—भ—

भकारः पवर्गीयश्चतुर्थोवर्णो व्यञ्जनवर्णभेदः। तस्योच्चारणस्थानमौष्ठौ। अस्योच्चारणे आभ्यन्तरप्रयत्नः ओष्ठाभ्यां सह जिह्वाग्रस्य स्पर्शः अतस्तस्य स्पर्शवर्णता। बाह्यप्रयत्नाश्च संवारनादघोषाः महाप्राणश्च। तस्य ध्येयरूपं यथा “भकारं शृणु चार्वङ्गि! स्वयंपरमकुण्डली। महामोक्षप्रदं वर्णं तरुणादित्यसंप्रभम्। पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा” कामधेनुतन्त्रम्। अस्य अधिष्ठातृदेवताध्यानं यथा “तडित्प्रभां महादेवीं नागकङ्कणशोभिताम्। षड्भुजां वरदां भीमां रक्तपङ्कजलोचनाम्। रक्तवस्त्रपरीधानां रक्तपुष्पोपशोभिताम्। चतु- र्वर्गप्रदां देवीं साधकाभीष्टसिद्धिदाम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्”। अस्य वाचकशब्दाः यथा “भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशाभवम्। द्विरण्डो भूषणोमूलं यज्ञसूत्रप्रवाचकः। नक्षत्रं भ्रमणा दीप्रिर्वयोभूमिः पयो नभः। नाभिर्भदं महाबाहुर्विश्वमूर्त्तिर्विताण्डवः। प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका। भीमसेनः सुधासेनः सुखी मयापुरं हरः”। वर्णाभिधानम्। मातृकान्यासेऽस्य नाभौ न्यास्यता काव्यादावस्य प्रयोगे “सुखभयमरणक्लेशदुःखं पवर्गः” वृ० टी० उक्तेः क्लेशः फलम्।

= न० भाति भा–क। १ नक्षत्रे अमरः। २ ग्रहे शब्दरत्ना०। ३ राशौ ज्यो० त०। ४ शुक्राचार्य्ये पु० मेदि०। तेषां दीप्तिमत्त्वात् तथात्त्वम्। ५ भूधरे एकाक्षरकोषः। ६ भ्रान्तौ पु० शब्दरत्ना०। वृ० र० उक्ते ७ आदिगुरुके अन्त्यलघुद्वये वर्णत्रये। तस्य काव्यादौ प्रयोगे फलं यशः देवताचन्द्रः यथोक्तं वृ० र० टीकायाम् “भश्चन्द्रो यशः उज्ज्वलम्”।

भंसस् = पु० भसत् कटिदेशः पृषो०। उपचारात् तत्सम्बन्धिनि पायौ ऋ० १०। १६३।

भकार = पु० भ + स्वरूपे कार। भस्वरूपे वर्णे।

भकक्षा = स्त्री ६ त०। नक्षत्रकक्षायाम्। “भवेत् भकक्षा तिग्मांशोर्भ्रमणं षष्टिताडितम्। सर्वोपरिष्टाद्भ्रमति योजनैस्तैर्भूमण्डलम्” सू० सि०। “सूर्य्यस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम्” “खखार्थैकसुरार्णवाः” ४३२ १२०० इति वक्ष्यमाणं षष्ट्यागुणितं सत् नक्षत्राणां कक्षा नक्षत्राधिष्ठितगोलस्य मध्यवृत्तं स्यात्। तैर्नक्षत्रकक्षामितैर्योजनैर्भमण्डलं नक्षत्राधिष्ठितगोलमध्यवृत्तं सर्वोपरिष्टाच्चन्द्रादिसप्तग्रहेभ्य उपरि दूरं भ्रमति भूगोलादभितः परिभ्रमति” रङ्गना०।

भकूट = न० ६ त०। विवाहे दम्पत्योः शुभाशुभसूचके राशिसमूहे तस्य शुभाशुभत्वं च उपयमशब्दे १२५१ पृ० दृश्यम्। खेटारित्वं नाशयेत् सत् भकूटम्”। “प्रोक्ते दुष्टभकूटके परिणयः” मुहू० तत्रैव दृश्या।

भक्किका = स्त्री फडिङ्गा + पृषो०। (फडिङ) ख्याते कीटभेदे शब्दार्थकल्पतरुः।

भक्त = पुंन० भज–क्त। १ अन्ने ओदने अमरः। २ भक्तियुक्ते ३ तदात्मके ततपरे ४ विभक्ते कृतभागे च त्रि० “भक्तो हरः शुध्यति यद्गुणः स्यात्” लीला। अन्नपाकप्रकारस्तद्गुणश्च मावप्र० उक्तो यथा “सुधोतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेद्। तद्भक्तं प्रशृतञ्चोष्णं विशदं गुणवन्मतम्। भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लथु। अधौतमशृतं शीतं गुर्वरुच्यं कफप्रदम्”। भक्तियुक्तलक्षणादिकं तद्भेदश्च मुक्ताफले उक्तं यथा “सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यैरिह” “ते भक्ताः इति लक्षणं स च नबधाहासादिनवविधरसास्वादमूलकत्वेन नवविधत्वात्”। रसभेदे भक्तविशेषाः मुक्ताफले दर्शिताः यथा “तस्य तत् खेलनं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः। व्रोडिताः प्रेक्ष्य चान्योऽन्यं जातहासा न निर्ययुः” भाग० १०। १२ अ० तथाच हासे गोप्य सम्भोगशृङ्गारे गोप्यादयस्तत्र दर्शिताः। विप्रलम्भशृङ्गारेऽपि गोप्य स्तत्र दर्शिताः। “अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः। इत्यादितद्भावनायुक्ता दध्युर्मीलितलोचनाः। दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः। ध्यानप्राप्ताच्युताश्लेषनिर्वृत्त्या क्षीणमङ्गलाः। तमेव यरमात्मान जारबुद्ध्याऽपि सङ्गताः। जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः। अन्यानि रासपञ्चाध्यायीवाक्यानि तत्रोदाहृतानि दृश्यानि। करुणरमेऽर्जुनादयः। बाक्यानि तत्र दृश्यानि। रौद्ररसे हिरण्यकशिपुशिशुपालादयः। भायानकरसे कंसादयः। वीभत्सरसे पुरूरवाः पिङ्गलादयश्च। शान्तरसे नारदादयः। अद्भुतरसे श्रीदामब्रह्मादयः। वीररसे बलिप्रभृतयः। तत्र दानवीरे बलिः धर्मवीरसे कविप्रभृतयः। युद्धवीरे शिशुपालादयः। एतेषां मूलवाक्यानि तत्र दृश्यानि। अधिकं भक्तिशब्दे दृश्यम् “भक्तानां लक्षणं लक्ष्मि! गूढं श्रुतिपुराणयोः। पुण्यस्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम्। सारमूतं गोपनीयं न वक्तव्यं खलेषु च। गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशत्यलम्। वेदवेदाङ्गवेदान्तास्तं पवित्रं वदन्ति हि। पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः। स्वर्गस्थं नरकस्थ वा मुक्तिमाप्नोति तत्क्षणात्। यैः कैश्चिद् यत्र वा जन्म लब्धं येषु च जन्तुषु च। जीवन्मुक्तास्ते च पूता यान्ति काले हरेः पदम्। मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणाश्रितः। मद्गुणश्लाघनीयश्च सन्निविष्टश्च सन्ततम्। सगद्गदः साश्रुनेत्रः स्वात्मविश्रुत एव च। न वाञ्छति सुखं मुक्ति सालोक्यादिचतुष्टयम्। ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने। इन्द्रत्वञ्च मनुत्वञ्च देवत्वञ्च सुदुर्लभम्। स्वर्गराज्यादिभोगांञ्च स्वप्ने च न हि वाञ्छ्रात। ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा। कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति। भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम्। तेऽपि यान्ति महीं पूत्वा परं तीर्थं ममालयम्” ब्रह्मवै० प्र० ५ अ०। “रति कृष्णकथायाञ्च यस्याश्रु पुलकोद्गमः। मनो निमग्नं यस्यैव स मक्तः कथितो बुधैः। पुत्रदारादिकं सर्वं जानाति श्रीहरेरपि। आत्मना मनसा वाचा स भक्तः कथितो बुधैः। दयास्ति सर्वभूतेषु सर्वं कृष्णमयं जगत्। यो जानाति महाज्ञानी स भक्तो वैष्णवीत्तमः” ब्रह्मवै० जन्म० १ अ०। त्रिविधभक्तलक्षणं यथा “भक्तानां त्रिविधानाञ्च लक्षणं श्रूयतामिति। तृणशय्यारतो भक्तो मन्नाम गुणकीर्त्तिषु। मनोनिवेशयेत् त्यक्त्वा संसारसुखकारणम्। दास्यं विना नहीच्छेत्तु सालोक्यादिचतुष्टयम्। नैव निर्वाणमुक्तिञ्च सुधापानमभोप्सितम्। ध्यायते मत्पदाब्जञ्च पूजयेद्भक्तिभावतः। श्रीहेतुकास्तस्य देवा सङ्कल्परहितस्य च। सर्वसिद्धिं न वाञ्छन्ति तेऽणिमादिकमीपसीतम्। ब्रह्मत्वममरत्वञ्च सुरत्वं सुखकारणम्। वञ्छन्ति निश्चलां भक्तिं मदीयामतुलामपि। स्त्रीपुंविभेदो नास्त्येव सर्वजीवेषु भिन्नता। तेषां सिद्धेश्वराणाञ्च पवराणां ब्रजेश्वर!। क्षुत्पिपासादिकां निद्रां लोभमोहादिकं रिपुम्। त्यक्त्वा दिवानिशं माञ्च ध्यायते च दिगम्बरः। स मद्भक्तोत्तमोनन्द! श्रूयतां मध्यमादिकम्। नासक्तः कर्मसु गृहो पूर्वप्राक्तनतः शुचिः। करोति सततञ्चैव पूर्वकर्मनिकृन्तनम्। न करोत्यपरं यत्नात् सङ्कल्परहितश्च सः। सर्वं कृष्णस्य यत्किञ्चिन्नाह कर्त्ता च कर्मणः। कर्मणा मनसा वाचा सततं चिन्तयेदिति। न्यूनभक्तश्च तन्न्यूनः स च प्राकृतिकः स्मृतः। यमं वा यमदूतं वा स्वप्नेन च न पश्यति। पुरुषाणां सहस्रञ्च पूर्वं भक्तः समुद्वरेत्। पुंसां शतं मध्यमञ्च तच्चतुर्थञ्च प्राकृतः। भक्तश्च त्रिविधस्तात! कथितश्च तवाग्रतः” इति तत्रैव ८४ च०। भावे क्त। ५ भजने न०।

भक्तकंस = पुं न० भक्तार्थः कंस। भक्ताहरणार्थे पात्रे “भक्ताख्यास्तदर्वेषु” पा० आद्युदात्ततास्य।

भक्तकर = पु० भक्तं भजन करोति कृ–ट। धूपे कृत्रिमधूपे शब्दच०।

भक्तकार = त्रि० भक्तं करोति कृ–अण् उप० स०। पाचके सूपकारे हेमच०।

भक्ततूर्य्य = न० भक्ते तद्भोजनकाले वादनीयं तुर्य्यम् शा० त०। भजनकाले वादनीये वाद्यभेदे त्रिका०।

भक्तदास = पु० भक्तेन अन्नमात्रकाभेन दासः अङ्गीकृतदास- भावः। पञ्चदशदासान्तर्गते दासभेदे। “भक्तदासश्च विज्ञेयः” इति स्मृतिः। दासशब्दे दृश्यम्।

भक्तपुलाक = पु० भक्तस्य पुलाक इव। सिक्थे अन्नमण्डे (मा~ड) त्रिका०

भक्तमण्ड = पु० ६ त०। भक्तस्य निस्रावे (मा~ड)। हेमच०।

भक्तवत्सल = त्रि० ६ त०। १ भक्तेषु स्निग्धे २ विष्णौ पु०। “माधवो भक्तवत्सलः” विष्णुस०।

भक्तसिक्थ = पु० ६ त०। भक्तमण्डे अमरः।

भक्ति = स्त्री भज–क्तिन्। १ सेवायाम् आराधनायां, २ तदेकताने चित्तवृत्तिभेदे ३ विभागे ४ गौण्यां वृत्तौ ५ उपचारे ६ अवयवे ७ भङ्ग्याम् ८ श्रद्धायाम् ९ रचनायाञ्च “भवति विरन्तभक्तिः” रघुः। भक्तिलक्षणमुक्तं शाण्डित्यसूत्रटीकयो यथा “सा परानुरक्तिरीश्वरे” सू० “अत्र सा परेति लक्ष्यनिर्देशः। शेषं लक्षणम्। परेति गौणीं व्यावर्त्तयति। ईथर इति प्रकृताभिप्रायम्। आराध्यविषयकरागत्यमेव भक्तित्वम्। इह तु परमेश्वरविषयकान्तःकरणवृत्तिविशेष एव भक्तिस्तद्वैशेष्यं च लौकिकानुरागादौ सुग्रहम्। यथोक्तं परभक्तिमता प्रह्लादेन। (विष्णापु०। अंशे १। अ० २०। श्लो० १७)। “या प्रीतिरविवेकानां विषयेष्वनपायिनी। त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु”। अत्र प्रीतिपदेन सुखनियती राग एव लक्षितः। अन्यथा प्रीतेः सुखरूपाया निर्विषयत्वेन विषयसप्तमा न स्यात् तस्याः सुखज्ञानरूपत्वेऽपि तज्ज्ञानस्य सुखविषयत्वाद्विषयविषयत्वासम्भवात्। तस्मादनुरक्तिरेव सविषयिणी लक्षिता। न च विषयजन्यप्रीतिरर्थः जनकसप्तम्या अननुशासनात्। किञ्च “अच्युतास्तु सदा त्वयि” इत्यत्र भक्तेरीश्वरविषयतासिद्धौ प्रीतिपदेनापि तदेकवाक्यतया सैवोच्यते। पूर्वं प्रतिजन्म भक्तिप्रार्थनमिह तु विषयरागदृष्टान्तेन तस्या एव सर्वथान्यपरिहार्यत्वप्रार्थनमिति विशेषः। विषयजन्यप्रीतिरपि रागं विना न सम्भवतीति रागावश्यकत्वम्। तथा च पातञ्जलसूत्रम्। (पा० २। सू० ७ पृ० ७९) “सुखानुशयी रागः” इति। तस्यैव वक्ष्यमाणलिङ्गषु व्यापनाल्लाघवाच्च भक्तित्वम्। न तु क्वचित् स्वरणस्य, क्वचिच्च कीर्तनादेः अननुगमात्। न च तज्ज्ञानस्य तत्त्वं द्वेषादिमत्स्वपि तत्प्रसङ्गात्। नाप्याराध्यत्वेन ज्ञानं स पूजानमस्काराद्याराधनास्वननुगमात्। अपि च बलाद्भयाद् वा नमस्कार्यत्वादिज्ञानवत्यपि भक्तोऽयमनुरक्तोऽयमिति व्यवहारापत्तेः। अनु- रागादिसहिताराध्यत्वज्ञानमिति चेत् अनुराग एवास्तु अतएव गी०। अ० १०। श्लो० ९)। “मच्चित्तामद्गतप्राणा बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च। तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मासुपयान्ति ते” इत्यादौ तद्गतचित्तप्राणादीनां भजनमुक्तं नाराध्यत्व न ज्ञानवताम्। अतएव च कृष्णस्य कमनीयाकृतिदर्शनेनानुरक्तानां गोपतरुणीनामपि भक्तिफलं मुक्तिः स्मर्य्यते। अनुस्तु न लक्षणान्तर्गतः किन्तु भगवन्महिमादिज्ञानादनुपश्चाज्जायमानत्वादनुरक्तिरित्युक्तम्। ननु पित्रादिगोचरानुरागस्यापि प्रकृतभक्तित्वं प्रसज्येत जगत एव परमेश्वरात्मकत्वात्। अथ विकाराविशिष्ट एव तथात्वं वाच्यं तथापि गोपीप्रभृतीनां प्रादुर्भावावच्छिन्नेश्वरभक्तावव्यापकम्। उच्यते जीवीपाध्यनवच्छिन्नचेतनविषयिणी अनुरक्तिरेव सेति। एवञ्च प्रादुर्भावावच्छिन्ने परिपूर्णे च भक्तिः संगृहीता भवति” टीका। “तत्संस्थस्यामृतत्वोपदेशात्” ३ सू० “तस्मिन्नीश्वरे संस्था भक्तिर्यस्य स तथोक्तः। तस्यामृतत्वं फलमुपदिश्यते (छा०। पृ० १३७) “ब्रह्मसंस्थोऽमृतत्वमेतीति”। तस्मान्निष्फलत्वगौणफलत्वनिवन्धना तदजिज्ञासा परिहृता भवतीति” टी०। “ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः” ४ सू० “ननुब्रह्मसस्थाशब्देन ब्रह्मज्ञानमेवोच्यते न तु तद्भक्तिः। तथाचामृतत्वफलं तस्यैवेति चेद्ब्रूषे। नैष दोषः। संस्था भक्तिरेव न ज्ञानं द्विषतस्तज्ज्ञानवतोऽपि तत्संस्थत्वव्यवहाराभावात्। राजाद्यनुरक्ताः खल्वमात्यमित्रादयस्तत्संस्था इति व्यपदिश्यन्ते न पुनः प्रतिपक्षभपालाः। शब्दार्थनिर्णयो हि लोकवदेव वेदेऽपीति। अतएव चिरकालिकोपाख्याने “बिमृश्यते न कालेन पत्नीसंस्था व्यतीक्रमः। सोऽब्रवीच्च भृशं तप्तो दुःखेनाश्रूणि वर्त्तयन्”। (महाभा० शा० अ० २६७ श्ला० ९५२६) इत्यनेन पतिभक्त्यतिक्रम उक्तः। तस्मात् संस्था भक्तिरिति एवञ्च (ब्रह्मसू०। अ० १। पृ० ७) “तन्निष्ठस्य मोक्षो पदेशादिति” वादरायणीयसूत्रस्याप्ययमेवार्थोऽध्यवसेयः” टी० “तयोपक्षयाच्च” ५ सू०। “तया भक्त्या मुक्तिं प्रति ज्ञानसुपक्षीणं यस्माच्चकार उक्तयुक्तिसमुच्चयार्थः (गी०। अ० ७। श्लो० १३)। “यदा ते निश्चलं चेतो मयि भक्तिसमन्वितम्। तदा त्वं मत्प्रसादेन निर्वाणमपि यास्यसि” इति स्थितम्। ननु (श्वे०। पृ०। ७३) “तमेव विदित्वातिमृत्युमेति नाव्यः पन्था विद्यतेऽयनाय” इत्यत्र वेदनफलं मुक्तिः श्रुता तद्विरोधेन स्मृतीनामन्यार्थत्वं स्यादिति चेन्न अत्रापि तयैवीषक्षयात्। तथा हि अतिमृत्युपदं न मुक्तौ रूपं किन्तु यस्यां सत्यां मृत्योरतिक्रम इति व्युत्पत्त्या तदपेक्षया यतो भक्तेर्मृत्य्वतिक्रम इति व्युत्पाद्य भक्तिमेवातिमृत्युपदेनाभिधत्ताम् उपपदविभक्त्यर्थापेक्षया कारकविभक्त्यर्थस्य बलवत्त्वात्। (गी०। अ० १२ पृ० ७)। “तेषामहं समुद्धता मृत्युसंसारसागरात्। भवामि न चिरात् पार्थ! मय्यावेशितचेतसाम्”। इत्यादिना भक्तितो मृत्योरतिक्रमोक्तेः। मन्त्रश्च भवति (तैत्तिरीयमन्त्रभागे) “त्र्यग्वकं यजामहे सुगन्धिं पुष्टिवर्द्धनम्। उर्वारुकमिव वन्धनान्मृत्योर्मुक्षीय मामृतादिति”। अत्र यजनं भक्तिः तथैव तत्कल्पव्याख्यानात् नचास्यां श्रुतौ भक्तेरसन्निधानं मुक्तावपि तुल्यत्वात्। तस्मादनयापि श्रुत्या ज्ञानस्योपक्षय एव प्रतीयत इति। नन् तथापि भक्तेरागरूपत्वे किं कारणमित्यपेक्षायामाह” टी०। “द्वेषप्रतिपक्षभावाद्रसशब्दाच्च रागः” सू०। “भक्तिः खलु राग एव भवितुमर्हति कुतः द्वेषविंरोधित्वात्। लोके हि द्वेष्टायं भक्तोऽयमिति मिथोविरुद्धधर्मवति व्यवह्रियते तत्र द्वेषविरोधी च राग एव प्रसिद्धो न ज्ञानादिः। एवञ्च भगवति शिशुपालस्य द्वेषानुबन्धमभिधाय विष्णुपु० अ० ४ १५ गद्येन १० अयं हि भगवान् कीर्त्तितः संस्मृतश्च द्वेषानुबन्धेनापि अखिलसुरासुरदुर्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमताम्” इत्युक्तम्। तथा चात्रिस्मृतौ “विद्वेषादपि गोपिन्दं दमघीषात्मजः स्मरन्। शिशुपालो गतः स्वर्गं किं पुनस्तत्परायणः” इति अत्रापि द्वेषविरोधित्वेन भक्तेरभिधानात्। तथा च गीतासु (गी० अ०१६। श्लो० १८)। “ममात्मपरदेहेषु प्रद्विपन्तोऽभ्यसूयकाः। तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु। आसुरीं योनिमापन्ना मूद्वा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय! ततो यान्त्वधमां गतिम्। इति। तद्विरोधिनी च भक्तिरीश्वरविषयैवानुरक्तिरिति युज्यते। किञ्च (तैत्ति०। पृ० १००) “रसं ह्येवायं लब्ध्वानन्दीभवतीतिशब्दाद् ब्रह्मानन्दाविर्भावमुक्तेर्ब्रह्मगोचरस्य रसस्य हेतुतावगम्यते। रसश्च रागः (गी०। अ० २। श्लो० ५९)। “रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्त्तते” इत्यादौ प्रसिद्धः। अत्र रसो विषयरागः। अत एव च (विष्णपु० अ० ४। अ० ४ गद्यम्) रामलक्ष्मणादीनां स्वर्लोकारोहणमुक्त्वा “येऽपि तेषु भगवदंशेष्वनुरागिणः कोशलनगरजानपदास्तेऽपि तन्मनसस्तत्सलोकतामापुरिति” साक्षादेव भक्तावनुरागशब्दः प्रयुक्त इति। तस्यादपि न ज्ञानं किन्त्वनुरागरूपैव भक्तिर्निःश्रेयसफलेति। ननु द्वेषविरोधित्वं न रागत्वे लिङ्गम् उदासीनत्वेनानैकान्त्यादिति चेत् उच्यते द्वेषकार्य्यं हि निवृत्तिस्तद्विरोधिनी प्रवृत्तिरिति। भवति च भक्तानां भजनीयानुवर्त्तनादौ प्रवृत्तिस्तद्विरोधिनां तदनुवर्त्तनादौ निवृत्तिः। एवञ्च कार्य्यमुखेन विरोधमभिप्रेत्य द्वेषप्रतिपक्षेत्युक्तम्। तथा च प्रयोक्तव्यं भक्तिर्भजनीयगोचररागरूपा तदनुवर्त्तनादिहेतुहितसाधनताधीभिन्नात्मविशेषगुणत्वाद् यन्नैवं तन्नैवं यथा द्वेषः। रागोत्कर्षेण तदनुवर्त्तनाद्युत्कर्षस्य दृष्टत्वाच्च। किञ्च यो यस्मिन् भक्तस्तत्र तस्यौदासीन्याभावेऽवगते भक्तिस्तादृशानुवर्त्तनाद्यनुकूलद्वेषविरोधिगुणरूपा अनुवर्त्तनहेत्वात्मविशेषगुणत्वाद्धितसाधनताधीवदिति हितसाधनताधीत्वबाधसहकारेण परिशेषाद्रागत्वसिद्धिः। किमुत भक्तिमतामिमित्येतत्कैमुतिकन्यायी विरोधिन्येव द्रष्टव्यः। (गी०। अ० ९। श्लो० ३२)। “मां हि पार्थ! व्यपाश्रित्य येऽपि स्युः पापयोनयः”। “किं पुनर्ब्राह्मणाः पुण्याः” इत्यादौ च। एवं (गी०। अ० १६। श्लो० १८) “मामात्मपरदेहेष्वित्यनेन द्वेषस्य संहारहेतुत्वात् तद्विरोधिगुणो जीवोपाधिपरिहारेण परात्मगोचरो राग एव भक्तिरूपः संसारनाशहेतुः। एतदेवोक्तं मामप्राप्यैवेति। चकारात् पुलकादिरागलिङ्गेनापि रागत्वम्। प्रसिद्धं हि “पुलकाञ्चितेन कथयति मथ्यनुरागं कोपोल” इत्यादौ। भक्तेर्गुणान्तरत्वे तु पृथग्लिङ्गताकल्पने गौरवात्। स च रागः केषाञ्चिदिष्टसाधनताज्ञानजन्योऽपि यागादिवदिच्छारूप एव। अस्माकं तु प्रीणाम्यनुरज्यामि नेच्छामीत्यादिप्रतीतेरागः पृथगेव द्वेषवत्। इच्छाया असिद्धमात्रविययत्वाद्रागस्य सिद्धासिद्धविषयत्वाच्च। प्रत्युत तस्येच्छात्वादिव्याप्यत्वकल्पनागौरवाच्चेति दिक्। तस्मान्न तल्लक्षणासिद्धिरिति। ननु भक्तिः क्रियात्मिका सा च निःश्रेयसाय न क्षमते (तत्ति। आरण्य०। खिलप्रश्ने ऋक् २१) “न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशः” इत्यादिश्रुतिभ्य इत्याशङ्कां परिहर- न्नाह टी०। “न क्रिया कृत्यनपेक्षणाज्ज्ञानवत्” ७ सू०। सा भक्तिर्न क्रियात्मिका भवितुमर्हति प्रयत्नानुवधानाभावात्। यन्न प्रयत्नानुषिधायि तन्न क्रियात्मकं यथा ज्ञानम्। तद्धि प्रमाणसम्पत्त्यधीनं न पुरुषेण स्वेच्छया कर्तुमकर्तुमन्यथा कर्तुं शक्यते। तथा भक्तिरपि न हि रागिण्णां प्रमदापुत्रादिविषयिणी पुंव्यापारेणं तथा भवति भक्तिः किन्तु पूर्वसुकृतगौणभक्त्यादिसाधनाधीनेति” टी०। “अतएव फलानन्त्यम्” ८ सू०। “यतः सा न क्रियात्मिका अतएव तत्फलस्य निःश्रेयसस्यानन्तत्रमुपपद्यते। अन्यथा (छा०। पृ० ५३८) “तद्यथेह कर्मजितो लोकः क्षोयते एवमेवामुत्र पुण्यजिती लोकः क्षीयते” इत्यनेनामृतत्वस्यापि क्षयित्वं प्रसज्येतेति” टी०। “तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत्” ९ सू०। “भवति हि भगवद्वाक्यं (गी०। अ० ७। श्लो० १९) “बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः” इति। ज्ञानवतः प्रपत्तिरुक्ता भक्तेर्ज्ञानहेतुत्वे नेदमुपपद्यते इतरप्रपत्तिवदिति। यथा तदनन्तरं (गी०। अ० ७। श्लो० २०)। “कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः”। इत्यनेन देवतान्तरप्रपत्तिनिन्दामुखेनैव प्रपत्तिः स्तूयते। तत्र देवताभक्तेरेव प्रपत्तिशब्देन कथनं न तज्ज्ञानस्य। तस्या एव प्रपत्तेरुभयत्र प्रत्यभिज्ञानात् इति। चकाराज्० ज्ञानानन्तर्य्यश्रवणमपि ज्ञानत्वाभावे निदानम्। यथा (गी०। अ० १५। श्लो० १६)। “यो मामेवमसंमूढो जानाति पुरुषोत्तमम्। स सर्वविद्भजति मां सर्वभावेन भारत! इति। तथा (गी०। अ० ९। श्लो० १३)। “भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्। इति मत्वा भजन्ते मां बुधा भावसमन्विताः”। इति च। तस्मान्न ज्ञानात्मिका। यद्यपि रागत्वेनैव ज्ञानभेदः सिद्धस्तथापि भक्तिशब्दो ब्रह्मज्ञागे गौण इति शङ्कानिरासार्थमेतत्। इदन्तु चिन्त्यते भगवद्वीतावाक्यानि न शब्दविधया वेदवत् प्रमाणम्। किन्तु भारतस्मृतित्वेन तथा च कथं शब्दादिति निर्देशः। अत्रैकेऽनुमितशब्दादिति व्याचक्षते। अत्रोच्यते अदृष्टार्थकभगवद्वाक्यत्वमेव वेदत्वं तच्च गीतास्वप्यविशिष्टम्। अतएव भगवद्गीतासूपनिपत्स्विति दृश्यते, केवलं त एव श्लोका व्यासेन निवद्धाः तथा च पुराणान्तरम् “गीता सुगीता कर्त्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्मात् द्विनिःसृता”। न च शूद्राणामश्रवणप्रसङ्गः भारतश्रवणाभ्यनुज्ञानेनैव तदुपपत्तेः प्रणवादिस्तुत्यादिवत्। तद्विहायेति चेन्न लक्षणाऽपरिपूर्त्तेः। तथाचीक्तमाचार्य्यैः। “तानेव वैदिकान् मन्त्रान् भारतादिनिवेदितान्। खाध्यायनियमं हित्वा लोकबुद्ध्या प्रयुञ्जते” टी०। १ आ०। “एवममृतत्वं प्रत्यनन्यथासिद्धायां भक्तौ लक्षितायां ज्ञानयोगभक्तीनामङ्गप्रघानभावविवेकाय द्वितीयाह्निकस्यारम्भः। “सा मुख्येतरापेक्षितत्वात्” १० सू० आह्निकसमाप्तायुक्तस्य पुनः खरणाय सेति निर्देशः। सा परा भक्तिर्मुख्या प्रधानम् इतरैरात्मज्ञानयोगादिभिः स्वोपकार्य्यतयापेक्षितत्वादित्यर्थः। छान्दोग्ये (पृ० ६१६) “यो भूमा तत्सुखम्” इत्याद्युपक्रम्य म्नायते “आत्मैवेदं सर्वमिति स य एष एवं पश्यन्नेवं मन्यान एवं विजानन्नात्मरतिरात्मकीड आत्ममिथुन आत्मानन्दः स स्वराड् भवतीति” तत्रात्मरतिरूपायाः परभक्तेः पश्यन्निति दर्शनमप्रियत्वादिभ्रमनिरासमुस्येनाङ्गं भवति। यथा “दण्डी प्रैषमन्याह प्राचीनावोती दोहयति अभिजानन् जुहोति घनवान् सुखवानित्यादौ दण्डाद्यङ्गं तथा “दर्शनमपि रतेरङ्गं मननविज्ञानयोरुक्तप्रियदर्शनार्थतया न्यायप्राप्तयोरनुवादः। एवमात्मक्रीडादेरतिनैयत्यादर्थप्राप्तोऽनुवाद एव। अन्यथा रत्युद्देशेन दर्शनादिविधौ दर्शनाद्युद्देशेन वा रत्यादिविधौ वाक्यानि भिद्येरन्। तस्मात् (पूर्वमीसांसायाम्। अ० ३। पा० १। सू० २) “शेषः परार्थत्वादिति” न्यायाद्दर्शनमङ्गमिति। अतएव भगवान् मनुरपि। (महाभार०। शान्ति०। अ० १९४। श्लो० ७१११। ७११२)। “यस्त्यक्त्वा प्राकृतं कर्म नित्यमात्मरतिर्मुनिः। सर्वभूतात्मभूतात्मा स्याच्चेत् परतमा गतिः”। इत्यनेनात्मरतेः प्राधान्यमाहेति” टी०। “प्रसुरणाच्च” ११ सू०। “प्रकरणं रतेरेव फलवत्त्वात् तस्यास्ततप्रकरणस्यं दर्शनमङ्गं भवितुमर्हतीति” टी०। “दर्शनफलमिति चेन्न तेन व्यवधानात्” १२ सू०। “अथ दर्शनस्यैव फलं स्वाराज्यलक्षणममृतत्वं तथा च तस्यैव प्रकरणमिति वैपरीत्यमिति चेन्न तेन तच्छब्देन व्यवधानात् (छां०। पृ० ५१६१७) स स्यराड् भवतीत्यत्र तच्छब्देन सन्निकृष्टात्मरतिमानेवोपस्थाप्यते न विप्रकृष्टः पश्यन्निति व्यव हितोपस्थितौ कारणाभावात्। प्रकरणमेव कारणमिति चेन्न अन्योन्यान्नयात्” टी० “दृष्टत्वाच्च” १३ सू० “दृष्टं हि लोके सौन्दर्यादिज्ञाबस्म तरुण्यास्तरुणे रतिहेतुत्वं न तु रतेर्ज्ञानहेतुत्वमिति दृष्टोपकारत्वादप्यङ्गत्वमवसीयते। दृष्टं च प्राकृतनिष्करुणत्वाल्पमहिमत्वाप्रियत्वादिज्ञानं मनोमालिम्यकारणं भूतेषु करुणाबहुलाव्याहतैश्वर्यातिशयितरूपाश्रय आत्मेति ज्ञानन्मालिन्यनिवृत्तिस्ततः परा भक्तिरिति। अतएव गीयते (गी०। अ० ५। श्लो० १७)। “तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्द्धूतकल्मषाः। इति। तथा आयुर्वेदेऽपि (अष्टाङ्गहृदये। अ० १ श्लो० २३)। धीर्धैर्यात्मादिविज्ञानं मनोदीषौषधं परम्” टी०। “अतएव तदभाबाद्वल्लवीनाम्” १४ सू०। “यतो ज्ञानं दृष्टोपकारकमङ्गमत एव दृष्टोपकारं निरस्य मनोमालिन्यादिवाधात् प्रधानभगवदनुरागमात्रेण वल्लवीनां मुक्तिः स्पर्य्यते। (विष्णुपुराणे। अंशे ५। अ० १३। श्ला० १४। १५। “तच्चिन्ताविपुलानन्दक्षीणपुण्यचया सती। तदप्राप्तिमहादुःखविलीनाशेषपातका। चिन्तयन्ती जगत्सूति” परब्रह्मस्वरूपिणम्। निरुच्छासतया मुक्तिं गतान्याः गोपकन्यका” इति। अत्र सुखदुःखलिङ्गेनानुरागोऽनुमीयते न मुक्तिरिति वाक्यार्थः। द्वारबाघादनवहतकृष्णलेनापि कर्मणा फलसिद्धिरिव तासां रागान्मुक्तिस्तदप्यवगम्यते ज्ञानमङ्गमेव प्रधानत्वे तु तदभावे फलं न स्यात् चिन्ता च न ब्रह्मात्मैक्यज्ञानं तत्कारणश्रवणमननाद्यसम्भवात्। किन्त्वनुरागनियतानुस्मृतिरेव। नचायमर्थवादः अपूर्वार्थत्वाभावात् सन्निधौ विध्यभावाच्चेति” टी०। “भक्त्या जानावीति चेन्नाभिज्ञप्त्या साहाय्यात्” १५ सू० “इदानीं श्रुतिविरोधेन प्रकरणस्थानलिङ्गबाधमाक्षिप्य समाधीयते। यथा श्रुतं (गी०। अ० १८। श्लो० ५५। “भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्”। इति। तत्र (तैत्तिरीयसं०। अ० १। प्र०५। अनुवाक०८) “ऐन्द्र्या गार्हपत्यमुपतिष्ठने” इतिवत् कारकश्रुत्या बलीयस्या भक्तेर्ज्ञानहेतुत्वसासीयते। यद्यपि दृष्टत्वादित्यनेन दृष्टोपकारे पत्यक्षगम्ये न श्रुते, रवकाशः तथापि ब्रह्मविषयिण्या रतेर्ब्रह्मविषयज्ञानोपकार्य्यत्वं न प्रत्यक्षगम्यम्। किन्तु तरुण्यादे रतौ तथा दर्शनेन ब्रह्मगोचरायामप्यनुमातव्यम्। तथाच लिङ्गत्वे पर्यवसानादिति चेन्न दोषः। तथाहि यदि केवलं जानातीति वदेन्न त्वेवम्। किन्त्वभिजानातीति। अभिज्ञा पूर्वज्ञातज्ञानमुच्यते। तथा च भक्त्युपकारिपूर्व- ज्ञानं तत्फलरूपभक्तिप्रवर्त्तकम्। अनन्तरं यावत् तद्दार्द्यं भक्त्यैवाभिज्ञप्तिभावेनापेक्ष्यते व्रीह्यवहननेनावघातवदिति। कार्य्यसाहाय्यार्थमुक्तं ततो ज्ञानदार्द्येन भक्तिदार्द्ये सति विशत इति। तस्मान्नेयं श्रुतिः किन्तु न्यायप्राप्तानुवाद इति। एतमेवार्थं स्फुटीकरोति” टी०। “प्रागुक्तं च” १६ सू०। “भक्त्या मामित्यस्य पूर्वं व्रह्मभूयाय कल्पत इत्यभिधाय (गी०। अ० १८। श्लो० ५४)। “ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लमते पराम्” इत्युक्तम्। तस्य तु ज्ञातब्रह्मणो ज्ञानप्रयोजनाभावाद्युक्तमनुवादत्वमिति” टी० “एतेन विकल्पोऽपि प्रत्युक्तः” १७ सू० “एतेन ज्ञानस्याङ्गत्वनिर्णयेन ज्ञानभक्त्योरत्र विकल्पपक्षोऽपि प्रत्युक्तः निराकृत इति मन्तव्यम्। नह्यङ्गाङ्गिनोरेकत्र विकल्पो भवतीति। अपिशब्दात् समुच्चयोऽपीति” टी०। “देवभक्तिरितरस्मिन् साहचर्य्यात्” १८ सू०। “क्वचिदेवं श्रूयते (श्वेताश्व० पृ०११७) “यस्य। देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः” इति। अत्र देवभक्तिरोश्वरेतरस्मिन् देवे मन्तव्या कुतः गुरुभक्तिसाहचर्य्यात्। साहचर्य्यं हि नामृतफलायां भक्तौ घटते। इन्द्रादि देवतास्त्वाराधिताः शुभवज्ज्ञानफलाय भवन्तीति साहचर्य्यमपि निर्णायकम्। साहचर्य्यादुलूकशब्दवदुपयुक्तेरुपष्टम्भकमेतत्” ११ टी० “योगस्तूभयार्थमपेक्षणात् प्रयाजवत्” १९ सू०। “योगः पुनर्ज्ञानार्थं भक्त्यर्थं च भवति। समाहितमनस्कताया उभाभ्यामपेक्षणात्। ननु (पूर्वमीमांसायाम्। अ०३। पा० १। सू० २१) “गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यादिति” न्यायात् प्रधानाङ्गं योगः कथमङ्गाङ्गमित्यत आह प्रयाजवदिति यथा प्रयाजो वाजपेयाद्यङ्गं तदोयदीक्षणीयादेरप्यङ्गं तद्वत्। तदङ्गताबोधकप्रमाणाविशेषात्। केवलं ज्ञानार्थं योगानुष्ठानप्रसङ्गेन भक्तिमुपकरोतीति। एवं विषयवैराग्यमपि उभयार्थं मन्तव्यम्। ननु योगे पातञ्जलदर्शने २३ पृ०) “ईश्वरप्रणिधामादिति” पतञ्जलिस्वरणं दुरपह्नवं तत्र प्रणिधानाभिधेयस्य भगवद्भजनस्य समाधिसिद्ध्यर्थत्वमिति कथं भक्तेः प्राधान्यमित्यत आह” टी०। “गौण्या तु समाधिसिद्धिः” २० सू०। तत्र प्रणिधानं गौणभक्तिरेव न प्रधानं तया समाधिसिद्धिरिति न स्मृतिविरोधोऽपीति। भवति च वाक्यशेषस्तत्रैव (पा० द० ४०। ४१ पृ०) “तस्य वाचकः प्रणवः” “तज्जपस्तदर्थभावनमिति” टी०। “हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत्” २१ सू०। योगशास्त्रप्रस्तावादिदं सूत्रम्। योगशास्त्रोक्तरागत्वाविशेषाद्भक्तिरपि मुमुक्षुणा हेयैव। तथा च सूत्रं पा० द० ७२ पृ०) “हेयाः रागद्वेषाभिनिवेशाः क्लेशाः” इति। एवञ्चेदुच्यते। नैवं वाच्यम् उत्तमास्पदत्वाद्भक्तेः परमेश्वरविषयत्वादिति यावत्। न हि रागत्वमात्रेण हेयत्वं किन्तु संसारानुबन्धिरागत्वेनैव। यथा सङ्गत्वमात्रेण न त्याज्यता किन्तु असत्सङ्गत्वेन तद्वत्। तथा चेश्वरभक्तिर्हेया रागत्वादित्यत्र संसारान्रबन्धित्वं मोक्षाननुगुणत्वं चोपाधिः। नच सात्त्विकी सा (गी०। अ० १७। श्लो० ४) “यजन्ते सात्त्विका देवान्” इत्यादिना सात्त्विकत्वकीर्त्तनादिति” टी०। “तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात्” २२ सू० “तदेव भजनं मुख्यं तस्या भक्तेर्वामुख्यत्वम्। एतत् सर्वथैव निश्चितं यस्मादेवं शब्द्यते (गी०। अ० ६। श्लो० ४६। ४७)। “तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुनः। योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान् भजते यो भां स मे युक्ततमो मतः” इति। अत्र विशेषणानां तपादीनामाधिक्यनिबन्धनं विशेष्याणामाधिक्यं क्रमादिति मन्तव्यम्। न खल्वङ्गस्य मुख्यादाधिक्यमुपपद्यते। तस्माद्भक्तिः प्रधानमिति। श्रुत्यर्थेनापि तदुत्पत्तिपरिहार्थं पठति” टी०। “प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः” २३ सू०। अत्र कृत्स्रोऽपि द्वादशाध्याय उदाहरणम् (गी०। अ० १२। भक्तियोगशब्दे स च अध्यायो दृश्यः। तल्लिङ्गानि च तत्रैवोक्तानि यथा “तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः” ४३ सू०। “यद्यपि जानामीच्छामीत्यादिवदहं भजे अनुरज्ये इत्येवं मानादिना प्रत्यक्षगम्यैव भक्तिस्तथापि तस्या दृढतरसंस्कारवैशिष्ट्यलक्षणा परिशुद्धिर्न प्रत्यक्षतो निर्णेतुं शक्यते ज्ञानप्रामाण्यवत्। तस्मात् तन्निर्णयो लोकवज्ज्ञातलिङ्गेभ्य एव। यथा लोकेऽनुरागतारतम्यं तत्कथादाबश्रुपुलकादिविकारैरनुमीयते तद्वदिति। न केवलं लोकवल्लिङ्गानि भवन्ति महर्षीणां स्मृतिभ्योऽपि तानि लिङ्गानि बाहुल्येन लक्ष्यन्त इत्याह” टीका। “सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थप्राणस्थानतदीयतासर्वतद्भावाप्रातिकूल्यादीनि च स्युरन्येभ्यो बाहुल्यात्” ४४ सू०। “यथार्जुनस्य सम्मानः। “प्रत्युत्थान तु कृष्णस्य सर्वावस्थो धनञ्जयः। न लङ्घयति धर्मात्मा भक्त्या प्रेमणा च सर्वदा”। बहुमानःयथा इक्ष्वाकोः (नृसिंहपु० अ० २५ श्लो० २२) “पक्षपातेन तन्नाम्नि मृगे पद्मे च तादृशि। बभार मेघे तद्वर्णे बहुमानमतिं नृपः”। प्रीतिर्यथा विदुरस्य। (महाभारते। उद्यो० अ० ८८ श्लो० ३११४)। “याप्रीतिः पुण्डरीकाक्ष! तवागमनकारणात्। सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनाम्”। विरहो यथा गोपीनाम् (विष्णुपु०। अंशे ५। अ० १८। श्लो० १७) “गुरूणामग्रतो वक्तुं किं ब्रवीमि न नः क्षमम्। गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना”। इतरविचिकित्सा यथा श्वेतद्वीपनिवासिनाम्। नारददर्शनेऽपि विघ्नबुद्धिः यथाचोपमन्योः (महाभरते। अनुशाअ० १४। श्ला० ७० ७७)। “अपि कीटपतङ्गो वा भवेयं शङ्कराज्ञया। न तु शक्र! त्वया दत्तं त्रैलोक्यमपि कामये”। महिमख्यातौ यथा यमस्य। (नृसिंहपुरा० अ० ८ श्लीक० १) “नरके पच्यमानस्तु यमेन परिभाषितः। किं त्वया नार्चितोदेवः केशवः खेदनाशनः”। (विष्णुपु०। अंशे ३। अ७। श्लो०१०)। “स्वपुरुषमभिवीक्ष्य पाशहस्तम्। वदति यमः किल तस्य कर्णमूले। परिहर मघुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम्” तदर्थप्राणस्थितिर्यथा हनूमतः। तेनैवोक्तम् (वाल्मीकीये उत्तरकाण्डे। स० १०७ श्लो० ३१३१)। “यावत् तव कथा कोके विचरिष्यति पावनी। तावत् स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन्”। अथ वा कृतकृत्यानामपि नारदादीनां तदेकाराधनार्थं प्राणधारणम्। अतएव श्रुतिः। (नृसिंहतापिनी। खं० ६) “यं सर्बेदेवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्चेति”। तदीयताभावस्तु वसोरुपरिचरस्य (महाभारते। शा०। अ० ३२७। श्ला० १२७१८) “आत्मराज्य धनं चैव कलत्रं वाहनं तथा। एतद्भागतवतं सर्वमिति तत् प्रथते सदा” इति। सर्व भूतेषु तद्वावो यथा प्रह्लदस्य प्रसिद्धः। उक्तञ्च तेनैव। (विष्णुपु०। अंशे १। अ० १९। श्लो० ५) “एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी। कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम्”। तस्मिन्नप्रातिकूल्यं यथा हन्तु० मागतेऽपि भगवति भीष्मस्य। तेनैवोक्तम्। (महाभारते भौष्मप०। अ० ५८ श्लो० २६४) “एह्येहि देवेश! जगन्निबाल! नमोऽस्तु ते शार्ङ्गगदासिपाणे!। प्रसह्य मां पातय लोकनाथ। रथादुदग्राद्भुतशौर्य्य सख्ये”। आदिशब्दादुद्धवाक्रूरादिचेष्टितान्यपि द्रष्टव्यानि। यद्यपि द्वेषविपक्षभावादित्यत्रेदमुक्तं तथापि तत्र रागलिङ्गत्वेनात्र च बहुभक्तिपरिशुद्धिलिङ्गतयेति विशेष इति। ननु स्वामिन्यनुरागिणां तदनुग्रहतारतम्यवत्सु द्वेषेर्ष्यादयो भवन्ति तेऽपि किं लिङ्गानि नेत्याहं टी०। “द्वेषादयस्तु नैवम्” ४५ सू०। “तदसम्भादेव। यथोक्तं भगवता द्वैपायनेन महाभारते अनुशा०। अ० १४९ पृ० १४६। श्लो० ७६९) “न क्रोधो न च मात्सर्य्यं न लोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे” इति। शिशुपालस्य तु द्वेषात् स्मरणं ततः परा भक्तिस्ततो मुक्तिरित्येव क्रमः इति” टी०। अत्रेदमवधेयम् शाण्डिल्यसूत्रादौ “भक्तेर्ज्ञानाङ्गकत्वं यदुक्तं तद् भक्तेः प्रशंसार्थं तत्त्वज्ञानेनाज्ञाननिवृत्तौ अज्ञानकार्य्यानुरागविशेषान्तःकरणवृत्तिरूपाया भक्तेः कुतस्तरां सम्भवोऽतो ज्ञानस्यैव भक्तिरङ्गम्। अतएव पात० सू० ईश्वरप्रणिधानात् योगसिद्धिरुक्ता “तपास्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः” क्रियायोगरूस्येवरप्रणिधानस्य योगाङ्गत्वमुक्तम् अतएव भक्तिर्ज्ञानाय कल्पते इति मुक्ताफलकर्त्ता वोपदेव उदाजहार। इयांस्तु भक्तौ रसास्वादमुक्तौ सुखस्वरूपतेति। तेन च मुक्ताफलग्रन्थे भक्तिलक्षणं तद्भेदाश्चान्यथोक्तं यथा “तत्र विष्णुभक्तिर्लक्षणं भेदाश्च। “तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत्” मू० “यस्मात् कृष्ण एव कैवल्यप्रदः यद्वा तस्मात् उपायविशेषस्याविवक्षितत्वात्। केनापि विहितेन अविहितेन वा उपायेन साध्यसिद्ध्यावधृतसामर्थ्येन, न तून्मादादिना कृष्णे सत्त्वोपाधौ ब्रह्मणि निवेशयेत् स्थिरीकुर्य्यात् लिङ्निर्देशस्याविवक्षितत्वात् उपायपूर्वं भगवति मनःस्थिरीकरणं भक्तिरिति लक्षणार्थः। न तावदस्यासम्भवः प्रह्रादादौ सुपसिद्धत्वात्। न च कर्मक्षयार्थविधिसिद्ध्यर्थयोः भक्त्योरव्याप्तिः तयोरप्यतःकरणशुद्धिहेतुत्वेन मनोनिवेशहेतुत्वात्। नाप्युन्मादादावभक्तिभूतेऽतिव्याप्तिः तस्यानुपायत्वेन निरस्तत्वात्। तापि शुद्धायां भक्तौ उपायानिर्देशादुपायेनेति लक्षणेऽनन्तर्भूतमिति शङ्क्यम्। श्रौताभावेऽप्यानुमानिकस्य सम्भवात्। सा द्वेधा विहिता अविहिता च। तत्र विहिता “देवानां गुणलिङ्गानामानुश्रविककर्मणाम्। सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु य। अनिमित्ता भागवती भक्तिः सिद्धेर्मरीयसी जरयत्याशु या कोशं निगीर्णमनलो यथा”। सा द्वेधा मिश्रा शुद्धा च। मिश्रा त्रेधा। कर्ममिश्रा कर्मज्ञानमिश्रा ज्ञानमिश्रा च। कर्ममिश्रापि त्रेधा। तामसी राजसी सात्त्विकी च तामसी च त्रेधा। हिंसार्था दम्भार्था मात्स्यर्य्यार्था च। “अभिसन्धाय यद्धिंसां दम्भं मात्सर्य्यमेव वा। सरम्भी भिन्नदृग्भावमपि कुर्य्यात् स तामसः। राजसी त्रेधा। विषयार्था यशोऽर्था ऐश्वर्य्यार्था च। “विषयानभिसन्धाय यश एश्वर्य्यमेव वा। अर्चायामर्चयेद् यो मां पृथग्भावः स राजसः। सात्त्विकी त्रेधा कर्मक्षयार्था विष्णुप्रीत्यर्था विधिसिद्ध्यर्था च। “कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम्। यजेत् यष्टव्यमिति वा पृथग्भावः स सात्त्विकः”। कर्मज्ञानमिश्रा त्रेधा उत्तमा मध्यमाऽधमा च सत्त्वतारतस्यात्। तत्रोत्तमा “सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः। भूतानि भगवत्यात्मत्येध भागवतोत्तमः। मध्यमा “ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः”। अधमा “अर्चायामेव हरये पूजां यः श्रद्धयेहते। न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः”। ज्ञानमिश्रा “मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये। मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ। लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्। अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे! सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत। दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः। स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः। येनातिवृज्य त्रिगुणान् मद्भावायोपपद्यते”। अविहिता चतुर्द्धा, कामजा द्वेषजा भयजा स्नेहजा च। “कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः। आवेश्य तदथं हित्वा बहवस्तद्गतिं गताः”। भक्तिष्वधिकारिणश्च तत्रोक्ता यथा “गोप्यः कामाद्भयात् कंसो द्वेषाच्चैद्यादयो नृपाः। सम्बन्धाद् वृष्णयः स्नेहात् यूयं भक्त्या वयं विभोः”। सम्ब न्धात् स्नेहाद्वृष्णयो यूयं चेत्येकम्। भक्त्या विहितया वयमित्यत्र विभागः। “निर्विणानां ज्ञानयोगो न्यासिनामिह कर्मसु। तेष्वनिर्विन्नचित्तानां कर्मंयोगस्तु कर्मिणाम्। यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान्। न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः। य एतान् मे पथो हित्वा भक्तिज्ञानक्रियात्मकान्। क्षुद्रान् कामान् चलैः प्राणैर्जुपन्ते संसरन्ति ते। स्वे स्वेऽधिकारे या निष्ठा सगुणः स प्रकीर्त्तितः”। एवं सति कर्ममिश्रा नव गृहस्थानाम्। कर्मज्ञानमिश्रास्तिस्रो वनस्थानाम्। ज्ञानमिश्रैका भिक्षूणाम्। शुद्धैका सर्वेषां उत्पन्नेऽनुरागे। उत्पाद्ये तु यथा संमिश्रा। अविहिताश्चतस्रो गोप्यादीनाम् एवमष्टादश भेदाः। “यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः। तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत्। नैष्कर्म्यमप्यच्युतभाववर्जितम् न शोभते ज्ञानमलं निरञ्जनम्। कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम्”। विष्णुभक्त्यङ्गवर्गलक्षणं भेदाश्च तत्रोक्ता यथा “कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतः स्वभावात्। करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत्तत्” इत्युपक्रमे स एकोनविंशतिधा। षडत्रिंशद्वर्गः १। त्रिंशद्वर्गः २। षड्विंशतिवर्गः ३। पञ्चविंशतिवर्गः ४। चतुर्विशतिवर्गः ५। विंशतिवर्गः ६। एकोनविंशतिवर्गः ७। अष्टादशवर्गः ८। पञ्चदशवग ९। त्रयोदशवर्गः १०। द्वादशवर्गः ११। एकादशवर्गः १२। दशवर्गः १३। नववर्गः १४। सप्तवर्गः १५। षड्वर्गः १६। पञ्चवर्गः १७। चतुर्वर्गः १८। त्रिवर्गः १९। एते च यथोत्तरमन्तरङ्गवर्गाः। तत्र षड्त्रिंशद्वर्गः “तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम्। शाब्दे परे च निष्णातो ब्रह्मण्युपशमाश्रयम् १। तत्र भागवतान् धर्मात् शिक्षेद्गुर्वात्मदैवतः। अमाययानुवृत्त्या च यैस्तुष्येदात्मदो हरिः। सर्वतो मनसीऽसङ्गमादौ सङ्गञ्च साधुषु। दयां मैत्रीं प्रश्रयञ्च भूतेष्वद्धा यथोचितम्। शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम्। ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः। सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम्। विविक्तं चीरवसनं सन्तीषं येन केनचित्। श्रद्धां भागवते शास्त्रे निन्दामन्यत्र चापि हि। मनोवाक्काय दण्डञ्च सत्यं शमदमावपि। श्रवणं कीर्त्तनं ध्यानं हरेरद्भुतकर्मणः। जन्मकर्मगुणानाञ्च तदर्थेऽखिलचेष्टितम्। इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः पियम्। दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम्। एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम्। परिचर्य्या चोभयत्र महत्सु नृषु साधुषु। परस्परानुकथनं पावनं भगवद्यशः। मिथोरतिर्मिथस्तुष्टिः निर्वृत्तिर्मिथ आत्मनः। स्वरन्तः स्वारयन्तञ्च सिथोऽपौधहर- हरिम्। भक्त्या संजातया भक्ता बिभ्रत्युत्पुलकां तनुम्। क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद्धसन्ति नन्दन्ति वदन्त्यलौकिकाः। नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तुष्णीपरमेत्य निर्वृताः। इति भागवतान् धर्मान् भक्त्या शिक्षेत्तदुत्थया। नारायणपरो मायामञ्जस्तरति दुस्तराम्” भाग०११। ३ अ०। त्रि शद्वर्गः “सत्यं दया तपःशौचन्तितिक्षेज्या शमोदमः। अहिंसा ब्रह्मचर्य्यञ्च त्यागः स्वाध्याय आर्जवम्। सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः। नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम्। अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः। तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव!। श्रवणं कीर्त्तनं चास्य स्मरणं महतां गतेः। सेवेज्याऽवनतिर्दास्यं सख्यमात्मसमर्पणम्। नृणामयं परो धर्मः सर्वेषां समुदाहृतः। त्रिंशल्लक्षणवान् साक्षात् सर्वात्मा येन तुष्यति” भाग०७। १ अ०।

षड्विंशतिवर्गः। “हरौ गुरौ मयि भक्त्यानुवृत्त्या वितृष्णया द्वन्द्वतितिक्षया च। सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या। मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गाद्गुणकीर्त्तनान्मे। निर्वेरसाम्योपशमेन पुत्रा! जिहासया देहगेहात्मबद्धेः। अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्माभिजयेन सम्यक। सच्छ्रद्धया ब्रह्मचर्य्येण शश्वदसंप्रमादेन यमेन वाचाम्। सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन। योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपीहेत् कुशलोऽहमाख्यन्” भाग०५। ५ अ०। पञ्चविंशतिवर्गः “स्वधर्माचरणं शक्त्या विधर्माच्च निवर्त्तनम्। दैवलब्धेन सन्तोष आत्मविच्चरणार्चनम्। ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा। मितमेध्यादनं शश्वत् विविक्तक्षेमभावनम्। अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः। ब्रह्मचर्य्यं यमं शौचं स्वाध्यायः पुरुषार्चनम्। मौनं सदासनजयः स्थैर्य्यं प्राणजयः शनैः। प्रत्याहारश्चेन्द्रियाणां विषयान्मनसो हृदि। धिष्ण्यानामेकदेशे च मनसः प्राणधारणा। वैकुण्ठलीलामिध्यानं समाधानं तथात्मनः। एतैरन्यैश्च पाथ भिर्मनो दुष्टमसत्पथे। बुद्ध्या युञ्जीत शनकैर्जितप्राणोह्यतन्द्रितः” भाग० ३२८ अ०। चतुर्विंशतिवर्गः “मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम्। परिचर्य्या स्तुतिः प्रह्वगुणकर्मानुकीर्त्तनम्। मत्कथा- श्रवणे श्रद्धा मदनुध्यानमुद्धव!। सर्वलोभोपहरणं दास्येनात्मनिवेदनम्। मज्जन्मकर्मकथनं मम पर्वानुमोदनम्। गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सवः। यात्राबलिविधानं च सर्ववार्षिकपर्वनु। वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम्। ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः। उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि। समार्जनोपलेपाभ्यां सेकमण्डलवर्त्तनैः। गृहशुश्रूषणं मह्यं दासवद्यदमायया। अमानित्वमदम्भित्वं कृतस्यापरिकीर्त्तनम्। अपि दीपावलोकं मे नो पयुञ्ज्यान्निवेदितम्। यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः। तत् तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते। मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेदृढम्। पुष्पोद्यानानि रम्याणि पूजापात्रोत्सवाश्रितान्। पूजादीनां प्रवाहार्थं सदा पर्वण्यथान्वहम्। क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात्। प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम्। पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात्” भाग०११ २७ अ०। विंशतिवर्गः “सेवितेनानिमित्तेन स्वधर्मेण महीयसा। क्रियायोगेण शस्तेन नातिहिस्रेण नित्यशः। मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः। भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च। महतां बहुमानेन दीनानाथानुकम्पया। मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च। आध्यात्मिकानुश्रवणान्नामसंकीर्त्तनाच्च मे। आर्जवेनार्य्यसङ्गेन निरहङ्क्रियया तथा। मद्धर्माचरणैरेतैः परिसंशुद्ध आशयः। पुरुषश्चाञ्जसाभ्येति श्रुतमात्रगुणं हि माम्” भाग० ३। २९ अ०। एकोनविंशतिवर्गः “सच्छ्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया। योगेश्वरोपासनया च नित्यं पुण्यश्रवःकथया पुण्यया च। अथेन्द्रियारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण। विविक्तरुच्या परितोष आत्मन् विना हरेर्गुणपीयूषपानात्। अहिंसया पारमहंस्यचर्य्यया स्मृत्या मुकुन्दाचरिताग्र्यशीधुना। यमैरकामैर्नियमैरनिन्दया निरीहया द्वन्द्वतितिक्षया च। हरेर्मुहुस्तत्परकर्णपूरगुणाभिधानेन विजृम्भमाणया। भक्त्या ह्यसङ्गः सटसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रितिः” भाग० ४। २२ अ०। अष्टादशवर्गः “मयि भावेन सत्येन मत्कथाश्रवणेन च। सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः। ब्रह्मचर्य्येण मौ- नेन स्वधर्मेण महीयसा। यदृच्छयोपस्थितेन सन्तुष्टो मितभुक् मुनिः। विविक्तशरणः शान्तो मत्रः करुण आत्मवान्। सानुबन्धे च देहेऽस्मिन्न कुवन्नसदाग्रहम्। ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च। निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः। उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक्। मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते। सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्” भाग० ३ २७ अ०। पञ्चदशवर्गः “श्रद्धामृतकथायां मे शश्वन्मदनुकीर्त्तनम्। परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम। आदरः परिचर्य्यायां सर्वाङ्गैरभिवन्दनम्। मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः। मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम्। मय्यर्पणञ्च मनसः सर्वकामविवर्जनम्। मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च। इष्टं दत्तं हुतं भुक्तं मदर्थे यद्व्रतं तपः। एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदनम्। मयि सञ्जायते भक्तिः कोऽन्योऽथास्यावशिष्यते” भाग० ११। १९ अ०। त्रयोदशवर्गः “कुर्य्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन्। मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः। देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान्। देवा सुरमनुष्येषु मद्भक्ताचरितानि च। पृथक्मत्रेण वामह्यं पर्वयात्रामहोत्सवान्। कारयेद्गीतनृत्याद्यैर्महाराजविभूतिभिः। मामेव सर्वभूतेषु बहिरन्तरथा वृतम्। ईक्षेतात्मनि चात्मानं यथास्वममलाशयः। इति सर्वाणि भूतानि मद्भावेन महाद्युते!। सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः। ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके। अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः। विसृज्य स्वयमन्यां स्वां दृशं व्रीडां च दैहिकीम्। प्रणमेद्दण्डवद्भूमावाश्वचाण्डालगोस्यरम्। यावत् सर्वेषु भूतेषु मद्भावो नोपजायते। तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः। नरेष्वमीक्ष्ण मद्भावं पुंसो भावयतोऽचिरात्। स्पर्द्धासूयातिरस्काराः साहङ्कारा वियन्ति हि” भाग० ३१। २९ अ०। द्वादशवर्गः “गुरुशुश्रूषया भक्त्या सर्वलाभार्पणेन च। सङ्गेन साधुभक्तानामीश्वराराधनेन च। श्रद्धया तत्कथायाञ्च कीर्त्तनैर्गुणकर्मणाम्। तत्पादाम्बु रुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः। हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः। इति भूतानि मनसा कामैस्तैः साधु मानयेत्। एवं निर्जितषड्वर्गैः क्रियते भक्ति- रीश्वरे। वासुदेवे भगवति यथा संलभते रतिम्। निशम्य कर्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुभिः कृतानि। यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति। यदाग्रहग्रस्त इव क्वचिद्धसप्त्वाक्रन्दते ध्यायति वन्दते जनम्। मुहुः श्वसन् वक्ति हरे! जगत्पते! नारायणेत्यात्ममतिर्गतत्रपः। तदा पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशयाकृतिः। निर्दग्धवीजानुशयो महीयान् भक्तिप्रयोगेण समेत्यधोक्षजम्” भाग० ७७। “एकादशवर्गः “स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुकीर्त्तने। करौ हरेर्मन्दिरमांर्जनादिषु श्रुती चकाराच्युतसत्कथोदये। मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम्। घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसना तदर्पिता। पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने। कामं च दास्येन तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः” भाग० ९४। दशवर्गः “आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ। तस्य तैर्यत् क्षणो नीत उत्तमश्लोकवार्त्तया। तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत। न खादन्ति न लेहन्ति किं ग्रामपशवोऽपरे। श्वविड्वराहोष्ट्रखरेः संस्तुतः पुरुषः पशुः। न यत्कर्णपथोपेतो जातु नाम गदाग्रजः। बिले वतोरुक्रमविक्रमान् न ये शृण्वतः कर्णपुटे नरस्य। जिह्वाऽसती दार्दुरिकेव सूत! न चोपगायत्युरुगायनाथाः। भारः परं पट्टकिरीटजुष्टमप्युत्तमाङ्गं न नमेन्मुकुन्दम्। शावौ करौ नी कुरुतः सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा। बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये। पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजती हरेर्यौ। जीवन् शवो भागवताङ्घ्रिरेणुं न जातु मर्त्त्योऽभिलभेत यस्तु। श्रीविष्णुपद्यामनुजस्तुलस्याः श्वसन् शवी यस्तु न वेद गन्धम्। तदश्मसारं हृदयं वतेदं यद्गृह्यमाणैर्हरिनामधेयैः। न विक्रियेताथ यदा विकारो नेत्रे जलं नात्ररुहेषु हर्षः” भाग०२ ३ अ०। नववर्गः “श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्। इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा। क्रियते भगवत्यद्धा तन्मन्येऽधीतसुत्तमम्” भाग० ७। ५ अ०। सप्तवर्गः “अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना। तीब्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्। ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा। तपोयुक्तेन योगेन तीब्रेणात्मसमाधिना। प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम्। तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः” भाग०३। २७ अ०। षड्वर्गः “वाणी गुणानुकथने, श्रवणे कथायां, हस्तौ च च कर्मसु, मनस्तव पादयो र्नः। स्मृत्यां, शिरस्तव निवास जगत्! प्रणामे, दृष्टिः सतां दर्शनेऽस्तु भगवत्तनूनाम्” भाग० १०। ११ अ०। पञ्चवर्गः “शृण्वतां गदतां शवदर्चतां त्वाभिवन्दताम्। नृणां संवदतामन्तर्हृदि भास्यमलात्मनाम्” भाग० १०। ८६ अ०। चतुर्वर्गः “तस्मादेकेन मनसा भगवान् सात्वताम्पतिः। श्रोतव्यः कीर्त्तितव्यश्च ध्येयः पूज्यश्च नित्यदाः” भाग० १। २ अ०। त्रिवर्गः “तस्माद्भारत! सर्वात्मा भगवान् हरिरीश्वरः। श्रोतव्यः कीर्त्तितव्यश्च स्मर्त्तव्यश्चेच्छताऽभयम्” भाग० २। १ अ० “तस्यात् सर्वात्मना राजन्! हरिः सर्वत्र सर्वदा। श्रोतव्यः कीर्त्तितव्यश्च स्मर्त्तव्यो भगवान्नृणाम्” भाग० २। २ अ० पुनर्वचनं त्रिवर्गस्यान्तरङ्गतमत्वख्यापनार्थम्”। “भज इत्येव वै धातुः सेवायां परिकीर्त्तितः। तस्मात् सेवा बुधैः प्रोक्ता भक्तिः साधनभूयसी” गारुडे २३१ अ०। अथ विशेषलक्षणानि। गौतमीयतन्त्रे “देवतायाञ्च मन्त्रे च तथा मन्त्रप्रदे गुरौ। भक्तिरष्टबिधा यस्य तस्य कृष्णः प्रसीदति। तद्भक्तजनवात्सल्यं १ पूजायाञ्चनुमोदंनम् २। सुमना अर्चयेन्नित्यं ३ तदर्थे दम्भवर्जनम् ४। तत्कथाश्रवणेराग ५ स्तदर्थे चाङ्गविक्रिया ६। तदनुस्मरणं ७ नित्यं यस्तन्नाम्नोपजीवति ८। भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते। स मुनिः सत्यवादी च कीर्त्तिमान् स भवेन्नरः”। पाद्मे कार्त्तिकमाहात्म्ये यमधूभ्रकेशसंवादे। “श्रवणं कीर्त्तनं पूजा सर्वकर्मार्पणं ऋतिः। वरिचर्य्या नमस्कारः प्रेम स्वात्मार्प्रणं हरौ”। तत्रैवोत्तरे शिवपार्वतीसंवादे “आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः। धारणञ्चोर्द्धपुण्ड्राणां तन्मन्त्राणां परिग्रहः। अर्चनञ्च जपीध्यानं तन्नामस्मरणं तथा। कीर्त्तनं श्रवणञ्चैव वन्दनं पादसेवनम्। तत्पादोदकसेवा च तन्निवेदितभोजनम्। तदीयानाञ्च संसेवा द्वादशीव्रतनि ष्ठता। तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः। भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये”। किञ्च। “दर्शनं भगवन्मूर्त्तेः स्पर्शनं क्षेत्रसेवनम्। आघ्राणं धूपशेषादेर्निर्माल्यस्य च धारणम्। नृत्यं भगवदग्रे च तथावीणादिवादनम्। कृष्णलीलाद्यभिनयः श्रीभागवतसेवनम्। पद्माक्षमालादिधृतिरेकादश्यादिजागरः। प्रासादरचनाद्यन्यज्ज्ञेयं शास्त्रानुसारतः। लिखिता भगवर्द्धर्मा भक्तानां लक्षणानि च। तानि ज्ञेयानि सर्वाणि भक्तेर्वै लक्षणानि ह। तेषु ज्ञेयानि गौणानि मुख्यानि च विवेकिभिः। बहिरङ्गान्तरङ्गाणि प्रेमसिद्धौ च तानि यत्। भेदास्तु विविधाभक्तेर्भक्तभावादिभेदतः। मुक्ताफलादिग्रन्थेभ्यो ज्ञेयास्तल्लिखनैरलम्” “प्रेमभक्तौ च सिद्धायां सर्वेऽर्थाः सेवकाः स्वयम्। भगवांश्चातिवश्यः स्याल्लिख्यतेऽस्याः सुलक्षणम्। अथ प्रेमभक्तिलक्षणम्। नारदपञ्चरात्रे “अनन्यममता विष्णौ ममता प्रेमसङ्गता। भक्तिरित्युच्यतेः भीष्मप्रह्वादोद्धवनारदैः। प्रेमभक्तेश्च महात्म्यं भक्तेमाहात्म्यकं परम्। सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम्। चिह्नानि प्रेमसम्पत्तेर्बाह्यान्याभ्यन्तराणि च। अथ प्रेमसम्पत्ति चिह्नानि ७ मस्कन्धे प्रह्रादस्य वालानुशासने। “निशभ्य कर्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुमिः कृतानि” इत्यादि ४६२६ पृ० दर्शितम्। एकादशे च कवियोगेश्वरोत्तरे “शृण्वन् सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके। गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः। एवंव्रतः सप्रियनामकीत्त्यां जातानुरागो द्रुतचित्त उच्चैः। हसत्यथो रोदिति रौति गायत्युन्मादवन्नृत्यति लोकबाह्यः”। श्रीभगवदुद्धवसंवादे च “कथं विना रोमहर्षं द्रवता चेतसा विना। विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाऽऽशयः। वाग्गद्गदा द्रवते यस्य चित्तं रोदित्यभीक्ष्णं हसति क्वचिच्च। विलज्ज। उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति। यथोक्तभक्त्यशक्तौ तु भगवच्चरणाम्बुजम्। शरणागतभावेन कृत्स्नभीतिघ्नमाश्रयेत्” हरिभक्तिविलासे ११ विलासः। उत्तमभक्तेर्लक्षणं यथा “अन्याभिलाषिताशून्यं ज्ञानकर्माद्यनावृतम्। आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा”। तथा नारदपञ्चरात्रे। “सर्वोपाधिविनिर्मुक्तं तत्परत्वेन निर्मलम्। हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते” भाग० ३ स्क० च। सा उत्तमा भक्तिः षडविधा यथा “क्लेशघ्नी शुभदा मोक्षलघुदाकृत् सुदुर्लभा। सान्द्रानन्दविशेषात्मा श्रीकृष्णाकर्षणी च सा”। तत्रास्याः क्लेहघ्नत्वम् क्लेशस्तु पापं तद्वीजमविद्या चेति ते त्रिधा”। शुभदत्वं यथा “शुभानि प्रीणनं सर्वजगतामनुरक्तता। सद्गुणा सुखमित्यादीन्याख्यातानि मनीषिभिः” मोक्षलघुताकृद्यथा “मनागेव प्ररूढायां हृदये भगवद्रतौ। पुरुषार्थास्तु चत्वारस्तृणायन्ते समन्ततः”। सुदुर्लभा यथा “साधनौधैरनासङ्गैरलभ्या सुचिरादपि। हरिणा चाशुदेयेति द्विधा सा स्यात् सुदुर्लमा। सान्द्रानन्दविशेषात्मा यथा “ब्रह्मानन्दो भवेदेष चेत्परार्द्धगुणीकृतः। नैति भक्तिसुखाम्भोधेः परमाणुतुलामपि”। श्रीकृष्णाकर्षणी यथा “कृत्वा हरिं प्रेमभाजं प्रियवर्गसमन्वितम्। भक्तिर्वशीकरोतीति श्रीकृष्णाकर्षणी च सा”। सा उत्तमा भक्तिस्त्रिधा यथा “सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता”। साधनभक्तिर्यथा। कृतिसाध्या भवेत् साध्यभावा सा साधनाभिधा। नित्यसिद्धस्य भावस्य प्राकठ्यं हृदि साध्यता”। भावभक्तिर्यथा “शुद्धसत्त्वविशेषात्मा प्रेम सूर्य्या शुसाम्यभाक्। रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते”। प्रेमभक्तिर्यथा “सम्यङ्मसृणितस्वान्तो ममतातिशयाङ्कितः। भावः स एव सान्द्रात्मा वुधैः प्रेमा निगद्यते” भक्तिरसामृतसिन्धौ पूर्वविभागः।

भक्तियोग = पु० भक्तिरूपो योगश्चित्तैकाग्रतासाधनम् उपायभेदः। भक्तिरूपे योगे भक्तियोगस्य ज्ञानात् श्रैष्ठ्यम् स्वल्पायाससाध्यत्वात् गीतायाम् उक्तं यथा “एवं सततयुक्ता ये भक्तास्त्वां पर्य्युपासते। ये चाप्यक्षरगव्यक्तं तेषां के योगवित्तमाः” भू०। “द्वितीयप्रभृतिष्वध्यायेषु विभूत्यन्तेषु परमात्मनो ब्रह्मणोऽक्षरस्य बिध्वस्तसर्वविशेषणस्योपासनमुक्तं सर्वयोगैश्वर्य्यसर्वज्ञानशक्तिमत्सत्त्वोपाघेरीश्वरस्य तव चोपासनम्। तत्र तत्रोक्तं विश्वरूपाध्याये तु समस्तजगदात्मरूपं विश्वरूपं त्वदीयं दर्शितमुपासनार्थमेव त्वया तच्च दर्शयित्वोक्तवानसि सत्कर्मकृदित्यादिना अहमनयोरुभयोः पक्ष योर्विशिष्टतरबुभुत्सया त्वां पृच्छामीति अर्जुन उवाच। एवमिति। एवं सततयुक्ता नैरन्तर्य्येण भगवत्कर्मादौ यथोक्तेऽर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः ये भक्ताः अनन्यशरणाः सन्तस्त्वां यथादर्शितं विश्वरूपम्पर्य्युपासते ध्यायन्ति ये चाप्यक्षरमिति ये चापि त्यक्तसर्वैषणाः सन्न्यस्तसर्वकर्माणो यथाविशैषितं ब्रह्माक्षरं निरस्तसर्वोपाधित्वादव्यक्तमकरणगोचरं यद्धि लोके करणगोचरन्तद्व्यक्तमुच्यते अञ्जेर्धातोस्तत्कर्मकत्वादिदं त्वक्षरं तद्विपरीतं शिष्टैश्चीच्यमानैर्विशेषणैर्विशिष्टं तद्ये चापि पर्य्युपासते तेषामुभयेषां मध्ये के योगवित्तमाः मे अतिशयेन योगविद इत्यर्थः” भा०। “श्रीभगवानुवाच। मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते। श्रद्धया परयोपेतास्ते मे युक्ततसा मताः” मू०। “ये त्वक्षरोपासकाः सम्यग्दर्शिनो निवृत्तैषणास्ते तावत्तिष्ठन्तु तान् प्रति यद्वक्तव्य तदुपरिष्टाद्वक्ष्यामः ये त्वितरे मयीति। मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः, ये भक्ताः सन्तो मां सर्वयोगेश्वराणामधीश्वरं सर्वज्ञं विसुक्तरागादिक्लेशतिमिरदृष्टिं नित्ययुक्ता अतीतानन्तराध्यायान्तोक्तश्लोकार्थन्यायेन सततयुक्ताः सन्त उपासते श्रद्धया परया प्रकृष्टया उपेताः मे भम मताः अभिप्रेता युक्ततमा इति नैरन्तर्य्येण हि ते मच्चित्ततयाहोरात्रमतिवाहयन्ति अतो युक्तं तान् प्रति युक्ततमा इति वक्तुम्” भा०। “ये त्वक्षरमनिर्देश्यमव्यक्तं पर्य्युपासते। सर्वत्रगमचिन्त्यञ्च कूटस्थमचलं ध्रुवम्”। “किमितरे युक्ततमा न भवन्ति न, किन्तु तान् पति यद्वक्तव्यन्तत् शृणु ये तु अक्षरमनिर्देश्यमव्यक्तमव्यक्तत्वादशब्दगोचरमिति न निर्देष्टुं शक्यते अतोऽनिर्देश्यमव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्य्युपासते परिसमन्तादुपासते उपासनं नाम यथाशास्त्रमुपास्यस्य विषयीकरणेन सामीप्यमुपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यदासनन्तदुपासनमाचक्षते। अक्षरस्य विशेषणमाह सर्वत्रगं व्योमवद्व्यापि अचिन्त्यं चाव्यक्तत्वादचिन्त्यं यद्धि करणगोचरं तन्मनसापि चिन्त्यं तद्विपरीतत्वादचिन्त्यमक्षरं कूटस्थं दृश्यमानगुणमन्तर्दोषं वस्तु कूटरूपं कूटसाक्ष्यमित्यादौ कूटशब्दः प्रसिद्धो लोके तथा चाविद्यानेकसंसारवीजमन्तर्दोषं मायापकृत्यादिशब्दवाच्यतया “मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्” “मम माया दुरत्यया” इत्यादौ प्रसिद्धं यत्तत् कूटं तस्मिन् कूटे स्थितं तदध्यक्षतया। अथ वा राशिरिव स्थितं कूटस्थमत एवाचलं यस्मादचलं तस्मात् ध्रुवं नित्यसित्यर्थः” भा०। “संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः। ते प्राप्न वन्ति मामेव सर्वभूतहिते रताः” भू०। “संनियम्येति। संनियम्य सम्यक् नियम्य संहृत्य इन्द्रियग्रामं इन्द्रियसमुदायं सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धिर्येषामिष्टानिष्टप्राप्तौ ते समबुद्धयः ते समबुद्धयः ते ये एवंविधाः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः न तेषां वक्तव्यं किञ्चित् मां ते प्राप्नुवन्ति इति ज्ञानित्वादात्मैव मे मतमित्युक्तत्वात् न हि भगवत्स्वरूपाणां सतां युक्ततमत्वमयुक्ततमत्वं वा वाच्यम्” भा०। “क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते” मू०। “किन्तु क्लेशोऽधिकतरो यद्यपि मत्कर्मादिपराणां क्लेशोधिकस्तथापि अधिकतरस्त्वक्षरात्मनाम्। परमार्थदर्शिनां देहाभिमानपरित्यागनिमित्तः अव्यक्तासक्तचेतसामव्यक्ते आसक्त चित्तं येषां ते अव्यक्तासक्तचेतसाम् अव्यक्ता हि यस्मादया गतिरक्षरात्मिका दुःखं देहवद्भिर्देहाभिमानवद्भिरवाप्यते अतः क्लेशोऽधिकतरः” भा०। “ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः। अनन्येनैव योगेन मां ध्यायन्त उपासते” म०। “अक्षरोपासकानां यद्वर्त्तनं तदुपरिष्टाद् वक्ष्यामः ये त्विति। ये तु सर्वाणि कर्माणि मयीश्वरे सन्न्यस्य मत्परा अहं परो येषां ते मत्पराः सन्तः अनन्येनैव अविद्यमानमन्यदालम्बनं विश्वरूपं देवमात्मानं मुक्त्वा यस्य सोऽनन्यस्तेनानन्येनैव केवलेन योगेन समाधिना मां ध्यायन्तश्चिन्तयन्त उपासते” भा०। “तेषामहं समुद्धर्त्ता मृत्युसंसारसागरात्। भवामि न चिरात् पार्थ! मय्यावेशितचेतसाम्”। “तेषां किमित्याह तेषामिति। तेषां मदुपासनैकपराणाम् अहमीश्वरः समुद्वर्त्ता कुत इत्याह मृत्युसंसारसागरात् मृत्युयुक्तः मसारो मृत्युसंसारः स एव सागरवत् सागरो दुरुत्तरत्वात् तस्मान्मृत्युसंसारसागरादहं तेषां समुद्धर्त्ता भवामि न चिरात् किं तंर्हि क्षिप्रमेव हे पार्थ! मय्यावेशितचेतसां मयि विश्वरूपे आवेशितं समाहितं चेतो येषां ते मय्यावेशितचेतसस्तेषाम्” भा०। “मय्येव मन आधत्स्व मयि बुद्धिं निवेशय। निवसिष्यसि मय्येव अत ऊर्द्ध्वं न संशयः। अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्। अभ्यासयोगेन ततो मामिच्छ्वाप्तुं धनञ्जय!। अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव। मदर्थमपि कर्माणि कुर्वन् सिद्धि- मवाप्स्यसि। अथैतदप्यशक्तीऽसि कर्त्तुं मद्योगमाश्रितः। सर्वकर्मफलत्यागं ततः कुरु यतात्मबान्। श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते। ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्। अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहङ्कारः समदुःखसुखः क्षमी। सन्तुष्टः रुततं योगी यतात्मा दृढनिश्चयः। मय्यर्पितमनोबुद्धिर्योमद्भक्तः समे प्रियः। यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः। अनपेक्षः शुचिर्दक्ष उदासीनोगतव्यथः। सर्वारम्भपरित्यागी यो भद्भक्तः स मे प्रियः। यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः। समः शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः। तुल्यनिन्दास्तुतिर्भौनी सन्तुष्टी येन केनचित्। अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः। ये तु धर्मामृतमिदं यथोक्तं पर्युपासते। श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः” मू० गीता०१२ अ०।

भक्तिरस = पु० भक्तिः ईश्वरविषया रतिरेव रसः। तत्स्थायिभावके रसभेदे “विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः। स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः। एषः कृष्णरतिस्थायिभावो भक्तिरसो भवेत्” इति भक्तिरसामृतसिन्धुः। मुक्ताफले तद्वीकायाञ्च भक्तेरसत्वम् व्यवस्थापितं यथा “भक्तिरसस्यैव हास्यशृङ्गारकरुण रौद्रभयानकवीभत्सशान्ताद्भुतवीररूपेणानुभवात् व्यासादिभिः वर्णितस्य विष्णोर्विष्णु भक्तानां वा चरित्रस्य नवरसात्मकस्य श्रवणादिना जनितश्चमत्कारो हि भक्तिरसः” मुक्ता०। “भक्तिर्विहिताऽविहिता च सैव परां प्रकर्षरेखामापन्नारसः। यदाहुः। “भावा एवातिसम्पन्नाः प्रयान्ति रसताममी” इति। भक्तिरसानुभावाच्च भक्तः यथा तृप्त्यनुभवात् तृप्त इत्युच्यते सचानुभवो नवधा हास्यादि भङ्गिभेदेन हास्यादय एव हि भगवति प्रयुज्यमानाः “तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेदिति” भक्तिलक्षणाक्रान्तत्वात् भक्तिरसपदवीमासादयन्तीति भावः। हास्यादिलक्षण तु र्वक्ष्यते। ते चामी नवापि सुखः ख मोहात्मकत्रैगुण्यव्यतिकरोद्भवाः तथा हि। प्रथमे "यो रजोमूलाः, मध्यास्तु तमोमूलाः, चरमे सत्त्वमूलः। रतिहासादयो हि रजःप्रभृतीनां विकारा रत्युक्तमेकादशस्य पञ्चविंशाध्याये। तत्रापि प्रथमे त्रिषु- क्रमात् सत्त्वसंमिश्रं तमःमंमिश्रं सत्त्वतमःसंमिश्रं च रजोमूलम्। मध्येषु रजोमिश्रं सत्त्वमिश्रं रजः सत्त्वमिश्रञ्च तमः। चरमेषु तमोमिश्रं रजोमिश्रं रजस्तमोमिश्रं च सत्त्वम् हेयाभिधानक्रमेण चैष क्रमः”। आक्षेपपूर्वकं तस्या रसरूपत्वं तत्र व्यवस्थापितं यथा “तस्माद्विभावादिरससामग्रीविरहान्न भक्ते रसत्वम् अतएवायमन्यैः “एवं भक्तावपि वाच्यमिति” वदद्भिः स्रत्यादिष्टः। अत उत्तरं पठति। व्यासादिभिरिति। वर्णितस्य चरित्रस्य विष्णुभक्ताः गोप्यादयः श्रवणादिनेत्यादिशब्दाद्दर्शर्नकीर्त्तनस्मरणाभिनयात् चमत्कारः सामाजिकानां हि यस्मादेवंसामग्रीको भक्तिरसस्तस्मादनपह्नवनीय इत्यर्थः। तत्रैषा सामग्री केनाप्युपायेन मनीनिवेशः स्थायी चरित्रश्रवणादय उद्दीपनविभावा विष्णु विष्णुभक्ताश्चालम्बनम् अनुभावास्तु स्तम्भादयो वक्ष्यमाणा यथायोग्यं धृत्यादिका व्यभिचारिणश्च। उपायस्तु रतिहासादिः। कविभिर्वर्णितस्येत्यनेन महाकविप्रबन्धसमर्प्यमाणेष्वेव रसव्यवहारो नान्यत्रेऽत्युक्तम्। एवमेवैतत् अनुकार्य्येषु हि जानकीरामभद्रादिषु रत्यादिमात्रं चमत्कारश्च यद्यपि शृङ्गारादौ क्वचिदस्ति। तथापि तस्य भयानकादावनुपलम्भान्न तत्र रसव्यवहारः। अतएव च “तानि चेन्नाट्यकाव्ययोः” इत्यादीनि विशेषणानि। अभिनयैरुपदर्श्यमानादपि सन्दर्मैः समर्प्यमाणो रसोऽतिस्वदते अतएवोक्तं “कविवागभिनेयञ्च तदुपायो द्विधेष्यते। वस्तुशक्तिमहिम्ना तु प्रथमोऽत्र विशिष्यते” इति। यत्त्व भिनवगुप्तहेमचन्द्रभ्याम् “एवं भक्तावपि बाच्यम्” इत्युक्तं तदसत् रसत्वस्य दर्शितत्वात्। सामग्रीसद्भावेऽपि पत्याख्यानमरोचकतामात्रशरणम्। न च संगच्छमानोप्य यमसर्वविषयत्वात् रसत्वात्च्यवतामिति चोद्यं तथा सति सर्वरसोच्छेदापातात्। तथा हि शोत्रियजरन्मीमांसकादयो हि नाट्यमण्डपान्तःप्रविष्टा अपि चमत्काराभावात् कीशप्राया एव। एवं प्रशान्तब्रह्मचारिप्रभृतयः शृङ्गाररसास्वादे बालानां गाढरागाणाञ्च शान्तरसचर्वणानभिज्ञत्वम्। अननुभूतशोकस्पर्शानां च करुणरसास्वादावसरे पाषाणप्रख्यत्वम् तस्मात् सवासनस्यैव रसचर्वणेति भक्तिरसदर्शनम्”।

भक्तिल = पु० भक्तिं भङ्गीं लाति ला–क। साधुहये शब्दच०

भक्तिसूत्र = न० “अथातो भक्तिजिज्ञासेत्यादिके शाण्डिल्यमुनिप्रणीते सूत्रात्मकग्रन्ये।

भक्ष = अदने चु० उभ० सक० सेट्। भक्षयति–ते अबभक्षत्–त तस्य भ्वादित्वमपीत्येके भक्षति अभक्षीत्। उभयपदित्वमस्येत्यन्ये भक्षते अभक्षिष्ट।

भक्ष = पु० भक्ष–भावे कर्मणि वा घञ्। १ अशने २ भक्ष्ये च। “वषट् कर्तुः प्रथमभक्षः” श्रुतिः उञ्छा० अन्तोदात्ततास्य “गावः सोमस्य प्रथमस्य भक्षाः” सि० कौ० धृतश्रुतिः।

भक्षक = त्रि० भक्ष–ण्वुल् भक्षणकारके अमरः।

भक्षिका = स्त्री भक्ष अर्हादौ गम्ये भावे ण्वुच्। भक्षणार्हादौ “भवानिक्षुभक्षिकामर्हति ऋणे इक्षुभक्षिकां मे धारयति” सि० कौ०।

भक्ष(क्ष्य)कार = पु० भ(क्ष)क्ष्यं वा करोति कृ–अण्। भक्ष्यपिष्टकादिविक्रयोपजीविनि आपूपिके भरतः।

भक्षटक = पु० भक्ष–बा० अटन् संज्ञायां कन्। गोक्षुरे राजनि०

भक्षण = न० भक्ष–भावे ल्युट्। कठिनद्रव्यस्य गलाधःकरणव्यापारे भक्षणप्रकारः सुश्रुतोक्तः आहारशब्दे ८९७ पृष्ठादौ दृश्यः।

भक्ष(क्ष्य)पत्रा = स्त्री भक्ष्यं पत्रमस्याः। ताम्बूलीलतायाम् राजनि०।

भक्षालि = पु० भक्षाणामालिर्यत्र। देशभेदे ततो भवार्थे वुञ्। भाक्षालिक तद्देशभवे त्रि०।

भक्षिवस् = त्रि० भक्ष–क्वसु वेदे न द्वित्वम्। भक्षणे अथर्व० ६। १९। लोके तु बिभक्षिवस् इत्येव त्रि० स्त्रियां ङीप् बिभक्षुषी।

भक्ष्य = त्रि० भक्ष–कर्मणि ण्यत्। १ अदनीये “कठिनं विशदमव्यवहार्य्यं भक्ष्यम् महाभाष्योक्ते विविक्तावयवे कठिने २ खाद्ये च “भक्ष्येण मिश्रीकरणम्” पा० मिश्रीकरणद्वारा सामर्थ्यम् ३ त०। गुडधानाः।

भक्ष्यालाबू = स्त्री कर्म०। राजालाबूलतायां राजनि०।

***