ब्र(व्र)ह्माङ्गभू = पु० ब्रह्मणोऽङ्गात् भवति भू–क्विप्। घोटके हारा०। ब्रह्मात्मभूशब्दे दृश्यम्।
ब्र(व्र)ह्माञ्जलि = पु० ब्र(व्र)ह्मण वेदपाठाय अञ्जलिः गुरौ कृतोविनयाञ्जलिः, स्वरविशेषज्ञापनार्थं वा कृतीञ्जलिः संकुचितपाणिः। वेदपाठार्थं गुरुनिकटे कार्य्ये १ विनयाञ्जलौ स्वरविशेषार्थज्ञापनाय कृतसङ्कोचे २ पाणिद्वये च अमरः।
ब्र(व्र)ह्माणी = पु० ब्र(व्र)ह्माणम् आनयति जीवयति अनणिच्–अण् पूर्व० णत्वम्। ब्रह्मशक्तौ “हंसयुक्ते विमानस्था साक्षसूत्रकमण्डलुः। आयाता ब्रह्मणः शक्तिः ब्रह्माणी साऽभिधीयते” इति देवीमा०। “ब्रह्माणी ब्रह्मजननाद्” देवीपु०। ब्रह्मशब्दात् ङीष् आनङ् चेति त्वपाणिनीयम्। २ रेणुकानामगन्धद्रव्ये रत्नमा०। २ राजरीतौ राजनि०। ३ ब्रह्मणोऽर्द्धशरीरादुत्पन्नायां शतरूपायाम्। “ततः संजपतस्तस्य भित्त्वा देहमकल्मषम्। स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत्। शतरूपा च सा ख्याता सावित्री च निगद्यते। सरस्वत्यथ गायत्री ब्रह्माणीत्युच्यते च सा” मत्स्यपु० ३ अ०।
ब्र(व्र)ह्माण्ड = न० ६ त०। “तदण्डमभवद्धैमं सहस्रांशुसमप्रमम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः” इति मनूक्ते ब्रह्मण उत्पादके अण्डाकारे १ भुवनकोषे “ब्रह्माण्डभाण्डीदरभ्राम्यत्पिण्डितचण्डिमेति” वीरचरितम्। ब्रह्माण्डसंस्था सू० सि० दर्शिता यथा “वासुदेवः परं ब्रह्म तन्मूर्त्तिः पुरुषः परः। अव्यक्तो निर्गुणः शान्तः पञ्चविंशात् परोऽव्ययः। प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः। सङ्कर्षणोऽपः सृष्ट्वादौ तास वीजमवासृजत्। तदण्डमभवद्धैमं सर्वत्र तमसावृतम्। तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः। हिरण्यगर्भो भगवानेष छन्दसि पठ्यते। आदित्यो ह्यादिभूतत्वात् प्रसूत्या सूर्य उच्यते। परं ज्योतिस्तमःपारे सूर्योऽयं सवितेति च। पर्येति भुवनान्येष भावयन् भूतभावनः” इत्युपक्रमे “गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात्। विभागं कल्पयामास यथास्वं वेददर्शनात्। ग्रहनक्षत्रताराणां भूमेर्विश्वस्य वा विभुः। देवा- सुरमनुष्याणां सिद्धानां च यथाक्रमम्। ब्रह्माण्डमेतत् सुषिरं तत्रेदं भूर्भुवादिकम्। कटाहद्वितयस्यैव सम्पुटं गोलकाकृति (१)। ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाऽभिधीयते। तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तपा। मन्दामरेज्यभ्रपुत्रसूर्यशुक्रेन्दुजेन्दवः। परिभ्रमन्त्यधोऽधस्था। सिद्धविद्याधरा घनाः। उपरिष्टात् स्थितास्तस्य सेन्द्रा देवा महर्षयः। अधस्तादसुरास्तद्वत्द्विषन्तोऽन्योन्यमाश्रिताः। ततः समन्तात् परिधिः क्रमेणायं महाणवः। मेखलेव स्थितो धात्र्या देवासुरविभागकृत्। समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधेः। द्वीपेषु दिक्षु पूर्वादिनगर्य्यो देवनिर्मिताः। भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता। भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा। याम्यायां भारते वर्षे लङ्का तद्वतन्महापुरी। पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्त्तिता। उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्त्तिता। तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः” सू० सि०। (१) “एतत् प्रागुक्तं ब्रह्मणाघिष्ठितं सुवर्णाण्डं सुषिरमवकाशात्मकं तत्रावकाशे इदं जगत् भूर्भुवादिकं भूर्भुवःस्वर्गात्मकमवस्थितं न बहिः। नन्वण्डस्य गोलाकारत्वेनान्तरवकाशात्मकत्वमसम्भवर्तात्यत आह कटाहद्वितयस्येति। कटाहोऽर्द्धगोलाकारं सावकाशं पात्रं तस्य द्वितयं द्वयं समं तस्य। एवकारो न्यूनाधिकव्यवच्छेदकार्थः। सम्पुटमाभिमुख्येन मिलितं गोलकाकृतिर्मोलाकारः स्यात्। तथाच न क्षतिः” रङ्गना०। “भूभूधरत्रिदशदानवमानवाद्या येऽयाश्च धिष्ण्यगगनेचरचक्रकक्षाः। लोकव्यवस्थितिरुपर्युपरि प्रदिष्टा ब्रह्माण्डभाण्डजठरे तदिदं समस्तम्” सि० शि०। इदानीमन्योदितं ब्रह्माण्डमानं पूर्वं कथितमपि प्रसङ्गादनुवदति स्म” प्रमिता०। “कोटिघ्नैर्नखनन्दषट्कनखभूभूमृद्भुजङ्गेन्दुभि १८७१२०६९२०००००००० र्ज्योतिः शास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः। तद्ब्रह्माण्डकटाहसंपुटतटे केचिज्जगुर्वेष्ठनं केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः। करतलकलितामलकवदमलं सकलं विदन्ति ये गोलम् दिनकरकरनिकरनिहततमसो नभसः स परिधिरुदितस्तैः। ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि। यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदम् मतं नः”। प्रमाणशून्यत्वात् प्रयोजनाभावाच्चास्माभिर्ब्रह्माण्डमानं न कथितमित्यर्थः” प्रमि०। दानार्थकल्पिते महादानान्तर्गते ब्रह्माण्डात्मकस्वर्णादिघटिते २ पदार्थे तत्स्वरूपादि हेमा० दा० ख० मत्स्यपु० उक्तं यथा “अथातः संप्रबक्ष्यामि ब्रह्माण्डं विधिपूर्वकम्। यच्छ्रेष्टं सर्वभूतानां महापातकनाशनम्। पुण्यं दिनमथासाद्य तुलापुरुषदानवत्। ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम्। लोकेशावाहनं तद्वदधिवासनकं तथा” तुलापुरुदानवदिति, कालदेशवृद्धिश्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वरणमधुपर्कदानकुण्डमण्डपवेदिकासम्भारलोकेशावहनाधिवासनादि सर्व मत्स्यपुराणोक्ततुलापुरुषदानविहितं वेदितव्यमित्यर्थः। “कुर्य्याद्विंशत्पलादूर्द्ध्वनासहस्राच्च शक्तितः। शकलद्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः”। शकलद्वयं, खण्डद्वयम्। तल्लक्षणन्तु ब्रह्माण्डपुराणे “कुम्भच्छाया भवेद्यादृक् प्रतीच्यां दिशि चन्द्रमाः। उदितः शुक्लपक्षादौ वपुरण्डस्य तादृशमिति” कुम्भच्छाया इति, कुम्भच्छाया ग्रीवाहीनकुम्भादिजेत्यवधेयम्। “दिग्गजाष्टकसंयुक्तं षड्वेदाङ्गसमन्वितम्। लोकपालाष्टकोपेतं मध्यस्थितचतुर्मुखम्। शिवाच्युतार्कशिखरमुमालक्ष्मीसमन्वितम्। वस्वादित्यमरुद्गर्भं महारत्नसमन्यितम्”। अथैतेषां दिग्गजप्रभृतीनां क्रमेण लक्षणाण्युच्यन्ते आदित्यपुराणे “शुभ्राभश्च चतुर्दंष्ट्रः श्रीमानैरावती गजः। पुष्पदन्तो वृहत्सास्नः षड्दन्तः पुष्पदन्तवान्। सामान्यपजरूपेण शेषा दिक्वरिणः स्मृताः”। तन्नामानि शास्त्रान्तरे “ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः। पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः”। वेदाङ्गानि स्कन्दपुराणे “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाञ्चिति। छन्दश्चेति षडेतानि वेदाङ्गानि प्रचक्षते। मूर्त्तानि ब्रह्मणो लोके साक्षसूत्राणि तानि तु। द्विजालिभिः शुभास्यानि वामे दधति कुण्डिकाम्”। तानि च पश्चिमदिशि वेदसन्निधौ निवेशनीयानि दिग्विशेषानाम्नानात् प्रधानं नीयमानं हि तत्राङ्गान्यपकर्षतीतिन्यायात्, वक्ष्यते च, “पश्चिमे चतुरोवेदानिति”। लोकपालरूपाण्याह विश्वकर्मा “चतुर्दन्तो गजारूढो वज्रपाणिः पुरन्द्ररुः। प्राचीपतिः प्रकर्त्तव्यो नानाभरणभूषितः। पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोऽरुणः। छागस्थः साक्षसूत्रश्च सप्तार्चिः शक्तिधारकः। ईषत्पीनो यमः कार्य्यो दण्डहस्तो विजानता। रक्तदृक् पाशधृक् क्रुद्धो निरृतिर्विकृताननः। पुंस्थिता घड्गहस्तश्च भूतवान् राक्षसावृतः। वरुणः पाशभृत् सौम्यः प्रतीच्यां मकराश्रयः। धावद्धरिणपृष्टस्थो ध्वजधारी समीरणः। दशाश्वरथगः सोमो गदापाणिर्वरप्रदः”। “शशकवाहनः” इत्यागमान्तरम्। “पूर्वोत्तरे त्रिनेत्रश्च वृषभस्थस्त्रिशूलभृत्। कपालपाणिश्चन्द्रार्द्धभूषणः परमेश्वरः”। चतुर्मुखरूपन्तु विष्णुधर्मोत्तरात् “पद्मपत्रासनस्थश्च ब्रह्मा कार्य्यश्चतुर्मुखः। अक्षमालास्रजं बिभ्रत् पुस्तकञ्च कमण्डलुम्। वासः कृष्णाजिनं तस्य पार्श्वे हंसस्तथैव च”। शिवलक्षणमुक्तं वायुपुराणे “पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनः। कपालशूलखट्वाङ्गी चन्द्रमौलिः सदाशिवः”। विष्णुलक्षणमुक्तं तुलापुरुषदाने। सूर्य्यलक्षणमुक्तं विष्णुधर्मोत्तरे “रविः कार्य्यः शुभश्मश्रुः सिन्दूरारुणसुप्रभः। पद्मासनः पद्मकरो भूषितो रशनाधरः”। उमालक्ष्मीसमन्वितमित्यत्र, शिवाच्युतयोः सन्निहिते उमालक्ष्म्यौ विधेयौ। उमालक्षणमुक्तं देवीपुराणे “गौरीं शङ्खेन्दुवर्णाभां सर्वरीशनिषेविताम्। वृत्तपद्मासनासीनां साक्षमूत्रकमण्डलुम्। वरदोद्यतरूपाद्यां सर्वमाल्यफलप्रियाम्”। वरदोद्यतरूपाद्यां, वरदाभयपाणिकामित्यर्थः। लक्ष्मीलक्षणमुक्तं पञ्चरात्रे “पद्मासनस्थां कुर्वीत श्रियं त्रैलोक्यमातरम्। गौरवर्णां सुरूपाञ्च सर्वालङ्कारभूषिताम्। रौक्मपद्मकरव्यग्रां वरदां दक्षिणेन तु”। वस्वादित्यरूपाणि, नारदीये, “प्रसन्नवदनाः सौम्या वरदाः शक्तिपाणयः। पद्मासनस्था द्विभुजाः कर्त्तव्या वसवः सदा। पद्मासनस्था द्विभुजाः पद्मगर्भान्तकान्तयः। करादिस्कन्धपर्य्यन्तनालपङ्कजधारिणः। अधःसंस्थितमेषादिराशयः प्रावृताङ्घ्रिकाः। इन्द्राद्या द्वादशादित्यास्तेजोमण्डलमध्यगाः” तथा। वायुतुल्येन रूपेण मरुतो नाम देवताः”। कर्त्तव्या इति शेषः, वस्वादिनामानि, तुलापुरुषोक्तानि वेदितव्यानि। महारत्नसमन्वितमिति, महारत्नानि परिभाषायामुक्तानि, अनन्तमिथुनान्वितमिति क्वचित्पाठः। “फणासप्तान्वितोऽनन्तः पृथ्वी स्त्रीरूपधारिणीत्यनन्तमिथुनम्। अथ प्रकृतमुच्यते” वितस्तेरङ्गुलशतं यावदायामविस्तरम्। कौशेयवस्त्रसंवीतं तिलद्रीणोपरि न्यसेत्। तथाष्टादश धान्यानि समन्तात्परिकल्पयेत्”। वितस्तेरङ्गुलशतमिति, द्वादशाङ्गुलमारभ्याङ्गुलशतंयावच्छक्त्यनुसारेण कार्य्यमित्यर्थः। द्रोणमानमष्टादश धान्यानि च परिभाषायां द्रष्टव्यानि। स च तिलद्रोणो वेदिकायां लिखितचक्रस्योषरि स्थापनीयः। “पूर्वेणानन्तशयनं प्रद्युम्नं पूर्वदक्षिणे। प्रकृतिर्दक्षिणे देशे संकर्षणमतः परम्। पश्चिमे चतुरोवेदाननिरुद्धमतः परम्। अग्निमुत्तरतो हैमं वासुदेवमतः परम्। समन्ताद्गुणपीठस्थानर्चगेत् काञ्चनान् बुधः। स्थापयेद्वस्त्रसंवीतान् पूर्णकुम्भान् दशैव तु”। पूर्वेणेत्यादि, ब्रह्माण्डात् पूर्वदेशे अनन्तशयनं शेषशायिनं गुण (सत्त्वादि) पीठे स्थापयेत्, तन्मूर्त्तिलक्षणं विष्णुधर्मोत्तरात् “देवदेवश्च कर्त्तव्यः शेषसुप्तश्चतुर्भुजः। एकपादोऽस्य कर्त्तव्यो लक्ष्म्युत्सङ्गगतः प्रभोः। तथाऽपरश्च कर्त्तव्यः शेषभोगाङ्कसंस्थितः। एकोभुजोऽस्य कर्त्तव्यस्तत्र जानौ प्रसारितः। कर्त्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः। तथैवान्यः करः कार्य्यो देवस्य तु शिरोधरः। सन्तानमञ्जरीधारो तथाचास्य करः परः। नाभिसम्भूतकमले सुखासीनः पितामहः। नाललग्नौ तु कर्त्तव्यौ पद्मस्थौ मधुकैटभौ। शङ्खचक्रगदादीनि मूर्त्तानि परितो न्यमेदिति”। प्रद्युम्नलक्षणं पञ्चरात्रादिषु “दक्षिणोर्द्धकरे पद्मं दद्याच्छङ्खमधः करे। चक्रमूर्द्धे ततो वामे गदां दद्यात् तथा द्विज!। चापेषुधृम्वा प्रद्युम्नो रूपवान् विश्वमीहनः” इति। अत्र यद्यपि प्रकृतेरव्यक्तरूपतया विधानमशक्यं तथापि लक्ष्म्यादिशब्दव्यपदेश्यं सुकरमस्ति तद्रूपमित्यतस्तदन्यतमरूपनिर्माणमेव न्याय्यम्। तदुक्तं मार्कण्डेयपुराणे “सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी। मातुलङ्गं गदां खेटं पानपात्रञ्च बिभ्रती। नागं योनिञ्च लिङ्गञ्च विभ्रती नृप! मूर्द्धनीति”। संकर्षणरूपम् विष्णुधर्मोत्तरे “वासुदेवस्य रूपेण कार्य्यः संकर्षणः प्रभुः। स तु शुक्लवपुः कार्य्यो नीलवासा यदूत्तम!। गदास्थाने च सुसलञ्चक्रस्थाने च लाङ्गलमिति”। वेदमूर्त्तयो भूतघटे वक्ष्यन्ते। अनिरुद्धरूपं नारदीये। “कृष्णं चतुर्भुजं दक्षे शरं खड्गं तदुत्तरे। धनुःखेटधरं वीरमनिरुद्धं प्रचक्षते”। अग्निलक्षणमुक्तम्। वासुदेवरूपमपि नारदीये “वासुदेवः शिवः शान्तः सिताभश्च चतुर्भुजः। योगमूर्द्धोर्द्धशङ्खश्च हृद्देशार्पितहस्तकः। धारयेदुत्तरे चक्रं करे वै दक्षिणे गदामिति”। एते च देवताविशेषा, ब्रह्माण्डनिर्माणकॢप्तसुवर्णात् पृथक् सुवर्णेणैव घटनीयाः ब्रह्माण्डस्य किल विंशतिपलात्पभृति पलमहस्राववधिरिह नियमः, पुराणेषु दृश्यते ततोऽवकृष्य- माणकाञ्चने तस्मिन् न्यूनसंख्यत्वादयथावद्विहितत्वमापद्यते। न च दिग्गजाष्टकसंयुक्तं लोकपालोपेतमित्यादिना एक एव तावद्भिरङ्गैरङ्गी निष्पाद्यत इति ब्रब्राण्डवत्कॢप्तसुवर्णेनैव दिग्गजादिप्रतिमानिर्मितौ न कश्चिद्बाध इति वाच्यं, “कृञ्चिनान् कारयेदिति” पुनः काञ्चनोपदेशानार्थक्यापत्तेः। अश्रूयमाणपरिमाणानां प्रतिमानामङ्गुष्ठपर्वप्रभृतिवितस्तिपर्य्यन्तं यथाशक्ति परिमाणं कल्पनीयम्। “पूर्णकुम्भान् स्थापयेदित्यत्र समन्तादिति योज्यम्। “दर्शव घेनवो देया सहेमाम्बरदोहनाः। पादुकीपानहच्छत्रचामरासनदर्पणैः। भक्ष्यभोज्यान्नदीपेक्षुफलमाल्यानुलेपनैः। होमाधिवासनान्ते च स्थाविती वेदपुङ्गवैः। इत्थमुच्चारयेन्मन्त्रं त्रिःकृत्वाथ प्रदक्षिणम्”। सहेमाम्बरदोहना इति, हेमशृङ्ग्यः ताम्रदोहनाः सवस्त्राः पार्श्वतो दक्षिणार्थमुपकल्पनीयाः। तत्राचार्य्याय द्वे, ऋत्विग्भ्योऽष्टौ संप्रदेया, जापकादीनां अन्यैव यथाशक्ति दक्षिणेति,। भविष्योत्तरे तु “ज्ञेयं निष्कशतं पार्थेत्यादिना सुवर्णमेव दक्षिणार्थमुपकल्पनीयमित्युक्तं, श्राद्धाधिवासनदिनादन्येद्युरग्निकुण्डेषु ऋत्विगुपवेशनादिकर्मशेषसमाप्तौ तुलापुरुषदानवद्विहितायां, पूर्ववदेव स्रापितः शुक्लमाल्याम्बरधरो गृहीतकुसुमाञ्जलिर्यजमानो ब्रह्माण्डं त्रिःप्रदक्षिणीकृत्य मन्त्रमुच्चारयेत्। मन्त्रः। “नभोऽस्तु विश्वेश्वर! विश्वधामन्! जगत्सवित्रे भगवन्नमस्ते। सप्ताधिलोकामरभूतलेन गर्भेण सार्द्धं वितराभिरक्षाम्। ये दुःखितास्ते सुखिनो भवन्तु प्रयान्तु पापानि चराचराणाम्। त्वद्दानशस्त्राहतपातकानां ब्रह्माण्डदोषाः प्रलय व्रजन्तु। एवं प्रणम्यामरविश्वगर्भं दद्याद् द्विजेभ्यो दशधा विभज्य। भागद्वयं तत्र गुरोः प्रकल्प्य समम्भजेच्छेषमतः क्रमेण”। दानवाक्यं तुलापुरुषवद्बेदितव्यं तच्च दशधा विभज्य गुरोर्भागद्वयं प्रकल्प्य अवशिष्टाष्टभागानामेकैकं भागं त्रिधा विभज्य चतुर्विंशतिसंख्येभ्य ऋत्विगादिभ्यः समं दद्यात्, तदनुज्ञयान्येभ्योऽपि ब्राह्म णेभ्यो दद्यात्। “स्वल्पं होमं गुरुरेक एव कुर्य्यादथैकाग्निविधानयुक्त्या। स एव संपूज्यतमोऽल्पवित्तैर्यथोक्तवस्त्राभरणादिकेन”। विंशतिपलादारभ्य पलसहस्रावधिद्रव्ये ब्रह्माण्डे सहस्रतदर्द्धादित्युत्तममध्यमादित्रैविध्यकल्पनायां कनीयोभागस्याल्पत्वमवधेयं, विंशतिपलनिर्मितस्यैवालपत्वमित्येके उक्तविंशतिपलादर्वाक् यथाशक्तिविधान खल्पत्वमवगन्तव्यमिति केचित्। एकाग्निविधानम् एकस्मिन्नेव कुण्डे होमकरणम् कुण्डमपि वरुणदिग्भागस्थितं वृत्ताकारञ्च कार्य्यं तदेतत्परिभाषायामुपपादितम्। अथ पुण्याहवाचने कृते देवतावेदीसमीपं गत्वा पूर्ववद्यजमानेन देवतापूजायां विहितायामाचार्य्यो विसर्जनं विदध्यात्। “इत्थं य एतदखिलं पुरुषोऽत्र कुर्य्यादब्रह्माण्डदानमधिगम्य महद्विमानम्। निर्धूतकल्मषविशुद्धतनुर्मुरारेरानन्दकृत् पदमुपैति सहाप्सरोभिः। सन्तारयेत् पितृपितामहपुत्रपौत्रबन्धुप्रियातिथिकलत्रशताष्टकं सः। ब्रह्माण्डदानशकलीकृतपातकौघमानन्दयेच्च जननीकुलमप्यशेषम्। इति पठति शृणोति वा य एतत् सुरभवनेषु गृहेषु धार्मिकाणाम्। मतिमपि च ददाति मोदते सोऽमरपतिभवने सहाप्सरोभिः”। “राजोवाच विधिं ब्रह्माण्डदानस्य कृत्वा यं मोक्षभाग्भवेत्। कालं देशं द्विजं तीर्थं सर्वमेतद्वदस्व मे। कृतेन येन सर्वस्य फलभागी भवाम्यहम्। कुत्सितस्यास्य भावस्य मोक्षः स्यादचिराच्च मे। वशिष्ठ उवाच “एवं श्रुत्वा ततो राजन्! पुरोधास्तस्य तं द्विजः। ब्रह्माण्डं कारयामास सौवर्णं सर्वधातुभिः। पीठं निष्कसहस्रेण पद्मं तत्र प्रकल्पयेत्। तत्र ब्रह्मा तस्य मध्ये पद्मरागैरलङ्कृतः। सावित्र्या चैव गायत्र्या ऋषिभिर्मुनिभिः सह। नारदाद्यैः सुतैः सर्वैरिन्द्राद्यैश्च सुरैस्तथा। सौवर्णविग्रहाः सर्वे ब्रह्मणस्तु पुरःसराः। वाराहरूपो भगवान् लक्ष्म्या सह सनातनः। नीलान्मरकतांश्चैव भूषायान्तस्य कारयेत्। रजतस्य विशुद्धस्य देहं रुद्रस्य कारयेत्। गोमेदकैस्तस्य शोभाङ्कारयेदत्र बुद्धिमान्। मौक्तिकैश्चापि सोमस्य शोभां वल्कैर्दिवाकरैः”। सावित्रीगायत्र्यौ तु, व्रह्मणः पार्श्वभागे स्थापनीयौ। तदाह नारदः “सावित्री दक्षिणे पार्श्वे गायत्री नाम वामतः। विलोकयन्त्यौ ब्रह्माणं साक्षसूत्रकमण्डलुम्”। ऋषयः सप्त गोतमाद्याः तदुक्तमादित्यपुराणे “गोतमश्च भरद्वाजो विश्वामित्रश्च काश्यपः। जमदग्निर्वशिष्ठोऽत्रिः सप्त वैवस्वतेऽन्तरे”। सप्तर्षिलक्षणमाह यमः “पप्तर्षयस्तु जटिलाः कमण्डल्वक्षसूत्रिणः। ध्याननिष्ठा वशिष्ठस्तु कार्य्यो भार्य्यासमत्वितः”। मुनयो वानप्रस्थाः, नारदाद्यैरिति तेषां विशेषणम्”। तानाह मनुः “अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सदुस्तरम्। पतीन् प्रजानामसृजं महर्षीनादितो दश। मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्। प्रचेतसं वशिष्ठञ्च भृगुन्नारदमेव च”। तल्लक्षणमाह विश्वकर्मा “जटिलाः श्मश्रुलाः शान्ता दशाऽऽधमनिसन्तताः। कुसुम्भाक्षधराः कार्य्या मुनयो द्विभुजाः सदा। तेषु सव्यभुजामूलश्लिष्टचीरस्तु नारदः। कर्पूरगौरदेहश्च साक्षसूत्रकमण्डलुः”। इत्यादिरूपाण्यपि प्रागभिहितानि। वाराहरूपं विष्णुधर्मोत्तरे “वाराहरूपः कार्यस्तु शेषोपरिगतः प्रभुः। शेषश्चतुर्भुजः कार्य्यश्चारुरत्नफणान्वितः। कर्त्तव्यौ सीरमुसलौ करयोस्तस्य यादव!। सर्परूपश्च कर्त्तय्यस्तथैव रचिताञ्जलिः। आलीटस्थानसंस्थानस्तत्पृष्ठे भगवान् भवेत्। वामारत्निगता तस्य योषिद्रूपा वसुन्धरा। नमस्कारपरा तस्य कर्त्तव्या द्विभुजा शुभा। यस्मिन् भुजे धरा देवी तत्र शङ्खः करे भवेत्। अन्ये तस्य कराः कार्य्याः पद्मचक्रगदाधराः। पद्मासनस्थां कुर्वीत श्रियं त्रैलोक्यमातरम्। गौरवर्णां सुरूपाञ्च सर्वालङ्कारभूषिताम्। रौक्मपद्मकरव्यग्रां वरदां दक्षिणेन तु”। रुद्ररूपं प्रागभितं ग्रहलक्षणानि तद्वर्णाश्च नवग्रहदाने वक्ष्यन्ते। सर्ववर्णानि ग्रहसमानवर्णानि, रत्नानि भूषणार्थं दापयेदित्यर्थः। सर्वधातुभिः ब्रह्माण्डं कर्त्तव्यमित्युक्तं, तत्र सुवर्णस्य पीठनिर्माणादिविनियोगमभिधायेदानीं धात्वन्तरैः कर्त्तव्यं तदुच्यते “पीठात् सप्तगुणं रौप्यं रौप्यात्ताम्रं तथाविधम्। ताम्रात् सप्त गुणं कार्य्यं कांस्यमत्र नराधिव!। त्रपुणः परतः सीसं तावल्लोहं च कारयेत्। सप्तद्वीपाः समुद्राश्च सप्तैव कुलपर्वताः। अनया संख्यया ज्ञात्वा निपुणैः शिल्पिभिः कृताः”। तथाविधं सप्तगुणमित्यर्थः सप्तद्वीपा इत्यादि एतेषामेकैकधातुना एकैकं द्वीपं समुद्रं कुलाचलञ्च रचयेदित्यर्थः। “यादसानि च भूतानि राजतान्येव कारयेत्। आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत्। वृक्षान् वनस्पतींश्चात्र तृणवल्लीः सवीरुधः”। यादसानि, जलसम्भवानि, पुष्पफलवन्तो वृक्षाः अपुष्पाः फलिनोवनस्पतयः, वीरुधोगुच्छगुल्मादयः। “सर्वं प्रकल्प्य विधिवत्तीर्थे देयं विचक्षणैः। कुरुक्षेत्रे गयायां च प्रयागेऽमरकण्ठके। द्वारवत्यां प्रभासे च गङ्गाद्वारे च पुष्करे। तीर्थेष्वेतेषु वै देयं ग्रहणे सोमसूर्य्ययोः। दिमच्छेदेषु सर्वेषु अयने दक्षिणोत्तरे। व्यतीपाते बहुगुणं विषुवे च विशेषतः। दातव्यमेतद्राजेन्द्र! विचारं नैव कारयेत्। कालाग्निहीत्रिणं विप्रं सुरूपञ्च गुणान्वितम्। सपत्नीकं च संपूज्य भूषयित्वा वि- भूषणैः। पुरोहितं मुख्यतमं कृत्वान्यांश्च तथर्त्विजः। चतुर्विंशद् गुणोपेतान् सपत्नीकान्निमन्त्रितान्। अहताम्बरसुच्छन्नान् स्रग्विणः सुविभूषितान्। अङ्गुलीयकरत्नानि कर्णवेष्टांश्च दापयेत्। एवंविधांश्च संपूज्य तेषामग्रे स्वयं स्थितः। अष्टाङ्गप्रणिपातेन प्रणन्य च पुनः पुनः। पुरोहिताय पुरतः कृत्वा वैकरसंपुटम्। यूयं वै ब्रह्मणा धात्रा, मैत्रत्वेनानुगृह्यताम्। सौमुख्येनेह भवताम्भवेत् पूतोनरः स्वयम्। भवतां प्रोतियोगेन स्वयं प्रीतः पितामहः। ब्रह्माण्डेन तु दत्तेन तेषां प्रीतो जनार्दनः। पिनाकपाणिर्भगवान् शक्रश्च त्रिदशेश्वरः। एते वै तोषमायान्ति अनुध्याता द्विजोत्तमैः। एव स्तुत्वा ततो राजा ब्राह्मणान् वेदवारमान्। ब्रह्माण्डं गुरवे प्रादात् सविधानं पुनः पुनः। सर्वकामैस्ततस्तप्तो ययौ स्वर्गं नराधिपः। तेनापि गुरुणा तच्च विभक्तं ब्राह्मणैः सह। दत्तस्तैरपि चान्येभ्यो ब्रह्माण्डांशो नराधिप!। ब्रह्माण्डं भूमिदानं च ग्राह्यं नैकेन तद्भवेत्। गृह्णन्दीषमवाप्नोति ब्रह्महत्यां न संशयः। सर्वेषाञ्चैव प्रत्यक्षं दातव्यं तन्नराधिप!। दीयमानञ्च पश्यन्ति तेऽपि पूता भवन्ति हि। दर्शनादेव ते पूता भवेयुर्नात्र संशयः”। पद्मपुराणोक्तस्तद्विधिर्यथा “शृणु वत्स! प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम्। तच्च द्वादशसाहस्रं भाविकल्पकथायुतम्। प्रक्रियाख्यो १ऽनषङ्गाख्य २ उपोद्घात ३ स्तृतीयकः। चतुर्थ उपसंहारः ४ पादाश्चत्वार एव हि। पूर्वपादद्वयं पूर्वो भागोऽत्र समुदाहृतः। तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः। तत्र पूर्वभागे प्रक्रियापादे “आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः। हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च। एष वै प्रथमः पादो द्वितीयं शृणु मानद”। पूर्वभागे अनुषङ्गपादे “कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम्। मानससृष्टिकथनं रुद्रप्रसववर्णनम्। महादेवविभूतिश्च ऋषिसर्गस्ततःपरम्। अग्नीनां विचयश्चाथ कालसद्भाववर्णनम्। प्रियव्रताचयोद्देशः पृथिव्यायामविस्तरः। वर्णनं भारतस्यास्य ततीऽन्येषां निरूपणम्। जम्ब्वादिसप्तद्वीपाख्या ततोऽधीलोकवर्णनम्। ऊर्द्ध्वलोकानुकथनं ग्रहचारस्ततःपरम्। आदित्यव्यूहकथनं देवग्रहानुकीर्त्तनम्। नीलकण्ठाह्वयाख्यानं महादेवस्य वैमवम्। अमावास्यानुकथनं युगतत्त्वनिरूपणम्। यज्ञप्रवर्त्तनं चाथ युगयोरन्त्ययोः कृतिः। यगप्रजालक्षणञ्च ऋषि- प्रवरवर्णनम्। वेदानां व्यसनाख्यानं स्यायम्भुवनिरूपणम्। शेषमन्वन्तराख्यानं पृथिवीदोहनन्ततः। चाक्षुषेऽद्यतने सर्गो द्वितीयोऽङ्घ्रिः पुरोदले”। मध्यभागे उपोद्घातिपादे “अथोपोद्घातपादे तु सप्तर्षिपरिकीर्त्तनम्। प्राजापत्यचयस्तस्माद्देवादीनां समुद्भवः। ततो जयाभिव्याहारौ मरुदुत्पत्तिकीर्त्तनम्। काश्यपेयानुकथनम् ऋषिवंशनिरूपणम्। पितृकल्पानुकथनं श्राद्धकल्पस्ततःपरम्। वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम्। मनुपुत्राचयश्चातो गान्धर्वस्य निरूपणम्। इक्ष्वाकुवंशकथनं वंशोऽत्रेः सुमहात्मनः। अमावसोराचयश्च रजेश्चरितमद्भुतम्। ययातिचरितञ्चाथ यदुवंशनिरूपणम्। कार्त्तवीर्य्यस्य चरितं जामदग्न्यं ततः परम्। कृष्णिवंशानुकथनं सगरस्याथ सम्भवः। भार्गवस्यानुचरितं तथार्य्यकबधाश्रयम्। सगरस्याथ चरितं भार्गवस्य कथा पुनः। देवासुराहवकथा कृष्णाविर्भाववर्णनम्। इनस्य च स्तवः पुण्यः शुक्रेण परिकीर्त्तितः। विष्णुमाहात्म्यकथनं बलिवंशनिरूपणम्। भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे। एवमुद्द्वातपादाऽयं तृतोयो मध्यमे दले”। उत्तरभागे उपसंहारपादे “चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे। वैवस्वतान्तराख्यानं विस्तरेण यथातथम्। पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते। भविष्याणां मनूनाञ्च चरितं हि ततः परम्। कल्पप्रलयनिर्देशः कालमानं ततः परम्। लोकाश्चतुर्दश ततः कथिता मानलक्षणैः। वर्णनं नरकाणाञ्च विकर्माचरणैस्ततः। मनीमयपुराख्यानं लयः प्राकृतिकस्ततः। शैवस्याथ पुरस्यापि वर्णनञ्च ततः परम्। त्रिविधाद्गुणसम्बन्धाज्जन्तूनां कीर्त्तिता गतिः। अनिर्देश्याप्रतर्कस्य ब्रह्मणः परमात्मनः। अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम्। इत्येष उपसंहारः पादो वृत्तः स चोत्तरः। चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतम्। अष्टादशमनौपम्यं सारात् सारतरं द्विज!। ब्रह्माण्डञ्च चतुर्लक्षं पुराणत्वेन पठ्यते। तदेव व्यस्य गदितमत्राष्टादशधा पृथक्। पाराशर्य्येण मुनिना सर्वेषामपि मानद!। वस्तुद्रष्ट्राथ तेनैव मुनीनां भावितात्मनाम्। मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे। मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः। मया चेदं पुराणन्तु वशिष्ठाय पुरोदितम्। तेन शक्तिसुतायोक्तं जातूकर्णाय तेन च। व्यासो लब्ध्वा ततश्चैतत् प्रमञ्चनमुखोद्गतम्। प्रमाणीमत्य लोके-ऽस्मिन् प्रावर्त्तयदनुत्तमम्”। तत्फलश्रुतिः “य इदं कीर्त्तयेद्वत्स! शृणोति च समाहितः। स विधूयेह पापानि याति लोकमनामयम्। लिखित्वैतत् पुराणन्तु स्वर्णसिंहासनस्थितम्। पात्रेणाच्छादितं यस्तु ब्रह्मणाय प्रयच्छति। स याति ब्रह्मणा लोकं नात्र कार्य्या विचारणा। मरीचे!ऽष्टादशैतानि मया प्रोक्तानि यानि ते। पुराणानि तु सक्षेपाच्छ्रोतव्यानि च विस्तरात्। अष्टादश पुराणानि यः शृणोति नरोत्तमः। कथयेद्वा विधानेन नेह भूयः स जायते। सूत्रमेतत् पुराणानां यन्मयोक्तं तवाधुना। तन्नित्यं शीलनीयं हि पुराणफलमिच्छता। न दाम्भिकाय पापाय देवगुर्वनुसूयवे। देयं कदापि साधूनां द्वेषिणे न शठाय च। शान्ताय रागिचित्ताय श्रूश्रुषाभिरताय च। निर्सत्सराय शुचये देय सद्वैष्णवाय च” नारदीयपु० ४ पा० १०९ अ०।
ब्र(व्र)ह्मात्मभू = पु० ब्रह्मण आत्मनः देहात् भवति भू–क्विप्। अश्वे शब्दमाला तस्य ब्रह्मदेहजातत्वं वृ० उ० उक्तं यथा “प्राणा वै यशोवीर्य्यं तत् प्राणेषूक्तान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत्। सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति। ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम्” मू०। “तदेवं यशोवीर्य्यभूतेषु प्राणेषूत्क्रान्तेषु शरीरान्निष्क्रान्तेषु तच्छरीरम्प्रजाषतेः श्वयितुमुच्छूनभावङ्गन्तुमध्रियतामेध्यञ्चाभवत्। तस्य प्रजापतेः शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आसीत्। यथा कस्यचित् प्रिये विषये दूरङ्गतस्यापि मनो भवति तद्वत्। स तस्मिन्नेव शरीरे गतमनाः सन् किमकरोदिति। उच्यते सोऽकामयत कथं मेध्यं भेधार्हं यज्ञियं मे ममेदं शरीरं स्यात्। किञ्चात्मन्वी आत्मवांश्चानेन शरीरेण शरीरवान् स्यामिति प्रविवेश। यस्मात्तच्छरीरं मद्वियोगात् गतयशोवीर्य्यमश्वदश्वयत् ततस्मस्मादश्वः समभवत्। ततोऽश्वनामा प्रजापतिरेव साक्षादत्र स्तूयते। यस्माच्च पुनस्तत् प्रवेशाद्गतयशोवीर्य्यत्वादमेध्यं सन्मेध्यमभूत्तदेव तस्मादेवाश्वमेधस्याश्वमेधनाम्नः क्रतोरश्वमेधत्वमश्वमेधनामलाभः” शा० भा०
ब्र(व्र)ह्मादनी = स्त्री ब्रह्मा ब्रह्मवाहनं हंस तस्येवादनं पादरूपं यस्याः गौरा० ङीष्। हंसपद्यां राजनि०।
ब्र(व्र)ह्माभिजाता = स्त्री गोदावर्य्यां राजनि०।
ब्र(व्र)ह्मानन्द = पु० ब्रह्मस्वरूपानन्दे तस्य मनुष्यादी- नामानन्देभ्यः श्रेष्ठत्वम् शत० ब्रा० १४। ७। १। ३१ वा क्यादौ उक्तं यथा “एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानिं मात्रामुपजीवन्ति। स यो मनुष्यणां राद्धः समृद्धो भवति। अन्येषामधिपतिः सर्वैर्मानुष्यकैः कामैः सम्पन्नतमः स मनुष्याणां परम आनन्दः। अथ ये शतं मनुष्याणामानन्दाः। स एकः पितॄणां जितलोकानामानन्दः। अथ ये शतं पितॄणां जितलोकानामानन्दाः। स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते। अथ ये शतं कर्मदेवानामानन्दाः। स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः। अथ ये शतमाजानदेवानामानन्दाः। स एको देवलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः। अथ ये शतं लोक आनन्दाः। स एको गन्धर्वलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः। अथ ये शतं गन्धर्वलोक आनन्दाः। स एकः प्रजापतिलोक आनन्दः अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः एष ब्रह्मलोकः सम्राडिति” मू०। “परमो मोक्षलक्षणो लोकः स्वयंज्योतिःस्वभाबो लोकशब्दस्य मुख्यवृत्तिविषयःस्वाभाविकः। परमः स्वरूपानुभबलक्षणो मुख्यो निरतिशय आनन्दः पूर्णानन्दः। किं च वस्तुतो नास्त्येवात्ममुखातिरिक्तं वैषयिकमपि सुखमित्याह एतस्यैव ब्रह्मानन्दस्य मात्रां कलाम् अन्यानि अविद्यया ब्रह्मणोऽन्यत्वेन परिकल्पितानि ब्रह्यादिस्तम्बपर्य्यन्तानि भूतान्युपजीवन्ति उपभुञ्जते तावन्मात्रेणैवानन्दीनि भवन्तीत्यर्थः। मानुषानन्दमारभ्य ब्रह्मानन्दपर्य्यन्तमुत्तरोत्तरशतगुणितातिशयशालिनां परब्रह्मानन्दावयववानां प्रतिपादनद्वारेणावयविनं निवृत्तगणितभेदमनतिशयं ब्रह्मानन्दं दर्शयितुमुत्तरा श्रुतिः प्रवर्त्तते” भा०।
ब्र(व्र)ह्मापेत = पु० सूर्य्यमण्डलस्थराक्षसभेदे “त्वष्टा च यमदग्निश्च कम्बलोऽथ तिलोत्तमा। ब्रह्मापेतोऽथ ऋतजिद्धतराष्ट्रश्च सप्तमः। माघमासे वसन्त्येते सप्त मैत्रेय मास्करे” विष्णुपु० २ अंशे १० अ०।
ब्र(व्र)ह्मारण्य = न० ब्रह्मणोऽरण्यमिव। वेदपाठभूमौ त्रिका०
ब्र(व्र)ह्मार्पण = न० १ सर्वकर्मकर्त्त्राद्यात्मकतया ब्रह्मचिन्तने ब्रह्मणि परमात्मनि ईश्वरे २ सर्वकर्मफलानां सन्यासे च तत्- प्रकारः कूर्मपु० ४ अ० उक्तो यथा “ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते। ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम्। नाहं कर्त्तासर्वमेतद्ब्रह्मैव कुरुते तथा। एतत् ब्रह्मार्पणं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः। प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः। करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम्। यद्वा फलानां सन्न्यासं प्रकुर्य्यात् परमेश्वरे। कर्मणामेतदप्याहुर्व्रह्मार्पणमनुत्तमम्”।
ब्र(व्र)ह्मावर्त्त = पु० “सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम्। तं देवनिर्मितं देशं ब्रह्मावर्त्तं प्रचक्षते” मनूक्ते १ देशभेदे २ तत्रस्थे तीर्थभेदे च भा० ब० ८३ अ०।
ब्र(व्र)ह्मासन = न० ६ त०। ब्रह्मण ऋत्विग्भेदस्य १ आसने ब्रह्मास्तरणादयोऽप्यत्र। ब्रह्मणस्तदुपासनाङ्गमासनम्। २ पद्मस्वस्तिकादौ आसने। “ब्रह्मासनं तदावक्ष्ये यत् कृत्वा ब्राह्मणो भवेत्। एकपादमूरौ दत्त्वा तिष्ठेद्दण्डाकृतिर्भवेत्” रुद्रया० उक्ते देवपूजाङ्गे ३ आसनभेदे च।
ब्र(व्र)ह्मास्त्र = न० ६ त०। अस्त्रभेदे भा० आ० १६६ अ०।
ब्र(व्र)ह्माहुति = न० ब्रह्मैवाहुतिः। वेदाध्ययने “ब्रह्माहुतिहुत पुण्यमनध्यायवषट्कृतम्” मनुः।
ब्र(व्र)ह्मिन् = पु० ब्रह्मवेदस्तपो वाऽस्त्यस्य शेषतया ब्रीह्या० इनि टिलोपः। वेदतपसोः शेषीभूते १ परमेश्वरे। तदाराधनार्थमेव तयोरनुष्ठानात् तस्य तच्छेषित्वम्। “ब्रह्मविद् ब्राह्मणो ब्रह्मी” विष्णुस०। ब्रह्म वेदो वेद्यतयास्त्यस्य इनि। २ वेदतदर्थाधिज्ञे।
ब्र(व्र)ह्मिष्ठ = त्रि० अतिशयेन ब्रह्मी इष्ठन् टिलोपः। अतिशयन ब्रह्मज्ञे। “ब्राह्मणा भगवन्तो यो ब्रह्मिष्ठः स एता (गाः) उदजताम्” वृ० उ० “ब्राह्मणाः श्रुताध्यायाननिष्ठास्तदर्थनिष्ठाः सर्वे यूयं ब्रह्मणोऽतिशयेन अभिज्ञः” भा०। “ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम्” रघुः। २ दुर्गायां स्त्री “ब्रह्मिष्ठा वेदमातृत्वात् गायत्री चरणान्मता। वेदेषु चरते यस्मात्तेन सा ब्रह्मचारिणी” देवीपु० ४५ अ०।
ब्र(व्र)ह्मी = स्त्री ब्रह्मणे हिता मेधाजनकतया अण् टिलोपः बा० न वृद्धिः ङीप्। (वामनहाटि) स्वनामख्याते लताभेदे त्रिका०।
ब्र(व्र)ह्मीघृत = न० खारस्वतघृतमिति स्वाते औषधविशेषे यथा “समूलपत्रामुत्पाध्य ब्रह्मीं प्रक्षाल्य वारिणा। उदूखले खोदयित्वा रसं वस्त्रेण गालयेत्। रसे चतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत्। हरिद्रा मालतीकुष्ठं वृहती च हरीतकी। एतेषां पालिकैर्भागैः शेषास्तु कार्षिकाः स्मृताः। पिप्पल्योऽथ विडङ्गानि सैन्धवं शर्करा वचा। सर्वमेतत् समालोड्य शनैर्मृद्वग्निना पचेत्। एतत् प्राशितमात्रेण वाग्विशुद्धिः प्रजायते। सप्तरात्रप्रयोगेण किन्नरैः सह गीयते। अर्द्धरात्रप्रयोगेण स्वरो भवति कोकिलः। मासमेकं प्रयोगेण भवेत् श्रुतिधरो नरः। पञ्च गुल्मान् प्रमेहाश्च कासं पञ्चबिधं जयेत्। सन्ध्यानाञ्चैव नारीणां नराणामल्परेतसाम्। घृतं स्वारस्वतं नाम बलवर्णवपुःप्रदम्” चिकित्सारत्नसंग्रहः।
ब्र(व्र)ह्मेशय = ब्रह्मणि तपसि शेते शी–अच् पृषो०। १ कार्त्तिकेये भा० व० २३१ अ०। २ विष्णौ च भा० शा० ३४० अ०।
ब्र(व्र)ह्मोज्झ = पु० ब्रह्म वेदमुज्झति उज्झ–त्यागे अण् उप० स०। वेदत्यागिनि “ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं स्तहृद्वधः। गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्” मनुना तत्त्यागस्यानुपातकत्वमुक्तम्।
ब्र(व्र)ह्मोडु(दु)म्बर = न० तीर्थभेदे भा० व० ८३ अ०।
ब्र(व्र)ह्मोत्तर = त्रि० ब्रह्मा ब्राह्मणः उत्तरोऽधिकारी यस्य। ब्रह्मास्वामिके भूम्यादौ। २ ब्रह्मप्रधाने च।
ब्र(व्र)ह्मोद्य = न० वद–भावे क्यप् ६ त०। ब्रह्मप्रतिपादकवाक्ये कात्या० श्रौ० १२। ४। २०। २ ब्रह्मकथने च “ब्राह्मणा भगवन्तो हन्ताहमिमं (याज्ञ्यम्) द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यम् जेतेति” वृ० उ०।
ब्र(व्र)ह्मोपनेतृ = पु० ब्रह्माणं विप्रमुपनयते तद्धेतुदण्डहेतुत्वात् उप–नी–तृच्। पलाशवृक्षे “विप्रस्य पालाशो दण्ड” स्मृतिः।
ब्र(व्र)ह्मोपनिषद् = स्त्री उपनिषद्भेदे उपनिषच्छब्दे दृश्यम्।
ब्र(व्र)ह्मौदन = पुंन० ब्रह्मार्थमोदनम्। यज्ञे ऋत्विग्भेदार्थे अन्ने। “व्रह्मौदनं पचति चतुर्णां पात्राणामञ्जलिप्रश्रौतानाञ्च” कात्या० श्रौ० २०। १। ४। “चतुर्णां पात्राणां चतुर्णामञ्जलीनां चतुर्णां प्रसृतानां च प्रसृतश्चैकाङ्गुणि कोशः। “अक्त्वौनमाद्यत्विग्भ्यः प्रयच्छति” ५ सू०। “एनमोदनम्” कर्कः।
ब्रा(व्रा)ह्म = न० ब्रह्मण इदम्, तेन प्रोक्तम् वा अण् दिलोपः। १ अङ्गुष्ठमूले तीर्थे, तेन हि तीर्थेन द्विजाचमनं विहितमिति तस्य तत्सम्बन्धित्वम् “प्राग्वा ब्रा(व्रा)ह्मेन तीर्थेन द्विजा नित्यमुपस्पृशेत्” इति मनुम् “अङ्गुष्ठोत्तरस्ततो रेखा या पाणेर्दक्षिणस्य च। एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै” स्मृतिः। २ नारदे पु० जटा०। ब्र(व्र)ह्मणोक्ते अष्टादशपुराणान्तर्गते ३ महापुराणभेदे न०। ४ विवाहभेदे ५ पारदे च पु०। ६ सरस्वत्यां तदधिष्ठातृकायां ७ वाचि ८ सोमलतायां ९ ब्रह्मोशाके (वामनहाटि) शाकभेदे च स्त्री। “आवृत्तानां गुरुकुलात् विप्राणां पूजको भवेत्। नृपाणामक्षयो ह्येष ब्राह्मो धर्मो विधीयते इति मनूक्ते राज्ञां १० धर्मभेदे पु०। ११ मातृभेदे स्त्री ङीप्। “ब्राह्मी नारायणी तथेति” कालकवचम्। “वृहदस्याः शरीरं यदप्रमेयं प्रमाणतः। वृहद्विस्तीर्णमित्युक्तं ब्राह्मी देवी ततः स्मृता देवीपु० उक्तनिर्वचनायां १२ देव्याञ्च स्त्री १३ ब्रह्मसम्बन्धिनिमात्रे त्रि० स्त्रियां ङीप् “एषा ब्राह्मी स्थितिः पार्थ!” गीता। सरस्वत्या ब्रह्मजातत्वं च ब्रह्माणीशब्दे दर्शितं तत्र दृश्यम्। “ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या च शीतला। कषाया मधुरा स्वादुपाकायुष्या रसायनी। स्वर्य्या स्मृतिप्रदा कुष्ठपाण्डुमेहाश्रकासजित्। विषशोथज्वरहरी तद्वन्मण्डूकपण्यंपि” भावप्र० ब्राह्मीशाकस्य गुणा उक्ताः। १४ वाराहीकन्दे १५ हिलमोचिकायां स्त्री राजनि०। १६ रोहिण्यां स्त्री १७ नक्षत्रे न० तयोर्ब्रह्माधिष्ठातृदेवताकत्वात् तथात्वं “रात्रेश्च पश्चिमे भागे मुहूर्त्तो ब्राह्म उच्यते” पितामहोक्ते रात्रिशेषयामार्द्धस्थिते अरुणोदयकालात् प्राग्दण्डद्वयात्मके १८ काले पु० १९ ब्रह्मसम्बन्धिदिने २० तन्माने च अहन्शब्दे दृश्यम्।
ब्रा(व्र)ह्मक = त्रि० ब्रह्मणा कृतं कुलादि० वुञ्। विप्रेण कृते।
ब्रा(व्र)ह्मगुप्त = पु० आयुधजातिवर्गभेदे त्रिमर्त्तषष्ठशब्दे दृश्यम् स वर्गो येषां त्रिगर्त्ता० स्वार्थे छ। ब्राह्मगुप्तीय तत्रार्थे।
ब्रा(व्रा)ह्मण = पुंस्त्री० ब्रह्म वेदं शुद्धं चैतन्यं वा वेत्त्यधीते वा अण् “ब्रह्मणो जाताविति” पा० न टिलोपः ब्रह्मणो मुखजातत्वात् ब्रह्मणोऽपत्यम् वा अण्। १ विप्रे जातिभेदे स्त्रियां जातित्वात् ङीष्। २ पुक्कायां स्त्री ङीप्। “ब्रह्म जानाति ब्राह्मणः” इत्युक्ते ३ परब्रह्मज्ञे त्रि०। ब्राह्मणक्षेत्रे ब्राह्मणाज्जातदेहे तत्सङ्कल्पजातदेहे च बाह्मणत्वजातिः स्वीक्रियते यथा गोमयवृश्चिको भयजातदेहस्य वृश्चिकत्वं तद्वत्। तत्र सङ्कल्पजाते देहे ब्राह्मणत्वं यथा नारदद्रोणादौ। इदानीञ्च ब्राह्मणस्य सत्यसकल्पत्वाभावान्न तथात्वम्। किञ्च कलौ असवर्णा विवाहनिषेधादपि न तथात्वम्। “ब्राह्मण्यां ब्राह्मणाज्जाती ब्राह्मणः स्यान्न संशयः। क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि” भा० दानधर्मवाक्यस्यापि संकल्पभेदादेव तथात्वेन युगान्तरविषयत्वम्। तस्य लक्षणं यथा “क्षात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च। एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यर्ते” वह्निपु०। “न क्रुध्येन्न प्रह्रष्टेच्च मानितोऽमानितश्च यः। सर्वभूतेष्वभयदस्तं–देवा ब्राह्मणं विदुः। अहेरिव गणाद्भीतः सौहित्यान्नरकादिव। कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः। येन केनचिदाच्छन्नो येन केनचिदाशितः। यत्र क्व चन शायी च तं देवा ब्राह्मणं विदुः। विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम्। अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः। जीवितं यस्य धर्मार्थं धर्मो रत्यर्थमेव च। अहोरात्रश्च पुण्यार्थस्तं देवा ब्राह्मणं विदुः। निराशिषमनारम्भं निर्नमस्करमस्ततिम्। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः” भा० मोक्षध०। “विशाखयूप उवाच। विप्रस्य लक्षणं ब्रूहि त्वद्भक्तिः का च तत्कृता। यतस्तवानुग्रहेण वाग्बाणाः ब्राह्मणाः कृताः”। कल्किरुवाच “वेदास्तमोश्वरं प्राहुरष्यक्तं व्यक्तिमत् परम्। ते वेदा ब्राह्मणमुखे नानाधर्माः प्रकाशिताः। यो धर्मो ब्राह्मणानां हि सा भक्तिर्मम पुष्कला। तयाहं तोषितः श्रीशः संभवामि युगे युगे। ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानिर्मितं शमैः। तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः। त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम्। शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम्। यजुर्विदां नाभिमितं सामगानामयं विधिः। वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम्। मृद्भस्मचन्दनाद्यैस्तु धारवेत्तिलकं द्विजः। भाले त्रिपुण्ड्रं कर्माङ्गं केशपर्य्यन्तमुज्ज्वलम्। पुण्ड्रमङ्गुलिमानन्तु त्रिपुण्ड्रं तत्त्रिधा कृतम्। ब्रह्मविष्णुशिवावासं दर्शनात् पापनाशनम्। ब्राह्मणानां मुखे स्वर्गा वाचि वेदाः करे हरिः। गात्रे तीर्थानि यागाश्च नाडीषु प्रकृतिस्त्रिवृत्। सावित्री कण्ठकुहरा हृदयं ब्रह्मसङ्गतम्। तेषां स्तनान्तरे धर्मः पृष्ठेऽधर्मः प्रकीर्त्तितः। भूदेवा ब्राह्मणा राजन्! पूज्या वन्द्याः सदुक्तिभिः। चातुराश्रम्यकुशला मम धर्मप्रवर्त्तकाः। व लाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः। तेषां वचः पालयितुमवताराः कृता मया। माहाभाग्यं ब्राह्मणानां सर्वपापप्रणाशनम्। कलिदोषहरं श्रुत्वा मुच्यते सर्वतोभयात्” कल्किपु० ४ अ०। “कर्मणा ब्रह्मणो जातः करोति ब्रह्मभावनाम्। स्वधर्मनिरतः शुद्वस्तस्माद्ब्राह्मण उच्यते” ब्रह्मवे० गणेशख० ३५ अ०। “जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शचिः। वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः। शौचाचारपरो नित्यं विघसाशी गुरुप्रियः। नित्यव्रती सत्यरतः स वै ब्राह्मण उच्यते। सत्यं दानमथाऽद्रोह आनृशंस्य कृपा घृणा। तपश्च दृश्यते यत्र स ब्रह्मण इति स्मृतः”। तस्य धर्मो यथा “ब्राह्मस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम्। दममेव महाराज। धर्ममाहुः पुरातनम्। स्वाध्यायाभ्यसनञ्चैव तत्र कर्म समाप्यते। तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्मणि। अकर्वाणं विकर्माणि श्रान्तं प्रज्ञानतर्पितम्। कुर्वीतोपेत्य सन्तानमथ दद्याद्यजेत च। संविभज्यापि भोक्तव्यं धनं सद्भिरितीष्यते। परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः। कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते” पाद्मे स्वर्गख० २६ अ०। तस्य माहात्म्यादि यथा। “सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः। तस्मै दानानि देयानि भक्तिश्रद्धासमन्वितैः। सर्वदेवाग्रजो विप्रः प्रत्यक्षत्रिदशो भुवि। स तारयति दातारं द्स्तरे विश्वसागरे। हरिशर्मोवाच। सर्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम!। तेषां मध्ये च कः श्रेष्ठः कस्मै दानं प्रदीयते। ब्रह्मोवाच। सर्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि। अविद्या वा सविद्या वा नात्र कार्य्या विचारणा। स्तेयादिदोषलिप्ता ये ब्राह्मणा ब्राह्मणोत्तम!। आत्मभ्यो द्वेषिणस्तेऽपि परेम्यो न कदाचन। अनाचारा द्विजाः पूज्या न च शूद्रा जितेन्द्रियाः। अभ्यक्ष्यमक्षंका गावः कोलाः सुमतयो न च। माहात्म्यं भूमिदेवानां विशेषादुच्यते मया। तव स्नेहाद्द्विजश्रेष्ठ! निशामय समाहितः। क्षत्रियाणाञ्च वैश्यानां शूद्राणां गुरवो द्विजाः। अन्योऽन्यं गुरवो ज्ञेयाः पूजनीयाश्च भूसुर!। ब्रह्मणं प्रणमेदयस्तु विष्णुबुद्ध्या नरोत्तमः। आयुः पुत्राश्च कीर्त्तिश्च सम्पत्तिस्तस्य वर्द्धते। न च नौति द्विजं यस्तु मूढधीर्मानवी भुवि। सुदर्शनेन तच्छीर्षं हन्तुसिच्छति केशवः”। पुष्पादिहस्तस्य विप्रस्य प्रणामनिषेधो यथा। “पुष्पहस्तं पयोहस्तं देवहस्तञ्च भूसुर!। न नमेद ब्राह्मण प्रातस्तैलाभ्यङ्गितविग्रहम्। जलस्थं देववेश्म स्थं ध्यान- माज्जतचेतसम्। देवपूजाञ्च कुर्वन्तं न नमेद् ब्राह्मणं बुधः। बहिष्क्रिया। प्रकुर्वन्तं भुञ्जानञ्च द्विजोत्तम!। तथा सामानि गायन्तं न नमेद् ब्राह्मणं बुधः। ब्राह्मणा यत्र तिष्ठन्ति बहवीं द्विजसत्तम। प्रत्येकन्तु वमस्कारस्तत्र कार्य्यो न धीमता। कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत्। स चाण्डालसमो ज्ञेयो नाभिवाद्यः कदापि च। कृतप्रणामं तनयं नमेतां पितरौ न च। कृनप्रणामाः सर्वेऽपि नमस्कार्य्या द्विजैर्द्विजाः। कृतदोषान् द्विजान् गाश्च न द्विषन्ति विचक्षणाः। द्विषन्ति घापि मोहेन तेषां रुष्टः सदा हरिः। याचकान् ब्राह्मणान् यस्तु कोपदृष्ट्या प्रपश्यति। सूचीप्रक्षेपणं तस्य नेत्रयोः कुरुते यमः। विपनिर्भर्त्सनं मूढा येन वक्त्रेण कुर्वते। तस्मिन् वर्क्त्र यमस्तप्तं लौहपिण्डं ददाति वै। ब्राह्मणो यद्गृहे भुङक्त तद्गृहे केशवः स्वयम्। देवताः सकला एव पितरश्च सुरर्षयः। तस्य पादो दकादिमाहात्म्य यथा “विप्रपादोदकं यस्तु कणमात्रं बहेद्बुधः। देहस्थ पातकं तस्य सर्वमेवाशु नश्यति। कीटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि च। तानि सर्वाणि तीर्थानि वसन्ति द्विजपादयोः। विप्रपादोदकैर्नित्यं सिक्तं स्याद् यस्य मस्तकम्। स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः। सर्वपापानि घोराणि विप्रहत्यादिकानि च। सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात्। क्षयाद्या व्याधयः सर्वे परमक्लेशदायकाः। गच्छन्ति विलय सद्यो विप्रपादाम्ब भक्षणात्। पित्रर्थं यानि तोयानि दीयन्ते विप्रपादयोः। तस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्रतारकम्। प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्चयेद्बुधः। तेनाचितो जगत्स्वामी विष्णुः सर्वसुरोत्तमः। विप्राणां पादनिर्माल्यं यो मर्त्यः शिरसा वहेत्। सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती”। तस्य प्रदक्षिणफलम् “विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः। प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा”। तस्य पाद सेवनफलम् “यो दद्यात् फलताम्बूलं विप्राणां पादसेवने। इह लोके सुखं तस्य परलोके ततोऽधिकम्। पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्। मोक्षार्थी लभते मोक्षं विप्रपादस्व सेवनात्। रोगी रोगात् प्रमुच्येत पापी मुच्येत पातकात्। मुच्येत बन्धनाद्बद्धो विप्राणां पादसेवनात। अनपत्याश्च या नार्य्यो मृताऽपत्याश्च या स्त्रियः। बह्वपत्या जीववतसाः स्वुर्विप्रपाद- सेवनात्” पाद्मे क्रियायोगसारे २ अ०। तस्य सन्ध्यावन्दनाकरणे दोषो यथा “नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम्। स शूद्रवद्वहिः कार्य्यः सर्वस्माद् द्विजकर्मणः” मनुः। अन्यत्र च “न गृह्णन्ति सुरास्तेषां पितरः पिण्डतर्पणम्। स्वेच्छया च द्विजातेश्चा त्रिसन्ध्यरहितस्य च। तस्य सन्ध्याबन्दनफलं यथा “याजज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति हि। स च सूर्य्यसमो बिप्रस्तेजसा तपसा सदा। तत्पादपद्मरजसा सद्यः पूता वसुन्धरा। जीवन्मुक्तः स तेजस्वी सन्ध्या पूतो हि यो द्विजः। तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः। ततः पापानि यान्त्येव वैनतेयादिवोरगाः। तस्य निन्द्यकर्माणि यथा “विष्णुमन्त्र विहीनश्च त्रिसन्ध्यरहितो द्विजः। एकादशीविहीनश्च विषहीनो यथोरगः। हरेर्नैवद्यभोगी न धारको वृषवाहकः। शुद्रान्नभोजी विप्रश्च विषहीनो यथोरगा। शवदाही च शूद्राणां यो विप्रा वृषलीपतिः। शूद्राणां सूपकारी च शूद्रयाजी च यो द्विजः। असिजीवीमसीजीवी विषहीनो यथोरगः। यो विप्रोऽवीरान्न भोजी ऋतुस्नातान्नभोजकः। भगजीवी बार्द्धुषिको विषहीनो यथोरगः। यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी। यो विद्याविक्रयी विप्रो विषहीनो यथोरगः। सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो द्विजः। शिवपूजादिरहितो विषहीनो यथोरगः”। ब्रह्मवै० प्र० २१ अ०। अन्यत्र च “यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः। स भ्रष्टो विप्रजातेश्च चाण्डालात् सोऽधमः स्मृतः। विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम्। तत्पितृणां सुराणाञ्च पूजने तत् समं सति!। काटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम्। द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः। ब्राह्मणश्च सुरापीतः विड्भोजी वृषलीपतिः। हरिवासरभोजी च कुम्भीपाकं व्रजेद्ध्रुवम्”। “करोत्यशुद्धां सन्ध्याञ्च सन्ध्यां वा न करोति यः। त्रिसन्ध्यं वर्जयेद् यो वा सन्ध्याहीनश्च स द्विजः”। नारायणक्षेत्रादितीर्थे तस्य प्रतिग्रहदोषो यथा “तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे। वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे। पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले। हारिद्वारे च केदारे सोमे वदरपाचने। सरस्वतीनदीतीरे पुण्ये वृन्दावने वने। गोटावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमा- लये। एतेष्वन्धेषु यो दानं प्रतिगृह्णाति कामतः। स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च”। पारिभाषिकमहापातकिब्राह्मणा यथा “सप्तोद्रिक्तशूद्रयाजी ग्रामयाजीति कीर्त्तितः। देवोपजीवजीवी च देवलश्च प्रकीर्त्तितः। शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः। सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः। एते महापातकिनः कुम्भीपाकं प्रयान्ति ते” ब्रह्मवै० ज० ख० २७ अ०। “ब्राह्मणस्य स्वधर्मश्च त्रिसन्ध्यमर्चन हरेः। तत्पादोद कनैवेद्यभक्षणञ्च सुधाधिकम्। अन्नं विष्ठा जलं मूत्रमनिवेद्य हरेर्नृप। भवन्ति शूकराः सर्वे ब्राह्मणा यदि भुञ्जते। आजीवं भुञ्जते विपा एकादश्यां न भुञ्जते। कृष्णजन्मदिने चैव शिवरात्रौ सुनिश्चितम्। तथा रामनवम्याञ्च यत्रतः पुण्यवासरे। ब्राह्मणानां स्वधर्मश्च कथितो वेधसा नृप। ५९ अ०। गृहस्थब्राह्मणनियमा यथा "वेदं वेदौ तथा वेदानधीत्य तु समाहितः। तदर्थमभिगम्याथ ततः स्नायाद् द्विजोत्तमः। गुरुवे तु धनं दत्त्वा स्नायीत तदनुज्ञया। चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तः स्नातुमर्हति। वैणवीन्धारयेद्यष्टिमन्तर्वासस्तथोत्तरम्। यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम्। छत्रञ्चोष्णीषममलं पादुके चाप्युपानहौ। रौक्मे च कुण्डले धार्य्ये कृत्तकेशनखः शुचिः। स्वाध्याये नित्ययुक्तः स्याद्बहि र्माल्यं न धारयेत्। अन्यत्र काञ्चनाद्विप्रो न रक्तां बिभृयात स्रजम्। शुक्लाम्बरधरो नित्यं स्रग्गन्धः प्रियष्टर्शनः। नजीर्णमलवद्वासा भवेच्च विभवे सति। न रक्त सुल्वणञ्चान्यधृतं वासो न कुण्डिकाम्। नोपानहौ स्रजं प्राथ पादुके च प्रयोजयेत्। उपवीतमलङ्कारं कुम्भान् कृष्णाजिनानि च। नापसव्यं परीदध्याद्वासा न विकृतं वसेत्। आहरेद्विधिवद्धीमान् सदृशानात्मनः शुभान्। रूपलक्षणसंयुक्तां योनिदोषविवर्जिताम्। अमातृगोत्रप्रभवामसमानार्षगोत्रजाम्। आहरेद्ब्राह्मणो भार्य्यां शीलशौचसमन्विताम्। ऋतुकालाभिगामी स्याद् यावत् पुत्रोऽभिजायते। वर्जयेत् प्रतिषिद्धानि प्रयत्रेन दिनानि तु। षष्ठ्यष्टमी पञ्चदशी द्वादशी च चतुर्दशी। ब्रह्मचारी भवेक्षित्यं तद्वज्जन्मक्षयाहनि। आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम्। व्रतानि स्नातको नित्यं पावनानि च पालयेत्। येदोदितं स्वकं कर्म नित्यं कुर्य्यादतन्द्रियः। अकुर्वाणः पतत्याशु नरकानतिभीषणान्। अभ्यसेत् प्रयतो नित्यं वेदं यज्ञान्न- हापयेत्। कुर्य्यात् गृह्याणि कर्माणि सन्ध्योपासनमेव च। सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा। दैवतान्यपि गच्छेत् तु कुर्य्याद्भार्य्याभिपोषणम्। न धर्मं ख्यापयेद्विद्वान् न पापं घयेदर्पि। कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पकः। वयसा कर्मणाऽर्थस्य श्रुतस्याभिजनस्य च। देशवागबद्धिसारूप्यमाचरन् विचरेत् सदा। श्रुतिस्मृत्युदितं सम्यक साधुभिर्यश्च सेवितः। तमात्मवन्निषेवेतं नेहेतान्यत्र कर्हिचित्। येनास्य पितरो याता येन याताः पितामहाः। तेन यायात् सतां मार्गं तेन गच्छन्न रिष्यति। नित्यं स्वाध्याय शीलः स्यान्नित्य यज्ञोपवीतवान्। सत्यवादी जितक्रोधो ब्रह्मपूयाय कल्पते। सन्ध्यास्नानरतो नित्यं ब्रह्मयज्ञपरायणः। अनुसूयुर्मृदुर्दान्तो गृहस्थः प्रत्ययान्विता। वीतरागभयक्रोधो लोभमोहविवर्जितः। सावित्रीजापनिरतः श्रद्धावान् मुच्यते गृही। मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः। दाता यज्वा देवभक्तो ब्रह्मलोके महीयते। त्रिवर्गसेवी सततं देवतानाञ्च पूजनम्। कुर्य्यादहरहर्नित्यं नमस्येत प्रयतः सुरान्। विभागशीलः सततं क्षमायुक्तो दयात्मकः। गृहस्थस्तपसा युक्तो न गृहेऽपि गृही भवेत्। क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः। अध्यात्म नित्यता ज्ञानमेतद्ब्राह्मणलक्षणम्। एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः। यथाशक्ति चरन् कर्म निन्दितानि विवर्जयेत्। विधूय मोहकलिल लब्धा योगमनुत्तमम्। गृहस्थो मुच्यते बन्धान्नात्र कार्य्याविचारणा। विगर्हातिक्रमक्षेपहिंसाबन्धबधात्मकान्। अन्यमन्युसमुत्थानां दोषाणां बर्जनं क्षमा। स्वदुःखेष्विव कारुण्यं परदु खेषु सौहृदात्। दया यां मुनयः प्राहुः साक्षाद्धर्मस्य साधनम्। चतुर्दशानां विद्यानां धारणं हि यथार्थतः। विज्ञानमेतच्च विद्याद् येन धर्मो विवर्द्धते। अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु। धर्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते। सत्येन लोकं जयति सत्यन्तत् परमं पदम्। यथाभूत प्रसादन्तु सत्यमाहुर्मनीषिणः। दमः शरीरावनतिः शमः प्रज्ञाप्रसादजः। अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति। यथा स देवो भगवान् विद्यया शिव! वेद्यते। साक्षादेव महादेव! तज्ज्ञानमिति कीर्त्तितम्। तन्निष्ठस्तत्परो विद्धान्नित्यमक्रोधनह् शुचिः। महायज्ञपरो विप्रो लभते तदनुत्तमम्। धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत्। न हि देहं विना रुद्र! पुरुषैर्विद्यते परः। नित्यं धर्मार्थकामेषु युञ्जीत नियतो द्विजः। न धर्म वर्जितं काममर्थं वा मनसा स्मरेत्। सीदन्नपि स्वधर्मेण न त्वधर्मं समाचरेत्। धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु। भूतानां प्रियकारी स्यान्न परद्रोहकर्मधीः। न वेददेवतानिन्दां कुर्य्यात्तैश्च न संवदेत्। यस्त्विपं नियतो विप्रो धर्माध्यायं पठेत् शुचिः। अध्यापयेत्च्छ्रावयेद्वा ब्रह्मलोके महीयते”। कूर्मपु० १४ अ० "सूत उवाच। आनृशंस्यं क्षमा सत्यमहिंसा दममार्जवम्। ध्यानं प्रसादो माधुर्य्यं मार्दवं शौचमेव च। इज्या दानं तपः सत्यं स्वाध्यायीह्यात्मनिग्रहः। व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम्। एभिर्युक्तो मुनिश्रेष्ठा! यः सदा वर्त्तते द्विजः। हुत्वा तु पावकं पूर्वं परं ब्रह्माधिगच्छति। अविद्यो वा सविद्यो वा निरग्निः साग्निकोऽपि वा। यो विप्रस्तपसा युक्तः स परं स्वर्गमाप्नुयात्। सर्वेषामुत्तमं श्रेष्ठं विमुक्तिफलदायकम्। ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु। सायं प्रातश्च यः सन्ध्यामुपास्तेऽखिन्नमानसः। जपन् हि पावनीं देवीं गायत्रीं वेदमातरम्। तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः। न सीदेत् प्रतिगृह्णन् स त्वपि पृथ्वीं ससागराम्। द्वे सन्ध्ये ह्युपतिष्ठेत गायत्रीं प्रयतः शुचिः। यस्तस्य दुष्कृतं नास्ति पूर्वतः परतोऽपि वा। यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः। गायत्री ध्यानपूतस्य कलां नार्हति षोडशीम्। एवं किल्विषयुक्तस्तु विनिर्दहति पातकम्। उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः”। तस्य देहापवित्रताहेतुः यथा “यथा देहापवित्रत्वं विग्रादीनां यतो भवेत्। देवर्षे! शृणु तत् सर्वं नराणामानुपूर्विकम्। जातके मृतकेऽस्नाते जलौकाभिः क्षते तथा। अपवित्रो द्विजादीनां देहः सन्ध्यादिकर्मसु। अपूततनूरुत्सर्गे नरो मूत्र पूरीषयोः। अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु। रक्तपाते नखशृङ्गदन्तखड्गादिभिः क्षते। विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः। भुक्तवस्त्राननोच्छिष्टेऽपवित्रः कृतषेथुने। शयने ब्राह्मणादीनां शरीरं क्षुरकर्मणि। ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम्। बपुरप्रयतं पूजादानहोमजपादिषु। धूमोद्गारे वमौ आद्धपतितान्नादिभोजने। तथा च रेतस्खलने मत्या, देहापवित्रता। अपवित्रं द्विजातीनां वपुः स्याद्राहुदर्शने। गर्हितदानग्रहणे पतिते पातकादिभिः। अशौचान्तेन शुद्धिः स्याज्जातके मृतके द्विज!। सर्ववर्णाश्रमादोनां तनोः सन्ध्यादिकर्मसु” पाद्मोत्तरञ्चण्डे १०९ अ०। २ मन्त्रेतरवेदभागे न० ऋ० भाष्योपोद्घाते आशङ्कापूर्वकं तल्लक्षणमुक्तं यथा “तत्र ब्राह्मणस्य लक्षणं नास्ति। कुतः? वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात्। पूर्वोक्तमन्त्रभाग एकः। भागान्तराणि च कानिचित् पूर्वैरुदाहर्तुं संगृहीतानि “हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः। परक्रिया पुरुकिल्पो व्यवर्धारणकल्पनेति”। “तेन ह्यन्नं क्रियत” इति हेतुः १। “तद्दघ्नी दधित्वमिति” निर्वचनम् २। “अमेध्या वै माषाः इति निन्दा ३। “वायुर्वे क्षेपिष्ठेति” प्रशंसा ४। “तद्व्यचिकित्सा जुहवानी ३ मा हौषा ३ मिति” संशयः ५। “यजमानेन सम्मितौदुम्भरी भवतीति” विधिः ६। “माषानेव मह्यं पचन्तीति” परकृतिः ७। “पुरा ब्राह्मणा अभैषुः” इति पुराकल्पः ८। “यावतोऽश्वान् परिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेदिति” विशेषावधारणकल्पना ९। एवमन्यदप्युदाहार्य्यम्। न च हेत्वादीनामन्यतमं ब्राह्मणमिति लक्षणम्। मन्त्रोष्वपि हेत्वादिसद्भावात्। “इन्दवो वा मुशन्ति हीति” हेतुः। “उदानिषुर्महीरिति तस्मादुदकमुच्यत इति” निर्वचनम्। “मोघमन्नं विन्दते अप्रचेताः” इति निन्दा। “अग्निर्मूर्द्धा दिवः ककुदिति” प्रशंसा। “अधः स्विदासी ३ दुपरि स्विदासी ३ दिति” संशयः। “वसन्ताय कपिञ्जलानालभेत” इति विधिः। “सहस्रमयुतं ददाविति” परकृतिः। “यज्ञेन यज्ञमयजन्त देवाः” इति पुराकल्पः। इतिकरणबहुलं ब्राह्मणमिति चेत् न “इत्यददा इत्ययजथा इत्यपच इति “ब्राह्मणो गायेत्” इत्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः। इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेत् न “राजा चिदां भगं भक्षीत्याह यो मायातुं यातुधानेत्याह यो वा रक्षः। “शुचिरस्मीत्याहे श्रनयोर्मन्त्रयोरतिव्याप्तेः। आख्यायिकारूपं ब्राह्मणमिति चेत् न यमयमीसंवादसूक्तादावतिव्याप्तेः। तस्मान्नास्ति ब्राह्मणलक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मणरूपौ द्वावेव वेदभागावित्यङ्गीकारात् मन्त्रलक्षणस्य पूर्बमभिहितत्वादवशिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति”।
ब्रा(व्रा)ह्मणक = पु० कुत्सितार्थे कन्। कुत्सितब्राह्मणे। ब्राह्मणकर्माण्युक्त्वा “एवमुक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत्” भा० शा० २७१ अ० उक्तेः। ब्राह्मणेन जातिमात्रेण कायति कै–क। २ ब्राह्मणकृत्यरहिते विप्रवंश्ये। संज्ञायाम् कन्। आयुधजीविव्राह्मणप्रधाने ३ देशे सि० कौ० ततः कोपधत्वात् छ। ब्राह्मणकीय तत्सम्बन्धिनि त्रि०।
ब्रा(व्रा)ह्मणकाम्या = स्त्री ६ त०। १ विप्रेच्छायाम् उपचारात् २ तद्विषये च “अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः। हविर्व्राह्मणकाम्या च गुरोर्वचनमौषधम्” प्रा० त०।
ब्रा(व्रा)ह्मणचक्षुम् = न० ब्राह्मणस्य सर्वार्थप्रकाशकत्वात् चक्षुरिव। “श्रुतिस्मृती च विपाणां चक्षषी देवनिर्मिते। काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्त्तितः” हरीतोक्ते सर्वार्थप्रकाशकत्वेन विप्रस्य चक्षस्तुल्ये वेदस्मृतिरूपे पदार्थे।
ब्रा(व्रा)ह्मणचाण्डाल = पु० ब्राह्मणश्चाण्डाल इव। शास्त्रनिषिद्धकर्मकारिणि अपकृष्टब्राह्मणे मनुः ९। ८७।
ब्रा(व्रा)ह्मणजातीय = पु० ब्राह्मणजाति + स्वार्थे वन्धुनि जात्यत्वात् छ प्रकृतिलिङ्गस्यातिक्रमः। ब्राह्मजातियुक्ते
ब्रा(व्रा)ह्मणजीविका = स्त्री ६ त०। याजनाध्यापनप्रतिग्रहरूपायां ब्राह्मणवृत्तौ “ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः। ते सम्यगुपजीवेयुः षट् कर्माणि यथाक्रमम्। अध्यापनमध्ययनं यजनं याजनन्तथा। दानं प्रतिग्रहश्चैव षटकर्माण्यग्रजन्मनः। षण्णान्तु कर्मण मस्यत्रीणि कर्माणि जीविका। याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रह” मनुः। ब्राह्मणवृत्तिरप्यत्र स्त्री।
ब्राह्मणत्रा = अव्य० ब्राह्मणाय देयम् त्राच्। विप्राय देयमित्यर्थे
ब्रा(व्रा)ह्मणप्रिय = ६ त०। १ विष्णौ “ब्रह्मज्ञो ब्राह्मणप्रियः” विष्णुस०। २ विप्रहिते त्रि०।
ब्रा(व्रा)ह्मणब्रुव = पु० ब्राह्मणं विप्रजातिमात्रतया आत्मानं ब्र वीति ब्रू–क बा० न वच्यादेशः। वेदतत्कर्महीने जातिमात्रोजीविनि विप्रे “गर्भाधानादिमन्त्रैर्यो वेदोपनयनेन च। नाध्यापयति नाधीते स भवेद्ब्राह्मणब्रुवः” व्यासस०। “जातिमात्रोपजीवी च कामं स्याद् ब्राह्मणब्रुवः। धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन” मनुः “सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे” मनुः।
ब्रा(व्रा)ह्मणयज्ञ = पु० ब्राह्मणमात्रकर्त्तृको यज्ञः शा० त०। विप्रमात्रकर्त्तव्ये सौत्रामणीयज्ञे “ब्राह्मणयज्ञः सौत्रामण्यृद्धिकामस्य” कात्या० श्रौ० १९ ११ “ब्राह्मणग्रहणं क्षत्रि यवैश्ययोर्निवृत्त्यर्थम् ऋद्धिकामस्य ब्राह्मणस्य नेतरयोर्वर्ण- योरिति सौत्रामणीति कर्मनामधेयम्” कर्कः। “तस्मादेष ब्राह्मणयज्ञो यत् सौत्रामणी” शत० ब्रा० १२। ९। १। १।
ब्रा(व्रा)ह्मणयष्टि = स्त्री ६ त० वा ङीप्। (वामनहाटी) १ वृक्षभेदे २ विप्रदण्डे च स्वार्थे क। अत्रैव अमरः।
ब्रा(व्रा)ह्मणलक्षण = न० ६ त०। विप्रस्यासाधारणे धर्मभेदे तच्च वसिष्ठेनोक्तं यथा “योगस्तपोदमोदानं सत्यं शौचं दया श्रुतम्। विद्या विज्ञानमास्तिक्यमेतद्ब्राणलक्षणम्। सर्वत्र दान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिबधे निवृत्ताः। प्रतिग्रहे सङ्कुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः”।
ब्रा(व्रा)ह्मणशस्त्र = न० व्राह्मणस्य शस्त्रमिव तत्कार्य्यकारित्वात्। अभिचारादिमन्त्रोच्चारणात्मके विप्रवाक्ये “वाक् शस्त्रं वै व्राह्मणस्य तेन हन्यादरीन् द्विजः” मनुः। “यस्मादभिचारमन्त्रोच्चारणात्मिका ब्राह्मणस्य वागेव शस्त्रं शस्त्रसाध्यकार्यकारि” कुल्लू०।
ब्रा(व्रा)ह्मणसम = पु० ६ त०। “ब्रह्मवीजसमुत्पन्नो मन्त्रसंस्कारवर्जितः। जातिमात्रापजीवी च स भवेद् ब्रह्मणः समः” व्यामोक्ते क्रियारहिते विप्रे
ब्रा(व्रा)ह्मणाच्छंसिन् = पु० ब्राह्मणे मन्त्रेतरवेदभागे विहितानि शस्त्राणि उपचारात् ब्रह्मणानि तानि शंसति द्वितीयायार्थे पञ्चम्युपसंख्यानम् तस्याः “ब्राह्मणाच्छंसिन उपसंख्यानम्” वार्त्ति० अलुक्। ब्रह्मरूपस्य ऋत्विजः सहकारिणि ऋत्बिग्भेदे अच्छावाकशब्दे ८५ पृ० दृश्यम्। अत्र कश्चिद्विशेषोऽभिधीयते। षोडर्त्विजां मध्ये प्रधानभूतान् चतुर उक्त्वा कात्या० श्रौ० ७१८९१०। उक्तं यथा “तत्पुरुषा इतरे यथावेदम्” सू० “इतरे द्वादशर्त्विजो तेषामाद्यानां ब्रह्मादीनां चतुर्णां पुरुषाः आदेशकारिणोऽनुचराः सेवकाः यथावेदमिति ये यद्वेदविहितस्य कर्मणः कर्त्तारस्ते तत्पुरुषाः यथावेदमिति ये ब्रह्मपुरुषा न ज्ञायन्त इति तान् स्वयमेवाह” कर्कः “ब्रह्मणाच्छंस्यग्नीत्पीतारो ब्रह्मणः” सू०। प्रधानपुरुषवरणेन तद्वशवर्त्तित्वात्तेऽपि वृता एव भवन्ति प्रधानपुरुषे कार्य्यान्तरासक्तेऽन्यत्र गते वा तदीयं कर्म तत्पुरुषैरेव कर्त्तव्यम् नान्यपुरुषैरिति पुरुषाणामपि पूर्वपूर्वेण करणसम्भवे नोत्तरेण”। तस्य भावः कर्म वा “होत्राभ्यश्छः” पा० छ। ब्राह्मणाच्छंसीय तद्भावादा
ब्रा(व्रा)ह्मणादि = पु० भावे कर्मणि चार्थे ष्यञप्रत्ययनिमित्ते शब्दगणे स च गणः “ब्राह्मण बाडव माणव (अर्हतोनुम् च) चोर धूर्त्त आराधय विराधय अपराघय उपराधय एकभाव द्विभाव त्रिभाव अन्यभाव अक्षेत्रज्ञ संवादिन् संवेशिन् संभाषिन् बहुभाषिन् शीर्षघातिन् विघातिन् समस्थ विषमस्थ परमस्थ मध्यमस्थ अनीश्वर कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ मिश्र वालिश अलस दुःपुरुष कापुरुष राजन् गणपति अधिपति गडुल दायाद विशस्ति विषम विपात निपात (सर्व्वेदादिभ्यः स्वार्थे) (चतुर्वेदस्योभयपदवृद्धिश्च) शौटीर” पा० ग० सू०। ब्राह्मणादिराकृतिगणः। तेन औचित्यादि।
ब्रा(व्रा)ह्मणायण = पुंस्त्री० ब्राह्मणापत्यं नडा० फक्। विप्रगोत्रापत्ये शुद्धवंशजाते विप्रे त्रिका०।
ब्रा(व्रा)ह्मणिक = त्रि० ब्राह्मणस्य मन्त्रेतरवेदभागस्य व्याख्यानो ग्रन्थः ठक्। मन्त्रेतरवेदभागव्याख्याने ग्रन्थे।
ब्रा(व्रा)ह्मण्य = न० ब्राह्मणानां समूहः भावो वा ष्यञ्। १ विप्रसमूहे। २ ब्राह्मणधर्मे ३ विप्रत्वे च। जात्यन्तरगतस्य कारणविशेषाभावे ब्राह्मण्यप्राप्तिर्नास्तीति ब्राह्मण्यस्य दुष्प्रापत्वम् भा० २८ अ० मतङ्गोपाख्याने विस्तरेण उक्तं यथा “तिर्य्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति। स जायते पुक्कशो वा चाण्डालो वाऽप्य संशयम्। पुक्कशः पापयोनिर्वा यः कश्चिदिह लक्ष्यते। स तस्यामेव सुचिरं सतङ्ग। परिवर्त्तते। ततो दशशते काले लभते शूद्रतामिति। शूद्रयोनावपि ततो बहुशः परिवर्त्तते। ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि। वैश्यतायां चिरं कालं तत्रैव परिवर्त्तते। ततः षष्टिगुणे काले राजन्यो नाम जायते। ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम्। ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्त्तते। ततस्तु द्विशते काले लभते काण्डपृष्ठताम्। काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्त्तते। ततस्तु त्रिशते काले लभते विप्रतामपि। ताञ्च प्राप्य चिरं कालं तत्रैव परिवर्त्तते। ततश्चतुःशते काले श्रोत्रियो नाम जायते एतच्च जात्यभिप्रायं संस्कारादिना तु विशिष्टब्राह्मण्यलाभः यथोक्तमङ्गिरसा “चित्रं कर्म यथाऽनेकैरङ्गैरुन्मील्यते शनैः। ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपर्वकैः”। २ शनिग्रहे पु० शब्दमाला। तादृशब्राह्मण्य हानिस्तु कर्मभेदात् यथा “शूद्रां शयनमारोप्य ब्राह्मण्यादेव हीयते” इत्यादि।
ब्रा(व्रा)ह्मणी = स्त्री ब्राह्मणस्य पत्नी ङीष्। १ ब्राह्मणस्य पत्न्यां ब्राह्मणस्येयम् अण् ङीप्। २ ब्रह्मसम्बन्धिन्यां स्त्रियाम्। ३ बुद्धौ च। “मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम्”। “अरणीं ब्राह्मणीं विद्धि पुरुषञ्च त्तिरारणिम्। तपःश्रुते त्राभिमथ्नीतो ज्ञानाग्निर्जायते ततः” भा० आश्व०३४ अ०।
ब्रा(व्रा)ह्मीकन्द = पु० ब्राह्म्या इव कन्दोऽस्य। १ वाराही कन्दे राजनि०। २ ब्रह्मयष्टिकायां विश्वः।
ब्रा(व्रा)ह्म्य = त्रि० ब्रह्मण इदं ष्यञ्। १ ब्रह्मसम्बन्धिनि स्त्रियां ङीष्। २ विस्मये ३ दृश्ये च धरणिः।
ब्रा(व्रा)ह्म्यमुहूर्त्त = पु० ब्रह्मा देवतास्य ष्यञ् टिलोपः कर्म० णरुणोदयात् प्राग्वर्त्तिनि “रात्रेश्च पश्चिमे यामे मुहूर्त्ती ब्राह्म्य उच्यते” “रात्रेश्च पश्चिमे यामे मुहूर्त्तो यस्तृतीयक। स ब्राह्म्य इति विख्यातो विहितः सप्रबो धने” आ० त० सुमन्तुना उक्ते दण्डद्वयात्मके काले।
ब्रू = कथने अदा० उभ० द्विक० सेट्। ब्रवीति आह ब्रूते। अवाचत् अवोचत। उवाच ऊचतुः। अस्यार्द्धधातुके वच्यादेशोऽनित्यः तेन “विव्रतिः कटके कृता”। ब्रह्मणब्रु। इत्यादि सिद्धम्। अनु + पश्चात् कथने अनुवादे। वि + विरुद्धतया कथने विवादे च। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते वाचस्पत्याभिधाने बकारादि शब्दार्थसङ्कलनम्।
***