प्रातःकृत्य = न० ७ त०। शास्त्रविहिते प्रातःकर्त्तव्ये कर्मणि तच्च आचारशब्दे ६३३ पृ० दर्शितम्। एवमन्यत्रापि यथायथं नानाशास्त्रे उक्तं दृश्यम्।
प्रातःकाल = पु० कर्म०। १ प्रभातकाले “प्रातःकालो मुहूर्त्तां स्त्रीन् सङ्गवस्तावदेव तु” स्मृतिपरिभाषिते सूर्य्योदयावधि मुहूर्त्तत्रयमिते २ काले च।
प्रातःसन्ध्या = स्त्री सन्धौ भवः यत् सन्ध्या ७ त०। १ गतरात्रेरनन्तरं मुहूर्त्तात्मके भाविसूर्य्योदयस्य मध्यवर्तिनि २ दण्डचतुष्टयात्मके वा काले “त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम्। नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति० त०। सन्ध्या च ब्रह्मणो मनोजाता कन्या सा च वसिष्ठोपदेशेन तपः कृत्वा पूर्वप्रतिज्ञातस्याग्नौ शरीरत्यागस्य सम्पादनार्थं विष्णुवरेण पुरोडाशमयं देहमवाप्य मेधातिथियज्ञाग्नौ शरीरं जुहाव। तस्याः पूर्वार्द्धं प्रातःसन्ध्या। ३ तस्याञ्च तत्कथा कालिकाप० २२ अ० यथा “तदा विष्णोः प्रसादेन सा विवेश विधेः सुता। बह्निस्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्त मण्डले। शुद्धं प्रवेश- यामास विष्णोरेवाज्ञया पुनः। सूर्य्यो द्विधा विभज्याथ तच्छरीरं तदा रथे। स्वके संस्थापयामास प्रीतये पितृदेवयोः। यदर्द्ध्वभागस्तस्यास्तु शरीरस्य द्विजोत्तमाः!। प्रातःसन्ध्याभवत् सा तु अहोरात्रान्तमध्यगा। यः शेषभागस्तस्यास्तु अहोरात्रान्तमध्यगः। स सायमभवत् सन्ध्या पितृप्रीतिप्रिया सदा। सूर्य्योदयाच्च प्रथमं यदा स्यादरुणादयः। प्रातःसन्ध्या तदोदति देवानां प्रीतिकारिणी। अस्तं गते ततः सूर्य्ये शोणपद्मनिभा सदा। उदेति सायसन्ध्यापि पितॄणां मोदकारिणी”। सन्धौ काले उपास्या सन्ध्या ७ त०। पूर्वसन्ध्याकाले उपास्यायां गायत्रीप्रतिपाद्यपरमेश्वररूपायां ३ देवतायाञ्च यथोक्तं भरद्वाजस्मृतौ ७ अ० यथा “गायन्तं त्रायते यस्मात् गायत्रीति स्मृता ततः। प्राणा गया इति प्रोक्तास्त्रायते तानथापि वा। गायत्रीति भवेन्नाम केवलं त्रायतीति वा। व्यानशे प्राणजिह्वासु सदा वाग्रसवर्तनात्। सरस्वतीति नाम्ना च समाख्याता महर्षिभिः। सवितृप्रकाशकरणात् सावित्रीत्यभिधा भवेत्। जगतः प्रसवित्रीति हेतुनानेन वापि च। तस्मादियं सदोपास्या निशादिवसयोर्द्विजैः। गायत्री सन्धिवेलायां सैव सन्ध्येति कीर्त्तिता। यो जपेद्वदनं ज्ञात्वा नश्यन्त्यंहांसि तत्क्षणात्। ऋषिच्छन्दो देवताश्च जपेत्ताश्चान्विताः क्रमात्। ज्ञात्वा पदानि श्रुत्वाथ तुरीयं पादमव्ययम्। ब्रह्मणा याति तत्साम्य पदं ज्ञात्वा तुरीयकम्। या गायत्री त्रिचरणा सा त्रिमूर्त्तिस्वरूपिणी। उपास्यानन्तरं विप्रैस्त्रिसन्ध्यासु त्रिमूर्त्तिषु। तुरीयपादमेतस्या ज्ञात्वा योपास्तिमाचरेत्। सा रत्नपूर्णां पृथिवीं गृह्णन्नो दोषभाग्भवेत्। ब्रह्मकेशवरुद्रादिदेवताभिरुपासिता। सन्ध्यान्तां कोन सेवेत विप्रः स्यादभिलाषुकः। प्रातः सतारकां सन्ध्यां सायं सन्ध्यां सभाष्कराम्। स्नानकर्मणि तन्मध्यामुपासीत यथाविधि। प्रातरेवमुपास्यैव प्रकुर्य्यात् हवनं जपम्। स्नानस्याननतरं कुर्य्यात् तर्पणञ्च महाक्रतून्। सायं सन्ध्यामुपासीत होमं कुर्वीत शासनात्। सन्ध्योपासनहीनो यो न योग्यः सर्वकर्मसु। तस्मादुपास्य विधिना सन्ध्यामन्यक्रियाश्चरेत्। नोपासयेद्द्विजः। सन्ध्यां योऽसौ शूद्रत्वमाप्नुयात्। कर्माण्यन्यानि संत्यज्य सन्ध्यां यः केवलं द्विजः। उपास्ते, सर्वपुण्यानि कृतवान् स भवेदसम्। सन्ध्योपास्तिं विनाविप्रः पुण्यान्यन्यानि चाचरेत्। यस्तस्य तानि पापानि भवन्त्येव न संशयः। नाशयेत् जन्मजनितं पापं दशजपादनु। पुराकृतं शतजपाद्गायत्र्यास्तु द्विजन्मनः। कृतं युगेऽपि चैकस्मिन् सहस्रेण जपेन तु। सद्भक्त्या जपतस्तस्माद्गायत्रीं सर्वदा जपेत्। समस्तसप्ततन्तुभ्यो जपयज्ञः परं स्मृतः। हिंसया ते प्रवर्तन्ते जपयज्ञो न हिंसया। यावन्तः कर्मयज्ञाश्च दानानि च तपांसि च। ते सर्वे जपथज्ञस्य कलां नार्हन्ति षोडशीम्। जपेन देवता नित्यं स्तूयमाना प्रसीदति। प्रसन्ना विपुलान् भोगान् दद्यान्मुक्तिञ्च शाश्वतीम्। यक्षराक्षसवेतालप्रेतभूतपिशाचकाः। जपाश्रयं द्विजं दृष्ट्वा दूरन्ते यान्ति भीतितः। तस्माज्जपः सदा श्रेष्ठः सर्वस्मात् पुण्यसाधनात्। इत्येवं सर्वथा ज्ञात्वा विप्रो जपरो भवेत्। एवं जपपरः सन्ध्यां भक्त्योपासीत यो द्विजः। नियमेन सदा गच्छेदृषित्वं नात्र संशयः। तस्माज्जितेन्द्रियो नित्यं सन्ध्योपास्तिं समाचरेत्। स सर्वलोकान् जित्वाऽथ विप्रः स्ववशमानयेत्। तदन्ते ब्रह्मभावेन यावदाभूतसंप्लवम्। तावन्नित्यो निरातङ्को भवेदत्र न संशयः। एवं सन्ध्याविधिं सर्वं यो विप्रोऽध्यापयेत् द्विजः। अध्यापको यथावस्थः। श्रोता चैकाग्रमानसः। स सर्वपापनिर्मुक्तः सर्वविद्याविशारदः। अथ धान्यधनोपेतो जीवेद्वर्षशतं सुखी। एतद्विधानंयोऽधीत्य श्रावयेत् ब्राह्मणोत्तमान्। प्रीतिपूर्वं प्रयत्नेन ब्राह्मणो नियमेन च। अज्ञानेन प्रमादेन दुरितं यत् समुत्थितम्। तस्य तत् सकलं नाशं व्रजेदत्र न संशयः। याः सन्ध्योपास्तयस्तिस्रो यस्य स्नानं विधीयते। पर्वणि श्रावणी यस्य तत् सर्वं पूर्णतामियात्। कामान्मोहाच्च लोभाच्च सन्ध्यां नाति० क्रमेद् द्विजः। सन्ध्यातिक्रमणाद्विप्रो ब्राह्मण्याच्च्यवते यतः। अनागतां तु ये पूर्वामनतीताञ्च पश्चिमाम्। सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः। स्मृताः?। सायं प्रातः सदा सन्ध्यां ये न विप्रा उपासते। कामन्तान् धार्मिको राजा शूद्रकर्मसु योजयेत्। विधानमेतन्नो देयं रहस्यं यस्य कस्यचित्। वेदाध्यायाभिजा० ताय प्रदेयं स द्विजन्मने”। ब्राह्मणस० योगियाज्ञवल्क्यः “अतःपरं प्रवक्ष्यामि सन्ध्योपासनमुत्तमम्। अहोरात्रकृतैः पापैर्यामुपास्य प्रमुच्यते”। तथा “यावन्तोऽस्यां पृथिव्यां हि विकर्मस्थास्त वै द्विजाः। तेषां वै षावनार्थाय सन्ध्या सृष्टा स्वयम्भुवा। या सन्ध्या सा तु गायत्रीं द्विधा भूता प्रतिष्ठिता”। तथा “सा सत्यं कर्म विप्राणामहोरात्रकृतस्य तु। पापापनुत्तये यस्मात् तस्मान्नित्यं समाचरेत्” यमः “सन्ध्यामुपासते ये तु सततं संशितव्रताः। विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्”। शातातपः “अनृत्तं मद्यगन्धञ्च दिवामैथुनमेव च। पुनाति वृषलस्यान्नं बहिः सन्ध्या ह्युपासिता”। याज्ञवल्क्यः निशायां वा दिवा वापि यदज्ञानकृतं भवेत्। त्रिकालसन्ध्याचरणात् तत्सर्वं विप्रणश्यति”। देवलः “सायं प्रातः सदा सन्ध्यामुपासीत शुचिर्बहिः”। विष्णुपु० “सर्वकालमुपस्थान सन्ध्यायांः पार्थिवेष्यते। अन्यत्र सूतकाशौ च विभ्रमातुरभीतितः”। योगियाज्ञवलक्यः “सर्वावस्थोऽपि यो विप्रः सन्ध्योपसनतत्परः। ब्राह्मण्यान्न स हीयेत अन्यजन्मगतोऽपि सन्। सन्ध्या तूपसिता येन तेन विष्णुरुपासितः। दोर्घमायुः स बिन्देत सर्वपापैः प्रमुच्यते। तथा “सायं प्रातस्तु यः सन्ध्यां सऋचां पर्युपासिते। जप्त्वैव पाबनीं देवीं सावित्रीं लोकमातरम्। स तया पावितो देव्या ब्राह्मणो धूतकिल्विषः। न सीदेत् प्रतिगृह्णानोह्यपि पृथ्वीं ससागराम्”। अग्निपुराणे मुनय ऊन्वुः कथं मुने! दिवं याति ब्राह्मणो मुक्तकिल्विषः। अनाग्नको हि नो ब्रूहि यदुक्तं वह्निना वुरा” सूत उवाच “सायं प्रातश्च यः सन्ध्यामुपास्तेऽक्षुण्ण मानसः। जपते पावनीं देवीं गायत्रीं वेदमातरम्। तया स भावितो देव्या ब्राह्मणः धूतकिल्विषः। न सीदेत् प्रतिगृह्णानः पृथिवीञ्च ससामराम्। ये चान्ये दारुणाः केचिद्ग्रहाः सूर्य्यादयो दिवि। ते चास्य सौम्यतां यान्ति शिवाः शिवतरास्तथा। यत्र तत्र मतञ्चैनं दारुणाः पिशिताशनाः। धोररूपा महाकायाः प्रभवन्ति न राक्षसाः। यावन्तश्च पृथिव्यां हि चीर्णवेदव्रता द्विजाः। अचीर्णव्रतवेदा वा विकर्मपथमाश्रिताः। तेषान्तु पावनार्थाय गायत्री नित्यमेव हि। द्वेसन्ध्ये ह्युपतिष्ठेत तदन्वर्थं महाव्रतम्”। तथा “द्वे सन्ध्ये ह्युपतिष्ठेत गायत्रीं प्रयतः शुविः। यस्तस्य दुष्कृति र्नास्ति पूर्वतः परतोऽपि वा। एवं किल्विषयुक्तो हि विनिर्दहति पातकम्। उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः”। तथा “सन्ध्या येन न विज्ञाता सन्ध्या नेवाप्युपासिता। जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभि जायते”। मनुः “न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम्। स साधुभिर्बहिष्कार्य्यः सर्वस्मातु द्विजक- र्मणः”। व्यासः बहिः सन्ध्या दशगुणा गोष्ठप्रस्रवणादिषु। खाते तीर्थे दशगुणा साहस्री जाह्नवीजले”। बहिरिति अनाच्छादितस्थाने प्राङ्गणादौ। शातातपः “गृहेषु प्राकृती सन्ध्या गोष्ठे शतगुणा स्मृता। नदीषु शतसाहस्रा अनन्ता शिवसनिधौ”। गृहेषु गृहवीथ्यादौ। योगियाज्ञवल्क्यः “सन्धौ सन्ध्यामुपासीत नास्तगे नोद्गते रवौ। सन्ध्यात्रयन्तु कर्त्तव्यं द्विजेनात्मविदा सदा”। संवर्त्तः “प्रातःसन्ध्यां सनक्षत्रामुपासीत यथाविधि। सादित्यां पश्चिमां सन्ध्यामर्द्धास्तमितमास्कराम्”। नरसिंहषुराणे “पूर्वां सन्ध्यां सनक्षत्रामुपक्रम्य यथाविधि। गायत्रीमभ्यमेत्तावद्यावदादित्यदर्शनम्”। मनुः “ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुरवाप्नुयुः। पूजां यशश्च कीर्त्तिञ्च ब्रह्मवर्चसमेव च। उपास्ते यस्तु नो सन्ध्यां ब्राह्मणो हि विशेषतः। सजीवन्नेव शूद्रः स्यान्मृतःश्वा चाभिधीयते”। तथा “सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्ममु। यदन्यत् कुरुते किञ्चित् न तस्य फलवाग्भवेत्”। यमः “अनागतान्तु ये पूर्वामतीतां चापि पश्विमाम्। ये विप्रा नानुतिष्ठन्ति सन्ध्यां ते वृषलाः स्मृताः”। छन्दोगपरिशिष्टे कात्यायनः “सन्ध्यां नोपास्य चाकर्त्ता स्नानदानस्य यः सदा। तं दोषा नोपसर्पन्ति वैनतेयमिवोरगाः” तथा “एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम्। यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते”। कूर्मपुराणे “न तिष्ठति तु यः पूर्वां नोपास्ते यस्तु पश्चिमाम्। स शूद्रेण समो लोके सर्वधर्मविवर्जितः”। मुख्यकाले सन्ध्यावन्दनाकरणे प्रायश्चित्तमाह। व्यासः
“आदित्योऽभ्युदियाद्यस्य सन्ध्योपास्तिमकुर्वतः। स्नात्वा प्राणांस्त्रिराचभ्य गायत्र्यष्टशतं सपेत्” पारिजाते तु “कालातिकमणे चैव चतुर्थ्यार्घ्यं प्रदापयेत्” इत्युक्तम्। मलमामुतत्त्वे तु “कालातीता वृथा सन्ध्या बन्ध्यस्त्रामैथुने यथा। गायत्रीं दशधा जप्त्वा पुनः सन्ध्यां समाचरेत्” काशीखण्डोक्तं प्रायश्चित्तान्तरमुक्तम्। अत्र यथाचारं व्यवस्था। सङ्गवपर्य्यन्तप्रातः सन्ध्याया गौणकालः आप्रदोषावसानं सायंसन्ध्यायाः इति मण्डनः। “उदयास्तमयादूर्द्ध्वं यावत् स्याद्घटिकात्रयम्। तावत् सन्ध्यामुपासीत प्रायश्चित्तमतःपरम्” इति स्कान्दे विशेष उक्तेः। मध्याह्ने तु दक्षः “आध्यर्द्धयामादासायं सन्ध्या माध्याह्निकीष्यते। अर्घ्यप्रदानतः पूर्वमुदयास्तमयेऽपि वा। गायत्यष्टशतं जप्यं प्रायश्चित्तं द्विजा- तिभिः” इति। गौणकालेऽप्यसम्भवे यमः “दिवोदितानि कर्माणि प्रमादादकृतानि चेत्। शर्वर्य्याः प्रथमे यामे तावत् कुर्य्याद्यथाक्रमम्”। अत्र मुख्यकालानुरोधात् सायंसन्ध्योपासनं पूर्वं कृत्वा “आगन्तूनामन्ते निवेशः” इति न्यायेनातीतकालं कर्म पश्चात् कार्य्यमिति न्यायतः प्राप्वं तस्य निषेधार्थं यथाक्रममिति वचनमिति। “दि वोदिनानि कर्माणि प्राप्नुवन्तीतराणि च। दिवोदितानि कृत्वैव विदध्यादुत्तराणि तु” मदनपरिजाते वसिष्ठोक्तेः। सूतके विशेषः सूतके इत्यनुवृत्तौ “अवगाहं ब्रह्मयज्ञं सौरजप्यञ्च वर्जयेत्” इति “स्नानं सन्ध्यां त्यजन् विप्रः सप्ताहाच्छूद्रतां व्रजेत्। तस्मात् स्नानञ्च सन्ध्याञ्च सूतकेऽपि न सन्त्यजेत्। सूतके मृतके चैव सन्ध्याकर्म समाचरेत्। मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः” इत्यनयोरविरोधाय न मानससन्ध्यानिषेध इति कल्प्याम्। किन्तु प्राणायाममन्त्रा मनसापि नोच्चार्य्या इत्यर्थः। पैठिनसिस्तु “सूतके सावित्र्याञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यन्ध्यायन्नमस्कुर्य्यात्” इत्यर्घ्यदानान्तां सन्ध्यामाह। अन्ये तु उच्चार्य्य याचा गायत्रीं दद्यादर्ष्याञ्जीनपि। अष्टविंशतिकृत्वोऽत्र गायत्रीं मनसा जपेत्” इति गायत्रीजपमप्याहुः। “सूतके कर्मणान्त्यागः सन्ध्यादीनां बिधीयते” इति यद्यपि सन्ध्यायानिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षेपादिकं कार्य्यम्। “सूतके सावित्र्या चाञ्जलिम्प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्य्यं ध्यायन्नमस्कुर्य्यादिति” पैठिनसिस्मरणात् इति मिताक्षरा सन्ध्यादीनामप्यपवादमाहापरार्के पुलस्त्यः “सन्ध्यामिष्टिं चरुं होमं यावज्जीवं समाचरेत्। न त्यजेत् सूतके वापि त्यजन् गच्छेदधो द्विजः। सूतके मृतके चैव सन्ध्याकर्म समाचरेत्। मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः”?। यत्तु चन्द्रिकायां जावालः “सन्ध्यां पञ्च महायज्ञान् नैत्यिकं स्मृतिकर्म च। तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया” यच्च संवर्त्तः “सूतके कर्मणां त्याग सन्ध्यादीनां विधीयते” यच्च विष्णुपु० “सर्वकालमुपसा तु सन्ध्ययोः पार्थिवेष्यते। अन्यत्र सूतकाशौचविभ्रमातुरभीतितः” इति। तत् संपर्ण्णसन्ध्यानिषेधपरम्। “अर्घ्यान्ता मानसी सन्ध्या कुशवारिविवर्जिता” इति शुद्धिद्वीपे च्यवनोक्तेः। पैठीनसिख्यत्व मन्त्रोच्चारणमप्याह” सूतके सावित्र्याञ्जलिं प्रक्षिप्य सूर्य्यंध्यायन्नमस्कुर्य्यात्”। प्रयोगपरिजाते भरद्वाजोपि “सूतके मृतके कुर्य्यात् प्राणायामममन्त्रकम्। तथा मार्जनमन्त्रांस्तु मनसोच्चार्य मार्जयेत्। गायत्रीं सम्यगुच्चार्य्य सूर्य्यार्घ्यं निवेदयेत्। मार्जनं तु न वा कार्य्यमुपस्थानं न चैव हि”। इत्येवं मिताक्षरापरिजातादौ अशौचे सन्ध्याकरणविशेषस्योक्तेः गौडानां तदनाचरणमनाचार एव तस्य श्रीतत्वेन स्मृत्या बाधानुचितत्वादपि मिताक्षराद्युक्तं युक्तभिति द्रष्टव्यम्।
प्रातःसवेन = न० सवनं यज्ञाङ्गकर्मभेदः सोमाभिषवादि प्रातः कर्त्तव्यम् सवनम्। प्रातःकर्त्तव्ये यज्ञाङ्गकर्मभेदे। अप प्रातःसव तत्रार्थे पु०।
प्रातःस्नान = ७ त०। प्रातःकर्त्तव्ये जलावगाहनादिरूपे स्नाने तस्य कर्माङ्गताद्युक्तं गरुडपु० “ऊषः काले तु संपाप्ते कृत्वा चावश्यकं बुधः। स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि। प्रातःस्नानेन पूयन्ते येऽपि पापकृतो जनाः। तस्मात् सर्वप्रयत्नेन प्रातःस्नानं समाचरेत्। प्रातःस्नान प्रशंसन्ति दृष्टादृष्टशुभं हि तत्। सुखसुप्तस्य सततं लालाद्याः संस्रवन्ति हि। अतो नैवाचरेत् कर्माण्यकृत्वा स्नानमादितः। अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुविचिन्तितम्। प्रातःस्नानेन पापानि धूयन्ते नात्र संशयः। न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम्। होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत्। अशक्तावशिरस्कन्तु स्नानमस्य विधीयते”।
प्रातःस्मरणीय = त्रि० ७ त०। प्रातःकीर्त्तनीये देवादौ पुण्यचरिते। प्रभातशब्दे ४४७५ पृ० दृश्यम्।
प्रातर् = अव्य० प्र + अत–अरु। १ प्रभाते अमरः “प्रातःकालो मुहूर्त्तां स्त्रीनि” ति स्मृत्युक्ते २ सूर्य्योदयावधिबिहूर्त्तकाले च
प्रातर = त्रि० प्रकृष्ट आतरो यत्र। प्रकृष्टातररूपतरणपण्ययुक्त देशे ततः कृशाश्वा० चतुरर्थ्यां छण्। प्रातरीय तस्यादूरदेशादौ त्रि०।
प्रातरचक = पु० सर्पभेदे भा० आ० ५७ अ०।
प्रातरनुवाक = पु० प्रातःपाठ्ये अनुवाके वेदांशभेदे शस्त्रे “प्रातरनुवाकं जाग्रदुपासीत” कात्या० श्रौ० ९। १। १३ “पुरा प्रातरनुवाकस्य” छा० उ० “प्रातरनुवाकस्य प्रारम्भात्” भा० “अप्रगीतमृग्जातं शस्त्रं यत् प्रातःकाले शस्यते प्रातरनुवाकस्तस्येति यावत्” आनन्द०।
प्रातराश = पु० अश + भावे घञ् ७ त०। प्रातःकालिके भोजने त्रिका०
प्रातर्गेय = पु० प्रातर्गेयमस्य। १ स्तुतिपाठके त्रिका० २ प्रातःकाले गातके सामादौ च त्रि०।
प्रातर्दिन = न० कर्म०। पूर्ववर्त्तिनि दिवसे त्रिकाण्डशेषः।
प्रातर्भोक्तृ = पु० ७ त०। काके शब्दच०।
प्रातर्भोजन = न० ७ त०। प्रातराशे जटाध०।
प्रातस्तरा(मा)म् = अव्य० प्रातर् + तरप् तमप् वा आमु। अत्यन्तप्रातःकाले “प्रातस्तरां पतत्त्रिभ्यः” भट्टिः।
प्रातस्त्रिवर्गा = स्त्री प्रातः प्रातःस्नानेन त्रिवर्गो यस्याः। गङ्गायां भा० अनु० २६ अ०।
प्राति = स्त्री प्रा + भावे क्तिन्। १ पूर्त्तौ २ लाभे च मेदि०।
प्रातिकण्ठिक = त्रि० प्रतिकण्ठं गृह्णाति प्रतिकण्ठ + ठक्। प्रतिकण्ठग्राहके।
प्रातिका = स्त्री प्र + अत–ण्वुल् टाप्। जवावृक्षे राजनि०।
प्रातिकामिन् = दुर्य्योधनस्य दूतभेदे भा० भी० ६५ अ०।
प्रातिकूलिक = त्रि० प्रतिकूलं वर्त्तते प्रतिकूल। ठञ्। प्रतिकूलं वर्त्तमाने स्त्रियां ङीप् “तां प्रातिकूलिकीं मत्वा” भट्टिः
प्रातिक्य = न० प्रतिकस्य भावः पुरोहिता० यक्। प्रतिकभावे
प्रातिजनीन = त्रि० प्रतिजनं साधु प्रतिजना० खञ्। प्रतिजनं साधौ।
प्रातिनिधिक = पु० प्रतिधि + स्वार्थे ठक्। प्रतिनिधौ कात्या० श्रौ० २५। १३। ४
प्रातिपथिक = त्रि० प्रतिपथमेति ठञ्। प्रतिपथं गन्तरि स्त्रियां ङीप्।
प्रातिपद = त्रि० प्रतिपदि भवः सन्धिवेला० अण्। प्रतिपदितिथौ भवे।
प्रातिपदिक = त्रि० प्रतिपदायां तिथौ भवः “कालाट् ठञ्” पा० ठञ्। १ प्रतिपदायां तिथौ भवे २ तत्राविर्भूते वह्नौ पु० “आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक!। त्वत्पदात् प्रातिपदिकं संभविष्यन्ति देवताः” वराहपु०। ३ नाम्नि शब्दभेदे “यत् प्रातिपदिकं नाम तन्नाम्नो नातिरिच्यते” शब्दश०। तल्लक्षणन्तु “अर्थवदघातरप्रत्ययः प्रातिपदिकम्” “कृत्तद्धितससासाश्च” पा० व्याख्याते चैते सरलायामस्माभिः “अधातुरप्रत्यय इति पुंलिङ्गनिर्देशस्त परवल्लिङ्गं द्वन्द्व तत्पुरुषयोरित्यभिधानात्। एतत्सूत्रे परसूत्रे चार्थवत्त्वमेतत्सज्ञाफलीभूतबिभक्तीतरसमभिव्याहारानपेक्षया लोकेऽर्थबोधजनकत्वम् अन्थथाऽधातुरिति पर्युदासेन व्याख्यानाद्वाऽर्थवत्त्वे सादृश्यग्रहणेन सिद्धे उत्तरसूत्रे कृदादीनामनर्थकानामसिद्धेश्चार्थवत्त्वग्रहणं व्यर्थं स्यात्। अहन्निति धातौ काण्डे इत्यादि प्रत्ययान्ते च एतत्साद्यविभक्त्यनपेक्षत्वेऽपि तदितरानपेक्षत्वसत्त्वेऽपि अधातुरप्रत्यय इति तत्पर्युदासः। एकदेशवर्णेऽर्थबोधजनकत्वाबावान्नातिप्रसङ्गः। अत्र प्रत्ययपदं प्रत्ययप्रत्य- यान्तपरं तन्त्रावृत्त्यैवोभयग्रहणादित्याह (प्रत्ययं प्रत्ययान्तञ्चेति) सि० कौ०)। अतएव भाष्ये “न लोके केवलेन प्रत्ययेनार्थोऽवगम्यते केन तर्हि सप्रकृतिकेन” इत्युक्तम् हरिणाप्युक्तम्। “धात्वादीनां विशुद्धानां लौकिकार्थो न विद्यते। कृत्तद्धितानामर्थश्च केवलानामलौकिकः। प्राग्विभक्तेस्तदन्तस्य तथैवार्थो न विद्यते” इति। भू सत्तायामित्यादौ कर्मण्यणित्यादौ चार्थकथनन्तु अलौकिकार्थकथनमात्रं प्रक्रियादशायामिति वेदितव्यम् “ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले। देवदत्तादयो वाक्ये तथैव स्युर्निरर्थकाः” इत्युक्तेरखण्डवाक्यस्यापि बोधकत्वात्तस्यापि प्रातिपदिकत्वापत्त्या तदुत्तरं स्वादिप्रसङ्ग इति तन्निवारणायेदं नियमसूत्रमित्याह “पूर्वसूत्रेणेति” सि० कौ०। प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणमिति न्यायादेव प्रत्ययान्तत्वलाभात् कृत्तद्धितादीनामपि प्रत्ययत्वात् पूर्वसूत्रेण संज्ञासिद्धेरिति भावः। पदमिति स्वातन्त्र्येण प्रयोगार्हमर्थवदित्यर्थः। अनुकरणस्य शब्दमात्र परतया न प्रातिपदिकत्वमनुकरणस्यानितिपरस्य प्रयोगासत्त्वेऽपि इतिपरस्य पृथक् प्रयोगार्हत्वादिति गवित्ययमाहेत्यादौ न प्रसङ्गः” हरिणाप्युक्तम्। अतएव “गवित्याह भू सत्तायामितीदृशम्। न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम्”। प्रातिपदिकार्थे द्योत्ये प्रथमेव। तदर्थश्च नामार्थाः “स्वार्थो द्रव्यञ्च लिङ्गञ्च संख्या कर्मादिरेव च। अमी पञ्चैव नामार्थास्त्रवः कोषाञ्चिदग्निमाः” इत्युक्ताः। तत्र अलिङ्गा, नियतलिङ्गाश्च प्रातिपदिकार्थे प्रथमाया उदाहरणम्” सि० कौ०।
प्रातिपीय = पु० १ नृपभेदे भा० द्रो० १५७ अ०। २ गोत्रप्रवरर्षिभेदे च प्रवराध्यायः।
प्रातिपेय = पु० नृपभेदे भा० स० ६९ अ०।
प्रातिभ = त्रि० प्रनिभाऽस्त्यस्य प्राज्ञा० अण्। १ प्रतिभान्विते योगिनां योगविघ्नकारके २ उपसर्गभेदे मार्कण्डेयपु० ४० अ० यथा “प्रातिभः श्रावणो दैवो भ्रमावर्त्तौ तथापरौ। पञ्चैते योगिनां योगविघ्नाय कटुकोदयाः। वेदार्थाः काव्यशास्त्रार्थाः विद्याः शिल्पान्यशेषतः। प्रतिभान्ति यदस्येति प्रातिभः १ स तु योगिनः। शब्दार्थानखिलान् बेत्ति शब्दं गृह्णाति चैव यत्। योजनानां सहस्रेभ्यः श्रावणः २ सोऽभिधीयते। समन्ताद्वीक्षते चासौ स यदा देवतोपमः। उपसर्गन्तमप्याहुर्दैव ३ मुन्मवत्तवद् बुधाः। भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः। समस्ता- चारविभ्रंशाद् भ्रमः ४ स परिकीर्त्तितः। आवर्त्त इव तोयस्य ज्ञानावर्त्तो यदाकुलः। नाशयेच्चित्तमावर्त्त ५ उपसर्गः स उच्यते। एतैर्नाशितयोगास्तु सकला देवयोनयः। उपसर्गैर्महाघोरैरावर्त्तन्ते पुनःपुनः”।
प्रातिभाव्य = न० प्रतिभुयो भावः ष्यञ् द्विपदवृद्धिः। (जामिनि) १ प्रतिभूभावे प्रतिभूत्वेन देये २ धने च मनुः ८। १५। ५९ दर्शनप्रतिभूशब्दे ३४७५ पृ० दृश्यम्।
प्रातिभासिक = त्रि० प्रतिभासादागतः ठक्। प्रतिभासाधीन सत्त्ववति मिथ्यारजतादौ वेदान्तमते हि सत्त्वं त्रिविधं पारमार्थिकं व्यवहारिकं प्रातिभासिकं च तत्र ब्रह्मणः सत्त्वं पारमार्थिकं त्रिकालाबाध्यत्वात्, घटादीनां सत्त्वं व्यवहारिकं व्यवहारकालेऽवाध्यत्वात्, शुक्तौ रजतादेः सत्त्वं प्रातिभासिकम् अधिष्ठानज्ञानबाध्यत्वात् प्रतिभासकालमात्रसत्त्वाच्चेति वेदान्तपरिभाषायां स्थितम्।
प्रातिशाख्य = त्रि० प्रतिशाखं भवः परिमुखा० ञ्य। प्रतिशाखं भवे व्याकरणभेदे न०।
प्रातिश्रुत्क = पु० प्रतिश्रुति तत्समये भवः ठञ्। प्रतिश्रवणवेलायां भवे पुरुषे “यत्र वायं श्रौत्रः प्रातिश्रुत्कः पुरुषः” वृ० उ०।
प्रातिस्विक = त्रि० प्रतिस्वं भवः ठक्। १ असाधरणधर्मे त्रिका०। २ प्रतिव्यक्तिभवे च।
प्रातिहर्त्त्र = न० प्रतिहर्तुर्भावः कर्म वा उद्गात्रा० अञ्। प्रतिहर्तृरूपस्य ऋत्विग्मेदस्य कर्मणि १ प्रतिहरणे २ तद्भावे च।
प्रातिहारक = पु० प्रतिहारक एव स्वार्थे अण्। प्रतिहारकशब्दार्थे अमरः।
प्रातिहारिक = त्रि० प्रतिहारः प्रयोजनमस्य ठक्। सायाकारके अमरः।
प्रातीतिक = त्रि० प्रतीत्या निर्वृत्तः ठञ्। प्रातिभासिके पदार्थे
प्रातीप = प्रतीपस्यायम् अण्। प्रतीपनृपस्यापत्ये शान्तनौ नृपे त्रिका०।
प्रातीपिक = त्रि० प्रतीपं वर्त्तते ठञ्। प्रतीपं वर्त्तमाने प्रतिकूलाचारिणि।
प्रातृद = पु० ऋषिभेदे शत० ब्रा० १४। ८। १३। २
प्रात्ययिक = त्रि० प्रत्ययाय स्थितः ठक्। प्रतिभूभेदे “दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा याज्ञ०। दर्शनप्रतिभूशब्दे ३४७८ पृ० दृश्यम्।
प्राथमकल्पिक = त्रि० प्रथकल्पे भवः ठक्। १ प्रथमारम्भोचिते वेदाध्ययनादौ। प्रथमं कल्पमधीते कल्पान्तत्वात् ठक्। ३ प्रथमकल्परूपशिक्षाग्रन्थाध्यायिनि अमरः।
प्राथमिक = त्रि० प्रथमे भवः ठञ्। १ प्रथमभवे स्त्रियां ङीप्। प्रथममधीते प्रथम + ठक्। वेदादेः २ प्रथमाध्येतरि च।
प्रादि = पु० उपसर्गसंज्ञार्थं पा० उक्ते शब्दभेदे स च गणः पा० ग० उक्तो यथा “प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत्(द्) अभि प्रति परि उप” एते प्रादयः। निस् दुस् सान्तौ “निसस्तपतावना सेवने इति (८। ३। १२०) सूत्रे निस इति निर्देशात् निष्कृतं दुष्कृतमित्युदाहृत्य “इदुदुपधस्य यो विसर्जनीयः” इति भाष्योक्तेश्च। निरः कुषः इति (७। २। ४६) “सुदुरोरधिकरणे” इति च निर्देशात् रान्तावपि मनो०। उदिति दान्तोऽपि “उदोऽनूर्ध्वध्वेष्टायामिति”। “उपसर्गाः क्रियायोगे” पा० “गतिश्च” पा० प्रादयः क्रिया योगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः” सि० कौ०।
प्रादुराक्षि = पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः।
प्रादुर्भाव = पु० प्रादुस् + भू–भावे घञ्। आविर्भावे प्रथमप्रकाशे
प्रादुस् = अव्य० प्र + अद–उसि। प्राकाश्ये ऊर्य्या० अस्य क्रियायोगे गतिसंज्ञा प्रादुष्कृत्य प्रादुर्भूय। स्वार्थे यत् न दि० लोपः प्रादुष्य प्रादुर्भावे न० उज्ज्वलदत्तः।
प्रादेश = पु० प्र + दिश–घञ् द्रीर्घः। १ तर्जनीसहितविस्तृताङ्गुद्वे अमरः २ देशमात्रे मेदि० “अङ्गुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते” इत्युक्ते ३ परिसाणभेदे च देवीपु०।
प्रादेशन = न० प्र + आ + दिश–ल्युट्। दाने अमरः।
प्रादेशिक = त्रि० प्रदेशे भवः ठक्। प्रदेशभवे
प्रादोष(षि)क = त्रि० प्रदोषे भवः वा अण्ठञौ। प्रदोषभवे स्त्रियां ङीप्।
प्रादोहनि = पु० स्त्री प्रदोहनस्यापत्यम् इञ्। तदपत्ये। ततः यूनि फञ् तौल्व० तस्य न लुक्। प्रादोहनायनि तदीये यून्यपत्ये पुंस्त्री०।
प्राधनिक = त्रि० प्रधनं संग्रामः प्रयोजनमस्य ठक्। युद्धोपकरणे भाग० ३। ८। ३१।
प्राधा = स्त्री प्रधैव स्वार्थे ण। दक्षकन्याभेदे काश्यवकलत्रभेदे हरिवं० २२६ अ०। तस्याः अपत्यं ठक्। प्राधेय तदपत्ये पुंस्त्री० तदपत्यानि च देवगन्धर्वादयः भा० आ० ६५ अ०। अग्निपुराणे प्राधेया इत्येव पाठः शब्दकल्पद्रुमे प्रापेय शब्दकल्पनं लिपिकरप्रमादकृतपाठदर्शनात् इति बौध्यम्।
प्राधानिक = त्रि० प्रधान + स्वार्थे ठक् तस्येदं ठक् वा। १ प्रधानशब्दार्थे २ प्रधानसम्बन्धिनि च “प्राधानिकरहस्यञ्च” इत्यादि देवीमाहात्म्यव्याख्यायां गुप्तवत्यां स्थितम्।
प्राधान्य = न० प्रधानस्य भावः ष्यञ्। श्रेष्ठत्वे। भावे त्वप्रधानत्व न० तल् प्रधानता स्त्री तत्रार्थे। “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता” शाब्दिककारिका।
प्राध्व = त्रि० प्रकृष्टोऽध्वा अच्समा०। १ दूरपथे २ प्रह्वे नम्रे ३ बद्धे च हेमच० ब० व्री०। ४ वहुदूरगामिनि रथादौ च।
प्राध्वम् = अव्य० प्र + आ + ध्वन–डमि। १ आनुकूल्ये २ बन्धने ३ नम्रतायाञ्च अमरः।
प्रान्त = पु० प्रकृष्टोऽन्तः। १ शेषसीमायाम् हेमच०। २ ऋपिभेदे पु०। ततः गोत्रापत्ये कृण्वा० फञ्। प्रान्तायन तदपत्ये पुंस्त्री०।
प्रान्तदुर्ग = न० प्रान्ते दुर्गं नृपाश्रयस्थानभेदः। दुर्गभेदे शब्दार्थक०।
प्रान्तर = न० प्रकृष्टमन्तरं व्यवधानं यत्र। १ दूरगम्ये पथि। २ वृक्षादिछायाशून्ये पथि ३ वने ४ कोटरे च मेदि०।
प्रान्तशून्य = पु० प्रान्ते शून्यमस्य। छायादिरहिते पथि शब्दर०
प्रापणिक = पु० प्र + आ + पण–“प्राङि पणिकषः” उणा० किकन्। पण्यविक्रेतरि उज्ज्वलद०।
प्राप्त = त्रि० प्र + आप–कर्मणि कर्त्तरि वा क्त। १ लब्धे २ आसादिते ३ भूते अमरः। ४ उपस्थिते च।
प्राप्तकाल = पु० प्राप्तः कालोऽस्य। करणयोग्ये काले ३। ३। १३३ पा० सूत्रे दृश्यम्।
प्राप्तपञ्चत्व = त्रि० प्राप्तं पञ्चत्वं मरणं येन। मृते अमरः। सरणे देहस्य पञ्चभूतात्मकताप्राप्तेस्तस्य तथात्वम्। प्रेतशब्दे दृश्यम्।
प्राप्तभार = पु० प्राप्तः भारः तद्वहनकालोऽस्य। भारसहवृषादौ शब्दरत्ना०।
प्राप्तरूप = त्रि० प्राप्तं रूपं येन। १ मनोहरे २ पण्डिते अमरः। ३ रूपवति च।
प्राप्ति = स्त्री प्र + आप–भावे क्तिन्। १ उदये २ धनादिवृद्धौ ३ लाभे च अमरः। ४ प्रापणे ५ संहतौ शब्दरत्ना० अणिमाद्यष्टविधैश्वर्य्यमध्ये ६ ऐश्वर्य्यभेदे ऐश्वर्य्यशब्दे दृश्यम्। बार्हद्रथजरासन्ध्यनृपसुताभेदे ७ कंसकलत्रभेदे भा० स० १३ अ०। हरिवं० ९१ अ० “अप्राप्तस्यैव या प्राप्तिः सैव संयोग उच्यते” भामा० उक्ते ८ संयोगस्वरूपे द्रव्यगुणमेदे च। सा० द० उक्ते ९ मुखाङ्गभेदे “युक्तिः प्राप्तिः समाधानमिति” मुखाङ्गान्युद्दिश्य “संप्रधारणा चार्थानां युक्तिः, प्राप्तिः सुखागमः” लक्षिता। कामस्य भार्य्याभेदे भा० आ० ३६ अ०। नील० ता० उक्ते ८ सहमभेदे।
प्राप्तिसम = न० गौ० उक्ते जात्युत्तरभेदे “प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या विशिष्टत्वात् प्राप्तिसमः” सृ०। “हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा?। न तावत् प्राप्य। प्राप्त्यामविशिष्टत्वादसाधकः द्वयोर्विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा?। अप्राप्यसाधकं न भवति। नाप्राप्तः प्रदीपः प्रकाशयतीति। प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः” वात्स्था० “प्राप्त्या विशेषादनिष्टा पादनेन प्रत्यवस्थानम्” गौ० वृ० ५। ७ यथा आत्मा स क्रियः क्रियाहेतुगुणवत्त्वादित्यादौ क्रियाहेतुगुणवत्त्वेनैव किमिति क्रियावत्त्वं साध्यते। किमिति क्रियावत्त्वेन तादृशगुणवत्त्वं न? उभयोरविशेषादिति”।
प्राप्त्याशा = स्त्री ६ त०। १ लाभेच्छायाम् २ प्रारब्धकार्यस्यावस्थाभेदे “अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः। आरम्भो यत्न प्रत्याशा नियतापि फलाशया” इत्युद्दिश्य “उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवा” इति सा० द० लक्षिता।
प्राप्य = त्रि० प्र + आप–ण्यत्। १ गम्ये २ लभ्ये च ३ व्याकरणोक्ते “क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिह कथ्यते” इत्युक्ते ४ कर्मभेदे कर्मन्शब्दे १७३० पृ० दृश्यम्। प्र + आप–ल्यप्। लब्ध्वेत्यर्थे अव्य०।
प्राप्यकारिन् = त्रि० प्राप्य विषयदेशं गत्वा करोति विषयप्रकाशम् कृ–णिनि। विषयदेशं गत्वा विषयप्रकाशकारके चक्षुरादौ इन्द्रिये। तत्र न्यायमते चक्षुष एव प्राप्यकारिता नान्यस्य। वेदान्तमते श्रवणस्यापीति भेदः।
प्राबोधिक = पु० प्रबोधाय हितं ठक्। १ ऊषःकाले शब्दमा० प्रबोधः प्रवोधनं तत्र नियुक्तः तत्प्रयोजनमस्य वा ठञ्। २ मागधे प्रातःस्तुतिपाठकभेदे।
प्राभञ्जन = न० प्रभञ्जनो देवताऽस्य अण्। स्वातिनक्षत्रे तस्य तद्देवताकत्वात् तथात्वम्। तस्यापत्यम् इञ्। प्राभञ्जनि हनूमति “आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्” भट्टिः।
प्राभव = न० प्रभोर्भावः अण्। १ प्रभुत्वे २ श्रेष्ठत्वे च।
प्राभवत्य = न० प्रभवतो भावः ष्यञ्। विभुत्वे मनुः ८। ४१२
प्राभाकर = न० प्रभाकरस्य इदम् तन्मातं येत्ति वा अण्। १ मीमांसकभेदप्रभाकरसम्बन्धिनि २ तन्मतज्ञे च।
प्राभृत = न० प्र + आ + भृ–कर्मणि क्त। उपढौकनद्रव्ये अमरः। स्वार्थे क। २ प्राभृतक तत्रार्थे हारा०।
प्रामधि = पु० पौलस्त्ये सप्तर्षिमध्ये ऋषिभेदे हरिवं० ७ अ०।
प्रामाणिक = त्रि० प्रमाणेन निर्वृत्तः सिद्धः ठञ्। १ प्रत्यक्षादिप्रसाणसिद्धे २ शास्त्रसिद्धे च स्त्रियां ङीप्। ३ हैतुके ४ मर्य्यादाभिज्ञे ५ शास्त्रज्ञे ६ परिच्छे दके ७ प्रमाणकर्त्तरि च।
प्रामाण्य = न० प्रमाणस्य भावः। तद्वति तत्प्रकारकत्वरूपे ज्ञानधर्मभेदे तच्च न्यायमते परतोग्राह्यं मोमांसकादिमते स्वतः, स्वमामग्र्या वा ग्राह्यमिति भेदः। प्रमात्वशब्दे दृश्यम्।
प्रामाद्य = पु० प्रमाद्यत्यनेन प्र + मद बा० करणेण्यत्। १ वासकवृक्षे शब्दच०। भावे ण्यत्। २ प्रमादे न०।
प्रामीत्य = न० प्र + मी–भावे क्तिन् तत्र साधु ष्यञ्। १ ऋणे त्रिका० पाठान्तरम्। प्रमीतस्य भावः ष्यञ्। २ मरणे न०।
प्राय = पु० प्र + अय–इण्–वा घञ्–अच् वा। १ मृत्यौ २ अनशनमृत्यौ ३ बाहुल्ये च मेदि० “प्रायेण सामग्र्यविधौ गुणानाम्” कुमारः। ततः प्रकृत्यादि० सर्वविभक्त्यपवादस्तृतीया प्रायेण गार्ग्यः सि० कौ०।
प्रायण = न० प्र + अय–भावे ल्युट्। १ देहत्यागेन स्थानान्तरगमने मनुः ९। ३२३ श्लो० उदा०। २ प्रारम्भे च “सैषा त्रिवृत्प्रायणा” ताण्ड्य० ब्रा० २। १५। ३ “त्रिवृत् ऋग्स्तवकः प्रायणे प्रारम्भे यस्याः” भा०।
प्रायणीय = त्रि० प्रायणं आरम्भदिनं तत्र विहितः छ। १ प्रारम्भदिने २ गवामयनप्रथमाहादौ च विहिते अतिरात्रे यागभेदे च “प्रायणीयेऽद्य सुत्यामेके” कात्या० श्रौ० १२। ६। २६ “प्रायणीयोऽतिरात्र एवाह साध्यः” देवनाथः। ताण्ड्य० ब्रा० ४। २। १। २ भाष्ये द्वितीयाहस्यैव प्रायणीयसंज्ञा तन्निरुक्तिश्च दर्शिता यथा “प्रायणीयमेतदहर्भवति” मू०। “एतद्वक्ष्यमाणमहः प्रायणीयं प्रकर्षेण यान्ति गच्छन्ति स्वर्गमनेनोत व्युत्पत्तेः। एतत्संज्ञं गवामयनस्य द्वितीयमहरनुष्ठेयं भवति। यद्यपि श्रुत्यन्तरे प्रथमविहितस्थातिरात्रस्थैव प्रायणीय इति संज्ञा प्रसिद्धा तथापि प्रथमोत्तमयोरतिरात्रयोः सर्वत्र साधारणत्वादस्यैवाह्नो गवामयने असाधारणं प्राथम्यमिति कृत्वा एतदादिकं गवायनस्वरूपमित्यस्मिन् द्वितीयेऽहनि प्रायणीयशब्दोऽत्र प्रयुज्यते। उक्तमहन्नौमनिर्वचनद्वरा प्रशंसति” भा० “प्रायणीयेन वा अह्ना देवाः स्वर्गं लोकं प्रायन् यत् प्रायंस्तत् प्रायणीयस्य प्रायणीयत्वम्” मू० “पुरा देवाः प्रायणीयेन प्रायणीयाख्येन खल्वह्ना स्वर्गं लोकं प्रायन् प्राप्ताः यद्यस्मात् प्रायन् स्वर्गं प्रागमन् तस्मादस्याह्नः प्रायणीयत्वं प्रायणीयसाधारणत्वात् प्रायणीयमिति नाम सम्पन्नम्” भा०। तदहः कर्त्तव्यत्वादतिरात्रस्य प्रायणीयसंज्ञेति बोध्यम्।
प्रायश्चित्त = न० पापक्षयमात्रसाधनत्वेन विधिवोधिते कर्मभेदे यघोक्तं प्रा० वि० तत्राङ्गिराः “पायो नाम तपः पोक्तं चिर्त्तः” निश्चय उच्यते। तपो निश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम्। निश्चयसंयुक्तं पापक्षयसाधनत्वेन निश्चितमित्यर्थः। तथा हारीतः “प्रयतत्वाद्वापचितमशुभं नाशयतीति प्रायश्चित्तम्”। एतेन पापक्षयमात्रसाधनं कर्म प्रायश्चित्तमिति तल्लक्षणम्। मात्रशब्दात् तुलापुरुषाश्वमेधादिव्यावृत्तिः। तत्र पापविशेषस्यैव कामाकामकृतस्य शक्तिविशेषस्य ततो नाशः मतभेदेन अव्यवहार्य्यशब्दे ४७०। ७१ दर्शितः। “प्रायश्चित्तैरपेत्येनो यदज्ञानं कृतं भवेत्। कामतो व्यवहार्य्यस्तु वचनादिह जायते” याज्ञ० वचनस्य प्रा० वि० व्याख्यानं मतभेदेन दर्शितं यथा “कामत इति अज्ञानकृतपापप्रायश्चित्तेन कामकृतपापापगमो न भवति। किन्तु व्यवहार्य्य तामात्रम्। ननु सति पापे कथं व्यवहर्य्यतामात्रम् अत्राह वचनादिति। अयमभिप्रायः अर्द्धप्रायश्चित्तानुष्ठानेनार्द्धपापक्षयात् सम्भाषणस्पर्शनदर्शनादिलघुव्यवहारो न दुष्टः न तु भोजनपरिणयनव्यवहारोऽपि वचनादेव यथा कुनखित्वादिसूचितमहापापशेषसद्भावे व्यवहार्य्यतेति। अथ वा अकारप्रश्लेषादुयथोक्तेन प्रायश्चित्तेन कामतोऽषि पापक्षयो भवत्येव किन्त्वव्यवहार्य्यः पापाभावेऽपि वचनात्। अत एव मनुः “बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः। शरणागतहन्तृंश्च स्त्रीहन्तृंश्च न संवसेत्”। याज्ञवल्क्यः “शरणागतबालस्त्रीहिंसकान् संवसेन्न तु। चीर्णव्रतानपि सदा कृतघ्नसहितानिमान्। कृतनिर्णेजनांश्चैव न जुगुपसेत कर्हिचित्” इति मनुवचनं त्वज्ञानकृतमहापापे बोद्धव्यमिति। भवदेवस्तु सर्वत्र “मृतः शुद्धिमवाप्नुयादिति” दर्शनादत्राव्यवहार्य्यतावचन निन्दार्थनित्याह। जिकनस्तु पापकर्मणा हि द्वयं जन्यते शरीरततमप्रायत्यमात्ममतञ्च पापं तच्च स्पर्शादौ वैटिककर्मणि चानर्हत्वलक्षणं तेनात्र कामनाकृते केवलशरीरदोषः प्रायश्चित्तेनापनीयते जन्मान्तरकृतदुरितस्येवात्मनः शरीरान्तरस्य व्यवहाराधिकारित्वम् आत्मगतञ्च पापं भोगादेव क्षीयते” तन्न कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् इति मनुवचनादुक्तश्रुतिविरोधाच्च”। मिताक्षरामतन्तु अवहार्य्य शब्दे दर्शितम्। प्रायत्तिश्चस्य काम्यत्वं नैमित्तिकत्वं नित्यत्वञ्च यथाह जावालः “काम्यानां सफलार्थञ्च दोषधातार्थमेव च। अतः काम्यं नैमित्तिकञ्च प्रायश्चित्तमिति स्थितिः। चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये। निन्द्यैश्च लक्षणैर्युक्ता जाथन्तेऽनिष्क्रतैनसः”। ज्ञानाज्ञानन्नत- पापयोः प्रायश्चित्तभेदो यथा अङ्गिराः “अकामतः कृते पापे प्रायश्चित्तं, न कामतः। स्यात्त्वकामकृते यत्तु द्विगुणं बुद्धिपूर्वके”। प्रायश्चित्ताकथने दोषो यथा “आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः। जानन्तो न प्रयच्छन्ति तेऽपि तद्दोषभागिनः। अनर्च्चितैरनाहुतैरपृष्टैश्चैव संसदि। प्रायश्चित्तं न वक्तव्यं जानद्भिरपि जल्पतः। न्यायतो मार्गमाणस्य क्षत्रियादेः प्रणामिनः। अन्तरा ब्राह्मणं कृत्वा व्रतमेतत् समादिशेत्” हारोतः “यथावयो यथाकालं यथाप्राणञ्च ब्राह्मणे। प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्मपाठकैः। तस्मात् कृच्छ्रमथाप्यर्द्धं पादं वापि (पादमेव नातो न्थूनम्) विधानतः। ज्ञात्वा बलाबलं कालं प्रायश्चित्तं प्रकल्पयेत्। अशक्तावनुग्रहमाह पराशरः। “दुर्वलेऽनुग्रहः कार्य्यस्तथा वै शिशुवृद्धयोः। अतोऽन्यथा भवेद्दोषस्तस्यान्नानुग्रही भवेत्”। स्नेहादिनानुग्रहे दोषो यथा “स्नेहाद्वा यदि वा लोभात् मोहादज्ञानतोऽपि वा। कुर्वन्त्यनुग्रहं ये तु तत् पापं तेषु गच्छति। शास्त्रीयप्रायश्चित्तमुदाहृत्य पश्चादनुग्रहः कार्य्य इत्याहाङ्गिराः “कृत्वा पूर्वमुदाहारं यथोक्तं धर्मवक्तृभिः। पश्चात् कार्य्यानुसारेण शक्त्या कुर्वन्त्यनुग्रहम्”। वृद्धत्वादिभेदात् प्रायश्चित्तं यथा “अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः। प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च”। पापनिष्क्रमणोपायानाह मनुः “ख्यापनेनानुतापेन तपसाऽध्ययनेन च। पापकृन्मुच्यते पापात्तथा दानेन चापदि”। आपदीत्यनेन अध्ययनतपसोर्दानमनुकल्प इत्युक्तम्। एतद्धिंसाव्यतिरिक्तविषयम्। हिंसायान्तु दानं मुख्यम्। यथा भविष्ये “हिंसात्मकानां सर्वेषां कीर्त्तितानां मनीषिभिः। प्रायश्चित्तकदम्बानां दानं प्रथममुच्यते”। तथा मनुः “दानेन ब्रधनिर्णेकं सर्पादीनामशक्नुवन्। एकैकशश्चरेत् कृच्छ्रं द्विजः पापापनुत्तये”। समान्यप्रायश्चित्तान्याह संवर्त्तः “हिरण्यदानं गोदानं भूमिदानं तथैव च। नाशयन्त्याशु पापानि भहापातकजान्यपि”। यमः “शोषणेन शरीरस्य तपसाऽध्ययनेन च। पापकृन्मुच्यते धावात् दानेन च दमनेच”। मनुः “कृत्वा पापं हि सन्तप्य तस्मात् पापात् प्रमुच्यते। नैतत् कुर्य्यां पुनरिति निवृत्त्या पूयते नरः”। विष्णुपुराणम् “प्रायश्चित्तान्यशेषाणां कृष्णानुस्मरणं परम्”। यमः “गवाह्निकं देवपूजा वैदभ्यासः सरित्प्लवः। नाशयन्माशु० पापानि महा- पातकजान्यपि”। गोतमः “हिरण्यं गौर्वासोऽश्वो भूमिस्तिला घृतमन्नमिति देयानि”। एनान्येवानादेशे विकल्पेन क्रियेरन् एनसि लघुनि लघूनि गुरुणि गुरूणि”। विष्णुपुराणम् “एवं विषयभेदाद्वैव्यवस्थाप्यानि पुत्रक!। प्रायश्चित्तानि सर्वाणि गुरूणि च लथूनि च। अन्यथा हि महावाहो! लघूनामुपदेशतः। गुरूणामुपदेशो हि निषप्रयोजनतां व्रजेत्”। महाभारते “यद्यकार्य्यशतं कृत्वा कृतं गङ्गाभिषेचनम्। सर्वं दहति गङ्गाम्भस्तूलराशिमिवानलः”। शुद्धिकारणानि व्रतान्याह विश्वामित्रः “कृच्छ्रचान्द्रायणादीनि शुद्ध्यभ्युदयकारणम्। प्रकाशे वा रहस्ये वा संशयेऽनुक्तके स्फुटे। प्राजापत्यं सान्तपनं शिशुकृच्छ्रं पराककः। अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यकृच्छोऽतिकृच्छ्रकः। भहासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः। जलोपवास कृच्छ्रश्च ब्रह्मकूर्चस्तु शोधकः। एते समस्ता व्यस्ता वा प्रत्येकमेकशोऽपि वा। पातकादिषु सर्वेषु पापकेषु प्रयत्नतः। कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये। शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणं तथा। यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति। उपवासस्त्रिरात्रं वा मासं पक्ष तदर्द्धकम्। षडहद्वादशाहादि कार्य्यं शुद्धिफलार्थिना। उपपातकयुक्तानामनादिष्टेषु चैव हि। प्रकाशे च रहस्ये च अभिसन्ध्याद्यपेक्षया। जातिशक्तिगुणान् दृष्ट्वा सकृदुबुद्धिकृतं तथा। अनुबन्धादिकं दृष्ट्वा सर्वं कार्य्यं यथाक्रमम्”। प्रकाशकृते पापे व्रतानि मुख्यानि रहस्यकृते जपादीनि यथा प्राजापत्यादीन्यभिधाय मनुः “एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः। अनाविष्कृतपापांस्तु मन्त्रैर्होमैस्तु शोधयेत्”। देवलः “प्रकाश उक्तं यत्किञ्चित् विंशभागो रहस्यके। त्रिंशभागः षष्टिभागः कल्प्यो जात्याद्यपेक्षया” प्रा० वि०। क्वचिद्विषयभेदे प्रायश्चित्ताभावः यथोक्तं प्रा० त० अथ गोवधाद्यपवादः। पराशरः “धूर्य्येषु वहमानेषु दण्डेनाभिहतस्य च। काष्ठेन लेष्टुना वापि पाषाणेन तु ताडितः। मूर्च्छितः पतितश्चैव मृतो वा सद्य एव च। एवं गतानां धूर्य्याणां प्रवक्ष्यामि यथाविधि। उत्थितस्तु पदं गच्छेत् पञ्च सप्त दशाथ वा। ग्रासं वा यदि गृह्णाति तोयं वा पिनति स्वयम्। पूर्वव्याधिविनष्टानां प्रायश्चित्तं न विद्यते” यदि व्याधिप्रयुक्तानां वृषाणां हलयोजनमात्रेण स्वल्पतरदण्डाघातेन वा मूर्च्छया पतनं भवति अनन्तरं गमनं ग्रासादौ कृते मरणं भवति तदा गमनग्रासग्रहणतोयपानैस्तदानीन्तनमरणे हेत्वभावं निश्चित्य पूर्वव्याधिविनष्टत्वं ज्ञायते। यदि तु पूर्वव्याधिरहित एव प्रहारजनितव्याधिना ग्रासादि कृत्वापि म्रियते तदा प्रायश्चित्तमस्त्येव। संवर्त्तः “यन्त्रणे गोचिकित्सायां मूढगर्भविमोचने। यत्ने कृते विपत्तिः स्यात् प्रायश्चित्तं न विद्यते। औषधं स्नेहमाहारान् दद्याद् गोब्राह्मणेषु च। प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते। दाहच्छेदशिराभेदप्रयत्नैरुपकुवताम्। द्विजानां गोहितार्थं वा प्रायश्चित्तं न विद्यते” मूढगर्भः अन्तर्मृतगर्भः मुह वैचित्त्ये इत्थनेन तथार्थत्वात्। याज्ञवल्क्यः “क्रियमाणोपकारे तु मृते विप्रे न पातकम्। विपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च”। विशेषमाहाङ्गिराः “शृङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्मोचनेऽपि वा। दशरात्रं चरेत् कृच्छ्रं सुस्था सा यदि गौर्भवेत्”। द्विजानां गवाञ्च हितार्थमित्यर्थः। अत्र प्राणरक्षार्थमाहारादिदानैर्मरणे दोषाभावस्य वाचनिकत्वात् गललग्नान्न मरणे नात्मघातादि। एवं “गोपालको गवां गोष्ठे धूमं यस्तु न कारयेत्। मक्षिकालीननरके मक्षिकाभिः स भक्ष्यते” इति देवीपुराणानुसारादग्निं प्रज्वाल्य तत्रैव स्थितस्य दैवात्तदग्निना मरणे दोषाभावः। तत्रास्थितस्य तु अपालननिमित्तगोबधजन्यदोषः। मिताक्षरायां पराशरः “कूपे स्वाते च धर्मार्थे गृहदाहे च ये मृताः। ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते” इदन्तु बन्धनरहितस्य पशोः कदाचित् दाहादिना मृतविषयम्। इतरत्रापस्तम्बोक्तं “कान्तारेष्वथ वा दुर्गे गृहदाहावटादिषु। यदि तत्र विपत्तिः स्यात् पाद एको विधीयते”। इति ज्ञेयम्। एतदुवचनं यमस्येति भवदेवभट्टः। चिकित्सायां पापाभावो यथावदुपचारे बोध्यः। न पुनः सन्निपाताभिभूतस्योदकपानादिना। णतएव मनुः “चिकित्सायाञ्च सर्वेषां मिथ्याप्रचरतां दमः”। काश्यपोऽप्यत्र प्रायश्चित्तमाह “दोग्ध्री दमनातिदोहान्नासापाशदामघण्टाभरणयोजनात् तेलपानौषधविनियोगाद्व्यापन्नानां प्रायश्चित्तं ब्राह्मणेभ्यो विनिवेद्य सशिखवपनं कृत्वा प्राजापत्यकृच्छ्रमाचरेत्। चोर्णान्ते गां दक्षिणां ब्राह्मणाय दद्यात् धेनुं तिलधेनुं वेति”। प्रायश्चित्तपूर्वाहकृत्यम्। शङ्खलिखितौ “वाप्य केशनखान् पूर्वं घृतं प्राश्य बहिनिशि। प्रत्येकं नियतं कालमात्मनो ब्रतमादिशेत्। प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत्”। केशधारणेच्छायां द्विगुणव्रतांदिकमाह हारीतः “राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः। केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत्। केशानां धारणार्थं तु द्विगुणं व्रतमाचरेत्। द्विगुणे तु व्रते चीर्णे द्विगुणा दक्षिणा भवेत्। विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम्। ऋते महापातकिनो गोहन्तुश्चापकीर्णिनः”। सधवास्त्रीणां विशेषमाह भवदेवभट्टधृतं वचनम। “वपनं नैव नारीणां नानुव्रज्या जप्राद्रिकम्। न गोष्ठे शयनं तासां न च दध्याद्गवाजिनम्। सर्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम्। सर्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम्”। पापभेदेषु प्रायश्चित्तभेदाः प्रायश्चित्तविवेविवेकादौ दृश्याः विस्तरभयान्नोक्ताः। तस्येदं छ। प्रायश्चित्तीय तदाचरणे न०।
प्रायश्चित्ति = स्त्री प्रायः (अव्ययम्)। तपञ्चश्चित्तिः चित–भावे क्तिन् ६ त०। प्रावश्चित्तशब्दार्थे
प्रायश्चित्तिन् = त्रि० प्रायश्चित्तं कर्त्तव्यत्वेनास्त्यस्य इनि। प्रायश्चित्तार्हे स्त्रियां ङीप्। “प्रायश्चित्ती भवेत् पूतस्तत् पापं तेषु गच्छति” प्रा० त०। ठन् प्रायश्चित्तिक तत्रार्थे
प्रायस् = अव्य० प्र + अय–असि। १ बाहुल्ये २ तपसि ब्रतादौ च “प्रायः प्रयोधरसमुन्नतिरत्र हेतुः” उद्भटः। “प्रायो नाम तपः प्रोक्तम्” स्मृतिः।
प्रायाणिक = त्रि० प्रयाणाय हितं ठक्। यात्रिकद्रव्ये शङ्खचामरादौ प्रायात्रिकादयोऽप्यत्र।
प्रायिक = त्रि० प्रायेण भवः ठक्। प्रायभवे।
प्रायुद्धेषिन् = पु० प्रायुधिप्रकृष्टयुद्धार्थं हेषते हेष–णिनि। अश्वे शब्दच०।
प्रायोग = पु० प्रयुज्यते शकटादौ प्र + युज–कर्मणि घञ् कुत्वम् दीर्घः। शकटादौ नियोगार्हे वृषे ऋ० १०। १०६। २ भा०।
प्रायोगिक = त्रि० प्रयोगं नित्यमर्हति छेदा० ठञ्। नित्यप्रयोगार्हे।
प्रायोज्य = न० प्र + आ + युज–णिच्–कर्मणि यत्। प्रयोजनीये “प्रायोज्यं न विभज्येत” कात्था० स०। “प्रायोज्यम प्रयोजनार्हं यथा पण्डितस्य पुस्तकादि न तन्मूर्खैर्वि भजयोयमिति” दायभागः।
प्रायोपविष्ट = त्रि० प्रायाय अनशनमृत्यये उपविदः उप + विश–क्त। अनशनेन मरणायोद्युक्ते भा० आश्व० ८० अ०।
प्रायोपवेश = पु० प्रायाय अनशनमृत्यये उपवेशः स्थितिः। सङ्कल्पपूर्वकम् सकलकार्यत्यागेन अनशनमरणाथमुद्यमे भा० व० २५० श्लो०। भावे ल्युट्। प्रायोपवेशन तत्रार्थे न०। भा० व० १५१३८ श्लो०।
प्रायोपेत = त्रि० भीमो भीमसेन वत् प्रायः प्रायोपवेशः तेन उपेतः। प्रायोपवेशनयुते भा० सौ० १६ ज०।
प्रारब्ध = न० प्र + आ + रभ–आरम्भे क्त प्रकृष्टमारब्धं स्वकार्य्यं जननाय कृतारम्भं येन! १ देहाद्यारम्भके २ अदृष्टभेदे तस्य च भोगेनैवक्षय इति शास्त्रे प्रसिद्धम्। “अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्। नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” शास्त्रेण प्रारब्धकर्मणो भोगं विना नाशाभावस्योक्तेः “ज्ञानानि सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन!” गीतायां ज्ञानस्य सर्वकर्मनाशकत्वोक्तिः प्रारअकर्मातिरिक्तविषयेत्याकरे द्रष्टव्यम्। २ कृतारम्भे त्रि०।
प्रारब्धि = स्त्री प्र + आ + रभ–करणे क्तिच्। १ गजबन्धनदामनि त्रिका०। भावे क्त। २ आरम्भे।
प्रारम्भण = न०प्र + आ + रभ–ल्युट् मुस्। प्रकर्षेणारम्भे। प्रारम्भणं प्रयोजनमस्य अनुप्र० छ। प्रारम्भणीय तत्प्रयोजनके त्रि०। प्र + आ + रभ–भावे घञ् सुम्। प्रारम्भप्रकर्षेण आरम्भे पु०
प्रारोह = त्रि० प्ररोहः शीलमस्य छत्त्रा० ण। प्ररोहणशीले स्त्रियां टाप्।
प्रार्ण = न० प्रकृष्टमृणं वृद्धिः। १ प्रकृष्टे ऋणे प्रा० ब०। २ तद्युते त्रि०
प्रार्थना = स्त्री प्र + अर्थ–युच्। १ याच्ञायां २ हिंसायाञ्च। ३ गर्भाङभेदे सा० द० “संग्रहश्चानुमानञ्च प्रार्थना क्षिप्तरेव च” गर्भाङान्युद्दिश्य “रतिहर्षोत्सबानान्तु प्रार्थनं प्रार्थना भवेत्” इति लक्षिता। ल्युट्। प्रार्थन याचने हिसने च न०। ४ मुद्राभेदे “प्रसृताङ्गलिकौ हस्तौ मिथःश्लिष्टौ च सम्मुखे। कुर्य्यात् स्वहृदये सेयं मुद्रा स्यात् प्रार्थनाभिधा” तन्त्रसा०।
प्रार्थनीय = त्रि० प्र + अर्थ–कर्मणि अनीयर्। १ याचनीये अर्थयतेर्याचनार्थत्वेन द्विकर्मकत्वात् गौणे कर्मणि अनीयर्। यतोयाच्यते २ तस्मिन् तस्याविवक्षायां मुख्ये याचनाकर्मणि इति बोध्यम्। ३ द्वापयुगे शब्दर०।
प्रार्थित = त्रि० प्र + अर्थ + क्त। १ याचिते २ अभिहिते मेदि० ३ शत्रुसंयते च त्रिका०।
प्रालम्ब = न० प्रश्वर्षेणालम्यते प्र + आ + लम्ब–अच्। १ ऋजुतया कण्ठात् कम्यपाने माल्यादौ अमरः। २ प्रकर्षेण लम्ब- मानमात्रे त्रि०। संज्ञायां कन् अत इत्त्वम्। प्रालम्बिका स्वर्णादिरचितललन्तिकायां स्वर्णहारभेदे स्त्री अमरः।
प्रालेय = न० प्रकर्षेण लीयते प्र + आ–ली–यत्। आत्त्वे एत्त्वम्, प्रलयाय हितम् अण् नि० एत्त्वम् वा। हिमे अमरः।
प्रालेयांशु = पु० प्रालेयमंशौ यस्य। १ चन्द्रे हला०। तन्नामनामके २ कर्पूरे च। प्रालेयकरादयोऽप्यत्र भयत्र पु०।
प्रावट = पु० प्र + अव–अट्। यवे जटा०।
प्रावण = न० प्र + आ + वन संभक्तौ करणे थ। प्रनिरित्यादि णत्वम्। खनित्रे। प्रकर्षेणावन्यते संश्लिष्यते मृदनेन ऋ० ३। २२। ४ भाष्ये दृश्यम्। वनं समासे अन्तोदात्ततास्थ
प्रावणि = स्त्री प्र + अव–अनि। “हिनुमीनानि लोट्” च ८। ४। १५। १६। हिनुमीनानीति छित्त्वा उज्ज्वलदत्तेन पठित्वा तत्र णत्वमुक्तम्। प्रकृष्टावनौ तस्यायमाशयः “हीनुमीना आनि लोट्” सूत्रद्वये सन्ध्यक्षरेण हिनुमानीति जायते हिनुमीना अनि इत्येषां णत्वम्। योगविभागाच्च आनि लोट् इत्यस्यापीति।
प्रावर = पु० प्र + आ + वृ–करणे अप्। १ प्राचीरे शब्दरत्ना०। २ देशभेदे भा० भी० १२ अ०।
प्रावरण = न० प्र + आ + वृ–करणे ल्युट्। १ आच्छादनवस्त्रे २ उत्तरीयवस्त्रे हेमच०।
प्रावार = पु० प्र + आ + वृ–करणे घञ्। १ उत्तरीयवस्त्रे अमरः भावे घञ्। २ प्रकर्षेण आवरणे पु०।
प्रावारकर्ण = पु० उलूकभेदे भा० व० १९८ अ०।
प्रावारकीट = पु० ७ त०। कीटभेदे जटाधरः।
प्रावास = त्रि० प्रवासे दीयते कार्यं वा व्युष्टा० अण्। १ प्रवासे दीयमाने २ तत्र कार्य्ये च।
प्रावासिक = त्रि० प्रवासाय प्रभवति सन्तापा० ठञ्। १ प्रवाससाधने। प्रवासे साधु गुडा० ठञ्। प्रवासे साधौ च।
प्रावृट्काल = पु० कर्म०। ६ त० वा। वर्षाकाले प्रावृट्समयादयोऽप्यत्र।
प्रावृट्कालवहा = स्त्री ७ त०। नदीभेदे मार्कण्डेयपु० ६७ अ०।
प्रावृडत्थय = पु० ६ त०। १ वर्षातिक्रमे वर्षापगमे ब० व०। २ शरत्काले राजनि०।
प्रावृत = न० प्र + आ + वृ–कर्मणि क्त। १ प्रकर्षेण आवृते वस्त्रे प्रकर्षेण २ आवृतमात्रे त्रि०।
प्रावृति = स्त्री प्र + आ + वृ–करणे क्तिन्। प्राचीरे शब्दर०।
प्रावृत्तिक = पु० प्रवृत्तौ तद्धरणे हितः ठक्। प्रवृत्तिवाहके दूतभेदे हरिवं० १०४ अ०।
प्रावृष्(षा) = स्त्री प्रवृष्यतेऽत्र प्र + वृष–आधारे क्विप् दीर्घः हलन्तत्वात् वा टाप्। वर्षाकाले स च श्रावणभाद्रात्मकः “नभश्च नभस्यश्च वार्षिकावृतू” यजु०। ऋतुशब्दे १४३३ पृ० अस्य सौरचान्द्रत्वविकल्पश्च दृश्यः।
प्रावृषायणी = स्त्री प्रावृषा अयनं यस्स्याः गौरा० ङीष्। कपिकच्छ्वाम् (आलकुशी) अमरः।
प्रावृषिक = पुं स्त्री प्रावृषि कायति शब्दायते कै–क अलुक्स०। १ मयूरे धरणिः। स्त्रियां जातित्वात् ङीष्। प्रावृषि भवः ठञ्। २ वर्षाकालभवे त्रि० स्त्रीयां ङीप्।
प्रावृषिज = पु० प्रावृषि जायते जन–ड अलुक् स०। १ झञ्झानिले त्रिका०। २ वर्षाकालजाते त्रि० “जे विभाषा” वा अलुक् स०। तेन प्रावृडज तत्रार्थे त्रि०।
प्रावृषीण = त्रि० प्रावृषि भवः बा० ख। वर्षाकालभवे ऋ० ७। १०३। ७ भाष्य।
प्रावृषेण्य = त्रि० प्रावृषि भवः एन्य। १ वर्षाकालजाते २ कदम्बवृक्षे पु० मेदि०। ३ कुठजवृक्षे ४ धाराकदम्बे च पु० राजनि०। ५ कपिकच्छ्वाम् ६ रक्तपुनर्नवायां स्त्री राजनि०। प्रावृषि दीयते कार्यं वा एन्य। ७ वर्षाकाले देये करादौ ८ तत्र कार्ये च त्रि०। ९ प्राचुर्य्ये न० शब्दर०।
प्रावृषेय = पु० १ देशभेदे भा० भी० ९ अ०। प्रावृषार्यां भवः ढक्। २ वर्षाकालभवे त्रि० स्त्रियां ङीप्।
प्रावृष्य = पु० प्रावृषि मवः बा० यत्। १ धाराकदम्बे २ कुटजे ३ विकङ्कतवृक्षे च राजनि०।
प्रावेशन = त्रि० प्रवेशने दीयते कार्यं वा व्युष्टा० अण्। १ प्रवेशने दीयमाने २ तत्रकार्य्ये च।
प्रावेशिक = त्रि० प्रवेशाय साधुः ठञ्। प्रवेशसाधने स्त्रियां ङीप्।
प्राशन = न० प्र + अशा–भावे ल्युट्। अन्नादेः प्रकर्षेण भोजने अन्नप्राशनम्।
प्राशास्त्र = न० प्रशास्तर्भावः कर्म वा उद्गा० अञ्। प्रशास्तुरृत्विजः कर्मणि १ शस्त्रशंसने २ तद्भावे च।
प्राशित = त्रि० प्र + अश–भोजन कर्मणि क्त। १ भक्षिते। भावे क्त। २ भक्षणे न० ३ पितृयज्ञे तर्पणे जटा० “प्राशितं पितृतर्पणम्” मनुना तत्रार्थे परिभाषितत्वात्।
प्राशित्र = न० यज्ञिये यवमात्रं पिप्पलमात्रं वाऽवत्ते ब्रह्मोद्देश्यके भागे शिश्नांशभेदे “शिश्नात् प्राशित्रावदानम्” कात्या० १११७। “मित्रस्य त्वा चक्षुषा प्रतीक्ष इति प्राशित्रं प्रतीक्षते” ३। २। १५ “प्राशित्रमवदीयमानमाह्रियमाणं च प्राशित्रं ब्रह्मणो भागः यवमात्रं पिप्पलमात्रं वाऽवत्तः” कर्कः “स यत् प्राशित्रमवद्यति” इत्युपक्रमे। अथास्म महाभागं पर्य्याहरन्ति। ब्रह्मा वै यज्ञस्य दक्षिणत आ- स्तेऽभिगोप्ता स एतं भागं प्रतिविदान आस्त यत् प्राशित्रं तदस्मै पर्य्याहार्षुस्तत्प्राशीदथ यमस्यै ब्रह्मभावं पर्याहरन्ति तेन भागी स यदतऊर्द्ध्वमसंस्थितं यज्ञस्य तदभिगोपायति तस्माद्वा अस्मै ब्रह्मभागं पर्याहरन्ति” शत० ब्रा० १। ७। ४। १८
प्राशित्राहरण = प्राशित्रं ह्रियतेऽनेन हृ–करणे ल्युट्। प्राशित्ररूपभागहरणसाधने गोकर्णाकृतिपात्रभेदे शत० ब्रा० १। ३। १। ६ भाष्यम्।
प्राशु = पु० प्र + अश–भोजने उण्। भक्षणे प्राशवे हितः यत्। प्राशव्य प्रकृष्टभक्षणहिते ऋ० ८। ३१। ६ भा०। प्रा० स०। २ प्रकृष्टशीघ्रे निहण्टुः।
प्राशृङ्ग = त्रि० प्रकृष्टं शृङ्गमस्य वेदे दीर्घः। प्रकृष्टशृङ्गयुक्ते यजु० २४। ३७
प्राश्निक = पु० प्रश्नाय तदुत्तरदानाय साधु ठक्। १ सन्ये त्रिका० २ प्रश्नोत्तरदानाय काधौ त्रि०।
प्राश्नीपुत्र = पु० यजुर्वेदवंशस्थे ऋषिभेदे शत० ब्रा० १४। ९। ४। ३३
प्राष्टवर्ण = पु० प्रकर्षेण अष्टः प्राप्तो वर्णः। पृश्निवर्णे नानावर्णे निरु० १०। ३९
प्रास = पु० प्रास्यते प्र + अस–क्षेपे कर्मणि घञ्। कुन्तास्त्रे अमरः। कुन्तशब्दे २००१८ पृ० दृश्यम्।
प्रासक = पु० प्रास + संज्ञायां कन्। पाशके हेमच० तस्य देवकैः क्षिप्यमाणत्वात् तथात्वम्। स्वार्थे क। २ प्रासास्त्रे पु०।
प्रासङ्ग = पु० प्र + सनृज–कर्मणि घञ् दीर्घः। दम्यवत्सानां स्कन्धे शिक्षार्थमासज्यमाने युगभेदेअमरः। तं वहति यत्। प्रासङ्ग्य तद्वाहके दम्यवृषे अमरः।
प्रासङ्गिक = त्रि० प्रसङ्गादागतः ठञ्। प्रसङ्गागते स्त्रियां ङीप्।
प्रासाद = पु० प्रसीदत्यस्मिन् प्र + सद–आधारे घञ् दीर्घः। देवनृपयोर्गृहे अमरः देवगृहशब्दे ३६७८ पृ० दृश्यम्
प्रासादकुक्कुट = पुंस्त्री० प्रासादे कुक्कुट इव। पारावते त्रिका० स्त्रियां जातित्वात् ङीष्।
प्रासिक = पु० प्रासः प्रहरणमस्य ठक्। कुन्तेन योद्धरि अमरः
प्रास्तारिक = त्रि० प्रस्तारे व्यवहरति ठक्। प्रस्तारे व्यवहारिणि।
प्रास्थानिक = त्रि० प्रस्थाने साधु ठञ्। यात्रिके शङ्कदध्यादौ मङ्गलद्रव्ये स्त्रियां ङीप्।
प्रास्थिक = त्रि० प्रस्थस्य वापः ठञ्। १ प्रस्थमितधान्यवपनाधार क्षेत्रे २ भूमौ स्त्री ङीप्। प्रस्थं सम्भवति (स्वस्मिन् समावेशयति) अवहरति पचति वा ठञ्। प्रस्थमितधान्यादेस्वस्मिन् ३ समावेशके ४ अवहारके ५ पाचके च त्रि० स्त्रियां ङीप्। प्रस्यः परिमाणमस्य ठञ्। ६ प्रस्थपरिमाणयुक्त धान्यराश्यादौ त्रि० प्रस्थेन क्रीतम् ठञ्। ७ प्रस्थेन क्रीते त्रि० स्त्रियां ङीप्। प्रस्थस्य निमित्तं संयोग उत्पातो वा ठञ्। प्रस्थस्य ८ निमित्ते ९ संयोगे १० उत्पाते वा।
प्राह = पु० प्रकर्षेण आहेति शब्दोऽत्र। नृत्योपदेशे शब्दमा०।
प्राह्ण = पु० प्रारम्भोऽह्नः प्रा० स० अच् समा० अह्नादेशः णत्वञ्च। त्रिधाविभक्तदिनस्य पूर्वभागे १ पूर्वाह्णे अमरः। प्रकृष्टमहर्यत्र तिष्ठद्गु० अव्ययी०। २ प्रकृष्टदिनयुते अव्य०।
प्राह्णेतन = त्रि० प्राणे भवः ट्यु टृट् च निएदन्तत्वम्। पूर्वाह्णभवे स्त्रियां ङीप्।
प्राह्णेतरा(मा)म् = अव्य० अतिशयेन प्राह्णे तरप् तमप् वा आमु चकालेत्यादिना सप्तम्या अलुक्। अत्यन्तप्रातःकाले इत्यर्थे।
प्रिथ = त्रि० प्रीणाति प्री–तर्पणे क। १ भर्त्तरि पत्यौ अमरः २ भार्य्यायां स्त्री। ३ प्रियके मृगभेदे पु० स्त्री जटा० ४ ऋद्धिनामोषधौ ५ हृद्ये त्रि० मेदि०। ६ जीवकौषधौ राजनि०।
प्रियवद = त्रि० प्रियं वदति वद–णच् मुम्। १ प्रियकरवादिनि मथुरबाषिणि। २ स्वेचरे ३ गन्धर्वभेदे पु० शब्दमा० वदेरन्तःस्थवादित्वात् प्रियम्वदेति मयुक्तशब्दकल्पनं प्रामादिकमेव। “भुवि भवेन्नभजरैः प्रियंवदा” वृ० र० उक्ते द्वादशाक्षरपादके ४ छन्दोभेदे स्त्री। ५ शक्लन्तलासहचरीभेदे स्त्री शकु० दृश्यम्।
प्रियक = पु० प्रिय + स्वार्थे क संश्नायां कन् वा। १ पीतसालके (पियासाल) २ नीपे ३ चित्रमृगे ४ भ्रमरे ५ प्रियङ्गौ ६ कुङ्कुमे मेदि० ७ धाराकदम्ये ८ अस्वनवृक्षे राजनि०। ९ स्कन्दाबुचरभेदे भा० श० ४६ अ०। तस्यापत्यं विदा० अञ्। प्रैयक चित्वमृगापत्वे पुंस्त्री०।
प्रियकृत् = त्रि० प्रियं करोति क क्विप् तृच्। १ प्रियकारिणि २ विष्णौ पु० “प्रियकृत् प्रोतिवर्द्धनः” विष्णुस०।
प्रियङ्कर = त्रि० प्रियं करोति कृ–राच् मुम्। १ प्रियकारिणि २ श्वेतकण्टकार्य्यां ३ वृहज्जीवन्त्याम् ४ अश्वगन्धायाञ्च रवी राजनि० गौरा० ङीष्।
प्रियङ्करश = त्रि० अप्रियं पियं करोत्यनेन कृ–करणे ख्युन्। ग्रप्रियस्य प्रियतासरणसाधने।
प्रियङ्गु = स्त्री प्रिय + गम–डु नि० मुम् च। १ स्पमामख्याते वृक्षे अमरः प्रियङ्गः शीतला तिक्ता तुवरानिलपित्तहृत्। रक्तादियोमदौर्गन्ध्यस्वेददाहज्वरापहा। गुल्मतृड्विषमोहध्नी तद्वद्गन्धाप्रयङ्गका। तत्फलं मधुरं रूप्यं {??} संग्राहि कफपित्तजित्” भावप्र०। “प्रियङ्गकलिकारम्” इति बुधप्रणाममन्त्रः। २ राजिकायां राजनि० ३ पिप्पल्याम् ४ कङ्गौ (काङ्गनी) धान्ये मेदि० ५ कटुक्यां धरणिः।
प्रियजन = पु० कर्म०। १ हृद्ये जने। २ प्रौढभावानुविज्ञे उज्ज्वलमणिः।
प्रियजीव = पु० प्रियो जीवो यस्मिन्। श्योनाकवृक्षे राजनि०।
प्रियतम = पु० अतिशयेन प्रियः तमप्। १ मयूरशिखावृक्षे २ अतिप्रिये त्रि० शब्दच०।
प्रियता = स्त्री प्रियस्य भावः तल्। १ स्नेहे २ प्रेमणि अमरः। त्व। प्रियत्व तत्रार्थे न० शब्दर०।
प्रियतोषण = त्रि० प्रियं तोषयति तुष–णिच ल्यु। १ प्रियसन्तोषकारके “नारीपादौ स्वहस्तेन धारयेत् जघनोपरि। स्तनापीडकरः कामी कामयेत् प्रियतोषणः” रतिमञ्जर्य्युक्ते २ रतिबन्धभेदे।
प्रियदत्ता = स्त्री दीयमानपृथिव्याम् “नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम्। दाने वाऽप्यथ वाऽऽदाने नामास्याः प्रथमं प्रियम्। य एतां विदुषे दद्यात् पृथिवीं पृथिवीपतिः। पृथिव्यामेतदिष्टं स राज्ञा राज्यमितो व्रजेत्” भा० अनु० ६२ अ०।
प्रियदर्शन = पु० प्रियं दर्शनमस्य। १ क्षीरिकावृक्षे २ शुकखगे च जटा० ३ सुदृश्ये त्रि०।
प्रियप्रायस् = न० प्रियस्य प्रायः बाहुल्यं यत्र। प्रियवाक्ये हेमच०।
प्रियप्रेप्सु = त्रि० ७ त०। इष्टार्थोद्युक्ते जटा०।
प्रियमधु = पु० प्रियं मधु मद्यं यस्य। १ बलरामे हेमच० २ मद्यप्रिये त्रि०।
प्रियमाल्यानुलेपन = त्रि० प्रियं माल्यमनुलेपनं च यस्य। १ माल्यानुलेपनप्रिये २ स्कन्दानुचरभेदे पु० भा० श० ४६ अ०।
प्रियमेध = पु० १ अजमीढस्य पुत्रभेदे “अजमीढस्य वंशाः स्युः प्रियमेधादयो द्विजाः” भाग० ९। २१। १७ श्लो०। २ यज्ञोपेते ऋषिभेदे ऋ० १। ४५। ४ भा०।
प्रियम्भविष्णु = त्रि० अप्रियः प्रियो भवति भू–कर्त्तरि खिष्णुच्। अप्रिये प्रिये भवितरि। खुकञ् प्रियस्मावुक् तत्रार्थे त्रि०।
प्रियरूप = त्रि० प्रियं रूपमस्य। १ हृद्यरूपे। तस्यभावः मनोज्ञा० वुञ्। प्रैयरूपक तस्य भावे न०। कर्म०। २ हृद्ये रूपे न०।
प्रियवचन = त्रि० प्रियं वचनं वैद्यकवचनं वा यस्य। १ प्रियवादिनि वैद्यकोक्तवाक्ये भक्तिभति २ रोगिणि राजनि०। कर्म०। ३ हृद्ये वाक्ये न०।
प्रियवर्णी = स्त्री प्रियो वर्णो यस्याः गौरा० ङीष्। प्रियङ्गौ जटाधरः।
प्रियवल्ली = स्त्री नित्यकर्म०। १ प्रियङ्गौ राजनि० २ हृद्यायवं लतायाञ्च।
प्रियवादिन् = त्रि० प्रियं वदति वद–णिनि। प्रियवाक्यभाषके स्वियां ङीप् “भार्य्या चाप्रियवादिनी” चाणक्यः।
प्रियव्रत = त्रि० प्रियं व्रतमस्य। १ व्रतप्रिये स्वायम्भुवमनोः २ पुत्रभेदे पु० हरिवं० २ अ०।
प्रियश्रवस् = पु० प्रियं श्रवः श्रवणं यस्य। परमेश्वरे भाग० १। ६। ३३।
प्रियसख = पु० कर्म० ६ त०। वा, अच्समा०। १ हृद्ये सख्यौ २ प्रियस्य सख्यौ च। स्त्रियां ङीष्। ३ खदिरे शब्दच०।
प्रियसङ्गमन = त्रि० प्रिययोः सङ्गमनं यत्र। १ प्रिययोर्मेलनस्थाने २ कश्यपादित्योर्मेलनस्थाने देशभेदे पु० “यत्रादितिः कश्यपश्च महात्मानौ दृढव्रतौ। प्रियसङ्गमनं नाम तं देशं मुनयोऽवदन्” हरिवं० १३४ अ०।
प्रियसत्य = न० कर्म०। १ तथ्ये अथ च प्रिये सुनृतवाक्ये हेमच० प्रिय सत्यं यस्य। २ सत्यप्रिये त्रि०।
प्रियसन्देश = पु० प्रियं सन्दिशति सम् + दिश्र–अण् उप० स०। १ चम्पकवृक्षे भावे घञ् ६ त०। २ प्रियसंवादे शब्दच०।
प्रियसाल(क) = पु० कर्म० स्वार्थे क वा। असनवृक्षे (प्रियासाल) राजनि०।
प्रियादि = विशेष्यवाचिनि समानाधिकरणस्त्रीलिङ्गशब्दे परे ब० ब्री० पूर्वस्य पुंवद्भावे पर्युदस्ते शब्दगणे व च गणः या० ग० सृ० उक्तो यथा “प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगत् भक्ति सचिवा स्वा स्वसा कान्ता क्षान्ता सभा चपला दुहिता वामना तनया”। सुन्दरी प्रिया यस्य। सुन्दरी प्रिय इत्यादि।
प्रियाम्बु = पु० प्रियं पितॄणां प्रियमम्बु मूले सिक्तं जलमस्य। १ आम्बवृक्षे राजनि०। २ जकप्रिये त्रि०।
प्रियार्ह = त्रि० प्रियभर्हति अर्ह–अण् उप० स०। १ प्रियवाक्यादियोग्ये २ विष्णौ पु० “अभिप्रायः प्रियार्होऽर्हः” विष्णु स०।
प्रियाल = पु० प्रियाय अलति पर्य्याप्नोति अण्–अच्। प्रियसाले (पियासाल) २ द्राक्षायां स्त्री राजनि०। भावप्रपियाल इत्येन पाठः “प्रियालस्तु खरस्कन्धश्चारो बहुलवल्कलः। राजादनस्ताप्रसेष्टः सन्नकर्द्रूर्द्ध्वतष्पटः। चारः पित्तकफास्रघ्नस्तत् फलं सधुरं गुरु। खग्धं सरं मरुत्पित्तदाहज्वरतृषापहम्। पियालमज्जा मधुरो वृष्यः पित्तानिलापहः। हृद्योऽतिदुर्जरः स्निग्धो विष्टम्भी चामवर्द्धनः” भावप्र०।
प्रियोदित = न० कर्म०। चाटुवाक्ये शब्दरत्ना०।
प्री = तर्पणे भ्वा० उभ० सक० अनिट्। प्रयति ते अप्तैपीत् अप्रैष्ट पिप्राय पिप्रिये
प्री = प्रीतौ कान्तौ (इच्छायाम्) सक० दिवा० आत्म० अनिट्। प्रीयते अपैष्ट पिप्रिये।
प्री = तर्पणे सक० कान्तौ तृप्तौ अक० क्र्या० उभ० अनिट्। प्रीणाति प्रीणीते अप्रैषीत् अप्रैष्ट पिप्राय पिप्रिये। प्रीतः। णिच्बुक्। प्रीणयति ते।
प्री = तर्पणे सक० चु० उभ० अनिट्। प्राययति ते अपिप्रयत्–ते। अबापि नुक् प्रीणयतीत्येके।
प्रीण = त्रि० प्री–णिच् कर्त्तरि अच्। १ प्रीणनकारके करणे अच्। २ नर्मणि मेदि०। पुरणार्थप्रशब्दात् भवार्थे ख। २ पुराणे त्रि० त्रिका०।
प्रीणन = न० प्री–णिच्–नुक्–ल्युट्। तर्पणे अमरः।
प्रीणस = पु० प्रीणि–बा० असच्। गण्डके राजनि०।
प्रीत = त्रि० प्री–कर्त्तरि क्त। हृष्टे अमरः।
प्रीति = स्त्री प्री–भावे क्तिच्। १ हर्षे २ आनोदे ३ तृप्तौ च। विष्कुम्भादियोगेषु ४ द्वितीययोगे। ५ कामस्य पत्नीभेदे रत्याः सपत्न्याञ्च “वेश्याऽभङ्गवती नाम विभूतिद्वादशी व्रतम्। समाप्य माममासस्य द्वादश्यां लवणाचलम्। निवेदयन्ती गुरुवे शय्याञ्चोपस्करान्विताम्। अलङ्कृत्य हृषीकेशं सौवर्णामरपादपम्। स चानङ्गवतो वेश्या कामदेवस्य साम्प्रतम्। पत्नी, सपत्नी संजाता रन्याः प्रीतिरिति श्रुता” मात्स्ये ८२ अ०।
प्रीतिजुष = त्रि० प्रीतिं जुषते जुष–क। १ प्रीतिभाजि २ अनिरुद्धपत्न्यामुषायां स्त्री शब्दरत्ना० “विश्वकेतुः प्रीतिजुषा सुतः” त्रिका० तत्पुत्रोक्तौ।
प्रीतिद = त्रि० प्रीतिं ददाति दा–क। प्रीतिदायके (भा~ड) प्रहासिनि पु० हेमच०।
प्रीतिदत्त = त्रि० ३ त०। १ प्रीत्या दत्ते २ स्त्रीधनभेदे न० यथाह मिता० कात्यायनः “प्रीत्या दत्तं तु यत्किञ्चित् श्वश्वा वा श्वशुरेण वा। पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते”। भर्तृप्रीतदत्तस्थावरे तु विशेषः दाय० उक्तो यथा “मत्त्रा प्रीतेन यदृत्तं स्त्रियै तस्मिन् मृते तत्। सा यथा काममश्रीयात् दद्याद्वा स्थावरादृते”।
प्रीतिदाय = पु० व्रीत्या दायते दा–कर्मणि घञ्। प्रीत्या दत्ते “श्वशुरात् प्रीतिदायं तु प्राप्य सा प्रीतमामसा” भा० आश्व० ८९ अ०।
प्रीतिभोज्य = पु० प्रीत्या भोग्यम्। प्रीव्यैव भोज्ये कन्नादौ “अस्रानि प्रीतिमोज्यानि श्वापद्भोज्यानि वा पुनः। न च संप्रीयसे राजन्। म चैवापद्गतावयम्” भा० उ० ९० अ०। “संप्रीतिभोज्याज्यन्नानि” इति मुद्रितपुस्तके पाठः।
प्रीतिवर्द्धन = त्रि० प्रीति वर्द्धयति वृध–णित्–ल्यु। १ सन्तोष- वर्द्धके २ विष्णौ पु० “प्रियकृत् प्रीतिवर्द्धनः” विष्णुस०।
***