भग = पु० न० भज + घ। १ सूर्य्ये २ अणिमद्यष्टविधैश्वर्य्ये ३ वीर्य्ये ४ यशसि ५ श्रियां ६ ज्ञाने ७ वैराग्ये ८ योनौ ९ इच्छायाम् १० माहात्म्ये ११ यत्ने मेदि० १२ धर्मे १३ मोक्षे १४ सौभाग्ये १५ कान्तौ १६ चन्द्रे च। ज्योतिषोक्ते योनिनक्षत्रदैवते १७ पूर्वफल्गुनानक्षत्रे १८ गुह्ममुष्कयोर्मध्यस्थाने च पु०। आद्युदात्ततास्य। १९ धने २० पदे च न० निघण्टुः। भगबच्छब्दे दृश्यम्। स्त्रीचिह्नस्य लक्षणभेदादिकं यथा “विस्तीर्णञ्च गभीरञ्च द्विविधं भगलक्षणम्” “कूर्मपृष्ठं गजस्कन्धं पद्मगन्धं सुकोमलम्। अकोमलं सुविस्तीर्णं पञ्चैते च भगोत्तमाः। शीतलं निम्नमत्युष्णं गोजिह्वासदृशं परम्” रतिमञ्जरी।

भगघ्न = पु० भगं तन्नेत्रं हन्ति हन–टक्। १ महादेवे “नमस्ते त्रिपुरघ्नाय भगघ्नाय नमो नमः” भा० द्रो० २०३ अ० तस्य दक्षयज्ञकाले तन्नेत्रहारित्वात् तथात्वम्।

भगण = पु० ६ त०। १ द्वादशराशीनां समूहे २ तद्भोगकाले च। यथोक्तं सू० सि० “पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः। जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः। प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः। परिणाह वशाद्भिन्ना तद्वशाद्भानि भुञ्जते। शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः। तेषां तु परिवर्त्तेन पौष्णान्ते भगणः स्मृतः। विकलानां कला षष्ठ्या तत् षष्ठ्या भाग उच्यते। तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते” सू० सि०। “शीघ्रगतिर्ग्रहस्तानि भान्यल्पेन कालेन भुनक्त्यल्पगतिर्ग्रहो बहुकालेन भुनक्ति, तुल्यराश्यादिभोगो मन्दशीघ्रगतिग्रहयोस्तुल्यकालेन न भवतीति विशेषार्थः। तेषां राशीनां परिवर्त्तेन भ्रमणेन। तुकाराद् ग्रहादिगतिभोगजनितेन भगणः प्राज्ञैरुक्तः। क्रान्तिवृत्ते द्वादशराशीनां सत्त्वात् तद्भोगेन चक्रभोगसमाप्तेर्यत् स्थानमारभ्य चलितो ग्रहः पुनस्तत् स्थानमायाति स चक्रभोगः परिवर्त्तसञ्ज्ञीऽपि द्वादशराशिभोगाद्भगण इत्यर्थः। ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्यः परिवर्त्तसम्भवादत्रकः परिबर्त्तादिभूतः प्रदेश इत्यत आह पौष्णान्त इति। सृष्ट्यादौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगतारासन्नप्रदेशे सर्वग्रहाणां निवेशतित्वात् तदवधिती ग्रहचलनाच्च पौष्णस्य रेवतीयोताराया अन्ते निकटे प्रदेशे तथा च रेवतीयोगतारासन्नाग्रिमस्थानमेवाद्यन्तावधिभूतमिति भावः” रङ्गनाथः।

भगदत्त = पु० प्राग्ज्योधपुराधीशे नरकासुरपुत्रभेदे कालिकापु० ३९ अ०।

भगदा = स्त्री स्कन्दानुचरमातृभेदे भा० व० ४७ अ०।

भगदेव = पु० भगेन दीव्यति दिव–अच्। कामुके भा० आश्व० ४३ अ०।

भगदैवत = न० भगो योनिः दैवतं यस्य। पूर्वफल्गुनीनक्षत्रे तस्या योनिदेवताकत्वात् तथात्वम्। अश्लेषाशब्दे दृश्यम्। तच्च वृहस्पतिजन्मनक्षत्रं यथोक्तं ज्यो० त० “विशाखानल ३ तोयानि २४ वैष्णवं २२ भगदवतम् ११। पुष्या पौष्णो २७ यमः २ सर्पो ९ जन्मभान्यर्कतः क्रमात्”।

भगनन्दन = पु० ३ त०। ऐश्वर्य्येनानन्दयुक्ते विष्णौ भगहन्शब्दे दृश्यम्।

भगनन्दा = स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ०।

भगनेत्रघ्न = पु० भगनेत्रं हन्ति दक्षयज्ञकाले हन–ठक्। महादेवे भा० अनु० १४३ अ०। भगनेत्रापहादयोऽप्यत्र।

भगन्दर = पु० भगं गुह्ममुष्कमध्यस्थानं दारयति दृ–णिच्–खश् मुम् खचि ह्रस्वश्च। स्वनामख्याते रोगभेदे। भावप्र० तन्निदाननिरुक्त्यादिकमुक्तं यथा “अथ भगन्दरस्य पूर्वरूपसहितं स्वरूपमाह। “कटीकपालयोस्तोददाहकण्डूरुजादयः। भवन्ति पूर्वरूपाणि भविष्यति भगन्दरे। गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पीडकार्त्तिकृत्। भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत्”। आर्त्तिकृत् पीडाकृत्। पञ्चविधः वातिकपैत्तिकश्लैष्मिकसान्निपातिकशल्यजभेदैः। अथ गन्दरशब्दस्य निरुक्तिमाह भोजः “भगन्दरः समन्ताच्च गुदं वस्तिं तथैव च। भगवद्दारयेद्यस्मात् तस्मादेष भगन्दरः”। भजन्त्यनेनेति भगो मेहनम्। भजन्त्यस्मिन्निति भगं योनिः। अत्र भगशब्देन द्वयमपि कथ्यते। भगवत् योनिवत्। अथ वातिकं शतपोनकसंज्ञं भगन्दरमाह। “कषायरूक्षैरतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम्। उपेक्षणाद्वातमुपैति दारुणं रुजा च भिन्नारुणफेनवाहिनीम्। तत्रागमो मूत्रपुरीषरेतसां व्रणैरनेकैः शतपोनकं वदेत्”। दारुणम् अतिदारुणरुक्। व्रणैरनेकैः सूक्ष्ममुखैः। शतपोनकं शतपोनकश्चालनी तत्तुल्यम्। अथ पैत्तिकमुष्ट्रग्रीवसंज्ञमाह “प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम्। तदाशुपाकां हिमपूतिवाहिनीं भगन्दरं चोष्ट्रशिरोधरं वदेत्”। आशुपाकां हि मपूतिवाहिनीं शीघ्रपाकामुष्ट्रदुर्गन्धवाहिनीं च। तदा भगन्दरमुष्ट्रशिरीधरं वदेत्। उष्ट्रग्रीवसंज्ञा च पिडकागलेन वक्रतयोष्ट्रग्रीवाकत्वेन। अथ श्लैष्मिकं परिस्राविसंज्ञमाह। “कण्डूयनो घनस्रावी कठिनो मन्दवेदनः। श्वेतावभासः कफजः परिस्रावी भागन्दरः”। कठिनः पिडकावस्थायाम्। परिस्रावी निरन्तरस्रावशीलः। अथ सान्निपातिकं शम्बूकावर्त्तसंज्ञमाह। “बहुवर्णरुजा स्रावा पिडका गोस्तनोपमा। शम्बूकावर्त्तगतिकः शम्बूकावर्त्तकीमतः” बहुवर्णरुजास्रावा बहुशब्दो वर्णादिभिः प्रत्येकं संवध्यते गतिः स्रावमार्गः। अथ शल्यजमुन्मार्गसंज्ञमाह। “क्षताद्गतिः पायुगता विवर्द्धते ह्युपेक्षणात् स्यः कृमयो विदार्य्य ते। प्रकर्वते मार्गमनेकधामुखैर्व्रणैस्तमुन्मार्गभगन्दरं वदेत्”। क्षतात् कण्टकादिना नखेन कण्डूयनादिना वाऽभिघातात्। गतिः स्रावः उन्मार्गभन्दरम् एतस्य तिर्य्यककृतभार्गैः पुरी- षादिनिर्गमादुन्मर्गसंज्ञ”। कष्टसाध्यमसाध्यञ्चाह “घोराः साधयितुं दुःखा सर्व एव भगन्दराः। तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च विशेषतः। वातमूत्रपुरीषाणि वक्रञ्च कृमयस्तथा। भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम्”।

भगभक्त = त्रि० भगे धने भक्तः। धनरते ऋ० १। २४। ५।

भगभक्षक = पु० भगेन तद्व्यापारोपपादनेन भक्षति भक्ष–ण्वुल्। (कोटना) ख्याते नायकयोर्मेलके।

भगल = त्रि० भगं तद्व्यापारं लाति–ला–क। भगव्यापार म्राहके ततः अरीहणा० चतुरर्थ्या वुञ्। भागलक तन्निवृत्तादौ त्रि०।

भगशास्त्र = न० भगव्यापारबोधकं शास्त्रम् शा० त०। कामशास्त्रे

भगवत् = षु० भगम् “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनेत्युक्तम् अस्त्यस्य मतुप् मस्य वः। १ ऐश्वर्य्यादियुक्ते परमेश्वरे २ बुद्धे अमरः तस्य षडभिज्ञत्वात् भगरूपैश्चर्य्यादियोगाच्च तथात्वम्। अस्य संबोधने भगो इत्येव अजादौ तस्य विसर्गस्य लोपः। ३ दुर्गायां स्त्री ङीप्। “सेव्यते या सुरैः सर्वैस्ताञ्चैव भुजते यतः। धातुर्भजेति सेवायां भगवत्येव सा स्मृता” देवीपु० ४५ अ०।

भगवद्गीता = स्त्री ३ त०। भीष्मपर्वान्तर्गते अष्टादशाध्यायात्मके कर्मयोगज्ञानयोगभक्तियोगसूचके ग्रन्थे।

भगवद्दृश्य = त्रि० भगवानिव दृश्यते दृश–कर्मणि क्यप। भगवत्तुल्ये। “श्रुतं मे भगवद्दृश्येभ्यस्तरति शोकमात्मवित्” छा० उ०।

भगहन् = पु० भगमैश्वर्य्यं संहारकाले हन्ति–हन–क्विप्। विष्णौ “भगहा भगनन्दतः” विष्णुस०।

भगाङ्कुर = पु० भगे गुह्यस्थानेऽङ्कुर इव। अर्शोरोगे शब्दार्थक०

भगाधान = न० ६ त०। १ माहात्म्याधाने २ सौभाग्ये च हरिवं० १२४ अ०।

भगाल = न० भज–कालन् न्यङ्क्वा० कुत्वम्। १ नरमस्तके २ नरकपाले उज्ज्वलः। ततः अस्त्यर्थे इनि। भगालिन् कपालधारके शिवे त्रिका० भगालशब्दे परे द्विगौ पूर्वपदप्रकृतिस्वरः पञ्चभगालः। द्विगुभिन्ने तत्पुरुषे प्रकृतिस्वरस्तेन अन्तोदात्ततास्य।

भगिनी = स्त्री भगं यत्नः पित्रादीनां द्रव्यादानेऽस्त्यस्याः इनि ङीप्। १ सोदरायाम् स्वसरि अमरः। “भगिनीशुल्कं सोदर्य्याणाम्” दायभागः। २ खीमात्रे च शब्दच० ३ भाग्यात्वितस्वीमात्रेऽपि तेन सर्वस्त्रीणां तत्पदेन संबोधनं विहितम्। “परपत्नी च या स्त्री स्यादसम्बन्धाश्च योनितः। तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च” मनुः।

भगीरथ = पु० सूर्य्यवंश्ये नृपभेदे “असमञ्जसस्तु तनयो ह्यंशुमान्नाम विश्रुतः। तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः। येन भागीरथी गङ्गा तपःकृत्वाऽवतारिता” मत्स्यपु० १२ अ०।

भगेश = पु० ६ त०। ऐश्वर्य्यादेरीश्वरे “धर्मावहं पापनुद भगेशम्” श्वेता० उ०।

भगोल = पु० भानां नक्षत्राणां गोलाकारः पदार्थः। राशिचक्रे तस्य भ्रमणभेदादिकं सू० सि० उक्तं यथा “सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम्। उपरिष्टाद् भगोलोऽयं व्यक्षे पश्चान्मुखः सदा” सू० सि०। “अयं प्रत्यक्षो भगोलो नक्षत्राधिष्ठितमूर्तगोलो देवानां मेरोरुत्तराग्रवर्तिनां सव्यम् पूर्वादिकममार्गेणेत्यर्थः। भ्रमति भ्रमं परिवर्तं करोतीत्यर्थः। दैत्यानां मेरोदेक्षिणाग्रवर्तिनामपसव्यं पूर्वादिदिग्व्युत्क्रममार्गेण। पूर्वोत्तरपश्चिमदक्षिणक्रमेणेत्यर्थः। नक्षत्राधिष्ठितगोलो भ्रमति। व्यक्षे निरक्षदेशेषु जात्यभिप्रायेणैकवचनम। उपरिष्टान्मस्तकोर्ध्वमध्यभागो भगोलः पश्चान्मुखः पश्चिमदिगभिमुखः सदा नित्यं परिभ्रमति भगोलस्य ध्रुवमध्यस्थत्वेन भ्रमणात् तयोस्तत्र क्षितिजवृत्तस्थत्वाच्च” रङ्ग०। तस्य प्रत्यक्षदर्शनार्थं सि० शि० भगोलबन्धप्रकारमाह यथा “इदानीं भगोलबन्धमाह। “याम्योत्तरक्षितिजवत् सुदृढं विदध्यादाधारवृत्तयुगलं ध्रुवयष्टिबद्धम्। षष्ट्यङ्कमात्रसममण्डलवत् तृतीयं नाड्याह्वयं च विषुवद्वलयं तदेव” मू०। इदानीं क्रान्तिवृत्तमाह। “क्रान्तिवृत्तं विधेयं गृहाङ्कं भ्रमत्यत्र भानुश्च भार्धे कुभा भानुतः। क्रान्तिपातः प्र० तीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत्”। इदानीं क्रान्तिवृत्तस्य निवेशनमाह। “क्रान्तिपाते च पाताद्भषट्कान्तरे नाडिकावृत्तलग्नम् विदध्यादिदम्। पाततः प्राक्त्रिभे सिद्धभागैरुदग् दक्षिणे तैश्च भागैर्विभागेऽपरे”। इदानीं विमण्डलमाह। “नाडिकामण्डले क्रान्तिवृत्ते तथा क्षेपवृत्तं न्यसेत्। क्षेपवृत्तं तु राश्यङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्वोक्तवत्। क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम्। क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्ययाम्ये न्यसेत् शीघ्रकर्णेन भक्तास्त्रिभज्यागुणाः स्युः परक्षेपभागा ग्रहाणां स्फुटाः। क्षेपवृत्तानि षण्णां विदध्यात् पृथक् स्वस्ववृत्ते भ्रमन्तीन्दुपूर्वा महाः”। इदानीं क्रान्तिं विक्षेपं चाह। “नाडिकामण्डलात् तिर्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः। क्षेपवृत्तावधिस्तिर्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपमः”। इदानीं क्रान्तिपातानां विषुवत्क्रान्तिवलययोः सम्पातः क्रान्तिपातः स्यात्। तद्भगणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे। अयनचलनं यदुक्तं मुञ्जालाद्यैः स एवायम्। तत्पक्षे तद् भगणाः कल्पे गीऽङ्गार्तुः नन्दगोचन्द्राः। तत् संजातं पातं क्षित्या खेटेऽपमः साध्यः। क्रान्तिवशाच्चरसुदयाश्चरदललग्नापमे ततः क्षेप्यः”। इदानीं विक्षेपपातानाह। “एवं क्रान्तिविमण्डलसपाताः क्षेपपाताः स्युः। चन्द्रादीनां व्यस्ताः क्षेपानयने तु ते योज्याः। मन्दस्फुटो द्राक् प्रतिमण्डले हि ग्रहो भ्रमत्यत्र च तस्य पातः। पातेन युक्ताद्गणितागतेन मन्दस्फुटात् खेचरतः शरोऽस्मात्। पातेऽथ वा शीघ्रफलं विलोमं कृत्वा स्फुटात् तेन युताच्छरोऽतः। चन्द्रस्य कक्षाबलये हि पातः स्फुटाद्विधोर्मध्यमपातयुक्तात्”। इदानीं ज्ञशुक्रयोर्विशेषमाह “ये चात्र पातभगणा पठिताज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरधिका यतः स्युः। सूक्ष्माः सुस्वार्थमुदिताश्चलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ। चलाद्विशोध्यः किलकेन्द्रसिद्ध्यै सपातेद्युचरस्तु योज्यः। अतश्चलात् पातयुताज्ज्ञभृग्वीः सुधीभिराद्यैः शरसिद्धिरुक्ता। स्फुटी न शीघ्रोच्चयुतौ स्फुटौ तयोः पातौ भगोले स्फुट एव पातः”। इदानीं ग्रहगोले विशेषमाह। ग्रहस्य गोले कथितापमण्डलं प्रकल्प्य कक्षाबलय यथोदितम्। निबध्य शीघ्रप्रतिवृत्तमस्मिन् विमण्डलं तत्पठितैः शराशैः। मध्येऽत्र पातोद्युसदां ज्ञभृग्वोः खशीघ्रकेन्द्रेण युतस्तु देयः। इदानीमहोरात्रवृत्तमाह। “ईप्सितक्रान्तितुल्येऽन्तरे सर्वतो नाडिकास्यादहोरात्रवृत्ताह्वयम्। तत्र बद्ध्वा घटीनां च षष्ठ्याङ्कयेद्यस्य विष्कम्भखण्डं द्युजीवा मता। इदानीमन्यदाह। “अथ कल्प्यामेषाद्या अनुलोमं क्रान्तिपाताङ्कात्। एषां मेषादीनां द्युरात्रवृत्तानि बध्नीयात्। नाडीवृत्तोभयतस्त्रीणि त्रीणि क्रमोत्क्रमात् तानि”। इदानीमस्योपसंहारमाह “एष भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः। अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव। शन्यादीनां कक्षा बध्नीयादूर्णनाभजालामाः। बद्ध्वा भगोलमेवं यष्ट्यां यष्टिं खगोलनलिकान्तः। प्रक्षिप्य भ्रमयेत् तं यष्ट्याधारं स्थिरौ खट्टग्गोलौ” सि० शि०।

भग्न = त्रि० भन्ज–क्त। १ कृतावयवभेदे २ रोगभेदे हेमच०। तन्निदानभेदादिकं सुश्रुते उक्तं यथा “अथातो भग्नानां निदानं व्याख्यास्यामः। पतनपीडनप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिथातविशेषैरनेकविधमस्थ्नां भङ्गमुपादिशन्ति तत् तु भङ्गजातमनुसार्य्यमाणं द्विविधमेवोत्पद्यते सन्धिमुक्तं काण्डभग्नञ्च। तत्र सन्धिमुक्तमुत्पिष्टं विश्लिष्टं विवर्त्तितमवक्षिप्तमतिक्षिप्तं तिर्य्यक्क्षिप्तमिति षड्विधम्। तत्र प्रसारणान कुञ्चनविवर्त्तनाक्षेपणाऽशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षणमुक्तम्। विशेषेणोत्पिष्टे सन्धाबुभयतः शोफो वेदनाप्रादुर्भावी विशेषतश्च नानाप्रकारा वेदना रात्रौ प्रादुर्भवन्ति। विश्लिष्टेऽल्पशोफो वेदनासातत्यं सन्धिविक्रिया च। विवर्त्तिते तु सन्धिपार्श्वापगमनाद्विषमाङ्गता वेदना च। अवक्षिप्ते सन्धिविश्लेषस्तीव्ररुजत्वञ्च। अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरतिक्रान्तता वेदना च। तिर्य्यक्क्षिप्ते त्वेकास्थिपार्श्वापगमनमत्यर्थं वेदना चेति। काण्डभग्नमत ऊर्द्ध्वं वक्ष्यामः कर्कटकमश्वकर्णं चूर्णितं पिच्चितमस्थिच्छल्लितं काण्डभग्नं मज्जानुगतमतिपातितं वक्रं छिन्नं पाटितं स्फुटितमिति द्वादशविधम्। श्वयथुबाहुल्यं स्पन्दन विवर्त्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गता विधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभ इति समासेब काण्डभग्नलक्षणमुक्तम्। विशेषतस्तु संमूढमुभयतोऽस्थिमध्यभग्नं ग्रन्थिरिवोन्नतं कर्कटकम्। चूर्णितमस्थि तत् तु शब्दस्पर्शाभ्यां बोद्धव्यम्। पिच्चितं पृथुताङ्गतमनल्पशोफम्। पार्श्वयोरस्थिहीनोद्गतमस्थिच्छल्लितम्। वेल्लेत प्रकम्पमानं काण्डभग्नत्वम्। अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानसुन्नह्यतीति मज्जानुगतम्। अस्थि निःशेषतश्छिन्नमतिपतितम्। आभुग्नमविमुक्तास्थि वक्रम्। अन्यतरपार्श्वावशिष्टं छिन्नम्। पाटितमणु बहुविदारितं वेदनावच्च। शूकपूर्णमिवाध्मातं विपुलं विस्फुटीकृतं स्फुटितमिति। तेषु चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि कृशवृद्धबालानां क्षतक्षीणकुष्ठश्वासिनां सन्ध्युपगतञ्चेति। भवन्ति चात्र “भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथा च्युतम्। जघनं प्रतिपिष्टञ्च वर्जयेत् तच्चिकित्ससकः। असंश्लिष्टं कपालन्तु ललाटे चूर्णितञ्च यत्। भग्नं स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत्। आदितो यच्च दुर्ज्जातमस्थिसन्धिरथापि वा। सम्यक् संहितमप्यस्थि दुर्न्यासाद् दुर्निबन्धनात्। सङ्क्षोभाद्वापि यद्गच्छेद्विक्रियां तत् तु बर्जयेत्। मध्यस्य वयसोऽवस्थास्तिस्रो याः परिकीर्त्तिताः। तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो विजांनुता। तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु। कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च”।

भग्नपाद = न० ज्यो० त० उक्ते कृत्तिकादिनक्षत्रेप्यस्य नक्षत्रस्य तृतीयपादस्य आद्यपादस्य वा राश्यन्तरघटकता तादृशे नक्षत्रे। “पुनर्वसूत्तराषाढाकृत्तिकोत्तरफल्गुनी। पूर्वभद्रा विशाखा च षडेते पुष्कराः स्मृताः भग्नपादर्क्षसंयोगात्”।

भग्नपृष्ठ = त्रि० भग्नं पृष्ठं यस्य। १ मुटितपृष्ठके २ सम्मुखे च त्रिका०।

भग्नप्रक्रम = पु० भग्नः प्रक्रमो यत्र। काव्यगते वाक्यदोषभेदे ३७६३। ६४ पृ० दोषशब्दे दृश्यम्। तदुदाहरणं सा० द० “एवमुक्तो मन्त्रिमुख्यैर्रावणः प्रत्यभाषत” अत्र वचधातुना प्रकान्तं प्रतिवचनमपि तेनैव वक्तुमुचितं तेन “रावणः प्रत्यवोचतेति” पाठो युक्तः। एवञ्च सति न कथितपदत्पदोषः तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात् इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिर्देश्यत्वम्। यथा “उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यत्र। यदि पदान्तरेण स एवार्थः पतिपाद्यते तदान्योऽर्थ इव प्रतिभासमानः प्रतीतिं स्थगयति। यथा वा। “ते हिमालयमामन्य पुनः प्रेक्ष्य च शूलिनम्। सिद्धञ्चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः”। अत्र “अस्मा इति” इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःशब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन। यथा वा। उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम्”। अत्र “मिता भूः पत्यापां स च पतिरपामिति” युक्तः पाठः। एवं “यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्त्तितुं वा। निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः अत्र सखमीहितुमित्युचितम्। अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः। तृतीये पर्य्यायविषयः चतुर्थे प्रत्ययविषयः”।

भग्नसन्धि = पु० भग्नः सन्धिरत्न। रोगभेदे गरुडपु० १५७ अ०

भग्नसन्धिक = न० भग्नः सन्धिः सन्धानमवयवयोजनमत्र कप्। तक्रे (थोग) शब्दच०।

भग्नात्मन् = पु० ६ ब०। चन्द्रे शब्दचन्द्रिका। तस्य कृष्णप्रति- पदादिक्रमेण एकैककलाविच्छेदेन भग्नदेहत्वात् तथात्वम्

भग्नाश = त्रि० ६ त०। १ हताशे इष्टविषयाया इच्छायाः प्रतिघातयुक्ते।

भग्नी = स्त्री भगिनी + पृषो०। भगिन्यां द्विरूपकोषः।

भङ्कारी = स्त्री भमित्यव्यक्तशब्दं करोति कृ–अण् गौरा० ङीष्। भम्भरालिकायां दंशे त्रिका०।

भङ्ग = पु० भन्ज–भावादौ घञ्। १ तरङ्गे अमरः २ पराजये। ३ खण्डे ४ रोगभेदे मेदि० ५ कौटिल्ये ६ भये ७ पत्ररचनाभेदे हेम०। ८ गमने ९ जलनिर्गमे च अजयपालः १० मातुलायाम्, अमरः। ११ शणाख्ये १२ शस्ये त्रिवृतायां (तेउडी) १३ विजयायाञ्च (भाङ्) स्त्री। १४ रोगमात्रे पु० राजनि०।

भङ्गकार = पु० अविक्षितो नृपस्य १ पुत्रभेदे भा० आ० ९४ अ०। २ सत्राजित्पुत्रभेदे हरिवं ३८ अ०।

भङ्गवासा = स्त्री भङ्गे सति वासः सौरभं यस्याः। हरिद्रायां शब्दरत्ना० तस्याः पेषणे एव वासनावत्त्वात्तथात्तम्।

भङ्गसार्थ = त्रि० भङ्गस्तद्युतः सार्थः मायायुतत्वात् सप्रयोजनः। कुटिले हारा०।

भङ्गाकट = न० भङ्गाया रजः भङ्गा + रजसि कटच्। भङ्गौषधे। रजसि

भङ्गान = पुंस्त्री भङ्गेन तरङ्गेण अनिति अन–अच्। (भाङ्गन) मत्स्यभेदे शब्दमा० स्त्रियां जातित्वात् ङीष्।

भङ्गारी = स्त्री भमित्यव्यक्तं गिरति गॄ–अण् गौरा० ङीष्। दंशे त्रिकाण्डे पाठान्तरम्।

भङ्गासन = पु० नृपभेदे तत्कथा भा० अनु० १२ अ०।

भङ्गि(ङ्गी) = स्त्री भतज्–इन् न्यङ्क्वा० कुत्वम् वा ङीप्। १ विच्छेदे २ कोटिल्ये ३ विन्यामे ४ कल्लोले ५ भेदे ६ व्याजे च।

भङ्गिमन् = पु० भङ्ग + बा० स्वार्थे इमनिच्। भङ्ग्याम्।

भङ्गुर = त्रि० भन्ज–घुरच्। १ स्वयं भञ्जनशीले जटा०। २ कुटिले २ नदीनां वक्रे च शब्दमा०। ४ प्रियङ्गौ ५ अतिविषायाम् च (आतैच्) स्त्री राजनि०।

भङ्ग्य = न० भङ्गानां भवनं क्षेत्रं तमर्हति बा यत्। भङ्गाभवनयोग्ये क्षेत्रे २ भङ्गार्हे त्रि०।

भचक्र = न० गानां नक्षत्राणां राशीनां वा चक्रम्। १ राशिचक्रे २ नक्षत्रचक्रे च “भ्रमावर्तो भचक्रेऽस्मिन् ध्रुवो नाभौ व्यवस्थितः। आराचक्रे त्विन्दुभौमौ शुक्रजीवशनैश्चराः। राहुः केतुरगस्त्यश्च नक्षत्राण्यथ राशयः। यदा दिक्षु च अष्टाशु मेरोर्भूगोलकोद्भवा। कृआया भवेत्तदा रात्रिः स्याच्च तद्विरहाद्दिनम्। सूर्य्येन्द्वोरुपरागस्तु गोलकच्छायया भवेत्। अन्योन्ययोस्तयोरेव व्यासयोरेव कार- णात्। ग्रासमोक्षौ तु जायेते तत्रातः पूर्वपश्चिमौ। तत्र पुण्यफलाद्भागः कृतो राहीस्तु विष्णुना” वह्निपु०। अधिकं मगोलशब्दे दृश्यम्।

भज = भागे पृथक्करणे सेवायाञ्च भ्वा० उभ० सक० अनिट्। भजति–ते अभाक्षीत् अभक्तबभाज भेजतुः भेजे।

भज = पाके दाने च चु० उ० सक० सेट्। भाजयति–ते अबीभजत्त

भज = दीप्तौ चु० उभ० सक० सेट् इदित्। भाजयति–ते अबीभजत्–त

भजमान = त्रि० भज–शानच्। १ न्यायागतद्रव्यादौ २ विभाजके ३ सेवके च। सात्त्वतो नृपस्य कोशल्यागर्भजाते ४ पुत्रभेदे पु० हरिवं० ३८ अ०।

भजि = पु० भज–धातुनिर्देशे इन्। १ भजधातौ। इन्। सत्वतो नृपस्य २ पुत्रभेदे भाग० ९। २४। ४ श्लो०। हरिवं० ३८ अ०। भजिन् इति पाठान्तरम् तत्रार्थे

भजेन्य = त्रि० भज–बा० कर्मणि एन्य। भजनीये भाग० ५१७२०

भजेरथ = पु० राजभेदे ऋ०१। ६०२।

भञ्जनक = पु० मुखरोगभेदे “वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते। कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः” माधवकरः।

भञ्जनागिरि = पु० ६ त०। किंशुलुका० दीर्घः। पर्वतभेदे

भञ्जरुं = पु० भन्ज–बा० उरु। देवकुलोद्भवे वृक्षे त्रिका०।

भञ्जा = स्त्री अन्नपूर्णायाम् रुद्रयामले।

भट = भृतौ कर्ममूल्यग्रहणे भ्वा० पर० सक० मेट् भटति। अभा टीत्–अभटीत्। यो भाटयित्वा शकटं नीत्वा चान्यत्र गच्छति। भाटं न दद्यात् दाप्योसाऽवरूढस्यापि भाटकम्” वृद्धमनुः।

भट = भाषणे भ्वा० पर० सक० सेट्। भटति अभा(भ)टीत्।

भट = पु० भट–अच्। १ योद्धरि अमरः “तद्भटचातुरीतुरी” नैष०। २ म्लेच्छभेदे हेम० ३ वीरे ४ नीचभेदे ५ रात्रिञ्चरे च मेदि० ६ इन्द्रवारुण्याम् (राखालशशा) स्त्री रत्न०।

भटित्र = न० भट–इत्र। शूलपक्वे मांसादौ (कावाव) अमरः।

भट्ट = पु० भट–तन्। स्तुतिपाठवृत्तियुते (भाट) १ जातिभेदे “वैश्यायां शूद्रवीर्य्येण पुमानेको बभूव ह। स भटौ धावदूकश्च सर्वेसां स्तुतिपाठकः” ब्रह्मवै० ब्रह्मख० ७ अ० “क्षत्रियाद्विप्रकन्यायां भट्टी क्षातोऽनुवाचकः”। तेनद्विविधा जातिः। २ स्यामित्वे, ३ वेदाभिज्ञे ३ पण्डिते च। भट्टश्च तुतातभिधः मीमांसकभेदः तन्मतं च १०१ पृ० दर्शितम्। दिग्मात्रं सौगाक्षिभास्करेण दर्शितं यथा “स च यागादिर्वजेत स्वर्गकाम इत्यादि वाक्येन स्व- र्गमुद्दिश्य पुरुषं प्रति विधीयते। तथाहि यजेतेत्यत्रास्त्यंशद्वयं यजिघातुः प्रत्ययश्च। प्रत्ययेऽप्यस्त्यंशद्वयमाख्यातत्वं लिङ्त्वञ्च। तत्राख्यातत्वं दशलकारसाधारणं, लिङ्त्वं पुनर्लिङ्मात्रे। उभाभ्यामप्यंशाभ्यां भावनैवोच्यते। भावना नाम भवितुर्भवनानुकूलोव्यापारविशेषः। सा द्विधा–शाब्दी आर्थी चेति। तत्र पुरुषप्रवृत्त्यनुकूलो भावयितुर्व्यापारविशेषः शाब्दी भावना। सा च लिङंशेनोच्यते लिङश्रवणेऽयं मां प्रवर्त्तयति मत्प्रवृत्यनुकूलव्यापारवानिति नियमेन प्रतीतेः। यद्यस्माच्छब्दान्नियतं प्रतीयते तत् तस्य वाच्य” गामानयेत्यस्मिन् वाक्ये यथा गोशब्दस्य गोत्वम्। स च व्यापारविशेषो लौकिकवाक्ये पुरुषाभिपायविशेषः वैदिकवाक्येषु पुरुषाभावात् लिङादिशब्दानिष्ठ एव। अतएव शाब्दी भावनेति व्यवह्नियते। सा च भावनांशत्रयमपेक्षते–साध्यं साधनमितिमर्त्तव्यताञ्च। किं भावयेत्? केन भावयेत्? कथं भावयेत्?–इति तत्र साध्याकाङ्क्षायां वक्ष्यमाणांशत्रयोपेता आर्थी भावना साध्यत्वेनान्वेति, एकप्रत्ययगस्यत्वेन समानाभिधानश्रुतेः सङ्ख्यादीनामेकप्रत्ययगम्यत्वेऽप्ययोग्यत्वान्न साध्यत्वेनान्वयः। साधनाकाङ्क्षायां लिङादिज्ञानं करणत्वेनान्वेति, तस्य च करणत्वं न भावनोत्पादकत्वेन तत्पूर्वमपि तस्याः शब्दे सत्त्वात् किन्तु भावनाज्ञापकत्वेन शब्दभावन भाव्यनिर्वर्त्तकत्वेन वा। इतिकर्त्तव्यताकाङ्क्षायामर्थवादज्ञाप्यप्राशस्त्यमितिकर्त्तव्यत्वेनान्वेति। प्रयोजनेच्छाजनितक्रियाविषयव्यापार आर्थीभावना। सा चाख्यातवाच्या, आख्यातसामान्यस्य व्यापारवाचित्वात्। साप्यंशत्रयमपेक्षते साध्यं साधनमितिकर्त्तव्यताञ्च। किं भावयेत्? केन भावयेत्? कथं भाव येत्? इति। तत्र साध्याकाङ्क्षायां स्वर्गादिफलं साध्य त्वेनान्वेति। साधनाकाङ्क्षायां यागादिः करणत्वेनान्वेति, इतिकर्त्तव्यताकाङ्क्षायां प्रयाजाद्यङ्गजातमितिकर्त्तव्यत्वेनान्वेति”।

भट्टाचार्य्य = पु० भट्टस्तुतातभट्टश्च आचार्य्य उदयनाचार्य्यश्च तौ तुल्यतया तन्मताभिज्ञतया वाऽस्त्यस्य। तुतातभट्टेन उदयनाचार्य्येण च। तुल्ये २ तयोर्मताभिज्ञे च। द्वन्द्वः। ३ तथोः द्वि० व०। “नास्तिकानां निग्रहाय भट्टाचार्य्यौ भविष्यतः”।

भट्टार = त्रि० भट्टं स्यापित्वमृच्छति ॠ अच्। १ प्रज्ये त्रिका०। सूर्य्ये पु० स्वार्थेक। पूज्ये त्रि० जटा०। नाट्योक्तौ नृपे संज्ञायां कन्। देवे तपोधने पु० मेदि० अमरः। “सखे। स्नायुनिर्मिताः पाशास्तदद्य भट्टारकवारे कथमेतान दन्तैः स्पृशामि” हितो०।

भट्टि = पु० १ द्वाविंशतिसर्गात्मके महाकाव्यभेदे तच्च जयमङ्गलेन श्रीधरस्वामिसूनो महाब्राह्मणस्य महावैयाकरणस्य भट्टेः कृतिरित्युक्तं भरतमल्लिकेन भर्तृहरिणा कृतमित्युक्तं तच्चिन्त्यं “काव्यमिदं विहितं मया बलभ्यां श्रीधरसेनन रेन्द्रपालितायाम्” तत्र द्वाविंशसर्गश्लोके उक्तेः न भर्तृहरिकृतत्वम् भर्तृहरेरुज्जयिनीवास्तव्यत्वेन तन्नृपतित्वेन च नृपान्तरराजधानीवास्तव्यत्वोक्तेरनुचितत्वात्।

भट्टिनी = स्त्री भट्टं स्वामित्वमस्यास्ति इनि ङीप्। नाट्योक्तौ १ अकृताभिषेकायां राज्ञः स्त्रियाम् अमरः। २ विप्रभार्य्यायाम् मेदि०।

भट्टोजि = पु० सिद्धान्तकौमुदीशब्दकौस्तुभादिग्रन्यकारके दीक्षितोपनामके वैयाकरणभेदे।

भड = परिमाषणे भ्वा० आ० सक० सेट् इदित्। भण्डते अभण्डिष्ट बमण्डे।

भड = कल्याणभाषणे चु० उ० सक० सेट् इदित्। भण्डयति–ते अवभण्डत्–त। प्रतारणे च भण्डयति प्रतारकी मुग्धं धनदानाङ्गीकारेण, सनिन्दोपलम्भे परिहासे च उणा० सू० भडिभण्ड्योः पृथग्निर्देशात् अयमिदिद्भिन्नोऽपि।

भड = पु० भडि–अच्। वर्णसङ्करभेदे “लेटस्तीवरकन्यायां जनयामास षड्नरान्। माल्लं मल्लं मातर च भडं कोलं च कन्दरम्” ब्रह्मवै० ब्रह्मख० २० अ०।

भडिल = पु० भड–इलच। १ वीरे २ सेवके उज्ज्वलः। ३ ऋषि भेदे ततः गर्गा० अपत्ये यञ्। भाडिल्य तदपत्ये अश्वा० फञ्। भाडिल्यायन तदपत्ये बहुत्वे तस्य लुक्।

भण = कथने भ्वा० पर० द्विक० सेट्। भणति। अभाणीत्–अभणीत्। चङि वा ह्रस्वः। अबीभणत्–त अबसाणत्– त। कथनमिह व्यक्तवाक्यम्।

भणिति = स्त्री भण–क्तिन् ग्रहादित्वादिट्। कथने। गौडोर्वीशकुलप्रशस्तिभणितेः” नैष०।

भण्टाकी = स्त्री भटि–षाकन् ङीष्। १ वार्त्ताक्याम्, अमरः। २ वृहत्यां रत्नमाला।

भण्टु(ण्टू)क = पु० भटि–उक ऊक वा। श्योनाकवृक्षे रत्न मा०

भण्ड = पु० भडि–अच्। अश्लीखवाक्यभाषके (भा~ड) “त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तपिशाचकाः” सर्व० सं० चार्वाकदर्शनम्

भण्डक = पुंस्त्री० भण्ड + संज्ञायां कन्। खञ्जनखने जटा०। स्त्रियां आतित्वात् ङीष्।

भण्डन = न० भडि–भावाधारादौ ल्युट् १ खलीकारे (प्रतारणे) २ कवचे मेदि०।

भण्डहासिनी = स्त्री भण्डेन सह हपति णिनि ङीप्। वेश्यायां शब्दर०।

भण्डि = स्त्री भडि–इन्। १ वीचौ हारा०। वा ङीप् ङीबन्तः २ शिरीषवृक्षे राजनि०।

भण्डिका = स्त्री भण्ड–ण्वुल् कापि अत इत्त्वम्। मञ्जिष्ठायां शब्दर०

भण्डित = पु० भडि–क्त। १ ऋषिभेदे ततः गर्गा० यञ्। भाण्डित्य तद्गोत्रापत्ये पुंस्त्री अश्वा० फञ्। भाण्डित्यायन तद्गोत्रापत्ये पुंस्त्री०। तस्य बहुत्वे वा लुक्।

भण्डिर(ल) = पु० भण्ड–इलच पृषो० रस्य वा लः। १ शिरीषवृक्षे अमरः। रान्तः वाचस्पतिः। लान्तः शुभे दूते त्रि० उणादिको०।

भण्डीतकी = स्त्री भण्डी सती तकति तक–ख्याने अच् गौरा० ङीष्। मञ्जिष्ठायां भावप्र०।

भण्डीर = पु० भण्डि वा० ईर। १ समष्ठिलक्षुपे २ तण्डुलीयशाके ३ शिरीषवृक्षे च राजनि० हरिवं० ६५ अ०। तद्वनवर्णनम्

भण्डीरलतिका = स्त्री भण्डीर इव लतते लत–अच् स्वार्थे क कापि अत इत्त्वम्। मञ्जिष्ठायां राजनि०।

भण्डीरी = स्त्री भडि। बा० ईर गौरा० ङीष्। मञ्जिष्ठायाम् अमरः। रस्य लः। तत्रार्थे पु० शब्दच०।

भण्डु = पु० भडि–उण्। देशभेदे ततः मुवास्त्वा० चतुरर्थ्यां अण्। भाण्डव तददूरदेशादौ त्रि०।

भण्डु(ण्डू)क = पु० भडि–उक ऊक वा। (भाङ्गन) मत्स्यभेदे रत्नमाला। दीर्घमध्यः २ श्योनाकवृक्षे रत्नमाला।

भद = शुभकथने प्रीतौ च भ्वा० आ० अक० सेट् इदित्। भन्दते अभन्दिष्ट।

भद = कल्याणकरणे चु० उ० अक० सेट् इदित्। भन्दयति–ते अबभन्दत्–त।

भदन्त = पु० भदि–भ्वच् नलीपः। १ बोद्धभेदे। २ पूजिते त्रि०। उणादि० ३ प्रव्रजिते उज्ज्वल०।

भदाक = न० भदि कल्याणे आकन् नलोपः। कल्याणे उज्ज्वल०

भद्र = न० भदि–रक् नि० नलोपः। १ मङ्गले उणा० २ मुस्तके ३ स्वर्णे च मेदि०। ज्योतिषोक्ते बवादितः सप्तमे करणे स्त्री न०। ४ महादेवे ५ वृषे ६ खञ्जने ७ कदम्बे ८ हस्तिजातिभेदे ९ वलदेवे १० रामचरभेदे पु० मेदि०। ११ सुमेरुशैले पु० हेमच० १२ स्नुहीवृक्षे च पु० राजनि०। ज्योतिषोक्तासु १३ द्वितीयासप्तमीद्वादशीतिथिषु च स्त्री। १४ साधौ १५ श्रेष्ठे च त्रि० मेदि०। १६ देवदारुणि पु०। १७ कृष्णभगिन्यां स्त्री “रामं मां भद्रया सह” ति० त०। १८ मध्यदेशभेदे पु० वृ० स० १४ अ० कूर्मविभागे दृश्यम्। १९ वसु भेदेवपुत्रभेदे पु० भाग० ९२। ४। २५ श्लो०। २० तुषितदेवगणभेदे भाग० ४। १। ८। २१ वैश्रवणपत्न्यां स्त्री० भा० १८९ अ०। २२ सोमस्य दुहितरि उतथ्यपत्न्यां स्त्री भा० अ० १५४ अ०। २३ रौद्राश्वस्य कन्याभेदे हरिवं०३६ अ०। २४ नटभेदे पु० हरिवं० १५० अ०। २५ भारतवर्षस्थे नदीभेदे स्त्री मार्कपु० ५९ अ०। विष्टिभद्रायाः सर्वकार्य्ये वर्जनप्रतिप्रसवादिकं मु० चि० पी० धा० दर्शितं यथा “अयोगे सुयोगोऽपि चेत् स्यात् तदानीमयोगं निहत्यैषसिद्धिं तनोति। परे लग्नशुद्ध्या कुयोदिनाशं दिनार्द्धोत्तरं विष्टिपूर्वं च शस्तम् (१)। शुक्ले पूर्वार्द्धेऽष्टमीपञ्चदश्योर्भद्रैकादश्यां चतुर्थ्यां परार्द्धे। कृष्णेऽन्त्यार्द्धे स्यात् तृतीयादशम्योः पूर्वे भागे सप्तमीशम्भुतिथ्योः (२)। पञ्चद्व्यद्रिकृताष्टरामरसभूयामादिघट्यः शरा विष्टेरास्य मसद्गजेन्दुरसरामाद्यश्विवाणाब्धिषु। यामेष्वन्त्यघटीत्रयं शुभकरं पुच्छं तथा वासरे विष्टिस्तिथ्यपरार्द्धजा शुभकरी रात्रौ तु पूर्वार्द्धजा (३)। कुन्भकर्कद्वये मर्त्ये स्रर्गेऽब्जेऽजात्रयेऽलिगे। स्त्रीधनुर्जूकनक्रे धो भद्रा तत्रैव तत्फलम् (४)” मू०। “अथावश्यकशुभकृत्ये कालान्तरप्रतीक्षाऽयोग्यतायां परिहारमाह विष्टिपूर्वं विष्टिर्भद्रा तत्पूर्वं तदादि व्यतीपातादिकं दिनार्द्धोत्तरं मध्याह्नादनन्तरं शस्तं प्राहुः अर्थान् मध्याह्न यावत्कालो निषिद्धः “विष्टिरङ्गारक श्चैव व्यतीपातश्च वैधृतिः। प्रत्यरं जन्मनक्षत्रं मध्याह्नात् परतः शुभम्” इति तेनैवोक्तत्वात् (१)। अथ भद्रा निषिद्धेति पूवमुक्तं तदधुना प्रस्तावात् तन्निषिद्धकालं शालिनीच्छन्दसाह शुक्ले इति। शुक्लपक्षे अष्टम्यां पूर्णिमायाञ्च पूर्वार्द्धे भद्रा भवति एकादश्यां चतुर्थ्यां चोत्तद्धरार्द्धे भद्रा। अथ कृष्णे कृष्णपक्षे तृतीयायां दशम्यां चान्त्यार्द्धे उत्तरार्द्धे भद्रा स्यात् सप्तम्यां शम्भ तिथौ चतृर्दश्याञ्च पूर्वे भागे पूर्वार्द्धे भद्रा स्यात् पूर्वे इति पूर्वादिभ्यो नवभ्यो वेति स्मिनभावपक्षे रूपम्। अष्टम्यादीनां तिथीनां गतभोग्यघटिकायोगार्द्धं भद्राप्रमाणमिति यावत् “तिथेर्गतैष्यैक्यदलं तन्मानं करणं भवेत्” वोपदेवोक्तेः “तिथ्यर्द्धभागं सर्वेषां करणानां प्रकल्पयेत्” इति सूर्य्यसिद्धान्वोक्तेश्च। उक्तञ्च दीपिकायाम् तृतीयादशमीशेषे तत्पञ्चन्योस्तु पूर्वतः। कृष्णे विष्टिः सिते तद्वत्तासां परतिथिष्वपि” बहस्पतिना तु स्पष्टमुक्तम्। “सिते चतुर्थ्यामन्त्या- र्धमष्टम्याद्यार्द्धमेव च। एकादश्या परार्द्धे तु पूर्वार्द्धं पूर्णशीतगौ। कृष्णे तृतीयान्त्यार्द्धं हि सप्तम्याद्यार्द्धमेव च। दशम्यामुत्तरार्द्धं तु चतुर्दश्यर्द्धमादितः। विष्ट्याख्योऽयं महादोषः कथितोऽत्र समस्तगः। तदानीं कृततत्कम कर्त्रा सह विनश्यति” इति। पूर्णशीतगौ पूर्णिमायाम्। रत्नकोशे प्रत्येकं भद्रानामानि “हंसी नन्दिन्यपि च त्रिशिराः सुमुखी करालिकाचैव वैकृतिरौद्रमुखी च चतुर्मुखी विष्टयः क्रमशः”। चतुर्थ्यादितिथिसम्बन्धि भद्रानामामाभिधानं नामसादृश्येन कलतारम्यसूचनार्थम्। भद्रास्वरूपं रत्नमालायाम् “उद्बद्धोद्भटतरपीडिताऽतिकृष्णा दंष्ट्रोग्रा पृषुहनुगण्डदीर्घनासा। कार्य्यघ्नीहुतबहबहुलं समुद्निरन्ती विश्वान्तः पतति समन्ततोऽत्र विष्टिरिति” (२)। अथ चतुर्थ्यादितिथिषु भद्रायामुखपुच्छविभागादिकं शार्दूलविक्रीडितेनाह। पञ्चेति चतुर्थ्यादि तिथीनां क्रमशः पञ्चादिप्रहरेषु शराः पञ्च नाड्यः आदिमा विष्टेर्भद्राया आस्यं मुखं यथा चतुर्थ्याः पञ्चमप्रहरे, आदिभूता पञ्च धट्यो भद्रामुखम् एवमष्टम्या द्वितीयप्रहरे, एकादश्याः सप्तमप्रहरे, पौर्णमास्याश्चतुर्थप्रहरे, तृतीयाया अष्टमप्रहरे, सप्तम्यास्तृतीयप्रहरे, भद्रामुखमित्यर्थः तद् भद्रायामुखमसदशुभमित्यर्थः अथ पुनश्चतुर्थ्यादितिथीनां क्रमेण गजादिप्रहरेषु अन्त्यम् अन्ते भवमन्त्यं दिगादिभ्यो यदिति यत् घटीत्रयं पुच्छं पुच्छसंज्ञं तच्छुभकरं समस्तकार्य्येष्वित्यर्थः। यथा चतुर्थ्या अष्टमप्रहरस्यान्त्यं घटीत्रयं भद्रापुच्छम एवमष्टम्याः प्रथमप्रहरस्य, एकादश्याः षष्ठप्रहरस्य, पूर्णिमायास्तृतीयप्रहरस्य, तृतीयायाः सप्तमप्रहरस्य, सप्तम्या द्वितीयप्रहरस्य, दशम्याः पञ्चमप्रहरस्य, चतुर्दश्याश्चतुर्थ प्रहरस्यान्त्यं घटीत्रयं भद्रापुच्छमित्यर्थः। यदाह गुरुः “भूतदस्रस्वराम्भोधिवसुवह्न्यङ्गरूपकाः। यामेष्वेषु क्रमादास्य भवेत तिथ्यर्द्धविष्टिष्विति”। व्यवहारसमुच्चये “दशम्यामष्टम्यां प्रथमघटिकापञ्चकपरं हरिद्युः सप्तम्यां द्विदश १२ घटिकान्ते त्रिघटिकम्। तृतीयाराकायां स्वयम २० घटिकाभ्यः परभवं शुभं विष्टेः पुच्छं शिवतिथिचतुर्थ्यास्तु विरमे” इति। हरिद्युरेकादशी राका पूर्णिमा। ननु भद्रा देवतेत्यभिधीयते तस्याः पुच्छकथनात्तु पशुत्वसिद्धिर्दृश्यते देवता च कथं पशुर्भवितुमर्हति। सत्यं दैत्येन्द्रैर्देवेषु पराजितेषु रुद्रस्य ज्वालामालाकुसनेत्रा लोकितदेहात् देवी भद्रासंज्ञा मुखपुच्छादिमत्येव उत्पन्ना दैत्यान् जघान यदुक्तं श्रीपतिना दैत्यैन्द्रैः समरेऽमरेषु विजितेष्वीशः क्रुधा दृष्टवान् स्वङ्कायं किल निर्गता स्वरमुखी लाङ्गूलिनी च त्रिपात्। विष्टिः सप्तभुजा मृगेन्द्रगलका क्षानोदरी प्रेतगा दैत्यघ्नी मुदितैः सुरैस्तु करणप्रान्ते नियुक्ता सदेति”। भद्राकृत्यमाह वसिष्ठः “बधबन्धविषाग्न्यस्त्रच्छेदनीच्चाटनादि यत्। तुरङ्गमहिषोष्ट्रादि कर्म विष्ट्यान्तु सिद्ध्यति। न कुर्य्यान् मङ्गलं विष्ट्यां जीवितार्थी कदाचन। कुर्वन्नज्ञस्तदा क्षिप्रं तत् सर्वं नाशतां व्रजेत्”। तत्राङ्गविभागः फलञ्च कश्यपसंद्वितायाम् “मुखे पञ्च गले त्वेका वक्षस्येकादश स्मृताः। नाभौचतस्नः षट् कट्यां तिस्रः पुच्छे तु नाडिकाः। कार्य्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता। कट्यामुत्मत्तता नामौ च्युतिः पुच्छेध्रुवी जयः”। अयञ्च भद्राङ्गविभागो नाडीनां त्रिंशतोन्यूनाधिकत्वे तु त्रैराशिकेन मुखादीनामङ्गानां विभागज्ञानं यथा यदि नाडी त्रिंशता इदमुक्तमङ्गपरिमाणं इष्टपरिमाणेन किमिति त्रैराशिकम् एवं सति उक्ताङ्गपरिमाणं भद्राभोगमितघटीभिः सङ्गुण्यं त्रिंशता भाज्यं लब्धसमोऽङ्गविभागः। तत्र मुखादिकाशा रत्नमालायाम् “जलशिखिशशिरक्षःशर्व कीनाशवायुत्रिदशपतिककुप्सु प्रोक्तमास्यं हि विष्टेः। नियतमृषिभिराशासंख्यया प्रक्रमेण स्फुटमिह परिहार्य्यं मङ्गलेष्वेतदेव”। जलं वरुणः कीनाशा यमः शुक्लचतुर्थ्या उत्तरार्द्धे पश्चिमदिशि भद्रामुखं तच्चाशासंख्यक्रमेण पञ्चमे प्रहरे भवति अर्थादेव भद्रायाः प्रहरचतष्टया धिकस्थितभावादन्मे एव घटिकात्रयं पुच्छं ततोऽष्टम्यां द्वितीयप्रहरेऽनेन प्रकारेण आग्नेय्यां दिशिमुखं मुखाच्च प्राक् पुच्छमिति प्रथमप्रहरान्त एव पुच्छघटिका इत्येवं सर्वास्वपि भद्रातिथिष्ववगन्तव्यं प्रयोजनमपि तत्रैव “मनुवसुमुनितिथियुगदशशिवगुणसंख्यासु तिथिषु पूर्वस्याः। आयाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्वशुभेति” तदेतदात्ययिककार्य्यस्यासम्मवे सति मुखदिक्संमुखयात्रानिषेधकमवधेयम्। ग्रन्थान्तरे अन्यदप्युक्तम्। “असिते सर्पिणी ज्ञेया सिते विष्टिस्तु वृश्चिकी। सर्पिण्यास्तु मुखं त्याज्यं वृश्चिक्याः पुच्छमेव च”। अथ परिहारमाह तथेति विष्टिस्तिथ्यपरार्द्धजा तिय्युत्तरार्द्धे संभूता वासरे दिवसे यदि स्याद् भद्रा तदा शुभकरी तेनैव प्रकारेण तिथिपूर्वार्द्धजा भद्रा रात्रौ चेत् स्यात् तदा शुभा शुभकरो स्यात्। उक्तञ्च “रात्रिभद्रा यदाह्नि स्याद् दिवा भद्रा यदा निशि। न तत्र भद्रादोषः स्यात् सा भद्रा भद्रदायिनी” इति। रात्रिभद्रा तिथ्य त्तरार्द्धोद्भवा दिवाभद्रा तिथिपूर्वार्द्धोद्भवा अमुमर्थं स्पष्टमाह गुरुः। “निशि पूर्वार्द्धजा विष्टिर्दिवा चापरतः शुभा। क्रमागता तु या विष्टिः सैव हालाहलोपमा” इति। लल्लीऽपि “दिवा परार्द्धजा विष्टिः पूर्वार्द्धोत्या यदा निशि। तदा विष्टिः शुभायेति कमलासनभाषितम्”। ब्रह्मसिद्धान्तेऽपि “दिवा परार्द्धजा विष्टिर्विष्टिरेव दिवानिशोः। सा त्याज्या त्वन्यथा विष्टिः सर्वकर्मशुभप्रदा”। मनु यत् तु नारदकश्यपादिभिरुक्तम्। “करणानि षबादीनि शुभसंज्ञानि षट्क्रमात्। क्रमायाता क्रमायाता विष्टिर्नेष्टा तु मङ्गले”। अत्र क्रमायाता दिवारात्रिक्रमायाता दिवाभद्रा रात्रौ रात्रिभद्रा च दिवेत्यर्थः। एवं सति द्विविधाया अपि भद्रायादोषवत्त्वोक्तेः पूर्वोक्तपरिहाराभिधानमयुक्तम् उच्यते इदमेव क्रमायातेति वचनं ज्ञापकमुक्तार्थस्य अन्यथा सामान्यतो भद्राद्वये इत्युक्ते द्विविधभद्राया दोषवत्त्वसिद्धेरनर्थकमिदं स्यात्तस्माच्छुमकार्य्याणां भद्रारूपदुष्टदिनप्यतिरिक्तकालप्रतीक्षाऽयोग्यत्वे तदैव कार्य्यं न दुष्टदिने अयधेनोपपत्तौ बाधो न न्याथ्य इति न्यायात् वचनस्य निषेध एव तात्पर्य्याच्च। षवश्यकर्त्तव्यस्य तु शुभकर्मणः कालान्तरप्रतीक्षामसहमानस्यैवमादिपरिहारमाश्रित्य दुष्टदिने कृतिरुचितैव विष्टिरङ्गारकश्चैवेत्यपि परिहार एतत्पर एवेत्यलं पल्लवितेन। अथ भद्रानिवासं तत्फलञ्चानुष्टुभाह (३)। कुम्भेति अब्जे चन्द्रमसि कुम्भद्वये कुम्भमीनस्थे कर्कद्वये कर्कसिंहराशिस्थिते सति भद्रा मर्त्ये मनुव्यलोके तिष्ठति। अथाजात्त्रये मेषवृषमिथुनस्थितेऽलिगे वृश्चिकस्थिते चन्द्रे स्वर्गे भद्रा तिष्ठति। कन्याधनुस्तुलामकरराशिस्थितेऽधः पाताललीके भद्रा तिष्ठति। अथ भद्रा तत्रैव मर्त्य स्वर्गपातालेषु फलं ददातीत्यपवादद्वारा प्रयोजनमुक्तं भवति। उक्तञ्च “मेषोक्षकौर्पमिथुने घटसिंहमीनकर्कषु चापमगतौलिसुतासु चन्द्रे। स्वर्मर्त्यनागनगरीः क्रमशः प्रयाति विष्टिः फलान्यपि ददाति हि तत्र देशे” इति। भूपालवल्लभे “कन्थातुलामकरधन्विषु नागलोके मेषालिवैणिक ऋषषु सुरालये स्यात्। पाठीनसिंहघटकर्कटकेषु मर्त्ये चन्द्रे वदन्ति मुनयस्त्रिविधां हिविष्टिम्” (४) बी० धा० भद्रशब्दात् परिवापणे (मुण्डने)ऽर्थे गम्ये डाच्। कृञोऽनुप्रयोगः सक्षादा० स०। भद्राकरोति माङ्गल्यं मुण्डनेन सस्करोतीत्यर्थः सि० कौ०। एवं मद्रशब्देऽपि बोध्यम्।

भद्रक = त्रि० भद्र–स्वार्थे संज्ञायां वा कन्। १ मनोहरे त्रिका०। २ भद्रमुस्तके न० शब्दमाला। ३ देवदारुवृक्षे शब्दर०। “भ्रौ नरनारनावथ गुरुर्दिगर्कविरसं हि भद्रकमिदम्”। वृ० र० उक्ते द्वाविंशत्यक्षरपादके ४ छन्दोभेदे।

भद्रकण्ट = पु० भद्रः कण्टोऽस्य। गोक्षुरक्षुपे राजनि०।

भद्रकर्ण = पु० भद्रस्य वृषस्य कर्णो यत्र। गीकर्णरूपे तीर्थभेदे।

भद्रकर्णेश्वर = पु० ६ त०। गोकर्णस्थे शिवलिङ्गभेदे भा० व०८१ अ०।

भद्रकार = त्रि० भद्रं करीति कृ–अण् उप० स०। १ मङ्गलकारके २ देशभेदे पु० भा० स० १३ अ०।

भद्रकाय = पु०। १ नाग्नजित्यां जाते श्रीकृष्णस्य–पुत्रभेदे हरिवं० १६२ अ०। ६ ब०। २ मङ्गलदेहके त्रि०।

भद्रकाली = स्त्री १ दुर्गाशक्तिभेदे “जयन्ती मङ्गला काली भद्रकाली कपालिनी” दुर्गापूजामन्त्रः। तदाविर्भावकथा च कलिपु० ५० अ० दृश्या। तन्मन्त्रादिकं तन्त्रसारे दृश्यम्। २ कुमारानुचरभेदे भा० श० ४७ अ०।

भद्रकाशी = स्त्री भद्राय काशते काश–अच् गौरा० ङीष्। भद्रमुस्तायाम् राजनि०।

भद्रकाष्ठ = न० ६ ब०। देवदारुवृक्षे सुश्रुतः।

भद्रकुम्भ = पु० भद्रकारकः कुम्भः शा० त०। पूर्णकुम्भे जलपूर्णघटे अमरः।

भद्रगन्धिका = पु० भद्रो गन्धोऽस्त्यस्या बाहुल्येन ठन्। मुस्तके रत्नमाला।

भद्रगौर = पु० देशभेदे स च पूर्वदिग्वर्त्ती मार्क० ५८ अ०।

भद्रङ्कर = त्रि० भद्रं करोति कृ–स्वच् मुम्। मङ्गलकारके।

भद्रङ्करण = न० भद्रं क्रियतेऽनेन कृ–ख्युन् मुम्। मङ्गलसाधने।

भद्रचारु = पु० रुक्मिण्यां जाते वासुदेवस्य पुत्रभेदे हरिवं ११८ अ०

भद्रचूड = पु० भद्रा च्रडा थस्य। (लङ्कासिज) वृक्षभेदे शब्दच०।

भद्रज = पु० भद्राय जायते जन–ड्ग। इन्द्रयवे राजनि०।

भद्रतरुणी = स्त्री भद्रः तरुणीव। कुब्जकवृक्षे राजनि०।

भद्रतुङ्ग = पु० तीर्थभेदे भा० व० ८२ अ०।

भद्रतुरग = न० भद्रास्तुरगा यत्र। जम्बुद्वीपस्य नववर्षमध्ये वषभेदे। “माल्यवज्जलधिमध्यवर्त्तियत्तत्त भद्रतुरग जगुबुधाः” सि० शि० जम्बुद्वीपशब्दे भद्राश्वशब्दे च विवरणं दृश्यम्।

भद्रदान्तका = स्त्री कर्म० स्वार्थे कन्। दन्तीवृक्षभेदे।

भद्रदारु = पुंन०। कर्स०। देवदारुवृक्षभेदे अमरः।

भद्रद्वीप = पु० कुरुवर्षान्तर्गते उपद्वीपभेदे मार्कपु० ५९ अ०।

भद्रनामन् = पु० ६ ब०। (काटठाकरा) खगभेदे त्रिका०।

भद्रनामिका = स्त्री भद्र मङ्गलं नामयति पापयति नम– णिच्–ण्वुल्। त्रायन्तीलतायां रत्नमा०।

भद्रनिधि = पु० दानार्थकल्पिते ताम्रादिघटितघटे तद्दानविधिश्च हेमा० दा० वामनपु० उक्तो यथा “पुण्यान्तिथिं प्राप्य तु पौर्णमास्यां तथोपरागे शशिसूर्य्ययोर्वा। चतुर्युगादिष्वयनद्वये वा प्रबोधने प्रस्वपनेऽथ तिष्णोः। कुर्य्यादथौदुम्बरमेव कुम्भं हिरण्यभारेण यथात्मशक्त्या। तथाविधानञ्च सुराजतं स्याद्धिरण्यभारेण तु पूरयेत् तम्। तदर्द्धतोऽर्द्धेन तदर्द्धती वा स्वशक्तितः स्वर्णपलैः शतेन। तदर्द्धमर्द्धेन तु वित्तशक्त्या पलत्रयादूर्द्धमपि प्रकुर्य्यात्। तत्ताम्रभाण्डे कनकं निधाय सवज्रनीलोत्पलपद्मरागम्। समुक्तवैद्रूर्य्यसविद्रुमञ्च तद्राजतं पात्रमधोमुखं स्यात्। एवन्तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोपयुक्ते। कुशोत्तरे दर्पणचामराणे सपादुकोपानहछत्रयुक्तम्। सत्क्षौमवस्त्रोत्तमयुग्मयुक्तं संपूजयेन्मन्त्रवरैरथैतैः” “आदौ तु पञ्चामृतकेन विष्णुं संस्नाप्य संसारहरं समर्च्य। तथेश्वरं पावकमेव हुत्वा आमन्त्रयेद्भद्रनिधिं ततस्तम्। श्रीखण्डकर्पूरसकुङ्मुमेन पञ्चाक्षरं नाम श्रियः प्रलिख्य। नमस्तथोङ्कारयुतं च पात्रे तद्राजतेऽप्येवमथार्चयेत। त्वया समस्तामरसिद्धयक्षविद्याधरेन्द्रोरगकिंनरेन्द्रैः। गन्धर्वविद्याधरदानवेन्द्रैर्युतं धृतं विश्वमिदं नमस्ते। समस्तससारकरी त्वमेव विभोः सदानन्दमयी च माया। समस्तकल्याणनिधिः समाधिः। हरिप्रिये! भद्रनिधिर्नमस्ते। एवं पूज्य विधानेन ततो विप्रमथार्चयेत्। किरीटाङ्गदनिष्काग्र्यकुण्डलाङ्गुलिभूषणैः। अलङ्कृत्य हरिं तद्वत् पीताम्बरधरं ततः। पूजयेदच्युतं ध्यात्वा मन्त्रेणानेन भक्तिमान्। भूदेवोऽसीत्यतो नित्यं नित्यानन्दमयो हरे!। हर मे दुष्कृतं कृष्ण! कृपाकर! नमस्त ते। भूदेव! भगवद्धर्म! भवभङ्गकरेश्वर!। भवभूतिकरोजिष्णो! प्रमविष्णुर्नमोऽस्तु ते। एवं पूज्य हृदि ध्यात्वा तं द्विजं विष्णु–रूपिणम्। ततो भद्रनिधिं दद्यान्मन्त्रेणानेन मानवः। स्वगोत्रोच्चारणेनादौ वपुर्नाम तथात्मनः। यवदर्भतिलै सार्द्धमुदकं संपरित्यजेत्। पितृसन्तारणार्थाय नित्यानन्दविवृद्धये। सर्वाघौघविनाशाय विष्णो- र्दानं मया कृतम्। तदनेन सरत्नेन धातुत्रययुतेन प। सक्षौमाम्बरयुक्तेन सादर्शपादुकेन च। आसनेन सच्छत्रेण चामरोपानहेन च। सदानन्दविधानेन प्रीयतां विष्णुरीश्वरः। एवमुच्चार्य्य तन्दद्याद् द्विजाय हरिरूपिणे। गोप्येन विधिना दद्याद्धेमसंख्यां न कीर्त्तयेत्। अकीर्त्तिते कोटिगुणायुतं फलं प्रगोपिते कल्पगुणैर्न संशयः। इतीदमन्यस्य न कीर्त्तयेत् सुधीः निधानमध्ये निहितञ्च यद्वसु। एवंकृते स्यान्मनुजः कृतात्मा तपेन्नवा स्यान्मरणं कदाचित्। प्रयाति विष्णोः पदमव्ययं तत् शिवात्मकानन्दमयं स्वसंस्थम्”।

भद्रपदा = स्त्री ब० व० भद्रस्य वृषस्येव पदं यासाम्। पूर्वोत्तरमाद्रपदासु रायमु०। तत्र जातः अण् उत्तरपदवृद्धिः। भद्रपाद तज्जाते त्रि०।

भद्रपर्णा = स्त्री भद्रं पर्णमस्याः अजादि० टाप्। १ कटम्भरावृक्षे शब्दसाला। २ प्रसारिण्याम् अमरः। ३ गाम्भार्य्याञ्च जटाध०। ङीप्।

भद्रपीठ = पुंन० भद्रार्थं पीठः। नृपदेवादीनामभिषेकार्थे पीठभेदे भद्रासनशब्दे वृश्यम्।

भद्रबलन = पु० भद्रं बलनं बलमस्य। बलरामे शब्दमा०।

भद्रब(व)ला = स्त्री भद्राय बलति चलति ब(व)ल–अच्। (गन्धभादाल) १ लताभेदे २ गन्धिकायां, ३ माधवीलतायाञ्च अमरः। बलायां राजनि०।

भद्रभीमा = स्त्री कश्यपपत्न्यां दक्षसुतायां क्रोधायां जाते कन्याभेदे भा० आ० ६६ अ०

भद्रमल्लिका = स्त्री कर्म०। मल्लिकाभेदे नवमल्लिकायाम् शब्दमाला।

भद्रमुख = त्रि० भद्रं मुखं तद्व्यापारोऽस्य कप। सुवक्तरि “ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः” मार्कपु० १५ अ०।

भद्रमुञ्ज = पु० कर्म०। शरभेदे भावप्र०।

भद्रमुस्तक = पु० कर्म०। नागरमुस्तके। अमरः।

भद्रमुस्ता = स्त्री कर्म०। भद्रमुस्तके “भद्रमुस्ता च गृन्द्रा च तथा नागरमुस्तकः। मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम्। कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत्। अनूपदेशे यज्जातं मुस्तकं तत् प्रशस्यते। तत्रापि मुनिमिः प्रोक्तं घरं नागरमुस्तकम्” भावप्र०।

भद्रयव = पु० भद्रो यव इव। इन्द्रयवे अमरः।

भद्ररथ = पु० कक्षेयुवंश्ये हर्य्यङ्गनृपस्य पुत्रे हरिवं० ३१ अ०।

भद्ररेणु = ६ व०। ऐरावते गजे त्रिका०।

भद्ररोहिणी = स्त्री भद्रार्थं रोहति रुह–णिनि ङीप्। कटुरोहिण्यां (कट्की) सुश्रुतः तस्याः भद्रदायकत्वात् तथात्वम्। दार्वी त्वक् पिप्पली शुण्ठी लाक्षाशक्रयवैर्घृतम्। संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम्”।

भद्रवट = पु० ७ त०। १ आश्रमभेदे भा० व० २३० अ०। २ तीर्थभेदे च।

भद्रवत् = न० भद्र + मतुप् मस्य वः। देवदारुवृक्षे राजनि०।

भद्रवती = स्त्री भद्राणि पर्णानि सन्त्यस्या मतुप् मस्य वः ङीप्। १ गाम्भार्य्याम्। नाग्नजितीजातायां भरतकन्यायां स्त्री हरिवं० १६१ अ०।

भद्रवर्मन् = पु० भद्रं वृणाति वृ–मनिन्। नवमल्लिकायाम् शब्दच०

भद्रवल्लिका = स्त्री नित्यक०। संज्ञायां कन् ह्रस्वः अत इत्त्वम् कर्म०। (अनन्तमूलख्याते) लताभेदे रत्नमा०।

भद्रवल्ली = स्त्री नित्यक०। (अनन्तमूल) गोपवल्ल्याम् राजनि०।

भद्रविराज् = “ओजे तपरौ जरौ गुरुश्चेन् म्सौ ज्गौ भदूविराड् भवेदनोज” वृ० उक्ते अर्द्धसमे वृत्तभेदे।

भद्रशर्मन् = पु० भद्रं शर्म मुख यस्य। पुत्राद्यानन्दयुते। ततो वाह्वा० अपत्ये इञ् भाद्रशर्मि तदपत्ये पुंस्त्री।

भद्रशाख = पु० भद्राः शाखाः सहायाः यस्य। कार्त्तिकेये भा० व० २२७ अ०

भद्रश्रय = न० भद्राय श्रीयते श्री–कर्मणि अच्। चन्दनवृक्षे रत्न०

भद्रश्रवस् = पु० षर्सस्य पुत्रभेदे भास० ५। १८। १।

भद्रश्रौ = पु० भद्रा श्रीर्यस्य। चन्दनवृक्षे अमरः।

भद्रश्रेण्य = पु० दिवोदासात् पूर्वं वाराणस्यधीशे नृपभेदे हरिवं० २९ अ०।

भद्रसरस् = न० नित्यक०। सुपार्श्वाचलस्थे सुरोभेदे धान्याचलशब्दे दृश्यम्।

भद्रसालवन = न० ६ त०। भद्राश्ववर्षस्थे वनभेदे भा० भी० ७ अ०।

भद्रसेन = पु० देवक्यां जाते वसुदेबस्य १ पुत्रभेदे भाग०९। २४। २५ २ कुन्तिनृपपुत्रभेदे च भाग० ९। २३।

भद्रसोमा = स्त्री भद्रः सोम इव द्रवोऽस्याः। १ गङ्गायां शब्दमा० २ कुरुवर्षस्थे नदीभेदे मार्कपु० ५९ अ०।

भद्रा = स्त्री भद्राश्ववर्षस्थे १ नदीभेदे २ बिष्टिभद्रादौ भद्रशब्दे दृश्यम्।

भद्राकरण = न० भद्र + डाच् कृ–ल्युट् साक्षदा० स०। मुण्डने हे म०

भद्राङ्ग = पु० भद्रमङ्गमस्य। बलरामे हेमच०।

भद्रात्मज = पु० खड्गे त्रिका०।

भद्रारक = पु० अष्टादशद्वीपान्तर्गते द्वीपभेदे शब्दमाला।

भद्रालपत्रिका = स्त्री भद्रायालति पर्य्याप्नोति अन–अच तादृशं पत्रं यस्याः कप् अत इत्त्वम्। गन्धाल्याम् (गान्धाल) शब्दमा०।

भद्राली = स्त्री भद्रायालति पर्य्याप्नोति अच् गौरा० ङीष्। १ गन्धाल्याम् (गान्धाल) शब्दमा०। ६ त०। २ मङ्गलश्रेणौ च।

भद्रावती = स्त्री भद्र–अस्त्यर्थे मतुप् मस्य वः संज्ञायां पूर्वपददीर्घः। कट्फलवृक्षेराजनि०।

भद्राश्रय = पु० ६ त०। चन्दनवृक्षे।

भद्राश्व = न० भद्रा अश्वा यत्र। १ जम्बुद्वीपस्य नववर्षान्तर्गते वर्षभेदे। २ तद्वर्षस्थे जनपदे पु० ब० व०। तद्वर्षविवरणञ्च “माल्यवतः पूर्बपार्श्वे पूर्वगण्डिका एकशृङ्गाद् योजनसहस्राणि मानन्तत्र च भद्राश्वा नाम जनपदाः भद्रसालवनञ्च तत्र व्यवस्थितं, कालाभ्रवृक्षाः, पुरुषाः श्वेताः, पद्मवर्णिनः, स्त्रियः कुमुदवर्णाः दशवर्षसहस्राणि च तेषामायुस्तत्र च पञ्च कुलपर्वताः तद्यथा शैलवर्णः मालाख्यकीऽवरजस्वः त्रिपर्णो नीलश्चेति तद्विनिर्गता नद्यस्तदन्तःस्थितानां देशानां तान्येव नामानि ते च देशाः एताः नदीः पिवन्ति तद्यथा सीता सुवाहिनी हंसवती कावेरी सुरसा शाखावती इन्द्रनदी अङ्गारवाहिनी हरितोया सोमावर्त्ता शतह्रदा यमाला वसुमती हंसापर्णा पञ्चगङ्गा धनुष्मती मणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोया पुण्योदा नागवती शिवा शैवालिनी मणितटा क्षीरोदा वरुणावती विष्णुपदी महानदी हिरण्यस्कन्धवाहा सुरावती वामोदा पताका चेत्येता महानद्यः एताश्च गङ्गासमाः कीर्त्तिताः आजन्मान्तं पापं विनाशयन्ति क्षुद्रनद्यश्च कोटिशस्ताश्च नदीर्ये पिवन्ति ते दशवर्षसहस्रायुषः रुद्रोमाभक्ता इति वराहपु० गद्यम्। अधिकं जम्बुद्वीपशब्दे ३०४५ पृ० दृश्यम्।

भद्रासन = न० भद्राय लोकक्षेमायास्यतेऽत्र आस–आधारे ल्युट्। नृपासने असरः। तल्लक्षखादि वृ० स० ४८ अ० उक्तं यथा “आदावनडुहश्चर्म जरया संहृतायुषः। प्रशस्तलक्षणभृतः प्राचीनग्रीवमास्तरेत्। ततो वृषस्य योधस्य चर्म रोहितमक्षतम्। सिंहस्याथ ततीयं स्याद्व्याघ्रस्य च ततः परम्। चत्वार्य्येतानि चर्माणि तस्यां वेद्यामुपास्तरेत्। शुभे मुहूर्त्ते संप्राप्ते पुष्ययुक्ते निशाकरे। भद्रासनमेकतमेन कारितं रुक्मरजतताम्राणाम्। क्षीरतरुनिर्मितं वा विन्यस्तं चर्मणामुपरि। त्रिविधस्तस्योच्छ्रायो हस्तः पादाधिकोऽर्द्धयुक्तश्च। माण्डलिका नन्तरजित् समस्तराज्यार्थिनां शुभदः। अन्तर्धाय हिरण्यं तत्रोपविशेन्नरेश्वरः सुमनाः”।

भद्रिका = स्त्री भद्रा + स्वार्थे क। १ पक्षयोः द्वितीयासप्तमीद्वादशीषु तिथिषु। २ योगिनीदर्शान्तर्गतायां पञ्चम्यां दशायाम् “मङ्गला। मङ्गला धान्या भ्रामरी भद्रिका तथा” दशाशब्दे दृश्यम्। “भद्रिका भवति रो नरौ” वृ० र० उक्ते नवाक्षरपादके ३ छन्दोभेदे “ननरलगुरुभिश्च भद्रिका” वृ० र० उक्ते ४ एकादशाक्षरपादके छन्दोभेदे च।

भद्रेश्वर = पु० १ शिवलिङ्गभेदे। २ कल्पग्रामस्य शिवलिङ्गभेदे च वामनपु० ४६ अ०।

भद्रैला = स्त्री स्थूलैलायाम् राजनि०।

भद्रोदनी = स्त्री भद्रमुदनित्यनया उद् + अन–बा० घञर्थे क गौरा० ङीष्। बलायां राजनि०।

भन = अर्चने भ्वा० प० सक० सेट् निघण्टुः। भनति अभा(भ)नीत बभान।

भन्द = अर्चने दीप्तौ च भ्वा० आ० सक० सेट् निघण्टुः। भन्दते अभन्दिष्ट वभदे वभन्दे। कर्मणि भद्यते।

भन्दिल = त्रि० भदि–इलच्। १ शुभे २ कम्पे ३ दूते च संक्षिप्तसा०

भन्द्रुक = पु० वक्रेश्वरसमीपस्थे देशभेदे स्कन्दपु०।

भपञ्जर = न० भानां पञ्जरमिव। नक्षत्रचक्रे सि० शि०।

भपति = पु० ६ त०। १ नक्षत्रेशे चन्द्रे हेमच० भनाथादयोऽ प्यत्र। २ राशीश्वरे मङ्गलादौ च।

भमण्डल = न० ६ त०। राशिचक्रे सू० सि०।

भम्भ = पु० भमित्यव्यक्तशब्देन भाति भा–क। मक्षिकाभेदे दंशे हारा०। २ तत्तुल्यगतिके धूमे हेमच०।

भम्भराली = स्त्री भमित्यव्यक्तशब्दस्य भरमालाति गृह्णाति आ + ला–क गौ० ङीष्। (डा~श) मक्षिकायाम्। स्वार्थे क अत इत्त्वम्। भम्भबालिका तत्रैवार्थे त्रिका०।

भम्भासार = पु० मगधदेशनृपभेदे हेमच०।

भय = न० विभेत्यस्मात् भी–अपादाने अच्। १ भयहेतौ। भावेऽच्। २ दैन्यात्मके परतः स्वानिष्टसम्भावनारूपे वा चित्तवृत्तिभेदे ३ नाटकप्रसिद्धे भयस्थायिभावके रसभेदे च। भयञ्च “रौद्रशक्त्या तु जनितं चित्तवैकल्यजं भयम्” सा० द० लक्षितम्। भयानकशब्दे दृश्यम्। ४ निरृतिपुत्रभेदे पु० भा० आ० ६६ अ०।

भयकर = त्रि० भयं करोति कृ–अच् ६ त०। भयकारके भा० क० १५५२ श्लो०।

भयकृत् = त्रि० भयं करोति कृ–क्विप्। १ भयकारके भयं कृन्तति कृत–छेदने क्विप्। २ परमेश्वरे। “भयकृद् भयनाशनः विष्णुस०।

भयङ्कर = पु० भयं करोति कृ–खच् मुम् च। १ मयजनके २ रसभेदे ३ डुण्डुलविहगे च पुंस्त्री० स्त्रियां ङीष्। भा० व० ३५ अ० उदा० ४ विश्वदेवगणभेदे पु० भा० अनु० ९१ अ०। ५ कुमारानुचरमातृभेदे स्त्री ङीप् भा० श० ४७ अ०।

भयडिण्डिम = पु० भयजनको डिण्डिमः। रणवाद्ये

भयद्रुत = त्रि० भयेन द्रुतः ३ त०। मयेन पलायिते अमरः।

भयनाशन = त्रि० भयं नाशयति नाश–ल्यु। १ भयनिवारके २ विष्णौ पु० “भयकृत् भयनाशनः” विष्णुस०।

भयनाशिनी = स्त्री भय रोगभयं नाशयति नश–णिच्णिनि। त्रायमाणालतायाम् राजनि०।

भयब्राह्मण = पु० भयेन ब्राह्मणः सम्पद्यते। भीत्या विप्रत्वेनात्मनः ख्यापके।

भयभ्रष्ट = त्रि० ६ त०। भयेन पलायिते जटाधरः।

भयव्यूह = पु० भये सति व्यूहः। पार्श्वादितो भयभेदेन राज्ञा कर्त्तव्ये व्यूहभेदे भयभेदेन तत्प्रकारः काम० नी० उक्तो यथा “यायाद्व्यूहेन महता मकरेण पुरोभये। श्येनेनीभयपक्षेण सूच्या वाधीरचक्रया। पश्चाद् भये तु शकटं पार्श्वयोर्वज्रसञ्ज्ञितम्। सर्वतः सर्वतो भद्रं भयव्यूहं प्रकल्पयेत्”।

भयानक = पु० बिभेत्यस्मात् भी–आनक। १ व्याघ्रे २ राहौ ३ रसभद च मेदि०। ४ मयङ्करे त्रि०। ५ भीतेः अपादाने अमरः। तद्रसलक्षणादि सा० द० उक्तं यथा “भयानको भयस्थायिभावः कालाधिदैवतः। स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः। यस्माद् उत्पद्यते भीतिस्तदत्रालम्बनं मतम्। चेष्टा घोरतरास्तस्य भवेद्दीपनं पुनः। अनुभावोऽत्र वैवर्ण्यं गद्गदस्वरभाषणम्। प्रलयस्त्रेदरोमाञ्चकम्पदिक्प्रेक्षणादयः। जुगुप्सावेग मोहसंत्रासग्लानिदीनताः। शङ्कापस्मारसंभ्रान्तिमृत्य्वाद्या व्यभिचारिणः”।

भयापह = त्रि० भयमपहन्ति अप + हन–ड। १ मयनाशके २ नृपे पु० त्रिका० ३ विष्णौ पु० “जितमन्युर्भयापहः” विष्णुस०

भयावह = त्रि० भयमावहति आ + वह–अच् ६ त०। भयकारके हेमच०।

भय्य = न० भी–भावे यत् वेदे नि०। भये पञ्चभी० १०५६। लीके तु भेयमित्येव।

***