भार = पु० भृ–घञ्। १ गुरुत्वपरिमाणे २ तद्वति द्रव्ये ३ विंशतितुलापरिमाणे (अष्टसहस्रतोलकपरिमाणे) च पु०। ३ वीबधे ४ विष्णौ च मेदि०।
भारङ्गी = स्त्री भृ–बा० अङ्गच्। पोषणकर्त्त्य्रां स्त्रियां ततः काश्या० ठञ्। भारङ्गिक तत्र भवे त्रि०।
भारण्ड = पु० उत्तरदेशजे स्वगभेदे “एकोदराः पृथग्ग्रीवा अन्योऽन्यफलभक्षिणः। असंहता विनश्यन्ति भारण्डा इव पक्षिणः” पञ्चत०।
भारत = न० भरतान् भरतवंश्यानधिकृत्य कृतोग्रन्थः अण्। भारं वेदादिशास्त्रेभ्योऽपि सारांशं तनोति तन–ड वा। १ वेदव्यासप्रणीते लक्षश्लोकात्मके ग्रन्थभेदे। भरतेन चिह्नितं तस्येदं वा अण्। “हिमाह्वं दक्षिणं वर्षं भरताय ददौ पिता। तस्माच्च भारतं वर्षम्” इत्युक्ते जम्बुद्वीपान्तर्गते २ वर्षभेदे। भरतस्य गोत्रापत्यम् अण्। भरतनृपस्य ३ वंश्ये। भरतेन मुनिना प्रोक्तमण्। ४ भरतमुनिकृते नाटकशास्त्रादौ न०। तदधीयते पुनरण्। ५ नटे ब० व० ६ अग्निभेदे च ग्रन्थरूपभारतशब्दस्य निरुक्तिः भा० आ०१ अ० दर्शिता यथा “एकतश्चतुरो वेदान् भारतञ्चैतदेकतः। पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्। चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा। तदाप्रभृति लोकेऽस्मिन् महाभारतमुच्यते। महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्। महत्त्वाद्भारतत्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते”। तच्च वेदव्यासेन कृतं तदादिष्टः तच्छिष्यः वैशम्पायनः जनमेजयं श्रावयामास यथोक्तं भा० आ० १ अ०। “जनमेजयेन पृष्टः सन् व्राह्मणैश्च सहस्रशः। शशास शिष्यमासीनं वैशम्पायनमन्तिके। स सदस्यैः सहासीनः श्रावयामास भारतम्। कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनःपुनः। विस्तरं कुरुवंशस्य गान्धार्य्या धर्मशीलताम्। क्षत्तुः प्रज्ञां, धृतिं कुन्त्याः सम्यग्द्वैपायनोऽव्रवीत्। वासुदेवस्य माहात्म्यं पाण्डवानाञ्च सत्यताम्। दुर्वृत्तं धार्त्तराष्ट्राणामुक्तवान् भगवानृषिः”। तच्च नानाविधं नानासंख्यान्वितं च कृतं लोके तु शतसाहस्रसंख्यातं यथोक्तं तत्रैवाध्याये “चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्। उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः। ततोऽध्यर्ङ्गशतं भूयः संक्षेपं कृतवानृषिः। अनुक्रमणिकाध्यायं वृत्तान्तानां सपर्वणाम्। इदं द्वैपायनः पूर्बं पुत्रमध्यापयच्छुकम्। ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः। षष्टिं शतसहस्राणि चकारान्यां स संहिताम्। त्रिंशच्छतसहस्रञ्च देवलोके प्रतिष्ठितम्। पित्र्ये पञ्चदश प्रोक्तं गन्धर्वेषु चतुर्दश। एकं शतसहस्रन्तु मानुषेषु प्रतिष्ठितम्। नारदोऽश्रावयद्देवानसितो देवलः पितृन्। गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः। अस्तिंस्तु मानुषे लोके वैशम्पायन उक्तवान्। शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदांवरः। एकं शतसहस्रन्तु मयोक्तं वै निबोध तत्”। तच्चाष्टादशमहापर्वयुतं तदवान्तरपर्बशतकं तद्विभागस्तत्र वर्णनीयपदार्थानां संग्रहश्च भा० आ० २ अ० दर्शितो यथा “भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः। आदिपर्वणि “१ पर्वानुक्रमणी पूर्वं द्वितीयः २ पर्वसंग्रहः। ३ पौष्यं ४ पौलोममास्तीक ५ मादिरं (वं) शावतारणम् ६। ततः सम्भव ७ पर्वोक्तमद्भुतं रोमहर्षणम्। ८ दाहो जतुगृहस्यात्र हैडिग्बं ९ पर्व चोच्यते। तती वकबधः १० पर्व पर्व चैत्ररथं ११ ततः। ततः स्वयम्बरी १२ देव्याः पाञ्चाल्याः पर्व चोच्यते। क्षात्रधर्मेण निर्जित्य तती वैवाहिकं १३ स्मृतम्। विदुरागमनं पर्व राज्यलाभस्तथैव १४ च। अर्जुनस्य वने वासः १५ सुभद्राहरणं १६ ततः। सुभद्राहरणादूर्द्ध्वं ज्ञेयं हरणकारिका १७। ततः खाण्डयदाहाख्यं १८ तत्रैव मयदर्शनम्। (२) सभापर्व तत १९ प्रोक्तं मन्त्रपर्व २० ततः परम्। जरासन्धबधः २१ पर्व पर्व दिग्विजय २२ स्तथा। पर्व दिग्विजयादूर्द्ध्वं राजसूयिक २३मुच्यते। ततश्चार्घाभिहरणं २४ शिशुपालबध २५ स्ततः। द्यूतपर्व २६ ततः प्रोक्तमनुद्यूत २७ मतः परम्। तत (३) आरण्यकं पर्व किर्मीरबधः २८ एव च। अर्जुनस्याभिगमन २९ पर्व ज्ञेयमतः परम्। ईश्वरार्जुनयोर्युद्धं पर्व कैरात ३० संज्ञितम्। इन्द्रलीकाभिगमनं ३१ पर्व प्रेयमतः परम्। नलीपाख्यान ३२ मपि च धर्मिष्ठं करुणोदयम्। तीर्थयात्रा ३३ ततः पर्व कुरुराजस्य धीमतः। जटासुरबधः ३४ पर्व यस्तयुद्ध ३५ मतः परम्। निवातकवचैर्युर्द्ध ३६ पर्व चाजगर ३७ स्ततः। मार्कण्डेसमास्या ३८ च पर्वानन्तरमुच्यते। संवादश्च ततः पर्वं द्रौपदीसत्यभांमयोः ३९। घोषयात्रा ४० ततः पर्व मृगस्वर्योद्भव ४१ स्ततः। व्रीहिद्रौणिक ४२ माख्यानमैन्द्रद्युम्नं (समास्यान्तर्गतं) तथैव च। द्रौपदीहरणं ४३ पर्व जयद्रथविमोक्षणम ४४। पतिव्रताया महात्म्यं सावित्र्याश्चैवमद्भुतम् ४५। रामोपाख्यान ४६ मत्रैव पर्व ज्ञेयमतः परम्। कुण्डलाहरणं ४७ पर्व ततः परमिहोच्यते। आरणेय ४८ न्ततः पर्व (४) वैराटन्तदनन्तरम्। पाण्डवानां प्रवेशश्च ४९ समयस्य च पालनम्। कीचकानां बधः ५० पर्व पर्व गोग्रहण ५१ न्ततः। अभिमन्योश्च वैराट्या पर्व वैवाहिकं ५२ स्मृतम्। (५) उद्योगपर्व विज्ञेयमत ऊर्द्ध्वं महाद्भुतम्। ततः सञ्जययानाख्य ५३ पर्व ज्ञेयमतः परम्। प्रजागरस्ततः ५४ पर्व धृतराष्ट्रस्य चिन्तया। पर्व सनत्शुजातं ५५ वै गुह्यमध्यात्मदर्शनम्। यानसन्धि ५६ स्ततः पर्व भगवद्यान ५७ मेवच। मातुलीयमुपाख्यानं चरितं गालवस्य च। सभाप्रवेशः कृष्णस्य विदुरापुत्रशासनम्। ज्ञेयं विवादपर्वा ५८ त्र कर्णस्यापि महात्मनः। निर्याणञ्च ५९ ततः पर्व कुरुपाण्डवसेनयोः। रथातिरथसंख्या ६० न पर्वोक्तं तदनन्तरम्। उलूकदूतागमनं ६१ पर्वामर्षविवर्द्धनम्। अन्वोपाख्यान ६२ मत्रैव पर्व ज्ञेयमतः परम्। भीष्माभिषेषचनं (६) पर्ब ततश्चाद्भुत मुच्यते। जम्बूखण्डविनिर्माणं ६३ पर्वोक्तं तदनन्तरम्। भूमिपर्व ६४ ततः प्रोक्तं द्वीपविस्तारकीर्त्तनम्। पर्वोक्तं भगवद्सीता ६५ पर्व भीष्मवध ६६ स्ततः। द्रोणाभिषे (७) चनं पर्व संशप्तकबधः ६७ स्ततः। अभिमन्युबभः ६८ पर्व प्रतिज्ञा ६९ पर्व चोच्यते। जयद्रथबधः ७० पर्व धठोत्कचबध ७१ स्ततः। ततो द्रोणबधः ७२ पर्व विज्ञेयं लोमहर्षणम्। मोक्षो ७३ नारायणास्त्रस्य पर्वानन्तरमुच्यते। कर्णपर्व (८) ततो ज्ञेयं शल्यपर्व (९) ततः परम्। ह्रदप्रनेशनं ७४ पर्व पदायुद्धमतः ७५ परम्। सारस्वतं ७६ ततः पर्व तीर्थवंशानुकीर्त्तनम्। अत ऊर्द्ध्वं सुबीभत्सं पर्व सौप्तिक (१०) सुच्यते। ऐषीकं ७७ पर्व चोद्दिष्टमत ऊर्द्ध्वं सुदारुणम्। जलप्रदानिकं ७८ पर्व स्त्रीविलाप (११) स्ततः परम्। श्राद्धपर्व ७९ ततो ज्ञेयं कुरूणाभौर्द्ध्वदेहिकम्। चार्वाकस्य बधः ८० पर्व रक्षसो ब्रह्मरूपिणः। आभिषेचकनिकं ८१ पर्व धर्मराजस्य धीभतः। प्रतिभागो ८२ गृहाणाञ्च पर्वोक्तं तदनन्तरम्। शान्तिपर्व (१२) ततो यत्र राजधर्मानुशासनम ८३। आपद्धर्मश्च ८४ पर्वोक्तं मोक्षधर्म८५ स्ततः परम्। शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्। प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया। ततः पर्व परिज्ञेयमानुशासनिकम् (१३) परम्। स्वर्गापोहणिकञ्चैव ततो भीष्मस्य धीमतः। ततीऽश्वमेधिकं (१४) पर्व सर्वपापप्रणाशनम्। अनुगीता ८६ ततः पर्व ज्ञेयमध्यात्मवाचकम्। पर्व चाश्रमवासा (१५) ख्यं पुत्रदर्शनमेव च। नारदागमनं ८७ पर्व ततः परिमिहोच्यते। मौसलं (१६) पर्व चोद्दिष्टं ततो घोरं सुदारुणम्। महाप्रस्थानिकं (१७) पर्व स्वर्गारोहणिकं (१८) तत। हरिवंशस्ततः पर्व ८८ पुराणं खिलमज्ञितम्। विष्णुपर्व ८९ शिशोश्चर्य्या विष्णोः कंसबधस्तथा। भविष्यं पर्व ९० चाप्युक्तं खिलेष्वेवाद्भुतं महत्। एतत् पर्व शतं पूर्णं व्यासेनोक्तं महात्मना। (महापर्वसहितं किञ्चिदधिकशतपर्वाण्यत्रेति बोध्यम्)। यथावत् सूतपुत्रेण लौमहर्षणिना ततः। उक्तानि नैमिषारण्ये पर्वाण्य ष्टादशैव तु। समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः। पौष्यं पोलीममास्तीकमादिरं(वं)शावतारणम्। सम्भवी जतुवेश्गाख्यं हिडिम्बवकयोर्वधः। तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः। क्षात्रधर्मेण निर्जित्य ततो वैवाहिक स्मृतम्। विदुरागमनञ्चैव राज्यलम्भस्तथैव च। वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः। हरणाहरणञ्चैव दहनं खाण्डवस्य च। मयस्य दर्शनञ्चैव आदिपर्वणि कथ्यते। पौष्ये पर्वणि महात्म्यमुतङ्कस्योपवर्णितम्। पौलोमे भृगुवंशस्य विस्तारः परिकी र्त्तितः। आस्तीके सर्वनागानां गरुडस्य च सम्भवः। क्षीरोदमथनञ्चैव जन्मोच्चैःश्रवसस्तथा। यजतः सर्पसत्रेण राज्ञः पारीक्षितस्य च। कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्। विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि। अन्येषाञ्चैव शूराणामृषेर्द्वैपाथनस्य च। अंशावतारणञ्चात्र देवानां परिकीर्त्तितम्। दैत्यानां दानवानाञ्च। यक्षाणाञ्च महौजसाम्। नागानामथ सर्पाणां गन्धर्वाणां प्रतत्रिणाम्। अन्येषाञ्चैव भूतानां विविधानां समुद्भवः। महर्षेराश्रमपदे कण्ठस्य च तपस्विनः। शकुन्तलायां दुष्मन्ताद्भरतश्चापि जज्ञिवान्। यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्। वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्। शान्तंनोर्वेश्मनि पुनस्तेषाञ्चारोहणं दिवि। तेजोऽंशानाञ्च सम्पातो भीष्मस्याप्यत्र सम्भवः। राज्यान्निवर्त्तनं तस्य ब्रह्मचर्य्यव्रते स्थितिः। प्रतिज्ञापालनञ्चैव रक्षा चित्राङ्गदस्य च। हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः। विचित्रवीर्य्यस्य तथा राज्ये सम्प्रतिपालनम्। धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा। कृष्णद्वैपायनाच्चैव पसूतिर्वरदानजा। धृतराष्ट्रस्य पाण्डोश्च पाण्डवानाञ्च सम्भवः। वारणाबतयात्रार्या मन्त्रो दुर्य्योधनस्य च। कूटस्य धार्त्त राष्ट्रेण प्रेषणं पाण्डवान् प्रति। हितोपदेशश्च पथि धर्मराजस्थ धीमतः। विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया। विदुरस्य च वाक्येन सुरङ्गीपक्रमक्रिया। निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि। पुरोचनस्य चात्रैव दहनं सम्प्रकीर्त्तितम्। पाण्डवानां बने घोरे हिडिम्बायाश्च दर्शनम्। तत्रैव च हिडिम्बस्य बधो भीमान्महाबलात्। धटोत्कचस्य चोत्पत्ति रत्रैव परिकीर्त्तिता। महर्षेर्दर्शनञ्चैव व्यासस्यामिततेजसः। तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने। अज्ञातचर्य्यया वासो यत्र तेषां प्रकीर्त्तितः। वकस्य निधने चैव नागराणाञ्च विस्मयः। सम्भवश्चैव कृष्णाया धृष्टद्यम्नस्य चैव हि। ब्राह्मणात् समुपश्रुत्य व्यासवाक्यप्रचोदिताः। द्रौपटीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया। पाञ्चालानमितोजग्मुर्यत्र कौतूहलान्विताः। अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा। सख्यं कृत्वा ततस्तेन तस्मादेव च सुश्रुवे। तापत्यमथ वाशिष्ठभौर्वञ्चाख्यानमुत्तमम्। भ्रातृभिः सहितः सर्वैः पाञ्चालानभिती ययौ। पाञ्चालनगरे चापि लक्ष्य भित्त्वा धनञ्जयः। द्रौपर्दी लब्धवानत्र मध्ये सर्वमहीक्षिताम्। भीमसेनार्जुनौ यत्र संरब्घान् पृथिवीपतीन्। शल्यकर्णौ च तरसा जितवन्तौ महामृधे। दृष्ट्वा तयोश्च तद्वीर्य्यमप्रमेयममानुषम्। शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती। जन्मतुस्तैः समागन्तुं शालाम्भार्गववेश्मनि। पञ्चानामेकपत्नीत्वे विमर्षो द्रुपदस्य च। पञ्चेन्द्राणासुपाख्यानमषैवाद्भुतमुच्यते। द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः। क्षत्तुश्च धृतराष्ट्रेण प्रेषणं पाण्डवान् प्रति। विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च। खाण्डवप्रस्थवासश्च तथा राज्यार्द्धशासनम्। नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया। सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्त्तितम्। अनन्तरञ्च द्रौपद्या सहासीनं युधिष्ठिरम्। अनुप्रविश्य विप्रार्थं फाल्गुनो गृह्य चायुधम्। मीक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः। समयं पालयन् वीरो वनं यत्र जगाम ह। पार्थस्य वनवासे च उलूप्या पथि सङ्गमः। पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च। तत्रैव मोक्षयामास पञ्च सोऽपूसरसः शुभाः। शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः। प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः। द्वारकायां सुभद्रा च कामयानेन कामिनी। वासुदेवस्यानुमते प्राप्ता चैव किरीटिना। गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने। अभिमन्थोः सुभद्रायां जन्म श्चोत्तमतेजसः। द्रौपद्यास्तनयानाञ्च सम्भवोऽनुप्रकीर्त्तितः। बिहारार्थञ्च गतयोः कृष्णयोर्यमुनामनु। सम्प्राप्तिवकधनुधोः खाण्डवस्य च दाहनम्। मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्। महर्षेर्मन्दपालस्य शार्ङ्ग्यां तनयसम्भवः। इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्। अध्यायानां शते द्वेतु संख्याते परमर्षिणा। सप्तविंशतिरध्याया व्यासेनोत्तमतेज सा। अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। श्लोका० श्चतुरशीतिश्च मुनिनोक्ता महात्मना (१)। द्वियतीन्तु सभापर्व बहुवृत्तान्तमुच्यते। सभाक्रिया पाण्डवानां किङ्कराणाञ्च दर्शनम्। लोकपालसभाख्यानं नारदाद्देवदर्शिनः। राजसूयस्य चारम्भो जरासन्धबधस्तथा। गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन गोक्षणम्। तथा दिग्विजयोऽत्रैव पाण्डबानां प्रकीर्त्तितः। राज्ञामागमनञ्चैव सार्हणानां महाक्रतौ। राजसूयेऽर्घ्यसंवादे शिशुपालबधस्तथाः यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च। दुर्य्योधनस्याबहासो भीमेन च सम्भातले। यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्। यत्र षर्मसुतं द्यूते शकुनिः कितवोऽजयत्। यत्र द्यूतार्णवे मग्नां द्रौपदीं नावमर्णवात्। धृतराष्ट्री महाताज्ञः स्नुसां परमदुखिताम्। तारयामास तां तीर्णां ज्ञात्वा दुर्य्योधनो नृपः। पुनरेब ततो द्यूते समाह्वयत पाण्डवान्। जित्वा स वनवासाय प्रेषयामास तांस्ततः। एतत् सर्वं सभापर्व समाख्यातं महात्मना। अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया। श्लोकानां द्वे सहस्त्रे तु पञ्च श्लोकशंतानि च। श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन् द्विजोत्तमाः” (२)। (द्वितीयसभापर्व)
“अतःपरं तृतीयन्तु ज्ञेयमारण्यकं महत्। वनवासं प्रयातेषु पाण्डवेषु महात्मसु। पौरानुगमनञ्चैव धर्मपुत्रस्य धीमतः। अन्नौषधीनाञ्च कृते पाण्डवेन महात्मना। द्विजानां भरणार्थञ्च कृतमाराधनं रवेः। धौम्योपदेशात्तिग्मांशुप्रसादादन्नसम्भवः। हितन्तु ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्। त्यक्तस्य पाण्डुपुत्राणां समीपगमनन्तथा। पुनरागमनञ्चैव धृतराष्ट्रस्य शासनात्। कर्णप्रोत्साहनाच्चैव धार्त्तराष्ट्रस्य दुर्मतेः। वनस्थान् पाण्डवान् हन्तुं मन्त्रो दुर्य्योधनस्य च। तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्। निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च। मैत्रेयागमनञ्चात्रं राज्ञश्चैवानुशासनम्। शापोत्सर्गश्च तेनैव राज्ञो दुर्य्योधनस्य च। किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे। घृष्णीनामागमश्चात्र पाञ्चालानाञ्च सर्वशः। श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्। क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना। परिदेवनञ्च पाञ्चाल्या वासुदेवस्य सन्निधौ। आश्वासनञ्च कृष्णेन दुःखार्त्तायाः प्रकीर्त्तितम्। तथा सौभबधाख्यानमत्रैवोक्तं महर्षिणा। सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्। नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव हि। प्रवेशः पाण्डवेयानां रम्ये द्वैतबने ततः। धर्मराजस्य चात्रैव संवादः कृष्णया सह। संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्त्तितः। समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा। प्रतिस्मृत्याश्च विद्याया दानं राज्ञो महर्षिणा। गमनं काम्यके चापि व्यासे प्रतिगते ततः। अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः। भहादेवेन युद्धञ्च किरातवपुषा सह। दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैब च। महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः। यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी। दर्शनं वृहदश्वस्य महर्षेर्भावितात्मनः। युधिष्ठिरस्य चार्त्तस्य व्यसने परिवेदनम्। नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्। दमयन्त्याः स्थितिर्यत्र नलस्य चरितं यथा। तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः। लोमशस्यागमस्तत्र स्वर्गात् पाण्डुसुतान् प्रति। वनवासगतानाञ्च पाण्डवानां महात्मनाम्। स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै। सन्देशादर्जुनस्यात्र तीर्थाभिगमनक्रिया। तीर्थानाञ्च फलप्राप्तिः पुण्यत्य- ञ्चापि कीर्त्तितम्। पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा। तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनाम्। कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्। तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्त्तितः। आगस्त्यमपि चाख्यानं यत्र बातापिभक्षणम्। लोपामुद्राभिगमनमपत्यार्थमृषेस्तथा। ऋष्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः। जामदग्न्यस्य रामस्य चरितं भूरितेजसः। कार्त्तवीर्य्यबधो यत्र हैहयानाञ्च वर्ण्यते। प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः। सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः। शर्य्या तियज्ञे नासत्यौ कृतवान् सोमपीतिनौ। ताभ्याञ्च यत्र स मुनिर्यौवनं प्रतिपादितः। मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्त्तितम्। जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः। पुत्रार्थमयजद्राजा लेभे पुत्रशतञ्च सः। ततः श्येनकपीतीयमुपाख्यानमनुत्तमम्। इन्द्वाग्नी पत्र धर्मश्चाभ्यजिज्ञासञ्छिविं नृपम्। अष्टावक्रीयमत्रैव विवादो यत्र वन्दिना। अष्टावक्रस्य विग्रर्षेर्जनकस्याध्वरेऽभवत्। नैयाभिकातां मुख्येन वरुणस्यात्मजेन च। पराजितो यत्र वन्दी विवादेन महात्मना। विजित्य सागरं प्राप्तं पितरं लब्धवामृषिः। यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः। गन्धमादनयात्रा च वासो नारायणाश्रमे। नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने। व्रजन् पथि महाबाहुर्दृष्टवान् पवनात्मजम्। कदलीषण्डमध्यस्थं हनूमन्तं महाबलम्। यत्र सौगन्धिकार्थेऽसौ नलिनीं तामधर्षयत्। यत्रास्य युद्धमभवत् सुमहद्राक्षसैः सह। यक्षैश्चैव महावीर्य्यैर्मणिमत्प्रमुखैस्तथा। जटासुरस्य च बधो राक्षसस्य वृकोदरात्। वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम्। आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च। प्रीत्साह नञ्च पाञ्चाल्या भीमस्यात्र महात्मनः। कैलासारोहणं प्रोक्तं यत्र यक्षैर्वलोत्कटैः। युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह। समागमश्च पाण्डूनां यत्र वैपवणेन च। समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह। अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना। निवातकवचैर्युद्धं हिरण्यपुरवासिभिः। निवातकव चैर्घोरैर्दानवैः सरशत्रुभिः। पौलोमैः कालकेयैश्च यत्र युदुं किरीटिनः। बवश्चैषां समाख्याती राज्ञस्तेनैव वीमता। अस्त्रसन्दर्शनारम्भौ धर्मराजस्य सन्निधौ। पार्थस्य प्रतिषेधश्च नारदेन सुरर्षिणा। अवरोहः पुनश्चैव पाण्डूनां गन्धमादनात्। भीमस्य ग्रहणञ्चात्र पर्वताभोगवर्ष्मणा। भुजगेन्द्रेण बलिना तस्मिन् सुगहने वने। अमोक्षयद्यत्र चैनं प्रश्नामुक्त्वा युधिष्ठिरः। काम्यकागमनञ्चैव पुनस्तेषां महात्मनाम्। तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान् पुरुषर्षभान्। वासुदेवस्यागमनमत्रैव परिकीर्त्तितम्। मार्कण्डेयस्य च तथा देवर्षेर्नारदस्य च। मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः। पृथोर्वैण्यस्य यत्रोक्तमाख्यानं परमर्षिणा। संवादश्च सरस्वत्या तार्क्ष्यर्षेः सुमहात्मनः। मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्। मार्कण्डेयसमास्या च पुराणं परिकीर्त्तितम्। ऐन्द्रद्युम्नमुपाख्यानं धौन्धुमारं तथैव च। पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्। द्रौपद्याः कीर्त्तितश्चात्र संवादः सत्यभामया। पुनर्द्वैतवनञ्चैव पाण्डवाः समुपागताः। घोषयात्रा च गन्धर्वेर्यत्र बद्धः सुषोधनः। ह्रियमानस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना। धर्मराजस्य चात्रैव मृगस्वप्नागिदर्शनम्। काम्यके काननश्रेष्ठे पुनर्गमनमुच्यन। व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्। दुर्वास सोऽप्युपाख्यानमत्रैव परिकीर्त्तितम्। जयद्रथेवापहारो द्रौपद्याश्चाश्रमान्तरात्। यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे। चक्रे चेनं पञ्चशिखं यत्र भीमो महाबलः। रामायणमुपाख्यानमत्रैव बहुविस्तरम्। यत्र रामेण विक्रमम्य निहिती रावणो युधि। सा० वित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्त्तितम्। कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्। यत्रास्य शक्तिं तुष्टोऽदादेकवीरबधाय च। आरणेयमुपाख्यानं यत्रधर्मोऽन्वशात् सुतम्। जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्। एतदारण्यकं पर्व तृतीयं परिकीर्त्तितम्। अत्राध्यायशते द्वे तु संख्यया परिकीर्त्तिते। एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्त्तिताः। एकादश सहस्राणि श्लोकानां षट्शतानि च। चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीर्त्तिताः ३। (वनपर्व) “अतःपरं निबोधेदं वैराटं पर्व विस्तरम्। विराटनगरं गत्वा श्मशाने विपुलां शमीम्। दृष्ट्वा सन्निदधुस्तत्र पाण्डवा ह्यायुधान्युत। यत्र प्रविश्य नगरं छद्मना न्यवसं स्तु ते। पाञ्चालीं प्रार्थयानम् कामोपहतचेतसः। दुष्टात्ननो वधो यत्र कीचकस्य वृकोदरात्। पाण्डवान्येषणा- र्थञ्च राज्ञो दुर्य्योधनस्य च। चराः प्रस्थापिताश्चात्र निपुणाः सर्वतो दिशम्। न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्। गोग्रहश्च विराटस्य त्रिगर्त्तैः प्रथमं कृतः। यत्रास्य युद्धं सुमहत् तैरासील्लोमहर्षणम्। ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः। गोधनञ्च विराटस्य मोक्षितं यत्र पाण्डवैः। अनन्तरञ्च कुरुभिस्तस्य गोग्रहणं कृतम। समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि। प्रत्याहृतं गोधनञ्च विक्रमेण किरीटिना। विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः। अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्। चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्। अत्रापि परिसंख्याता अध्यायाः परमर्षिणा। सप्तषष्टिरथो पूर्णा श्लोकानामपि मे शृणु। श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु। उक्तानि वेदविदुषा पर्वण्यस्मिन् महर्षिणा ४। (विराटपर्व)
“उद्योगपर्वः विज्ञेयं पञ्चमं शृण्वतः परम्। उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया। दुर्य्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ। साहाय्यमस्मिन् समरे भवान्नौ कर्त्तुमर्हति। इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः। अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ। अक्षौक्षिणीं वा सैन्यस्य कस्य किंवा ददाम्यहम्। वव्रे दुर्य्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः। अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः। मद्रराजञ्च राजानमायान्तं पाण्डवान् प्रति। उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः। वरदं तं वरं वव्रे साहाय्यं क्रियतां मम। शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्। शान्तिपूर्वञ्चाकथयद्यत्रेन्द्रविजयं नृपः। पुरोहितप्रेषणञ्च पाण्डवैः कौरवान् प्रति। वैचित्रवीर्य्यस्य वचः समादाय पुरोधमः। तथेन्द्रविजयञ्चापि यानञ्चैव पुरोधसः। सञ्जयं प्रेषयामास शमार्थी पाण्डवान् प्रति। यत्र दूतं महाराजो घृतराष्ट्रः प्रतापवान्। श्रुत्वा च पाण्डवान् यत्र वासुदेवपुरोगमान्। प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिनया। विदुरो यत्र वाक्यानि विचित्राणि हितानि च। श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्। तथा सनत्सुजातेन यत्राध्यात्म मनुत्तमम्। मनस्तापान्वितो राजा श्रावितः शीकला लसः। प्रमाते राजसमितौ सञ्जयो यत्र वा विभोः। रेक्यात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च। तत्र कृष्णो दयापन्नः सन्धिमिच्छन्महामतिः। स्वयमागाच्छमं कर्त्तं नगरं नागसाह्वयम्। प्रत्याख्यानञ्च कृष्णस्य राज्ञा दुर्य्योधनेन वै। शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्। दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्त्तितम्। वरान्वेषणमत्रैव मातलेश्च महात्मनः। महर्षेश्चापि चरितं कथितं गालवस्य वै। विदुलायाश्च पुत्रस्य प्रोक्तञ्चात्यनुशासनम्। कर्णदुर्य्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्। योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम्। रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः। उपायपूर्वं शौटीर्य्यात् प्रत्याख्यातश्च तेन सः। आगम्य हास्तिनपुरादुपप्लव्यमरिन्दम!। पाण्डवानां यथावृत्तं सर्वमाख्यातवान् हरिः। ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्। सांग्रामिकं ततः सर्वं सज्यञ्चक्रुः परन्तपाः। ततो युद्धाय निर्याता नराश्वरथदन्तिनः। नगराद्धास्तिनपुराद्बलसंख्यानमेव च। यत्र राज्ञा ह्यूलूकस्य प्रेषणं पाण्डवान् प्रति। श्वो भाविनि महायुद्धे दौत्येन कृतवान् प्रभुः। रथातिरथसंख्यानमम्बोपाख्यानमेव च। एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते। उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम्। अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा। श्लोकानां षट् सहस्राणि ताबन्त्येव शतानि च। श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना। व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः! (५)। (उद्योगपर्व) “अतःपरं विचित्रार्थं भीष्मपर्व प्रचक्षते। जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह। यत्र यौधिष्ठिरं सैन्यं विषादमगमत् परम्। यत्र युद्धमभूघोरं दशाहानि सुदारुणम्। कश्मल यत्र पार्थस्य वासुदेवो महामतिः। मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः। समीक्ष्याधोक्षजः क्षिप्रं युधिष्ठिरहितेरतः। रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः। प्रतोदपाणिराधावद्भीष्म हन्तुं व्यपेतभीः। वाक्यप्रतोदाभिहितो यत्र कृष्णेन पाण्डवः। गाण्डीवधन्वा समरे सर्वशस्त्रभृताम्बरः। शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः। विनिघ्नन्निशितैर्बाणैरथाद्भीष्ममपातयत। शरतल्पगतश्चैव भीष्मी यत्र बभूव ह। षष्ठमेतत् समाख्यातं भारते पर्व विस्तृतम्। अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे। पञ्च श्लोकसक्षस्राणि संख्ययाष्टौ शतानि च। तीकात चतुरशीतिरस्मिन् पर्यणि की- र्त्तिताः। व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि (६)। द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते। सैनापत्येऽभि षिक्तोऽथ यत्राचार्य्यः प्रतापवान्। दुर्य्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्। ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः। यत्र संशप्तकाः पार्थमपनिन्यूरणाजिरात्। भगदत्ती महाराजो यत्र शक्रसमो युधि। सुप्रतीवेन नागेन स हि शान्तः किरीटिना। यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः। जयद्रथसुखा बालं शूरमप्राप्तयौवनम्। हतेऽभिमन्यौ क्रुद्धेन्न यत्र पार्थेन संयुगे। अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः। यत्र भीमो महाबाहुः सात्यकिश्च मयारथः। अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया। प्रविष्टो भारतीं सेनामप्रघृष्यां सुरैरपि। संशप्तकावशेषञ्च कृतं निःशेषमाहवे। अलम्बूषः श्रुतायुश्च जलसन्धश्च वीर्य्यवान्। सौमदत्तिर्विराटश्च द्रुपदश्च महारथः। घटोत्कचादयश्चान्ये निहिता द्रोणपर्वणि। अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते। अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः। आग्नेयं कीर्त्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्। व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः। सप्तमं भारते पर्व महदेतदुदाहृतम्। यत्र ते पृथिवीपालाः प्रायशो निधनं गताः। द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः। अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः। अष्टौ श्लोकसहस्राणि तथा नव शतानि च। श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना। पाराशर्य्येण मुनिना संचिन्त्य द्रोणपर्वणि (७)।
अतःपरं कर्णपर्व प्रोच्यते परमाद्भुतम्। मारथ्ये विनियोगश्च मद्रराजस्य धीमतः। आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्। प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः। हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्। बधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना। दण्डसेनस्य च ततो दण्डस्य च यधस्तथा। द्वैरथे यत्र कर्णेब धर्मराजो युधिष्ठिरः। संशयं गमितो युद्धे मिषतां सर्वषन्विनाम्। अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनीः। यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि। प्रतिज्ञापूर्वकञ्चापि वक्षो दुःशासनस्य च। भित्त्वा वृकोटरो रक्तं पीतवान् यत्र संयुगे। द्वैरथे यत्र पार्थेन हतः कर्णो महारथः। अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः। एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि। चत्वार्य्येव सहस्राणि नव श्लोकशतानि च। चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मित् प्रकीर्त्तिताः (८)। (कर्णपर्व) “अतःपरं विचित्रार्थं शल्यपर्व प्रकीर्त्तितम्। हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्। यत्र कौमारकाख्यानमभिषेचनकर्म च। वृत्तानि रथयुद्धानि कीर्त्त्यन्त्ये यत्र भागशः। विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्त्यते। शल्यस्य निघनञ्चात्र धर्मराजान्महात्मनः। शकुनेश्च बधोऽत्रैव सहदेवेन संयुगे। सैन्ये च हतभूयिष्ठे किञ्चिच्छिष्टे सुयोधनः। ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो व्यवस्थितः। प्रवृत्तिस्तत्र वाख्याता यत्र भीमस्य लुब्धकैः। क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः। ह्रदात् समुत्यितो यत्र धार्त्तराष्ट्रोऽत्यमर्षणः। भीमेन गदया युद्धं यत्रासौ वृतवात् सह। समवाये च युद्धस्य रामस्यागमनं स्मृतम्। सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्त्तिता। गदायुद्धञ्च तुमुलमत्रैव परिकीर्त्तितम्। दुर्य्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे। ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया। नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्। एकोनषष्टिरध्यायाः पर्वण्यत्र प्रकीर्त्तिताः। संख्याता बहुवृत्तान्ताः श्लोकसंख्यात्र कथ्यते। त्रीणि शोकसहस्राणि द्वे शते बिंशतिस्तथा। मुनिना मम्प्रणीतानि कौरवाणां यशीभृता (९)। (शल्यपर्व) “अतःपरं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्। भग्नोरुं यत्र राजानं दुर्य्योधनममर्षणम्। अपयातेषु पार्थेषु त्रयस्तेऽभ्याययूरथाः। कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम्। समेत्य ददृशुर्भूमौ पतितं रणमूर्द्धनि। प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः। अहत्वा सर्वपाञ्चालान् धृष्टद्युम्नपुरोगमान्। पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्। यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः। सूर्य्यास्तमनवेलायामासेदुस्ते महद्वनम्। न्यग्रोघस्यात्र महतो यत्राधस्ताद्व्यबस्थिताः। ततः काकान बहून रात्रौ दृष्ट्वौलूकेनः हिंसितान्। द्रौणिः क्रोधसमाविष्टः पितुर्बधमनुस्मरन्। पाञ्चालानां प्रसुप्तानां बधं प्रति मनोदघे। गत्वा च शिविरद्वारि दुर्दर्शन्तत्र राक्षसम्। घोररूपमपश्यत् स दिवमावृत्य धिष्ठितम्। तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च। द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः। प्रसुप्तान्निशि विश्वस्तान् धृष्टद्युम्नपुरोगमान्। पाञ्चालान् सपरीवारान् द्रौपदेयांश्च सर्वशः। कृतवर्मणा च सहितः कृपेण च निजघ्निवान्। यत्रामुच्यन्त ते पाथाः पञ्च कृष्णबलाश्रयात्। सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः। पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः। धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः। द्रीपदी पुत्रशोकार्त्ता पितृभ्रातृबधार्दिता। कृतागशनसंकल्पा यत्र भर्त्तॄनुपाविशत्। द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः। प्रियं तस्याश्चिकीर्षन् वै गदामादाय बीर्य्यमान्। अन्वधावत् सुसंक्रुद्धो मारतद्वाजं गुरोः सुतम्। भीमसेनभयाद्यत्र देवेनाभिप्रचीदितः। अपाण्डवायेति रुषा द्रोणिरस्त्रमवासृजत्। मैवमित्यब्रवीत् कृष्णः शमयंस्तस्य तद्वचः। यत्रास्त्रमस्त्रेण च तच्छमयामास फालगुनः। द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा। द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः। मणिं तथा समादाय द्रोणपुत्रान्महारथात्। पाण्डवाः प्रददर्हृष्टा द्रौपद्यै जितकाशिनः। एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम्। अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना। श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया। श्लोकाश्च सप्ततिः प्रोक्ता मुनिना व्रह्मवादिना। सौप्तिकै षीकसम्बद्धे पर्वण्युत्तमतेजसा (१०)। (सौप्तिकपर्व) “अत ऊर्द्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्। पुत्रशोकाभिसन्तप्तः प्रज्ञाचक्षुर्नराधिपः। कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढाम्। भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्ज ह। तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः। संसारगहन बुद्ध्या हेतुभिर्मोक्षदर्शनैः। विदुरेण च यत्रास्य राज्ञश्चाश्वासनं कृतम्। धृतराष्ट्रस्य चात्रैव कौरवायोधनन्तथा। सान्तःपुरस्य गमनं शोकार्त्तस्य प्रकीर्त्तितम्। विलांपो वीरपत्नीनां यत्रातिकरुणः स्मृतः। क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः। यत्र तान् क्षत्रियान् शूरान् संग्रामेष्वनिवर्त्तिनः। पुत्रान् भातन् पितॄंश्चैव ददृशुर्निहतान् रणे। पुत्रपौत्रबधार्त्तायास्तथात्रैव प्रकीर्त्तिता। गान्धार्य्याश्चापि कृष्णेन क्रोधोपशमनक्रिया। यत्र राजा महाप्राज्ञः सर्वधर्मभृतांवरः। राज्ञां तानि शरीराणि दाहयामास शास्त्रतः। तोयकर्मणि चारब्धे राज्ञामुदकदानिके। गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः। सूतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा। एतदेकादशं पर्व लोकवैक्लव्यकारकम् प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्त्तकम् सप्तविंशतिरध्याया पर्वण्यस्मिन् प्रकी- र्त्तिताः। श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता। संख्यया भारताख्यानमुक्तं व्यासेन धीमता (११) (स्त्रीपर्व) “अतःपरं शान्तिपर्व द्वादश बुद्धिवर्द्धनम्। यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः। घातयित्वा पितृन् भ्रातृन् पुत्रान् सग्वन्धिमातुलान्। शान्तिपर्वणि धर्माश्च व्याख्याताः शारतल्पिकाः। राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्मुभिः। आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः। यान् बुद्ध्वा पुरुषः सम्यक् सर्वज्ञत्वमवाप्नुयात्। मोक्षधर्माश्च कथिता विचित्रा बहुबिस्तराः। द्वादशं पर्व निर्दिष्टमेतत् प्राज्ञजनप्रियम्। अत्र पर्वणि घिज्ञेयमध्यायानां शतत्रयम्। त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः। चतुर्दशसहस्राणि तथा सप्त शतानि च। सप्त श्लोकास्तथैवात्र पञ्चविंशतिसंख्यया (१२)। (शान्तिपर्वं) “अत ऊर्द्ध्वञ्च विज्ञेयमनुशासनमुत्तमम्। यत्र प्रकृतिमापन्नः श्रुत्वा धर्भविनिश्चयम्। भीष्माद्भागीरथीपुत्रात् कुरुराजी युधिष्ठिरः। व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयः प्रकीर्त्तितः। विविधानाञ्च दानानां फलयोगाः प्रकीर्त्तिताः। तथा पात्रविशेषाश्च दानानाञ्च परो विधिः। आचारविधियोगश्च सत्यस्य च परा गतिः। भाहाभाग्यं गवाञ्चैव ब्राह्मणानां तथैव च। रहस्यञ्चैव धर्माणां देशकालोपसंहितम्। एतत् सुबहुवृत्तान्तसुतमञ्चानुशासनम्। भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्त्तिता। एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्। अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु। श्लोकानान्तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया (१३)। (अनुशासनपर्व)
“ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम। तत्संवर्त्तमरुत्तीयं यत्राख्यानमनुत्तमम्। सुवर्णकोषसम्प्राप्तिर्जन्म चोक्तं परीक्षितः। दग्धस्यास्त्राग्निना पूर्वं कृष्णात् सजीवनं पुनः। चर्य्यायां हयसुत्सृष्टं पाण्डवस्यानुगच्छतः। तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः। चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः। संग्रामे बन्धुवाहेण संशयञ्चात्र लम्भितः। अश्वमेधे महायज्ञे नकुलाख्यानमेव च। अनुगीता तथा प्रोक्ता सम्यगभगवता पुनः। कथितः शाश्वतो धर्मः कृष्णेनार्जुनसन्निधौ। तथा ब्राह्मणगीता च सवादो गुरुशिष्ययो। इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्। अध्यायानां शतञ्चैव त्रयोऽध्यायाश्च कीर्त्तिताः। त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च। विशतिस तथा श्लोकाः संख्यातास्तत्त्वदर्शिना” (१४ आश्वमेधिकपर्व)।
“ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्। यत्र राज्यं समुत्सृज्य गान्धार्य्या सहितो नृपः। धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह। यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा। पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता। यत्र राजा हतान् पुत्रान् पौत्रानन्यांश्च पार्थिवान्। लोकान्तरगतान् वीरानपश्यत् पुनरागतान्। ऋषेः प्रसादात् कृष्णस्य दृष्ट्वाश्चर्य्यमनुत्तमम्। त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः। यत्र धर्मं समाश्रित्य विदुरः सुगतिं मतः। सृञ्जयश्च महामात्यो विद्वान् नावल्गणिर्वशी। ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः। नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्। एतदाश्रभवासाख्यं पर्वोक्तं सुमहाद्भुतम्। द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया। सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च। षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना” (१५ आश्रमवासपर्व) “अतः परं निबोधेदं भौपलं पर्व दारुणम्। यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि। ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः। आपाने पानकलिता दैवेनाभिप्रचोदिताः। एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्। यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ। नातिचक्रमतुः कालं प्राप्तं सर्वहरं महत्। यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्। दृष्ट्वा विषादमगमत् पराञ्चार्त्तिं नरर्षभः। स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः। ददर्श यदुवीराणामापाने वैशसं महत्। शरीरं वासुदेवस्य रामस्य च महात्मनः। संस्कार लम्भयामास वृष्णीनाञ्च प्रधानतः। स वृद्धबालमादाय द्वारवत्यास्ततो जनम्। ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्। सर्वेपाञ्चैव दिव्यानामस्त्राणामप्रसन्नताम्। नाशं वृष्णिकलत्राणां प्रभावाणामनित्यताम्। दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यपचीदितः। धर्मराजं समासाद्य सन्न्यासं समरोचयत्। इत्येतन्मौषलं पर्व षोडशं परिकीर्त्तितम्। अध्यायाष्टौ समाख्याताः श्लोकानाञ्च शतत्रयम्। श्लोकानां विंशतिश्चैव संख्यातास्तत्त्वदर्शिना” (१६ मौषलपर्व)।
“माहाप्रस्थानिकं तस्मादूर्द्ध्वं सप्तदशं स्मृतम्। यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः। द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः। यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम्। यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने। ददौ सम्पूज्य तद्दिव्यं माण्डीवं धनुरुत्तमम्। यत्र भ्रातॄन् निपतितान्द्रौपदीञ्च युधिष्ठिरः। दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्। एतत् सप्तदशं पर्व साहाप्रस्थानिकं स्मृतम्। तत्राध्यायास्त्रयः प्रोक्ताः श्लोकानाञ्च शतत्रयम्। विंशतिञ्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना”। (१७ माहाप्रस्थानिकपवं)।
“स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्। प्राप्त” दैवरथं स्वर्गान्नेष्टवान् यत्र धर्मराट्। आरोढूं सुमहाप्राज्ञ आनृशंस्याच्छुना विना। तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः। श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्त्रितः। स्वर्गं प्राप्तः स च तथा यातनां विपुलां भृशम्। देवदूतेन भरको यत्र व्याजन दर्शितः। शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणागिरः। निदेशे वर्त्तमानानां देशे तत्रैव वर्त्तताम्। अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः। आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्। स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्। मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह। कर्णस्य नरकप्राप्तिः प्रमोक्षश्चात्र कीर्त्त्यते। समागमश्च वीराणां स्वर्गलोके महात्मना। कीर्त्त्यते यत्र विधिवत् स्वर्गसवाद एव च। स्वानि स्थानानि च प्राप्ता यत्र ते पुरुषर्षभाः। एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता। अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना। श्लोकानां द्वेशते चैव सुसंख्याते तपोधनाः। नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा। (१८ स्वर्गारोहणिकपर्व)। अष्टादशेवमेतानि पर्वाण्युक्तान्यशेषतः। खिलेषु हरिवंशश्च भविष्यञ्च प्रकीर्त्तितम्। विष्णुपर्व शिशीश्चर्य्या विष्णोः कंसबधस्तथा। भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्। दश श्लोक सहस्राणि विंशत् श्लोकशतानि च लिलेषु हरिवंशे च संख्यातानि महर्षिणा”। “भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत्। भारतं भवने यस्य तस्य हस्तगतो जयः” भा० आ० १ अ०। भरतस्य अपत्यादि शुभ्रा० ढक् भारतेय तदपत्यादौ पुंस्त्री०।
भारतवर्ष = पुंन० जम्बुद्वीपान्तर्गते वर्षभेदे जम्बुद्वीपशब्दो ३०४६ पृ० दृश्यम्।
भारती = स्त्री भृ–अतच्। स्वार्थे प्रज्ञाद्यण्। १ वाक्ये तदधिदेवतायां २ सरस्वत्यां ३ पक्षिभेदे “भारती संस्कृतप्रायो वाग्व्यापारो नराश्रय” इति सा० ६ पु० अलङ्कारोक्ते ४ वृत्तिभेदे च ५ सन्न्यासिनामुपाधिभेदे च स्त्री।
भारद्वाज = पु० भरद्वाजस्य गोत्रापत्यम् अण्। गोत्रप्रवर्त्तके १ मुनिभेदे २ द्रोणाचार्य्ये मेदि० ३ अगस्त्यमुनौ शब्दर० ४ व्याघ्राटविहगे ५ बृहस्पतिपुत्रे च हेमच० ६ वनकार्पास्यां स्त्री ङीप्। पृषो०। भार्द्वाजीत्यप्यत्र। विदा० अञ् ततः अश्वा० फक्। भारजायन तद्गोत्रापत्ये पुंस्त्री०। स्त्रियां ङीप्। भारद्वाजी ६ त०। भारद्वाजीपुत्र तत्पुत्रे स च यजुर्वेदस्य वंशस्थः ऋषिभेदः शत० ब्रा० १४। ९। ४। ३।
भारभृत् = त्रि० भारं बिभर्त्ति भृ–क्विप्। १ भारधारके। २ विष्णौ पु० “भारभृत् कथितो योगी” विष्णुस०।
भारमेय = त्रि० भारमस्येदम् शुभ्रा० ढक्। भरमसम्बन्धिनि स्त्रियां ङीप्।
भारय = पु० भासा रयो वेगो यस्य। (भारुइ) खगभेदे शब्दच०।
भारयष्टि = स्त्री भारस्य वहनार्था यष्टिः शाक० त०। भारवहनदण्डे (वा~क) अमरः।
भारव = न० भार वाति वा–क। धनुर्गुणे त्रिका०।
भारवाह(ह्) = त्रि० भारं वहति अण् ण्वि वा। भारवाहिनि ण्वुल्। भारवाहकोऽप्यत्र। अमरः स्त्रियां ङीप् ण्विप्रत्ययान्तस्य शसादावजादौ ङीपि च ऊठ्। भारौहः भारौही।
भारवि = पु० किरातार्जुनीयकाव्यकारके १ कविभेदे। “तावद्भा भारवेर्भाति यावन्माघस्य नोदयः। उदिते च पुनर्माघे भारवेर्भा रवेरिव” उद्भटः। तत्कृते २ काव्ये च “उपमा कालिदासस्य भारवेरर्थगौरवम्” उद्भटः।
भारवृक्ष = पु० भारीभूतो वृक्षः। काक्षीनामगन्धद्रव्ये शब्दच०
भार(ह)हार = त्रि० भारं हरति हृ–अच् अण् वा। भारवाहके तत्रानद्यमने अच्। उद्यमने तु अण् इतिभेदः।
भाराक्रान्त = त्रि० ३ त०। १ भारेणाक्रान्ते “भाराक्रान्ता भभनरमना गुरुः श्रुतिरसहयैः” छन्दाम० उक्ते २ सप्तदशाक्षरपादके वर्णवृत्तभेदे स्त्री।
भारि = पु० इभस्यारिः पृषो०। सिंहे हेमच०।
भारिक = त्रि० भारं वहति भार + ठक्। भारवाहके अमरः
भारिट = पु० भासा रेटति रिट–क। श्यामणटके खगभेदे राजनि०।
भारिन् = त्रि० भारीऽस्त्यस्य वाह्यत्वेन इनि। भारवाहके एतत्परस्य मासाशब्दस्य ह्रस्वः। मालभारी। “मल्लिकामालमारिण्यः” काव्याद०।
भारुण्ड = पु० १उत्तरकुरुवर्षस्थे २ खगभेदे तदुपक्रमे “भारुण्डा- नाम शकुनास्तीक्ष्णतुण्डा भयानकाः। तान्निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च” भा० भी० ७ अ०। २ सामभेदे तत्र भारुडेति पाठभेदः। तत्सामद्रष्टरि ३ ऋषिभेदे “भारुण्डसामगीताभिरथर्वशिरसोद्गतैः” भा० आ० ६७ अ०। तच्च सामार्चिके १। २। २ “इमं स्तोमर्हते” इत्यादिमन्त्रे गेयं साम, मत्कृत तुलादानादिपद्धतौ १०३ पृ० दृश्यम्। “आज्यदोहानि सामानि शान्तिकं भारुडानि च। पश्चिमे द्वारपालौ तु पठेताम् सामगौ तथा” विधानपा०।
भारूप = न० भारूपमस्य। चिदात्मके १ ब्रह्मणि २ आत्मनि पु०।
भार्ग = पु० भर्गस्य देशभेदस्य राजा अण्। १ भर्गदेशनृपे तत्र तद्राजस्य भार्गा० स्त्रियां न लुक्। भार्गी। २ प्रतर्दनस्य पुत्रभेदे पु० हरिवं० २९ अ०।
भार्गभूमि = पु० आङ्गिरसे भागेवपुत्रभेदे हरिवं० ३ अ०।
भार्गव = पुंस्त्री० भृगोरपत्यम् तद्गोत्रापत्यं वा अण्। १ भृपुवंश्ये बहुत्वे तु अत्रिभृम्वित्यादिना अणी लुक्। भृगवः तद्गोत्रापत्येषु। २ शुक्राचार्य्ये ३ धन्विनि ४ गजे च पु० मेदि०। तेन प्राक्ता तेनाधीता ज्ञाता वा अण्। ५ वेदपसिद्धे विद्याभेदे ६ षार्वत्यां ७ लक्ष्म्यां ८ दूर्वायां च स्त्री मेदि० ङीप्। प्राच्ये ९ देशभेदे पु०। “ब्रह्मात्तराः प्रविजया भार्गवाज्ञेयमल्लकाः” मार्कपु०। १० द्रुपदनगरस्थे कुम्भकारभेदे पु० भा० आ० १९० अ०। ११ महादेवे पु० भा० द्रो० २०३ अ०।
भार्गवन = न० द्वारकास्थे वनभेदे हरिवं० १५७ अ०।
भार्गवप्रिय = पु० ६ त०। हीरके तस्य शुक्रग्रहप्रियत्वात् तथात्वम्।
भार्गायण = पुंस्त्री० भर्गस्य गोत्रापत्यं त्रैगर्त्तः फञ्। त्रैगत्ते” भर्गगोत्रापत्ये।
भार्गी = स्त्री भार्गस्येयमण्। (वामनहाटि) वृक्षभेदे राजनि०।
भार्म्य = पु० भर्गस्य नोत्रापत्यं गर्गा० यञ्। मुद्गलगोत्रे नृपभेदे भाग० ९। २१। २४।
भार्य्या = स्त्री भृ–ण्यत्। १ विधिनोढायां स्त्रियाम् २ स्त्रीमात्रे ३ भरणीयमात्रे त्रि०। भार्य्याशब्दश्च यूपाहवनीयादिवत् अलौकिकसंस्कारसहितस्त्रीबोधकः। तस्याः गुणदोषा यथा “सा भार्य्या या गृहे दक्षा सा भार्य्या या प्रियंवदा। सा भार्य्यां या प्रतिप्राणा सा भार्य्या या पतिव्रता। नित्यस्वाता सुगन्धा च नित्यञ्च प्रियवादिनी। अल्पभुक् खल्पभाषी च सततं मङ्गलैर्युता। सततं धर्मबहुला सततञ्च पतिप्रिया। सततं प्रियवक्त्री च सततं भर्तृकामिनी। पितृदेवक्रियायुक्ता सर्वसौभाग्यवर्द्धिनी। यस्येदृशी भवेद्भार्य्या देवेन्द्रो न स मानुषः”।
“यस्य भार्य्या विरूपाक्षी कश्मला कलहप्रिया। उत्तरोत्तरवादा स्यात् सा जरा न जरा जरा। यस्य भार्य्या श्रितान्यत्र परवेश्माभिकाङ्क्षिणी। कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा। यस्य भार्य्या गुणज्ञा च भर्त्तारमनुगामिनी। अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया। दुष्टा भार्य्या शठो मित्रं भृंत्याश्चोत्तरदायकाः। ससर्पे च गृहे वासो मृत्युरेव न संशयः। आपत्सु मित्रं जानीयात् युद्धे शूरं वने शुचिम्। भार्य्याञ्च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम्”। गारुडे १०८। १०९ अ०। “वृहस्पतिरुवाच “यस्य नास्ति सती भार्य्या गृहेषु प्रियबादिनी। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्। शुशीला सुन्दरी शान्ता गता यस्य गृहोदरात्। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्। भावानुरक्ता वनिता हृता यस्य च शत्रुणा। अरण्यं तेन गन्तर्व्यृ यथारण्यं तथा गृहम्। दैवेनापहृता यस्य पतिसाध्या पतिव्रता। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्। यस्य माता गृहे नास्ति भार्य्या चाप्रियवादिनी। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्। प्रियाशून्यं गृहं यस्य पूर्णं श्रीधन बन्धुभिः। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्। भार्य्याशून्या वनसमाः सभार्य्याश्च गृहा गृहाः। गृहिणी च गृहं प्रोक्तं न गृहं गृहसुच्यते। अशुचिः स्त्रीविहीनञ्च दैवे पैत्रे च कर्मणि। यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत्। दाहकशक्तिहीनश्च यथा मन्दो हुताशनः। प्रभाहीनो यथा सूर्य्यः शोभाहीनो यथा शशी। शक्तिहीनो यथा जीवो यथात्मा च तनुं विना। विनाधारं यथाधेयो यथेशः प्रकृतिं विना। न च शक्तो यथा यज्ञः फलदां दक्षिणां विना। कर्मिणे च फलं दातुं सामग्रीमूलमेव च। विना स्वर्णं स्वर्णकारी यथाऽशक्तः स्वकर्मणि। यथाऽशक्तः कुलालश्च मृत्तिकाञ्च विना द्विजाः!। तथा गृही न शक्तश्च सन्ततं सर्वकर्मणि! भार्य्यामूलाश्च पुत्राश्च भार्य्यामूला गृहास्तथा। भार्य्यामूलं सुखं शश्वद् गृहस्थानां गृहे सदा। भार्य्यामूलो सदा हर्षः भार्य्यामूलञ्च मङ्गलम्। भार्य्यामूलश्च संसारो भार्य्यामूलञ्च सौरतम्। यथा रथश्च रुथिनां गृहिणाञ्च तथा गृहम्। सारथिस्तु यथा तेषां गृहस्थानां तथा प्रिया। सवरत्नप्रधाना च स्त्रीरत्नं दुष्कुलादपि। सा गृहीता गृहस्थेनैवेत्याह कमलोद्भवः। यथा जलं विना पद्मं पद्मं शोभां विना यथा। तथैव च गृहं शश्वद् गृहिणां गृहिणीं विना”। ब्रह्मवै० पु० प्र० ख० ५६ अ०। “तोषयेत् सततं भार्य्या विधिवत् पाणिपीडिताः। तासां तुष्ट्या तु कल्याणमकल्याणमतोऽन्यथा। सन्तुष्टो भार्य्यया भर्त्ता भर्त्रा भार्य्या तथैव च। यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्। यथा विरुद्ध्यते स्वामी सौभाग्यमददृप्तया। असतीसङ्गमं कर्त्तुं सा स्याद्वेश्या भवान्तरे। इहापि लोकेऽवाच्यत्वमधर्मञ्चापि विन्दति। न च पितृकुलं स्वामिकुलं तस्याः प्रमोदते। विरुध्यमाने पत्यौ यत् सपत्न्या वा प्रवर्त्तते। अतीव दुःखं भवति तदकल्याणा कृत्तयोः” कालिकापु० २० अ०।
भार्य्याट = पु० भार्य्यां तद्दानमटति अट् अण् उप० स०। अन्यस्मै स्वभार्य्यादानार्थं गन्तरि त्रिका०।
भार्य्याटिक = पु० भार्य्यया आटो गतिः प्रयोजनमस्य ठक्। १ स्त्रीजिते २ हरिणभेदे च मेदि०।
भार्य्यारु = पु० भार्य्यं घार्य्यमृच्छति ऋ उण्। १ शैलभेदे २ हरिणभेदे। भार्य्यां परभार्य्यामृच्छति ऋ–उण्। ३ अनियोगेन परभार्य्यागामिनि च मेदि०।
भार्य्यावृक्ष = पु० भार्य्येव प्रियत्वात् वृक्षो यस्य। पतङ्गे राजनि०।
भार्य्योढ = पु० ऊढा भार्य्या येन आहिता० वा परनिवातः। ऊढभार्य्यके
भाल = न० भा–लच्। १ ललाटे भ्रुवोरूर्ध्वभागे २ तमसि मेदि०।
भालकृत् = पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः।
भालचन्द्र = पु० भाले चन्द्रोऽस्य। १ शिवे २ गणेशे ३ दुर्गायां स्त्री०
भालदर्शन = न० भाले दृश्यते कर्मणि ल्युट्। १ सिन्दूरे शब्दच० भाले दर्शनं नेत्रमस्य। २ कपाललोचने महादेवे।
भालदृश् = पु० भाले दृगस्य। त्रिनयने महादेवे हेमच०।
भालनेत्र = पु० भाले नेत्रमस्य। १ शिवे। भाललोचनादयोऽप्यत्र। २ त्रिनयनायां दुर्गाया स्त्री।
भालाङ्क = पु० भालस्येवाङ्को यस्य भाले अङ्को यस्य वा। १ शाकभेदे २ करपत्रेऽस्त्रे (करात्) ३ रोहितमत्स्ये महालक्षणविशेष ललाटचिह्नयुक्ते ४ पुरुषभेदे ५ शिवे ६ कच्छपे च मेदि०।
भालु = पु० भृणाति रोगान् भृ उदसने ञुण् रस्य लः। आदित्ये उज्ज्वल०।
भालु(लू)क = पुंस्त्री० चु० भल–अवरोधे उक ऊक वा। स्वना- मख्याते पशुभेदे अमरः पाठान्तरम्। स्त्रियां जातित्वात् ङीष्।
भाल्लवि = पु० १ सामशाखाभेदे २ तदध्येतरि च। “तामेतां भाल्लवय उवासते” ताण्ड्य ब्रा० २। २। ४ “तामेतां परिवर्त्तिनीं विष्टुतिम् भाल्लविशाखाध्यायिन उपासते” भा०।
भाल्लू(ल्लु)क = पुंस्त्री० भल्लूक + स्वार्थे अण् वा पृषो० ह्रस्वः। जन्तुभेदे भल्लूके स्त्रियां ङीष्।
***