ब्य(व्य)ध = ताडने दिवा० पर० सक० अनिट् बि(वि)व्यति अभ्या(व्या)त्सीत् बि(वि)व्या(व्या)ध वर्ग्यादित्वे सनि बिभ्यत्सति।

ब्युष = उत्सर्गे विभागे च चु० उभ० सक० सेट्। व्याषयति–ते अबुव्युषत् त।

ब्र(व्र)ण = शब्दे भ्वा० पर० अक० सेट्। (ब्र)व्रणति। अब्र(ब्र)णित्–अ(ब्र)ब्राणीत्। कविकल्पद्रुमेऽयमन्त्यस्थादि।

ब्रध्न = पु० बन्ध–नक् ब्रधादेशः। १ सूर्य्ये २ अर्कवृक्षे अमरः। ३ शिवे हेमच०। ४ दिने ५ अश्वे निघण्टुः ६ ऋषिभेदे तस्य गोत्रापत्यम् कुञ्जा० च्कञ्। ब्रान्धायन तद्गोत्रापत्ये पुंस्त्री०। ७ भौत्यमनोः पुत्रभेदे मार्कपु० १०० अ०। ८ रीगभेदे “अभ्यभिष्यन्दिगुर्वामसेवनान्निचयं गतः। करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु। ज्वरशूलाङ्गसादाद्यं तं व्रध्नमिति निर्दिशेत्” माधवनि०

ब्रध्नश्व = पु० नृपभेदे भा० व० ९८ अ०।

ब्रह्मकन्यका = स्त्री ६ त०। १ सरस्वत्यां त्रिका० (वामनहाटी) २ ब्राह्न्यां राजनि०।

ब्रह्मकर्मन् = न० ब्रह्मविहितं कर्म०। १ वेदविहिते कर्मणि भा० उ० ३९ अ०। २ ईश्वरार्पितकर्मफलेत्रि०

ब्र(व्र)ह्मकर्मसमाधि = पु० व्रह्मणि समाधिः “ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तघ्यम् ब्रह्मकर्मसमाधिना” गीतोक्ते सर्वकर्मणां कर्त्त्राद्यङ्क जातस्य ब्रह्मरूपेण चिन्तने।

ब्र(व्र)ह्मकुण्ड = न० ब्रह्मनिर्मितं कुण्डम् शा० त०। सरोवरभेदे तदाविर्भवकथा। “पाण्डुनाथस्योत्तरस्यां व्रह्मकुण्डाह्वयं सरः। ब्रह्मणा निर्मिनं पूर्वं स्नानाय स्वर्गवासिनाम्। आयामेन शतघ्यामं विस्तीर्णेन तदर्द्धकम्। सर्वपापहरं पुण्यं देवलोकात् समागतम्” तत्र स्नानमन्त्रः। “कमण्डलु समुड्भूतः ब्रह्मकुण्डामृतस्रव!। हर मे सर्वपापानि पुण्य स्वर्गञ्च साधय। इत्यनेन तु मन्त्रेण स्नायात् तस्मिन् सरोजले। पाण्डुनाथञ्च संपूज्य विष्णुसायुज्यमाप्नुयात्। ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम्। ब्रह्मकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः” कालिकापु० ८१ अ०।

ब्र(व्र)ह्मकूट = पु० पर्वतभेदे ब्रह्मकुण्डशब्दे दृश्यम्।

ब्र(व्र)ह्मकूर्च = न० “अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः। पञ्चगव्यं पिषेत् प्रातः ब्र(व्र)ह्मकूर्चमिति स्मृतम्” इत्युक्ते १ पञ्चगव्यपानरूपे व्रतभेदे। २ कुशोदकसहित पञ्चगव्ये च नारसिंहपु० “पञ्चगव्येन देवेशं यः स्नापयति भक्तितः। ब्रह्मकूर्चविधानेन विष्णुलोके महीयते” “ब्र(व्र)ह्मकूर्चविधानेन कुशोदकयुक्तेन” देव० प्र० त० रघु० प्रायश्चित्ताङ्ग ब्र(व्र)ह्मकूर्चप्रमाणादि तुलादानादिपद्धतौ २२६१ पृ० अस्माभिर्दर्शिम्।

ब्र(व्र)ह्मकृत् = त्रि० ब्र(व्र)ह्म तपः करोति कृप्। १ तपःकर्त्तरि २ विष्णौ पु० “ब्र(व्र)ह्मण्यो ब्र(व्र)ह्मकृत् ब्रह्मा” विष्णुस०

ब्र(व्र)ह्मकृत = त्रि० ३ त०। ब्रह्मणा कृते। ततः शुभ्रा० अपत्ये ढक्। ब्राह्मकृतेय तदपत्ये पुं स्त्री०।

ब्र(व्र)ह्मकोशी = पु० ब्र(व्र)ह्मणः कोशीव। अलमोदायाम् राजनि०।

ब्र(व्र)ह्मगर्भ = स्त्री ब्र(व्र)ह्मव गर्भोऽस्य। आदित्यभक्ताया राजनि०।

ब्र(व्र)ह्मगार्ग्य = पु० ऋषिभेदे हरिवं० १५९ अ०।

ब्र(व्र)ह्मगिरि = पु० कामाख्यानिलयपूर्वस्यां स्थिते गिरिभेदे “ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम्। तत्पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः” कालिकापु० ८१ अ०

ब्र(व्र)ह्मगीता = स्त्री ६ त०। भा० आनु० ३५ अ० दर्शितायां ब्रह्मणा कथितायां अनुशामनरूपगाथायाम्। “अत्र गाथाः पुरा गीताः कीर्त्तयन्ति पुराविदः। सृष्ट्वा द्विजातीन् धाता हि यथापूर्बं समादधत्। न चान्य दिह कर्त्तव्यं किञ्चिदूर्द्धं यथाविधि। गुप्तो गोपायते ब्रह्म श्रेयो वस्तेन शोभनम्। स्वमेव कुर्वतां कर्म श्रीर्वो व्राह्मी भविष्यति। प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ। न शौद्रं कर्म कर्त्तव्यं ब्राह्मणेन विपश्चिता। शीद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते। श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी। ख्याध्यायं चैव माहात्म्यं विपुलं प्रतिपत्स्यथ। हूत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः। अग्रमोज्या प्रसूतानां श्रिया ब्राह्म्याऽनुकल्पिताः। श्रद्धया परया युक्ता ह्यनमिद्रोहलब्धया। दमस्वाध्यायनिरताः सर्वान् कामानवाप्स्यथ। यच्चैव मानुषे लोके यच्च देवेषु किञ्चन। सर्वं तु तपसा साध्यं ज्ञानेन नियमेन च। इत्येवं ब्रह्मगीतास्ते समाख्याता मयाऽनघ”।

ब्र(व्र)ह्मग्रन्थि = पु० यज्ञोपबीतस्य ग्रन्विभेदे

ब्र(व्र)ह्मघातक = पु० ब्रह्माणं विप्रं हन्ति हन–ण्वुल्। १ ब्रह्महत्याकारके “पङ्क्रिभेदी वृथा पाकी नित्यं ब्राह्मणनिन्दकः। आदेशी वेदविक्रेता पञ्चैते ब्रह्मधातकाः”। ध्यासोक्ते पारिभाषिके २ पापभेदयुक्ते त्रि०। ब्रह्मधातोऽस्त्यस्यां “भक्षणेन ठन्। द्वादश्या भक्षणे ब्रह्महत्यापापयुतायां पूतिकायां “पूतिका ब्रह्मघातिका” ति० त०।

ब्र(व्र)ह्मघोष = पु० ६ त०। वेदध्वनौ।

ब्र(व्र)ह्मघ्न = त्रि० ब्रह्माणं ब्राह्मणं हन्ति हन–क। ब्रह्महत्याकारके “ब्रह्मन्धमपि चण्डालं कं पतन्तं पुनीमहे” म० त०। स्त्रियां ङीप्।

ब्र(व्र)ह्मचक्र = न० ब्रह्मनिर्मितं चक्रम्। १ कार्य्यकरणानाके संसाररूपे चक्रे। “सर्वाजीवे सर्वसंस्थे वृहन्ते अणिन् हंसो भ्राम्यते ब्रह्मचक्रे” श्वेताश्वतरोप०। रुद्रजामलोक्ते २ दीक्षोपयोगिचक्रभेदे च।

ब्र(व्र)ह्मचर्य्य = न० ब्रह्मणे वेदग्रहणार्थं चर्य्यम्। द्विजानां वेदग्रहणार्थव्रतभेदे। “प्रतिवेदं ब्रह्मचय्य द्वादशावदानि पञ्च वा। ग्रहणान्तिकमित्येके” गरुडपु० ९४ अ०। तत्प्रकारो मनुनोक्तो यथा “कृतोपनयनस्यास्य व्रतादेशनमिष्यते। ब्रह्मणो ग्रहणश्चैव क्रमेण विधिपूर्वकम्। यद् यस्य विहितञ्चर्म यत् सूत्रं या च मेखला। यो दण्डो यच्च वसनन्तत्तदस्य व्रतेष्वपि। सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन्। सन्नियम्येन्द्रियग्रामन्तपोवृद्ध्यर्थमात्मनः। नित्यं स्नात्वा शुचिः कुर्य्याद्देवर्षिपितृतर्पणम्। देवताभ्यर्चनञ्चैव समिदाधानमेव च। वर्जयेन्मधुमांसञ्च गन्धं माल्यं रसान् स्त्रियः। शुक्तानि यानि सर्वाणि प्राणिनाञ्चैव हिंसनम्। अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणम्। कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवदनम्। द्यूतञ्च जनवादञ्च परिवादन्तथाऽनृतम्। स्त्रीणाञ्च प्रेक्षणालम्भसुपघातम्परस्य च। एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित्। कामाद्धि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः। स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः। स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत्। उदकुम्भं सुमनसो गोशकृनमृत्तिकाकुशान्। आहरेद्यावदर्थानि भैक्षञ्चाहरहश्चरेत्। वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु। ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम्। गुरोः कुले न भिक्षत न ज्ञातिकुल बन्धुषु। अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत्। सर्वं वापि चरेद् ग्रामं पूर्वोक्तानामसम्भवे। नियम्य प्रयतो वाचमभिशस्तंस्तु वर्जयेत्। दूरादाहृत्य समिधः संनिष्टध्याद्विहायसि। सायम्प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः। अकृत्वा भैक्षचरणमसमिध्य च पावकम्। अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत्। भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद् व्रती। भैक्षेण व्रतिनो वृत्तिरूपवाससमा स्मृता। व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत्। काममभ्यर्थितोऽश्नीयाद् व्रतमस्य न लुप्यते। ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः। राजन्यवैश्ययोस्त्वेवं नैतत् कर्म विधीयते”। ततः गुरुवृत्तिरुक्ता सा च गुरुवृत्तिशब्दे २६२३ पृ० दर्शिता। २ योगाङ्गयमभेदे च “अहिंसासत्याऽस्तेय ब्र(व्र)ह्मचर्य्याऽपरिग्रहा षमाः” वात०। तत्र व्र(व्र)ह्मचर्य्यं व्याकृतं भाषकविवरणाभ्यां यथा “व्र(व्र)ह्मचर्य्यं “गुप्तेन्द्रियस्योमस्थस्य संयमः” भा०। “संयतोपस्थोऽपि हि स्त्रीप्रेक्षणतदालापकन्दर्पायतनतदङ्गस्पशंनसक्तो न ब्र(व्र)ह्मचर्य्यवान् तन्निरासायोक्तं गुप्तेन्द्रियस्येति इन्द्रियान्तराण्यपि तत्र लोलुपानि रक्षणीयानि” विव०। तत्र अष्टाङ्गमैथुनशब्दे ५२४ पृ० दर्शितवाक्येन मैथुनस्य स्मरणाद्यष्टाङ्गतया तदुपयोगीन्द्रियाणि संयम्यानीत्यर्थः। तत्फलञ्च तत्रोक्तं यथा “ब्र(व्र)ह्मचर्य्यप्रतिष्ठायां वीर्य्यलाभः” पात०। “यस्य लाभादप्रतिघान् गुणानुत्कर्षयति सिद्धश्च विनेयेषु ज्ञानमा धतुं समर्थो भवति” भा०। “वीर्य्यं सामर्थ्यं यस्य लाभादप्रतिघान् गुणानणिमादीन् विनेयेषु शिष्येषु ज्ञानं योगतदङ्गविषयमाधातुं मसर्थो भवति” विव०। तथाच अष्टाङ्गमैथुनवर्जनमेव ब्र(व्र)चर्य्यं तच्च स्त्रीपुं सयोः साधारणं पुंसः स्त्रीस्मरणाद्यष्टाङ्गराहित्यस्येव स्त्रीणां पुंस्मरणादिशून्यत्वेस्यापि तथात्वम् “अतएव ब्र(व्र)ह्मचर्य्यं तदन्वायरोहणं वा” विष्णु सू०। विधवानामपि ब्र(व्र)ह्मचर्य्यं विहितम् “मृते भर्त्तरि साध्वी स्त्री ब्र(व्र)चर्य्यव्यवस्थिता। स्वर्गं गच्छत्यपुत्रापि यथा ते ब्र(व्र)ह्मचारिणः” मनुव्याख्यायां ब्र(व्र)चर्य्ये व्यवस्थिता अकृतपुरुषान्तरमैथुना” कुल्लू० उक्तम्। भावे क्यम् ब्रह्मचर्य्या तत्रार्थे स्त्री।

ब्र(व्र)ह्मचारिन् = पु० ब्र(व्र)ह्म वेदस्तद्ग्रहणार्थं चरति व्रतभेदम् चर + णिनि। १ उपनयनानन्तरमाद्याश्रमयुते द्विजातौ उपचारात् २ तदाश्रमे च। तस्य कर्त्तव्यादिकं मनूक्तं ब्र(व्र)चर्य्यशब्दे दर्शितम्।

ब्र(व्र)ह्मचारिणी = स्त्री “वेदेषु चरते यस्मात् तेन सा ब्रह्मचारिणी” देवीपु० ४५ अ० निरुक्तियुक्तायां वेदमात्रगर्म्यायां चिच्छक्तिरूपायां १ दुर्गायां २ ब्रह्मचर्य्ययुतायां स्त्रियाञ्च “आसीतामरणात् क्षान्ता नियतं ब्र(व्र)ह्मचारिणी” मनुः। ३ वारुणीवृक्षे राजनि०। ४ ब्राह्मीशाके रत्नमाला।

ब्र(व्र)ह्मज = पु० ब्रह्मणो जायते जन–ड। १ हिरण्यगर्भे “यो वै ब्र(व्र)ह्माणं विदधाति पूर्वं गश्चास्मै प्रहिणोति वेदम्” श्रुतेः “सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्बहुधा प्रजाः” इत्युपक्रमे “तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयंब्रह्मा सर्वलोकपितामहः” इति भनूक्तेश्च तस्य तथात्वम्। २ ब्रह्मजातमात्रे पञ्चभूतादौ च “यतो वा इमानि भूतानि जायन्ते” इत्युपक्रमे “तत् विजिज्ञासस्व ब्रह्मेति श्रुतौ ब्रह्मतः सर्वभूतोत्पत्तिश्रवणात्।

ब्र(व्र)ह्मज्ञ = त्रि० ब्रह्म जानाति ज्ञा–क। १ ब्रह्मवेत्तरि २ विष्णौ पु० “ब्रह्मज्ञो ब्राह्मणप्रियः” विष्णु स०।

ब्र(व्र)ह्मजटा = स्त्री ब्रह्मणो जटेव संहतत्वात्। दमनकवृक्षे राजनि०

ब्र(व्र)ह्मजा(या)मल = न० जामलभेदे तन्त्रे।

ब्र(व्र)ह्मजिज्ञासा = स्त्री ६ त०। ब्रह्मावगतिफलके विचारे। शारीरकतभाष्ये १ सूत्रे तत्राधिकार्य्यादिकं दृश्यम्।

ब्र(व्र)ह्मजीविन् = पु० ब्रह्म वेदस्तद्विहितेन श्रौतकर्मणां जीवति जीव–णिनि। वृत्त्यर्थं परकीतश्रौतादिकर्मकारके

ब्र(व्र)ह्मज्ञान = न० ब्रह्मणो ज्ञानं तेन सह आत्माभेदज्ञानम्। ब्रह्मविद्यायां तच्च अहं ब्रह्मास्मीत्येवंरूपम् “आत्मानं चेत् विजानीयादयमस्मीति पुरुषः। किमिच्छन् कस्य कामाय किमर्थमनुसंज्वरेत्” श्रुत्या तदभेदज्ञानस्यैव मोक्षहेतुत्वमुकं “वेदान्तसाङ्ख्यसिद्धाब्रह्मज्ञानं वदाम्यहम्। अहंब्रह्म परं ज्योतिः विष्णुरित्येव चिन्तयेत्। सूर्य्ये हृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम्। यथा सर्पिः शरीरस्थं गवां न कुरुतेबलम्। निर्गतं कर्मसंयुक्तं दत्ते तासां महाबलम्। तथा विष्णुः शररीरस्थो न करोति हितं नृणाम्। विनाऽऽराधनया देवः सर्वपः परमेश्वरः। आरुरुक्षुयतीनाञ्च कर्मज्ञानमुदाहृतम्। आरूडयोगवृक्षाणां ज्ञानं योगः परं मतम्” गरुड्पु० २४० अ०। न्यायादिमते तच्चारोपज्ञानं वेदान्तिमते प्रमारूपम्। तत्त्वमसि अहंब्रह्मास्मीत्यादोवाक्यजन्यमपि तज्ज्ञानं मनननिदिध्यासनादिना पश्चात् प्रत्यक्षसुत्पद्यते। तज्ज्ञानाभिलापादिकं विवेकचू० दर्शितं यथा “अव्यक्तादिस्थूलपर्य्यन्तमेतदुमेतदुविश्वं यत्राभाममात्रं प्रतीतम्। व्योमप्रख्यं सूक्षममाद्यन्तहीनं ब्रहावैतं यत्तदेवाहमस्नि। सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वम्शून्यम्। नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं यत् तदेवाहसस्मि। यस्मिन्नस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम्। सत्यज्ञानानन्दमानन्दरूपं ब्रह्माद्वैतं यत् तदेवाहमस्मि। निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः। निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः। सर्वात्मकोऽहं सर्वोऽह सर्यातीतोऽहमद्वयः। केवलाखण्डवोधोऽहमानन्दोऽहं निरन्तरम्”।

ब्र(व्र)ह्मणस्पति = पु० ६ त० अकुकस० निघण्टौ तस्य पदणपत्पौक्तेः एतपदत्वमं। १ ब्राह्मणजातिखामिनि यजु० १४-२८ (२)मन्त्रस्वामिनि च "पवित्रं ब्रह्मणस्पते" ताण्ड्य० १। २। ८। “हे ब्रह्मणस्पते! मन्त्रस्वामिन्” भा०

ब्र(व्र)ह्मण्य = पु० ब्रह्मणे हितः। १ विष्णौ “ब्रह्मण्यो देवकी पुत्रः” विष्णु सं०। २ ब्राह्मणहितमात्रे त्रि० ३ ब्रह्मदारुवृक्षे पु० अमरः। ४ सुञ्जतृणे ५ तालवृक्षे राजनि०। ६ शनैश्चरे ७ ब्रह्मणि तपसि साधौ त्रि० मेदि०।

ब्र(व्र)ह्मतीर्थ = ६ अत०। १ पुष्करमूले राजनि० २ पुष्करतीर्थे च। ३ तीर्थभेदे यत्र स्नाने “तत्र वर्णावरः स्नात्वा ब्राह्मण्य लभते नरः। ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्” भा० व० ८३ अ०। फलमुक्तम्।

ब्र(व्र)ह्मत्व = न० ब्रह्मणो भावः त्व। १ ऋत्विगविशेषस्य ब्रह्मणो धर्मे २ शुद्धतुरीयब्रह्मभावे च।

ब्र(व्र)ह्मतुङ्ग = पु० कालपर्वतभेदे। “स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम्। ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि” भा० द्रो० ८ अ०।

ब्र(व्र)ह्मद = पु० ब्रह्म वेदं ददाति। उपनीय वेददातरि आचार्य्ये “उत्पादब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता” मनुः दा–तृच् ब्रह्मदातृ तत्रार्थे पु०।

ब्र(व्र)ह्मदण्ड = पु० ब्रह्मणो दण्डः। १ ब्रह्मणदण्डे २ अभिशापरूपे दण्डे “ब्रह्मदण्डहता ये च विद्युदग्निहताश्च ये” ति० त० षोडशीश्राद्धमन्त्रः। ३ वसिष्ठसिद्धयष्टिरूपे दण्डे च। “धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं परम्। एकेन ब्रह्मदण्डेन बहवो नाशिता मम” रामा० अयो० विश्वामित्रवाक्यम्। ४ ब्राह्मणयष्टिवृक्षे शब्दच०। ५ विप्रल यष्टौ च। ६ केतुभेदे वृ० स० ११ अ०। केतुशब्दे दृश्यम्।

ब्र(व्र)ह्मदण्डी = स्त्री क्षुद्रो दण्डः ङीप् ब्रह्मोपसनाङ्गं दण्डी। क्षद्रुक्षुपभेदे कण्टकपत्रफलायामजगण्ड्यां राजनि०।

ब्र(व्र)ह्मदत्त = इक्षाकुवंश्ये नृपभेदे २ त०। २ हिरण्यगर्भेण दत्ते त्रि० ४ त०। ३ विप्राय दत्ते त्रि०। ४ शुकदेवस्य कन्यायां कृत्वीसमाख्यायां अणुहस्य पुत्रभेदे पु० तत्कथा हरिवं० ११ अ० दृश्या।

ब्र(व्र)ह्मदर्भा = स्त्री ब्रह्मणो दर्भो ग्रन्थतमस्याः। यमानिकायाम् अमरः।

ब्र(व्र)ह्मदाय = पु० ब्र(व्र)ह्म ण(णे) वा वेदाध्यवनसमाप्तौविप्राय वा राज्ञा दीयते दा–कर्मणि थञ्। समावृत्तविप्राय देये धने “ब्र(व्र)ह्मदायाततां भूमिं गरेयुर्ब्राह्म पीसुताः” दायभागधृतस्मृतिः।

ब्र(व्र)ह्मदारु = पु० ब्रह्मपोइ विउप्रस्य हितः दारुः। अश्वत्थाकारे वृक्षभेदे अमरः।

ब्र(व्र)ह्मद्विष् = त्रि० ब्रह्मणे वेदाय विप्राय द्वेष्टि द्विप–क्विप्। १ वेदविप्रयोद्वे परि २ वेदनिन्दद्वे च मनुः २। १५।

ब्र(व्र)ह्मन् = न० वृंह–मनिन् “वृंहेर्नोऽच्चेति” उणा० नकारस्याकारे ऋतो रत्वम्। १ देवे “तस्मादेत्दु ब्रह्म नाम रूपमन्नञ्च जायते श्रुतिः”। “तेन ब्रह्म हृदा” भाग० १। १। १। २ तषसि, ३ सत्ये ४ तत्त्वे यथार्थे अमरः। सर्वगुणातीते विशुद्धे तुरीये ५ चित्स्वरूपे च। ६ हिरण्यगर्भे ७ विप्रे ८ ऋत्विग्विशेषे च पु० अमरः। विष्कम्भादिषु पञ्चविंशे ९ योगे मेदि०। लज्जवलदत्तेन दन्तोष्ठ्यादि त्वेन साधितम् मेदिनीकरेण ओष्ठ्यादित्वेन कीर्त्तनात्तथामपि। ब्रह्म च सच्चिदानन्दात्मकम्। तच्च तस्य स्वरूपलक्षणम्। विवरणानुसारिणस्तु “आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेऽपि पृथगिवावभासन्ते” इति तत्रोक्तौ मिथ्याभावः सत्यत्वम् अज्ञानभावश्चित्त्वम्। दुःखाभाव आनन्द इत्याहुः। तेषामभावानाञ्च ब्रह्मरूपाधिकरणे स्थितत्वात् अभावस्याधिकरणस्वरूपतया ब्रह्मरूपत्वमिति। तस्य तटस्थलक्षणञ्च जगज्जन्मस्थिति प्रलयानां प्रत्येकमुपादानप्रत्यक्षचिकीर्षाकृतिमत्त्वं तेन नवलक्षणवत्त्वम्” वेदान्तप०। अतएवोक्तं श्रीधरेण “विश्वसर्गविसर्गादिनवलक्षणलक्षितमिति”। तच्च ब्रह्म द्विविधं निर्गुणं सगुणञ्च। सच्चिदानन्दात्मकस्यै व निर्गुणत्वं जगज्जन्मादिकर्तुश्च सगुणत्वम्। जाग्रदाद्यवस्थात्रयसाक्षिणश्च सगुणत्वं अवस्थात्रयातीतस्य चतुरीयसंज्ञा “शिवमद्वैतं चतुर्थं मन्यन्ते” इति श्रुतेस्तथात्वम्। तत्र तस्य तटस्थलक्षणाभिप्रायेण “जन्माद्यस्य यतः” शा० स० “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभि संविशन्ति तज्जिज्ञासस्व ब्रह्मेति” श्रुतिश्च प्रववृते तस्य स्वरूपलक्षणाभिप्रायेण “निर्गुणं निष्कलं शान्तं निरवद्यं निरञ्जनम्” इत्याद्याः श्रुतयः प्रवृत्ताः। आत्मबोधे तु तस्य ब्रह्मणोऽखिलवस्त्वपेक्षया श्रेष्ठत्वाद्ब्रह्मत्वमुक्तं यथा “यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम्। यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत्। यद् दृष्ट्वा नापरं दृश्यं यद्भुत्वा न पुनर्भवः। यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यबधारयेत्। तिर्य्यगूर्द्धमधः पूर्णं सचिदानन्दमद्वयम्। अनन्तं नित्यमेकं यत्तदिब्रह्मेत्यबधारयेत्। अतद्व्यावृत्तिरूपेण वैदान्तैर्लक्ष्यतेऽद्वयम्। अखण्डानन्दमेकं यत् तद्ब्रह्मेन्यवधारयेत्। दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत्। तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम्। सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते। अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत्”। तच्च निर्गुण- मपि गुणभेदेन नानारूपं यथोक्तम् “ब्रह्मैकं मूर्त्तिभेदस्तु गुणभेदेन सन्ततम्। तद्ब्रह्म द्विविधं बस्तु सगुणं निर्गुणं शिव!। मायाश्रितो यः सगुणो मायातीतञ्च निर्गुणः। स्वेच्छामयश्च भगवानिच्छया विकरोति च। इच्छाशक्तिश्च प्रकृतिः सर्वशक्तिप्रसूः सदा। केचिदेकं वदन्त्येवं ब्रह्म ज्योतिः सनातनम्। केचिद्वदन्ति द्विविधं ब्रह्मप्रकृतिपूर्वकम्। शृणु ये च वदन्त्येकं प्रकृतिपुरुषयोः परम्। तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम्”। अथवैकं परं ब्रह्म द्विविधं भवतीच्छया। इच्छाशक्तिश्च प्रकृतिः सर्वशक्तिप्रसूः सदा” ब्रह्मवैवर्त्ते जन्मख० ४३ अ०। तस्य नवधा रूपं यथा “योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम् १। जयोतिरभ्यन्तरे नित्य रूपं २ भक्ता वदन्ति यम्। वेदा वदन्ति सत्यं ३ यं नित्यमाद्यं ४ विचक्षणाः। यं वदन्ति सुराः सर्वे परं स्वेच्छामयं प्रभुम् ५। सिद्धेन्द्रास्य्नयः सर्वे सर्वरूपं ६ वदन्ति यम्। यमनिर्वचनीयञ्च योगीन्द्रः शङ्करोवदेत् ७। स्वयं धाता च प्रवदेत् कारणानाञ्च कारणम् ८। शेषो वदेदनन्तं ९ यं नवधारूपमीश्वरम्। तर्काणामेव षण्णां यं षड्विधं रूपमीश्वरम्। वैष्णानामेकरूपं वेदानामेकमेव च। पुराणानामेकरूपं तस्मान्नवविधं स्मृतम्। न्यायोनिर्वर्णनीयज्ञ यन्मतं शङ्करोऽव्रवीत्। नित्यं वैशेषिकास्त्वन्यं वदन्ति च विचक्षणाः। सांख्यो वदति तं देवं ज्योतोरूपं सनातनम्। मीमांसा सर्वरूपञ्च वेदान्तः सर्वकारणम्। पातञ्चलोऽप्यनन्तञ्च वेदाः सत्यस्वरूपकम्। स्वेच्छामयं पुराणञ्च भक्ताश्च नित्यविग्रहम्” इति तत्रैव १२८ अ०। अन्यथाऽपि सत्त्वादिगुणभेदेन तस्य चतुर्धारूपं यथा “चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ। प्रलयञ्च करोत्यन्ते चतुर्भेदो जनार्दनः। एकेनांशेन ब्रह्माऽसौ भवत्यव्यक्तमूर्त्तिमान्। मरीचिमिश्राः पतयः प्रजानामन्यभागतः। कालस्तृतीयस्तस्यांश सर्वभूतानि चापरः। इत्यं चतुर्धा संसृष्टौ वर्त्ततेऽसौ रजोगुणः। एकांशेन स्थितो विष्णुः करोति परिपालनम्। मन्वादिरूपी चान्येन कालरूपी परेण च। सर्वभूतेषु चान्येन संस्थितिं कुरुते स्थितः। सत्त्वं गुणमुपाश्रित्य जगतः पुरुषोत्तमः। आश्रित्य तमसो वृत्ति मन्तकाले तथा प्रभुः। रुद्रस्वरूपो भगवानेकांशेन भवत्यजः। अग्न्यन्तकादिरूपेण भागेनान्तेन वर्त्तते। कालस्वरूपो भागोऽन्यः सर्वभूत्यानि चापरः। विनाशं कुर्वतस्तस्य चतुर्द्धैवं महात्मनः” विणुपु० १ अंशे २१ अ०। येधाश्च रजोगुणप्रधानोपाधिकः कार्य्य ब्रह्मा। ऋत्विग्भेदश्च अच्छावाकशब्दे ८५ पृ० दर्शितेषु प्रधानेषु चतुर्षु ऋत्विक्षु मध्ये एकतमः। “त्रयाणामपराधे तु व्रह्मा परिहरेत् सदा” सामा० भाष्यधृतकारिका। “त्रयाणामध्वर्य्यूद्गातृहीतॄणां वेदत्रयविदां मध्ये ऋत्विगेको ब्रह्मनामको वेदत्रयन्मन्त्रतद्विहितकर्मविषये अपराधो न्यूनभावो यदि जायते तस्यापराधस्य प्ररिहारं प्रतीकारं कुर्य्यात्” इति तदर्थः। “यज्ञस्य हैष भिषक् ब्रह्मेति” भाष्यधृतश्रुत्यन्तरम्। अतएवास्य कृताकृतावेक्षणार्थं वरणमन्यत्रोक्तम्। १० वृहस्पतौ च ब्रह्मपुरोहितशब्दे दृश्यम्।

ब्र(व्र)ह्मनाल = न० ब्रह्मणो नालमिव। काश्यां मणिकर्णिका समीपस्थे तीर्थभेदे। “पितामहेश्वरं लिङ्गं ब्रह्मनालोपरि स्थितम्। पूजयित्वा नरो भक्त्या ब्रह्मलोकमवाप्नुयात्। ब्रह्मम्रोतःसमीपे तु कृतं करम शुभाशुमम्। परामक्षयतामेति शुभमेव ततश्चरेत्। अनल्पमपि यत् कर्म कृतमत्र शुभाशुभम्। प्रलयेऽपि न तस्यास्ति प्रलयो मुनिसत्तम!। नाभीतीर्थमिदं प्रोक्तं नाभीभूतं यतः क्षितेः। अपि ब्रह्माण्डगोलस्य नाभि रेषा शुभोदया। सा माणिकर्णिकेयीयं नाभिगाम्भीर्य्यभूमिका। ब्रह्माण्डगोलकं सर्वं यस्यामेति लये लयम्। ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम्। तत्सङ्गमे नरः स्नातः कोटिजन्ममलं हरेत्। ब्रह्मनाले पतेदुयेषामपि कीकसमात्रकम्। ब्रह्माण्डमण्डपान्तस्ते न विशन्तिकदाचन” काशीख० ६१ अ०।

ब्र(व्र)ह्मनिर्वाण = न० ब्र(व्र)णि निर्वाणं निर्वृतिः। ब्र(व्र)ह्ममावलाभे सकलानर्थनिवृत्तिरूपे परमाननन्दे “एषा ब्रह्मी स्थितिः पार्थ! नैनां प्राप्य विमुह्यति। स्थित्वास्यामन्तकालेऽपि व्रह्मनिर्वाणमृच्छति” गीता।

ब्र(व्र)ह्मपत्र = न० ब्रह्मणः तन्नामकवृक्षस्य पत्रम्। पलाशपत्रे। “भोजनं ब्रह्मपत्रेषु कथया लोचनं हरेः। दर्शनं वैष्णवानाञ्च महापातकनाशनम्” पाद्मोत्तरख० ११८ अ०।

ब्र(व्र)ह्मपर्णी = स्त्री ब्र(व्र)ह्मेव विस्तीर्णानि मूलादारभ्य स्थितानि पर्णान्यस्याः ङीप्। पृश्निपर्ण्याम् राजनि०।

ब्र(व्र)ह्मपवित्र = पु० ब्र(व्र)ह्मेव वेदोक्तकर्मणि वा पवित्रः। कुशे राजनि०।

ब्र(व्र)ह्मपादप = पु० ब्र(व्र)ह्मणः प्रियः वैदिककर्मयोग्यत्वात् विप्रब्र(व्र)ह्मचारिधार्य्यदण्डार्थत्वाद्वा ब्रह्मनामकत्वात् वा पादपः। पलाशवृक्षे हेमच०। “पलाशो वै ब्रह्म” शत० ब्रा० पलाशवृक्षशब्दे दृश्यम्।

ब्र(व्र)ह्मपुत्र = पु० ब्र(व्र)ह्मणः पुत्र इव कपिलवर्णत्वात्। १ विषभेदे अमरः। तद्विषस्य लक्षणं भावप्र० उक्तं यथा “वर्णतः कपिलो यः स्यात्तथा भवति सारकः। ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले”। २ उत्तरदेशप्रसिद्धे ३ नदभेदे ४ क्षेत्रभेदे च। ५ सरस्वत्यां नद्यां स्त्री। तस्याः पितामहजातत्वं ब्रह्माणीशब्दे दृश्यम्। तस्य नदस्योत्पत्तिकथा “हरिवर्षे महावर्षे शान्तनुर्नाम नामतः। मुनिरासीनमहाभागो ज्ञानवान् सुतपोधनः। तस्य भार्य्या भहाभागा अमोघाख्या महासती। हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा। तया सार्द्धं स कैलासमर्य्यादापर्वतेऽवसत्। लौहिताख्यस्य सरसस्तीरे वै गन्धमादने। एकदा स तपोनिष्ठो निजपुष्पादिगोचरे। जगाभ वनमध्यन्तु चिन्वन् बहुफलानि च। तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः। तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया। तां दृष्ट्वा देवगर्भाभां युवत्रीमतिसुन्दरीम्। मोहितो मदनेनाशु तथाऽभूत् तृधितेन्द्रियः। उदीरितेन्द्रियो भुत्वा जिघृक्षुस्तां महासतीम्। अथाधावत्तदा ब्रह्मा सम्मुणो मदनार्दितः। धावमानं विधातारं दृष्ट्वाऽमोघा महासती। मैवं मैवमिति प्रोच्य पर्णशालां व्यलीयत। इदञ्चोवाच धातारममोघा कुपिता तदा। पर्णशालान्तरगता द्वारमावृत्य तत्क्षणात्। अकार्य्यं न मया कार्य्यं मुनिपत्न्त्या विगर्हितम्। बलात् प्रमथ्या चाहं चेत्त्वया त्वाञ्च शपाम्यहम्। अमोघया चैवमुक्ते विधातुश्च तदा नृप!। १ रेतश्चक्रन्द च तदैवाश्रमे शान्तनोर्मुनेः। च्युते रेतसि धातापि हंसयानं समास्थितः। लज्जयातिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ। गते वेधसि शान्तनुर्निजमात्रममागतः। आगत्य दृष्ट्वा हंसानां पदक्षोभं तथा भुवि। तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम्। अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम्। किमेतदत्र शुभगे! प्रवृत्तं दृश्यते तु यत्। पक्षिणाञ्च पदक्षोभस्तेजश्चेदम् कीदृशम्। सा तस्य वचनं श्रुत्वा शान्तनुं मुनिसत्तमम्। अमर्षितेव न्यगददाकुला विकलानना। हंसयुक्तस्यन्दनेन कोऽम्भ्यागत्य चतुर्मुख। कमण्डलुकरो भीरू रतिं मां समयाचत। ततो मया भर्त्सितः स कुटजान्तरलीनया। प्रच्याव्य तेजः स गतो मम शापभयार्दितः। कुरु तत्र प्रतीकारं यदि शक्नोषि शान्न्तनो!। न हि तां धर्षणां सोढुं कश्चित् शक्नोति जीवभृत्। स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा समागतः। इति निश्चित्य मनसा तत्र ध्याबपरोऽभवत्। दिव्यज्ञानेन स ज्ञात्वा देवकार्य्यमुपस्थितम्। तीर्थावतारणञ्चापि हितायं जगतां मुनिः। ज्ञात्वोदर्कं चिन्तयित्वा स्वभार्य्यामिदमब्रवीत्। इदं तेजो ब्रह्मणस्त्वं पिबामोथे! ममाज्ञया। हिताय सर्वजगतां देवकार्य्यार्थसिद्धये। भवत्या निकटे ब्रह्मा स्वयमेव समागतः। त्वामप्राप्य स महात्मा आवयोः स समर्प्य च। गतो निजास्पदं तत्त्वं कर्त्तुमर्हसि मद्वचः। तत् श्रुत्वा शान्तनोर्वाक्यममोघातीव लज्जिता। सान्त्वयन्तीव तं प्राह पतिं नत्वा महासती। नान्यस्य तेजो धास्यामि न चेत्ते विमनस्कता। अवश्यं यदि कर्त्तव्यं पीत्वा त्वं मयि चोत्सृज। ततस्तस्या वश्यः श्रुत्वा युक्तं तथ्यञ्च शान्तनुः। स्वयं पीत्वा च तत्तेजस्तस्या गर्भऽभ्यषेचयत्। संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती। गर्भं दधारामोघाख्या हिताय जगतां ततः। तस्यां काले तु संप्राप्ते संजातोजलसञ्चयः। तन्मध्ये तनयश्चापि नीलवासाः किरीटधृक्। रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत्। चतुर्भुजः पद्मविद्यावरशक्तिधरस्तथा। शिशुमारशिरस्थश्च तुल्यकायो जलोत्करैः। तं जातञ्च तथाभूतं शान्तनुर्लोकशान्तनुः। चतुर्णां पर्वतानाञ्च मध्यदेशे न्यवेशयत्। कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः। जारुधिः पश्चिमे शैलः पूर्वे संवर्त्तकाह्वयः। तेषां मध्ये स्वयं कुण्डं पर्वतानां विधेः सुतः। कृत्वाऽतिववृधे नित्यं शरदीव निशाकरः। तं तोयमध्यगं पुत्रमासाद्य द्रुहिणः स्वयम्। क्रमतस्तस्य संस्कारानकरोद्देहशुद्धये। अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः। तोयराशिस्यरूपेण ववृधे पञ्च योजनान्। तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे। शीतामलजले हृद्ये देव्यश्चाप्सरसां गणैः। तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान्। चक्रे मातृबधं घोरमत्युग्रं पितुराज्ञया। तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः। स जगाम महाकुण्डं ब्राह्माख्यं स्नातुमिच्छया। तत्र स्नात्वा च प्रीत्वा च मातृहत्यां व्यप्रानयत्। वीथिं परशुना कृत्वा तञ्च क्ष्मामवातारयत्” तदुत्तरत्र “ब्रह्मकुण्डात् सृतः सोऽथ कासारे लोहिताह्वये। कैलासोपत्यकायान्तु न्यपतद् ब्रह्मणः सुतः। तस्यापि सरसन्तीरं समुत्पाट्य महाबलः। कुठारेण दिशं पूर्वामनयद्ब्रह्मणः सुतम्। ततोऽपरत्रापि गिरिं हेमशृङ्गं विभिद्य च। कामरूपान्तरं पीठमवाहयदसुं हरिः। तस्य नाम विधिश्चक्रे स्वयंलोहितगङ्गकम्। लौहित्यात् सरसो जातो लौहित्याख्यस्ततोऽभवत्। स कामरूपमखिलं पीठमाप्लाव्य वारिणा। गोपयन् सर्वतीर्थानि दक्षिणं याति सागरम्। प्रागेव दिव्ययमुनां संत्यज्य ब्रह्मणः सुतः। पुनः पतति लौहित्ये गत्वा द्वादशयोजनम्। चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः। स्लाति लौहित्यतोयेषु स याति ब्रह्मणः पदम्। चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः। लौहित्यतोये यः स्लाति स कैवल्यमवाप्तुयात्” कालिकापु० ८४, ८५ अ० “मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम्। पिवेदशोककलिकाः स्नायाल्लौहित्यवारिणि। पुनर्वसौ वृषे लग्ने चैत्रे मासि सिताष्टमीम्। लौहित्ये विरजे स्नायात् सर्वपापैः प्रसुच्यते” ति० त०।

ब्र(व्र)ह्मपुर = न० ६ त०। १ ब्रह्मण उपासनार्थे हृदयस्थाने “अथ यदिदं ब्रह्मपुरे दहरं पुण्डरीकम्” छा० उ०। दहरशब्दे ३५१० पृ० दृश्यम्। “यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि। दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठ्तः” मुण्डकोप०। “ब्रह्मणोऽत्र चैतन्यस्वरूपेण नित्याभिव्यक्तत्वाद्ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मिन्” भा। २ विधातृनगर्य्यां ३ काश्याञ्च वा स्त्री ङीप् तत्रार्थे। वृ० स० १४ अ० उक्ते ईशानदिक्स्थे ४ देशभेदे पु० (वरमा) देशे स्वार्थे क। तत्रार्थे मार्कपु० पूर्वोत्तरकूर्मभागस्थदेशोक्तौ।

ब्र(व्र)ह्मपुराण = न० वेदव्यासप्रणीते महापुराणभेदे तत्प्रतिपाद्यविषयाश्च वृहन्नारदीये ४ पा० ९२ अ० उक्ता यथा “ब्राह्मं पुराणं तत्रादौ सर्वलोकहिताय वै। व्यासेन वेदविदुषा समाख्यातं महात्मना। तद्वै सर्वपुराणाग्र्यं धर्मकामार्थमोक्षदम्। नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते” तत्पूर्वभागे “देवानामसुराणाञ्च यत्रोत्पत्तिः प्रकीर्त्तिता। प्रजापतीनाञ्च तथा दक्षादीनां सुनीश्वर!। ततो लोकेश्वरस्यात्र सूर्य्यस्य परमात्मनः। वंशानुकीर्त्तनं पुण्यं महापातकनाशनम्। तत्रावतारः कथितः परमानन्दरूपिणः। श्रीमतो रामचन्द्रस्य चतुर्ध्यूहाव- तारिणः। ततश्च सोमवंशस्य कीर्त्तनं यत्र वर्णितम्। कृष्णस्य जगदीशस्य चरितं कल्मषापहम्। द्वीपानाञ्चैव सिन्धूनां वर्षाणां चाप्यशेषतः। वर्णं यत्र पाताल स्वर्गाणाञ्च प्रदृश्यते। नरकाणां समाख्यानं सूर्य्यस्तुति कथानकम्। पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते। दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम्। पूर्वभागोऽयसुदितः पुराणस्यास्य मानद!”। तदित्त्रभागे। “अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम्। विस्तरेण समाख्यातं तीर्थयात्राविधानतः। अत्रैव कृष्णचरितं विस्तरात् समुदीरितम्। वर्णनं मम लोकस्य पितृश्राद्धविधिस्तथा। वर्णाश्रमाणां धर्माश्च कीर्त्तिता यत्र विस्तरात्। विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम्। योगानाञ्च समाख्यानं साङ्ख्यानां चापि वर्णनम्। ब्रह्म वादसमुद्देशः पुराणस्य च शंसनम्। एतद्ब्रह्मपुराणन्तु भागद्वयसमाचितम्। वर्णितं सर्वपापन्धं सर्वसौख्यप्रदायकम्” तत्फलश्रुतिः। “सूतसौनकसंवादं भुक्तिमुक्तिप्रदायकम्। लिखित्वैतत् पुराणं यो वैशाख्यां हेमसंयुतम्। जलधेनुयुतञ्चापि भक्त्या दद्याद्द्विजातये। पौराणिकाय सम्पुज्य वस्त्रभोज्यविभूषणैः। स वसेद् ब्रह्मणो लोके यावच्चन्द्रार्कतारकम्। यः पटेच्छृणुयाद्वापि ब्रह्मानुक्रमणीं द्विज!। सोऽपि सर्वपुराणस्य श्रोतुर्वक्तुः फल लभेत्। शृणोति यः पुराणन्तु ब्राह्मं सर्वं जितेन्द्रियः। हविष्याशी च नियमात् स लभेद् ब्रह्मणः पदम्। किमत्र बहुनोक्तेन यद्यदिच्छतिमानवः। तत् सर्वं लभते वत्स! पुराणस्यास्य कीर्त्तनात्”

ब्र(व्र)ह्मपुरुष = पु० ब्रह्मणः पुरुष इव। ब्रहप्रापकेषु द्वारपालरूपेषुचक्षुः वाङ्मनःप्राणेषु। चक्षुरादीन् प्रकृत्य “ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपालाः” छा० उ०। देवशुषिरशब्दे ३७४५। ३७४६ पृ० एतद्भाष्यञ्च दृश्यम्।

ब्र(व्र)ह्मपुरोहित = पु० ब्रह्म वृहस्पतिः पुरोहितो यस्य देवे। त्रयस्त्रिंशद्धि देवाः ब्रह्म पुरोहिता इति ब्रह्म वै वृहस्पतिर्ब्रह्मपुरोहिताः” शत० ब्रा० १२। ८। ३। २९।

ब्र(व्र)ह्मप्रसूत = त्रि० ३ त०। १ ब्रह्मजाते जहति २ ब्राह्मणारब्धे कर्मणि न०। “यत् क्षत्रियोऽब्राह्मणो भवति स यद्ध किं च कर्म कुरुतेऽप्रसूतं ब्रह्मणा मत्रेण न हैवास्मै तत् सगृध्यते तस्माद् क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः सं हैवास्मै तद्ब्रह्मप्रसूतं कर्मार्ध्यते” शत० ब्रा० ४। १। ४। ६।

ब्र(व्र)ह्मबन्धु = पु० ब्रह्मा विप्रो बन्धुरुत्पादको यस्य ब्रह्मणो विप्रस्य बन्धरिव वा। १ विप्राचाररहिते निन्द्यकर्मकारिणि जात्या विप्रे २ विप्रतुल्ये भट्टादौ च। “अस्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति” छा० उ०। “हे सौम्याऽननूच्यानधीत्य ब्रह्मवन्धिर्व भवतीति ब्राह्मणान् बन्धून् व्यपदिशति न स्वयं ब्राह्मणवृत्तः” इति भा०। विप्रवंश्यापकृष्टब्राह्मणस्यापि दैहिकदण्डनिषेधो यथा “वपनं द्रविणादानं स्थानान्निर्वासनन्तथा। एष हि ब्रह्मबन्धूनां बधो नान्योऽस्ति दैहिकः” भाग० १ स्क०

ब्र(व्र)ह्मबिन्दु = पु० ब्रह्मणि वेदाध्ययनकाले विन्दुः। वेदाध्यनकाले मुखनिःसरल्लालालेशे।

ब्र(व्र)ह्मबध्या = स्त्री बध–भावे क्यप् ६ त०। ब्रह्महत्यायाम्।

ब्र(व्र)ह्मब्रुवाण = पु० आत्मानं ब्रह्माणं ब्रूते ब्रू–शानच्। विप्रतया आत्मनः कथके। यथा कर्णः आत्मानं विप्रं कथयित्वा परशुरामादस्त्रशास्त्रमधीतवान्” भा० उद्योग० ६१ अ०। ब्राह्मणब्रुवि २ अपकृष्टब्राह्मणे च।

ब्र(व्र)ह्मभद्रा = स्त्री ७ ब०। विप्रहितायां त्रायमाणोषधौ नैघण्टुप्र०।

ब्र(व्र)ह्मभाग = पु० ६ त०। ब्रह्मरूपर्त्विजे हरणीये यज्ञद्रव्यस्य भागभेदे “अथास्मै ब्रह्मभागं पर्याहरन्ति। ब्रह्मा वै यज्ञस्य दक्षिणत आस्तेऽभिगोप्ता स एतं भागं प्रतिविदान आस्ते यत् प्राशित्रं तदस्मै पर्याहार्षुस्तत्प्राशीदथ यमस्य ब्रह्मभागं पर्याहरन्ति तेन भागी समदत ऊर्द्ध्वसमं स्थितं यज्ञस्य तदभिगोपायति तस्माद्धाऽस्मै ब्रह्मभागं पर्याहरन्ति” शत० ब्रा० १। ७। ४। १८।

ब्र(व्र)ह्मभूति = स्त्री ब्रह्मणो भूतिरस्याः। १ सन्ध्यायां शब्दच०। २ ब्रह्मजातमात्रे त्रि०।

ब्र(व्र)ह्मभूमिजा = स्त्री ब्रह्मभूमितो जायते जन–ड। सिंहल्यां राजनि०।

ब्र(व्र)ह्मभूय = न० भू–भावे ख्यप् ६ त०। ब्रह्मभावे शुद्धचैतन्यस्वरूपप्राप्तौ अमरः।

ब्र(व्र)ह्ममण्डूकी = स्त्री अध्यण्डाय्ये ओषधीभेदे कात्या० श्री० २५। ७। १७ सग्रहव्याख्या।

ब्र(व्र)ह्ममय = त्रि० ब्रह्मात्मकं ब्रह्मन् + मयट्। ब्रह्मात्मके “दर्शनं तस्य लाभः स्यात् त्वं हि ब्रह्मयो निधिः” भा० शा० ४६ अ०। स्त्रियां ङिप्। काली ब्रह्ममयीत्यादि। २ ब्रह्मास्त्रे च भा० उ० ६१ अ०।

ब्र(व्र)ह्ममह = पु० ६ त०। विप्रानुद्दिश्य उत्सवे। भा० आ० ६४ अ०

ब्र(व्र)ह्ममित्र = पु० ब्रह्म मित्रमस्य। मुनिभेदे मार्क पु० ६३ अ०।

ब्र(व्र)ह्ममीमांसा = स्त्री ६ त० ब्रह्मज्ञानार्थं वेदान्तवाक्यविचारात्मके व्यासप्रणीते ग्रन्धभेदे तत्प्रतिपाद्यविषयादि वैयासिकन्थायमालायामुक्तं यथा “शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः। समनयाविरोधौ २ द्वौ साधन ३ ञ्च फलं ४ तथा। समन्वये स्पष्टलिङ्ग १ मस्पष्टत्वे २ऽप्युपास्यगम् ३। ज्ञेयगं ४ पदमात्रञ्च चिन्त्यं पादेष्वनुक्रमात्। द्वितीये स्मृतितर्काभ्यामविरोधो १ऽ न्यष्टता २। भूतभोक्तृश्रुते ३ र्लिङ्गश्रुते ४ रप्यविरुद्धता। तृतीये विरति १ स्तत्त्वम्पदार्थपरिशोधनम् २। गुणोपसंहृति ३ र्ज्ञाने वहिरङ्गादिसाधनम् ४। चतुर्थे जीवतोमुक्ति १ रुत्क्रान्ति २ र्गतिरुत्तरा ३। ब्रह्मप्राम्प्तिब्रह्मलोकाविति ४ पादार्थसंग्रहः। तेन तत्र प्रत्येकं चतुष्टयपादयुताः चत्वारोऽध्यायाः। तच्च शास्त्रं बहुभिः स्वस्वमतानुसारेण व्याख्यातम् तत्र गौडपादाचार्य्यशङ्कराचार्य्यादिभिर्द्वैतपरतया व्याख्यातं रामानुजादिभिश्च विशिष्टाद्वैतपरतया, वल्लबाचार्य्यादिभिश्च विशुद्वाद्वैतपरतया माध्वाचार्य्यादिश्च द्वैतपरतया व्याख्यातं तत्तन्मतञ्च प्रायेण तत्तच्छन्दे दृश्यम्।

ब्र(व्र)ह्मयज्ञ = पु० ब्रह्मनिमित्तकस्तदध्ययनतदध्यापनानिमित्तको यज्ञः। वेदाध्ययनाध्यापनादौ अमरः। “अध्यापनं ब्रह्मयज्ञः” मनुः। “स्वाध्यायोब्रह्मयज्ञः” विष्णु सू०। तेन वेदाध्ययनाध्यापनयोब्रह्मयज्ञता।

ब्र(व्र)ह्मयष्टि = स्त्री ब्रह्मणो यष्टिरिवालम्बमत्वात्। (वामनहाटि) वृक्षे शब्दरत्ना०।

ब्र(व्र)ह्मयुग = न० ब्रह्मा विप्रस्तदुपलक्षितं युगम्। हिरण्यगर्भस्य विप्रष्टिप्रधाने कालभेदे। तच्च हरिवं० २०८। २०९ अध्याये ततः क्षत्रादिसृषृष्ट्युपलक्षितं तद्युगं २१० अ० उक्तम्

ब्र(व्र)ह्मयोग = पु० ब्रह्मणस्तत्साक्षात्कारस्य योमः समाधिः। ब्रह्म साक्षात्कारसाधने १ समाधिभेदे हरिवं० २१० अ० “एष ब्रह्ममयो यज्ञो योगः सांख्यश्च तत्त्वतः। विज्ञानञ्च स्वभावश्च क्षेत्रं क्षेत्रज्ञ एव च। एकत्वञ्च पृथक्त्वञ्च सम्भवं निधनं तथा। कालः कालक्षयश्चैव ज्ञेयो विज्ञानमेव” च विष्कम्भादिषु पञ्चबिंशे २ योगे च।

ब्र(व्र)ह्मयोनि = पु० ब्रह्मणो योनिरुतपत्तिरत्र। १ ब्रह्मगिरौ शब्दर०। २ ब्रह्मप्राप्त्युपायज्ञाननिष्ठायाञ्च “ब्राह्मणा ब्रह्म योनिस्थाः” मनुः ३ ब्रह्मोत्पन्ने त्रि०। ४ सरस्वत्यां स्त्री ङिप्। “सरस्वत्यास्तु तीरे यः संत्यजेदात्मनस्तनुम्। पृथूदकं जप्यपरो नैनं श्रोमरणं लभेत्। तत्रैव ब्रह्म योन्यस्ति ब्रह्मणा यत्र निर्मिता। पृथूदकं समाश्रित्य सर स्यत्यास्तटे स्थितः। चतुर्वणस्य सृष्ट्यर्थमात्मज्ञानपरोऽभवत्। तस्याभिधा यतः स्तुष्ठिर्ब्रह्मणोऽव्यक्र्तजन्मनः। सुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा। ऊरुभ्यां वैश्यजातीयाः पद्भ्यां शूद्रास्ततोऽभवन्। चातुर्वर्ण्यं ततो दृष्ट्वा आश्रमस्थान् सुतांस्ततः। एवं प्रतिष्ठितं तीर्थं ब्रह्मवोनीति संज्ञितम्। तत्र स्नात्वा मुक्तिकामः पुनर्योनिं न पश्यति” वामनपु० ३८ अ० उक्ते तीर्थभेदे स्त्री वा ङीप्।

ब्र(व्र)ह्मरन्ध्र = न० उत्तमाङ्गस्य रन्ध्रभेदे। “तयोर्द्धमायन्नमृततमेति” श्रुत्या तद्रब्ध्रेण प्राणोत्क्रमणे ब्रह्मलोकप्राप्तेरुक्तत्वात् तथात्वम्।

ब्रह्मराक्षस = पु० ब्र(व्र)ह्मा विप्रोऽपि कुकर्मभिः राक्षसः। कुकर्मणा विप्रयोनितो राक्षसरूपतां प्राप्ते भूतभेदे “संयोगं पतितैर्गत्वा परस्य योषितं तथा। अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः” इति मनुः। पतितप्रतिग्रहेऽपि तद्योनिप्राप्तिः भा० आनु० ११ अ० दर्शिता। तच्च वाक्यं अधर्मशब्दे १२१ पृ० दर्शितं तच्च न हरिवंशवाक्यं किन्तु अनुशासनपर्वीयमिति बोध्यम्। पारिभाषिकब्रह्मराक्षसा यथा “मूर्खः स्त्री कच्छपश्चैव वाजी बधिर एव च। गृहीतार्थं न सुञ्चन्ति पञ्चैते ब्रह्मराक्षसाः” व्यवहारप्रदीपः। २ सिवानुचरभेदे भाग० १०। ६३ अ०।

ब्र(व्र)ह्मरात = न० ब्रह्म तज्ज्ञानं रातं यस्मै। १ शुकदेवे “ब्रह्मरातो मृशं प्रीतो विष्णुरातेन संसदि” भाग० १। ८। २७। २ याज्ञवल्क्ये मुनौ हेमच० ब्रह्मरातिरिति वापाठः। तेन हि जनकाय ब्रह्मविद्यायादानात् तथात्वम् वृहदाहरणकोपनिषदि तत्कथा दृश्या।

ब्र(व्र)ह्मरात्र = पु० रात्रेरयम् अण् ६ त० ब्रह्मस्वामिके रात्रि शेषमाशे मुहूर्त्ते “उपावृत्ते ब्रह्मरात्रे” भा० १०। ३३। ३९। व्याख्यायां श्रीधरः।

ब्र(व्र)ह्मरीति = ब्रह्मवर्णा रीतिः। पित्तलभेदे हेमच०।

ब्र(व्र)ह्मर्षि = पु० ब्र(व्र)ह्मा विप्रः वतुर्मुखतुक्ल्यो वा ऋषिः वेदस्य वा ऋषिः स्मर्त्ता। ब्रह्मतुल्येषु वशिष्ठादिषु १ वेदस्मर्तृषु २ ऋषिषु हेमच०।

ब्र(व्र)ह्मर्षिदेश = ६ त०। “कुरुक्षेत्रञ्च मत्स्यश्च पाञ्चालाः शूरसेनकाः। एष व्रह्मर्षिदेशो वै ब्रह्मार्त्तादनन्तरम्” मनूक्ते कुरुक्षेत्रादिदेशचतुष्टये।

ब्र(व्र)ह्मलक्षण = न० ६ त०। ब्रह्मणः स्वरूपतटस्थलक्षणे ब्रह्मन्शब्दे दृश्यम्।

ब्र(व्र)ह्मलीकं = पु० ६ त०। १ ब्रह्माधिष्ठाने भुवने सत्यलोके “सत्यस्त सप्तमो लोको ह्यपुनर्भवासिनाम्। ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः” देवीपु०। “षड्गुणेन तपोलोकात् सत्यलोको विराजते। अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः”। ब्रह्मेव लोकः। २ तुरीयब्रह्मस्वरूपे च ब्रह्मानन्दशब्दे दृश्यम्।

ब्र(व्र)ह्मवर्चस = न० ब्रह्मणा वेदाध्ययनेन वर्चः अच् समा०। वेदाध्ययनजनिते तेजसि “तपःस्वाध्यायजं यच्च तेजस्तु ब्रह्मचर्वसम्” जटा०। “ब्रह्मवर्चसकामः स्तुवीत” ताण्ड्य० व्रा० २। ५। २ “ब्रह्मवर्चसकामस्य कुर्य्यात् विप्रस्य पञ्चमे” मनुः तदस्यास्ति इनि। ब्रह्मवर्चसिन् तदयुते त्रि० “ब्रह्मबर्चस्यन्नादो भवति” छा० उ०। “वृत्तस्वाध्यायजं तेजः ब्रह्मवर्चसम्” शाङ्गरभाष्यम्।

ब्र(व्र)ह्मवर्चस्विन् = पु० ६ त०। ब्रह्मणवोर्चः समासान्तविधेरनित्य त्वात् न अच्समा० ततोऽस्त्यर्थे विनि। ब्रह्मवर्चसिनि। “ब्रह्मबर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः” मनुः।

ब्र(व्र)ह्मवर्त्त = पु० ब्रह्मणो वर्त्तो वर्त्तनं यत्र। ब्रह्मावर्त्ते देशे शब्दर०।

ब्र(व्र)ह्मवर्द्धन = न० ब्रह्मा वेधो रूपमिव वर्द्धते वृध–ल्यु। ताम्रे हेमच०।

ब्र(व्र)ह्मवाटीय = पु० सिनिभेदे हरिवं १४१।

ब्र(व्र)ह्मवाद = पु० ६ त०। १ वेदपाठे हारा०। २ ब्रह्माधिकारेण तत्त्वनिर्णयार्थे वादे कथाभेदे च।

ब्र(व्र)ह्मवादिन् = पु० ब्रह्म वेदं वदति पठति वद–णिनि। १ वेदपाठले। ब्रह्म शुद्धं चैतन्यं सर्वात्मकतया वदति वद–णिनि। ३ वेदान्तप्रतिपाद्यसर्वात्मकब्रह्मनिर्णयार्थकथाभेदरूपवादयुते। “ब्रह्मवादिनो वदन्ति” छा० ल०। शुद्धचैतन्यं वदति बोधयति। ४ ब्रह्मबोधके शास्त्रे जटा०। ५ हायत्र्यां स्त्री ङीप्। सा च निर्गुणब्रह्मप्रतिपादिकेति तस्यस्तथात्वम्। “आयाहि वरदे! देवि! त्र्यक्षरे! ब्रह्मवादिनि!” गायत्र्यावाहनमन्त्रः।

ब्र(व्र)ह्मवालुक = न० तीर्थभेदे भा० व० ८२ अ०।

ब्रह्मवास = पु० ६ त०। ब्रह्मलोके हरिवं० २१३ अ०।

ब्रह्मवाहस् = त्रि० ब्रह्मणा मन्तरूपवेदे ऊह्यते वह–कर्मणि वा० असिच् णिच्च। मन्त्रेण प्राप्यमाणे ऋ० १। १०१। ९।

ब्र(व्र)ह्मविद् = ब्रह्मस्वरूपतया वेत्ति आत्मानम् विद–क्विप्। ब्राह्मात्मैक्यवेत्तरि “ब्रह्मविद् ब्रह्म भवति” श्रुतिः। २ विष्णौ पु० “ब्रह्मविद् ब्राह्मणो ब्रह्मी” विष्णु स०। वेदं वेदार्थं यथावत् बेत्तीति ब्रह्मविद्” भा० ३ वेदार्थज्ञातरि त्रि०।

ब्र(व्र)ह्मविद्या = स्त्री ६ त०। शुद्धचैतन्यात्मकस्य ब्रह्मण आत्माऽभेदेन ज्ञाने।

ब्र(व्र)ह्मविवर्द्धन = पु० ६ त०। १ तपोवर्द्धके विष्णौ “सत्यं ब्रह्मविवर्द्धनम्” विष्णुस०। वृध–णिच् भावे ल्युट्। २ तप आदीनां विशेषेण वर्द्धने न०।

ब्र(व्र)ह्मवृक्ष = पु०। पलाशवृक्षे हलायुघः। “ब्रह्म वै पलाशः” शत० व्रा० १३, ८। ४। १ तपःसाधने २ उडुम्बरवृक्षे रत्नमाला।

ब्र(व्र)ह्मवृत्ति = स्त्री ६ त०। १ ब्राह्मणस्य जीवनोपाये “स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः। षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः” भाग०। २ ब्रह्माकारान्तःकरणवृत्तौ च।

ब्र(व्र)ह्मवेद = पु० ६ त०। १ ब्रह्मज्ञाने २ ब्रह्मप्रतिपादके वेदभागे वेदान्ते च।

ब्र(व्र)ह्मवेदि = स्त्री ब्रह्मणो वेदिरिव। “ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामह्रदान्तरम्” इत्युक्ते देशे हेमच०।

ब्र(व्र)ह्मवेदिन् = त्रि० ब्रह्मवेत्ति आत्माभेदेन विद–णिनि। ब्रह्मात्मैक्याभिज्ञे “ब्राह्मणेषु तु विद्वांसो विद्वत्सु कृतबुद्धयः। कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रहवेदिनः” मनुः।

ब्रह्मवैवर्त्त = न० अष्टादशसहापुराणमध्ये अष्टादशसहस्रसंख्यके १ महापुराणभेदे तत्प्रतिवाद्यविषयादिकं वृहन्नारदीये ४ पादे १०१ अ० उक्तं यथा “ब्रह्मा उवाच। शृणु वत्स! प्रवक्ष्यामि पुराणं दशमं तव। ब्रह्मवैवर्त्तकं नाम वेदमार्गानुदर्शकम्। सावर्णिर्यत्र भगवान् साक्षाद्देवर्षयेऽर्थितः। नारदाय पुराणार्थं प्राह सर्वमलौकिकम्। धर्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे। तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्त्तमुत्तमम्। रथन्तरस्य कल्पस्य वृत्तान्तं यन्मयोदितम्। शतकोटिपुराणं तत् संक्षिप्य प्राह वेदवित्। व्यासश्चतुर्द्धा संव्यस्य ब्रह्मवैवर्त्तसज्ञितम्। अष्टादशसहस्रन्तत् पुराणं परिकोर्त्तितम्। ब्रह्म १ प्रकृति २ विघ्नेश ३ कृष्णखण्ड ४ समाचितम्। तत्र सुतर्षिसंवादः पुराणोपक्तमो मतः”। तत्र प्रथमे ब्रह्मखण्डे। “सृष्टिप्रकरणं त्वाद्यं ततो नारदबेधसो। विवादः सुमहान् यत्र द्वयोरासीत् पराभवः। शिवलोकगतिः पश्चाज्ज्ञानसाभः शिवान्मुनेः। शिववाक्येन तत् पश्चात् मरीचेर्नारदस्य। तु मननञ्चैव सावर्णिर्ज्ञानार्थं सिद्धसेविते। आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्य्यकार्तिणि। एतद्धि ब्रह्मखण्डं हि श्रुतं पापविनाशनम्”। द्वितीये प्रकृतिखण्डे “ततः सावर्णिसवादा नारदस्य समीरितः। कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरः। प्रकृतरशभूतानां कलानाञ्चा पि वर्णितम्। माहात्म्यं, पूजनाद्यञ्च विस्तरेण यथास्थितम्। एतत् प्रकृतिखण्डं हि श्रुतं भूतिविधायकम्। तृतीये गणेशखण्डे। “गणेशजन्मसंप्रश्नः सपुण्यकमहाव्रतम्। पार्वत्याः कार्त्तिकेयेन सह विघ्नेशसम्भवः। चरितं कार्त्तवीर्य्यस्य जामदग्नस्य चाद्भुतम्। विवादः सुमहान् पश्चाज्जामदग्न्यगणेशयोः। एतद्विघ्नेशखण्डं हि सर्वविघ्नविनाशनम्” चतुर्थे श्रीकृष्णजन्मखण्डे “श्रीकृष्णजन्मसम्प्रश्नो जन्माख्यानं ततोऽद्भुतम्। गोकुले गमनं पश्चात् पूतनादिबधोऽद्भुतः। बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः। रासक्रीडा च गोपीभिः शारदी समुदाहृता। रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा। सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः। कसादीनां बधे वृत्ते सदस्यद्विजसंस्कृतिः। काश्य सान्दीपनेः पश्चाव्विद्योपादानमद्भुतम्। यवनस्य बधः पश्चाद्द्वारकागमनं हरेः। नरकादिबधस्तत्र कृष्णेन विहितोऽद्भुतः। कृष्णखण्डमिदं विप्र! नृणां संसारश्चण्डनम्” तत्फलश्रुतिः “पठितञ्च श्रुतं ध्यातं पूजितं चाभिवर्णितम्। इत्येतद्व्रह्मवैवर्त्तं पुराणं चात्यलौकिकम्। व्यासोक्तं चादिसम्भूतं पठन् शृण्वन् विमुच्यते। विज्ञानज्ञानशमनात् घोरात् संसारसाग रात्। लिस्वित्वेदञ्च यो दद्यान्माघ्यां धेनुसमाचितम्। व्रह्मलोकमवाप्नोति स मुक्तोऽज्ञानबन्धनात्। यश्चानुक्रमणीं वापि पठेद् वा शृणुयादपि। सोऽपि कृष्णप्रसादेन लभते वाञ्छितं फलम्”। विवर्त्त उपादान विषमसत्ताकं कार्य्यं स्वार्थे अण् ६ त०। २ व्रह्मणोऽतुल्यसत्ताके कार्य्ये च।

ब्र(व्र)ह्मव्रत = न० सहस्रवर्षसाध्ये ब्रह्मलोकदर्शनफलके व्रत भेदे भा० स० ११ अ०।

ब्र(व्र)ह्मशल्य = पु० ब्रह्मेव सूक्ष्मं शल्यं कण्टकाग्रं यस्य। (बावला) वृक्षभेदे रत्नमाला।

ब्र(व्र)ह्मशाला = स्त्री १ तीर्थभेदे भा० व० ८७ अ०। २ वेदपाठार्थं शालायाञ्च।

ब्र(व्र)ह्मशासन = न० ६ त०। तत्तत्कार्य्येषु ब्रह्मकर्त्तृके १ नियोजने। तेन च यथा यस्य शासनं कृतं यथा पृथिव्या धारणाय वायोर्वहनाय सूर्य्यादीनां प्रकाशनाय इत्यादि तत्तथैव तैः शासनमनुपाल्यते एवं वर्णाश्रमादिकर्मानुशासनमपि तेनैव अनुशिष्टम् “श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य बर्त्तते। णाज्ञाच्येदी मम द्वेषी नरकं प्रतिपद्यते” भगवदुक्तेः। ब्रह्मणो वेदस्यानुशासने २ कर्त्तव्यतोपदेशे च। अधिकरणे ल्युट्। ३ ब्रह्मविचारगृहे शब्दरत्ना०।

ब्र(व्र)ह्मशिरस् = न० अस्त्रभेदे तच्चास्त्रं द्रोणेन स्वसुताय अश्वत्थाम्ने अर्जुनाय चाध्यापितं तदस्त्रप्रयोगसंहारादिकथा भा० सौ० १२ अ०।

ब्र(व्र)ह्मसंशित = त्रि० ३ त०। ब्राह्मणा मन्त्रेण संशिते तीक्ष्णीकृते ऋ० ६। ७५। १६

ब्र(व्र)ह्मसंहिता = स्त्री वैष्णवाचारसिद्धान्ते अध्यायशतात्मके ग्रन्थभेदे।

ब्र(व्र)ह्मसती = स्त्री ब्रह्मरूपा ब्रह्मणो वा जाती सतो। सरस्वत्यां निघण्टुः।

ब्र(व्र)ह्मसत्ता = स्त्री० ६ त०। ब्रह्मरूपजगदधिष्ठातृसत्तायाम्। शुक्तिसत्तया रजतसत्तावत् तत्सत्तयैव जगतःसत्त वेदान्तमतम्।

ब्र(व्र)ह्मसत्र = न० ब्रह्म वेदस्तत्पाठरूपं सत्रम्। ब्रह्मयज्ञशब्दार्थे “नैत्यिके नास्त्यनध्याया ब्रह्मसत्रं हि तत्स्मृतम्” मनुः।

ब्र(व्र)ह्मसदन = न० सोदत्यस्मिन् सद–आधारे ल्युट् ६ त०। ब्रह्मण ऋत्विग्भेदस्य वारुणीवृक्षादिजाते कुशास्तृते प्रागग्रे १ आसने कात्या० श्रौ० २। १। २ सूत्रादौ दृश्यम्। २ हिरण्यगर्भसदने च।

ब्र(व्र)ह्मसरस् = न० तीर्थभेदे तत्कथा भा० व० ८१ अ० दृश्या।

ब्र(व्र)ह्मसर्प = पु० ब्रह्मेव वृहन् सर्पः। सर्पभेदे त्रिका०।

ब्र(व्र)ह्मसात् = अष्य० ब्रह्माधीनं करोति साति। ब्रह्माधीने कृञादिष्वेवास्य प्रयोगः ब्रह्मसात्–करोति भवति सम्पद्यते वा

ब्र(व्र)ह्मसामन् = न० सामभेदे तच्च साम ताण्ड्यब्रा०४। ३। १ दर्शितं यथा “अथास्मिन्नेवाहनि मध्यन्दिनसवने ब्राह्मणाच्छंसिनः पृष्ठस्तोत्रनिवर्त्तकमेकं साम विधत्ते भा० “अभीवर्त्तो ब्रह्म साम भवति” ताण्ड्यब्रा० “तञ्चोदञ्च मृतीसहमित्यस्यां योनावुत्पन्नं साम अभीवर्त्ताख्यम् एतत् साम ब्राह्मणाच्छंसी पृष्ठस्तोत्रमनुशंसति, तच्च वक्ष्यमाणासु ऋक्षु कर्त्तव्यम्” अथैतन्नामनिर्वचनेन प्रशंसति भा०। “अभीवर्त्तेन वै देवाः खर्गं लोकमभ्यवर्त्तन्त यदभीवर्त्तो ब्रह्म साम भवति स्वर्गस्य लोकस्याभिवृत्त्यै” ब्रा०। “अभीवर्त्ताख्येन सान्या देवाः स्वर्गं लोकमभ्यवर्त्तन्त अगच्छन् अतएवास्याभिवृत्तिसाधनत्वादस्य साम्नोऽभीवर्त्त इति संज्ञा निष्पन्ना। अतएव शाट्यायनकं “यदभ्यवर्त्तन्त तदभीवर्त्तस्याभीवर्त्तत्वमिति”। अभिपूर्वाद्वृत वर्त्तने इत्यस्मात् करणे धञ्। उपसर्गस्य घञ्यमनुष्ये बहुलमिति पूर्वपदस्य दीर्घः। एवं सति अस्मिन्नहनि अभीवर्त्तो ब्रह्मणः पृष्ठ्यसाम भवतीति यत् तत् स्वर्गस्य लोकस्याभिवृत्यै अभिवर्त्तनायाभिगमनाय सत्रिणां मवति” भा०। तच्च साम ऊहगाने। ६ प्र० १४ क० दर्शितम्।

ब्र(व्र)ह्मसायुज्य = न० सह युनक्ति युज–क्विप् तस्य भावः सायुज्यं ६ त०। ब्र(व्र)ह्मभावे।

ब्र(व्र)ह्मसार्ष्टिता = स्त्री ६ त०। ब्रह्मतुल्यगतित्वे मनुः ४। २३२।

ब्र(व्र)ह्मसावर्णि = पु० दशमे मनुभेदे “दशमी ब्रह्मसावर्णि रुपश्लोकसुतो महान्। तत्सुता भूरिसेनाद्या हविष्मत्प्रमुखा द्विजाः। हविष्मान् सुकृतः सत्यो जयो मूर्त्तिस्तदा द्विजाः। सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः। विष्वक्मेनो विषुच्यान्तु शम्भोः सख्यं करिष्यति। जातः स्वांशेन भगवान् गृहे विश्वसृजां प्रभुः” भाग० ८। १३। १०

ब्र(व्र)ह्मसम्भव = पु० ६ त०। १ जैनभेदे हेम० २ ब्रह्मणो जाते वसिष्ठादौ च।

ब्र(व्र)ह्मसिद्धान्त = ६ त०। पैतामहे ज्योतिषसिद्धान्तभेदे “पौलिशरोम(सोम)क वासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु” वृ० स० १ अ०।

ब्र(व्र)ह्मसुत = पु० ६ त०। १ केतुभेदे वृ० स० ११ अ० केतुशब्दे दृश्यम्। २ मरीच्यादौ च

ब्र(व्र)ह्मसुवर्चला = स्त्री ओषधिभेदे तत्स्थानलक्षणादिकमुक्तं सुश्रुते “देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे। दृश्यते च जलान्तेषु मध्ये ब्रह्मसुवर्चला”। “कनकाभा जलान्तेषु सर्वतः परिसर्पति। सक्षीरा पद्मिनीप्रख्या देवी ब्रह्म सुवर्चला”। तत्क्वथिते २ जले च “पिबेत् ब्रह्मसुवर्चलाम्” मनुः।

ब्र(व्र)ह्मसू = पु० ब्रह्माणं सूतवान् सू–क्विप्। चतुर्व्यूहात्मकस्य विष्णोर्मूर्त्तिभेदे अनिरुद्धे तस्यावतारभेदे २ उषापतौ च अमरः। “अनिरुद्धात्ततो ब्रह्मा तन्नाभिकमलोद्भवः” ब्रह्मपु०। ब्रह्मणि तपसि सुवति प्रेरयति सू–प्रेरणे क्विप्। तपःप्रवर्त्तके ३ कामे च कामेनैव सर्वतपस्मु प्रेरणात्तस्य तथात्वम्। तदभिमानिदेवे ४ कन्दर्पे च अमरः।

ब्र(व्र)ह्मसूत्र = न० ब्रह्मणि वेदग्रहणकाले उचितं सूत्रम्। १ यज्ञोपवीते त्रिका०। २ ब्रह्मप्रतिपादके शारीरकसूत्रे च। “ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितम्” गीता।

ब्र(व्र)ह्मसूनु = पु० ६ त०। इक्ष्वाकुवंशोद्भवे १ राजभेदे ब्रह्मदत्ते हेमच० २ वसिष्ठादौ च।

ब्र(व्र)ह्मस्तेय = ६ त०। स्वार्थमधीयानात् ततोऽनुज्ञामप्राप्य तद्वाक्यश्रवणेन वेदाध्येतरि। “ब्रह्म यस्यननुज्ञातमधीयानादवाप्नुयात्। स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते” मनुः

ब्र(व्र)ह्मस्थान = न० ६ त०। तीर्थभेदे भा० व० ८१ अ०।

ब्र(व्र)ह्मस्व = ६ त०। ब्रह्मस्वामिके धने। “ब्रह्मस्यं वा गुरुस्यं वा देवस्वं वापि यो हरेत्। स कृतघ्न इति ज्ञैयो महापापी च भारत!। अवटोदे वसेत् सोऽपि यावदिन्द्रा शतं शतम्। ततो भवेत् सुरापीति ततः शूद्रस्ततः शुचिः”। ब्रह्मवै० प्रकृ० ४९ अ०।

ब्र(व्र)ह्महत्या = स्त्री० हन–क्यप् ६ त०। विप्रहनने। तस्य महापातकत्वमुक्तं मनुना “ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्येव संसर्गश्चापि तैः सह” तदधिष्ठातृस्वरूपमुक्तं ब्रह्मवै० पु० जन्म० ४७ अ० यथा “रक्तवस्त्रपरीधाना वृद्धा स्त्रीवेशधारिणी। सप्ततालप्रमाणा सा शुष्ककण्ठौष्ठतालुका। ईशाप्रमाणदशना महाभीतञ्च कातरम्। धावन्तं परिधावन्ती बलिष्ठाहतचेतनम्। खङ्गहस्ता हतास्त्रं तं दयाहीना च मूर्च्छितम्। इन्द्रो दृष्ट्वा च तां घोरां स्मारं स्मारं गुरोः पदम्। विवेश मानससरो मृणालसूक्ष्मसूत्रतः। तत्र गन्तुं न शक्ता सा ब्रह्मणः शापकारणात्”। वृत्रा सुरवधनिमित्तकब्रह्महत्यापनोदनार्थं शक्रेणाश्वमेधेकृते तस्या विभज्य स्थानविशेषे संक्रामणकथा भा० उ० उ० १२ अ० यथा “तत्राश्वमेधः सुमहान् महेन्द्रस्य महात्मनः। ववृते पावनार्थं वै ब्रह्महत्यापहो नृप!। विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च। पर्वतेषु पृथिव्याञ्च स्त्रीषु चैव युधिष्ठिरः!” आतिदेशिकब्रह्महत्याः कतिचित् ब्रह्मवै० प्रकृ० २७ अ० उक्ता यथा “श्रीकृष्णे च तदर्च्चायां तन्मय्यां प्रकृतौ तथा। शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यतनौ तथा। गणेशे वा तदर्च्चायामेवं सर्वत्र सुन्दरि!। यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत् तु सः। स्वगुरौ स्वेष्टदेवेषु जन्मदातरि मातरि। करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत् तु सः। वैष्णवेष्वन्यभक्तेषु, ब्राह्मणेष्वितरेषु च। करोति समतां यो हि ब्रह्महत्यां लभेत् तु सः। हरेः पादोदेकेष्वन्यदेवपादोदके तथा। करोति समतां यो हि ब्रह्महत्यां लभेत् तु सः। विमूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा। करोति समतां यो हि ब्रह्महत्यां लभेत् तु सः। सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे। सर्वाद्ये सर्वदेवानां सेव्ये सर्वात्मनात्मनि। मायया मेकरूपे वाप्येकत्रैव हि निर्गुणे। करोत्यनेन समतां ब्रह्महत्यां लभेत् तु सः। पितृदेवार्च्चनं पौर्वापरं वेदविनिर्मितम्। यः करोति तन्निषेधं ब्रह्महत्यां स विन्दति। ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा। पवित्राणां पवित्रञ्च ब्रह्महत्यां लभन्ति ते। ये निन्दन्ति विष्णुमायां विष्णुभक्तिप्रदां सतीम्। सर्वशक्तिस्वरूपाञ्च प्रकृतिं सर्वमातरम्। सर्वदेवस्वरूपाञ्च सर्वाद्यां सर्ववन्दिताम्। सर्वकारणरूपाञ्च ब्रह्महत्यां लभन्ति ते। कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम्। शिवरात्रिं तथा चैकादशीं वारं रवेस्तथा। पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः। लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः। अम्बुवाच्यां भूखननं जले शौचादिकञ्च ये। कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते। गुरुञ्च मातरं तातं साध्वीं भार्य्यां सुतं सुताम्। अनाथां यो न पुष्णाति ब्रह्महत्यां लभेत् तु सः। विवाहो यस्य न भवेत् न पश्यति सुतन्तु यः। हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत् तु सः। हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत्। पुण्यं पार्थिवलिङ्गं वा ब्रह्महत्यां लभेत् तु सः”। आतिदेशिक्यास्तस्या विनाशनं हरिस्मरणगङ्गास्नानादि।

ब्र(व्र)ह्महत्यासम = न० “अनृतञ्च समुत्कर्षे राजगामि च पैशुनम्। गुरोरलीकनिर्बन्धः समानि ब्रह्महत्यया” मनूक्ते अनुपातकभेदरूपे मिथ्याभेदकथनादौ।

ब्र(व्र)ह्महन् = त्रि० ब्र(व्र)ह्माणं हतवान् हन–क्विप्। १ विप्रहत्याकारिणि। “ब्र(व्र)ह्महा न भवत्यन्यो ब्र(व्र)ह्महा वृषलीपतिः। यस्तस्यामाहितोगर्भः स तेन ब्रा(व्रा)ह्मणो हतः” इत्युक्ते २ वृषलीतौ च। “क्षुतोत्पतनजिह्मासु जीवोत्तिष्ठाङ्गुलिध्वनिः। गुरोरपि च कर्त्तव्यमन्यथा ब्रह्महा भवेत्” ३ इत्यादिस्मृत्युक्तातिदेशिकब्र(ब्र)ह्महत्यापापयुक्ते च। तत्प्रायश्चित्तं मनुनोक्तं यथा

“ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत्। भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् १। लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः २। प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरावाक्शिराः ३। यजेत वाश्वमेधेन ४ स्वर्जिता ५ गोसवेन वा ६। अभिजिद्विश्वजिद्भ्यां ७। ८ वा त्रिवृताग्निष्टुतापि ९ वा। जपन् वान्यतमं १०। वेदं योजनानां शतं व्रजेत् ११। ब्रह्महत्यापनोदाय मितभुङ् नियतेन्द्रियः। सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् १२। धनं षा जीवनायालं गृहं वा सपरिच्छदम् १३। हविष्यभुग् वाऽनुसरेत् प्रतिस्रोतः सरस्वतीम् १४। जपेद्वा नियताहाररिवर्वै वेदस्य संहिताम् १५। कृतवापनो निवसेद् ग्रामान्ते गोव्रजेऽपि वा। आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः। ब्रह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् १६। मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च। त्र्यवरं प्रतियोद्धा वा१ ७ सर्वस्वमवजित्य वा। विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते”।

***