बव = पु० प्रथमे तिथ्यर्द्धरूपे करणभेदे करणशब्दे दृश्यम्।

बष्क(स्क)यि(णी)नी = स्त्री मस्क गतौ अयन् पृषो० मस्य बः सस्य वा षत्वम्। बष्क(स्क)योऽस्यास्ति इनि ङीप् षमध्यत्वेणत्वम्। चिरप्रसूतायां गवि अमरः। बष्क(स्क)यं नयतीति नी–ड गौ० ङीष् षमध्यत्वे पूर्व० णत्वम्। बष्क(स्क)यणी(नी) इत्यप्यत्र स्त्री।

ब(व)ह = वृद्धौ भ्वा० आत्म० अक० सेट् इदित्। बं(व)हते अबं(वं)हिष्ट। बवंहे महिसाहर्य्यादयमोश्छादिरिति पाणिनीयाः। दन्तोष्ट्यादिरिति बोपदेवः।

बहल = त्रि० बहि–कलच् नलोपश्च १ प्रचुरे २ बहुशब्दार्थे च।

ब(व)हु = त्रि० बं(व)हि–कु नलोपः। १ त्रिप्रभृत्यनेकसङ्ख्यान्विते, २ विपुले च। ब(व)ह्रादि० स्त्रियां वा ङीप्। बहुत्वं च त्रित्वपर्य्यवसयि कपिञ्जलन्थायात् अपेक्षाबुद्धिविशेषजन्यत्वं तच्च पर्य्याप्त्या सर्वत्र वर्त्तते समवायेन प्रत्येकं वृत्तिमन्। अस्य संख्यावत् कार्य्यम् तेन बहुशः बहुत्र बहुतिथ इत्यादि।

बहुक = पु० बहु + संज्ञायां कन्। १ कर्कटे २ सूर्य्ये ३ अर्कवृक्षे ४ दात्यूहे स्वगे ५ जलस्वातके च मेदि०

ब(व)हुकण्टक = पु० ब(व)हूनि कण्टकान्यस्य। १ त्तूद्रगोक्षुरे। २ यवासे (गोखुरी) ३ द्विन्ताले ४ अग्निदक्षण्यां स्त्री क्षुपमेदे राजनि०।

ब(व)हुकण्टा = स्त्री ब(व)हवः कण्टाः कण्टकाः यस्याः। कण्टकारिकायाम् राजनि०।

ब(व)हुकन्द = पु० ६ व०। १ शूरणे। २ कर्कट्यां स्त्री० राजनि०।

बहुकर = त्रि० ब(व)हूनि किरति वॄ–अच्। (फरास्) १ सभामार्जनकरे खलपौ अमरः। करणे अप्। २ सम्मार्जन्यां स्त्री हेम० गौरा० ङीष्। कृ–अच् ६ त०। ३ उष्ट्रे त्रिका०। ४ अनेककार्य्यकरे त्रि०।

ब(व)हुकर्णिका = स्त्री० ब(व)ह कर्स्या इव पर्णात्यस्य। आच कर्य्याम् राजनि०।

बहुकूर्च = पु० बहूनि कूर्चान्यस्य। मधुनालिकेविके राजनि०।

ब(व)हुगन्ध = पु० ६ ब०। १ कुन्दुरुके। २ त्वचे, (तेजपात) न०। ३ चम्पकलिकायां ४ यूथिकार्यां ५ कृष्णजीकौ च स्त्री राजनि०

बहुगन्धदा = स्त्री० ब(व)हुगन्धं ददाति दा–क। मृगमदे। राजनि०।

ब(व)हुग्रन्थि = पु० ६ ब०। झावुके (झाउ)। शब्दर०

बहुच्छिन्ना = स्त्री ब(व)हु यथा स्यात् छिद्यते स्म छिदक्त तस्य दस्य च नः। कन्दगुडूच्याम् राजनि०।

बहुतरकणिश = पु० ६ त०। रागीधान्ये राजनि०।

बहुतिक्ता = स्त्री ब(व)हुस्तिक्तो रसोऽस्याः। काकमाच्याम् राजनि०।

ब(व)हुतिथ = त्रि० ब(व)हूनां पूरणः ब(व)हु + डट् तिथुक् च। अनेकसंख्याते, “काले गते बहुतिथे” इत्युद्भटः।

ब(व)हुत्र = अव्य० ब(व)हुषु त्रल्। अनेकेषु दिग्देशकालेषु।

ब(व)हुत्वच्(क्क) = पु० ६ ब० बा कप्। भूर्जपत्त्रवृक्षे शब्दर० कवन्तः हेमच०।

ब(व)हुदुग्ध = पु० ब(व)हूनि दुग्धानीव चूर्णानि शुभ्रवर्णत्वात् यस्य। १ गोधूमे राजनि०। २ प्रचुरक्षीरवत्यां ३ गवि, स्त्री हेमच०। वा कप् अत इत्त्वम्। बहुदुग्धिका स्नुहीवृक्षे स्त्री शब्दच०।

ब(व)हुधा = अव्य० ब(व)हु + प्रकारे–धाच्। अनेकप्रकारे

ब(व)हुधार = न० ६ ब०। वज्रास्त्रे राजनि० तस्य षट्कोण त्वात् सर्वत्र धोणेषु धारायुक्तत्वात्तथात्वम्।

बहुनाडीक = पु० ६ त०। अस्वाङ्गत्वात् कप्। १ अनेकदण्डयुते २ दिवसे ३ स्तम्भे च सि० कौ०। स्वाङ्गे न कप् न वा ह्रस्वः। बहुनाडी इत्येव अनेकान्त्रयुते एवं तन्त्रीशब्देऽपि ह्रस्वकपोर्मांवाभावौ उह्यौ।

बहुनाद = पु० ६ ब०। शङ्के राजनि०।

ब(व)हुपत्त्र = पु० ६ ब०। १ पलाण्डौ २ अनेकपर्णयुक्ते त्रि०। ३ लिङ्गिन्याम् ४ वृतकुभार्य्यां ५ तुलस्यां ६ बृहत्यां, ७ गोरक्षदुग्धायां, ८ जतुकायाञ्च स्त्री राजनि०। गौरा० ङीष्। ९ तरुणीपुष्पे स्त्री टाप्। ततः संज्ञायां क। बहुपत्रिका भूम्यामलक्यां, मेथिकायां, महाशतावर्य्याञ्च राजनि०।

ब(व)हुपर्ण = पु० ६ ब०। १ सप्तच्छदवृक्षे तस्य प्रतिपर्णं सप्तसप्तपर्णवत्त्वात् तथात्वम्। २ अनेकपर्णयुक्ते त्रि० ३ मेथिकायां रवी ङीप्। ततः संज्ञायां फ। बहुपर्णिका आस्वुकर्ण्यां रवी टाप्। राजनि०।

ब(व)हुपाद(द्) = पु० ६ ब० वा अन्त्रलोषेः। बटवृक्षे हलन्त अमरः। अदन्तः राजनि०। तस्यानेकशिफावत्त्वात्तथात्वम्।

ब(व)हुपुत्र = ब(व)हवः पुत्रा–इव पर्णान्यस्य। १ सप्तच्छदे शब्दच० अनेके पुत्रा इव मूलान्यस्य। २ शतमूल्यां स्त्री ङीप् रत्नमा० ६ ब०। ३ अनेकतनयान्विते त्रि०।

ब(व)हुपुष्प = पु० ६ ब०। निग्यवृक्षे। संज्ञायां कन् अत सत्त्वम्। बहुपुष्पिका धातक्यां स्त्री राजनि०।

ब(व)हुप्रज = त्रि० ६ ब०। १ बहुसन्तानवति। २ शूकरे पु० हेम०। प्रजातुल्यप्रचुरतृणवत्त्वात् ३ मुञ्जतृणे पु० राजनि०।

बहुप्रतिज्ञ = पु० ७ ब०। अनेकविषयकप्रतिज्ञायुक्ते व्यवहारे यथा मदीयं रूपकमनेन गृहीतं, सुवर्णञ्चास्य, हस्ते निक्षिप्तं न ददाति, मदीयं क्षेत्रमपहरतीत्ये बमादीनां पक्षत्वमिष्यत एव किन्तु क्रियाभेदात् क्रमेण व्यवहारो न युगपदित्येव “बहुप्रतिज्ञं यत् कार्य्यं व्यवहारेषु निश्चितम्। कामं तदपि गृह्णीयात् राजा तत्त्वबुन्भुत्सया” कात्यायनोक्तेः मिता०

बहुप्रद = त्रि० बहूनि प्रददाति प्र + दा–क। दानशौण्डे वदान्ये अमरः।

ब(व)हुफल = पु० ६ ब०। १ कदम्बवृक्षे मेदि० २ विकङ्कते, ३ तेजः फले च राजनि०। ४ अनेकफलयुक्ते त्रि०। ५ माषपर्ण्यां, ६ क्षविकायां, ७ काकमाच्यां, ८ त्रिपुस्यां, (शशा) ९ क्षुद्रकारवेल्ल्यां, स्त्री राजनि० १० भूम्यामलक्या भावप्र० स्त्री। ११ आमलंक्यां स्त्री ङीप् मेदि० १२ मृगेर्वारौ राजनि०। संज्ञायां कन् इत्त्वम्। बहुफलिका। भूमिवदर्य्यां स्त्री राजनि०।

बहुफेना = स्त्री ६ त०। सातलायां राजनि०।

बहुबल = पु० ६ ब०। १ सिंहे राजनि० स्त्रियां ङीष्। २ अतिबले त्रि०

बहुबल्ली = स्त्री नित्यक०। डोडिक्षुपे राजनि०।

ब(व)हुमञ्चरी = स्त्री० ६ ब० संज्ञात्वात् न कप्। तुलस्याम् भावप्र०।

ब(व)हुमल = पु० ६ ब०। १ सीसके रत्नमा०। २ अनेकमलयुक्ते त्रि०।

बहुमार्ग = न० ७ ब०। १ चत्वरे हेमच०। २ अनेकपथयुते त्रि०।

ब(व)हुमूर्त्ति = स्त्री ६ ब०। १ वनकार्पासे शब्दच०। २ नानाकारयुते त्रि०।

बहुमूर्ध्वन् = पु० ६ ब०। विष्णौ सहस्रशीर्य्यत्वात्तस्य तथात्वम्।

ब(व)हुमूल = त्रि० ६ ब०। १ अनेकमूलयुते। २ शिग्रौ ३ स्थूलसरे पु० राजनि०। ४ माकन्द्यां ५ शताबर्य्यां स्त्री टाप्। ६ वनछागले त्रि० ङीप् राजनि०। ७ नागभेदे भा० आ० ३५ अ०। सज्ञायां कन्। बहुमूलक उशीरे न० भावप्र०।

बहुमूल्य = त्रि० ६ ब०। महार्थे महाधने अमरः।

बहुरन्ध्रिका = स्त्री ६ ब० वा कप् अत इत्त्वम्। मेदायाम् राजनि०।

ब(व)हुरसा = स्त्री० ६ ब०। १ महाज्योतिद्मत्याम् राजनि०। २ नानारलवति त्रि०।

बहुरुहा = स्त्री बहु रोहति रुह–क। कन्दगुडूच्यां राजनि०

ब(व)हुरूप = पु० ६ ब०। १ सर्जरसे (धुना) अमरः। २ शिवे, ३ विष्णौ ४ सरटे ५ कामे मेदि० ६ केशे ७ ब्रह्मणि शब्दर०। ८ बुद्धभेद त्रिका० ९ नानारूपवति त्रि०

बहुरेतस् = पु० ६ ब०। ब्रह्मणि चतुर्मुखे शब्दरत्ना०।

ब(व)हुरोमन् = त्रि० ६ ब०। १ अनेकरोमवति रोमशे। २ मेघे पु० हारा

ब(व)हुल = त्रि० ब(व)हि–कुलच् नि० नलोपः। १ अनेकसंख्यान्विते २ प्रचुरे। व(व)हूनि लाति ला–क। ३ अग्नौ ४ कृष्णपक्षे पु० मेदि०। “ब(व)हुलेऽपि गते निशाकरः” कुमारः। ५ आकाशे ६ सितमरिचे न० ७ कृष्णवर्णे ८ तद्वति त्रि० ९ एलायां १० नीलिकायां ११ गवि स्त्री मेदि०। १२ देवीभेदे स्त्री कालिकापु० २३ अ० अग्निदैवतत्वात् १३ कृत्तिकानक्षत्रे स्त्री ब० व० मेदि०।

बहुलगन्धा = स्त्री० ६ ब०। एलायाम् राजनि०।

ब(व)हुलच्छद = पु० ६ ब०। रक्तशोभाङ्गने राजनि०।

बहुलवण = न० नित्य० क०। ऊषरभूमिजे लवणभेदे राजनि०।

बहुलाश्व = पु० मैथिलवंश्ये नृपभेदे भाग० ९। १३। १६।

ब(व)हुलीकृत = त्रि० ब(व)हुल + च्वि–कृ–क्त। (आगडा) बुषस्यापसारणेन राशीकृते स्वलस्थे १ धान्ये, अमरः। २ राशीकृतमात्रे च।

बहुवचन = न० बहुत्वं वक्ति वच–ल्यु। “द्व्येकयोद्विवचनैकवचने बहुषु बहुवचनम्” पा० उक्ते बहुत्वबोधके जस्प्रभृतौ सुब्विभक्तौ झिप्रभृतौ २ तिङ्विभक्तौ च।

ब(व)हुवल्क = पु० ६ क०। प्रियाले। (पियासाल) राजनि०।

ब(व)हुवारक = पु० ब(व)हूनि वारयति अण्, ण्वुल् वा। श्लेष्मातके (लोना आता) शब्दर०।

बहुविध = त्रि० ६ त०। नानाप्रकारे अमरः।

ब(व)हुविस्तीर्णा = स्त्री० ब(व)हु यथा तथा विस्तीर्णा वि + स्तॄ–क्त। (कुचु~इ) १ कुचिकावृक्षे शब्दच०। २ अनेकविस्तारयुते त्रि०।

ब(व)हुवीज = पु० ६ ब०। १ आतृप्रे वृक्षे(आता) शब्दच०। २ प्रचुरवीजवति त्रि०

ब(व)हुवीर्य्य = पु० ६ ब०। १ विभीतके, (वयडा) जटा०। २ तण्डुलीयशाके, (नटेशाक) ३ शाल्मलिवृक्षे ४ मरुवके च राजनि। ५ भूम्यामलक्यां स्त्री राजनि०।

ब(व)हुव्रीहि = त्रि० ६ ब०। १ अनेकधान्यादियुक्ते “तत्पुरुष! कर्म धारय येन यस्यां सदा बहुव्रीहिः” उद्भटः। व्या० करणोक्ते प्रायेण अन्यपदार्थप्रधाने २ समासभेदे पु० तल्लक्षणादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथा बहुब्रीहिं लक्षयति। “बहुव्रीहिः स्वगर्भार्थसम्बन्धित्वेन बोधकः। निरूढथा लक्षणया स्वांशज्ञापकशब्दवान्” समास इति प्रकृतं तथा च स्वांशस्य निरूढलक्षणया ज्ञापकेन शब्देन घटितः स्वगर्भस्य यादृशार्थस्य सम्बन्धित्वप्रकारेणान्वयबोधं प्रति समर्थः समासः स्वगर्भतादृशार्थसम्बन्धिबोधेन बहुव्रीहिरित्यर्थः। आरूढवानरोवृक्ष इत्यत्रारूढोवानरो यमिति व्युत्पत्त्या स्वकर्मकारोहणकर्तृवानरसम्बन्धित्वेन वृक्षं, पीतपयस्कं पात्रमित्यत्र पीतं पयोयेन इति रीत्या खकरणकपानकर्मजलसम्बन्धित्वेन पात्रम्, पक्वतण्डुलश्चैत्र इत्यत्र पक्वस्तण्डुलो येनेति दिशा स्वकर्तृकपाककर्मतण्डुलसम्बन्धित्वेन चैत्रं, दत्तदक्षिणोद्विज इत्यत्र दत्ता दक्षिणा यस्मै इति क्रमेण स्वसम्प्रदानक्वदानकर्मदक्षिणासम्बन्धित्वेन द्विजं, पतितपत्रस्तरुरित्यत्र पतितं पत्रं यस्मादिति विग्रहेण स्वापादानकपतनाश्रयपत्रसम्बन्धित्वेन तरुं, चित्रगुरित्यत्र चित्रा गौर्यस्येति वाक्यानुसारेण श्चित्राभिन्नस्वगोसम्बन्धित्वेन चैत्रम्” रक्तपटः काय इत्यत्र रक्तः पटो यत्रेति व्युत्पत्या रक्ताभिन्नस्ववृत्तिपटसम्बन्धित्येन कायम्” एवं वाणच्छिन्नकरोनर इत्यादावपि। वाणेन छिन्नः करो येन यस्य वा इत्यादि विग्रहे वाणकरणकस्वकर्तृकच्छिदाकर्मकरसम्यन्धित्वादिना नरादिकं बहुव्रीहिर्वोधयतीति सर्वत्र स्वगर्भतत्तदर्थसम्बन्धित्वेन धर्मिणामवगमः। दक्षिणपूर्वा पूर्वोत्तरेत्यादिविदिग्बहुव्रीहिस्थले दक्षिणया पूर्वा यस्या इत्यादिविग्रहेण स्वपार्श्वस्थदक्षिणसहितपूर्वदिक्सम्बन्धित्वादिना आग्नेयीप्रभृतीनां विदिशां बोधः। अस्तिक्षीरा गौरीत्यादावप्यस्ति क्षीरं यस्या इत्यादिविग्रहेणास्तित्ववत्स्वक्षीरसम्बन्धित्वादिप्रकारेण गवादेरवगतिः। इयांस्तु विशेषो यत्तत्रैकेषाम्मतेऽस्तीत्यादिकं तिङन्तमन्येषां मते तत्प्रतिरूपकाव्ययमिति। उप समीपे दश येषामिति समीपगणितत्वार्थकपष्ठ्या विग्रहादुपदशाः शकुनय इत्यादौ स्वसमीपगणितदशसम्बन्धित्वेन नवानामेकादशानानाञ्च पक्षिणामवगमस्तत्र दशशब्दस्य दशत्वलक्षणया स्वपर्थ्याप्तसंख्यासमीपगणितदशत्वसम्बन्धित्वेनैव नवादेर्बोध इति दुर्गप्रभृतयः। अधिका दश येषामित्यादिविग्रहे अधिकदशाः परुषा इत्यादावपि स्वपर्य्याप्तसंख्याधिकदशवृत्तिसंख्या- पर्य्याप्त्यधिकरणदशसम्बन्धित्वेन नवादिपुंसां प्रत्ययः। द्वौ त्रयो वा येषां इत्यन्यतरार्थकवाशब्देन विग्रहे द्वित्राः पवित्राः इत्यादौ। द्वित्र्यन्यतरपर्य्याप्तस्वपर्य्याप्तसख्यासम्बन्धित्वेन द्वयोस्त्रयाणां वा पवित्राणां बोधः। पटे घटे वा घटत्वमित्याद्यनुरोधेन वाकारस्यान्यतरार्थकताया व्युत्पाद्यत्वात् तस्य च वृत्तौ गतार्थत्वादश्रुतिः पञ्च षड् वा येषामित्यादिविग्रहात् पञ्चषाः पुरुषाः इत्यादावप्युक्तरीत्यैवान्वयोद्रष्टव्यः। परे तु द्वौ वा त्रयो वा येवामित्यादिबिग्रहे वाशब्दस्य संशयकोट्यर्थकंतया द्वित्रा इत्यादि बहुव्रीहेः स्वधर्भिकसंशयकोटितापन्नद्वित्रिसम्बन्धित्वेन द्विप्रभृतिबाधकत्वमित्याहुः”। वैयाकरणास्तु बहुव्रीहिप्रकरणपठितत्वमेव तत्त्वमित्याहुः तेन उन्मत्तगङ्गाद्यव्ययीभावे नातिव्याप्तिः। तद्भेदौ च तद्गुणातद्गुणसावज्ञानौ तद्गुणसंविज्ञानशब्द ६२१७ पृ० उक्तौ तत्र समानाधिकरणपदघटितस्येव प्रायेण साधुत्वम्।

बहुशत्र = पु० ६ ब०। १ चटके शब्दच०। २ अनेकशत्रुयुते त्रि०। “बहुशत्रुः पटोले स्यात्” ति० त०।

ब(व)हुशल्य = पु० ६ ब०। १ रक्तखदिरे राजनि०। २ अनेककीलयुक्ते त्रि०।

ब(व)हुशस् = अव्य० ब(व)हु + शस्। अनेकवारानित्यर्थे ‘गुणकृत्ये ब(व)हुशो नियोजिता’ इति कुमारः।

ब(व)हुशाल = पु० ब(व)हुभिः शालते शाल–संज्ञायां कर्त्तरि धञ्। १ स्तु हीवृक्षे राजनि०।

ब(व)हुशिखा = स्त्री० ६ ब०। १ जलपिप्पल्याम्। राजनि०। २ अनेकशिखायुक्ते त्रि०

बहुशिरम् = पु० ६ ब०। विष्णौ “रुद्रो बहुशिरा बभ्रुः” विष्णुस०।

बहुशृङ्ग = पु० ६ ब०। विष्णौ हेमकरः “चत्वारि शृङ्गा” “त्रयो अस्य पादाः” इत्यादिश्रुत्या तस्य तथात्वंम्।

बहुश्रुत = त्रि० श्रु–भावे क्त ६ ब०। अनेकशास्त्रश्रुतियुक्ते मनुः ४। १३५।

बहुश्रेयसी = त्रि०। ६ ब० ईयवन्तत्वात् न कप् न बा ह्रस्वः। अनेकश्रेयसीयुक्ते।

बहुसन्तति = पु० बहुः सन्तरिर्विस्तारोऽस्य (वेडबा~स) १ वंशभेदे शब्दच०। २ अनेकसन्तानयुक्ते त्रि०।

बहुसम्पुट = पु० ६ ब०। विष्णुकन्दे राजनि०।

ब(व)हुसार = पु० ६ ब०। १ खदिरे राजनि० २ अनेकसारविति त्रि०

ब(व)हुसुता = स्त्री० ब(व)हवः तता इव मूलान्यस्याः। १ गतमल्याम् अमरः। २ अनेकपुत्रयुते त्रि०।

बहुसू = स्त्री बहूत् मूले सू–क्विप्। १ शूकर्य्यां शब्दर०। २ अनेकप्रसवकर्त्र्यां स्त्रियाञ्च।

ब(व)हुसूति = स्त्री० ६ ब०। १ अनेकप्रसववत्यां २ गवि अमरः। २ ब(व)हुप्रसवयुते स्त्रीमात्रे च।

ब(व)हुस्रवा = स्त्री० ब(व)हु यथा तथा स्रवति स्वु–अच्। १ शल्लकीवृक्षे शब्दच०। २ अनेकधा क्षरणवति त्रि०।

बहूदक = न० बहूनि उदकानि शौचाङ्गतया यस्य। सन्न्यासिभेदे कुटीचकशब्दे दृश्यम्।

बह्वपत्य = पु० ६ ब०। १ शूकरे २ मूष्के च राजनि०। ३ अनेकात्मजयुते त्रि०।

बह्वादि = बिभाषया स्त्रियां ङीष्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा “बहु पद्धति अञ्चति अङ्कति अंहति शकटि शक्ति (शस्त्रे) शारि वारि राति राधि अहि कपि यष्टि मुनि (इतः प्राण्यङ्गात्) वण्ड अराल कृपण कमल बिकट विशाल विसङ्कट भरुज ध्वज चन्द्रभाग (अनद्याम) कल्याण उदार पुराण अहन् क्रोड नख खुर शिखा बाल शक गुद” आकृतिगणोयम “तेन भग गल राग इत्यादि ग्रहणम्”।

बह्वाशिन् = त्रि० बहु अश्नाति अश–णिनि। १ बहुभोजनशीले स्त्रियां ङीप्। “बह्वाशी स्वल्पहृष्टश्च तनिद्रः शीघ्रचेतनः। प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः” चाणाक्यः। २ धृतराष्ट्रपुत्रभेदे पु० भा० आ० ६७ अ०।

ब(व)ह्वृच्(च) = त्रि० ६ ब० अध्ये तर्य्येव अच्समा० नान्यत्र। १ ऋग्० बेदे २ सूक्ते न०। ३ तदध्ये तरि पु०। ४ तत्पत्न्यां स्त्री।

बा(वा)ड = अ प्लावने सक० स्नाने अक० भ्वा० आ० सेट्। बा(वा)डते अबा(वा)डिष्ट। ऋदित् चङि न ह्रस्वः अवबाडत् त।

बाडव = न० बडवानां समूहः अण्। १ घोटकीसमुदाये। बाड घञ् बल–घञ् लस्य डो वा बाडो वृन्निः तं वाति वा–क वा। २ ब्राह्मणे पु०। बडवायां जातः अच्। ३ और्वे समुद्रस्थे कालाग्निभेदे पु० हेमच०। वाडवाग्न्यादयोऽप्यत्र पु०।

बाडवेय = पु० द्विव० वडवायाः अपत्यम्–ढक्। अश्विनीकुमारयोः शब्दभा०।

बाडव्य = न० बाडव + सघे–यत्। विप्रसमुदाये।

बाडिङ्गन = पु० बाडे वृद्धौ इङ्गते इङ्ग–ल्यु। वार्त्ताकौ रत्नना०।

बा(वा)ण = पु० बण–शब्दे वण–गतौ वा संज्ञाबां कर्त्तरि घञ्। १ शसे, २ गोस्तने, (वांट) ३ विरोचनसुते ४ दैत्यभेदे, ५ केवले च ६ शरपुत्रे ७ नीलझिण्ठ्याम् पुंस्त्री० अमरः ८ बाणमूले स्त्री मेदि०। मेदिन्यां दन्तोष्ठ्यवादित्वेन पठितः रायमुकुटादवस्त बण शब्दे इति पातुप्रकृतिकत्वमाहुरतोऽस्वोभयविधादित्वम् बल–भावे घञ्। ९ शब्दे १० तदथितदधिष्ठातृदेव्यां सरस्वत्यां स्त्री उपचारात् ११ वाक्ये अमरः।

बाणगङ्गा = स्त्री रावणबाणनिर्भेदेन प्रवृत्तायां नद्यात् “सोमेशाद्दक्षिणे मागे बाणेनाभिविभिद्य वै। रावणेन प्रकटिता जलधारातिपुण्यदा। बाणगङ्गेतिविख्याता या स्नानादघहारिणी” वराहपु०।

बाणधि = पु० बाणाधीयन्तेऽस्मिन् धा–आधारे कि। १ इषुधौ २ तूणे हेमच०।

बाणपुङ्खा = स्त्री बाणस्य पुङ्खोऽस्माः ५ व०। शरपुङ्खायां राजनि०

बाणपुर = न० ६ त०। बाणासुरनगरे शोणितपुरं त्रिका०।

बाणमुद्रा = स्त्री “यथा हस्तगत बाणास्तथा हस्ताङ्कुरं प्रिये!। बाणमुद्रा समाख्याता रिपुवर्गनिकृन्तनी” तन्त्रसा० उक्ते मुद्राभेदे।

बाणयुद्ध = न० ६ त०। कृष्णेन सह शिवसाहाय्यकस्य बाणस्य युद्धे तच्च युद्ध भाग० १०। ६१ अध्यावादो दृश्यम्।

बा(व)णलिङ्ग = वाणदैत्येन संपू आवसृज्य नर्मदायां निक्षिप्ते शिवलिङ्गभेदे। नर्मदासम्भवशब्दे ३९८७ पृ० विवृतिः।

बाणवार = न० बाणं वारयति वारि–अण् उप० स०। १ कञ्चुके सन्नाहे हारा०।

बाणिज्य = न० बणिजो भावः, कर्म वा ब्राह्मणादित्वात् ष्यञ्। क्रयविक्रयादौ बाणिज्येन गतस्य मे गृहपतेर्वार्त्तापि न श्रूयते” सा० ३ परि०। तत्र विहितनिषिद्धानि भिता० उक्तानि यथा “मानेन तुलथा वापि योऽंशमष्टमकं हरेत्। दण्डं सदाप्यो द्विशतं वृद्धौ हानौ च कल्पितम्”। यः पुनर्वणिक् व्रीहिकार्पासादेः पण्यस्याष्टममंशं कूटमानेन कूटतुलया वाऽन्यथापहरत्यऽसौ पणानां द्वशा दण्डनीयः। अपहृतस्य पुनर्द्रव्यस्य वृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्प्ये। “भेषजस्नेहलवणगन्धधान्य गुडादिषु। पण्येषु प्रक्षिपन् हीनं एणान् दाप्यस्तु षोडश” याज्ञ०। भेषजमौषधद्रव्य स्नेहो वृतादिः। गन्ध द्रव्यमुशीरादि आदिशब्दाद्धिङ्गुमरिचादि। एवेष्वसारद्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः। किञ्च। “मृच्चर्सदमणिसूत्रायःकाष्ठबल्कलवाससाम्। अजातौ जातिकरणे विक्रेयाष्टगुणोदमः” य ज्ञ०। “न बिद्यते बहुमूल्याजातिर्यस्मिन् मृच्चर्मादिके तदजाति तस्मिन् जातिकरणे विक्रयार्थं गन्धवर्णरसान्तरसञ्चारणेन बहुमूल्यजातीय सादृश्यसम्पादने यथा मल्लिकामोदपञ्चारणेन मृत्तिकायां सुगन्धापादनमिति। मार्जारचर्मणि बर्णोत्कर्पापादनेन न्यःघ्रचर्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मराग इति कार्पातिके मृले गुग्पोत्कर्षामनेत्र पट्टस्मूलामति कार्ष्णायसे वर्णोत्कर्षाधानेन रजतमिति बिल्वकाष्ठे चन्द नामोदसञ्चारणेन बन्दनमिति कक्कौले त्वगाख्यं लवङ्गमिति कार्पासिके बाससि गुणोत्कर्षाधानेन कौशेयमिति विक्रेयस्मापादितस्य दृश्यस्य मृच्चर्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः। “समुद्गपरिवर्त्तञ्च सारभिआण्डञ्च कृत्त्रिमम्। आधानं विक्रयं वापि नयतो दण्डकल्पना भिन्ने पणे तु पञ्चाशत्पणे तु शतमुच्यते। द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान्” याज्ञः। मुद्गं पिधानं मुद्गेन सह वर्त्तत इति समुद्गं करण्डकम्। परिवर्त्तनं व्यत्यासः। योऽन्यदेवमुक्तानां पूर्णं करण्डकं दर्शयित्वा हस्तलाघवेनान्यदेव स्फटिकानां पूर्णकरण्डकं समर्पयति यश्च सारं भाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधिं बा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या। कृत्त्रिमकस्तूरिकादेर्मूल्यभतं पणे भिन्ने न्यूने न्यूनपण मूल्यमिति”। “लोकेऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं तथा। षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः। गणिकन्तु लित मेयं क्रियया रूपतः श्रियेति” गणित क्रमुकफलादि तुमितं कुङ्कुमादि मेयं शाल्यादि क्रियय बाहदोहादिरूपयोपलक्षितमश्वमहिष्यादि। रूपतः पण्यङ्गनोदि श्रिया दीप्त्यामरकतपद्मरागादि। इत्येतत् षट् प्रकारमपि पण्यम्” मिता०। तस्य विप्रैरापदि स्वयं कार्य्यत्वं विदधे वृहस्पतिः “कुषीदकृषिबाणिज्य प्रकर्वीतास्वयं कृतम्। आपत्काले स्वय कुर्वन् नैनसा लिप्यते दिव्ज। लब्धलाभः पितॄन् देवःन् ब्राह्मणांश्चैव पूकयेत्। ते तुष्टास्तस्य त दाषं शमयन्ति न संशयः। बणिक् कुषीदीदद्यात्तु वस्त्रगोकाञ्चनादिकम्। कृषीबलोऽन्नपानादि यानशय्याशनानि च। पण्येभ्यो विंशक दत्त्वा पशुस्वर्णादिकं शतम्। बणिक् कुषीद्यदोषः स्यात् ब्राह्मणानाञ्च पूजनात्। राज्ञे बत्त्वा तु षड्भागं देवतानाञ्च विशकम्” आ० त०। अधिक कृषिशब्दे २२०५ पृ० दृश्यम्।

बाणिनो = स्त्री बण–णिनि ङीप्। १ विदग्धायां स्त्रियां २ नर्त्तक्याम् ३ उत्तमस्त्रियाञ्च अजयपालः।

बा(वा)दर = पृ० ब(व)दर + स्वार्थेऽण्। १ कार्पासवृक्षे मेदि०। ब(व)दरस्येदं तस्म विकारो वा अण्। २ कार्पासस्तत्रे न०। ३ तद्वस्त्रादं ब्रि० अमरः। ४ कार्षासवृक्षे रपी अनन्तत्वेऽपि अजादराकृतिगस्मस्त्वात् टाप् शब्दच०।

बा(वा)दरायण = पु० ब(व)दर्य्या भवः फक। वेदव्यासे। इञि

बादरिक = त्रि० बदराण्युञ्छति बरर–ठक्। वदरफलस्य भूमौ पतितस्यएकैकग्राहिणि।

बाध = विहतौ भ्वादि० आत्म० सक० सेट्। बाधते अबालिष्ट। ऋदित् चङि न ह्रस्वः अबबाधत् त।

बाध = पु० बाध भावे–घञ्। १ प्रतिरोधे। २ प्रतिबन्धे, पीडने, ३ उपद्रवे च। न्यायमते ४ स्वाभाववत्पदार्थे यथा बह्यनुमितौ बह्ण्यभाववान् द्रुदो बाधः। “साध्याभाववत्त्वप्रमाविषयमपक्षत्वम्” तल्लक्षणम्। ५ हेतुदोषभेदे अनुचिन्ता० बाध–कर्त्तरि अच्। ३ प्रतिबन्धके त्रि०।

बाधक = त्रि० बाध–ण्वुल्। १ प्रतिबन्धके। २ स्त्रीणामृतुकाले प्रजाजननशक्तिप्रतिरोघके रोगभेदे पु०। स च रोगश्चतुर्विधस्तल्लक्षणं वैद्यके उक्तं यथा “व्यथा कट्यां तथा नाभेरधः पार्श्वे स्तनेऽपि च। रक्तमाद्रीप्रदोषेण जायते फलहीनता। माममेकं द्वयं वापि ऋतुयोगो भवेद्यदि। रक्तमाद्री १ प्रदोषेण फलहीना तदा भवेत्। नेत्रे हस्ते भवेज्ज्वाला योनौ चैव विशेषतः। लालासंयुक्तरक्तञ्च षष्ठी बाधकयोगतः। जासैकेन भवेद् यत्र ऋतुस्नानद्वयं तथा। मलिना रक्त योनिः स्यात् षष्ठीबाधक योगतः। उद्वेगो गुरुतादेहे रक्तस्नावो भवेद् बहुः। नाभेरधो भवेत् शूलं चाङ्कुरः ३ स तु बाधकः। ऋतुहीना चतुर्मासं त्रिमालं वा भवेद् यदि। कृशाङ्गी करपादे च ज्वाला चाङ्कुरयोगतः। सशूला च सगर्भा च शुष्कदेहाल्परक्तिका। जलकुमारस्य ४ दोषेण जायते फलहीनता। या कृशाङ्गी भवेत् स्यूला बहुकालसूतुस्तथा। गुरुस्तनी स्वल्परक्ता जलकुमारस्य दूषणात्” वैद्यकम्।

बाधन = न० बाध–भावे ल्युट्। १ पीडायां शब्दर०। २ प्रतिबन्धे च।

बाधा = स्त्री बाध–भावे १ अपीडायां २ निषेधे ३ प्रतिबन्धे च।

बाधित = त्रि० बाध–कर्मणि क्त। १ प्रतिवते। २ बाधज्ञानविषये च

बाधिर्य्य = न० बधिरस्य भावः ब्राह्मणादित्वात् प्यञ्। श्रवणशक्तिराहित्ये रोगमेदे बधिरशब्दे दृश्यम्।

बान्धकिनेय = पु० स्त्री० बन्धक्याः अपत्यं ढक् इनङ् च। असत्या अपत्ये अमरः।

बान्धव = पु० बन्धु + स्वार्थे, इदमर्थे वाऽण्। १ बन्धुशब्दार्थे, २ पितृमातृसम्बन्धिनि ३ भ्रातरि ४ मातुलादौ च। “बान्धबास्तदवाप्नुयुः” काव्या० स्मृतिः।

बार्बटीर = पु० १ रङे पाती २ आम्रास्थ्नि ३ अङ्कुरे ४ गणिकासने हेमच०

बार्हत = न० बहस्ताः फलम् प्लमा० अण्। १ पहतीफले बृहतिभवः उत्सा० अञ्। २ बृहत्रिभवे त्रि०।

बार्हदग्न = पुं स्त्री० बृहदग्नेरपत्यम् करुवा० अण्। बृह दग्निनामकर्षेर्गोत्रापत्ये।

बार्हद्रथ = पुंस्त्री० बृहद्रथस्यापत्यम् शैकिकोऽण्। १ बृहद्रथनृपसुते २ तत्सम्बन्धिनि त्रि०।

बार्हस्पत = पु० वृहस्पतेरिदम् सवदेवताऽस्य वृ–अण्। गुरुसम्बन्धिनि १ वत्सरे २ चर्वादौ च। पत्यन्तत्वात् पुरोहिता० यक्। बार्हस्पत्य तत्रार्थे त्रि०। “बार्हिस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः” सू० सि०।

बार्हिण = त्रि० बर्हिणो विकारः ताला० अण्। बर्हिबिकारे।

बाल = पु० न० बालाख्ये १ गन्धद्रव्यभेदे। २ मूर्खे ३ शिशौ मेदि०। “बाल आषोडशात् बर्षात्” स्मृतिपरिभाषित ४ षोडशवर्षावधिकवंयस्के च त्रि०। ५ केशे पु० अमरः। अर्श आदित्वादस्त्यर्थे अच्। ६ अश्वशिशौ अमरः ७ अश्वबालधौ ८ हस्तिबालधौ ९ नारिकेले मेदि० १० पशुपुच्छे च पु० हेमच०। मत्स्यभेदे शब्दच०। “पञ्चवर्षो गता कालः” हेम० उक्ते पञ्चवयस्कपदे। “बालाचतुष्टयं शीतं मधुरं बलकास्न्तिकृत्। क्षिग्तं ग्राहि समीरास्रपित्तास्रक्षयनाशनम्”। “बलामूलत्वचश्रूर्णं पीतं सक्षीरशर्करम्। मूत्रातिसारं हरति दुष्टमेतन्न संशयः। हरेश्महाबला कृच्छ्रं भवेद्वातानुलोमनी। हन्यादिति वलामोहं पयसा सितया सह” मावप्र०। यालादेरवधिमाह सुश्रुतः “वयस्तु त्रिविधं बाख्यं मध्यमं बार्द्धकं तथा। ऊनषोडशवर्षस्तु नरो बालो निगद्यते। त्रिबिगः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्नभुक्। दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम्। तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधामतः”। “यथोक्त बिधिना बालं मासि षष्टेऽष्टमेऽपि च। अन्नं सम्प्राशयेत्किञ्चित् ततस्तद्वर्द्धयन् क्रमात्” अथ बालस्य परिचय्याविधिः। “बालमङ्के सुखन्दध्या नचैनन्तर्जयेत् क्वचित्। सहस्म बोधयेन्नैव नायोग्यं मुपद्वेशयेत्” अयोन्यं उपवेशनासमर्थम्। “नाकृष्य स्थापयेत् क्रोडे न क्षिप्रं शयने क्षिपेत्। रोदयेन्न क्वचित् कार्य्ये विधिमाबश्यकं विना” आवश्यको विधिः भेषज दान तैलाभ्यङ्गोद्वर्त्तनादिः। “तच्चित्तमनुवर्त्तेत तं सदैवासुमोदयेत्। निम्नीञ्चेरवानतश्चापि रक्षेद् बालं प्रयत्रतः” तालस्य स्वभावहितान्याह। “तभ्यङ्कोद्वर्त्तनं धानं नेत्रयोरञ्जनन्तया। बलनं सद् यत् तच्च तत्रा गृहद्धत्वेपनम्। जन्मप्रभृतिपथानि थाणस्येतानि सर्कवा” बालस्य कवलादेः समयमाह। “कवलः पञ्चमाद्वर्षादष्टमान्तस्य कर्म च। विरेकः षोडशाद्वर्षाद्विंशतेश्चैव नैथुनम्”। ततः पृथ्वा० इमनिच् वालिमन् बालभावे पु० पक्षे ष्यञ् बाल्य तत्रार्थे न०।

बालक = पु० बाल + स्वार्थे क। १ शिशौ (वाला) २ गन्धद्रव्ये न० राजनि०। ३ ह्रीवेरे ४ अङ्गुरीयके ५ पारिहार्य्ये न० विश्वः। ६ अश्वकरिपुच्छयोः ७ बलये मेदि० ८ केशे च पु० विश्वः।

बालकप्रिया = स्त्री बालकं प्रीणाति प्री–क। १ इन्द्रवारुण्यां (राखलशशा) २ कदल्याञ्च राजनि० ३ शिशुप्रियमात्रे त्रि०।

बालकृमि = पु० ६ त०। केशकीटे (उकुन) जटा०।

बालक्रीडनक = पु० बोलः क्रीडत्यनेन क्रीड–करणे ल्युट्। स्वार्थे क। कपर्दके (कडि) राजनि० २ तत्क्रीडासाधनमात्रे त्रि०।

बाल(लि)खिल्य = पु० ब० अङ्गुष्ठपर्वमितेषु षष्टिसहस्रसंख्येषु “क्रतोश्च सन्ततिर्भार्य्या बालखिल्यानसूयत। षष्टिर्यानि सहस्राणि ऋषीणामूर्ध्वरेतसाम्” मार्क पु० उक्तेषु १ मुनिभेदेषु। तेषां पारमाणञ्च अङ्गुष्ठमात्र यथाक्तं भा० स० ३१ अ०। “अथापश्यदृषीन् ह्रस्वान् अङ्गुष्ठोदरवर्ष्मणः। पलाशवृन्तिकामेकां सहितान् वहतः पथि। प्रलीनान् स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्। क्लिश्यमानान् मन्त्रबलान् गोष्पदे संप्लुतोदके”। “प्राणा वै बालखिल्याः” चरणव्यूहभाव्येक्तेषु २ प्राणेषु च।

बालगर्भिणी = स्त्री बालैव गर्भिणी। प्रथमगर्भवत्यां गवि अमरः।

बालगोपाल = पु० कर्म०। श्रीकृष्णमूर्त्तिभेदे शिशुरूपे गोपाले बारदपञ्चरात्रे दृश्यम्।

बालग्रह = पु० ६ त०। बालानां पीडके उपग्रहभेदे “बालग्रहाभिभूतानां बालानां शान्तिकारकसिति” चण्डी। कुमारभृत्याशब्दे २१०८ पृ० दृश्यम्।

बालचर्य्य = पु० बालस्येव चर्य्याऽस्य। १ कार्त्तिकेये त्रिका० ६ त०। २ शिशुचर्य्यायां स्त्री

बालतनथ = पु० बालास्तनया इव पत्त्राण्यस्य। १ खदिरे अमरः २ शिशुसुतके पु० स्त्री०।

बालतन्त्र = न० बालार्थं तद्रक्षार्थं तन्त्रमुपायः। गर्भिणीचर्य्यायाम् कुमारभृत्याया त्रिका० २१०८ पृ० दृश्यम्

बालतृण = न० कर्म०। नवतृणे शष्पे अमरः।

बालदलक = पु० बाल इव स्वल्पं दलमस्य कप्। खदिरे भरतः

बालधि = पु० बाल धीयन्तेऽत्र धा–आधारे कि। केशयुक्तलाङ्गूले अमरः।

बालपत्र = पु० बाल इव क्षुद्रं पत्रमस्य। १ यवासे राजनि०। २ खदिरवृक्षे भरतः। ३ नवपत्रयुते त्रि० कर्म०। ४ नबोने पत्रे न० वा कप्। बालपत्रक स्वदिरे त्रिका०।

बालपाश्या = स्त्री बालस्य केशस्य समीपस्था पाश्या। सीमन्ता न्तिकस्थस्वर्णादिरचितपट्टिकारूपे भूषाभेदे (सि~ती) अमरः-

बालपुष्पी = स्त्री० यालानि क्षुद्राणि पुष्पाण्यस्याः ङीप्। यूथिकायाम् राजनि०। कप् बालपुष्पिका तत्रार्थे जटाधरः।

बालभंद्रक = पु० बालेऽपि भद्र इव कायति कै–क। विषभेदे शब्दच०।

बालभैषज्य = न० ६ त०। १ रसाञ्जने राजनि० २ शिशूनामौषधे च।

बालभोज्य = पु० ६ त०। १ चणके राजनि० २ बालकभक्षणीये त्रि०

बालमूषिका = स्त्री० कर्म०। क्षुद्रमूषिकायां गिरिकायाम् अमरः।

बालयज्ञोपवीतक = न० बालस्य यज्ञोपवीतमिव कायति कै–क। उरस्कटे (वुकवाछाडि) त्रिका०।

बालराज = न० बालः स्वल्पोऽपि राजते राज–अच्। वैदूर्य्यमर्णौ शब्दर०।

बालरोग = पु० भाबप्र० उक्ते बालस्य रोगभेदे तन्निदानादि तत्रोक्तं यथा “अथ बालरोगाणां निदानानि लक्षणानि चाह। “धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा। दोषा देहे प्रकुप्यन्ति ततः स्तन्थ प्रदुष्यति। मिथ्याहारविहारिण्या दुष्टा वातादयस्त्रयः। दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः। ह्रीवेरं शर्करा क्षौद्रं लीढं तृष्णा हरं परम्।” इति तृष्णायाम्। “वातदुष्टं शिशुः स्तन्यं पिबन् वातबदातुरः। क्षामस्तरः कृशाङ्गः स्वाद्वद्धविण्मूत्रमासतः। खिन्नो भिन्नमलो बालः कामलापित्तरोगवान्। तृष्णालुरूष्मसर्वाङ्गः पित्तदुष्टं पयः पिवन्। श्लेष्मदुष्टं पिबन् क्षीरं लालायुक् श्लेष्मरोगवान्। निद्रार्द्दितो जडः शूनो वक्राक्षश्छर्दनः शिशुः। ज्वराद्या व्याधयः सर्वे वक्ष्यन्ते महतान्तु ये। बालानामपि ते तद्वद्बोद्धव्या भिषगुत्तमैः। बालानामेव ये रोमा भवन्ति महतां न च। तालुकण्टकमुख्यांस्तानवधारय यत्नतः।” तत्रादौ तालुकण्टकमाह। तालुम से कफः व्रुद्धः कुरुते तालुकण्टकम्। तेन तानुप्रदेशस्य निम्नता मूर्घ्नि जायते। तालुपातात् स्तनवेषः कृच्छ्रात् पानं शकृद्दूवम्। तृडक्षिकण्ठास्यरुज ग्रीवादुर्द्वरतावमिः।” पानं स्तनस्य, शकृद्दूवं द्रवरूपम्। महापद्ममाह। “वीसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः। पद्मवर्णो महापद्मरोगो२ दोषत्रयोङ्गतः। शङ्खाभ्यां हृदयं याति हृदयाच्च गुदं ब्रजेत्।” पद्मवर्णः लोहित वर्ण तत्र शीर्षजो वीसर्पः। शङ्खार्भ्या हृदयं याति हृद० याच्च गुदं व्रजेत् एवं वस्तिजो गुदं याति गुदतः हृदयं हृदयाच्छिरो याति इति बोद्धव्यम्। कुकूणकमाह “कुकूणकं३ क्षीणदोषाच्छिशूनामेव वर्त्मनि। जायते सरुज नेत्रं कण्डूरं प्रस्रवेद्बहु। शिशुः कुर्य्याल्ललाटाक्षीकूटनासाप्रघर्षणम्। शक्तो नार्कप्रभां द्रष्टुं न चाक्ष्युन्मीलनक्षमः।” कुकूणकं (कोथु) इति लोके। अथ तुण्डीगुदप्राकमाह। “वातेनाध्मापिना नाभिः सरुजा तुण्डिरुच्यते। बालस्य गुदपाकाख्यो ४ व्याधिः पित्तेन जायते।” अहिपूतनमाह। शकृन्मूत्रसमायुक्ते धौते पाने शिशोर्भयेत्। खिन्ने वा स्नाप्यमानस्य कण्डू रक्तकफाद्भवा। कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते। एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम्५।” स्विन्ने स्वेदितिए। अजगल्लीमाह। स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा। कफवातोत्थिता ज्ञेया बालानामजगल्लिका६। ग्रथिता गुम्फितेव मुद्गसन्निभा मुद्गाकृतिः। परिगर्भिकमाह मातुः। कुमारो गर्भिण्या स्तन्यं प्रायः पिबन्नपि। कासाग्निसादवमथुतन्द्राकार्श्याऽरुचिभ्रमैः। युज्यते कोष्टवृद्ध्या च तमाहुः परिगर्भिकम् ७। रोगं परिभवाख्यञ्च ८ तत्र युञ्जीत दीपनम्। पिबन्नपीत्यपिशब्दादपिबन्नपि परिगर्भिकः (अहीडीति) लोके। परिभवाख्यं परिभवेति नामान्तरम्। अथ दन्तोद्भेदकान् रोगानाह “दन्तोद्भेदः शिशीः सर्वं रोगाणां कारणं स्मृतम्। विशेषात् ज्वरविड्भेदकासच्छर्दिशिरोरुजाम्। अभिष्यन्दस्य षोथक्याधीसर्पस्य च जायते। कारणभित्यन्वयः पोथक्या वर्त्मरोगविशेषस्य।”

बालव = पु० तिथ्यर्द्धात्मकेषु करणेषु द्वितीये करणे ज्यो० त०।

बालवायज = न० वैदूर्य्यमणौ त्रिका०।

बालवाह्य = पु० बालो वाह्यो यस्य। इक्कटे अनछागे हारा०

बालव्यजन = न० बाला एव व्यजनम्। चामरे हेमच०। ‘कुर्वन्ति बालव्यजनैश्चमर्य्यः’ इति कुमारः।

बालसन्ध्याभ = पु० बाल सन्ध्याया इवाभा यस्य। अरुणवर्णे हेमच०।

बालसूर्य्य = न० बालः सूर्य्यस्तद्वर्णोऽस्त्यस्य। १ वैदूर्य्यमणौ त्रिका० कर्म०। २ अचिरोदिते सूर्य्ये पु०।

बालसूर्य्यक = न० बालसूर्य्य इव कावति कै–क। वैष्टूर्थमणौ शब्दर०।

बालहस्त = पु० बालाः केशा हस्त इव यत्र। १ पशूनां लाङ्गूले अमरः। बाल + संघे हस्तप्र०। २ केशसंघे च पु०।

बाला = स्त्री० बालाः केशाकाराः पदार्थाः सन्त्य~स्य अच्। १ नारिकेले २ हरिद्रायां ३ मल्लिकाभेदे, ४ बलये, ५ मेध्ये च ६ त्रुटौ स्त्री मेदि० ७ घृतकुमार्य्यां (वाला) ८ गन्धद्रव्यभेदे, शब्दच०। ९ अम्बष्ठायां, १० नीलझिण्ट्याम् स्त्री राजनि० ११ षोडशवर्षीयायां स्त्रियां १२ कन्यायाञ्च “बर्षमात्रा भवेद् बाला” प्रा० त० उक्तायामेकवर्षीयायां १३ गवि स्त्री १४ देवी मूर्त्तिभेदे तन्त्रसारः। स्वार्थे क अत इत्त्वम्। बालिका तत्रैव। बालुकायां, पत्रकाहलायां मेदि० कर्णभूषणे (कानबाला) मेदि० एलायां शब्द०।

बालाकि = पु० बलाकाया अपत्यम् वा० इञ्। “दृप्तबालाकि र्हानूचानो गार्ग्य आस” वृ० उ० उक्ते गार्ग्ये ऋषिभेदे।

बालाक्षी = स्त्री बालः केशा इवाक्षितुल्यं पुष्पमस्याः षचसमा० स्त्रियां ङीष्। केशपुष्पोवृक्षे शब्दच०।

बालायनि = पुंस्त्री० बालाया अपत्यं तिका० फिञ्। बा० लाया अपत्ये स्त्रियां ङीप्।

बालार्क = पु० कर्म०। प्रातःकालीनसूर्य्ये “बालाकैस्तरुणं दधि” चाणक्य।

बालि = पु० बाले केशे जातः इञ्। केशे इन्द्रस्कन्नशुक्रजाते वानरभेदे। बालः उत्पत्तिस्थानत्वेनास्त्यस्य इनि। बालिन् तत्रार्थे त्रिका०। तदुत्पत्तिकथा रामा० उत्तरा० ३७ स० यथा “उत्प्लुत्य तस्मात् स ह्रदादुत्थितः प्लवगः पुनः। तस्पिन्नेव क्षणे राम! स्त्रीत्वं प्राप स वानरः। तद्रूपमद्भुतं दृष्ट्वा त्यजितौ धैर्य्यमात्मनः। ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरञ्चि पातितम्। अनासाद्यैव तां नारी सन्निवृत्तमथा भवत्। ततः सा वानरपतिं जज्ञे वानरमीश्वरम्। अमोघरेतसस्तस्य वासवस्य महात्मनः। बालेषु पतितं बीजं बाली नाम बभूव ह। भास्करेणापि तस्यां वै कन्दर्पवशवर्त्तिना। बीजं निषिक्तं ग्रीवायां विधानमनुवर्त्तता। ग्रीवायां पतितं बीजं सुग्रीवः समजायत”।

बालिश = त्रि० बाड–इन् बाडिं वृद्धिं श्यति शो–क डस्य लः। १ मूर्खे, २ शिशौ च मेदि० “बालिशमालि! शयानम्” उद्भटः। बालाः सन्त्यस्य इनि वाली मूर्द्ध्वा शेतेऽत्र शी– बा० आधारे ड। ३ उपधाने न० शब्दमा०।

बालीश = पु० मूत्रकृच्छ्ररोगे शब्दर०।

बालिहन् = पु० बालिं बालिनं वा हन्ति हन–क्विप्। रामे बालिहन्त्रादयोप्यत्र पु०। तत्कथा रामा० सुन्दराकाण्डे दृश्या।

बालु = पु० बल–उण्। १ एलबालुकनामगन्धद्रव्ये उणादि०।

बालुक = न० बालु + स्वार्थे क। १ तत्रैव अमरः। चु० बालौक। २ पानीयामलके पु० राजनि०। ३ सिकतासु स्त्री। ४ कर्कट्यां जटा० ५ कर्पूरे ६ तन्त्रभेदे शब्दच०।

बालुकायन्त्र = न० ६ त०। १ औषधपाकार्थे यन्त्रभेदे। “भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके। कुपिका कण्ठपर्य्यन्तं बालुकाभिश्च पूरिते। भेषजं कूपिकासंस्थ वह्निना यत्र पच्यते। बालुकायन्त्रमेतिद्धि यन्त्रतन्त्रबुधैः स्मृतम्” भावप्र०। २ कालज्ञापने रङ्गना० प्रदर्शिते यन्त्रभेदे “ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसाधयेत्” सू० सि० व्याख्यायां “सूत्राकारेण रेणवः सिकतांशागर्भे उदरे यस्यैतादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम्” रङ्गनाथः।

बालुकास्वेद = पु० ३ त०। भावप्र० उक्ते तप्तबालुकाभिः स्वेदने। “वातश्नेष्मकृते स्वेदान् कारयेद्रूक्षनिर्मितान्। स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजान्। स्वर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुकास्वेदः। शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन्। स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम्। हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति”।

बालुकी = स्त्री० चु० बल–उक गौरा० ङीष्। कर्कोटीभेदे राजनि० पृषो० नुक्। बालुङ्कीत्यप्यत्र त्रिका०

बालूक = पु० चु० बाल–ऊक। विषभेदे हेमच०।

बालेय = पु० बलेरपत्यं, बलये हितं वा ढक्। १ रासभे, अमरः २ दैत्यभेदे, धरणिः ३ अङ्गरवल्लर्य्यां विश्वः। ४ चाणक्यमूलके पु० ५ बालहिते च त्रि० मेदि०।

बालेयशाक = पु० बलये हितं ढक् कर्म० (वामनहाटि) शाकभेदे अमरः।

बालेष्ट = पु० बालानामिष्टः १ ब(व)दरे राजनि०। २ बालकानामभीष्टे त्रि०।

बालोपवीत = न० ६ त० उरस्कटे बालयज्ञोपवीतशब्दार्थे हारा०

बाल्वजभारिक = त्रि० बल्वजानां भारं वहति वंशा० ठक्। उलपतृणभारवाहके।

बाल्य = न० बालस्य भावः, कर्म वा वयोयचनत्वात् ष्यञ्। ‘आ षोडशाद्भवेद्बाल’ इत्युक्ते अवस्थाभेदे।

बाल्हक = न० बल्हिदेशे भवः बा० बुञ्। कुङ्कुमे अमरः पाठान्तरम्।

बाल्हायन = त्रि० बल्हौ जातम् फक्। १ बल्हिदेशोद्भवे हिङ्गुनि न०।

बाल्हि(ही)क = पु० बल्हि + स्वार्थे ठञ्। ईक वा। १ कुङ्कुमे हिङ्गुनि च न० मेदि० ३ देशभेदे ४ तद्देशीये च पु० मेदि०। ५ तद्देशनृपे हरिवं ३०६ अ०। दीर्घमध्यः गन्धर्वभेदे पु० शब्दर०

बाष्कल = पु० ॠमिभेदे आश्व० गृ० ३ ४ ४।

बाष्प(स्प) = पु० बाध–पृषो० सत्वं षत्वं वा। १ नेत्रजले, २ जष्मणि च अमरः लौहे च मेदि० तत्र अयमन्त्यस्थवादितवोक्तः।

बास्कल = पु० दैत्यभेदे हरिवं० ४ अ०।

बा(वा)ह = प्रयत्ने भ्वादि० आत्म० अक० सेट्। बा(वा)हते अबा(वा)हिष्ट। ऋदित् चङि न ह्रस्वः अबबाहत् त।

बाह = पुंस्त्री बाहु + पृषो०। नाहुशब्दार्थे रमानाथः।

बाहा(हू)बाहवि = अव्य० बाहुभ्यां बाहुभ्यां प्रहृत्य प्रवृत्तम् युद्धम् इच्समा० पूर्वपदे आद् दीर्घो वा। बाहुभ्यां बाहुभ्यां प्रहृत्य प्रवृत्ते युद्धे।

बाहु = पु० बाध–कु धस्य हः। भुजे कक्षावध्यङ्गुलिपर्य्यन्तेऽवयवे अमरः।

बाहुक = पु० ऋतुपर्णनृपस्य अश्वपालत्वादिरूपेण स्थिते नलनृपे तत्कथा भा० व० ६७ अ० दृश्या। २ नागमेदे भा० आ० ५७ अ०।

बाहुकुण्ठ = त्रि० ३ त०। कुण्ठितबाहुके (कोपा) जटा०।

बाहुकुन्थ = पु० बाहुरिव कुन्वति कुन्थ–अच्। विहगानां बाहुस्थानीये पक्षे शब्दच०।

बाहुकुलेयक = त्रि० बहुकुले जातादि ढक्ञ्। बहुकुलजाते।

बाहुज = पु० बाहुभ्यां ब्र(व्र)ह्मबाहुभ्यां जायते जन–ड। १ क्षत्रिये अमरः। ‘बाहू राजन्यावि’ ति श्रुतिः। २ कीरे ३ स्वयं जाततिले च मेदि० ४ बाहुजातमात्रे त्रि०।

बाहुत्र = पु० न० बाहुं त्रायते त्रै–क। अस्त्राघातवारणार्थं हस्तबद्धे लौहवर्मादौ हेमच०।

बाहुत्राण = न० बाहू त्रायते अनेन त्रै–करणे ल्युट्। शस्त्राघात वारणार्थं बाहुबद्धवर्मणि हेमच०।

बाहुदन्तक = पु० बहवश्चत्वारो दन्ता अस्य कप् ऐरावतः उपचारात् इन्द्रः तेन प्रोक्तमण्। पुरन्दरप्रोक्ते पञ्चसहस्रात्मके नीतिशास्त्रेभेदे भा० शा० ५९ अ०।

बाहुदन्तेय = पु० बहुदनश्चतुर्दन्त ऐरावतस्तमर्हति वा० ढ। इन्द्रे हेमच०।

बाहुदा = स्त्री स्वनामख्याते १ नदीभेदे। सा च प्रसेनजिद्भार्य्या गौरी नाभ, भर्त्त्रा शप्ता नदीरूपा जाता हरिवं० १२ अ०। सा हि शङ्घस्य भ्रातुः फलहरणे सद्युम्रनृपदण्डेन छिन्नं लिखितस्य मुनेः हस्तम् अवगाहनात् पुनददाविति कथा भा० शा० २३ अ० यथा “स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि। देवानृषीन् पितॄंश्चैव मा चाधर्मे मनः कृथाः। तम्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा। अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे। प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ। ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ”। ३ परीक्षिद्भार्य्याभेदे भा० आदिपर्वणि ९५ अध्याये।

बाहुबल = न० ६ त०। युद्धोपयोगिनि बाहुविक्रमे।

बाहुभूषा = स्त्री ६ त०। केयूरे हेमच०।

बाहुमात्र = त्रि० बाहुः प्रमाणमस्य बाहु + मात्रच्। बाहुपरिमाणे स्त्रियां ङीप् “बाहुमात्त्र्यः स्रुचः” कात्या० श्रौ० १। ३। ३७।

बाहुमूल = न० ६ त०। कक्षे (का~क) (वगल) ख्याते अमरः।

बाहुयुद्ध = न० ३ त०। नियुद्धे अमरः। तत्प्रकारः भा० वि० १३ अ० यथा “कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः। सन्निपातावधूतेश्च प्रमाथोन्मथनैस्तथा। क्षेपणैर्मुष्टिभिचैव वराहोद्धूतनिःस्वनैः। तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च। शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः। जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः। तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा। बलप्राणेन शूराणां समाजोत्सव सन्निधौ। अराजत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः। बलिनोः संयुगे राजन्! वृत्रवासवयोरिव। प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः। आकर्षतुरथान्योन्यं जानुभिश्चापि जघ्नतुः”। मू० “कृतं क्वचिद्देशे निपीडनं प्रतिकृतं तस्य शोधनम्। सुसङ्कटैः मुष्टिग्रहणेन कृशीकृतैः सकङ्कटैरिति पाठे सकवचैः मकिणैर्वा “कङ्कटो बाहुवरणे कवचे कठिने किणे” इति विश्वः सन्निपातोऽङ्गसंघट्टनम् अबधूतं तेनैव दूरीकरणं प्रमाथादय उक्ता मल्लशास्त्रे “निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते। यत्तूत्थायाङ्गमथनं तदुन्मथनमुच्यते। क्षेपणं कथ्यते यत्तुस्थानात् प्रच्यावनं हठात्। उभयोर्भुजयोर्मुष्टिरुरोमध्ये निपात्यते। मुष्टिरिच्यते तज्ज्ञैर्गल्लविद्याविशारदैः। अवाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः। क्षिप्तस्य शब्दः स भवेद्वराहोद्धूतनिःस्वनः। तलैर्वज्रनिपातैर्वज्रवद्दृढपातैश्चपेष्टैः। “अङ्गुल्यः प्रसृतास्तास्तु प्रसृष्टा या उदीरिताः। ऋज्वी दृढा रुषा क्षिप्तशालका साङ्गुली स्मृता”। तस्यानखपातैः पादोद्धूतैः पादप्रसारणेनाक्षेपैः जानुभिः शिरोभिश्च कृतैरवघट्टनैरास्फालनैः अश्मनिर्घोषैरित्युभयविशेषणम्। अशस्त्रं निन्द्यं यथोक्तं तत्रैव “बाहुयुद्धं हि भल्लानामशस्त्रमृषिभिः स्मृतम्। मृतस्य तत्र न स्वर्गो यशोनिहापि विद्यते” इति। बलप्राणेन बलेन शारीरबलेन प्राणेन मानसबलेन च। सोत्क्रुष्टनिनदः हीहीशब्दोच्चाराणेन खज्जितस्थ समुत्यापनम्। तत्स- हितः। “आकृष्य क्रोडीकरणं प्रकर्षणमुदाहृतम्। आकर्षणं लीलयैव सन्मुखीकरणं स्मृतम्। पुरः पश्चात् पार्श्वयोश्चाभ्याकर्षो भ्रमणं तथा। पश्चात् प्रपातनं वेगाद्विकर्षणमुदाहृतम्” नीलक०।

बाहुल = पु० बहुलानां कृत्तिकानामयं स्वामी अण्। १ वह्नौ शब्दच०। बहुलाभिर्युक्ता पौर्णमासी अण्। ३ कार्त्तिकर्पौर्णमास्यां स्त्री ङीप्। सा यत्र मासे पुनरण्। ३ चान्द्रकार्त्तिकमासे पु० अमरः। ४ बाहुत्राणे हेमच०। बहुलेन निर्वृत्तम् सङ्कला० अण्। ५ अनेकसाध्ये त्रि०। पृथ्वा० इमनिचोऽभावे भावे अण्। ६ बाहुल्ये न०।

बाहुलक = न० बहुलेन बहुलग्रहणेन निर्वृत्तं सङ्कला० अण् संज्ञायां कन्। व्याकरणोक्तसर्वोपाधिरहिते विधानादौ यत्र यद्विधीयते तत्र क्वचिन्न स्यात् क्वचिद्वा स्यात् क्वचित्ततोऽन्यत्रापि स्यादित्येवं परे विधाननिषेधादौ। मनोज्ञा० भावे बुञ्। २ बाहुलिका बहुलभावे स्त्री।

बाहुलेय = पु० बहुलानामपत्यं ढक्। कार्त्तिकेये अमरः

बाहुशालिन् = त्रि० बाहुभ्यां शालते तद्विक्रमाधिक्येन श्लाघते शाल–णिनि। बाहुबीर्य्याधिययुते स्त्रियां ङीप्।

बाहुसम्भव = पु० बाहू ब्रह्मवाहू सम्भवोऽस्य। १ बाहुजे क्षत्रिये हेमच०। २ बोहुजातमात्रे त्रि०।

बाहुसहस्रभृत् = पु० बाहुसहस्रं बिभर्त्ति भृ–क्विप् तुक् च। कार्त्तवीर्य्य त्रिका० कार्त्तवीर्य्यशब्दे दृश्यम्।

बाह्य = त्रि० बहिर्भवः ष्यञ्टिलोपः। बहिर्भवे

बाह्यकर्ण = पु० नागभेदे भा० आ० ३३ अ०।

बाह्यकुण्ड = पु० नागभेदे भा० उ० १०२ अ०।

बाह्वादि = पु० इञ् प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० उक्ती यथा “बाहु उपबाहु उपचाकु निवाकु शिवाकु वटाकु उपबिन्दु वृषली वृकला चूडा बलाका मूषिका कुशला छगला ध्रुवका धुवका सुमित्रा दुर्मित्रा पुष्करसद् अनुहरत् देवशर्मन् अग्निशर्मन् भद्रवर्मन् सुशर्मन् कुनामन् सुनामन् पञ्चन् सप्तन् अष्टन् अमितौजसः (सलोपश्च) सुधावत् उदञ्चु शिरस् माष शराविन् मरीची क्षेमवृद्धिन् शृङ्ख्लतोदिन् खरनादिन् नगरमर्दिन् प्राकारमर्दिन् लोमन् अजीगर्त्त कृष्ण युधिष्ठिर अर्जुन साम्ब गद प्रद्युम्न राम उदङ्क उदकः (संज्ञायाम्) सम्भूयोऽम्भसोः (सलोपश्च) बाह्वादिः। वाहविः कार्त्तिः।

बि(वि)ट = आक्रोशे भ्वा० पर० सक० सेट्। बे(वे)टति अबे(वे)टीत्

बिटक = पु० पिटक + पृषो०। पिटके अमरे पाठान्तरम्।

बि(वि)ठ = न० विट–क पृषो० अन्तरीक्षे निरुक्तकारः ६। ३०।

बिद = अवयवे भ्वा० पर० सक० सेट् इदिद्। बिन्दति अबिन्दीत्

बिदल = न० बिदि–कलच् नि० नलोपः। १ द्विदले अमरः २ अंशे च

बिन्दवि = पु० विदि–अवयवे बा० अवि। बिन्दौ अंशे। ततः गहा० छ। बिन्दवीय तत्सम्बन्धिनि।

बिन्दु = पु० बिदि० उ। १ अल्पेऽंशे अमरः। २ राजभेदे ततोऽपत्ये विदा० अञ्। वैन्दव तदपत्ये पुंस्त्री०। २ रेखागणित प्रसिद्धे स्थूलत्वदीर्घत्वहीने लक्षयितुं शक्ये २ प्रदार्थे क्षेत्रशब्दे २३८९ पृ० दृश्यम्। सा० द० उक्ते ३ अर्थप्रकृतिभेदे “वीजं बिन्दुः पताका च प्रकरी कार्य्यमेव च। अर्थप्रकृतयः पञ्च” उद्दिश्य “अवान्तरार्थविच्छेदे बिन्दुरुच्छेदकारणम्” लक्षितम्। ४ अनु स्वारमूचके रेखाभेदे। “बन्दुद्विबिन्दुमात्रौ” मुग्धबो० शा० ति० उक्ते ५ नादजन्ये क्रियाप्राधान्यलक्षणे चिच्छक्तेरवस्थाभेदे यथा “सच्चिदानन्दविभवात् सकलात् परमेश्वरात्। आसीच्छक्तिस्ततो नादो नादात् बिन्दुसमुद्भवः”। तद्व्याख्यायां राघवभट्टधृतम् “सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः सन्निधेस्तदा। विचिकोर्षुर्घनीभूता क्वचिदभ्येति बिन्दुताम्” “अभिव्यक्ता परा शक्तिरविना भावलक्षणा। अखण्डपरचिच्छक्तिजाता चिद्रपिणी विभुः। समस्ततत्त्वभावेन विवर्त्तेच्छासमन्बिता। प्रयाति बिन्दुभावञ्च क्रियाप्राधान्यलक्षणम्”। तस्मादेव रौद्रीरुद्रयोराविर्भावः यथाक्तं शा० ति० “रौद्री बिन्दोस्ततो नादात् ज्येष्ठा वीजादजायत। समेताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः”। ६ वीजभेदे “बिन्दुः शिवात्मको बीज शक्तिर्नार्दतयोर्मिथः। समवायः समाख्यातः सर्वागमविशारदैः” शा० ति०।

बिन्दुचित्रक = पु० बिन्दुरूपं चित्रमस्य कप्। मृगभेदे शब्दर०

बिन्दुजाल = न० ६ त०। १ बिन्दुसमूहे २ हस्तिशुण्डोपरिस्थ बिन्दुसमूहे हेमच०। संज्ञायां कन्। बिन्दुजालक गजसम्मुखादिस्थे तत्समूहे पद्मके अमरः।

बिन्दुतन्त्र = पु०। १ शारीफकके २ चतुरङ्गक्रीडने च मेदि०। ३ पाशके हारा०

बिन्दुदेव = पु० ६ त०। बिन्दु वर्णस्येश्वरे शिवे मेदि०।

बिन्दुपत्र = पु० बिन्दुचिह्नित पत्रमस्य। भुर्जपत्रवृक्षे रत्नमा०।

बिन्दुमाधव = पु० काशीस्थे वेणीमाधबे काशीख०।

बिन्दुरेखक = पु० बिन्दुरूपा रेखा मूचिकाऽस्य कप्। १ अनुस्वारे वर्णे २ पक्षिभेदे शबदच०।

बिन्दुसरस = न० बिन्दुजातं सरः शा० त०। सरोवरभेदे यत्र गङ्गावतारणार्थं भगीरथेन तपस्तेपे तत्कथा “अथो त्तरेण कैलासात् मैनाकं पर्वतं प्रति। हिरण्यशृङ्गः सुमहान् महामणिमयो गिरिः। रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः। द्रष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः” भा० स० ३ अ०। मात्स्ये १०१ अ० तदुत्पत्तिकथा उक्ता यथा “तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता। सोमपादात् प्रसूता सा सप्तधा प्रविभज्यते। यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः। तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह। दिव्यश्छायापथस्तत्र नक्षत्राणान्तु मण्डलम्। दृश्यते भास्वरा रात्रौ देवी त्रिथगा तु सा। अन्तरीक्षं दिवञ्चैव भावयित्वा भुवङ्गता। भवोत्तमाङ्गे पतिता संरुद्धा योगमायया। तस्या ये बिन्दवः केचित् क्षुब्ध्यायाः पतिताभुवि। कृतन्तु तैर्विन्द्रुबरस्ततो विन्दसरः स्मृतम्”। बिन्दुह्रदोऽप्यत्र पु०।

बिल = भेदने वा चुरा० उभ० पक्षे तु० पर० सक० सेट्। बेलयति ते बिलति। अबीबिलत् त अबेलीत्।

बिल = न० तु० बिल + क। रन्ध्रे १ छिद्रे अमरः। २ गुहायाम् ३ उच्चैः श्रवसि पु० मेदि०। ४ वेतसे शब्दच० ५ मर्त्ते च। ततः तृणा० क्षतुरर्थ्यां स। बिलस तददूरदेशादौ त्रि०।

बिलकारिन् = त्रि० बिलं करोति कृ–णिनि। १ गर्त्तकारके स्त्रियां ङीप्। २ मूषके पुंस्त्री० राजनि०।

बिलवास = पु० बिले वासोऽस्य। जाहकजन्तौ राजनि०।

बिलवासिन् = पु० बिले वसति बस–णिनि। १ सर्पे शब्दरत्ना०। २ गर्त्तवासिनि त्रि० स्त्रियां ङीप्। अलुक्स० बिलेवासिन् तत्रार्थे।

बिलशय = पुंस्त्री० बिले शेते शी–अच्। सर्पे शब्दरत्ना०। स्त्रियां योपधत्वात् टाप्।

बिलेशय = पुंस्त्री० बिले शेते शी–अच् अलुक्स०। १ सर्पे अमरः २ मूषिके जटा० ३ गोधायां ४ शशे ५ शल्लक्याञ्च भावप्र०। “गोधाशशभुजङ्गाखु शल्लक्याद्या बिलेशयाः। बिलेशया वातहरा मधुरा रसपाकयोः। वृंहणा बद्धविण्मूत्र। वीर्य्योष्णा अपि कीर्त्तिताः” तत्र तन्मांसगुणा उक्ताः।

बिल्म = न० त्रि० बिल–बा० मन्। भासने निरु० १। २०। ऋ० २। ३५ १२। २ शिरस्त्राणे यजु० १६। ३५। तदस्यास्ति इनि। बिल्० मिन् तद्वति त्रि० रुद्रभेदे पु० यजु० तन्मन्त्रे दृश्यम्।

बिल्ल = न० बिलं क्विप् तं लाति ला–क। १ आलबाले त्रिका०। २ हिङ्गुनि शब्दच०।

बिल्लमूला = स्त्री बिल्लमिव मूलमस्याः। वाराहीकन्दे शब्दच०

बिल्लसू = स्त्री “बिल्लसूर्दशपुत्रा स्यादिति” शब्दर० उक्त्वायां प्रसूतदशपुत्रायां स्त्रियाम्।

बिल्व = पु० बिल–उल्बा० नि०। १ स्वनामख्याते वृक्षे अमरः “श्रीफलः प्रवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत्। बालः श्लेष्महरो बल्यो लघुरुष्णश्च पाचनः” भावप्र०। “बिल्वं बालं कषायोष्णं पाचनं वह्निदीपनम्। संग्राहि तिक्तकटुकं तीक्ष्णं वातकफाफम्। पक्वं सुगन्धि मधुरं दुर्जरं ग्राहि दोषलम्। फलेषु परिपक्वेषु यो गुणः समुदाहृतः। बिल्वादन्यत्र सज्ञेयो बिल्वमानं गुणोत्तरम्। कफवातामपित्तघ्नी ग्राहिणी बिल्वपेषिका” राजवल्लभः। “काञ्जिके संस्थितं बिल्वमग्निसन्दीपनं परम्” इति वैद्यकम्। २ तत्फले न० मेदि०। ३ पलपरिमाणे न० शब्दमाला। तद्वृक्षोत्पत्त्यादिर्यथा “भृगोर्लक्ष्मीश्च या धेनुर्गोरुपा सा गता महीम्। तद्गोमयभवो बिल्वः श्रीश्च तस्मादजायत। “बिल्ववृक्षः प्रियः शम्भोस्तव योनिर्भविष्यति। सर्वपुष्पोत्तमः श्रेष्ठो देवाहारो मनोरमः। अच्छेद्यः सर्ब्बलोकानां छेदान्नाशः सदा नृणाम्। ये च पापा दुराचाराः श्रीतरोश्छेदकारिणः। ते त्ववीच्यादिनरके पात्यन्ते ब्रह्मणोदिनम्। सुदुःखिता भविष्यन्ति नरा दुष्कुलिनः सदा। तत्र देशे भयं नित्यं चिरं राजा न जीवति। न च द्रव्यपतिः कश्चिद् बिल्ववृक्षस्य छेदकः। क्रियते यत्र विच्छेदः सपुष्पफलिनस्तरोः। अनावृष्टिभयं घोरं तस्मिन् देशे प्रजायते”। अग्निपु०। वृहद्धर्मपुराणे १० अ० अस्योत्पत्तिरन्ययोक्ता “लक्ष्म्या शिवाराधनार्थं स्वैकस्तनस्योत्पाटने कृते तुष्टेन शिवेन लक्ष्मीं प्रत्युक्तं यथा “मातः समुद्रतनये! मा मा छिन्धिस्तनं परम्। यस्ते छिन्नः स्तनो वामो जायतां पुनरेव सः। ज्ञाता ते परमा भक्तिः पूर्णस्तेन मनोरथः। यश्च छिन्नः स्तनोभक्त्या मल्लिङ्कोपरि ते शुभे। सोऽस्तु वृक्षः क्षितौ पुण्यो नाम्ना चीफल इत्यतः। मूर्त्तिमांस्तव वै भक्तिर्वृक्षः श्रीफलनामकः। त्वत्कीर्त्तये क्षितावास्तां यावच्चन्द्रदिवाकरौ। स तरुर्ममवै लक्ष्मि! परमः सुप्रियो भवेत्। नत्पत्रेणैव मे पूजा भविष्यति न चान्यथा। स्वर्णमुक्ताप्रबालादि पुष्पाण्यन्यानि च ध्रुवम्। श्रीफलच्छदलेशस्य कलां नार्हन्ति कोटिकाम्। यथा मे श्रीफलतरुर्यथा जुङ्गाजलं मम। तथा प्रियतमं लक्ष्मि! त्रिपद्मः श्रोफलञ्जदः” तत्रैव ११ अ०। “धनुः शतञ्चास्य सूतात् खञ्चाग्रं तीर्थसुच्यते। अधो भूमेस्तथा तीर्थमत- स्तीर्थत्रयं सखि!। ऊर्द्धपत्रं हरो ज्ञेयः पत्रं वाम विधिः स्वयम्। अहं दक्षिणपत्रञ्च त्रिपत्रदलमित्युत। अस्य छायाञ्च पत्रञ्च लङ्घयेन्न पदा स्पृशेत्। हरते लङ्घनादायुः पदा स्पर्शात् श्रियं हरेत्”। इत्यादिना तन्माहात्म्यमुक्त्वा तत्पत्रहरणविधानादि तत्रोक्तं यथा “पक्षान्तद्वादशीसायमध्याह्नभिन्नकालतः। शाखाभङ्गो न कर्त्तव्यो नैवारोहेत्तथा तरुम्। वरमारुह्य चिनुयान्न शाखाभञ्जनं क्वचित्। खण्डितैश्च शिवः पूज्यः पत्रैरन्यैश्च खण्डितैः। षण्मासानन्तरं बिल्वपत्रं पर्य्यु षिते भवेत्। पूज्या एतेन वै देवाः सूर्य्यलम्बोदरौ विना। बिल्ववृक्षवनं यत्र सा तु बाराणसी पुरी। पञ्च बिल्वद्रुमा यत्र तत्र तिष्ठेत् स्वयं हरिः। सप्त बिल्वद्रुमा यत्र तत्र दुर्गायुतो हरः। एको बिल्वतरुयत्र तत्र शम्भु मर्या सह। बिल्ववृक्षा यत्र दश तत्र शम्भुर्गणैः सह। एतान्युक्तानि तीर्थानि देवाः सर्वे मरुद्गणौ। यत्र वाट्यां गृहस्थस्य कोण ईशाननामके। जायते श्रीफलतरुर्न तत्र विपदः क्वचित्। पूर्वस्यां सुखदः स स्याद्दक्षिणे यमभीतिहा। पश्चिमे च प्रजादायी वृक्षो बिल्व उदाहृतः। श्मशाने च नदीतीरे प्रान्तरे वा वनान्तरे। बिल्ववृक्षतलं प्रोक्त सिद्धपीठस्थलं समेम्। न मध्यप्राङ्गणे वृक्षं स्थापयेत् श्रीफलाख्यकम्। दैवाद् यदि प्रजायेत तदा शिववदर्च्चयेत्। चैत्रादिचतुरो मासान् शम्भवे परमात्मने। दत्तं स्याद् बिल्वपत्रैकं लक्षधेनुसर्म सुराः। मध्याह्नकाले ये मर्त्या बिल्वं कुर्य्युः प्रदक्षिणम्। तैः सुमेरुर्गिरिवरः कृतएव प्रदक्षिणम्। न च्छिन्द्यात् श्रीफलतरुं न दहेत् काष्ठमेव च। विना ब्राह्मणयज्ञार्थं पतितो बिल्वविक्रयी। पक्वबिल्वसमुद्घृष्टं यो धत्ते मूर्ध्नि मानवः। यमाधिकारो नात्र स्यात् हृतः पापोपपातकैः। विल्वपत्रं फलं वीजं भूमौ पतितमीश्वरः। स्वयं गृह्णाति शिरसा वैयर्थ्यभयशङ्कितः। चैत्रादिचतुरो मासान् सिञ्चेद्बिल्वतरुं कृती। यथा स्निग्धो भवेद्वृक्षस्तथा तत्पितरोऽपि च। चैत्रादिवतुरो मासान् सदा भ्रमति शङ्करः। नवीनबिल्वपत्रार्थी भुक्तिमुक्तिप्रदायकः। हदिद्रानगरे यत्र वैद्यनाथो महेश्वरः। तत्राक्षयो बिल्ववृक्षः स्वर्गवृक्ष उदाहृतः। कामरूपे कामतरुः काश्या मुक्तस्तथादिमः। काञ्चीपुरे पुरः प्रोक्तः श्रीफलोऽक्षयपुण्यदः। तेऽपि तीर्थविशेषाः स्युरतीर्थेष्वपि सदाऽतुलाः।” वृक्ष र्मपु० ११ अ०। “तत्फलैस्तत्प्रसूनै- र्वा तत्पत्रैर्यः प्रपूजयेत्। तत्काष्ठचन्दनैर्वापि स मे भक्तः स मे प्रियः। तत्काष्ठचन्दनं भाले यो धारयति सम्भ्रमात्। तत्तनुं शिवबुद्ध्या सा नमेद्देवी मुदान्विता। अतस्तच्चन्दनं देवि! न धारयति कश्चन। तत्पत्रं तत् प्रसूनं वा कदापि धारयेन्न हि। तस्यमूले महेशानि! प्राणांस्त्यजति यो नरः। रुद्रदेहो भवेत् सत्यं पाप कोटियुतोऽपि सन्” योगिनीतन्त्रे पटले। “बिल्ववृक्षं तथा देवि! भगवान् शङ्करः स्वयम्। बिल्ववृक्षतले स्थित्वा यदि प्राणांस्त्यजेत् सुधीः। तत्क्षणास्मोक्षमाप्नोति किन्तस्य तीर्थकोटिभिः। यत्र ब्रह्मादयो देवास्तिष्ठन्ति मुक्तिहेतवे। बिल्ववृक्षतले स्थानं यदि विष्ठादिपूरितम्। तदेव शाङ्करं क्षेत्रं सर्वतीर्थमयं सदा। सर्वपीठमयं तत्तु सर्वदेवमयं सदा। न त्यजेत् शाङ्करं क्षेत्रं न च गङ्गां त्यजेत् प्रिये!। समीपे स च चार्बङ्गि। बिल्बवृक्षौ यदि प्रिये!। काशीपुरसमं तत्तु तत्र प्राणान् त्यजेद् यदि। किन्तस्य कोटितीर्थेन काशीवासेन किं प्रिये!। पुरश्चरणरसोल्लासे १० पटले। तद्दानविधिर्यथा “पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम्। यथोत्पन्नं तथा देयं बिल्बपत्राण्यधोमुखम्।” मातृकातन्त्रे ५५ पटले। “शिव उवाच। शृणु देवि! प्रवक्ष्यामि रहर्स्य त्रिजटात्मकम्। पत्रं ब्रह्ममयं देवि! अद्भुत वर वर्णिनि!। श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः। विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा। ब्रह्मविष्णुशिवाः पत्रे वृन्तञ्च शक्तिरूपकम्। वृन्तमूले तु वज्रं स्यात् पत्रे ब्रह्मपदं प्रिये!। त्रिजटापत्रकैकेन हरं वा हरिमर्च्चयेत्। कैवल्यं तस्य तेमैव शक्तिपूजा विशेषतः। पत्रं पुष्पं फलं तोयं नैवेद्यं धूपदीपकम्। दत्त्वा यद्यत् फलं प्राप्तं तस्मात् कोटिगुणं भवेत्। सर्वैरर्चनतो देवि! त्रिजटात्मसत्तर्पणम्। कैवल्यदो हरिश्चैव दास्येऽहं त्वत्स्वरूपताम्। त्वयि कैवल्यदं ज्ञानं धर्मकामार्थदं प्रिये!। वज्रहीनमिदं देवि! प्राप्नुयाद्वाञ्छितं फलम्। सवज्रे म्रियते न्यूनं वज्राघातेन पार्वति!। तस्माच्च साधकेन्द्रेण वज्रहीनं प्रदीयते”। धाणं गृहीत्वा यो गच्छेत् सर्वसिद्धिमवाप्नुयात्। ऊर्द्ध्वं सुदर्शनं रक्षेदधः पशुपतिस्तथा। पुरो माहेश्वरी रक्षेत् पृष्ठे च शूलधारिणी। दक्षपार्श्वे च श्रीनाथो वामपार्श्वे प्रजापतिः। चन्द्र सूर्य्यौ धृतौ छत्रमहंवादकरौ सदा”। ज्ञानभैरवतन्त्रे ६ पटले। बिल्वशब्दस्य बर्ग्यबोपधत्वेऽपि मुद्रा- क्षरे तादृशवर्ण्णा भावात् अन्त्यस्थबोपधत्वं पूजितं सर्वत्र तस्याशुद्धत्वं बोध्यम्।

बिल्वक = न० १ तीर्थभेदे भा० अनु० २५ अ०। २ नागभेदे भा० आ० ३५ अ०।

बिल्वकादि = पु० “बिल्वादिभ्यश्छस्य लुक्” पा० उ क्ते छप्रत्यय लुग्निमित्ते शब्दगणे स च पा० ग० उक्तो यथा “बिल्व बेणु वेत्र वेतस इक्षु काष्ठ कपोत तृण क्रुञ्चा (ह्रस्वत्वञ्च)। तक्षन् (नलोपश्च)” बैल्वकीयायां भूमौ भवाः वैल्बकाः तस्य लुक् न कुको निवृत्तिः।

बिल्वकीय = त्रि० बिल्वाः सन्ति यस्यां नडा० छ कुक्च। बिल्वयुक्तभूमौ ततो बहुत्वे बिल्वका० छमात्रस्य लुक्।

बिल्वज = त्रि० बिल्वात् जायते जन–ड। मालूरजाते। बिल्वस्य विषयः राजन्या० वुञ्। वैल्वजक तद्विषये।

बिल्वतेजस् = पु० नागभेदे भा० आ० ५७ अ०।

बिल्वपत्र = पु० १ नागभेदे भा० भी० १०२। ६ त० २ मालूरस्य पत्रे न० “बिल्बपत्रकृता पीडे” दुर्गोत्सवपद्धतिः।

बिल्वपाण्डर = पु० नागभेदे भा० आ० ३५ अ०।

बिल्वपेषिका = स्त्री बिल्वस्य पेषः साधनत्वेन अस्त्यस्याः ठन्। (वेलसु~ठ) शुष्कबिल्बखण्डे राजनि०।

बिल्ववन = न० ६ त०। मालूरसमुदाये तस्य विषयः राजन्या० वुञ्। बैल्ववनक तद्विषये।

बिल्वा = स्त्री० बिल–भेदने उल्वा० नि०। हिङ्गुपत्र्यां राजनि।

बिल्वोदकेश्वर = पु०। शिवभूर्त्तिभेदे तस्याविर्भवकथा हरिवं० १३६ अ०।

बिस = क्षेपे दि० पर० सक० सेठ्। बिस्यति। इरित् अबिसत् अबेसीत् बिबेस।

बिस = न० विस–क। मृणाले अमरः।

बिसकण्ठिका = स्त्री बिसमिव कण्ठोऽस्याः कप्। बलाकायाम् अमरः।

बिसकण्ठिन् = पु० बिसमिव कण्ठोऽस्त्यस्य इनि। बले राजनि०।

बिसकुसुम = न० बिसस्थितं कुसुमम् शा० त०। कमले राजनि०। बिसप्रसून तत्रार्थे अमरः।

बिसखा = त्रि० बिसं मृणालं खनति खन–विट् ङा। मृणाल खननकर्त्तरि।

बिसग्रन्थि = पु० ६ त०। मृणालग्रन्थौ। तस्य जलकालुष्यनिवारकता सुश्रुते उक्ता यथा “सप्त कलुषस्य प्रसाधनानि भवन्ति। तद्यथा कतकगोमेदकबिसग्रन्थिशैवालमूलवत्राणि मुक्तामणिश्चेति”।

बिसनाभि = स्त्री बिसं नाभिरिवास्याः। पद्मिन्यां त्रिका०

बिसनालिका = स्त्री बिसस्य नालिकेव। मृणाले शब्दार्थ० कल्प०। तस्य सच्छिद्रकनालत्वात् तथातम्।

बिसल = न० विस–कलच्। किसलये त्रिका०।

बिसवत् = त्रि० विस + चतुरर्थ्यां मतुप् मस्य त्रः। मृणाल युक्तादौ स्त्रिषां ङीप्।

बिसवर्त्मन् = पु० न० बिसाख्ये नेत्रवर्त्मगतरोगभेदे सुश्रुतः। “शून्यं यद्वर्त्म बहुभिः सूक्ष्मैश्छिदैः समन्वितम्। बिसमन्तर्जल इव विसवर्त्मेति तन्मतम्”।

बिसिनी = स्त्री विस + पुष्करा० इनि। १ पद्मिन्याम् अमरः। २ मृणालादियुक्ते देशे ३ तत्समुदये च।

बिसिल = त्रि० विस + चतुरर्थ्याम् काश्या० इल। मृणालसमीपादौ।

बीभत्स = त्रि० बन–निन्दायां स्वार्थे सन् कर्मणि घञ्। १ पापिनि २ जुगुप्सिते, ३ वृणाविषये च ४ तद्धेतौ त्रि० मेदि०। ५ नाट्यादौ प्रसिद्धे जुगुप्सास्थायिभावके रसभेदे, पु० अमरः तद्रसविषये ६ बिकृतमांसादौ त्रि०। “शृङ्गारहास्यकरुणरौद्रवीरभयानकाः। बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः” रसानुद्दिश्य सा० द० लक्षितो यथा “जुपुप्सास्थायिभावस्तु बोभत्सः–कथ्यते रसः। नीववर्णो महाकान्तटैवतोऽयमुदाहृतः। दर्गन्धमांसपिशितमेदांस्यालम्बनं मतम्। तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम्। निष्ठावनास्यवन्त्रनेन्त्रसङ्कोचनादयः। अनुभावास्तत्र मतास्तथा स्युर्व्यमिचारिणः। मोहापस्मरादिरोग। व्याधिश्च मरणादयः” तन्निरुक्तिः। ७ अर्जुने पु० मेदि०।

बीभत्सु = पु० बध–निन्दने स्वार्थे सन् उ। १ अर्जुने। भा० वि० ४४ अ० अस्यनिरुक्तिव अन्यथोक्ता यथा “न कुर्य्यां कर्म बीभत्सं युध्यमानः कथञ्चनः तेन देवमनुष्येषु बीभत्सुरिति विश्रुतः”। बीभत्सुरिति भदि कल्याणे सुखे चेत्यस्य सनि रूपम्” नीलक०। तत्र पृषो० इटोऽभावो नलोपश्च। अन्ये तु बीभत्सकर्मरहितत्वात् विरोधिलक्षणया तन्निन्दनकारित्वाद्वा तथात्वमित्याहुः।

***