्थे यष्टोमधुपलेन च। तैलस्य कुडनं पक्वं सद्यो दृष्ठिं प्रसादयेत्। तत् स्याद् बलीपलितघ्नं मामेनैतन्न संशयः” चक्रदत्तोक्ते तैलभेदे।
भृङ्गरिट(टि) = पु० भृङ्ग इव रटति अच् इन् वा पृषो० अत इत्त्वम्। शिवपार्श्वचरभेदे।
भृङ्गरोल = पु० भृङ्ग इव रौति रु–अच्। (भीमरुल) ख्याते कीटभेदे त्रिका०।
भृङ्गवल्लभ = पु० ६ त०। १ धाराकदम्बे २ भूमिकदम्बे च। भृङ्गवत् लभ्यते लभ–क। २ भूमिजम्ब्वाम् स्त्री राजनि०।
भृङ्गसोदर = पु० भृङ्गस्य सोदर इव। (केशुरिया) केशराजे त्रिका०
भृङ्गानन्दा = स्त्री आनन्दयति आ + नन्द + णिच्–अच् ६ त०। यूथिकायाम् (युइ) राजनि०।
भृङ्गाभीष्ट = पु० अभि + ष–क्त ६ त०। आम्रवृक्षे राजनि०।
भृङ्गार = पु० बभर्त्ति जलं भृ–आरक् नि०। १ स्वर्णमयजलपात्रभेदे अमरः २ जलपात्रभेदे च (झारी)। भृङ्ग इव ऋच्छति ऋ–अच्। ३ भृङ्गराजे जटा०। ४ लवङ्गे ५ सुवर्णे च न० राजनि०। ६ झिल्लीनामकीटे स्त्री अमरः गौरा० ङीष्। स्वार्थे क। भृङ्गारिका तत्रैव। तत्र भृङ्गार पात्ररचनादिकं युक्तिकल्पतरावुक्तं यथा “राज्ञोऽभिषेकपात्रं यद् भृङ्गार इति तन्मतम्। तदष्टधा तस्य मानं प्रकृतिश्चापि चाष्टधा। सौवर्णं राजतं भौमं ताम्रं स्फाटिक्रमेब च। चान्दनं लौहजं शार्ङ्गमेतदष्टविधं मतम्। भानु १२ दिङ् १० नवसप्ताष्टरुद्र ११ लोक३ सुरोन्मिताः ३३। अष्टावष्टौ समाख्याता आयामपरिणाहयोः। द्विचतुर्वाण ५ वेदाब्धि ४ वाण ४ सप्ताष्टवृत्तिता। यथाक्रमं समुद्दिष्टमादित्यादिदशाभुवाम्। पद्मरागस्तथा वज्रं बेदूर्य्यं मौक्तिकन्तथा। नीलं मारकतञ्चेव मुक्ता च सप्तकीर्त्तिताः। भृङ्गारसप्तके न्यास्या न भौमो मणिमर्हति। कानकं मृण्मयं वापि सर्वेषामुपयुज्यते।” “कानकन्तु क्षितीशानां मृण्मयं सार्वभौतिकम्। शङ्खपद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात्। चतुर्विधानां भूपानां चान्द्रः (रौप्यः) सर्वत्र शस्यते। श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते। एतेषां सलिलैः सेकश्चतुर्णां स्यान्मयीभुजाम्। मल्ली पद्मञ्च नीलञ्च तथा कृष्णापराजिता। एषां पुष्याणि केशेषु चतुर्जातिमही भूजाम्। हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च। चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि। इत्थं निश्चित्य यः कुर्य्यान्नृपतिः सेकमात्मनः। सं चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन्”।
भृङ्गारि = स्त्री भृङ्गवद्वणमृच्छति ऋ–इन्। १ केरिकापुष्पे २ भ्रमरच्छल्ल्यां राजनि०।
भृङ्गाह्वा = पु० भृङ्गमाह्वयते स्वर्द्धते आ + ह्वे–क। १ जीरके २ भृङ्गराजे च ३ भ्रमरच्छल्यां स्त्री राजनि०।
भृङ्गि = पु० भृ–निक् नुट् च। शिवपार्श्वचरभेदे। “प्राप्ता गणाधिपत्यं त्वं नाम्ना भृङ्गिरिति स्मृतः” वामनपु०।
भृङ्गिन् = पु० भृङ्गस्तद्वर्णः कृष्णत्वादस्त्यस्य इनि। १ वटवृक्षे राजनि० २ शिवानुचरभेदे। तस्य शिवतेजो जातत्वेऽपि कृष्णत्वात् तद्धामता यथोक्तं कालिकापु० ४५ अ० यथा “अग्नावुत्सृज्यमानस्य तजसः शशभृद्भृतः। अणुद्वतमतिस्वल्पं गिरिप्रस्थे पपात ह। तयोः कारणयोः बद्यः सम्भूतौ शङ्करात्मजौ। एको भृङ्गलमः कृष्णो भिन्नाञ्जननिभोऽपरः। भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत्। महाकृष्णैकरूपस्य महाकालेति लोकभृक्”। वामनपु० तु अन्धकासुरस्यैव शिववरेण भृङ्गिरूपत्व गणाधिपत्यञ्च जातमित्युक्तम्।
भृङ्गी = स्त्री भृ–गन् कित् नुट् च गौरा० ङीष्। अतिविषायाम् राजनि०।
भृङ्गीफल = पु० भृङ्ग्या अतिविषाया इव फलमस्य। आम्रातके राजनि०।
भृङ्गीश = पु० ६ त०। महादेवे शब्दरत्न०।
भृङ्गेरिटि = पु० भृङ्गरिटि + पृषो०। भृङ्गिणि शिवपार्श्वचरे त्रिका०।
भृङ्गेष्टा = स्त्री ६ त०। १ घृतकुमार्य्यां २ भार्म्यां ३ तरुण्यां ४ काकजम्ब्वाञ्च राजनि०।
भृज = भर्जने (भाजा) पाकभेदे भ्वा० आत्म० सक० सेट्। भर्जते अभर्जिष्ट। ईदित् निष्ठायां नेट् भृक्तः।
भृज्जन = पु० भ्यसज–करणे क्युत् सम्प्र०। अम्बरीषे (भाजनाखोला) उज्ज्व०
भृणीय = क्रोधे भा० आत्म० सक० सेट् निघण्टुः। भृणीयते। अभृणीरिष्ट।
भृण्टिका = स्त्री भिरिण्टिका पृषो०। श्वेतगुञ्जायाम् राजनि०।
भृण्डि = स्त्री वीचौ हारा०।
भृत = त्रि० भृ–क्त। १ पुष्टे वेतनादिना प्रतिपालिते २ दासभेदे च। “उत्तमस्त्वायुधीयो यो मध्यमस्तु कृषीवलः। अधमो भारवाही स्यादित्येवं त्रिविधो भृतः” मिता०। भावे–क्त। ४ भरणे न०।
भृतक = त्रि० भृतं भरणं वेतनमुपजीवति कन्। वेतनोषजीविनि अमरः “भृतकाध्यापको यस्तु नृतकाध्यापितस्तथा” मनुः। भृतकभेदाः शुक्रनीतिसारे ४ स्य० उक्ता यथा “दश प्रोक्ताः पुरोधाद्या ब्राह्मणाः सर्व एव ते। अभावे क्षत्रिया योज्यास्तदभावे तथोरुजाः। नैव शूद्रास्तु संयोज्या गुणवन्तोऽपि पार्थिवैः। भागग्राही अत्रियस्तु साहसाधियतिश्च सः। ग्रामपो ब्राह्मणो योज्यः कायस्थो लेखकस्तथा। शुक्लग्राही तृ वैश्यो हि प्रतिप्रतिहारश्च पादजः। सेनाधिपः क्षत्रियस्तु ब्राह्मणस्तदभावतः। न वैश्यो न च वै शूद्रः कातरश्च कदाचन। सेनापतिः शूर एव योज्यः सर्वासु जातिषु। भसङ्करचर्तुर्वर्णधर्मोऽयं चैव पावनः। यस्य वर्णस्य यो राजा स वर्णः सुखमेधते। नोपकृतं मन्यते स्य न तुष्यति मुसेवनैः। कथान्तरे न स्मरति शङ्कते प्रलपत्यपि। क्षुभ्रस्तनोति मर्माणि तं नृपं भृतकस्त्यजेत्”
भृति = स्त्री भृ–क्तिन्। १ भरणे २ पोपणे च करणे क्तिन्। ३ वेतते अमरः ४ सूल्ये च मेदि०। भृत्यभेदानां भृतिदानप्रकारादिकं शुक्रनीतिसारे उक्तं यथा “कालमानं त्रिधा ज्ञेयं चान्द्रं सौरं च सावनम्। भृतिदाने सदा सौरं चान्द्रं कौसीदबुद्धिषु। कल्पवेत् सावनं नित्यं दिनभृत्येऽवधौ सदा। कार्य्यमाना कालमाना कार्य्यकालमितिस्त्रिधा। भृतिरुक्ता तु तद्विज्ञैः सा देया भाषिता यथा। अयं भारस्त्वया तत्र स्थाप्यस्त्वैतावतीं भृतिम्। दास्यामि कार्य्यमाना सा कीर्तिता तन्निदेशकैः। वत्सरे वत्सरे वापि नासि मासि दिने दिने। एतावतीं भृतं तेऽहं दास्यामीति च कालिकी। एतावता कार्य्यामिदं कालेनापि त्वया कृतम्। भृतिमेतावतीं दास्ये कार्य्यकालमिता च सा। न कुर्य्याद् भृतिलोपं तु तथा भृतिविलम्बनम्। अवश्यपोष्यभरणाभृयिर्मध्या प्रकीर्त्तिता। परिपोष्या भृतिः श्रेष्ठा स सा- न्नाच्छादनार्थिका। भवेदेकस्य भरणं यथा सा हीनसंज्ञिका। यथा यथा तु गुणवान् भृतकस्तद्भृतिस्तथा। संयोज्या तु प्रयत्नेन नृपेष्णात्महिताय वै। अवश्यपोष्यवर्गस्य भरणं भृतकाद्भवेत्। तथा भृतिस्तु सयोज्या तद्योग्या भृतकाय यै। ये भृत्या हीनभृतिकाः शत्रवस्ते स्वयं कृताः। परस्य साधकास्ते तु छिद्रे कोशप्रजा हराः। अन्नाच्छादनमात्रा हि भृतिः शूद्रादिषु स्मृता। तत्पापभागन्थथा स्यात् पोषको मांमभोजिषु। यद् ब्राह्मणेनापहृतं धनं तत् षरलोकदम्। शूद्राय दत्तमपि यन्नरकायैव केवलम्। मन्दो मध्यस्तथा शीघ्रस्त्रिविधो भृत्य उच्यते। समा मध्या च श्रेष्ठा च भृतिस्तेषां क्रमात् स्मृता। भृत्यानां गृहकृत्यार्थं दिवायामं समुत्सृजेत्। निशि यामत्रयं नित्यं दिनभृत्येऽर्द्धयामकम्। तेभ्यः कार्य्यं कारयीत ह्युत्सवाद्यैर्विना नृपः। अत्यावश्यं तूतसयेऽपि हित्वा श्राद्धदिगं सदा। पादहीनां भृतिं त्वार्त्ते दद्यात् त्रैमासिकीं ततः। पञ्चवत्सरभृत्ये तु न्यूनाधिक्यं यथा तथा। षाण्मासिकीं तु दीर्धार्त्ते तदूर्ध्वं न च कल्पयेत्। नैव पक्षार्द्धमार्तस्य हातव्याल्पापि वै भृतिः। संवत्सरोषितस्यापि ग्राह्यः प्रतिनिधिस्ततः। सुमहद्गुणिनं त्वार्तं भृत्यर्द्धं कल्पयेद् सदा। सेवां विना नृपः वक्षं दद्याद् भृत्याय वत्सरे। चत्वारिंशत् समानीताः सेवया येन वै नृपे। ततः सेवां विना तस्यै भृत्यर्द्धं कल्पयेत् सदा। यावज्जीवं तु तत्पुत्रेऽक्षमे बाले तद र्द्धकम्। भार्य्यायां वा सुशीलायां कन्यायां वा स्वश्रेय{??}। अष्टमांशं पारितोष्यं दद्याद् भृत्याय वत्सरे। कार्य्याष्टमांशं वा दद्याद् कार्य्यं द्रानक्षिकं कृतम्। स्मामिकार्य्ये बिनष्टो यस्तत्पुत्रे तद्भृतिं वहेत्। यावद् बालोऽन्यथा पुत्रगुणान् दृष्ट्वा भृतिं बहेत्। षष्ठांशं वा चतुर्थांशं भृतेर्भृत्यस्य पालयेत्। दद्याद् तदर्द्धं भृत्याय द्वित्रिवर्षेऽखिलां तु वा। वाक्पारुष्यान्न्यूनभृत्या स्वामी प्रबलदण्डतः। भृत्यं प्रशिक्षयेन्नत्यं शत्रुत्वं त्वपमानतः। भृतिदानेन सन्तुष्टा मानेन परिबर्द्धिताः। सात्त्विता मृदुवाचा ये न त्यजन्त्यधिपं हि ते। अधमाधनमिच्छन्ति धनमानौ तु मध्यमाः। उत्तमा मानभिच्छन्ति मानो हि महतां धनम्। यथागुणान् स्वभृत्यांश्च प्रजाः स्वंरञ्जयेन्नृपः। शाखाप्रदानतः कांश्चि दपरान् फलदानतः। अस्यान् सुचक्षुषा हास्यैस्तथा को- मलया गिरा। सुभोजनैः सुवसनैस्ताम्बूलैश्च धेनैरपि। कांश्चित् सुकुशलप्रश्नैरधिकारप्रदानतः। वाहनानां प्रदानेन योग्याभरणदानतः। छत्रातपत्रचमरदीपिकानां प्रदानतः। क्षमया प्रणिपातेन मानेनाभिगमेन च। सत्कारेण च दानेन ह्यादरेण समेन च। प्रेम्णासमीपवासेन स्वार्धासनप्रदानतः। सम्पूर्णासनदानेन स्तुत्योपकारकीर्त्तनात् यत्कार्य्ये विनियुक्ता ये कार्य्याङ्कैरङ्कयेच्च तान्। लोहजैस्ताम्रजेरीतिभवैरजतसम्भवैः। सौवर्णै रत्रजैर्वापि यथायोग्यैः स्वलाञ्छनैः। प्रविज्ञानाय दूरात् तु वस्त्रैश्च मुकुदैरपि। वाद्यवाहनभेदैश्च भृत्यान् कुर्य्यात् पृथक् पृथक्। स्वविशिष्टं च यच्चिह्नं न दद्यात् कस्यचिन्नृपः”। ४ अ० तत्र विशेष उक्तो यथा “कालं भृत्यवधिं देयं दत्तं भृत्यस्य लेखयेत्। कति दत्तं हि भृत्येभ्यो वेतनं पारितोषिकम्। तत्प्राप्तिपत्रं गृह्णीयादृद्याद्वेतनपत्रकम्। सैनिकाः शिक्षिता ये ये तेषु पूर्णा भृतिः स्मृता। व्यूहाम्यासे नियुक्ता ये तेष्वर्द्धां भृतिमावहेत्” “स्वकार्य्यसाधका ये तु सुभृत्या पोपयेच्च तान्। लोभेना सेवनाद्भिन्नास्तेष्वर्द्धां भृतिमावर्हेत्। शत्रुत्यक्तान् सुगुखिनः सुभृत्या पालयेन् नृपः। परराष्ट्रे हृते दद्यात् भृतिं मिन्नावधिं तथा। दद्यादर्द्धां तस्य पुत्रे स्त्रियै पादमितां किल। हृतराज्यस्य पुत्रादौ सद्गुणे पादसम्मिताम्। दद्याद्वा तद्राज्यतस्तु द्वात्रिंशांशं प्रकल्पयेत्”
भृतिभुज् = त्रि० भृतिं येतनं भुङ्क्ते भुज–क्विप्। वेतनोपजीविनि कर्मकरे अमरः।
भृत्य = पु० भृ–क्यप् तुक् च। १ दासे २ भरणीये त्रि० अमरः। भावे क्यप् ३ भरणे स्त्री टाप्। “कुमारभृत्याकुशलैः” रघुः। निन्द्यानिन्द्यभृत्यपरीक्षा शुक्रनीतिसारे २ अ० उक्ता यथा “भृत्यं परीक्षयेन्नित्यं विश्वास्यं विश्वसेत् सदा। नैव जातिर्न च कुलं केवलं रुक्षयेदपि। कर्मशीलगुणाः पूज्यास्तथा जातिकुले न हि। न जात्या न कुलेनैव श्रेष्ठत्वं प्रतिपद्यते। विवाहे भोजने नित्यं कुलजातिविवेचनम्। सत्यभाक् गुणसम्पन्नस्तथाभिजनवान् धनी। सुकुलश्च सुशीलञ्च सुकर्मा च निरालसः। यथा करोत्यात्मकार्य्यं स्वामिकार्य्यं ततोऽधिकम्। चतुर्गुणेन यत्नेन कायवाङ्मानसेन च। भृत्यैव तुष्टो मृदुवाक् कार्य्यदक्षः शुचिर्दृढः। परीपकरणे दक्षो ह्यपकारपराङ्मुखः। खाम्यागस्कारिणं पुत्रं पितरं वापि दर्शकः। अन्यायगामिनि पत्यावतद्रूपः सुबोधकः। भाक्षेप्ता तद्गिरं काञ्चित् तन्यूनस्याप्रकाशकः। अदीर्थसूत्रः सत्कार्य्ये ह्यसत्कार्य्ये चिरक्रियः। न तद्भार्य्यापुत्रमित्रच्छिद्रदर्शी कदाचन। तद्वद्बुद्धिस्तदीयेषु भार्य्यापुत्रादिबन्धुषु। न श्लाहते स्पर्द्धते न नाभ्यसूयति निन्दति। नेच्छत्यन्याधिकारं हि निस्पृहो मोदते सदा। तद्दत्तवस्त्रभूषादिधारकस्तत्पुरोऽनिशम्। भृतितुलस्यव्ययी दान्तो दयालुः शूर एव हि। तद कार्य्यस्य रहसि सूचको भृतको वरः। विपरीतगुणैरेभिर्भृतको निन्द्य उच्यते। ये भृत्या हीनभृतिला ये दण्डेन प्रकर्षिताः। शठाश्च कातरा कुब्जाः समक्षं प्रियवादिनः। मत्ता व्यसनिनश्चार्त्ता उत्कोचेष्टाश्च देविनः। नास्तिका दाम्भिकाश्चैवासत्यबाचोऽभ्यसूयकाः। ये चापमानिता येऽसद्वाक्यैर्मर्मणि भेदिताः। रिपोर्मित्रासेवकाश्च पूर्ववैरानुबन्धिनः। चण्डाः साहसिका धर्महीना नैते सुसेवकाः। संक्षेपतस्तु कलितं सदसद्भृत्यलक्षणम्”। तत्परिशिष्टे सर्वभृत्यकृत्यमुक्तं यथा
“उत्थाय पश्चिमे यामे गृहकृत्यं विचिन्त्य च। कृत्वोत्सर्गं तु विष्णु हि स्मृत्वा स्वायादनन्तरम्। प्रातः कृत्यं तु निर्वर्त्य यावत् सार्द्धमुहूर्त्तकम्। गत्वा स्वकार्य्यशालायां कार्य्याकार्य्यं विचिन्त्य च। विशङ्गया विशन्तं तु द्वाःख्यः सम्वग् निरोधयेत्। निदेशकाय विज्ञाप्य तेनाज्ञप्तः प्रमोचयेत्। दृष्ट्वाभतान् सभामध्ये राज्ञे दण्डधपः क्रमात्। निवेद्य तन्नतीः पञ्चात् तेषां स्थानानि सूचयेत्। ततो राजगृहं गत्वाऽऽज्ञप्तौ गच्छेच्च मन्निधिम्। नत्वा नृपं यथान्यायं विष्णुरूपमिवापरम्। प्रविश्य सानुरागस्य चित्तज्ञस्य समन्ततः। भर्त्तुरर्द्धसने दृष्टिं कृत्वाऽन्यत्र विनिःक्षिपेत्। अग्निं दाप्तमिवासीदेद्राजानमुपशिक्षितः। आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम्। यत्नेनोपचरेन्नित्यं नाहमस्मीति चिन्तयन्। समर्थयंश्च तत्पक्ष याधु भाषत भाषितम्। तन्नियोगेन वा ब्रूयादर्थं सुपरिनिश्चितम्। सुराप्रबन्धगौडीषु विवादे वादिनां मतम्। विजानन्नपि नो ब्रूयात् मर्त्तुः क्षित्पोत्तरं वचः। सदाऽनुद्धतवेषः। स्यान्नृपाहूतस्तु प्राञ्जलिः। तद्गा कृतनतिः श्रत्वा वस्त्रान्तारतसम्मुखः। तदाज्ञां धारयित्वादौ स्वकार्य्याणि निवदयेत्। नत्वाऽऽसीतासने प्रह्वस्तत्- पार्श्वे सम्मुखाज्ञया। उच्चैःप्रहसनं कासं ष्ठीवनं कुत्सनं तथा। जृम्भणं मात्रभङ्गं वा पर्वास्फोटञ्च वर्जयेत्। राज्ञादिष्टं तु यत् स्थानं तत्र तिष्ठेन्मुदान्वितः। प्रवीणोचितमेधावी वर्जयेदभिमानिताम्। आपद्युन्मार्गगमने कार्य्यकालात्ययेषु च। अपृष्टोऽपिहितान्वेषी ब्रूयात् कल्याणभाषितम्। प्रियं तस्यं च पथ्यञ्च वदेत् धर्मार्थकं वचः। समानवार्त्तया चापि तन्नितं बोधयेत् सदा। कीर्त्तिमन्यनृपाष्णां च वदेन्नीटिकलं तथा। दाता त्वं धार्मिकः शूरोनीतिमानसि भूपते!। अनीतिस्ते तु मनसि वर्त्तते न कदाचन। ये ये भ्रष्टा अनीत्या तान् तदग्रे कीर्त्तयेत् सदा। नृपेभ्या ह्यधिकोऽसीति सर्वेभ्योऽपि विशेषयेत्। परार्थं देशकालज्ञो देशे काले च साधयेत्। परार्धनाशनं न स्यात्तथा ब्रूयात् सदैव हि। न कर्षयेत् प्रजाकार्य्यमुपेतश्च नृपं वदा। अपि स्थाणुबदासीत शुष्यन् परिगतः क्षुधा। जात्वेवानर्धसम्पन्नां वृत्तिं नेहेत पण्डितः। यत्कार्य्ये यो नियुक्तः स भूयात्तत्कार्य्यतत्परः। नान्याधिकारमन्विच्छेन्नाभ्यसूयेच्च केनचित्। न न्थूनं लक्षयेत् कस्य पूरयीत खशक्तितः। परोपकरणं भ्रश्यन्नस्यान्मितकरः सदा। करिष्यामीति ते कार्य्यं न कुर्य्यात् काललम्बनम्। द्राक् कुर्य्यात्तु समर्थश्चेत् स्वांशं दीर्घं न रक्षयेत्। गुह्यं कर्म च मन्त्रं च न भर्त्तुः संप्रश्चाशयेत्। विद्वेषं च विमाशं च मनसापि न चिन्तयेत् राजा परममित्रोऽस्ति ग कालं विरिचेदिति। स्त्रीभिस्तदर्थिमिः पापैर्वैरिभूतैर्निराकृतैः। एकार्थचर्य्यं साहित्यं संसर्गञ्च विवर्जयेत्। वेषभाषामुकरणं न कुर्य्यात् पृथिवीपतेः। सम्पन्नोऽपि च मेधावी न च स्पर्द्धेत तद्गुणैः। रागापरागौ जानीयाद्भर्तुः कुशलकर्मकृत्। ईङ्गिताकारचेष्टाभ्यस्तदभिप्रायतां तथा। त्यजेत् विरक्तं नृपतिं रक्ते वृत्तिं तु कारयेत्। विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा। आशावर्द्धनकं (कामच्छेदम्) कृत्वा फलनाशं करोति च। अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः। वाक्यञ्च समदं वक्ति वृत्तिच्छेदं करोति च। लक्ष्यते विमुखश्चैव गुणसंकीर्त्तने कृते। दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि। विरक्तलक्षणं ह्येतद्रक्तस्य लक्षणं ब्रुवे। दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात्। कुशलादि यदि पृच्छेत् प्रदापयति आसनम्। विविक्तदर्शनं चास्य रह- श्येनं न शङ्कते। जायेत हृष्टवदनः श्रुत्वा तद्गिरमन्तरा। अप्रियाण्यपि चान्यानि तद्युक्तान्यभिमन्यते। उपायनं च गृह्णाति स्तोकं सम्पादयेत्तथा। कथान्तरेषु स्परति प्रहृष्टवदनस्तथा। इति रक्तस्य वै लक्ष्म कर्त्तव्यं तस्य सेवनम्। तद्दत्तवस्त्रभूमादि चिह्नं संधारयेत् सदा। न्यूनाधिके स्वाधिकारे नित्योद्युक्तो भवेत् सदा। तदर्थां तत्कृतां वार्त्तां शृणुयाद्वाषि कीर्त्तयेत्। चारसूचकदोषेण ह्यन्यथा यदृशे नृपः। शृणुयान्मौनमाश्रत्य तथ्यं यत्नेन मोदयेत्। आपद्गतं सुभर्त्तारं कदापि न परित्यजेत्। एकवारमथादिष्टं यत्स्थानं ह्यादरेण तत्। तदिष्टं चिन्तयेन्नित्यं पालकस्याञ्जसा न किम्। अप्रधानः प्रधानः स्यात्, काले चात्यन्तसवनात्। प्रधानीऽप्यप्रधानः स्यात् सेवालस्यादिना यतः। नित्यं संसेवनरतो भृत्यो राज्ञः प्रियो भवेत्। स्व स्वाधिकारकार्य्यं यत् द्राक् कुर्य्यात् सुमाना यतः। न कुर्य्यात् सहसा कार्य्यं नीचं राजापि नोदिशेत्। तत् कार्य्यकारकाभाये राज्ञः कार्य्यं सदैव हि। काले यदुचितं कर्त्तुं नीचमप्युत्तमोऽर्हति। यस्मिन् प्रीतो भवेद्राजा तदनिष्टं न चिन्तयेत्। न दर्शयेत् स्याधिकारगौरवं तु कदाचन। परस्परं नाभ्यसूयुर्न मेदं प्राप्नुयुस्तथा। राज्ञा चाधिकृताः सन्तः स्वस्वाधिकारगुप्तये। अधिकारिगणो राजा सद्वृत्तौ यत्र तिष्ठतः। उभौ, तत्र स्थिरा लक्ष्मीर्विपुला समुखीभवेत्। अन्याधिकारवृत्तं तु न ब्रूयाच्छ्रुतमप्युत। राजा न शृणुयादन्य मुखतस्तु कदाचन। न बोधयन्ति च हितमहितं चाधिकारिणः। प्रच्छन्नवैरिणस्ते तु दासरूपमुपाश्रिताः। हिताहितं न शृणोति राजा मन्त्रिसुखाच्च यः। स दस्यूराजरूपेण प्रजानां धनहारकः। सुपुष्टव्यवहारा य राजपुत्रैश्च मन्त्रिणः। विरुध्यन्ति च तैः साकं ते तु प्रच्छन्नतस्कराः। बाला षपि राजपुत्राः नावमान्यास्तु मन्त्रिभिः। सदा सुबहुवाक्यैस्तु संबोध्यास्ते प्रयत्नतः। असदाचरितं तेषां क्वचित् राज्ञे न दर्शयेत्। स्त्रीपुत्रमोहो बलवान् तयोर्निन्दा न श्रेयसे। राज्ञोऽवश्यतरं कार्य्यं प्राणसंशयितं च यत्। आज्ञापयाग्रतश्चाहं करिष्ये तत्तु निञ्चितम्। इति विज्ञाप्य तत् कर्त्तुं प्रयतत खशक्तितः। प्राणानपि च संदद्यान्महाकार्य्ये नृपस्य च। भृत्यकुटुम्बपुष्ट्यर्थं नान्यथा तु कदाचन। भृत्या धनहराः सर्वे युक्त्या प्राणहरो नृपः। युद्धादौ तु महाकार्य्ये भृत्यप्राणान् हरेन्नृपः। नान्यथा भृतिरूपेण भृत्यो राजधनं हरेत्। अन्यथा हरतस्तौ तु भवतश्च स्वनाशकौ। राजा च युवराजश्च मान्योऽमात्यादिक्कै सदा। तद्यूनामात्येन च किं तच्छूनाधिकृतेन किम्। मन्त्रितुल्यश्च भृतको न्यूनः साहखिको मतः। न क्रीडवेद्राजसमं व्रोडिते तं विशेषयेत्। नावम्मान्या राजपत्नी कन्या ह्यपि च मन्त्रिभिः। राजसम्बन्धिनः पूज्याः सुहृदश्च यथार्हतः। नृपाहूतस्तुरं गच्छेत् त्यक्त्वा कार्य्यशतं महत्। मित्रायापि न वक्तव्यं राजकत्यं सुमन्त्रितम्। भृतिं विना राजद्रव्यमदत्तं नाभिलाषयेत्। राजाज्ञया विना नेच्छेत् कार्य्य माध्यस्थिकीं भृतिम्। न हि हन्यात् द्रव्यलोमात् न कार्य्यं यस्य कस्यचित्। स्वस्त्रीपुत्रधनप्राणैः काले संरक्षयेन्नृपम्। उत्कोचं नैव गृह्णीयात् नान्यथा बोधयेन्नृपम्। अन्यभादण्डकं भूपं नित्यं प्रबलदण्डकम्। निगृह्य बाधयेत् सम्यक् एकान्ते राज्यगुप्तये। हितं राज्ञश्चाहितं यल्लोकानां तन्न कारयेत्। नवीनकरशुक्लाद्यैर्लोक उद्विजते ततः।”
“भृत्यः कुर्य्यात् तु राजाज्ञां शिष्यवत् सश्रियः पतेः। न क्षिपेत् वचनं राज्ञो ह्यनुकूनं प्रियं षदेत्। रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत्। न नियुक्तो हरेद् वित्तं नोपेक्षेत् तस्य मानकम्। राज्ञश्च न तथाकार्य्यं वेशभाषाविचेष्टितम्। अन्तःपुरचराध्यक्षो वैरभूतैर्निराकृतेः। संसर्गं न व्रजेद् भृत्यो राज्ञो गुह्यञ्च गोपयेत्। दर्शयेत् कौशलं किञ्चिद्राजानं च विशेषयेत्। राज्ञा यच्छ्रावितं गुह्यं न तल्लाके प्रकाशयेत्। आज्ञाप्यमाने वान्यस्मिन् किङ्करोमीति वा वदेत्। वस्त्रं रत्नमलङ्कारं राज्ञा दत्तं च धारयेत्। नानिर्दिष्टो द्वारि विशेन्नायोग्यभुवि राजदृक्। जृम्भां निष्ठीवनङ्कासं कोपं पर्य्यङ्किकाश्रयम्। भृकटीं वातसुद्गारं तत्समीपे विवर्जयेत्। स्वगुणाख्यापने युक्त्या परात्मानं नियोजयेत्। शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रता तथा। चापल्यञ्च परित्याज्य नित्यं राजानुजीविना। श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना। राजसेवां ततः कुर्य्याद् भूतये भूतिवर्द्धनः। नमस्कार्य्याः सदा चास्य पुत्रवल्लभमान्त्रणः। सचिवैर्नास्य विषासो राजचित्तप्रियञ्चरेत्। त्यजेद् बिरक्तं रकात् तु वृत्तिमीहेत राजवित्। अपृष्टश्चास्य न ब्रुयात् कामं कर्य्यात तथा- पदि। आसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते। कुशलादि परिप्रश्नं सम्प्रयच्छति चासनम्। तत्कथाश्रवणाद्धृष्टो ह्यप्रियाण्यपि नन्दते। अल्पं दत्तं प्रगृह्णाति स्मरेत् तत्तु कथान्तरे। रक्तस्य राज्ञः कर्त्तव्या सेवामन्यस्य वर्जयेत्” अग्निपु० २२१ अ०। ते च दशधा तेषां प्राधान्याप्राधान्ये च तत्रैव उक्ते यथा “पुसोधाः प्रथमं श्रेष्ठः सर्वेभ्यो राजराष्ट्रभृत्। तदनुस्यात् प्रतिनिधिः प्रधानस्तदनन्तरम्। सचिवस्तु ततः प्रोक्तो मन्त्री तदनु चोच्यते। प्राड्विवाकस्ततः प्रोक्तः पण्डितस्तदनन्तरम्। सुमन्त्रस्तु ततः ख्यातो ह्यमात्यस्तु ततःपरम्। दूतस्ततः क्रमादेते पूर्वश्रेष्ठा यथा गुणाः”। तत्करणमुहूर्त्तादि मु० चि० उक्तं यथा “क्षिप्रे मैत्रे वित्सितार्केज्यवारे सौम्ये लग्नेऽर्के कुजे वा खलाभे। योनौ मैत्र्यां राशिपोश्चापि मैत्र्यां सेवा कार्य्या स्वामिनः सेवकेन” मु० चि०। “अथ सेवकस्य स्वामिसेवायां मुहूर्त्तं शालिन्याह। क्षिप्रे मैत्रे इति। क्षिप्रे मैत्रे अश्विनीपुष्यहस्तचित्रानुराधामृगरेवतीपुष्यनक्षत्रेषु, वित्सितार्केज्यबारे बुधशुक्रसूर्य्यगुरुवारे तथा सौम्यग्रहे लग्नसंस्थे सति अर्के वा अथ वा कुजे भौमे वा खलाभे दशमैकादशस्थे सति सेवकेन भृत्येन स्वामिनो राजादेः सेवा कार्य्या। राजादिदर्शनं प्रागुक्तं वेतनग्रहणकार्य्याद्यङ्गीकारूपा सेवास्मिन् मुहुर्त्ते काय्यां तत्रापि स्वामिसेवकयोर्योनिमैत्र्यां सत्याञ्च पुनः राशिपोः स्वामिसेवकयोर्यौ जन्मराशी तयोर्यावधिपती तयोरपि मैत्र्यां प्रीतौ सत्यां कार्या उक्तञ्च श्रीपतिना “शुभे विलग्ने दशमायगे च रवौ कुजे वा स्ववशेन योनेः। विद्यायुधाभ्यासरतेन कार्य्य समाश्रयः स्वामिनि सेवकेन”। कश्यपोऽपि “दशमैकादशे सूर्य्ये कुजे वा शुभलग्नके। विद्यायुधाभ्यासयुक्तसेवा, कर्मापि सिद्ध्यति”। राशिमैत्रीसाहित्यं तु “बभ्रूरगं श्वेणमिभेन्द्रसिंहमोत्वास्वुसंज्ञं त्वजवानरञ्च गोव्याघ्रमश्वोत्तरमाहिषञ्च वैर नृनार्योर्मृपभृत्ययोश्चेति” वसिष्ठीक्ति मङ्गीकृत्य तुल्यन्यायत्वादत्राप्युक्तं ग्रन्थकृता योनिमैत्री राशिमेत्री च विवाहप्रकरणे अश्विन्यम्बुपयोरिति “मित्राणि द्युमणेरिति वक्ष्यते” र्पा० धा०। उपयमशब्दे १२५० पृ० दृश्यम्।
भृत्रिम = त्रि० भरणाज्जातः भृ–क्त्रि–मप् च। भरणाज्जाते।
भृ(भ्र)मि = पु० भ्रम–इन् पृषो० वा संप्रसारणम्। (घूर्णा) १ वायुभेदे ३ भ्रमणे च। “किमु चक्रभ्रमिकारितागुणः” नैषधम्।
भृम्यश्व = पु० भृमय इवाश्वाः यस्य। ऋषिभेदे तस्य पुत्रः अण्। भार्म्यश्व तदपत्ये ऋषौ नि० ९। ४।
भृश = अधःपतने दि० पर० अक० सेट्। भृश्यति इरित् अभृशत् अभर्शीत् बभर्श। उदिच्च क्त्वा वेट्।
भृश = न० भृश–क। १ अतिशये २ तद्वति त्रि०। ततो भृशादि० च्व्यर्थे भवतौ क्यङ् भृशायते।
भृशम् = अव्य० मान्तमव्ययम् भृश–बा० कमु। १ मुहुरर्थे २ शोभने शब्दरत्ना०।
भृशादि = पु० च्व्यर्चे भवतौ क्यङ्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा
“भृश शीघ्र चपल मन्द्र पण्डित उत्सुक सुमनस् दुर्मनस् अभिमनस् उन्मनस् रहस् रोहत् रेहत् संश्चेत् तृपत् शश्वत् भ्रमत् वेहत् शुचिस् शुचिवर्चस् अन्तर वर्चस् ओजस् सुरजस् अरजस् एते भृशादयः। आकृतिगणोऽयं तेन श्यामायते इत्यादि सि० कौ०। एवं घूर्णायते “घूर्णायमानेक्षणम्” थूर्णायमानशब्दे दर्शितम्
भृषद् = स्त्री दृषद् + पृषो०। पाषाणे शब्दरत्ना०। तत्र दृषद् इत्येव पाठः भृषदित्यपपाठः।
भृष्ट = त्रि० भ्रस्ज–क्त। जलोपसेकं विना बालुकाग्निसंयोगाभ्यां पक्के हेम०। “सुगन्धिः कफहा रूक्षः पित्तलो भृष्टतण्डुलः” राजनि०।
भृष्टयव = पु० कर्म०। धानाशब्दार्थे अमरः।
भृष्टान्न = न० कर्म०। जलोसेकेन भृष्टे तण्डुले (मुडि) शब्दच०
भृष्टि = स्त्री भ्रस्ज–भावे क्तिन्। १ भर्जने २ शून्यवाटिकायां मेदि०
भॄ = भर्जने भर्त्सने भरणे च क्य्रादि० प्वा० पर० सक० सेट्। भृणाति अभारीत् वभार बभरतुः।
***