बुक = त्रि० बुक–अच् पृषो० उपधालोपः। भषणशब्दकारके ततः प्रेक्ष्या० चतुरर्थ्याम् इनि। बुकिन् भषणशब्दकारकसमीपादौ त्रि०।

बुक्क = कुक्कु रादिशब्दे कथने च वा चु० उभ० पक्षे म्बा० पर० सक० सेट्। बुक्कयति ते बुक्कति अबुबुक्कत् त इरित् अवुक्वत् अबुक्कीत्। “कथने चुरा० कश्वादिशब्दे तु भ्वा०” रमानाथः।

बुक्क = न० बुक्व अच। १ हृदयस्थे मांसपिण्डे २ अग्रमांसे ३ हृदये च अमरः अस्य स्त्रीत्वमपि स्त्रीत्वे टाप् गौ० ङीष् वा। “बुक्वाथातैर्युबतिनिकटे प्रौढवाक्येन राधा” उद्भटः। ४ छागे पु० (बोका) त्रिका०। ५ समने च पु०। ६ शोणिते भरतः स्त्री टाप्। ५ पी० बूक्कबुक्के अपि हृदये।

बुक्कन = न० बुक्व–भावे ल्युट्। भषणे कुक्करादिशब्दे

बुक्कन् = पु० बुक्व–कनिन्। बुक्कशब्दार्थे भरतः।

बुक्कस = पुंस्त्री० पुक्वस + पृषोदरादि। चण्डाले हेमचन्द्र।

बुक्काग्रमांस = न० ६ त०। हृदयस्थे मांसपिण्डाकारे अग्रमासे रायमुकुटः।

बुक्वार = पु० बुक्कं भषणमृच्छति ऋ–अण्। सिंहध्वनौ हारा०

बुट = हिसायां चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्। बोटयति ते। बोटति। अबुबुटत्–त। अवोटीत्।

बुड = त्यागे संवरणे च तु० कुट्० सक० सेट्। बुडति अबुडीत् बुबोड

बुडिल = पु० तुदा० बुड–इलच्। अश्वतराश्वापत्ये राजभेदे छा० उ० ५। १०। १।

बुद = निशामने (आलोचने) भ्वा० उ० सक० सेट्। बोदति ते। इरित् अबुदत्–अबोदोत् अबोदिष्ट। उदित्क्त्वा वेट्।

बुद्ध = पु० बुध क्त। १ भगवतोऽवतारभेदे येन वेदतत्कर्मणोर्निन्दाकृता। २ जानरिते, ३ ज्ञातवति च त्रि०। ४ षण्डिते पु० मेदि०। युद्धश्च विष्णोः चतुर्विशत्यवतारभध्ये एकविं नोऽततारो यथोक्तं “ततः कलौ संप्रकृत्ते सम्मोहाय सुरद्विषाम्। बुद्धो नाम्नाऽञ्जनसुतः कीकटेषु भविष्यति” भाग० स्क०। बुद्धेन प्रोक्तम् अण् तद्वेति अण्। बौद्धप्रोक्तशास्त्रे तदभित्ते च त्रि०। तद्दर्शनभेदतन्मतादिकं सर्वद० दं० दर्शितं यथा “अत्र बीर्द्धरभिधीयते यदभ्यधायि अविनाभावो दुर्बोध इति तदसाधीयः तादात्म्यतदुत्पत्तिभ्यामविनाभावस्य सुज्ञानत्वात्। तदुक्तम् “कार्य्यकारणभावाद्वा स्वभावाद् वा नियामाकात्। अबिवाभावनियमो दर्शनान्तरदर्शनादिति” अन्वयव्यतिरेकावविनाभावनिश्चायकाविति। ननु पक्षे साध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत्, भविष्यति, भूते अनुपलभ्यमाने च व्यभिचारशङ्काया अनिवारणात्। ननु तथाविधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरेति चेत् मैवं वोचः विनापि कारण कार्य्यमुत्पद्यतामित्येवंविधायाः शङ्काया व्याधातावधिकतया निवृत्तत्वात्। तदेव ह्याशङ्क्येत यस्मिन्नाशङक्यमाने व्याघातादयो नावतरेयुः तदुक्तम्। “व्याघातावधिराशङ्केति” तस्मात् तदतपत्तिनिश्चयेन अविनाभावो निश्चीयते तदुत्पत्तिनिश्चयश्च कार्य्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः। कार्य्यस्योत्पत्तेः प्रागनुपलम्भः १ कारणोपलम्भे २ सत्युपलम्भः ३ उपलब्धस्य पश्चात् कारणानुपलम्भात् ४ अनुपलम्भ ५ इति पञ्चकारण्या धूमधूमध्वजयोः कार्य्यकारणभावो निसीयते। तथा तादात्म्यनिसयिनाप्यविनाभावो निसीयते यदि शिंशपा वृक्षत्वमतिपतेत् स्वात्मानमेव ब्रह्मादिति विपक्षे वाधकप्रवृत्तेः। अप्रवृत्ते तु बाधके भूयःसहभावोपलम्भेऽपि व्यभिचारशङ्कायाः को निवारयिता। शिंशपावृक्षयोश्च तादात्म्यनिश्चयो वृक्षोऽर्यं शिंशपेति सामानाधिकरण्यबलादुपपद्यते। न ह्यत्यन्ताभेदे तत् सम्भवति पर्य्यायत्वेन युगपदपि प्रयोगायोगात् नाप्यत्यन्तभेदे गवाश्वयोरिवानुपलम्भात्। तस्मात् कार्य्यात्मानौ कारणमात्मानमनुमापयत इति सिद्धम्। यदि कश्चित् प्रामाण्यमनुमानस्य नाङ्गीकुर्य्यात् तं प्रतिव्रूयात् अनुभानं न भवतीत्येतावन्मात्रं प्रमाणं तत्र न किञ्चन साधनमुपन्यस्यते उपन्यस्यते वा। न प्रथमः एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेष्टिति न्यायात्। नापि चरमः अनुमानं प्रमाणं न भवतीति ब्रुवाणेन त्वया अशिरस्कवचनस्योपन्यासे मम माता बन्ध्येतिवद् व्याघातापातात्। किञ्च प्रमाणतदामासव्यवस्थापनं तत्समानजातीयत्वादिति वदता भवतैव स्वीकृतं स्वभावानुमानम्। परगता विप्रतिपत्तिस्तु वचनलिङ्गेनेति ब्रुवता कार्य्यलिङ्गकमनुमानम्। अनुपलद्ध्या कञ्चिदर्थं पातषधयतानुपलब्धिलिङ्गकमनुमानम्। तथाचोक्तं तथागतैः “प्रमाणान्तरसामान्यस्थिरत्वान्यधियां गतेः। प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचिदिति” पराक्रान्तञ्चात्र सूरिभिरिति ग्रन्थभूयस्त्वभ्यादुपरम्यते। ते च बौद्धाचतुर्विधया भावनया परमपुरुषार्थं कथयन्ति। ते च माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा बौद्धा यथाक्रमं सर्वशून्यत्व–बाह्यशून्यत्वबाह्यर्थानुमेयत्व बाह्यार्थप्रत्यक्षत्रवादानातिष्ठन्ते। यद्यपि भगवान् बुद्ध एक एव बोधयिता तथापि बोद्धव्यानां बुद्धिभेदाच्चातुर्विध्यं यथा गतोऽस्तमर्क इत्युक्ते जारचौरानूचानादयः स्वेष्टानुसारेणाभिसरणपरस्वहरणसदाचरणादिसमयं बुध्यन्ते। सर्वं क्षणिकं क्षणिकम्, दुखं दुःखं, स्वलक्षणं स्वलंक्षणं, शून्यं शन्यमिति भावनाचतुष्ट पमुपदिष्टं द्रष्टव्यम्। तत्र क्षणिकत्वं भीलादिक्षणानां सत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा जलधर पटल सन्तश्चामी भावा इति। न चायमसिद्धो हेतुः अर्थ क्रियाकारित्वलक्षणस्य सत्त्वस्य नीलादिक्षणानां प्रत्यक्ष सिद्धत्वात् व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापक फमाक्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्धत्वाञ्च। तच्चार्थाक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः समस्ति “परम्परविरोधे हि न प्रकारान्तरस्थितिः। नैकताप्रि विरुद्धानामुक्तिमात्रविरोधतः” इति न्यायेन व्याथातस्योद्भटत्वात्। तौ च क्रमाक्रमौ स्थायिनः सकाशाद् व्यावर्त्तमानौ अर्थक्रियामपि व्यावर्त्तयन्तौ क्षणिकत्वपक्ष एव सत्तं व्यवस्थापयत इति सिद्धम्। नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादिति चेत् तदयुक्त विकल्पासहत्वात् तथा हि वर्त्तमानाथक्रियाकरणकाले अतीतातागतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्तिः? नो वा? आद्ये तयोरनिरा० करणप्रसङ्गः समर्थस्य क्षेपायोगात् यत् यदा यत्करणसमर्थं तत् तदा तत्करोत्येव यथा समग्री स्वकार्य्यं समर्थश्चायं भावः इति प्रसङ्गानुमानाच्च। द्वितीयेऽपि कदापिनि कुर्य्यात् सामर्थ्यमात्रानुबन्धित्वादर्थक्रियाकारित्वस्य यत् यदा यन्न करोति तत् तदा तत्रासमर्थं यथा हि शिलाशकलमङ्कुरे, न चैष वर्त्तमानार्थक्रिया० करणकाले वृत्तवर्त्तिष्यमाणे अर्थक्रिये करोतीति तद्विपर्य्ययाच्च। ननु क्रमवत्सहकारिणः स्थायिनः अतीतानागतयोः क्रमेण क्रमणमुपपद्यते इति चेत् तत्रेदं भवान् पृष्टो व्याचष्टां सहकारिणः किं भावस्योपकुर्वन्ति? न वा? न चेत् नापेक्षणीयास्ते अकिञ्चित्कुर्वतां तेषां तादर्थ्यायोगात्। उपकारकत्वपक्षे सोऽयमुपकारः किं भावाद्भिद्यते? न वा? भेदपक्षे आगन्तुकस्यैब तस्य कारणत्वे स्यात् न भावस्याक्षणिकस्य, आगन्तुकातिशयान्ववव्यतिरेकानुविधायित्वात् कार्य्यस्य। तदुक्तम् “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम्?। चर्मोपमश्च सोऽनित्यः खतुल्यश्चेदसत्फल इति”। अथ भावस्तैः सहकारिभिः सहैव कार्य्यं करोतीति स्वभाव इति चेत् अङ्ग तर्हि सहारिणो न जह्यात् प्रत्युत पलायमानानपि पाशेन बद्घा कृत्यं कार्य्यं कुर्य्यात् स्वभावस्यानपायात्। किञ्च सहकारिजन्योऽतिशयः किमतिशयान्वरमारभते न वा उभयथापि प्रागुक्तदूषणपापाणवर्षणप्रसङ्गः। अतिशयान्तरारम्भपक्षे बहुमुखानवस्थादौस्थ्यमपि स्यात् अतिशये जनयितव्ये सहकार्य्यन्तरापेक्षायां तत्परम्परापात इत्येकानवस्थाऽऽस्थेया, तथाहि सहकारिभिः सलिलपवनादिभिः पदार्थसार्थैराधीयमाने वीजस्यातिशंये वीजमुत्पादकमभ्यु पेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भयेत् वीजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधच अन्यथा सर्वदोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रसज्येत। तस्मादतिशयार्थमपेक्षमाणैः सहकारिभिरद्वि- शयान्तरमाधेयं वीजे, तस्मिन्नत्युपकारे पूर्वन्यायेन सहकारिसापेक्षस्य बीजस्य जनकत्वे सहकारिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता। अथोपकारः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षं कार्य्यं जनयति तत्सापेक्षो वा। प्रथमे वीजादरहेतुत्वमाप० तेत्। द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे अतिशय आधेयः एवं तत्र तत्रापीति वीजादिजन्यातिशयनिष्ठातिशयपरम्परापात इति द्वितीयानवस्था स्थिरा भवेत्। एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्मिण्युपकारान्तरमाधेयमित्युपकाराधेयवीजातिशयाश्रयातिशयपरम्परापात इति तृतीयानवस्था दुरवस्था स्यात्। अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इति कलितं ममापि मनोरथद्रुमेण। तस्मादक्षणिकस्यार्थक्रिया दुर्घटा। नाप्यक्रमेण घटते विकल्पासहत्वात्। तथा हि युगपत्सकलकार्य्यकरणसमर्थः स भावस्तदुत्तरकालमनुवर्त्तते न वा। प्रथमे तत्कालवत् कालान्तरेऽपि तावत्कार्य्यकरणमापतेत्। द्वितीये स्थायित्ववृत्त्याशा मूषिकभक्षितवोजादावङ्करादिजननप्रार्थनामनुहरेत्। यत् विरुद्धधर्माध्यस्तं तन्नाना यथा शीतोष्णे। विरुद्धधर्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः। न चाय मसिद्धो हेतुः, स्थायिनि कालभेदेन सामर्थ्यासामर्थ्ययोः प्रसङ्गतद्विपर्य्ययसिद्धत्वान् तत्रासामर्थ्यसाधकौ प्रसङ्गतद्विर्य्ययौ प्रागुक्तौ सामर्थ्यसाधकावभिधीयेते यद्यदा यज्जननासमर्थं तत् तदा तन्न करोति यथा शिलाशकलमङ्कुरम् असमर्थश्चायं वर्त्तमानार्थक्रियाकरणकाले अतीतानागतयोरर्थक्रिययोरिति प्रसङ्गः यद्यदा यत् करोति तत् तदा तत्र समर्थं यथा सामग्रो स्वकार्य्येति, करोति चायमतीतानागतकाले तत्कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः विपर्ध्ययः। तस्माद् विपक्षे क्रमयौगपद्यव्यावृत्त्या व्यापकानुपलम्भेनाधिगतव्यतिरेकव्याप्तिक प्रसङ्गतद्विपर्य्ययबलात् गृहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम्। तदुक्तं ज्ञानश्रिया “यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा अमी सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा न सा। नाप्येकैव विधाऽन्ययः परकृतेनापि क्रियादिर्भवेत् द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यतीति”। न च कणभक्षाक्षन्वरणादिपक्षकक्षीकारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यं सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात्। न च तत्र स्वरूपसत्तानिबन्धनः सद्व्यवहारः प्रयोजकगौरवापत्तेः अनुगतत्वाननुगतत्वविकल्पपराहतेश्च, सर्षपमहीधरादिषु विलक्षणेषु क्षणेष्वनुगतस्याकारस्य मणिषु सूत्रवद्भूतगणेषु गुणवच्चाप्रतिभासनाच्च। किञ्च सामान्यं सर्वगतं स्वाश्रयसर्वगतं वा प्रथमे सर्ववस्तुसङ्करप्रसङ्गः अपसिद्धन्तापत्तिश्च यतः प्रोक्तं प्रशस्तपादेन “स्वविषयसर्वगतमिति। किञ्च विद्यमाने घटे वर्त्तमानं सामान्यमन्यत्र जायमानेन संबधमानं तस्यादागच्छत् मबध्यते अनागच्छत् वा आद्ये द्रव्यत्पापत्तिः द्वितीये सम्बन्धानुपपत्तिः। किञ्च विनष्टे घटे सामान्यमत्रतिष्ठते, विनश्यति, स्थानान्तरं गच्छति वा प्रथमे निराधारत्यापत्तिः, द्वितीये नित्यत्ववाचोयुक्त्ययुक्तिः, तृतीये द्रष्टव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्तत्वात् सामान्यमप्रामाणिकम्। “अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि। तस्मादचलतः स्थानाद् वृत्तिरित्यतियुक्तता। यत्रासौ वर्त्तते भावस्तेन संबध्यते न तु। तद्देशिनञ्च ध्याप्नोति किमप्येतन् महाद्भुतम्। न याति न च तत्रासीदस्ति पश्चान्नचांशवत्। जहाति पूर्वं नाधारमहो व्यसनसन्ततिरिति” अनुवृत्तप्रत्ययः किमालम्बन इति चेत् अङ्ग अन्यापोहालम्बन एवेति सन्तोष्टव्यमायुष्मतेति अलमतिप्रसङ्गेन। सर्वस्य ससारस्य दुःखात्मकत्वं सर्वतीर्थकरसम्मतम् अन्यथा तन्निविवर्त्तयिषूणां तेषां तन्निवृत्युपाये प्रवृत्त्यनुपपत्तेः। तस्मात् सर्वं दुःखं दुःखमिति भावनीयम्। ननु किंवदिति पृष्टे दृष्टान्तः कथनीय इति चेन्मैवं स्वलक्षणानां क्षणानां क्षणिकतया सालक्षण्याभावात् नैनेन सदृशमपरमिति वक्तुमशक्यत्वात्। ततः स्वलक्षणं स्वलक्षणमिति भाविनीयम्। एवं शन्यं शून्यमपि मावनीयं स्वप्ने जागरणे च न मया दृष्टमिदं रजतादीति विशिष्टनिषेघस्योपलम्भात्। यदि दृष्टं सत् तदा तद्विशिष्टस्य दर्शनखेदन्ताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य रजतत्वादेस्तत्सम्बन्धस्य च समवायादेः सत्त्वं स्यात् न चैतदिष्टं कस्यचिद् वादिनः। न चार्द्धजरतीयसुचितं स हि कुक्कुट्या एको भागः पाकाय अपरो भागः प्रस- वाय कल्प्यतामिति कल्प्यते। तस्मादध्यस्ताधिष्ठानतत्सम्बन्धदर्शनद्रष्टृणां मध्ये एकस्यानेकस्य वा असत्त्वे निषेधविषयत्वेन सर्वस्यासत्त्वं बलादापतेदिति।
(माध्यमिकाः) भगवतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा इत्थमचीकथन् भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधानमुखेन स्थायित्वानुकूलेवेदनीयत्वानुगतसर्वसत्यत्वभ्रमव्यावर्त्तनेन सर्वशून्यतायामेव पर्य्यवसानम्। अतस्तत्त्वं सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव। तथा हि यदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैयर्थ्यम्। असत्त्वं सवभाव इति पक्षे प्राचीन एव दोषः प्रादुः ष्यात्। यथोक्तम् “न सतः कारणापेक्षा व्योमादेरिव युज्यते। कार्य्यस्यसम्भवो हेतुः खपुष्पादेरिवासतः” इति विरोधादितरौ पक्षावनुपपन्नौ तदुक्तं भगवता लङ्कारतारे “बुद्ध्या विविच्यमानानां स्वमावो नावधार्य्यते। अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः” इति। “इदं वस्तु बलायतं यद्वदन्ति विपश्चितः। यथा यथार्थाश्चिन्त्यन्ते विशीर्य्यन्ते तथा तथेति” च। न क्वचिदपि पक्षे व्यवतिष्ठत इत्यर्थः। दृष्टार्थव्यवहारश्च न स्वप्नव्यवहारवत् संवृत्त्या सङ्गच्छते। अतएवोक्तन्न “परिव्राट्कामुक शुनामेकस्यां प्रमदातनौ। कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पना इति।” तदेवं भावनाचतुष्टयवशान्निखिलवासनानिवृत्तौ निर्वाणं शून्यरूपं सेत्स्यतीति वयं कृतार्थाः नास्माकसुपदेश्यं किञ्चिदस्तीति। शिव्यैस्तावद्योगश्चाचारश्चेति द्वयं करणीयम्। तत्रापाप्तस्यार्थस्य प्राप्तये पर्य्यनुयोगो योगः गुरूक्तस्यार्थस्याङ्गीकरणमाच्चारः गुरूक्तस्याङ्गीकरणादुत्तमाः पर्य्यनुयोगस्याकरणादपमाश्च अतस्तेषां माध्यमिका इति प्रसिद्धिः।
(योगाचाराः) गुरूक्तमावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्याऽऽन्तरस्य शून्यत्वञ्चाङ्गीकृतं कथमिति? पर्य्यनुयोगस्य करणात् केषाञ्चिद् योगाचारप्रथा एषा हि तेषां परिभाषा स्वयंवेदनं तावदङ्गीकार्य्यम् अन्यथा जगदान्ध्यं प्रसज्येत। तत्कीर्त्तितं धर्म्मकीर्त्तिना “अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति।” वाह्यं ग्राह्यं नोदपद्यत एव विकल्पानुपपत्तेः। अर्थो ज्ञानग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा, न पूर्वः उत्प न्नम्भ स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात्। अथमन्येथाः अतीत एवार्थो ज्ञानग्राह्यः तज्जनकत्वादिति तदपि बालमाषितं वर्त्तमानतावभासविरोधात् इन्द्रिया- देरपि ग्राह्यत्वप्रसङ्गाच्च। किञ्च ग्राह्यः कि परमाणुरूपोऽर्थः अवयविरूपो वा। त चरमः कृत्म्रैकदेशविकल्पादिना तन्निराकरणात्। न प्रथमः अतीन्द्रियत्वात् षट्केन युगपद्योगस्य बाधकत्वाच्च। यथोक्तम् “षट्केन युगपद् योगात् परमाणोः षडंशता। तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः” इति। तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिफा बुद्धिः स्वयमेव स्वात्मरूपपकाशिका प्रकाशवदिति सिद्धम्। तदुक्तम् “नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः। ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव प्रकाशते इति।” ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते यथा ज्ञानेनात्मा, वेद्यन्ते तैश्च नीलादयः। भेदं हि सत्यधुना अनेनार्थस्य सम्बन्धितं न स्यात् तादात्म्यस्य नियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः अत्राप्यनादिरविच्छिन्नप्रवाहा भेदवामनैव निमित्तम्। यघोक्तम् “सहोपलम्भनियमादभेदो नीलतद्धियोः। भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये” इति। “अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते” इति च। न च रसवीर्य्यविपाकादिसमानमाशामोदकोपार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृपरिज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षाणां केशेन्द्रनाडीज्ञानाभेदवदनाद्युपप्लवबासनासामर्थ्याद् व्यवस्थोपपत्तेः पर्य्यनुयोगायोगात्। यथोक्तम् “अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते। विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा। तथा कृतय्य्वस्थेयं केशादिज्ञानभेदवत्। यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणेति” तस्माद् बुद्धिरेवानादिवासनावशादनेकाकारावभासत इति सिद्धम् १ ततश्च प्रागुक्तभावनाप्रचयबलान्निखिलवासनोच्छेदविगलितविवधविषयाकारोपप्लवविशुद्धविज्ञानोदयो महोदय इति।
(सौत्रान्तिकाः) अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तुजातं नास्तीति तदयुक्त प्रमाणाभावात्। न च सहोपलम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेदकयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात्। ननु भेदे महीपलम्भनियमात्मकं साधन न स्यादिति चेन्न ज्ञानस्यान्तर्मुखतथा च भेदेन प्रतिभासमानतया एकदेशत्वैककालत्वलक्षणसहत्वनियमासम्भवाच्च नीलार्थस्य ज्ञानाकारत्वे अहमिति प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्ययाव्यतिरेकात्। अथोच्यते ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति न च तत्राहमुल्लेख इति यथोक्तम् “परिच्छेदान्तराद् योऽयं भागो बहिरिव स्थितः। ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः” इति। “यदन्तर्ज्ञेयतत्त्वं तद् वहिर्वदवभासत इति च”–तदयुक्तं बाह्यार्थाबावे तदुत्पत्तिरहिततया बहिर्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवदबभासत इति प्रेक्षावानाचक्षीत। भेदप्रतिभासस्य भ्रान्तत्वे अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रतिभासस्य भ्रान्तत्वमिति परस्पराअश्रयप्रसङ्गाच्च। अविसंवादान्नीलतादिकमेव संविदाना बाह्यमेवोपाददते जगत्युपेक्षन्ते चान्तरमिति व्यवस्थादर्शनाच्च। एवञ्चायमभेदसाधको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् अतो चहिर्वदिति वदता बाह्यं ग्राह्यमेवेति भावनीयमिति भवदीय एव वाणो भवन्तं प्रहरेत्। ननु ज्ञानाभिन्नकालस्यार्थस्य बाह्यत्वमनुपपन्नमिति चेत् तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोपपत्तेः अतएव पर्य्यनुयोगपरिहारौ समग्राहिषाताम्। “भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः। हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षममिति” तथा च यथा पुष्ट्या भोजनमनुमीयते यथा च भाषया देशः यथा वा सम्भ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनुमेयम्। तदुक्तम् “अर्द्धेन घटयत्येनां न हि मुक्त्वाऽर्द्धरूपताम्। तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपतेति” न हि वित्तिसत्तैव तद्वेदना युक्ता तस्याः सर्वत्राविशेषात् तान्तु सारूप्यमाविशत् सरूपयितुं घटयेदिति च। तथा च बाह्यार्थसद्भावे प्रयोगः ये यस्मिन् सत्यपि कादाचित्काः ते सर्वे तदतिरिक्तसापेक्षाः यथा अविवक्षति, अजिगमिषति मयि वचनगमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथा च विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाद्युल्लेखना इति। तत्रालयविज्ञानं नामाहमास्पदं विज्ञानं, नीलाद्यल्लेखि च प्रवृत्ति- विज्ञानम्। यथोक्तम् “तत् स्यादालयविज्ञानं यद्भवेदहमास्प्यदम्। तत् स्यात् प्रवित्तिविज्ञानं यन्नीलादिकमुल्लिखेदिति” तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययः कादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम्। विज्ञानवादिनये हि वासनानामेकसन्तानवर्त्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिजननशक्तिः तस्याश्च स्वकार्य्योत्पादं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्वक्षणः कक्षीक्रियते सन्तानान्तरनिबन्धनत्वानङ्गीकारात्। ततश्च प्रवृत्तिज्ञानजननालयविज्ञानवृत्तिवासनापरिपाकं प्रति सर्वऽप्यालयविज्ञानवर्त्तिनः क्षणाः समर्था एवेति वक्तव्यम्। न चेदेव कोऽपि न समर्थः स्यादालयविज्ञानसन्तानवर्त्तित्वाविशेषात्। सर्वे समर्था इति पक्षे कार्य्यक्षेपानुपपत्तिः ततश्च कादाचित्कत्वनिर्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्ते इति चत्रेणानिच्छताप्यच्छमतिना स्वानुभवमानाच्छाद्य परिच्छेत्त्यव्यम्। ते चत्वारः प्रत्ययाः आलम्बनसमन्तरसहकार्य्यधिपतिरूपाः तत्र ज्ञानपदवेदनीयस्य चित्तस्य नीलालम्बनप्रत्ययात् नीलाकारता भवति, समनन्तरप्रत्ययात् प्राचीनज्ञानाद् बोधरूपता, सहकारिप्रत्ययादालोकात्, चक्षुषोऽधिपतिप्रत्ययाद्विषयग्रहणप्रतिनियमः विदितस्य ज्ञानस्य रसादिसाधारण्यप्राप्तेर्नियमकं चक्षुरधिपतिर्भवितुमर्हति लोके नियामकस्याधिपतित्वोपलम्भात्। एवं चित्तचैत्ता त्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि। एवं चित्तचैत्तात्मकस्कन्धः पञ्चविधः रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकः। तत्र अरूप्यन्ते एभिर्विषया इति च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः। आलयविज्ञानप्रवृत्तिबिज्ञानप्रवाहो विज्ञानस्कन्धः। प्रागुक्तस्कन्धद्वयअम्बन्धजन्यः सुखदुःखादिप्रत्ययपवाहो वेदना स्कन्धः। गौरित्यादिशब्दल्लि खिसविज्ञानप्रवाहः संज्ञास्कन्धः। वेदनास्कन्धनिबन्धना रामद्वेषादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्माधर्मौ च संस्कारस्कन्धः। तदिदं सर्वं दुखं दुःखस्यायतनं दुःखसाधनञ्चेति भावयित्वा तन्निरोधोपायं तत्त्वज्ञानं सम्पादयेत्। अत एवोक्तं “दुःखसमुदायनिरोधमार्गाश्चत्वारः बुद्धाभिमतानि तत्त्वानि”। तत्र दुःखं प्रसिद्ध्वं, समुदायो दुःखकारण, तद् द्विविधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धनश्च। तत्र प्रत्ययोपनिबन्धनस्य संग्राहकं सूत्रम् “इदं कार्य्यं ये अन्ये हेतवः प्रत्ययन्ति” गच्छति तेषामयमानानां हे तूनां भावः प्रत्ययत्वं, कारणसमवायः तन्मात्रस्य फलं, न चेतनस्य कस्यचिदिति सूत्रार्थः। यथा वीजहेतुरङ्कुरो धातूनां षण्णां समवायाज्जायते। तत्र पृथिवीधातुरङ्कुरस्य काठिन्यं गन्धञ्च जनयति, अब्धातुः स्नेहं रसञ्च जनयति, तेजोधातुः रूपमौष्ण्यञ्च, वायुधातुः स्पर्शनं चलनञ्च, आकाशधातुरवकाशं शब्दञ्च ऋतुधातुर्यथायोगं पृथिव्यादिकम्। हेतूपनिबन्धनस्य च संग्राहकं सूत्रम् “उत्पादाद् वा तथागतानामनुत्पादाद् वा स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामकता च प्रतीत्य समुत्पादानुलोमतेति”। तथागतानां बुद्धानां मते धर्माणां कार्य्यकारणरूपाणां या धर्मता कार्य्यकारणभावरूपा एषोत्पादादनुत्पादाद् वा स्थिता, यस्मिन् सति यदुत्पद्यते तत् तस्य कारणस्य कार्य्यमिति धर्मतेत्यस्य विवरणं, धर्मस्य कार्य्यस्य कारणानतिक्रमेण स्थितिः स्वार्थिकस्तल्प्रत्ययः। धर्मस्य कारणस्य कार्य्यं प्रति नियामकता। नन्वयं कार्य्यकारणभावश्चेतनमन्तरेण न सम्भवतीति अत उक्तं कारणे सति तत्प्रतीत्य प्राप्य समुत्पादे अनुलोमता अनुसारिता या सैव धर्मता उत्पादादनुत्पादाद् वा धर्धाणां स्थिता। न चात्र कश्चिच्चेतनोऽधिष्ठातोपलभ्यत इति सूत्रार्थः। यथा प्रतीत्य समुत्पादस्य हेतूपनिबन्धः वीजादङ्कुरोऽङ्कुरात् काण्डं काण्डान्नालो नालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलम्। न चात्र षाह्ये समुदाये कारणं वीजादि कार्य्यमङ्कुरादि चेतायते अहमङ्कुरं निर्वर्त्तयामि अहं वीजेन निर्वर्त्तित इति। एवमध्यात्मिकेष्वपि कारणद्वयमवगन्तव्यम्। पुरःस्थिते प्रमेयाब्धौ ग्रन्थविस्तरभियोपरम्यते। तदुभयनिरोधः तदनन्तरं विमलज्ञानोदयो वा मुक्तिः तन्निरोधोपायो मार्गः स च तत्त्वज्ञानं तच्च प्राचीनभावनाबलाद् भवतीति परमं रहस्यम्। सूत्रान्तं पृच्छतां कथितं भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका भवन्त्विति भगवताभिहिततया सौत्रान्तिकसंज्ञाः सञ्जाताः।
(वैभाषिकाः) केचन बौद्धाबाह्येषु रूपादिषु आन्तरेषु सखादिषु स्कन्धषु सत्स्वपि तत्रानास्थामुत्पादयितु सर्वं शून्य- मिति, प्राथमिकान् विनेयानचीकथत् भगवान्, द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टान् विज्ञानमेवैकं सदिति, तृतीयानुभयं सत्यमित्यास्थितान् विज्ञेयमनुमेयमिति, सेयं विरुद्धा भाषेति वर्णयन्तो वैभापिकाख्यया ख्याताः। एषा हि तेषां परिभाषा समुन्मिषति। विज्ञेयानुमेयत्ववादे प्रात्यक्षिकस्य कस्यचिदप्यर्थस्याऽभावेन व्याप्तिसंवेदनस्थानाभावेनानुमानप्रवृत्त्यनुपपत्तिः सकललोकानुभवविरोधश्च। ततश्चार्थो द्विविधः ग्राह्योऽध्यवसेयश्च तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणं कल्पनापोढत्वात्, अध्यवसायः सविकल्य करूपोऽप्रमाणं कल्पनाज्ञानत्वात्। तदुक्तम् “कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम्। विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः” इति। “ग्राह्यं वस्तु प्रमाणं हि ग्रहणं यदितोऽन्यथा। न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजमिति च” ननु सविकल्पकस्याप्रामाण्ये कथं गतः प्रवृत्तस्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेन्न तद्भद्रं मणिप्रभाविषयमणिविकल्पन्यायेन पारपम्पर्य्येणार्थप्रतिलम्भसम्भवेन तदुपपत्तेः। अवशिष्टं सौत्रान्तिकप्रस्तावे प्रपञ्चितमिति नेह प्रतन्यते। न च विनेयाशयानुरोधेनोपदेशभेदः साम्प्रदायिको न मवतीति भणित्यव्यं यतो भणितं बोधचित्तविवरणे “देशना लोकनाथानां सत्त्वाशयवशानुगाः। भिद्यन्ते बहुधा लोके उपायैर्बहुमिः किल। गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः। भिन्ना हि देशनाऽभिन्ना शून्यताऽद्वयलक्षणेति। द्वादशायतनपूजा श्रेयस्करीति बौद्धनये प्रसिद्धम्। “अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै। परितः पूजनीयानि किसन्यैरिह पूजितैः। ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाणि च। मनोबद्धिरिति प्रोक्तं द्वादशायतनं बुधैरिति”। विवेकविलामे बौद्धमतमित्थमध्यधायि। “बौद्धानां सुगतो देवो विश्वञ्च क्षणभङ्गुरम्। आर्य्यसत्त्वाख्यया तत्त्वचतुष्टयमिदं क्रमात्। दुःखमायतनञ्चैव ततः समुदयो मतः। मार्गचेत्यस्य च व्याख्या क्रमेण श्रूयतामतः। दुःखं संसारिण स्कन्धास्ते च पञ्च प्रकीर्त्तिताः। विज्ञानं येदना संज्ञा संस्कारो रूपमेव च। पञ्चेन्द्रियाणि शब्दाद्या विषयः पञ्च मानसम्। धर्मायतनमेतानि द्वादशायतनानि तु। रागादीनां गणोऽयं स्यात् ममुदेति नृणां हृदि। आत्मात्मीयस्वभावाख्यः स स्यात् समुदयः पुनः। क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा। स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते। प्रत्यक्षमनुमानञ्च प्रमाणद्वितयं तथा। चतुःप्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः। अर्थो ज्ञानान्वितो वैभाषिकैश्च बहुमन्यते। मौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः। आकारसहिता बुद्धिर्योगाचारस्य सम्मता। केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः। रागादिज्ञानसन्तानवासनाच्छेदसम्भवा। चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्त्तिता। कृत्तिः कमण्डलुर्मौण्ड्यं चोरं पूर्वाह्णभोजनम्। सङ्घो रक्ताम्बरत्वञ्च शिश्रिये बौद्धभिक्षुभिरिति”।

बुद्धगया = स्त्री (बुधगया) प्रसिद्धे कीकटस्थे बुद्धानां गयाभेदे।

बुद्धद्रव्य = न० स्तौपिके स्तूपीकृते द्रव्ये त्रिका०।

बुद्धधर्म्म = पु० ६ त०। बुद्धानामहिंसादौ धर्मे।

बुद्धपुराण = न० बुद्धस्याविर्भावादिज्ञापके पुराणभेदे।

बुद्धान्त = पु० बुध–भाये क्त तस्यान्तः परिच्छेदः। जीवस्यावस्थाभेदे जाग्रदवस्थायाम् शत० व्रा० १४। ७। ११। ८।

बुद्धि = स्त्री० बुध–क्तिन्। १ ज्ञाने, २ सुखदुःखाद्यष्टबिधधर्मयुते प्रकृतिपरिणामभेदे “महत्तत्त्वमिति प्रोक्तं बुद्धितत्त्वं तदुच्यते” सां० प्र० भा० धृतवाक्यम्। वेदान्तोक्ते निश्चयात्मकवृत्तियुते ३ अन्तःकरणे च। “मनोबुद्धिरहङ्कारश्चित्तं करणयान्तरम्। संशयो निश्चयो गर्बः स्मरणं विषया अमी” वेदान्तप०। ४ धर्मपत्नीभेदे भा० आ० ६६ अ०। कणा० सूत्रोपस्करवृत्तौ सांख्यमतसिद्धमहत्तत्वरूपबुद्धितत्वनिराकरणेन बुद्धेर्ज्ञानपर्य्यायता तद्भोदाश्चोका यथा “द्रव्येषु ज्ञानं व्याख्यातम्” सू० “विषयेण तिषयिणं तृतीयाध्यायस्थमुपलक्षयति। “इन्द्रियार्यप्रसिद्धिरिन्द्रियार्थेभ्योऽर्था न्तरस्य हेतुः” “आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत्र” इत्येताभ्यां सूताभ्यां ज्ञानं व्याख्यातमित्यर्था”। तत्र बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्य्यायाः” गौ० सू० समानतन्त्रे बुद्धिलक्षणे साङ्ख्यमतनिरासार्थं पर्थ्यायाभिधानम्। साङ्ख्या हि बुद्ध्यादिशब्दानामर्थभेदमाचक्षते तथा हि सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, सा चैकैव पुरुषास्तु परं भिद्यन्ते ते च कूटस्था नित्या अपरिणाभिनो नित्यचैतन्यस्वभावाः ते च पङ्गवोऽपरिणामित्वात् पकृतिस्त्वन्धा जडवात यदा विषयभोनेच्छा प्रकृतिपुरुषभेददिदृक्षा च प्रकृतेर्भवति तदा सा पुरुषोपरागवशात् परिणमेत् तस्याश्चाद्यः गरिणामो द्धिरन्तःकरणविशेषः बुद्धिरेव महत्तत्र तदु- क्तम् “प्रकृतेर्सहान्” इति सां० सू०। सा च बुद्धिर्दर्पणवान्न र्मला तस्याश्च बहिरिन्द्रियप्रणाडिकया विषयाकारो यः परिणतिभेदो घट इति पट इत्याद्याकारस्तज्ज्ञानं वृत्तिरिति चाख्यायते खच्छार्या बुद्धौ वर्त्तमानेन ज्ञानेन चैतज्यस्य पुरुषस्य भेदाग्रहादहं जानामीति यौऽभिमानविशेषः सैवोपलब्धिः। स्रक्चन्दनादिविषयसन्नि कर्षादिन्द्रियप्रणाडिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणामविशेषः स प्रत्ययः। अतएव ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नसंस्कारधर्माऽधर्माः सर्वएव बुद्धेः परिणामविशेषाः सूक्ष्ममात्रया प्रकृतावे वर्त्तमाना अवस्थाभेदादाविर्भवन्ति तिरोभवन्ति च। पुरुषस्तु पुष्करपलाशवन्निर्लेपः प्रतिविम्बते परं बुद्धावितिं यन्मन्यन्ते। तदनेन पर्य्यायाभिधानसूचितप्रमाणेन निराक्रियते तथा हि बुद्धिशब्दो यदि बुध्यतेऽनयेति करणव्युत्पन्नस्तदा मन एव तत्पर्य्यवस्यति नच मनः प्रत्यक्षम् बुद्धिस्त्वहं बुध्ये इति प्रत्यक्षवेद्यैव। नचान्तःकरणस्य ज्ञानाद्याधर्मा कर्तृधर्मत्वेनैव तेषां सिद्धेः भवति हि अहं जाने अहं प्रत्येमि अहमुपलभे इत्यहन्त्वसामानाधिकरण्येन प्रतिभासः। अभिमानोऽसाविति चेत् तात्त्विकत्वे वाधकाभावात्। पुरुषस्यागन्तुकधरानाधारत्वं कूटस्थत्वं तदेव बाधकमिति चेन्नामन्तुकधर्माधारत्वेऽपि नित्यत्वसम्भवात् न हि धर्मी धर्मश्चेत्येकं तत्त्वं येन धर्मोत्पादविनाशावेव धर्म्युत्पादविनाशौ स्यातां तथा च यएव चेतायते स एव बुध्यते जानात्युपलभ्यते पत्येति चेति नार्थान्तरकल्पना युक्तेति दिक्। तच्च ज्ञानं द्विविधं विद्या चाविद्या च विद्या चतुर्व्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा। अवि० द्याऽपि चतुर्व्विधा संशयविपर्य्ययस्वप्नानध्यावसायलक्षणा। तत्र यल्लैङ्गिकं तदनिन्द्रियजम् कुतएतदित्याह” उप० वृ०। “तत्रात्मा मनश्चाप्रत्यक्षे” कणा० सू०। “आत्माऽत्र परात्मा स्वात्मा वा खात्मनि मानसस्य क्वा० चित्काहम्प्रत्ययस्याहं गौरः कृशो महाबाहुरिव्यादि प्रत्ययतिरस्कृतत्वात् स्वात्मनोऽप्यप्रत्यक्षतोक्ता। चकारादाकाशकालदिशां षायोः परमाणूनाञ्च द्रव्याणामुपग्रहः। इन्द्रियजमपि द्विविधं सर्वज्ञीयमसर्वज्ञीयञ्च सर्वज्ञीयं योगजधर्मलक्षणया प्रत्यासत्त्या तत्तत्पदार्थसार्थज्ञानं तथा हि परमाणवः प्रत्यक्षप्रसक्ताः प्रमेयत्वादभिधेयत्वात् सत्त्वात्। सामग्रीविरहात् कथमेवं महत्त्वस्यापि प्रत्यक्षं प्रति कारणत्वात् न च परमाणवो महन्तः रूपवत्त्वस्यापि चाक्षुषप्रत्यक्षकारणत्वात् न च दिगादयो रूपवन्त इति चेन्न योगजधर्मसहकारिणा मनसैव तत्सम्भवात् तदुपग्रहाच्चक्षुरादिना वा। अचिन्त्यप्रभावोहि योगजो धर्मो न सहकार्य्यन्तरमपेक्षते। विवादाध्यासितः पुरुषो न सर्वज्ञः पुरुषत्वादहमिवेत्यादि तु प्रामाकरो न मीमांसाभिज्ञः पुरुषत्वादहमिवेत्यादिवद्विपक्षबाधकतर्कशून्यत्वादप्रयोजकम्। असर्वज्ञीयञ्च प्रत्यक्षं द्विविधं सविकल्पकं निर्विकल्पकञ्च सविकल्पकं ज्ञानं न प्रमाणमिति कीर्त्तिदिङ्नागादयः तथा हि अभिलापर्ससगेयोग्यप्रतिभासं हि तत् नह्यभिलापेन नाम्ना सम्भवत्यर्थस्य सम्बन्धो येन घट इति पट इति वा नामानुरञ्जितः प्रत्ययः स्यात् नच जात्यादि परमार्थसत् येन तद्वैशिष्ट्यं बिषयेषु इन्द्रिय गोचरः तस्मादिन्द्रियेणालोचनं जन्यते आलोचनमहिम्ना च सबिकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्त्तयत् प्रत्यक्षमिति चोच्यते इति। तच्चैतदनुपपन्नमभिलापसंसर्गयोग्यप्रतिभासञ्च भवेत् प्रमाणञ्चेन्द्रियार्थसन्निकर्षजन्यं स्यादिति सन्दिग्धव्यतिरेकित्वं नामवैशिष्ठ्यञ्च चाक्षुषज्ञाने सम्भवत्येव सुरभि चन्दनमितिवदुवनीतभानसम्भवात्। यद्वा संज्ञावैशिष्ठ्यं प्रत्यक्षज्ञाने न भासते संज्ञायाः स्मरणमात्रम् स्मृतैव साऽर्थव्यावर्त्तिका अभावज्ञाने प्रतियोगिस्मरणवत् जात्यादिकञ्च वस्तुभूतं साधितमेबातः सविकल्पकमपीन्द्रियार्थसन्निकर्षजत्वात् प्रत्यक्षम् प्रमाणम्। ननु निर्विकल्पकं न व्यवहारप्रवर्त्तकं न वा व्यवहारविषय इति किन्तत्र प्रमाणमिति चेत् सविकल्पकमेव तद्धि विशिष्टज्ञानम् न च विशेषणज्ञानमन्तरेण तदुत्पद्यते विशिष्टज्ञाने हि विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतटुभयासंसर्गाग्रहस्य कारणत्वावधारणात्” उपस्करवृत्तिः। “सा च सात्त्विकराजसतामसभेदेन त्रिविधा। तत्र सात्त्विकी यथा “प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये। बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ! सात्त्विकी”। राजसी यथा “यया धर्ममधर्मञ्च कार्य्यञ्चाकार्य्यमेव च। अयथावत् प्रजानाति बुद्धिः सा पार्थ! राजसी”। तामसी यथा “अधर्मं धर्ममिति या मन्यते तमसावृता। मर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ! तामसी” गीता० तस्याः पञ्चगुणा यथा। “इष्टाऽनिष्टविपत्तिश्च व्यवसायः समाधिता। संशयप्रतिपत्तिश्च बुद्धेः पञ्च गुणान् विदुः” महाभारते मोक्षधर्मः “इष्टानिष्टविपत्तिः इष्टानिष्टार्ना वृत्तिविशेषाणां विपत्तिर्नाशः निद्रास्वपा वृत्तिरित्यर्थः। व्यवसायः उत्साहः। समा- धिता चित्तस्थैर्य्यं चित्तवृत्तिनिरोध इत्यर्थः संशयः द्वयस्पृक् ज्ञानम्। प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः” तट्टीका। तस्याः सप्त गुणा यथा “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणन्तथा। ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः” हेमच०। तस्या वृत्तिः पञ्चधा यथा। “प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयः” पात० सू० तल्लक्षणं च तत्तच्छब्दे दृश्यम्। बुद्धिक्षयकरा यथा “शोकः क्रोधश्च लोभश्च कामो मोहः परासुता। ईर्ष्या मानो विचिकित्सा हिंसाऽसूया जुगुप्सता। द्वादशैते बुद्धिनाशहेतवो मानसा मलाः”। कालिकापु० १८ अ०। “बुद्धिक्षयकरा एते माषकासारमृत्तिकाः”। बुद्धिवृद्धिकरा यथा “निम्बाटरूषवृन्ताश्च बुद्धिवृद्धिकरा मताः। बुद्धिक्षयकरान्नित्यं त्यजेद्राजा च भोजने। भोजयेदन्वहं बुद्धिवृद्धिहेतुं नृपोत्तमः। काकिकापु० ८९ अ०।

बुद्धिकामा = स्त्री कुमारानुचरमातृभेदे भा० श० ४७ अ०।

बुद्धिजीविन् = स्त्री बुद्ध्या जीवति जीव–णिनि। बुद्धिरूपोपायेन जीविनि। “भूतानां प्राणिनां श्रेष्ठा प्राणिनां बुद्धिजीविनः” मनुः।

बुद्धिसहाय = पु० ७ त०। धीसचिवे अमात्यभेदे हारा०।

बुद्धीन्द्रिय = न० ६० त०। “मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके। बुद्धीन्द्रियमिति प्रोक्तम्” इत्युक्तेषु इन्द्रियेषु उभयोः ज्ञानकर्मेन्द्रिययोरुपकारकत्वात् मनसो ज्ञानमात्रसहकारित्वविवक्षया बाह्यान्तरज्ञानकरणतया च तथात्वम् “चक्षुः श्रोत्रे स्पर्शनञ्च रसनाघ्राणमेव च। बुद्धीन्द्रियाणि जानीयात्” इत्यत्र बाह्यापेक्षया पञ्चकत्वमुक्तम्।

बुद्धुद = न० बुद–क पृषो० द्वित्वम्। जलस्य लोलाकारे विकारमेद अमरः। “पञ्चरात्रेण कललं बुद्धुदाकारतां व्रजेत्”। सुखबो० उक्ते २ गर्भावस्थाभेदे च।

बुध = ज्ञापने भ्वा० प० सक० अनिट्। बोधति अभौत्सीत् शिष्यं गुरुः। बोद्धा बुद्धः।

बुध = ज्ञाने भ्वा० उभ० सक० सेट्। बोधति ते। इरित अबुधत्० अपोधीत् अबोधि अबोधिष्ट। ज्वला० वा ण पक्षे क। बोधः बुधः।

बुध = ज्ञाने दि० आ० सक० अनिट्। बुध्यते अबोधि अबोधिष्ट। बुबुधे। उद् + बुध–जागरणे पिषयस्फुरणाभिमुखीभाव रूपे सस्कारनिष्ठे व्यापारभेदे उद्नुद्धसंस्करादेव स्मृतिर्भवतीति शाखे स्थितम्।

बुध = पु० बुध–क। १ पण्डिते, बृहस्पतिभार्य्यायां तारायां चन्द्रेण जनिते २ पुत्रे तस्य रोहिण्या प्रतिपालनात् रौहिणेयत्वम्। ३ ग्रहभेदे। तस्योत्पत्तिकथा शिववरेण तस्य ग्रहरूपत्वप्राप्तिकथा च काशीख० १५ अ०। “बृहस्पतेः सवै भार्य्यामैश्वर्य्यमदमोहितः। पुरोहितस्यापि गुरोर्भ्रातुराङ्गिरसस्य वै। जहार तरसा ताराम्” इत्युपक्रमे। “ददावाङ्गिरसे तारां स्वयमेव पितामहः। अथान्तर्गर्भमालोक्य तारां प्राह बृहस्पतिः। मदीयायां न ते योनौ गर्भो धार्य्यः कथञ्चन। ईषिकास्तम्भमासाद्य सा गर्भं चोत्ससर्ज ह। जातमात्रः स भगवान् देवानामाक्षिपद्वपुः। ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः। सत्यं व्रहि सुतः कस्य सोमस्याथ बृहस्पतेः। पृच्छ्यमाना यदा देवैर्नाह ताराऽतिसत्रपा। तदा तां शप्तुमारब्धः कुमारः सोऽतितेजसा। तन्निवार्य्य तदा ब्रह्मा तारां पप्रच्छ संशयम्। प्रोवाच प्राञ्जलिः सा त सोमस्येति पितामहम्। तदा स मूर्द्ध्यूपाध्राय तारागर्भं प्रजापतिः। बुध इत्यकरोन्नाम तस्य बालस्य धीमतः। ततः स सर्वदेवेभ्यस्तेजोरूपबलाधिकः। बुधः सोमं समापृच्छ्य तपसे कृतनिश्चयः। जगाम काशीं निर्वाणराशिं विश्वेशपालिताम्। तत्र लिङ्ग प्रतिष्ठाप्य स्वनाम्ना तु बुधचूरम्। तपश्चचार चात्य ग्रमुग्र संशीलयन् हृदि”। इति तत्तप उक्तं तत्तपसा च तुष्टेन शिवेनोक्तं यथा “रौहिणेय! महाभाग! सौम्य! सौम्यवचोनिधे!। नक्षत्रलोकादुपरि तव लोको भविष्यति। मध्ये सर्वं ग्रहाणाञ्च सपर्य्यां लप्स्यसे पराम्”। बुधग्रहस्य कक्षाभगणादिकं खगोलशब्दे दृश्यम्।

बुधचक्र = न० बुधस्य राश्यन्तरसञ्चारकाले स्वनक्षत्रस्य मुखादिस्थानस्थितिभेदेन शुभाशुभमूचके चक्रभेदे “भोगोमुखैकमथ मूर्ध्नि चतुर्षु रोगः षट पाणिभेऽमुखहतं सुखदं श्रुतेऽत्र। दुःख पदाब्धि सुयशो हृदि सप्त राज्यं नाभीन्दुभे द्विभ गले निधनं बुधस्य” इति समयामृतम्।

बुधचार = पु० ६ त०। वृ० स० ७ अ० उक्ते बुधग्रहस्य शुभाशुभमूचके सवारे यथा “नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम्। जलदहनपवनभयकृद्धान्यार्थेक्षयविवृद्ध्यै वा। विचरन् श्रवणधनिष्ठाप्राजापत्येन्दु ४। ५ विश्वर्दवानि २१। मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम्। रौद्रा ६ दीनि मघान्तन्थ पात्रिते यन्द्रजें प्रजार्पाष्टा। शखनिपातक्षुद्भय- रोगानावृष्टिसन्तापैः। हस्तादीनि विचरन् षडृक्षाण्युपपीडयन् गवामशुभः। स्नेहरसार्घविवृद्धिं करोति चोर्वीं प्रभूतान्नाम्। आर्यम्णं १२ हौतभुजं ३ भद्रपदामुत्तरां यमेशं २ च। चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसङ्क्षयकृत्। आश्विनवारुण २४ मूलान्यु पमृद्नन् रेवतीं च चन्द्रसुतः। पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः। पूर्वाद्यृक्ष ११। २०। २६ त्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात् क्षुच्छस्त्रतस्करामयभयप्रदायी चरन जगतः”। इतःपरं तस्य गतिबिशेषास्तत्राभिहितास्तात्फलञ्च तत्र दर्शितं तच्च गतिशब्दे २५१५ पृ० दर्शितम्। अध्यायशेषे च। “पौषाषाढंश्रावणवैशाखेष्विन्दुजः समाघेषु। दृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु। कार्त्तिकेऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः। शस्त्रचौरहुतभुगगदतोयक्षुद्भयानि च तदा विदधाति। रुद्धानि सौम्येऽस्तमिते पुराणि यान्युद्गते तान्युपयान्ति मोक्षम्। अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवतीति तज्ज्ञाः। हेमकान्तिरथ वा शुकवर्णः सस्यकेन मणिना सदृशो वा। स्निग्धमुर्तिरलघुश्च हिताय व्यत्यये न शुभकृच्छशिपुत्रः”।

बुधतनय = पु० ६ त०। पुरूरवसि इलाशब्दे दृश्यम् बुधसुतादयोऽप्यत्र।

बुधतात = पु० ६ त०। चन्द्रे शब्दचः।

बुधरत्न = न० बुधप्रियं रत्नं शाक० त०। मरकतमणौ गारुत्मते राजनि०। ग्रहयज्ञे २७६३ पृ० दृश्यम्।

बुधवार = पु० ६ त०। बुधपतिकदिवसे दिनपशब्दे ३५ ६२ पृ० दृम्यम्

बुधसानु = पु० बुध–आनुक् सुक् च। यज्ञपुरुषे पर्णे च संक्षिप्तसा०

बुधा = स्त्री बोधयति ज्ञापयति रोगिणं सेवनात् बुध–ज्ञापने क। जटामांस्याम् शब्दच०।

बुधादित्य = पु० बुधसहित आदित्यः। जन्मकाले एकस्मिन् राशौ बुधादित्ययोर्योगे स च तयोरन्यतरगृह एव भवतीति सम्प्रदायः।

बुधान = पु० वुध–आनच् किच्च। १ आचार्य्ये पुरौ २ विज्ञे मेदि०। ३ कवौ जटा०। ४ ब्रह्मवादिनि ५ प्रियवादिनि त्रि० उणादिकोषः।

बुधाष्टमी = स्त्री० बुधवारयुताष्टमी शाक० त०। चैत्रपौमहरिशयभादोतरत्र शुद्धकाले चुधवारयुतार्या १ शुक्लपक्षाष्टम्यां, २ तत्कर्त्तव्ये व्रते च। तस्याः पूर्व्वत्वहतुः हेमा० व्र० भविष्योत्तरे उक्तो यथा “पुरा कृतयुगस्यादौ इलो राजा बभूव ह। बहुभृत्य- युतो मित्रमन्त्रिभिः परिवारितः। जगाम हिमवत्पार्श्वे महादेवाभिशापतः। योऽसौ प्रविशते भूमौ स स्त्री मवति निश्चितम्। स राजा मृगसङ्गेन प्राविशतदुमावने। एकाकी तुरगोपेतः क्षणात् स्त्रीत्वं जगाम ह। सा बभ्राम वने शून्ये पीनोन्नतपयोधरा। का त्वं कस्य कुतः प्राप्ता अनुरोधोऽस्ति कश्चन। तां ददर्श बुधस्तन्वीं रूपौदार्य्यगुणान्विताम्। अष्टम्यां बुधतारेण तस्यां तुष्टो बुधो ग्रहः। ददौ गृहाश्रमन्तस्यामानीयत प्रतीषिताम्। पुत्रमुत्पादयामास योऽसौ ख्यातः पुरूरवाः। चन्द्रवंशकरो राजा आद्यः सर्वमहीक्षिताम्। ततः प्रभृति पूज्ये थमष्टमी बुधसंयुता”। सा च सम्पूर्णा ग्राह्या न भिन्ना यथोक्तं तत्रैव “बुधाष्टमी शुभा पूर्णा यथोक्तफलदायिनी” तच्च व्रतषष्टवर्षं कार्य्यं तत्र भक्ष्यभेदादिकं च तत्रैवोक्तं यथा

“अष्टम्यष्टविधानेन विचित्रान्नैः पृथक् पृथक्। षथमा मोदकैर्भक्ष्यैः द्वितीया धानकैस्तथा। तृतीया घृतपूरैश्च चतुर्थी वटकैर्नृप!। पञ्चमी शुम्रकासारैः षष्ठी सोहालकैः शुभैः। अशोकवर्त्तिभिः शुम्रैः सप्रवीं चातिवाहयेत्। अष्टमी फाणितैः पूर्णेः खण्डवेष्टैर्युधिष्ठिर!।” तत्र विहितनिषेधकालादि राजमार्त्तण्डे उक्तं यथा “पतङ्गे मकरे जाते देवे जाग्रति माधवे। बुधाष्टमीं प्रकुर्वी। वर्जयित्वा तु चैत्रकम्। प्रमुप्ते च जगन्नामे सन्ध्याकाले मधौ तथा। बुधाष्टमीं न कुर्वीत कृता हन्ति पुराकृतमिति”। एतद्व्रतमारब्धग्रपि चैत्रादौ न कर्त्तव्यं यथाह स्मृतिः “मीने धनुषि देवेशे सुप्तेऽशुद्धेदिने तथा। बुधाष्टमीं न कुर्वीत पूर्वविद्धामपि क्वचित्” अशुद्धदिने समयाशुद्धियुक्तदिने।

बुधित = त्रि० भ्वा० बुध–क्त इट्। ज्ञाते अमरः।

बुधिल = त्रि० बुध–किलच्। विदुपि उणादि०।

बुध्न = पु० बन्ध–नक् बुधादेशः। १ मूले अमरः २ शिवे गरतः ३ अन्तरीक्षे ऋ० ४। १९। ४ भाष्यम्। “पृथुबुध्नोदराकृतिः” वेदान्तप०। “अर्वाग्बिधश्चमस ऊर्द्ध्व बुधः” शा० भा० धृता श्रुतिः। निरुक्ते तु बुद्धा अस्मिन् धृता आप इति अन्तरिक्षं बुध्नम्” तस्य निरुक्तिरुक्ता।

बुध्न्य = पु० बुध्ने मूले भवः तत्। १ गार्हपत्ये अग्नौ “अहिरमि बुध्न्यः” ताण्डपा० १। ४। ११ “अहिरसि हन्ता रक्षःप्रभृतीनां बुध्न्यः बुध्ने मूले आदौ आधानकाले प्रथमं थातोऽसि” २ अधरिणभवे ३ रुद्रभेदे च। बुध्ने निवश्चति बुध्न्यः योऽहिः सः अग्नि बुध्न्यः बुध्नमन्तरीक्षं अन्तरिक्षे च तन्निवासाद्वा” निरु०। “मानोऽहिर्बुध्न्योरिषे” तद्धृता श्रुतिः।

बुन्द = निशामने–भ्वा० उभ० सक० सेट्। बुन्दति ते इरित् अबुदत् अबुन्दीत्। अबुन्दिष्ट। उदित् क्त्वा वेट्। निशामनमालोचनम् प्रणिधानमिति यावत्।

बुन्ध = निशामने भ्व० उभ० सक० सेट्। बुन्धति ते इरित् अबुधत्–अबुन्धीत् अबुन्धिष्ट। निशामनमालोचनम्। उदित् क्त्वा वेट्।

बुन्ध = बन्धे चु० उभ० सक० सेट्। बुन्धयति ते अबुवुन्धत् त।

बुबुर = न० उदके निघण्टो बर्पुरनित्यत्र पाठान्तरम्।

बुभुक्षा = स्त्री० भुज–सन्–भावे अ। भोजनेच्छायां क्षुधायाम् सा च प्राणधर्मः यथोक्तं शा० ति० “बुभुक्षा च पिपाषा च प्राणस्य” ऊर्मिशब्दे दृश्यम्। अश्चेऽजीर्णे च सा न भवति अथ मवति चेत् अनिष्टदा यथोक्तं सुश्रुते “उद्गारशुद्धावपि भक्तकाङ्क्षा न जावते हृद्गुरुता च नस्य” “सल्पं यदा दोषविवृद्धमामं लीनं न तेजः पथग्रावृणोति। भवत्यजीर्णेऽपि तदा पुमुक्षा षा मन्दबुद्धिं विषवन्निहन्ति”। छवादि० शीलार्थे अण्। बौभुक्षतच्छीले त्रि०

बुभुक्षित = त्रि० बुभुक्षा + तार० इतच्। क्षुधायुक्ते “बुभुक्षितः किं द्विकरेण भुङ्क्ते” इत्युद्भटः।

बुल = मज्जने चु० उभ० अक० सेट्। बोकयति ते अबुबुसत्। बोलयति प्लवः पयसि मज्जतीत्यर्थः।

बुलि = स्त्री तदा० बुड–इन् किच्च डश्य सः। भवे हेमच०।

बुल्व = त्रि० बुल्–न उला० नि०। तिरश्चिने शत० ब्रा०। ११। ५। ४। १४।

बुष(स) = न० बुस्यते उत्सृज्यते बुस–उत्सर्गे च पृषो० वा षत्वम्। (आगडा) १ तुच्छवान्ये फलरहितधान्ये अमरः। अयं बोपधः २ उदके वेदनिघण्टुः ततः तृणाचतुरर्थ्यां स। बुसस तत्समीपादौ त्रि०। पृषो० दीर्थः बूसमप्यत्र।

बुस = उत्सर्गे दि० पर० सक० सेत्। बुस्यति। इरित् अबुसत् अबोसीत् बुबीस

बुस्त = आदरे अतादरे च चु० उभ० सक० सेट्। बुस्तयति ते अबुबुस्तत् त।

बुस्त = न० बुस्त्यते नाद्रियते आद्रियते वा बुस्त–घञ्। १ पतसादिफलस्य त्याज्ये अंशे (बुथि) २ मांसपिष्टकभेदे च अमरभरतौ।

बूक्क = न० बुक्क + पृषो० दीर्घः। बुक्कशब्दार्थे रमानाथः।

बुवदुक्थ = ब० पदे विष्ण्टुः।

बुषी = स्त्री ब्रुवन्तोऽस्यां सीदन्ति पृषो० ब्रुवी बृ सद–ड गौरा० ङीषत्रञ्च। ऋषीणामासने अमरः।

बृ(वृ)ह = वृद्धौ भ्वादि० पर० अक० सेट् ब(व)र्हति अब(व)रीत्। इरित् इत्येके तेन अबृ(वृ)हदित्यपि। कविकल्पद्रुमे बृहधातुमात्रस्य अन्त्यस्थादित्वमुक्तम्” मेदि० “प्रोक्षितं निहते सिक्ते बृहती वसनान्तरे। छन्दोभित्क्षुद्रवार्त्ताकीवारिधानीषु वाचि च। काण्टकारिभहत्योश्च” “ब्रह्मतत्त्वतपोवेदे न द्वयोः पुंसी बेधसि”। ऋत्विग्योगभिदोर्विप्रे बन्धनं बधबन्धयोः”। वृहप्रकृतिवृहती ब्रह्मशब्दयोः ओष्ठ्यादितयोक्तत्वादस्य उभयादित्वम्।

बृ(वृ)हक = पु० बृ(वृ)ह–क्वुन्। देवगन्धर्वभेदे भ० आ० १२३ अ०

बृ(वृ)हच्चञ्चु = पु० ६ ब०। महाचञ्चुशाके राजनि०।

बृ(वृ)हच्चित्र = पु० ७ ब०। फलपूरे वीजपूरे शब्दच०।

बृ(वृ)हच्छल्क = पु० ६ ब०। चिङ्गटमत्स्ये जटा०।

बृ(वृ)हच्छ्रवस् = त्रि० ६ ब०। महायशस्के भाग० १। ४। १।

बृ(वृ)हज्जातक = न० कर्म०। वराहमिहिरकृते जातकग्रन्थभेदे।

बृ(वृ)हज्जाबाल = पु० कर्म०। उपनिषद्भेदे उपनिषच्छब्दे दृश्यम्।

बृ(वृ)हज्जीवन्ती = स्त्री कर्म०। महाजीवन्त्याम् राजनि०।

बृ(वृ)हड्ढक्का = स्त्री कर्म०। १ भेरीवाद्ये जता०।

बृ(वृ)हत् = त्रि० बृह–अति शतृवत् कार्य्यम्। १ महति स्रियां ङीष्। सा च २ उत्तरीयभेदे नवाक्सरपदके ३ छन्दोभेदे ४ क्षुद्रवार्त्ताक्यां ५ बारिधान्यां ६ वाचि ७ कण्टकार्य्याञ्च स्त्री मेदि०। ८ विष्णौ पु०। “अणुर्बृ(वृ)हन् कृशः स्थूलः” विष्णुस०। आच्छादनपरत्वे कन्। वृहतिका उत्तरीवस्त्रे अमरः। स्वार्थे क। वृहतीशब्दे च स्त्री।

बृ(वृ)हतीपति = पु० बृ(वृ)हत्या वाचः पतिः। पारस्करा० “तद्बृहत्योः करपत्योश्चौरदेवयोः” वार्त्ति० देवतायामेव सुट् तलोपश्च नान्यत्र वाक्पतौ हेमच०।

बृ(वृ)हत्क = त्रि० बृहत्प्रकारः कन्। बृहत्प्रकारे

बृ(वृ)हत्कथा = स्त्री वररुचिप्रणीते कथाभेदे।

बृ(वृ)हत्कन्द = पु० ६ ब०। १ गृञ्जने रत्नमाला। २ विष्णुकन्दे राजनि०।

बृ(वृ)हत्कर्म्मन् = त्रि० ६ त०। १ महाकर्मयुते २ बृहदश्वपुत्रभेदे पु० हरिवं० ३१ अ०

बृ(वृ)हत्काय = पु० आजमीढवंश्ये नृपभेदे भाग० २१। १७। ६ ब०। २ महादेहे त्रि०।

बृ(वृ)हत्कालशाक = पु० नित्यक०। वृहति (कालकासुन्धिया) शाकभेदे त्रिका०।

बृ(वृ)हत्कास = पु० नित्यक०। खड्गटे तृणभेदे हारा०।

बृ(वृ)हत्कीर्त्ति = त्रि० ६ ब०। १ महाकीर्त्तियुक्ते २ आङ्गिरसाग्निपुत्रभेदे पु० भा० व० २१७ अ०। ३ असुरभेदे पु० हरिवं० ४२ अ०

बृ(वृ)हत्कुक्षि = त्रि० ६ ब०। तुन्दिले अमरः।

बृ(वृ)हत्केतु = त्रि० ६ ब०। १ महाध्वजयुते। २ राजभेदे पु० भा० अ० ६ अ०।

बृ(वृ)हत्क्षत्र = पु० आजमीढवंश्ये नृपभेदे भाग० ९। २६।

बृ(वृ)हत्ताल = पु० नित्यक०। हिन्तालवृक्षे राजनि०।

बृ(वृ)हत्तिक्ता = स्त्री वृहन् तिक्तो रसोऽस्याः। पाठायाम् राजनि०।

बृ(वृ)हत्तृण = पु० ६ ब०। वंशे शब्दच०।

बृ(वृ)हत्त्वच् = पु० ६ ब०। (छातिम) वृक्षभेदे रत्नमा०।

बृ(वृ)हत्पत्र = त्रि० ६ ब०। १ महापत्रयुक्ते वृक्षे २ हस्तिकन्दे राजनि०। ३ त्रिपर्णिकायां स्त्री राजनि०।

बृ(वृ)हत्पाटलि = पु० नित्यक०। धूस्तूरे त्रिका०।

बृ(वृ)हत्पाद = त्रि० ६ ब०। १ महाचरणयुक्ते वृक्षे २ वटवृक्सेपु० शब्दच०

बृ(वृ)हत्पारेवत = न० कर्म०। महापारेवते राजनि०।

बृ(वृ)हत्पालिन् = पु० बृ(वृ)हन्तं पालयति पालि–णिनि। वनजीरके राजनि०।

बृ(वृ)हत्पीलु = पु० नित्यकर्म०। महापीलौ राजनि०।

बृ(वृ)हत्पुष्पी = स्त्री ६ ब० ङीप्। १ घण्ठारववृके जटा०। २ महापुष्पयुतवृक्षमात्रे त्रि० स्त्रियां टाप्।

बृ(वृ)हत्फल = त्रि० ६ ब०। १ महाफलयुते। २ कटुतुम्ब्यां ३ माहेन्द्रवारुण्यां ४ कुष्माण्ड्यां ५ महाजम्बूवृक्षे च स्त्री टाप् राजनि०।

बृ(वृ)हत्संहिता = स्त्री वराहमिहिरप्रणीते ज्योतिषग्रन्यभेदे।

बृ(वृ)हत्समन् = न० नित्यक०। सामभेदे तच्च साम “त्वामिद्धि हवामहे” इत्यस्यामृचि गेयं तच्च तुलादानादिपद्धतावस्माभिः १९१। ९२ पृ० दर्शितम्। “वामदेव्यं बृ(वृ)हत्साम ज्येष्ठसाम रथन्तरम्” सामगद्वारपालपाठ्यतया विधानपारि० उक्तम्। “बृ(वृ)हत्साम तथा साम्नाम्” गीता। तच्च साम ब्रह्मप्रतिपादकमिति तद्भाष्यकारेणोक्तं समर्थितञ्चानन्दगिरिणा “इन्द्रः सर्वेश्वरत्वेनानेन स्तूयते इति तस्य श्रैष्ठ्यमिति”।

बृ(वृ)हत्सेन = त्रि० ६ ब०। १ महासेनायुक्ते। २ बार्हद्रथवंश्ये भाविनि नृपभेदे पु० भाग० ९। २३। ३। ३ मागघदेशीये नृपभेदे भा० आ० ६७ अ०। कर्म०। ४ महत्यां सेनायां स्त्री।

बृ(वृ)हदग्नि = पु० ६ ब०। १ नानाविधाग्नियुते ततः गोत्रा पत्ये गर्गा० घञ्। बार्हदग्न्य तदपत्ये तस्य छात्राः कण्वा० अण् यलोपः। बार्हदग्न तस्य छात्रेषु ब० व० सि० कौ०।

बृ(वृ)हदङ्ग = पुंस्त्री ६ ब०। १ जगे शब्दच० २ महाकाये त्रि०। स्त्रियां स्वाङ्गत्वात् ङीष्।

बृ(वृ)हदम्बालिका = स्त्री कुमारानुचरमातृभेदे भा० शा० ४७ अ०

बृ(वृ)हदम्ल = पु० वृहन् अम्लो रसोऽस्त्य। (कामराङा) कामरङ्गे शब्दच०।

बृ(वृ)हदश्व = पु० १ ऋषिभेदे भा० व० ५३ अ०। ३ श्रावस्त्यस्य पुत्रे नृपभेदे हरिवं० ११ अ०।

बृहदारण्यक = न०। उपनिषद्भेदे।

बृहदिषु = पु० आजमीढपुत्रे १ नृपभेदे हरिवं० २० अ०। हर्व्यश्चवंश्ये २ नृपभेदे च ६२ अ०।

बृ(वृ)हदुक्थ = न० कर्म०। १ महति उक्थे २ अग्निवंश्ये तपस्य पुत्रे २ अग्निभेदे पु० भा० व० २१९ अ०। “बृ(वृ)हदुक्थोह वै वामदेव्याः” शत० व्रा० ३। २। २। १४। तदुक्थ्येन साध्ये २ यज्ञे अश्वमेधे पु०।

बृ(वृ)हदुक्ष = पु० १ जगत्सृष्टिकारके २ प्रजापतौ च यस्मु० ८। ८। वेददीपे दृश्यम्।

बृ(वृ)हदुत्तरतापनी = स्त्री कर्म०। उपनिषद्भेदे।

बृ(वृ)हदेला = स्त्री कर्म०। स्थूलैलायां राजनि०।

बृ(वृ)हद्गर्भ = पु० शिविनृपपुत्रे यो हि ब्राह्मणभोजनार्थं प्रज्ञाप्य संस्कृतः पुनरपि जीवितः तत्कथा भा० व० ११७ अ०।

बृ(वृ)हद्गु = पु० राजभेदे भा० आ० ६ अ०।

बृ(वृ)हद्(गु)गृह = पु० कारूषदेशे हेमच० स च देशः बिन्ध्यपर्वतस्य पश्चात्त्यमालवदेशसमीपे स्थितः (वृहद्गुह) इति त्रिकाण्डशेषः।

बृ(वृ)हद्गोल = न० नित्यक०। (तरमुज) फलप्रधानवृक्षे शब्दच०।

बृ(वृ)हद्दर्भ = पु० कक्षेयुवंश्ये नृपभेदे हरिवं० ३२ अ०।

बृ(वृ)हद्दल = पु० ६ ब०। १ हिन्ताले २ पट्टिकालोष्ट्रे च राजनि०

बृ(वृ)हद्द्युम्र = पु० नृपभेदे मा० व० १३८ अ०

बृ(वृ)हद्धनुस् = पु० आजमीढवंश्ये नृपभेदे हरिवं० २० अ०। महाचापयुते त्रि०

बृ(वृ)हद्धर्म्मन् = पु० आजमीढवंश्ये नृपभेदे। हरिवं० २० अ०।

बृ(वृ)हद्धर्म्मपुराण = न० उपपुराणभेदे।

बृ(वृ)हद्धन = त्रि० बृहत्धनमस्य। १ महाधने २ इक्ष्वाकुवंशे नृपभेदे पु० हरिवं० १५ अ०।

बृ(वृ)हद्धल = न० कर्म्म०। महालाङ्गले त्रिका०।

बृ(वृ)हद्ब्रह्मन् = पु० आङ्गिरसे ऋषिभेदे। “ब्रह्मणो यस्तृतीयश्चू पुत्रः कुरुकुलोद्वहः!। तस्यामवत् सुता भार्य्या प्रजास्तस्यां च मे शृणु। वृहत्कीर्त्तिर्वृहज्ज्योतिर्वृहद्ब्रह्मा वृहन्मनाः। बृहन्मन्त्रो बृहद्भासस्तथा राजन्! बृहस्पतिः” भा० व० २३७ अ०। वृहज्ज्योतिरादयस्तत्पुत्रे

बृ(वृ)हद्भट्टारिका = स्त्री० कर्म०। दुर्गायां शब्दमाला।

बृह(वृ)द्भय = पु० सावर्णिमनोः पुत्रभेदे मार्कण्डेयपु० ९३ अ०।

बृ(वृ)हद्भानु = पु० ६ ब०। १ अग्नौ २ चित्रकवृके च अमरः। ३ आङ्गिरसे वह्निभेदे भा० ब० २२०। इन्द्रसावर्णिमन्वन्तरे ४ हरेरवतारभेदे भाग० ८। १३ अ०

बृ(वृ)हद्रण = पु० इक्ष्वाकुवंश्ये भाविनि नृपभेदे भाग० ९। १२। ६।

बृ(वृ)हद्रथ = पु० मौर्य्ये १ नृपभेदे भाग० १२। १। २ आङ्गिरसे वह्नेः पुत्रभेदे भा० २१९ ३ मागधराजभेदे जरासन्धताते हरिव० ३ अ०। ३ चिदिराजवसोःपुत्रभेदे हरिवं० ११७ अ०।

बृ(वृ)हद्रथन्तर = न० सामभेदे १ आङ्गिरसवंश्ये वह्निभेदे भा० व० २१९ अ०।

बृ(वृ)हद्राज = पु० इक्ष्वाकुवंश्ये भाविनि नृपभेदे भाग० ९। १। २

बृ(वृ)हद्राविन् = पु० बृहत् यथा तथा रौति रु–णिनि। क्षुद्रोलुके राजनि०।

बृ(वृ)हद्रूप = पु० मरुद्गखभेदे हरिवं० २०४ अ०।

बृ(वृ)हद्वत् = पु० बृहत् बृहत्साम तदस्यास्ति स्तोत्रतया मतुप् मस्य वः। बृहत्सामस्तोत्रस्तुत्ये इन्द्रे मनु० ७। २२ २ तत्साध्ये यज्ञे च ३ नदीभेदे स्त्री ङीप् भा० भी० ९ अ०।

बृ(वृ)हद्वल्क = पु० ६ ब०। पट्टिकालोध्रे राजनि०।

बृ(वृ)हद्वात = पु० ७ ब०। अश्मरीहरे धान्यभेदे (देवान) रत्नमा०

बृ(वृ)हद्वारुणी = स्त्री कर्म०। महेन्द्रवारुण्याम् राजनि०।

बृ(वृ)हद्वीज = ६ ब०। महाष्टियुते आम्रातवृक्षे शब्दच०।

बृ(वृ)हन्नल = पु० बृहन्नलेति आख्यात्वेन् अस्त्यस्य अच्। अर्जुने हेमच० “आदाय प्रययौ वीरः स वृहन्नलसारथिः” भा० वि० ३७ अ०। “अर्जुन उवाच। प्रतिज्ञा षण्डकोऽस्मीति करिष्यामि महीषते!। ज्याघातौ हि महान्तौ मे संवर्त्तुं नृप! दुष्करौअ। बलयैश्छादयिष्यामि बाहू किणकृताविमौ। कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनप्रभे। पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः। वेणीकृतशिरा राजन्! नाम्ना चैव वृहन्नल” इति तस्य च अज्ञातवासकाले तथाख्यत्वम् भा० वि० १३ अ० उक्तम्।

बृहन्नारदीय = न० उपपुराणभेदे।

बृहन्नारायणोपनिषद् = स्त्री० उपनिषद्भेदे।

बृहन्नौका = स्त्री० चतुरङ्गशब्दोक्ते क्रीडनभेदे। चतुरङ्गशब्दे दृश्यम्।

बृहस्पति = पु० बृहत्या वाचः पतिः पारस्करा० गुडादिवृहतीपतिशब्दे दृश्यम्। आङ्गिरसे १ मुनिमेदे बृहद्ब्रह्मनुशब्दे दृश्यम्। २ देवपुरोहिते ३ ग्रहभेदे च। तस्य गतिभग- णादिकं खगोलशब्दे दर्शितम्। तच्चारश्च गुरुवर्षशब्दे २६२१ पृ० तस्य ग्रहत्वप्राप्तिकथा गुरुशब्दे दृश्या।

बृहस्पतिचक्र = न० वृहस्पतेः सञ्चारकाले नराकारचक्रस्य मूर्द्धादिषु स्वनक्षत्रस्य पातेन शुभाशुभसूचके चक्रभेदे तच्च ज्यो० त० उक्तं यथा “शीर्षे चत्वारि रान्त्यं जलधिरपि करे दक्षिणे चापि सोख्यं चैकं कण्ठे विभूतिं मदनशरमितं वक्षसि प्रीतिसिद्धिम्। पादस्याः षट् च पीडां पुनरपि जलधिर्वामहस्ते च मृत्युं नेत्रे त्रीणि प्रदद्युः सुखमथ निजभे बाक्पतेः संक्रमर्ध्यात्”।

बृहस्पतिपुरोहित = पु० ६ ब० १ इन्द्रे २ देवमात्रे च यजुः २। ११

बृहस्पतिवार = पु० ६ ब०। जीवाभिपत्ययुक्ते दिने तदानयनादिकं दिनपशब्दे दृश्यम्।

बृहस्पतिसव = पु० यज्ञभेदे “वाजपेयेनेष्ट्वा राज्ञा राजसूयेन यजेत ब्राह्मणो बृहस्पतिसयेन” आश्व० श्री० ९। ९।

बृ(वृ)हस्पतिस्तोम = पु० यज्ञभेदे ताण्ड्य० २५। १। १।

बॄ = वृत्यां भृतौ च क्य्रा० प्वा० पर० सक० सेट्। बृ(वॄ)णाति अवारीत् बबार बरि(री)ता बिबरी(रि)षति बुबूर्षति बूर्णः।

बेकनाट = पु० बे इत्यपभ्रंशः द्वित्वबोधकः एकं गुणं द्रव्यमृणिकाय दत्त्वा द्विगुणं मह्यं देयमिति समथैन नाटयति व्यावहरिति नाटि–अच् वे एकशब्दयोः पृषो० षेकमावः। कुषीदिनि ऋ० ८। ६६। १० भाष्ये दृश्यम्।

बेकुरा = स्त्री वाचि निघण्टु।

बे(वे)ह = प्रयत्ने भ्वा० आत्म० सक० सेट्। बे(वे)हते अश्ववे(वे)हिष्ट बे (वे)हे। ऋदित् चङि न ह्रस्यः।

बोकडी = स्त्री वस्तान्त्र्यां राजनि०।

बोध = पु० बुध–भावे घञ्। १ ज्ञाने त्रिका०। २ ज्ञागरे च ३ देशभेदे भा० भी० ९ अ०।

बोधक = त्रि० बुध–णिच् ण्वुल्। १ ज्ञानजनके बोधकरे सूचके वैतालिके शब्दमा०।

बोधकर = त्रि० बोधं ज्ञानं जागरणं वा करोति कृ–ट। १ ज्ञानकारके निशान्ते जागरणकारके २ वैतालिके च अमरः

बोधन = ब० बुध–णिच्–ल्युट्। १ विज्ञापने कालवशात् गन्धादेर्न्यूनतायां २ तद्गद्दीपने ३ जागरणे च। “शयनं बोधनं हरेः” इति पुराणम्। “सावाह्ने बोधनं कुर्य्यात्” इति स्मृतिः। देवीबोधनकालादिः ति० त० प्रदर्शितो यथा लिङ्गपुराणम् “कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभे दिवा। भवम्यां बोधयेद्देवीं महाविभवविस्तरैः” “इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः। श्रीवृक्षे दोषयामि त्वां यातव पूजां करोत्यहम्। ऐं राबणस्य बधार्थाय रामस्यानुग्रहाय च। अकाले ब्रह्मणा बोधौ देव्यास्त्वयि कृतः पुरा” इति मन्त्रलिङ्गञ्च। अकाल इति तु रात्रित्वेन दक्षिणायनस्य तथा च श्रुतिः “तपस्तपस्यौ शिशिरावृतुः। मधुश्च माघवश्च वासन्तिकावृतुः। शुक्रश्च शुचिश्च ग्रैष्मावृतुः। अथैतदुत्तरायणं देवानां दिनं, नमाश्च नमस्यश्च वार्षिकावृतुः इषश्च ऊर्जश्च शारदावृतुः। सहाश्च सहस्यश्च हैमन्तिकावृतुः। अथैतद्दक्षिणायनं दैवानां रात्रिः” इति एवञ्च “रात्रावेव महामाया ब्रह्मणा बोधिता पुरा। तथैव च नराः कुर्य्युः प्रतिसंवत्सरं नृप!” इति अस्याप्येतद्विषयत्वम्। अतएव लिङ्गपुराणे दिवेत्युक्तम्। एवञ्च कालिकापुराणेऽपि बोधने रात्राविति पदं देवतारात्रिपरम्। ततश्च पूर्वाह्णे नवम्यामार्द्रानक्षत्रयुक्तायां बोधनं पूर्वाह्णेतरकाले आर्द्रालाभे नवम्यामार्द्रभे दिवेत्यत्र दिवापदात् तत्रापि बोधनम्, अन्यया दिवापदं व्यर्थं स्यादिति। ज्योतिपार्णये व्यक्तमुक्तं वराहेण “कन्यादिमीनपर्थ्यन्तं यत्र संप्राप्यते शिवः। तत्र बोधः प्रकर्त्तिव्यो देव्या राज्ञा शुभप्रदः”। शिव आर्द्रा। एवच्चोम्भ्य दिने पूर्वाह्णे नवमिलामे परत्रार्द्रालाभे परत्र बोधनं न युग्मात् पूर्वत्र, युम्मबाधकपूर्वाह्णस्य बाधकबशत्रानुरोधात् दिवानक्षत्रालाभे तु पूर्वाहु एव नवम्याम् उभयत्र पूर्वाह्णलाभे तु पूर्वदिन एव युस्मात्। अत्र केवलनवम्यां बोधनविधेर्नक्षत्रस्यापि गुणफलत्वाच्च। “माघे वा फाल्गुने वापि भवेद् वै माथसप्तमी। माकरीति च यत् प्रोक्तं तत् प्रायो वृत्तिदर्शनात्” इति सौरागमान्माकरीतिवत् आर्द्रायोगतः इत्यस्य प्रायिकत्वेनाभिधानं प्रतीयते। ततश्चार्द्रारहितबोधने मन्त्रान्तरानुपदेशात् तद्युक्तमन्त्रः प्रणवयुक्तत्वेन प्रयुज्यते। “यन्न्यूनञ्चातिरिक्तञ्च यच्छ्रिद्रं यदयज्ञियम्। यदमेध्यमशुद्धञ्च यातयामञ्च यद् भवेत्। तदोङ्कारप्रयुक्तेन सर्वञ्चाविकलं भवेत्” इति योगियाश्यवचनात्। षर्ष्ठ कोधनेऽप्येवं नवभ्यां बोधनासामर्थ्ये तु षष्ठ्यां साय बोधनं यथाह भविष्ये “षष्ठ्यां बिल्वतरौ बोधं सायं सन्ध्यासु कारयेत्”। सन्ध्योक्ता वराहमिहिरेण “अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत्”। षष्ठ्यां बोधने तु प्रागुक्तः “ओं रावणस्य बवार्थाय” इति “अहमप्याश्विने षष्ठ्यां सायाह्ने बोधयाम्यतः” इति च पठेत्। अव बोधनामन्त्रणयोः पृथक्म्बं तत्- प्रकाशकमन्त्रभेदात् अत्र बोघनमन्त्राबुक्तावेव आमन्त्रणमन्त्रौ तु “मेरुमन्दरकैलासहिमवच्छिखरे गिरौ”। इत्यादी प्रागुक्तदेवीपुराणे नवमीषष्ठ्योर्बोधनामन्त्रणयोः पृथक्त्वाभिधानाच्च। ततश्च षष्ठ्यामुभयकरणेऽपि पत्रीप्रवेशपूर्वदिने सायंषष्ठीलाभे एकदैवोभयकरणम्। यदा तु पूर्वदिने सायंषष्ठीलाभः न परदिने सायंषष्ठीलाभः तदा पूर्वेद्युर्बोधनं परदिने सायमामन्त्रणम्। यदा तूभयदिने सायंषष्ठ्यलाभस्तदा परदिने पूर्वाह्णे षष्ठ्यां बोधनं “बोधयेद् बिल्वशाखायां षष्ठ्यां देवीं फलेषु च। सप्तम्यां बिल्वशास्वां तामाहृत्य प्रतिपूज्ययेत्”।

बोधनी = स्त्री बोध्यतेऽनया अत्र वा बुध–णिच्–करणे आधारे वा ल्युट्। १ पिप्पल्यां तया हि मूर्च्छ्रितो बोध्यते। २ कार्त्तिकशुक्लैकादश्यां तत्र हि हरेर्बोधनम्। “शयनीबोधनीमध्ये या कृष्णैकादशी भवेत्। सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन” इति तिथ्यादित०। “तावद्गर्जन्ति तीर्थानि वाजिमेधादयो मखाः। मथुरायां प्रिया विष्णोर्यावन् नायाति बोधनी” हरिभक्तिविलासे पद्मपु० वचनम्।

बोधवासर = पु० ६ त०। १ हरिबोधनदिने कार्त्तिकशुक्लैकादश्याम् २ तत्कर्त्तव्ये व्रते च। “जन्मप्रभृति यत् पुण्यं नरेणोपार्जितं भुवि। वृथा भवति तत् सर्वं न कृत्वा बोधबासरम्” हरिभक्तिविरसधृतस्कन्दपु०।

बोधान = त्रि० बुध–आनच्। १ विज्ञे २ गीष्पतौ शब्दर०।

बोधि = पु० बुध–इन्। १ समाधिभेदे २ पिप्पलवृक्षे ३ बुद्धभेदे मेदि० ४ बोधे त्रिका०। ५ ज्ञातरि त्रि०।

बोधितरु = पु० कर्म०। अश्वत्थवृक्षे हेमच०। बोधिद्रुमादयोऽप्यत्र पु०

बोधिसत्त्व = न० बोधि बोधयुतं सत्त्वम्। बुद्धभेदे हेमच०।

बौद्ध = न० बुद्धेन प्रोक्तमण्। १ बुद्धशास्त्रभेदे तच्च शास्त्रं प्रथमं वृहस्पतिना प्रयुक्तं तच्च बुद्धावतारे प्रपञ्चितम्। यथोक्तं मत्स्यपु० २४ अ०। “आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च। रजिर्दम्भो विपाप्मा च वीराः पञ्च महारथाः। रजेः पुत्रशतं जज्ञे राजेयमिति विश्रुतम्” इत्युपक्रमे “रजिपुत्रैस्तदाछिन्नं षलादिन्द्रस्य वैभवम्। यज्ञभागश्च राज्यञ्च तपोबल गुणान्यितैः। राज्याद् भ्रष्टस्तदा शक्रो रजिपुत्रैर्निपीडितः। प्राह वाचस्पतिंदीनः पीडितोऽस्मि रजेः सुतैः। न यज्~अभागो राज्यं मे निर्जितश्च बृहस्पते!। राज्यलाभाय मे यत्नं बिधत्स्व धिषणाधिप!। ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम्। ग्रहशान्तिविधानेन पौष्टि- केन च कर्मणा। गत्वाथ मोहयामास रजिपुत्रान् बृह० स्पतिः। जिनधर्मं समास्थाय वेदबाह्यं स वेदवित्। वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः। वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान्। जघान शक्रो वज्रेण सर्वान् धर्मबहिष्कृतान्”। तदधीते वेत्ति वा पुनः अण्। २ तच्छत्राध्यायिनि ३ तद्वे त्तरि च त्रि०। बुद्धशब्दे तन्मतं दर्शितम्।

बौध = पु० बुधस्यायम् शैषिकोऽण्। बुधात्मजे पुरूरवसि हेम०।

बौधायन = पु० बोधस्य गोत्रापत्यम् आङ्गिरसभिन्नम् इञ्। ततो यूति इञन्तत्वात् फक्। यूनि बोधगोत्रापत्ये ऋषिभेदे तेन च कल्पसूत्रसुपस्मृतिश्च कृता।

बौधि = पु० बोधस्य गोत्रापत्यमाङ्गिरसभिन्नम् इञ्। बोधस्यगोत्रापत्ये आङ्गिरसभिन्ने आङ्गिसे तु यञ्। बौध्य इत्येव

बौध्य = पु० वोधस्य गोत्रापत्यमाङ्गिरसः यञ्। आङ्गिरसे बोधगोत्रापत्ये तद्गीता च भा० शा० १७८ अ० दर्शिता यथा “बौध्य उवाच। “उपदेशेन वर्त्तामि नानुशास्मीह कञ्चन। लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृश्यताम्। पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने। इषुकारः कुमारी च षडेते गुरवो मम”। भीष्म उवांच “आशाबलवती राजन्नैराश्यं परमं सुखम्। आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला १। सामिषं कुररं दृष्ट्वा बध्यमानं निरामिषैः। आमिषस्य परित्यागात् कुररः २ सुखमेधते। गृहारम्भो हि दुःखाय न सुखाय कदाचन। सर्पः ३ परकृतं वेश्म प्रविश्य सुखमेधते। सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः। अद्रोहेणैव भूतानां सारङ्गा ४ इव पक्षिणः। इषुकारो ५ नरः कश्चिदिषावासक्तमानसः। समीपेनापि गच्छन्तं राजानं नावबुद्धवान्। बहूनां कलहो नित्यं द्वयोः सङ्कथनं ध्रुवम्। एकाकी विचरिष्यामि कुमारीशङ्खको ६ यथा”। बोधो देशभेदोऽभिजनोऽस्य शण्डिक्या० ञ्य। पित्रादिक्रमेण २ तद्देशवासिनि त्रि०।

***