प्रा = पूर्त्तौ अदा० प० सक० अनिट्। प्राति अप्रालीत् पप्रौ कविकल्पद्रुमे प्राया इति पाठः तत्रार्थे।

प्रांशु = त्रि० प्रकृष्टा अशषोऽस्य। १ उच्चे उन्नते अमरः। वैवस्वतमनोः २ पुत्रभेदे पु० हरिवं० १० अ०। वत्सप्रीनृपस्यसुदक्षिणायां जाते ३ पुत्रभेदे पु० मार्क० पु० ११८ अ०।

प्राकर = पु० द्युतिमन्नृपस्य पुत्रभेदे मार्क० पु० ५३ अ०।

प्राकरणिक = त्रि० प्रकरेण प्राप्त ठक्। प्रकरणप्राप्ते।

प्राकर्षिक = त्रि० प्रकर्षं नित्यमर्हति छैदा० ठञ्। नित्यप्रकर्षार्हे

प्राकषिक = पु० प्र + आ + कष–किकन्। १ स्त्रीणां नर्त्तके २ परदारोपजीविनि च उजज्ज्वलद०।

प्राकाम्य = न० प्रकामस्य भावः ष्यञ्। १ अष्टविघैश्वर्य्यमध्ये इच्छानभिधातरूपे १ ऐश्वर्य्ये २ स्वाच्छन्द्यानुमतौ च हेमच० “प्राकाम्यं ते विभूतिषु” कुमारः। अणिमन्शब्दे ९६ पृ० ऐश्वर्य्यशब्दे १५४९ पृ० दृश्यम्।

प्राकार = पु० प्रकीर्य्यते प्र + कॄ–आधारे घञ् दीर्घः। इष्टकादि- रचिते वेष्टनाकारे प्राचीरादौ “ऊर्द्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभावहम्। प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयं तथा। गृहिणां शुभद्रं द्वारं प्राकारस्य गृहस्य च। न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम्” ब्रह्मवै० पु० ११३ अ० तन्मानाद्युक्तम्। अस्य क्लीवत्वमार्षम्। भावे घञ्। २ सर्वतो विस्तारे पु०।

प्राकारमर्दिन् = त्रि० प्राकारं मृद्रति मृद–णिति ६ त०। प्राकारभेदके। ततः बाह्वा० अपत्ये इञ् संयोगोपधेनन्तत्वात् न टिलोपः। प्राकारमर्दिनि तदपत्ये पुंस्त्री०।

प्राकारीय = त्रि० प्राकारायायम् छ। १ प्राकारप्रकृतौ इष्टकादौ। प्राकार आसामिष्टकानां स्यात् प्राकारोऽस्मिन् वा स्यात् छ। २ सम्भबत्प्राकारायासिष्टकायाम् ३ सम्भवत्प्राकारे देशे च।

प्राकृत = त्रि० प्रकृष्टमकृतमपकार्य्यं यस्य। १ नीचे। प्रकृतेरयम् अण्। २ प्रकृतिसम्बन्धिनि। प्रकृत्या स्वभावेन निर्वृत्तः अण्। ३ स्वभावसिद्धे “बभूव प्राकृतः शिशुः” भाग० १०। प्रकृतेः संस्कृतशब्दात् आगतः अण्। ४ नाटकादौ प्रसिद्धे अपभ्रंशशब्दभेदे अमरः। प्राकृतभाधायाः संस्कृतशब्दप्रकृतिकत्वात् तथात्वं प्राकृतकङ्केश्वस्वादौ वररुच्यादिप्रणीते ग्रन्वेऽस्य विस्तरो दृश्यः। स्वभावतः सिद्धयोः ५ मित्रामित्रयोः। स्वदेशानन्तरदेशवर्त्ती नृपः प्राकृतः शत्रुः सन्निकृष्टविषयग्राहित्वसम्भवात्तस्य तथात्वम् तत्रानन्तरविषयस्थो नृपः प्राकृतं मित्रं मध्यवर्त्तिनृपविषयस्य उभयोः जिघृक्षासम्भवात् तथात्वम्। “स्याताममित्रौ मित्रे च सहजप्राकृतावपि” माघ २ यसर्गश्लोकव्याख्याने मल्लिनाथः।

प्राकृतज्वर = पु० “वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्” ज्वराधिकारे माधवोक्ते ज्वरभेदे।

प्राकृतप्रलय = कर्म०। प्रलयभेदे प्रलयशब्दे दृश्यम्।

प्राकृतमित्र = न० कर्म०। स्वभावसिद्धे मित्रे विषयानन्तरस्थ नृपरूपात् प्राकृतशत्रोः अव्यवहितोत्तरविषयस्थे नृपे।

प्राकृतशत्रु = पु० कर्भ०। विषयानन्तरवर्त्तिनि नृपे।

प्राकृतिक = त्रि० प्रकृत्या निर्वृत्तः ठञ्। प्रकृतिसाध्ये स्वभावसिद्धे

प्राक्छाय = त्रि० प्राक् पूर्ववर्त्तिनी छाया यत्र दिने। हस्तिनः हस्तनक्षत्रस्य पूर्ववर्त्तिछायायुते दिने “प्राक्छाये कुञ्जरस्य च” मनुः। कुञ्जरच्छायशब्दे २०६८ पृ० दृश्यम्।

प्राक्तन = त्रि० प्राचि काले देशे प्राच्यां दिशि वा भवः व्यु तुट् च। प्राग्भवे “प्रपेदिरे प्राक्तनजन्मविद्याः” कुमा०। स्त्रियां ङीप्। २ पूर्ववर्त्तिनि कारण च।

प्राक्तनकर्म = न० प्राक्तनं कारणं कर्म यस्य। कर्मरूपकारणहेतुके अदृष्टे १ पापे २ पुण्ये च जटा०।

प्राक्पद = पु० कर्म०। पूर्ववर्त्तिनि पदे।

प्राक्पुष्पा = स्त्री प्राक् पुष्पं यस्यां अजा० टाप्। प्रान्वर्त्ति पुष्पान्वितलतायाम्।

प्राक्फल = पु० प्राक्फलमस्य। पुष्पं विना फलयुते षनसे (का~टाल) जटाधरः।

प्राक्फल्गुनी = स्त्री कर्म०। पूर्वफल्गुनीनक्षत्रे तत्र भवः ठञ्। प्राक्फल्गुनिक वृहस्पतौ।

प्राक्फल्गुनीभव = पु० प्राक्फल्गुन्यां भवति भू–अच्। वृद्धस्पतौ हारा०।

प्राक्फाल्गुन = पु० प्राक्फाल्गुन्यां भवः अण्। वृहस्पतौ शब्दच०

प्राक्शङ्कवत् = पु० ऋषिभेदे भ० श० ५३ अ०।

प्राक्सन्ध्या = स्त्री कर्म०। पूर्वसंख्यायां सूर्य्योदयासन्नायां सन्ध्यायाम्।

प्राक्सवन = न० प्राक्कालिकं सवनम्। यज्ञिये प्रथमसवने।

प्राक्सौमिक = त्रि० सोमात् सोमयागात् प्राक् अप्ययी० प्राक्सोमं तत्र भवः ठञ् उत्तरपदवृद्धिः। सामयागात् प्राक्कर्त्तव्ये अग्निहोत्रदर्शपौर्णमासपशुयागचातुर्भास्ययागरूपे १ क्रियाकलापे २ इष्टौ स्त्री ङीप्। “प्राक्सौमिकीः क्रियाः कुर्य्यात् यस्यान्नं वार्षिकं भवेत्” ताज्ञ० वाक्यव्याख्यायां मिता० दृश्यम्।

प्राक्स्रोतस् = स्त्री प्राग्वाहि स्रोतोऽस्याः। १ नद्यां “प्राक्स्रोतसो नद्यः प्रत्यक्स्रोतसो नदा नर्मदां विनेत्याहुः” मल्लि० धृतवाक्यम्।

प्रागग्र = त्रि० प्राक् अग्रं यस्य। पूर्वाभिमुखे।

प्रागद्य = त्रि० प्रगदिनोऽदूरदेशादि प्रगद्या० चतुरर्थ्या० ञ्य। प्रगदिनोऽदूरदेशादौ।

प्रागभाव = पु० प्राग्वर्ती अभावः। इह कपाले घटो भविष्यतीत्यादिप्रतीतिसिद्धे संसर्गाभावभेदे “प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च। एवं त्रैविध्यसापन्नः संसर्गाभाव इष्यते” भाषा०। तल्लक्षणन्तु ध्वंसप्रतियोगित्वे सत्यभावत्वम्। स च उपादानदेशः एव वर्त्तते नान्यत्र। तस्य च सामान्यधर्मानच्छिन्नप्रतियोगिताकत्वं नास्ति किन्तु तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वम्। स च प्रतियोगिजनकः इति न्यायमते। साख्यादिमते भावस्यानागतावस्थैव प्रागभावपदवाच्येति भेदः।

प्रागल्भ्य = न० प्रगल्भस्य भावः ष्यञ्। १ प्रगल्भतायां “प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते” ज्यो० त०। “निःसाध्वसत्वं प्रागलभ्यम्” सा० उक्ते ३ भयशून्यत्वरूपे स्त्रीणां सात्त्विकभावभेदे च।

प्रागुदीची = स्त्री प्राच्या उदीच्या अरन्तराला दिक् ब० स०। पूर्वोत्तरदिशोरन्तरालायां दिशि विदिशि ईशानकोणे।

प्राग्ज्योतिष = पु० कामरूपदेशे हमच०। तत्र पूर्वं नरकासुरस्य पुरी आसीत् यथा कालिका० ३७ अ० “करतोया सत्य गङ्गा पूर्वभागावधिश्रिता। यावल्ललितकान्तास्ति तावद्देशं पुपं तव। तत्र देवी महामाया योगनिद्रा जगत्प्रसृः। कामाख्यारूपमास्थाय सदा तिष्ठति शोभना। तत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः। तत्रैव दश दिक्पालाः स्वे स्वे पीठे व्यवस्थिताः। तत्र खयं महादेवो ब्रह्मा वाऽहञ्च (हरिश्च) सर्वदा। चन्द्रः सूर्यश्च सततं वसेत् तत्रैव पुत्रक!। सर्वे क्रीडार्थमायाता रहस्यदेशमुत्तमम्। तत्र श्रीः सर्वतो भद्रा भोग्यमत्र सदा बहु। अत्रैव हि स्थितो ब्रह्मा प्राङ् नक्षत्रं समर्ज ह। ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा। अत्र त्वं वस भद्रन्ते ह्यभिषिक्तो मया स्वयम्”। नरकं प्रति भगवदुक्तिः। द्वापरे तत्र भगदत्तो नृप आसीत् यज्ञोक्तम् “तैरेव सहितः सर्वैः प्राग्ज्योतिषिसुपाद्रवत्। यत्र राजा महनासीद्भगदत्तो विशाव्यतेः!” भा० स० २५ अ०।

प्राग्भक्त = न० सुश्रुतोक्ते भक्तभक्षणात् प्राक्कासरूपे औषधसेवनकासभेदे “अत ऊर्द्धं दशौषधकालान्वक्ष्यामः। तत्र निर्भक्तं १ प्राग्भक्त २ मधोभक्तं ३ मध्येभक्त ४ भन्तराभक्तं ५ सभक्तं ६ सामुद्गं ७ मुहुर्मुहुर्ग्रासं (सभक्तमभक्तं वा) ८। ९ ग्रासान्तर १० चेति दशौषधकालाः” इत्युपक्रमे “प्राग्भक्तं नाम यत्तु प्राग्भक्तस्योपयुज्यते। शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्बदनान्निरेति। प्राग्भक्तसेवितमथो बलमादधाति दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः”।

प्राग्भार = पु० प्रकृष्टो भारः प्रा० स०। १ उत्कर्षे २ परभागे “मांसमस्तिष्कपङ्क प्राग्भारः” प्रबोधचन्द्रोदयः। ३ पर्वताग्रभागे त्रिका०। प्राग्भाव तत्रार्थे त्रिका० पाठान्तरम्। स च प्राग्मर्त्तित्वे च।

प्राग्रहर = त्रि० प्राग्रे प्रकृष्टाग्रे ह्रियतेऽसौ हृ–अप्। श्रेष्ठे अमरः।

प्राग्राट = न० प्राग्रे अटति अट–अच्। अधनदध्रि (पातलादै) त्रिका०।

प्राग्र्य = त्रि० प्रकर्षेणाग्रे भवः यत्। श्रेष्ठे अमरः।

प्राग्वंश = पु० प्राक् वंशः सपत्रीकयजमनादिसमुदायोऽत्र। हविर्मृहात् पूर्वभागस्थे यजमानादिस्थित्यर्थे गृहे अमरः। २ विष्णौ च “प्राग्वंशो वंशवर्द्धनः” विष्णुसं०। “अन्थस्य वंशः पाश्चात्त्यः अस्य तु वंशः प्रपञ्चः प्रागेव न पाश्चात्त्यः” भा०।

प्राग्वचन = न० प्रागुक्तं वचनम्। मन्वादिभिः पूर्वमुक्ते वचने। “यथोक्तमेतद्वचनं प्रागेव मनुना पुरा। प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः” भा० शा० १२१ अ०।

प्राग्वत् = अव्य० प्रागिव वति। पूर्वदेशकालतुल्ये।

प्राघात = पु० प्राहन्यतेऽत्र प्र + आ + हन–आधारे घञ्। युद्धे हेमच०।

प्राघार = पु० प्र + घृ–क्षरणे भावे घञ् दीर्थः। यज्ञादौ वह्नेरुपरि घृतादेःक्षरणे अमरः।

प्राघुण = पु० प्र + आ–घुण–क। अतिथौ त्रिका०।

प्राघुणिक = पु० प्रघुण + स्वार्थे ठक्। अतिथौ

प्राघूर्णिक = पु० प्र + आ + घुण–भावे घञ् तत्र साधु ठञ्। तिथौ हिमच०

प्राङ्ग = न० प्रहतं प्रकृष्टं बाङ्गमस्य प्रा० ब०। ३ पणववाद्ये शब्दर० २ प्रकृष्टदेहयुते त्रि० स्त्रियां स्याङ्गत्वात् ङीष्।

प्राङ्गण = भ० प्रकृष्टमङ्गनं पूर्वं णत्वम्। १ गृहभूमौ शब्दर० (उठान) २ अजिरे ३ पणववाद्ये च हेमच० “अभद्रदं सूर्यवेधं प्राङ्गणञ्च तथैव च” ब्रह्म० वै० ज० १०३ अ० उक्तेः तस्य सूर्यविद्धत्वमशुभम्। पूर्वपश्चिमायतत्वे हि तस्य सूर्यविद्धत्वं दक्षिणोत्तरायतत्वे च चन्द्रविद्धत्वमिति भेदः।

प्राङ्न्याय = पु० “आचारेणावसन्नोऽपि पुनर्सेखयते यदि। सोऽभिधेयो जितः पूर्वं प्राङ्न्यायश्च स उच्यते” इत्युक्ते व्यवहारविषये उत्तरभेदे १०९० पृ० दृश्यम्।

प्राङ्मुख = त्रि० प्राक् पूर्वदिक्स्तं सुखमस्य। पूर्वदिङ्मुखे स्त्रियां ङीप्। यत्र विशेषो नोक्तः तत्र प्राङ्सुखत्वं आश्वलायनगृह्यसूत्रादौ दृश्यम्।

प्राच् = अव्य० प्राचि सप्तम्यर्थे असि तस्य लुक्। प्राचीत्यर्थे।

प्राच् = त्रि० प्र + अन्च–क्विप्। पूर्वे १ देशे २ काले च ३ दिशि स्त्री ङीप्। ४ पूज्यपूजयोरन्तरालदिशि स्त्री “यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो वदन्ति। तथा पुरः पूजकपूज्ययोश्च सदागमज्ञा प्रवदन्ति तन्त्रे” ति० त० धृतवाक्यम्। एतच्च “शिवपूजव्यतिरिक्तविषयम्” बाचस्पतिमिश्राः। हलन्तत्वात् वा टाप्। “प्राचाजिह्वम्” ऋ० १। १४०। ३। “प्राचामन्युः” ऋ० ८। ६१। ९ “प्राची वै दैवी दिक् पुरस्ताद्वै देवाः, प्रत्यञ्चो मनुष्यास्तानुपावृत्ताः तस्मात्तेभ्यः प्राङ्तिष्ठन् जुहोति” शत० ३। १। १। ६

प्राच = पु० प्र + आ + चल–भृतौ बा० ड। १ प्रकर्षेण रक्षके “प्राचो-ऽस्यह्ने” ताण्ड्य० ब्रा० १। ९२ सू०। प्र + अन्च–घञार्थे भावे घञ्। २ प्रकृष्टगमने प्राचैःशब्दे ऋ० भाष्ये दृश्यम्।

प्राचिका = स्त्री प्राचिनोति मधु प्र + आ + चि–ड स्वार्थे कापि अत इत्त्वम्। बनमक्षिकायाम् अमरः।

प्राचिन्वत् = पु० राजभेदे “जनमेजयः खल्वनन्तां नामोपयेमे माधवीं तस्यामस्य जज्ञे प्राचिन्वान्नाम। यः प्राचीं दिशं जिगाय यावत् सूर्य्योदयात् ततस्तस्य प्राचिन्वत्त्वस्” भा० आ० ९५ अ०।

प्राचीन = त्रि० प्राक् + भवर्थे ख। १ पूर्वदिग्देशादौ भवे। २ वनतिक्तायाम् (आक्नादि) अमरः ३ रास्नायाञ्च स्त्री शब्दच० टाप्।

प्राचीनगर्भ = पु० ऋषिभेदे भा० शा० ३५१ अ०।

प्राचीनपनस = पु० नित्यकर्म०। बिल्वे त्रिका०।

प्राचीनबर्हिस् = पु०। १ इन्द्रे २ नृपभेदे च हेमच०। “अत्रिबंशे समुत्पन्नो ब्रह्मवोनिः सनातनः। प्राचीनबर्हिर्भगवां स्तस्मात् प्रचेतसो दश” भा० शा० २०८ अ०। “प्राचीनबर्हिर्भगवान् महानासीत् प्रजापतिः। हविर्धानात् द्विजश्रेष्ठ! येन संवर्द्धिताः प्रजाः। प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने!। प्राचीनबर्हिर्भगवान् ख्यातो भुवि महाबलः” अग्निपु० उक्ते ३ हविर्धम्नः पुत्रे भा० अनु० १४७ अ०।

प्राचीनयोग = पु० प्राचीनो योगोऽस्य। ऋषिभेदे तस्य गोत्रापत्यं गर्गा० यञ्। प्राचीनयोग्य तद्गोत्रापत्ये पुंस्त्री०

प्राचीनयोगिनीपुत्र = यजुर्वेदवंश्यस्थे ऋषिभेदे शत० ब्रा० १४। ९। ४। ३२।

प्राचीनामलक = न० नित्यकर्म०। पानीयामलके अमरः।

प्राचीनावीत = न० “सव्यं बाहुं समुद्धृत्य दक्षिणे तु द्विजातयः!। प्राचीनावीतमित्युक्तं पौत्र्ये कमणि योजयेत्” इत्युक्ते श्राद्धादौ कर्त्तव्ये वामकरे बहिष्कृते सति दक्षिणस्कन्धार्पिते यज्ञसूत्रादौ।

प्राचीनावीतिन् = पु० प्राचीनावीतमस्त्यस्य इनि। तद्युते “उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः। सव्ये प्राचीनावीतो निवीती कण्ठमञ्जने” मनुः। गोभिलः “दक्षिणं बाहुमुद्धृत्य शिरोऽबधाय सव्येऽंसे प्रतिष्ठापयति दक्षिणं कक्षमवलभ्रं मवति एवं यज्ञोपवीती भवति। सव्यं बाहुमुद्धृत्य शिरोऽबधाय दक्षिणेऽंसे प्रतिष्ठापयति सव्यं कक्षमवलम्बनं भवत्येवं प्राचीनावीती भवति”।

प्राचीपति = पु० ६ त०। इन्द्रे त्रिका०।

प्राचीर = न० प्राचीयते प्र + आ–चि–क्रन् दीर्घश्च। सर्वतो वेष्टनाकारे इष्टकादिनिर्मिते आवरणे (पा~चिर) अमरः अस्य पुस्त्वं तन्मानादि च युक्तिकल्पतरावुक्तं यथा “गजैरभेद्यामनुजैरलङ्घ्यः प्राचीरखण्डा नृपतेर्भवन्ति। राजदण्डोन्नताः सर्वे प्राचीराः पृथिवीभुजः। विंशतिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च च। पश्चात् पञ्च च विज्ञेयाः प्राचीराः पृथिवीभुजः। सर्वप्रान्ते त्वावरणो नाम प्राचीर उच्यते। प्रतिप्राकारसंस्थानं द्वारं नाभिमुखस्थितम्”। “राजच्छत्रान्तरे पञ्च राजद्वारे महीपतेः। राजदण्डत्रये सार्द्धे जयद्वारे प्रतिष्ठिताः। अद्वारे राजदण्डार्द्धे प्रांचीराः पृथिवीपतेः। एवं व्यवस्थिते स्थाने मध्यमे तद्धि तिष्ठति। राजच्छत्रद्वयं सार्द्धमायामे जयवस्तुनि। परिणाहे पञ्च राजदण्डास्तिष्ठन्ति मध्यतः। राजपट्टाभिधानेन स्थानमेतन्निगद्यते। अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते”

प्राचेतस = पु० प्रचेतस् + अपत्यादौ अण्। १ बाल्मीकिमुनौ २ प्राचीनबर्हिषो नृपस्य पुत्रे ३ वसणस्य पुत्रे च।

प्राचैस् = न० प्र + आ + चि–बा० डैसि। प्राचीने ऋ० १। ८३। २ भाष्यम्। तत्र च पक्षान्तरे प्राचैरित्यत्र प्राचशब्दस्तृतीयाबहुवचनान्त इत्युक्त्वा प्राचैः प्राञ्चनैरित्युक्तम्।

प्राच्य = त्रि० प्राचि भवः यत्। १ शरावत्या नद्याः प्राग्दक्षिणे देशे अमरः। प्राच्यां दिशि प्राचि देशे काले वा २ भवे त्रि०। “प्राच्यैर्होलका कर्त्तव्या” दायभा०।

प्राच्यवाट = न० प्राच्यो वाटो यस्य। प्राग्देशस्थे दशकुमा०।

प्राच्यवृत्ति = स्त्री “पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेह युग्मयोः” वृ० र० उक्ते १ छन्दाभेदे कर्म०। २ प्राचोनायां वृत्तौ स्त्री ब० स०। ३ तथावृत्तियुते त्रि०।

प्राच्यसप्तसम = त्रि० सप्त समाः प्रमाणमस्य मात्रच् तस्य द्विगुत्वात् लुक् कर्म०। प्राचीने सप्तसमे “द्विगौ समाणे” पा० तस्य प्रकृतिस्वरः।

प्राच्यायन = पुंस्त्री० प्राच्यस्य गोत्रापत्यम् अश्वा० फञ्। प्राच्यस्य गोत्रापत्ये।

प्राच्छ् = त्रि० पृच्छति प्रच्छ–क्विप् निपा० दीर्घश्च। जिज्ञासके प्राड्विवेकः।

प्राजक = पु० प्र + अज–ण्वुल् वीभावाभावः। सारथौ “यत्राप वर्त्तते युग्यं वैगुण्यात् प्राजकस्य च” मनुः।

प्राजन = न० प्र + अज–करणे ल्युट् व्यभावः। तोदने पश्वादेश्चासनदण्डे (पाचनी) अमरः।

प्राजया = अव्य० प्राजनक्रियाम् साक्षा० वा गतिसंज्ञा। प्राजयाकृत्य प्रजया कृत्वा वा।

प्राजरुहा = अव्य० रुहिक्रियायाम् साक्षा० वा गतिसज्ञा। प्राजरुहाकृत्य प्राजरुहा कृत्वा वा।

प्राजहित = पु० गार्हपत्येऽग्नौ कात्या० श्रौ० ८। ६। १३

प्राजापत = त्रि० प्रजापतेः धर्म्यं महिष्या० अण्। प्रजापतेर्धर्म्ये

प्राजापत्य = पु० प्रजापतिर्देवताऽस्य यक्। १ अष्टविवाहमध्ये विवाहभेदे “ब्राह्मोदैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः” मनुना अष्ट विवाहानुद्दिश्य “सहोभौ चरतां धर्ममिति वाचानुभाष्य च। कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः” इति लक्षित “त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्। त्र्यहं परञ्च नाश्नीयात् प्राजापत्यमिति स्मृतम्” इति स्मृत्युक्ते द्वादशाहसाध्ये २ व्रतभेदे न०। ३ प्रजापत्यधिदेवताके चर्वादौ त्रि०। ४ प्रव्रज्याश्रमाङ्गे सर्वस्वदक्षिणकेष्टिभेदे स्त्री “प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम्। आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्” याज्ञ०। ५ रोहिणीनक्षत्रे न० ६ प्रयागतीर्थे न० त्रिका० ७ जैनभेदे पु० हेमच०।

प्राजावत = त्रि० प्रजावत्या धर्म्यं महिष्या० अण्। भ्रातृजायाया धर्म्ये।

प्राजिन् = पु० प्र + अज–णिनि व्यभावः। वक्षिभेदे मेदि० अमरः

प्राजितृ = पु० प्र + अज–तृच् वीभावाभावः। सारथौ।

प्राजेश = न० प्रजेशो देवताऽस्य अण्। १ रोहिणीनक्षत्रे २ प्रजापतिदेवताके चर्वादौ त्रि०। प्राजेश्वरादयोऽप्युभयत्र।

प्राज्ञ = पु० प्रकर्षेण जानाति प्र–ज्ञा–क स्वार्थे अण्। १ पण्डिते अमरः २ राजशुके राजनि०। प्रज्ञाऽस्त्यस्य अण्। ३ बुद्धिमति ४ दक्षे च त्रि०। प्रज्ञा + स्वार्थे ण। ६ बुद्धौ स्त्री टाप् प्राज्ञस्य पत्नी ङीप्। प्राज्ञी ७ प्राज्ञपत्न्यां स्त्री। ७ कल्किनो ज्येष्ठभ्रातरि पु० कल्किपु० २ अ०। प्रकर्षेण अज्ञः। वेदान्तसारोक्ते ८ व्यष्ठ्यु पहितचैतन्ये एकाज्ञानमात्रभासके जीवचैतन्ये पु० “एतदुपहितचैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते। एकाज्ञानावभासकन्वादस्य प्राज्ञत्वम् अस्पष्टोपाधितयाऽनतिप्रकाशकत्वम्” बेदान्तसारः। प्रज्ञ + स्वार्थे अण् स्त्रियां ङीप्। प्राज्ञी ९ सूर्यपत्न्याम् स्त्री।

प्राज्य = न० प्रकृष्टमाज्यं प्र + अन्ज–क्यप् वा। १ प्रकृष्टघृते २ प्रचुरे त्रि० हेमच०।

प्राञ्च् = त्रि० प्र + अन्च् + विच्। पूर्वदेशकालवर्त्तिनि। अञ्चेर्नलोपाभावात् भत्वे प्राञ्च प्राञ्चा इत्येव।

प्राञ्जल = त्रि० प्र + चन्ज–अलच्। १ सरले २ सुबोधे च जटा०।

प्राञ्जलि = त्रि० प्रबद्धोऽञ्जलिर्येन प्रा० व०। १ बद्धाञ्जलिपुटे प्रा० स०। २ बद्धाञ्जलौ पु०।

प्राञ्जलिन् = त्रि० प्राञ्जलिरस्त्यस्य ब्रीह्या० इनि। बद्धाञ्जलियुक्ते स्त्रियां ङीप्।

प्राडाहत = पु० ६ त०। प्रश्नकारकेणाहते तस्यापत्यमिञ् प्राडाहति तदपात्ये ततः यूनि फक् तौल्व० न लुक। प्राडाहतायन तदीये यून्यपत्ये पुंस्त्री०।

प्राड्वि(वा)वेक = पु० अर्थिप्रत्यर्थिनौ पृच्छति प्रच्छ–क्विप् प्राट्, तयोर्वाक्यं विरुद्धाविरुद्धतया विवेचयति वक्ति वा वि + विच–वि + वच–वा संज्ञायां घञ् कर्म०। व्यवहारदर्शनाय राजनियुक्ते १ विचारके स्वयं विचारक २ नृपसहाये च तल्ल्क्षणादिकं वीरमि० उक्तं यथा “विवादे पृच्छति पश्नं प्रतिप्रश्नं तथैव च। प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः” वृहम्पतिः। व्यासोऽपि “विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः। विचारयति येनासौ प्राड्विवेकस्ततः स्मृतः” गौतमेन तु वृहस्पतिवद्योगार्थः प्राड्विवाकशब्दस्य दर्शितः। “प्राड्विवाको वादिप्रतिवादिनौ पृच्छतीति प्राट् ताभ्यामुक्तं सभ्यैः सह विविच्य वक्तीतिप्राड्विवाकः” इति वृहस्पतिना। विचारयतीत्यभिधानाद्विविनक्ति इति विवेकशब्दस्य व्युत्पत्तिरुक्ता। विविच्य वक्तीति विवाक इति। इति गौतमेन। नारदहारीतौ “यथा शल्यं भिषक्कायादुद्धरेद्यत्नयुक्तितः। प्राड्विवाकस्तथा शल्यमुद्धरेद्व्यवहारतः” इति। शल्यञ्च धर्मस्याधर्ममिश्रणम्। यथा च मनुः “बिद्धो धर्मो ह्यधर्मेण सभां यत्रोपतिष्ठते। शल्यञ्चास्य निकृन्तन्ति विद्धास्तत्र सभासद” इति। अयञ्च राज्ञा स्वयंव्यवहारदर्शने क्रियमाणेऽस्य सहयः “सप्राड्विवाकः” इति स्मरणात्। यदा तु राजा कार्य्यान्तरव्यग्रतया स्वास्थ्याभावेन वा स्वयं व्यवहारदर्शनासमर्थस्तदा तत्प्रतिनिधिः। “यदा स्वयंन कुर्य्यात् तु नृपतिः कार्य्यदर्शनम्। तदा मियुञ्ज्याद्विद्वासं ब्राह्मणं कार्य्यदर्शने। सोऽस्य कार्य्याणि सम्पश्येत्सभ्यैरेव त्रिभिर्वृतः। सभामेव प्रविश्याग्र्यामासीनः स्थित एव सः” इति मनुवचनात्। सभ्यग्रहणादमात्यादिनिवृत्तिः त्रिग्रहणात् संख्यान्तरनिवृत्तिः। अस भ्यानामिति स्मृतिचन्द्रिकाकारः। तत्र दृष्टार्थत्वप्रसङ्गा दयुक्तमित्युपलक्षणत्वमेव न्याप्यम्। “अपश्यता कार्यवशा द्व्यवहारान्नृपेण तु। सभ्यैः स ह नियोक्तव्यो ब्रा ह्मणः सर्व धर्मवित्” इति याज्ञवल्क्यवचनाच्च। “यद न कुर्य्यान्नृपतिः स्वयं कार्यविनिर्णयम्। तथा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम्। दान्तं कुलीनं मध्यस्थमनुद्वेगकरं स्थिरम्। परत्रभीरुं धर्मिष्ठमुद्युक्तं क्रोधवर्जितम्” इति कात्यायनस्मरणाच्च। शास्त्रपारगं बहुशास्त्राभियोगशालिनम्। यथा ह स एव “एकं शास्त्रमधीयानो न विद्यात् कार्यनिर्णयम्। तस्माद्बह्वागमः कार्य्यो विवादेषूत्तमो नृपैः”। एवंविधब्राह्मणालाभे क्षत्रियं वैश्यं वा प्रतिनिदधीत न शूद्रम्। तथा च स एव “यत्र विप्रो न विद्वान् स्यात् क्षत्रिथं तत्र थोजयेत्। वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत्” मनुः “जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः। धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन। यस्य राज्ञस्तु कुरुते शूद्रो धर्मविवेचनम्। तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः”। व्यासः “द्विजान् विहाय या पश्येत् कार्य्याणि वृषलैः सह। तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश्च नश्यति”। इदं वचनं स्मृतिचन्द्रिकायाममात्यादिस्थानेऽपि शूद्रं वर्जयेत् किमुत धर्मनिर्णय इत्येवंपरमुक्तम दोषातिशयकीर्त्तनात्। कल्पतर्वादिषु तु प्रकरणाद्व्यवहारदर्शन एव शूद्रवर्जकत्वेन लिखितम्। अयञ्च प्रतिषेधोऽदृष्टार्थ एव राष्ट्रक्षोभादेरदृष्टद्वारकफलस्यैव सङ्कीर्त्तनात्। चण्डेश्वरेण तु शूद्रस्य धर्मज्ञानेऽपि वेदाविरोधप्रतिसन्धानविरहात् तत्प्रतिसन्धानस्य च सम्यग्निर्णयोपायत्वात् त्याग इति युक्तिरप्युक्ता। सा बणिगादिष्वतिप्रसक्तेत्यन्वाचयमात्रम्। एते च सर्वे व्यवहारसम्बद्धाः प्रतिषेधा अभिषिक्तक्षत्रियाधिकारिकास्तत्स्थानापन्नान्याधिकारिकाश्च। प्राड्विवाकादयस्त्वर्थार्थितया ऋत्विक्स्थानीयाः। सप्राड्विवाक इत्यादिना तेषां गुणभावावगमान्नियोगोक्तेश्च। “राजाभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः। धर्मासनगतः पश्येद्व्यवहाराननुल्वणः” इति प्रजापतिवचनात्। अत्र राजशब्दोऽवयुत्यधिकारणन्यायेन क्षत्रियजातिवचनः। अभिषेकसंयुक्त इति वचनात् मृत्यन्तरेऽप्यभिषिक्तक्षत्रियं प्रक्रम्य तदभिधानाच्चानभिषिक्तक्षत्रियस्य नाधिकारः। अतश्च तत्प्रयुक्तशुभाशुभफलयोस्तद्गामितैव। प्राड्विवाकादीनान्तु प्राक्प्रदर्शितेभ्यो न्यायेनापि तं यान्तमित्यादि वाक्येभ्यो राज्ञोऽनिवारणे परं दृष्टादृष्टदोषभागिता। अनियुक्तानान्तु न तत्रापीत्यादि मिताक्षरादौ व्यक्तम्। ब्राह्मणो वेत्यनुकल्पत्वाभिप्रायको वाशब्दो न तुल्यकक्षाधिकारपरः। अनुस्त्वणोऽनुद्धतः”।

प्राण् = पु० प्राणिति प्र + अन–क्विप् पदान्तत्वेऽपि णत्वम्। प्राणे

प्राण = पु० प्र + अण–करणे घञ्। १ ब्रह्मणि त्रिका० “अतएव प्राणः” शा० सू० १। २। १२ अतएव तल्लिङ्गात् प्राणशब्देन ब्रह्मैव तथा हि “सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते” इति छन्दो० उ०। सर्वभूतोत्पत्तिप्रलयहेतुरूपलिङ्गात् ब्रह्मण एव प्राणशब्द वाच्यता १। १। १२ सूत्रभाष्ये दृश्यम्। २ पञ्चवृत्तिके देहस्थे वायौ ३ बोले काव्यजीवने ४ रस ५ अनिले ६ बले च ७ पूरिते त्रि० मेदि०। ८ सूक्ष्मदेहसमष्ट्युपहितचैतन्ये पु० वेदान्तसा०। ९ प्राणोपाधिके जीवे “प्राणीह माता प्राणः पितेति” श्रुतिः। भावे घञ्। १० जीवने च नासाग्रवर्त्तिनि प्रागननवति १२ वायौ “तस्य कर्म नासाग्रतो बहिर्गतिः” श्रीधरस्वामीः। देहस्थः पञ्चवृत्तिकः वायुश्च प्राणापानसमानोदानव्यानरूपः तत्रार्थे ब० व०। तेषां स्वरूपादि शा० ति० व्या० योगार्णवे उक्तं यथा “इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्त्तितम्। आस्यनासिकयोर्मध्ये हृन्मध्ये नाभिमध्यगे। प्राणालय इति प्राहुः पादाङ्गुष्ठेऽपि के चन। अपानयत्यपानोऽयमाहारं च मलार्पितम्। शुक्रं मूत्रं तथोत्सर्गमपानस्तेन मारुतः। इन्द्रगोपप्रतीकाशः सन्ध्याजलदसन्निभः। स च मेढ्रे च पायौ च ऊरुवङ्क्षक्षणजानुषु। जङ्घोदरे कृकाट्यां च नाभिमूले च तिष्ठति। व्यानोध्यानयते चान्नं सर्वव्याधिप्रकोपनः। महारजनसप्रख्यो हानोपादानकारकः। स चाक्षिकर्णयोर्मध्ये कट्योर्वै गुल्फयोरपि। प्रोष्ठस्थाने स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम्। स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः। उद्वेजयति मर्माणि उदानो नाम मारुतः। विद्युतपाकसवर्णः स्यादुच्छूनाशनकारकः। प्यदयोर्हस्तयोश्चापि ततसन्धिषु च वर्त्तते। पीतं भक्षितमाघ्रातं रक्तपित्तकफानिलात्। समं नयति गात्राणि समानो नाम मारुतः। गोक्षीरस दृशाकारः सर्वदेहे व्यवस्थितः”। स च सांख्यमते इन्द्रियाणां सामान्यकरणवृत्तिरूपः न तु वायुविकारः यथोक्तं सां सू० प्र० भा०

“सामान्यकरणवत्तिः प्राणाद्या वायवः पञ्च” सू०। “प्राणादिरूपाः पञ्च वायुवत्सञ्चारात् वायवो ये प्रसिद्धास्ते सामान्था साधारणी करणस्यान्वःकरणत्रयस्य वृत्तिः परिणामभेदा इत्यर्थः। तदेतत् कारिकयोक्तम्। “स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या। सामान्थकर- ष्णवृत्तिः प्राणाद्या वायवः पञ्चः”। इति अत्र कश्चित् प्राणाद्या वायुविशेषा एव ते चान्तःकरणवृत्त्या जीवनयोनि प्रयत्नरूपया व्याप्रियन्त इति कृत्वा प्राणाद्याअन्तःकरणवृत्तिरित्यभेदनिर्देश इत्याह। तन्न। “न वायुक्रिये पृथगुपदेशादिति” वेदान्तसूत्रेणप्राणस्य वायुत्ववायुपरिणामत्वयोः स्फुटं प्रतिषेधादत्रापि तदेकवाक्यतौचित्यात् मनोधर्मस्य कामादेः प्राणक्षोभकतया सामानाधिकरण्येनैवौचित्याच्च। वायुप्राणयोः पृथगुपदेश श्रुतयस्तु “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। स्वं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी” इत्याद्याः। अतएव लिङ्गशरीरमध्ये प्राणानामगणनैऽपि न न्यूनता बुद्धेरेव क्रियाशक्त्या सुत्रात्मप्राणादिनामकत्वादिति। अन्तःकरणपरिणामेऽपि वायुतुल्यसञ्चारविशेषाद्वायुदेवताधिष्ठितत्वाच्च वायुव्यवहारोपपत्तिरिति” प्र० भा०। १२ इन्द्रियस्थाने “सप्त शिरसि प्राणाः प्राणाः इन्द्रियाणि” ताण्ड्य० ब्रा० १। १५। २ “सप्त शीर्षण्याः प्राणाः मुखं नासिके अक्षिणी इन्द्रियाधिष्टानत्वात्” भा०। १३ घ्राणे ग्रहशब्दे २७४६ पृ० सू०। १४ देहस्थच्छिद्रे च तत्र प्राणीत्पत्तिमभिधाय तस्य गौणमुख्यभावः संख्याविशेषावधारणम् इन्द्रियसामान्यवृत्तितो भेदादिकञ्च शा० सू० भा० २। ४ पादे समर्थितं यथा “सप्त गतेर्विशेषितत्वाच्च” सू० “उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः, संख्याविषय इदानीं परिह्रियते। तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति। सम्प्रति तु कतीतरे प्राणा इति सम्प्रधारयति। श्रुतिविप्रतिपत्तेश्चात्र विशयः। क्वचित् सप्त प्राणाः सङ्कीर्त्त्यन्ते “सप्त प्राणाः प्रभवन्ति तस्मात्” इति। क्वचिदष्टौ प्राणा ग्रहत्वेन गुणेन सङ्कीर्त्त्यन्ते “अष्टौ ग्रहा अष्टावतिग्रहाः” इति, क्वचिन्नव “सप्त वै शीर्षण्याः प्राणा द्वाववाञ्ची” इति। क्वचिद्दश “नव वै पुरुषे प्राणा नाभिर्दशमा” इति। क्वचिदेकादश “दशेमे पुरुषे प्राणा आत्मैकादशः” इति। क्वचिद्द्वादश “सर्वेषां स्पर्शानां त्वगेकायंतनम्” इत्यत्र। क्वचित्त्रयोदश “चक्षुश्च द्रष्टव्यञ्च” इत्यत्र। एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः। किं तावत् प्राप्तं सप्तैव प्राणा इति। कतः गतेः, यतस्तावन्तोऽवगम्यन्ते “सप्त प्राणाः प्रभवन्ति तस्मात्” इत्येवंविधासु श्रुतिषु। विशेषिताश्चैते “सप्त वै शी- र्षण्याः प्राणाः” इत्यत्रं। ननु “गुहाशया निहिताः सप्त सप्त” इति वीप्सा श्रूयते, सा सप्तम्योऽतिरिक्तान् प्राणान् गमयतीति। नैष दोषः, पुरुषभेदाभिप्रायेयं वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति न तत्त्वभेदाभिप्राया सप्त सप्तान्येऽन्ये प्राणा इति। नन्वष्टत्वादिकापि संख्या प्राणषूदाहृता कथं सप्तैव स्युः। सत्यमुदाहृता विरोधात्त्वन्यतमा संख्याध्यवसातव्या, तत्र स्तोककल्पनोपरोधात् सप्तसंख्याध्यवसानं वृत्तिभेदापेक्षञ्च सङ्ख्यान्तरश्रवणमिति गम्यते। अत्रोच्यते” भा० “हस्तादयस्तु स्थितेऽतो नैवम्” सू० “हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः श्रूयन्ते, “हस्तो वै ग्रहः स कर्मणातिग्र्हेण गृहीतः, हस्ताभ्यां हि कर्म करोति” इत्येवमाद्यासु श्रुतिषु। एवं स्थिते च (अष्टादिसंख्यत्वे) सप्तत्वमन्तर्भावाच्छक्यते सम्भावयितुम्। हीनाधिकसङ्ख्याविप्रतिपत्तौ ह्यधिका सङ्ख्या संग्राह्या भवति, तस्यां हि हीनान्तर्भवति, न तु हीनायामधिका। अतश्च नैवं मन्तव्यं स्तोककल्पनानुरोधात् सप्तैव प्राणाः स्युरिति। उत्तरसङ्ख्यानुरोधात्त्वेकादशैव ते प्राणाः स्युः। तथा चोदाहृता श्रुतिः “दशेमे पुरुषे प्राणा आत्मैकादशः” इति। आत्मशब्देन चात्रान्तःकरणं परिगृह्यते करणाधिकारात्। ननु एकादशत्वादप्यधिके द्वादशत्वयोदशत्वे उदाहृते, न त्वेकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति यदर्थम् अधिकं करणं कल्प्येत। शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदास्तदर्थानि पञ्च बुद्धिन्द्रियाणि, वचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदास्तदर्थानि च पञ्च कर्मेन्द्रियाणि, सर्वार्थविवयं त्रैकाल्यवृत्ति मन एकमनेकवृत्तिकं तदेव वृत्तिमेदात् क्वचिद्भिन्नवद्व्यपदिश्यते “मनो बुद्धिरहङ्कारश्चित्तञ्च” इति। तथा च श्रुतिः कामाद्या नानाविधा वृत्तीरनुक्रम्याह “एतत् सर्वं मन एव” इति। अपि च सप्तिव शीर्षण्यान् प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युः स्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते, “द्वे श्रोत्रे द्वे चत्तुषी द्वे नासिके एका वाक्” इति। न च तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुं हस्तादिवृत्तीनामत्यन्तविजातीयत्वात्। तथा “नव वै पुरुषे प्राणा नाभिर्दशभी” इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते, न प्राणतत्त्वभेदाभिप्रायेण “ना- भिर्दशमी” इति वचनात्। न हि नाभिर्नाम कश्चित् प्राणः प्रसिद्धोऽस्ति, मुख्यस्य तु प्राणस्य भवति, नाभिरपि एकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते। क्वचिदुपासनार्थं कतिचित् प्राणा गण्यन्ते, क्वचित् प्रदर्शनार्थम्। तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्व किं परमाम्नानमिति विवेक्तव्यम्। कार्यजातवशात्त्वेकादशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम्। इयमंपरा सूत्रद्वययोजना। सप्तैव प्राणाः स्युः यतः सप्तानामेव गतिः श्रूयते “तमुत्क्रामन्तं प्राणोऽनूत्क्रागति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इत्यत्र। ननु सर्वशब्दोऽप्यत्र पठ्यते कथं सप्तानामेव गतिः प्रतिज्ञायत इति, विशेषितत्वादित्याह। सप्तैव हि प्राणाश्चक्षुरादयः त्वक्पर्य्यन्ताः विशेषिताः इह प्रकृताः, “स यत्रैष चाक्षुषः पुरुषः पराङ् पर्य्यावर्त्तत्रे अथारूपज्ञो भवति एकीभवति न पश्यतीत्याहुरित्येवमादिनानुक्रमणेन। प्रकृतगामी च सर्वशब्दो भवति। यथा सर्वे त्राह्मणा भोजिता इति ये निमन्त्रिताः प्राकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते नान्ये, एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्ये इति। नन्वत्र विज्ञानमष्टममनुक्रान्तं कथं सप्तानामेवानुक्रमणं नैष दोषः। मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदेऽपि सप्तत्वोपपत्तेः। तस्मात् सप्तैवप्राणा इत्येव प्राप्ते व्रूमः। हस्तादयस्त्वपरे यप्तभ्योऽतिरिक्ताः प्राणाः प्रतीयन्ते हस्तो वै ग्रहः” इत्यादिश्रुतिषु। ग्रहत्बञ्च बन्धनभावो गृह्यते बध्यते क्षेत्रज्ञोऽनेन ग्रहसंज्ञकेन बन्धनेनेति। स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते शरीरान्तरेष्वपि तुल्यत्वाद्बन्धनस्य। तस्माच्छरीरान्तरसञ्चारीदं ग्रहसंज्ञकं बन्धनमित्यर्थादुक्तं भवति। तथा च स्मृतिः “पुर्य्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते। तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च” इति। प्राङ्मोक्षाद्ग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति। आथर्वणे च विषयेन्द्रियानुक्रमणे “चक्षुश्च द्रष्टव्यञ्च” इत्यत्र तुल्यबद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति “हस्तौ चादातव्यञ्च उपस्थश्चानन्दयितव्यञ्च पायुश्च विसर्जयितव्यञ्च पादौ च गन्तव्यञ्च” इति। तथा “दशेमे पुरुषे प्राणा आत्मैकादशः ते यदास्याच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति” इत्येकादशानां प्राणानामुत्क्रान्तिं दर्शयति। सर्वशब्दोऽपि च प्राणशब्दे न सम्बध्यमानो-ऽशेषान् प्राणानभिदधानी न प्रकरणवशेन सप्तस्वेव व्यवस्थापयितुं शक्यते प्रकरणाच्छब्दस्य च बलीयस्त्वात्। सर्वे ब्राह्मणा भोजिता इत्यत्रापि सर्वेषामेव अवनिवर्त्तिनां ब्राह्मणानां ग्रहणं न्याय्यं सर्वशब्दसामर्थ्यात्। सर्वभोजनासम्भवात् तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिता, इह तु न किञ्चित् सर्वशब्दार्थसङ्कोचकारणमस्ति, तस्मात् सर्वशब्देनात्राशेषाणां प्राणानां परिग्रहप्रदर्शनार्थं सप्तानामनुक्रमणमित्यनवद्यम्। तस्मादेकादशैव प्राणाः शब्दतः कार्य्यतश्चेति सिद्धम्” भा० “अणवश्च” सू० “अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति। अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः। अणुत्वञ्चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, कृत्स्नदेहव्यापिकार्य्यानुपपत्तिप्रसङ्गात्। सूक्ष्मा एते प्राणाः स्थूलाश्चेत् स्युः मरणकाले शरीरान्निर्गच्छन्तो बिलादहिरिवोपलभ्येरन् म्रियमाणस्य पार्श्वस्थैः। परिच्छिन्नाश्चैते प्राणाः सर्वगताश्चेत् स्युः उत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात्, तद्गुणसारत्वञ्च जीवस्य न सिध्येत्। सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत्, न, वृत्तिमात्रस्य करणत्वोपपत्तेः। यदेव तूपलब्धिसाधनं वृत्तिः अन्यद्वा तस्यैव नः करणत्वं तेन संज्ञामात्रे विवाद इति करणानां व्यापित्वकल्पना निरर्थिका। तस्मात् तूक्ष्माः परिच्छिन्नाश्चैते प्राणा इत्यध्यवस्यामः” भा० “श्रेष्ठश्च” सू० “मुख्यश्च प्राणः इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति। नन्विशेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् “एतस्माज्जायते प्राणो ममः सर्वेन्द्रियाणि च” इति, मेन्द्रियमनोव्यतिरेकेणापि प्राणस्योत्पत्तिश्रवणात्, “स प्राणमसृजत” इत्यादिश्रबणेभ्यश्च। किमर्थः पुनरतिदेशः, अधिकाशङ्काकारणार्थः। नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति, “न मृत्युरासीदसृतं न ताह न रात्र्या अह्न आसीत् प्रकेतः आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परं किञ्च नाम” इति। आनीदिति प्राणकर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति। तस्मात् अजः प्राण इति जायते कस्यचिन्मतिः, तामतिदेशेनापनुदति। आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति। अवातमिति विशेषणात् “अप्राखो ह्यमना शुभ्रः” इति च मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात्। तस्मात् कारणसद्भावप्रदर्शनार्थ एवायमानीच्छब्द इति। श्रेष्ठ इति च मुख्यं प्राणममि- दधाति, “प्राणो वाव ज्येष्ठः श्रेष्ठश्च” इति श्रुतिनिर्देशात् भा० “ज्येष्ठश्च प्राणः” सू० “शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात्, न चेत् तस्य तदानीं वृत्तिलाभः स्यात् योनौ निषिक्तं शुक्रं पूयेत न सम्भवेद्वा, श्रोत्रादीनान्तु कर्णशष्कुल्यादिस्थानबिभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम्” भा० “श्रेष्ठश्च प्राणः गुणाधिक्यात्” सू० “न वै शक्ष्यामस्त्वदृते जीवितुम्” इति श्रुतेश्च भा०। “न वायुक्रिये पृथगुपदेशात्” सू० “स पुनर्मुख्यः प्राणः किंस्वरूप इतीदानीं जिज्ञास्यते। तत्र प्राप्तं तावत् श्रुतेर्वायुः प्राण इति, एवं हि श्रूयते, “यः प्राणः स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः” इति। अथ वा तन्त्रान्तरीयाभिप्रायात् समस्तकरण वृत्तिः प्राण इति प्राप्तं, एवं हि तन्त्रान्तरीया आचक्षते। “सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्च” इति। अत्रोच्यते। न वायुः प्राणः नापि करणव्यापारः कुतः पृथगुपदेशात्। वायोस्तावत् प्राणस्य पृथगुपदेशो भवति, “प्राण एव ब्रह्मणश्चतुर्थः पादः, स वाय्ना ज्योतिषा भाति च तपति च” इति। न हि वायुरेय सन् वायोः पृथगुपदिश्यते तथा करणवृत्तेरपि पृथगुपदेशो भवति, यागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात्। न हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत। तथा “एतस्माज्जायते प्राणो सनः सर्वे न्द्रियाणि च। स्वं वायुः” इत्येवमाहयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्त्तव्याः। न च समस्तानां करणनामेका वृत्तिः सम्भवति, प्रत्येकमेकैकवृत्तित्वात्, समुदायस्य चाकारकत्वात्। ननु पञ्जरवालनन्यायेन एतद्भविष्यति यथैकपञ्जरवर्त्तिना एकादश पक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूयैकं पञ्जरं चालयन्ति एवमेकशरीरवर्त्तिनः एकादश प्राणाः प्रत्येकं नियतवृत्तयः सन्तः सम्भूयैका प्राणाख्यां वृत्तिं प्रतिलप्स्यन्ते इति। नेत्युच्यते, युक्तम् तत्र प्रत्येकवर्त्तिभिरबान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः सम्भूयैकं पञ्जरं चालयेयुरिति तथा दृष्टत्वात्। इह तु श्रवणाद्यवान्तरव्यापारोषेताः प्राणा न सम्मूय प्राण्युरिति युक्तं, प्रमाणाभावात् अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य। तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणं गुणभावोपगमश्च तं प्रति वागादीनां न करणवृत्तिमात्रे प्राणेऽवकल्पते, तस्मादन्यो वायुक्रियाभ्यां प्राणाः” कथं तर्हीयं श्रुतिः, “यः प्राणः स वायुः” इति उच्यते। वायुरेवायमध्यात्ममपन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरं नापि वायुमात्रं, अतश्चोमे अपि भेदाभेदश्रुती न विरुध्येते। स्यादेतत्, प्राणोऽपि तर्हि जीववदस्मिन् शरीरे स्वातन्त्र्यं प्राप्नोति, श्रेष्ठत्वात् गुणभावोपगमाच्च तं प्रति वागादांनामिन्द्रियाणाम्। तथा हि अनेकविधा बिभूतिः प्राणस्य श्राव्यते “सुप्तेषु वागादिषु प्राण एकैको जाजर्त्ति प्राण एकैको मृत्युनाऽनाप्तः प्राणः संवर्गो वागादीन् संवृङुक्ते प्राण इतरान् प्राणान् रक्षति मातेव पुत्रान्” इति। तस्मात् प्राणस्यापि जीववत् स्वातन्त्र्य” प्रसङ्गः, तं परिहरति” भा० “चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः” सू० “तुशब्दः प्राणस्य स्वातन्त्र्य व्यावर्त्तयति। यथा चक्षुरादीनि राजप्रकृतिवत् जीवस्य कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि तथा मुख्योऽपि प्राणो राजमन्त्रिवत् जीवस्य सर्वार्थत्वेन उपकरणभूतो न स्वतन्त्रः। कुतः तत्सहशिष्ट्यःदिभ्यः तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते, प्राणसंवादादिषु समानधर्माणाञ्च सह शासनं युक्तं वृहद्रथन्तरादिवत्। आदिशब्देन संहतत्वाचेतनत्वादीन् प्राणस्य स्वातन्त्र्यनिराकरणहेतून् दर्शयति। स्यादेतत् यदि चक्षुरादिवत् प्राणस्य जीवं प्रति करणभावोऽभ्युपगम्येत विषयान्तरं रूपादिवत् तस्य प्रसज्येत रूपालोचनाद्याभिर्वृत्तिभिर्यथा चक्षुरादीनां जीवं प्रति करणभावो भवति। अपि चैकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि यदर्थमेकादश प्राणाः संगृहीताः न तु द्वादशमषरं कार्यजातमवगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञायत इति। अत उत्तरं पठति” भा० “अकरणत्वाच्च न दोषस्तथा हि दर्शयति” सू० “न तावद्विषयान्तरप्रसङ्गो दोषः अकरणत्वात् प्राणस्य। न हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते। न चास्यैतावता कार्य्याभाव एव। कस्मात्, तथा हि श्रुतिः प्राणान्तरेष्वसम्भाव्यमानं सुख्यप्राणस्य वैशेषिक कायं दर्शयति। प्राणसंवादादिषु “अथ ह प्राणा अहं श्रेयसि व्यूदिरे” इत्युपक्रम्य “यस्मिन् व उत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्यते स वा श्रेष्ठः” इति चोप्रन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं मुख्यप्राणस्य वैशेषिकं कार्य्यं दर्शयित्वा प्राणोच्चिक्रमिषायां वागादिशेथिल्यापत्तिं शरीरपातप्रसङ्गञ्च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति। “तान् वरिष्ठः प्राणः उवाच मा मोहमापद्यथाहमेवैतत् पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामि” इति च। एतमेवार्थं श्रुतिराह। “प्राणेन रक्षन्नवरं कुलाये” इति च। सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति। “यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति तदेव उच्छुष्यति तेन यदश्नाति यत् पिवति तेनेतरान् प्राणानवति” इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति। “कस्मिन्नहसुत्क्रान्ते उत्क्रान्तो भविष्यामि? कस्मिन्? वा प्रतिष्ठितेऽहं प्रतिष्ठास्यामीति स प्राणमसृजत” इति प्राणनिमित्ते एव जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति” भा०। “पञ्चवृत्तिर्मनो बद्व्यपदिश्यते” सू०। “इतश्चास्ति मुख्यप्राणस्य वैशेषिकं कार्यं यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु “प्राणोऽपानो व्यान उदानः समानः” इति। वृत्तिभेदश्चायं कार्य्यभेदापेक्षः। प्राणः प्राग्वृत्तिरुच्छ्वासादिकर्मा, अपानोऽवाग्वृत्तिर्निश्वासादिकर्मा, व्यानः तयोः सन्धौ वर्त्तमानो वीर्य्यवत्कर्महेतुः, उदानः ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसान्नयति इति। एवं पञ्चवृत्तिः प्राणः मनोवत् यथा मनसः पञ्च वृत्तयः एवं प्राणस्यापीत्यर्थः। श्रोत्रादिनिमित्ताः शब्दादिविषयाः मनसः पञ्च वृत्तयः प्रसिद्धाः। न तु कामः सङ्कल्प इत्याद्याः परिपठिताः परिगृह्येरन्, पञ्चसङ्ख्यातिरेकात्। नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषयाऽपरा मनसो वृत्तिरस्तीति समानः पञ्चसङ्ख्यातिरेकः। एवं तर्हि परमतमप्रतिषिद्धमनुमतं भवतीति न्यायादिहापि योगशास्त्रप्रसिद्धा मनसः पञ्च वृत्तयः परिगृह्यन्ते प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयो नाम। बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम्। जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वान्मनोवदिति योजयितव्यम्” भा०। “अणुश्च” सू०। “अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः इतरप्राणवत्। अणुत्वञ्चेहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात्। सूक्ष्मः, प्राण उत्क्रान्तौ पार्श्वस्थेनानुपलभ्यमानत्वात्, परिच्छिन्नश्रोत्क्रान्तिनत्यागतिश्रुतिभ्यः। ननु विभुत्वमपि प्राणस्य समाम्नायते, “समः प्लषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण” इत्येवमा दिषु प्रदेशेषु। तदुच्यते, आधिदैविकेन समष्टिरूपेण हैरण्यगर्भेण प्राणात्मना एतद्विभुत्वमाम्नायते नाध्यात्मिकेन। अपि च समः प्लुषिणेत्यादिना साम्यवचनेन प्रतिप्राणिवर्त्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्माददोषः” भा०। “ज्योतिराद्यधिष्ठानन्तु तदामननात्” सू०। “ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्य्याय प्रभवन्ति आहोस्विद्देवताधिष्ठानाः प्रभवन्तीति विचार्य्यते। तत्र प्राप्तं तावद्यथा, स्वकार्य्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति। अपि च देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्यु पगम्यमानाया तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेत, अतः स्वमहिम्नैवैषां प्रवृत्तिरिति, एवं प्राप्ते इदमुच्यते। ज्योतिराद्यधिष्ठानन्त्विति। तुशब्देन पूर्वपक्षो व्यावर्त्त्यते। ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजात स्वस्वकार्य्येषु प्रवर्तत इति प्रतिजानीते। हेतुञ्च व्याचष्टे तदामननादिति। तथा ह्यामनन्ति “अग्निर्वाग्भूत्वा मुखं प्राविशदित्यादि”। अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मनोऽधिष्ठातृत्वमङ्गीकृत्योच्यते। नहि देवतासम्बन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषः सम्बन्धो दृश्यते। तथा “वायुः प्राणो भूत्वा नासिके प्राबिशत्” इत्येवमाद्यपि योजयितव्यम्। तथान्यात्रापि “वानेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च” इत्येवमादिना वागादीनामग्न्यादिज्योतिष्ट्ववचनेनैतभेवार्थं द्रढयति। “स वै वाचमेव प्रथममत्यवहत् सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्” इति च। एवमादिना वागादीनामग्न्यादिभावापत्तिवचनेनैतमेवार्थ द्योतयति। सर्वत्र चाध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणमनयैव प्रत्यासत्त्या भवति। स्मृतावपि “वागध्यात्ममिति प्राहुः ब्राह्मणास्तत्त्वदर्शिनः। वक्तव्यमधिभूतन्तु वह्निस्तत्राधिदैवतम्” इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं प्रदर्शितम्। यदुक्तं स्वकार्य्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्त्तेरन्निति तदयुक्तम् अशक्तानामपि शकटादीनामानडुदाद्यधिष्ठितानां प्रवृत्तिदर्शनात्। उपयथोपपत्तौ चागमाहेवताधिष्ठितत्वमेव निश्चीयते। यदप्युक्तं देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्य जीवस्येति तत् परिहियते” भा०। “प्राणवता शब्दात्” सू०। “सतीष्वपि प्राणानामधिष्ठात्रीषु देवतासु प्राणवता कार्यकरणसङ्घातस्यामिना शारीरेनैवैषां प्राणानां सम्बन्धः श्रुतेरवगम्यते। तथा हि श्रुतिः “अथ यत्रैतदाकाशमनुप्रविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्” इत्येवंजातीयका शारीरेणैव प्राणानां सम्बन्धं श्रावयति। अपि चानेकत्वात् प्रतिकरणमधिष्ठात्रीणो देवतानां न भोक्तृत्वमेकस्मिन् शरीरेऽवकल्पते। एको ह्ययमस्मिन् शरीरे शारीरो भोक्ता प्रतिसन्धानादिसम्भवादवगम्यते” भा०। “तस्य च नित्यत्वात्” सू०। “तस्य च शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वं पुण्यपापोपलेपसम्भवात् सुस्वदुःखोपभोगसम्भवाच्च न देवतानाम्। ता हि परस्मिन्नैश्वर्य्ये पदेऽवतिष्ठमाना न हीमेऽस्मिंच्छरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति। श्रुतिश्च भवति “पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति इति शारीरेणैव च नित्यः प्राणानां सम्बन्धः” भा०। “उतक्रान्त्यादिषु तदनुवृत्तिदर्शनात्” सू०। “तमुत्क्रामन्तं प्राणोऽनुत्क्रामति प्राणममूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इत्यादिश्रुतिभ्यः। तस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरम्य भोक्तृत्वमपगच्छति, करणपक्षस्यैव हि देवता न भोक्तृत्वपक्षस्येति” भा०। “त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्” सू०। “मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ताः, तत्रेदमपरं सन्दिह्यते किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणा आहोस्वित् तत्त्वान्तराणीति। किन्तावत् प्राप्तं मुख्यस्यैवेतरे वृत्तिभेदा इति। कुतः श्रुतेः। तथाहि श्रुतिर्मुख्यमितरांश्च प्राणान् सन्निधाप्य मुख्यात्मतामितरषां ख्यापयति “हन्तास्यैव सर्वे रूपमसामेति तत्र तस्यैव सर्वे रूपमभवन्” इति। प्राणैकशब्दत्वाच्चैकत्वाध्यवसायः, इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वमामद्येत। तस्माद् यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः एवं वागाद्या अप्येकादशेत्येवं प्राप्ते ब्रूमः। तत्त्वान्तराण्येव प्राणाद्वागादीनीति कुतः व्यपदेशभेदात्। कोऽयं व्यपदेशभेदः, ते प्रकृताः, प्राणाः श्रेष्ठं वर्जयित्वाऽवशिष्टा एकादशेन्द्रियाणीव्युच्यन्ते श्वतावेवं अपदेशभेददर्शनात्। “एतस्माज्जायते प्राणो मनः सर्वे- न्द्रियाणि च” इत्यैवं जातीयकेषु श्रुतिप्रदेशैषु पृथक् प्राणो व्यपदिश्यते पृथक् चेन्द्रियाणि। ननु मनसोऽप्येवं वर्जनम् इन्द्रियत्वेन प्राणवत् स्यात् “मनः सर्वेन्द्रियाणि च” इति पृथक् व्यपदेशभेददर्शनात्। सत्यमेतत् स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत् संगृह्यते, प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति। व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते। तत्त्वैकत्वे तु स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न लभते च इति विप्रतिषिद्धं, तस्मात्तत्त्वान्तरभूता मुख्यादितरे। कुतश्च तत्त्वान्तरमूता मुख्यादितरे” भा०। “भेदश्रुतेः” सू०। “भेदेन च वागादिभ्यः प्राणः सर्वत्र श्रूयते “ते ह वाचमूचुः” इत्युपक्रम्य वागादीनसुरपाप्मविध्वस्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम्, “अथ हेममासन्यं प्राणमूचुः” इत्यसुरविध्वंसिभ्यो मुख्यस्य प्राणस्य पृथगुपक्रमात्, तथा “मनो वाचं प्राणं तान्यात्मनेऽकुरत” इत्येवमाद्या अपि भेदश्रुतय उदाहर्त्तव्याः। तस्मादपि तत्त्वान्तरभूता मुख्यादितरे। कुतश्च तत्त्वान्तरभूता मुख्यादितरे” भा०। “वैलक्षण्याच्च” सू०। “वैलक्षण्यञ्च भवति मुख्यप्राणस्येतरेषाञ्च सुप्तेषु वागादिषु मुख्य एको जागर्त्ति “स एव चैको मृत्युनाऽनाप्तः। आप्तास्त्वितरे” तस्यैव प्राणस्यावस्थित्युत्क्रान्तिभ्यां देहधारणपातनहे तुत्व नेन्द्रियाणां विषयालोचनहेतुत्वञ्चेन्द्रियाणाम्। न प्राणस्येत्येवंजातीयको भूयान् लक्षणभेदः प्राणेन्द्रियाणाम्। तस्मादप्येषां तत्त्वान्तरभावसिद्धिः। यदुक्तं “तत्र तस्यैव सर्वे रूपमभवन्” इतिश्रुतेः प्राणएवेन्द्रियाणीति तदयुक्तम् तत्रापि पौर्वपर्य्यालोचनाद्भेदप्रतीतेः। तथा हि “वदिष्याम्येवाहमिति वाग्दध्रे” इति वागादीनीन्द्रियाण्यनुक्रम्य “तानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्राम्यत्येव वाक्” इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय “अथेममेव नाप्नोत् योऽयं मध्यमः प्राणः” इति पृथक्प्राणं मृत्युनानभिभूतमनुक्रामति। “अयं वैनः श्रेष्ठः” इति च श्रेष्ठतामस्यावधारयति। तस्मात्तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभ्रवनं वागादीनामिति मन्तव्यं न तु तादात्म्यम्। अत एव प्राणशब्दस्येन्द्रियेषु, लाक्षणिकत्वसिद्धिः। तथा च श्रुतिः “तत्र तस्यैव सर्वे रूपमभवन तस्मादेते एते नाख्यायन्ते प्राणाः” इति मुख्यप्राणविषयस्यैव प्राणशब्दस्य इन्द्रियेष् लाक्षणिकीं वृत्तिं दर्शयति। तस्मा- त्तत्त्वान्तराणि प्राणाद्वागादीन्द्रियाणीति” शाङ्करभा०। अतएव वेदान्तसारादौ आकाशादिपञ्चतन्मात्राणां समस्तानां रजोऽंशेभ्यः पञ्चवृत्तिकप्राणस्योत्पत्तिमङ्गीचकार तेनापि इन्द्रियेभ्यस्तस्य पृथक्त्वं गम्यते। १५ देहस्थे दशवृत्तिके वायुभेदे प्राणकर्मन्शब्दे दृश्यम्। १६ धातुः पुत्रभेदे पु० “भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुता बुभौ। प्राणश्चैव मृकण्डुश्च” मार्क० ५२ अ०। वैवस्वतमन्वन्तरे १७ सप्तर्षिभेदे पु० हरिवं० ३ अ०। धराख्यवसौः १८ पुत्रभेदे पु० हरिवं० ६ अ०। १९ विष्णौ पु० “ईशानः प्राणदः प्राणः” विष्णुस०। ‘प्राणस्य प्राणः’ इति श्रुतेस्तस्य तथात्वम्। प्राणयति प्राणः “अच्युतः प्राचितः प्राणः” विष्णुस०। “सूतात्मना प्राणयतिचेष्टयति प्रजाः प्राणः” भा० व्युत्पत्तिद्वययोगात् नामद्वयम्। प्राणस्य जलेनैवोपचयस्य करणात् जलमयत्वम् यथोक्तं छा० उ० “आपः पीतास्त्रेधा बिधीयन्ते तासां यःस्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः सः प्राणः” इत्युक्त्वा “अन्नमयं हि सौम्य! मन आपोमयः प्राणस्तेजोमयी वाक्” इति च संक्षिम्योक्त्वा तत्समर्थितं यथा “यथा दध्नः सौम्य! मथ्यमानस्य योऽणि मा ऊर्द्ध्वः समुदीषति तत्सर्पिर्भवति” इतिदृष्टान्तीकृत्य “एवमेव खलु अपां सौम्य! पीयमानानां योऽणिमा स ऊर्द्ध्वः समुदीषति स प्राणो भवतीति” छा० उ०। “यथायं दृष्टान्तः एवमेव खलु सौम्यान्नादेरसस्य भुज्यमानस्यौदर्य्येणाग्निना वायुसहितेन खजेनेव मथ्यमानस्य योऽणिमा स ऊर्द्ध्वः समुदीषति तन्मनो भवति मनोऽवयवैः सह सम्भूय उपत्तिनोति तद्वत् तथाऽपा सौम्य! पीयमानानां योऽणिमा स प्राण इत्यादि” भाष्यम्। २० मूलाधारस्थे वायौ च “मूलाधारोद्गतः प्राणः” शा० ति०।

प्राणक = पु० प्राणेन कायति कै–क। १ जीवमात्रे २ जीवकवृक्षे। स्वार्थे क। ३ बोले च मेदि०।

प्राणकर = त्रि० प्राणं बलं करोति कृ–ट। बलकारके “सद्योमांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम्। घृतमुष्णोदकं चैव सद्यः प्राणकराणि षट्” चाणक्यः।

प्राणकर्मन् = न० ६ त०। प्राणानां दशानां कर्मभेदे तानि च कर्माणि “सर्वाणीन्द्रियकर्माणि, प्राणकर्माणि चापरे” गीता भाष्य टी० आनन्दगिरिणोक्तानि यथा “प्राणानाञ्च दशानां कर्माणि, प्राणस्य बहिर्गमनम् अपानस्याधोगमनं व्यानस्य व्यायामाकुञ्चनप्रसरणादीनि समानस्याशितपीतादीनां समुन्नयनं उदानस्योर्द्ध्वनयनम् “उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः। कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे। न जहाति मृतञ्चापि सर्वव्यापी धनञ्जयः” इत्येवं रूपाणि।

प्राणग्रह = पु० “प्राणो वै ग्रहः” तैत्ति० उक्ते घ्राणाख्ये इन्द्रिये ग्रहशब्दे २७४६ पृ० दृश्यम्। तत्र प्राणशब्देन ध्रासमुच्यते इति भाष्ये समर्थितम्।

प्राणजीवन = त्रि० प्राणं जीवयति जीवि–ल्यु। १ प्राणस्थापके २ प्राणपोषके विष्णौ पु० “प्राणभृत्प्राणजीवनः” विष्णुस० “प्राणयति प्राणिनो जीवान् जीवयति प्राणजीवनः “न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवेत यस्मिन्नेतावुपाश्रितौ” मन्त्रवर्ण्णान्” भा०।

प्राणतज = पु० कल्पप्रभवे वैमानिकभेदे हेमच०। प्राणथज इत्येव साधुःपाठः।

प्राणथ = पु० प्र + अन–अथ। १ प्राणशब्दार्थे २ बलवति च उज्ज्वल०।

प्राणद = न० प्राणं प्राणनं बलं वा ददाति पुष्णाति द्यति वा दा दो–वा–क। १ जले तस्य यथा प्राणोपकारकत्वं तथा प्राणशब्दे छा० उ० वाक्ये दर्शितम्। २ रक्ते च हेमच०। ३ जीवकवृक्षे पु० राजनि० ४ हरीतक्याम् ५ ऋद्धिवृक्षे च स्त्री राजनि०। ६ प्राणदातृमात्रे त्रि० “किमाश्चर्य्यं क्षारदेशे प्राणदा यमदूतिका” तद्भटः। ७ विष्णौ पु० तस्य प्रलये सर्वप्राणच्छेदकत्वात्तद्दातृत्वमिति नामद्वयम् प्राणशब्दे उदा० दृश्यम्।

प्राणदा = स्त्री चक्रदत्तोक्ते गुटिकाभेदे “सनागरारुष्करवृद्धिदारकं गुडेन या मोदकमत्युदारकम्। अशेषदुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम्। चूर्णे चूर्णसमो ज्ञेयो मोदके द्विगुणो गुडः। त्रिपलं शृङ्गवेरस्य चतुष्कं मरिचस्य च। पिप्पल्याः कुडर्बार्द्धञ्च चव्यायाः पलमेव च। तालीशपत्रस्य पलं पलार्द्धं केसरस्य च। द्वे पले पिप्पलीमूलादर्द्धकर्षञ्च पत्रकात्। सूक्ष्मैलाकर्षमेकन्तु कर्षं त्वचमृणासयोः। गुडात् पलानि तु त्रिंशच्चूर्णमेकत्र कारयेत्। अक्षप्रामाखा गुडिका प्राणदेति च सा स्मृता”।

प्राणन = न० प्र + अन–भावे ल्युट्। १ जीवने जटा०। करणे ल्युट्। २ जले पु० शब्दच०।

प्राणनाथ = पु० ६ त०। पत्यौ शब्दरत्ना०। प्राणपत्यादयोऽप्यत्र

प्राणनिग्रह = पु० प्राणो निगृह्यतेऽनेन नि + ग्रह–करणे अप्। प्राणायामे प्राणनिरोधादयोऽप्यत्र।

प्राणन्त = पु० प्र + अन–करणे झ। १ वायौ उज्ज्वल० २ रसा- ञ्जने अञ्जनभेदे ३ क्षुधायां ४ हिक्कायाञ्च स्त्री उणादि०।

प्राणप्रद = त्रि० प्राणं बलं प्रददाति प्र + दा–क। १ बलदायके २ ऋद्धिनामकौषधौ स्त्री रत्नमा०।

प्राणभक्ष = पु० प्राणेन घ्राणेन भक्षः ३ त०। घ्राणेनावघ्राणमात्रे कात्या० १०। २६ कर्कः।

प्राणभास्वत् = पु० प्राणेन वायुना भास्मान् उद्दीप्तः। समुद्रे शब्दच०।

प्राणभृत् = त्रि० प्राणं विवर्त्ति भृ–क्विप् ६ त०। १ प्राणिनि जीवे जन्तमात्रे २ प्राणपोषके त्रि० ३ विष्णौ पु० “प्राणभृत् प्राणजीवनः” विष्णुस०।

प्राणमय = पु० प्राण + प्राचुर्य्ये मयट्। “कर्मेन्द्रियैः पञ्चभिरञ्चितोऽसौ प्राणो भवेत् प्राणमयस्तु कोषः” विवेकचू० उक्ते जीवस्वरूपावरके कोषभेदे “नैवात्मापि प्राणमयो वायुविकारो गन्ताऽऽगन्ता वायुवदन्तर्बहिरेष। यस्मात् किञ्चित् क्वापि न वेत्तीष्टमनिष्टं स्वं वाऽप्यं वा किञ्चन नित्यं परतन्त्रः” तस्य तत्रैवात्मनोभेदे हेतुरुक्तः।

प्राणयम = पु० प्राणो यम्यतेऽनेन यम–करणे घञ् अवृद्धिः। प्राणायामे हेमच० प्राणरोधप्राणनियमप्राणसंयमादयोऽप्यत्र।

प्राणयात्रा = स्त्री ६ त०। प्राणस्य श्वासप्रश्वासादिके १ प्यापारे उपचारात् तत्साधने २ भोजमादौ। भोजनेन हि देहे प्राणयात्रानिर्वाहोऽन्यथा मरणेनोत्क्रान्तिः प्राणस्य भोजनं विना स्थित्यभावात्। प्राणयात्राऽस्त्यस्य प्रयोजनत्वेन ठन्। प्राणयात्रिक प्राणधारणभोजनयुक्ते विशिष्टभोगपरे मनुः ६। ५७

प्राणयोनि = पु० ६ त०। १ परमेश्वरे जगत्प्राणे २ बायौ च।

प्राणवत् = त्रि० प्राण + मतुप् यस्य वः। प्राणिनि जीवे जन्तुमात्रे

प्राणशरीर = पु० प्राणः शरीरं स्वरूपं यस्य। प्राणात्मत्वेन ध्येये परमेश्वरे “स क्रतुं कुर्वीत मनोमयः प्राणशरीरः” छा० उ० “प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वययुतः “योवै प्राणः सा प्रज्ञा या प्रज्ञा स प्राणः” इतिश्रुतेः” स शरीरं यस्य सः” भाष्यम्।

प्राणसंवाद = पु० ६ त०। प्राणानामिन्द्रियाणां मुख्याप्राणस्य च अहं श्रेष्ठत्वविषयत विबादे। स च छा० उ० “अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानम्यहं श्रेयानस्वीत्युपक्रमे दर्शितः।

प्राणसंशय = पु० ६ त०। १ प्राणस्य स्थित्यस्तितिसन्देहे उपचारात् २ मरणफलव्यापारमेदे च।

प्राणसद्मन् = न० ६ त०। प्राणायतने देहे।

प्राणसम = पु० ६ त०। १ प्राणतुल्ये प्रिये २ पत्यौ ३ पत्न्यां स्त्री।

प्राणहर = त्रि० प्राणं हरति देहात् देहान्तरं प्रापयति बलं वा हरति हृ–अच्। १ प्राणस्य देहात् देहान्तरप्रापके २ बलनाशके। “शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि। प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट्” चाणक्यः। ३ विषादौ च याज्ञ० २। २२७।

प्राणहारक = त्रि० प्राणं हरति हृ–ण्वुल्। १ देहात् प्राणस्य हारके २ नाशके ३ वत्सनाभविधे न० राजनि०।

प्राणाग्निहोत्र = न० प्राणरूपेऽग्नौ होत्रम्। १ वैश्वानरविदः प्राणानां पञ्चाहुतिरूपेऽग्निहोत्रात्मके भोजने। तस्य यथा कर्त्तव्यता तथा छा० उ० तद्यद्भक्तं प्रथममागच्छेत् तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति” इत्युपक्रम्य दर्शितम्। तच्च प्राणाहुतिशब्दे दृस्यम्। तत्प्रतिपादके २ कृष्णयजुर्वेदीयोपनिषद्भेदे च।

प्राणात्यय = पु० ६ त०। १ प्राणधारणाऽसम्भावनायाम्। ब० व०। २ तदुपलक्षिते काले च “प्राणात्यये च संप्राप्ते योऽन्न मत्ति यतस्ततः। न स पापेन लिप्येत पद्मपत्रमिवाम्भसा” स्मृतिः “सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्” शा० सू०।

प्राणाधिनाथ = पु० ६ त०। पत्यौ हला०।

प्राणान्त = पु० ६ त०। मरणे। प्राणान्यः प्रयोजनमस्य ठञ्। प्राणान्तिक। मरणफलके प्रायश्चित्तादौ।

प्राणापान = पु० द्व० द्वि० व०। प्राणे अपाने च १ वायौ “प्राणापानान्तरे देवी वाग्वै नित्यं प्रतिष्ठिता” मञ्जूषाधृतवाक्यम्। २ अश्विनीकुमारयो० “तस्यां त्वाष्ट्र्यामश्वरूप्यां मार्त्तण्डस्तीव्रतेजमा। वीजं निर्वापयामास तज्जलं तद्द्विधाऽपतत्। तत्र प्राणस्त्वपानश्च योनौ चात्मजितौ पुरा। वरदानेन च पुनर्मूर्त्तिमन्तौ बभूवतुः। तौ त्वाष्ट्र्यामश्वरूपिण्यां जातौ येन नरोत्तमौ। ततस्तावश्विनौ देषौ कीर्त्त्येते रविनन्दनौ” वराहपु०।

प्राणायतन = न० ६ त०। “अक्षिणी कर्णरन्ध्रे च पायूषस्थास्य नासिकाः। नवछिद्राणि तान्येव प्राणस्यायतनानि तु” याज्ञ० उक्ते प्राणस्य छिद्ररूपमुख्यस्थानभेदे

प्राणायन = पुंस्त्री० प्राणत्यापत्यं नडा० फक्। प्राणस्यापत्ये

प्राणायाम = पु० प्राण आयम्यतेऽनेन आ + यम–करणे घञ। प्राणवायोर्गतिविच्छेदकारकव्यापारभेदे तद्विसिस्तन्त्रसारोक्ता यथा “तत्र प्राणायामेऽङ्गुलिनियमो ज्ञानार्णये “भूतशुद्धिं ततः कुर्य्यात् प्राणायामक्रमेण च। कति- ष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम्। प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना”। प्राणायामो द्विविधः सगर्भो निगर्भश्च। तथा च “सगर्भो मन्त्रजापेन निर्गर्भो मात्रया भवेत्”। मात्रा च “वामजानुनि तद्धस्तभ्रामणं यावता भवेत्। कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपारगैः”। तत्र च मूलमन्त्रस्व वीजस्य प्रणवस्य वा षोडश वारादिजपेन वामनासापुटादिना वायुपूरकादिकं कुर्य्यात्। तथा च कालीहृदये “प्राणायामत्रयं कुर्य्यात् मूलेन प्रणवेन वा। अथ वा मन्त्रवीजेन यथोक्तविधिना सुधीः”। यथा तस्य षोडशवारजपेन वायुं रेचयेत्। तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत्। तस्य द्वात्रिंशद्वारजपेन वायुं रेचयेत्। पुनर्दक्षिणेनापूर्य्य उभाभ्यां कुम्भयित्वा वामेन रेचयेत्। पुनर्वामेनापूर्य्य उभाभ्यां कुम्भयित्वा दक्षिणेन रेचयेत्। त्रिपुरासार समुच्चये “विपरीतमतो विदधीत बुधः पुनरेव वा तद्विपरीतमिति”। यौगिके पुनर्मात्रानियमः। तथा च गौतमीये “मन्त्रप्राणायामः प्रोक्तो यौगिकं कथयामि ते। पूरयेद्वामया विद्वान् भात्राषोडशसंख्यया” इत्यादि। यद्वा चतुःषोडशाष्टवारजपेन पूरकादिकं कुर्य्यात्। तथा च तन्त्रान्तरे “पूरयेत् षोडशभिर्वायुं धारयेत्तु चतुर्गुणैः। रेचयेत् कुम्भकार्द्धेन अशक्त्या तत्तुरीयकम्। तदशक्तौ तच्चतुर्थमेवं प्राणस्य संयमः। अस्य नित्यता माह “प्राणायामं विना मन्त्रपूजने न हि योग्यता” सन्ध्याङ्गप्राणायामस्वरूपफलादिकं ब्राह्मणसर्वस्वे दर्शितं यथा तत्राग्निपुराणे “गायत्रीं प्रति ब्रह्मवाक्यम् “कुर्वन्तीऽपीह पापानि ये त्वां ध्यायन्ति पावनि!। उभे सन्ध्ये न तेषां हि विद्यते तु विपातकम्। त्रिः पठेदा– यतप्राणः प्राणायामेन यो द्विजः। वर्त्तते न स लिप्येत पातकैरुपपातकैः”। वृहद्विष्णु “प्राणायामान् द्विजः कुर्य्यात् सर्वपापापनुत्तये। दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु”। विष्णुधर्मोत्तराग्निपुराणयोः “सर्वदोषहरः प्रोक्तः प्राणायामो द्विजन्मनाम्। ततस्त्वभ्यभिकं नास्ति प्रापप्रशमकारणम्”। अत्रिः “कर्मणा मनसा बाचा अह्ना पापं कृतञ्च यत्। आसीनः पश्चिमां सन्ध्यां प्राणायामैर्व्यपोहति”। अग्निपु० “प्राणायामत्रयं कृत्वा प्राणायामैस्त्रिमिर्निशि। अहोरात्रकृतात् पापान्मुच्यते नात्र संशयः”। बशिष्ठः “प्राणायामान् धारयेत् त्रीन् यथाविधि सुयन्त्रितः। अहोरात्रकृतं पापं तत्क्षणादेव नश्यति”। वृद्धापस्तम्बः “पूर्वमुक्तेषु चैतेषु तथान्येष्वपि सर्वशः। प्राणायामास्त्रयोऽभ्यस्ताः सूर्यस्योदयनं प्रति। जायन्ते तद्विनाशाय तमसामिव भास्क्रः। सूर्यस्योदयनं प्राप्य निर्मला धूतकलमषाः। भवन्ति भास्कराकारा विधूमा इव पावकाः”। योगियाज्ञवल्क्यः “यदह्ना कुरुते पापं कर्मणा मनसापि वा। त्रिकालसन्द्याचरणात् प्राणायामैर्थ्यपोहति”। वृहस्पतिः “प्राणायामैर्दहेद् दोषात् मनोवादेहसम्भवान्”। प्राणायामानुवृत्तौ बौधायनः “एतदाद्यं तपः श्रेष्ठमेतद्धर्मस्य लक्षणम्। सर्वदोषोपघातार्थमेतदेव विशिष्यते”। अत्रिवशिष्ठौ “आवर्त्तयेत् सदा युक्तः प्राणायामान् पुनःपुनः। आकेशाग्रान्नखाग्राच्च तपस्तप्यत उत्तमम्”। विष्णुधर्मोत्तराग्निपुराणयोः “आकेशाग्रान्नखाग्राच्च तपस्तप्ये सुदारुणम्। आत्मानं शोधयत्येव प्राणायामः पुनःपुनः। दह्यन्त ध्मायमानानां धातूनां हि यथा मलाः। तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात्। प्राणायामैदहेद्दोषान् प्राखायामः परं तपः”। वृहद्यमः “यथा हि शैलधातूना धमतां धम्यते रजः। इन्द्रियाणां तथा दोषान् प्राणायामैश्च निर्दहेत्”। वृहस्पतिः “धम्यमानं यथा ह्येतद्धातूनां संस्कृतं मलम्। तथेन्द्रियकृतो दोषः प्राणायामेन दह्यते”। योगियाज्ञवलक्यः “यथा पर्वतधातूनां दोषान् दहति पावकः। एवमन्तर्गतञ्चैनः प्राणायामेन दह्यते”। अत्रिवशिष्ठौ “निरोधाज्जायते वायुर्वायोरग्निः प्रजायते। अग्नेरापो व्यजायन्त तैरन्तः शुध्यते त्रिभिः”। विष्णुधर्मोत्तराग्निपुराणयोः “निरोधाज्जायते बायुस्तस्मादग्निस्ततो जलम्। त्रिभिः शरीरं सकलं प्राणायामैर्विशुध्यति”। योगियाज्ञवल्क्यः “तथा निरोधसंयोगात् देवतात्रयचिन्तनात्। अग्नेर्वायोरपां योगादात्मा शुध्यति वै त्रिभिः”। मनुः “प्राणायामाव्राह्मणस्य त्रयोऽपि विधिवत् कृताः। व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः” विष्णुधर्मोत्तरमग्निपुराणञ्च “प्राणसंधारणं मासं कुशाग्रच्युतविन्दुना। यः कुर्य्यादम्भसा राजन्! प्राणयामसु तत्समः”। वृहद्विष्णुः “सव्यार्हातिं सप्रणवां पायर्तौ शिरसा सह। त्रिः पठेदाबतप्राणः प्राक्षायामः स उच्यते। गायत्रीं शिरसा सार्द्धं जपेद्व्याहृतिपूर्विकास। प्रतिप्रणवर्सयुक्तां त्रिरयं प्राणसंयमः”। योगियाज्ञवल्क्यः “भूर्भुवः खर्महर्जनस्तपःसत्यं तथैव च। प्रत्योऽङ्कारसमायुक्तं तत्सवितुर्वरेण्यमा। ओमापोज्योतिरित्येतच्छिरः पश्चात् प्रयोजयेत्। एवं मन्त्रप्रयोगस्तु प्राणायामनिवेशने। त्रिरावर्त्तनयोगेन प्राणायामस्तु शव्दितः”। योगियाज्ञवल्क्यः “षोडशाक्षरकं ब्रह्म गायत्र्यास्तच्छिरः स्मृतम्। ओमापोज्यातिरित्येष मन्त्रा यस्तु प्रकीर्त्त्यते। तस्य प्रजापतिरृषिर्यजुष्ट्वाच्छन्दसा विना। व्रह्माग्निवायुसूर्य्याश्च देवताः समुदाहृताः। प्राणस्यायमने चैव विनियोग उदाहृतः। गायत्रीशिरसा सार्द्धमेवं श्रुतिनिदर्शनम्। प्रणव व्याहृतियुतां गायत्रीं शिरसा सह। त्रिःपठेदायतप्राणः प्राणायामः स उच्यते। आदानं रोधसंसर्गं वायोस्त्रि स्त्रिः समभ्यसेत्। ब्रह्माणं केशवं शम्भुं ध्यायेदेताननु क्रमात्। रक्तं प्रजापतिं ध्यायेत् विष्णुं नीलोत्पलप्रभम्। शङ्करं त्र्यम्बकं श्वेतं ध्यायन्मुच्येत बन्धनात्। पूरके व्रह्मसायुज्यं कुम्भके व्रह्मणोऽन्तिकम्। रेचकेनाद्वितीयन्तु प्राप्नुयादैश्वरं पदम्” अथ प्राणायामविधिः तत्र व्यासपद्यम् “आदौ छन्द ऋषिदेवताविनियोगान्निरूप्यते “गायत्रीं शिरसा सार्द्धं सप्तव्याहृतिपूर्विकाम्। प्राणायामेन त्रिरावर्त्तयेत् ततः शनैः प्रश्वमेच्च प्राणायामैदग्धदोषोऽयं यत् श्रेयः तत् सकलं भवति”। व्यासः “गायत्रुष्टिगनुष्टुप् च वृहती पङक्तिरेव च। त्रिष्टुप् च जगती चेति छन्दांस्याहुरनुक्रमात्। अग्निवाय्यर्कवरुणा वृहस्थतिशतक्रतू। विश्वेदेवाः व्याहृतीनां दैवतानि यथाक्रमम्। विनियोगः स्मृतस्तासां प्राणायामे महर्षिभिः”। योगियाज्ञवल्क्यः “व्याहृतीनाञ्च सर्वासामार्षञ्चैव प्रजापतिः। सप्त छन्दांसि प्रोक्तानि छादनानि तु सर्वशः। गायत्र्युष्टिगनुष्टुप् च वृहती तृष्टुबेव च। पङ्क्तिश्च जगती चैव सप्त छन्दांसि तानि वै। अग्निवायुस्तथादित्यो वृहस्पत्याप एव च। इन्द्रश्च विश्वदेवाश्च देवताः समुदाहृताः। अनाम्नातेषु नित्येषु प्रायश्चित्तेष्र सर्वदा। प्राणायामप्रयोगे च विनियोग उदाहृतः”। वृहस्पतिः “बद्ध्वासनं नियम्यासून् स्मृत्वा ब्रह्मादिकं तथा। संनिमीलितदृङ् मौनी प्राणायामं समभ्यसेत्”। विष्णुधर्मोत्तरे “सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह। त्रिः पठेदायतप्राणः प्राणायामः स उच्यते। आदानं रोधमुत्सर्गं मनसा त्रिः समभ्यमेत्। ब्रह्माणं केशवं शम्भुं ध्याबन्मुच्येत बन्धनात्। रक्तं पितामहं ध्याबेद्विष्णुं नीणोत्पलप्रभम्। सुश्वेतं त्र्यम्बकश्चैव तंसारार्णवतरिञ्चम्”। योगियाज्ञवल्क्यः “बाह्यस्थितं नासपुटेन वायुमाकृष्य तेनैव शनैः समस्तम्। नाडीश्च सर्वाः प्रतिपूरेयुः स पूरको नाम महान्नरोधः। न रेचकोनैव च पूरको वा नासाग्रचारी स्थित एव वायुः। अनिश्चलं धारयति क्रमेण कुम्भाख्यमेतं प्रवदन्ति तज्ज्ञाः। निष्क्रम्य नासाविवरादशेषं प्राणं बहिः शून्यमिवानिलेन। निरुच्छ संस्तिष्ठति चोर्द्ध्ववायुः स रेचको नाम महान्निरोधः। नासिकयाऽऽकृष्योच्छासं ध्यान पूरक उच्यते। कुम्भोनिश्चलनिश्वासी रिच्यमानस्तु रेचकः”। योगियाज्ञवल्क्यः “प्राणेनाप्यपयानेन वेगवायुं समुत्सृजेत्। येन शत्रूनधस्था~श्च निश्वासेन च चालयेत्। शनैर्नासापुटे वायुमुत्सृजेन्न तु वेगतः”। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि” पात० सू० तस्य योगाङ्गतोक्ता। तस्य च योगाङ्गप्राणायामस्य लक्षणादिः पात० सू० भा० विवरणेषूक्तं यथा “तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” सू०। “सत्यासनजये बाह्यस्य वायोराचमनं श्वासः। कोष्ठ्यस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिविच्छेद उभयाभावः प्राणाधामः” भा०। स तु “बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः” सू०। “यत्रा प्रश्वासपूर्वको गत्यभावः स बाह्यः यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः तृतीयस्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद् भवति यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते। तथा द्वयोर्युगपद्गत्यभाव इति त्रयोऽप्येते देशेन परिदृष्टाः इयानस्य विषयो देश इति। कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः। सङ्ख्याभिः परिदृष्टाः, एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस्तद्वन्निगृहीतस्यैतावद्भिः द्वितीय उद्घातः एवं तृतीयः एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः” भा० “बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सू०। “देशकालसङ्क्याभिर्बाह्यविषयः परिदृष्ट आक्षिप्तः तथाभ्यन्तरविषयः परिदृष्ट आक्षिप्त उमयथा दीर्घसूक्ष्मः तत्पूर्वको भूमिजयात् क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः। तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मश्चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात् क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायामः इत्ययं विशेष इति” भा०। “ततः क्षीयते प्रकाशावरणम्” सू०। “प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं यत्तदाचक्षते महामोहमयेन इन्द्रजालेन प्रकाशशीलं सत्त्वमावृन्य तदेवाकार्य्ये नियुड्क्ते इति तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासात् दुर्बलं भवति प्रतिक्षणं च क्षीयते। तथा चोक्तम् “तपो न परं प्राणायामात्ततो विशुद्धिमलानां दीप्तिश्च ज्ञानस्येति”। किञ्च धारणासु च योग्यता मनसः प्राणायामाभ्यासादेव। “प्रच्छर्दनविधारणाभ्यां वा प्राणास्येति” वचनात्” भा०।

“प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति सत्विति। वृत्तिशब्दः प्रत्येकं संवध्यते। रेचकमाह यत्र प्रश्वामेति। पूरकमाह यत्र श्वामेति। कुम्भकमाह गृतीय इति। तदेव स्फुटयति यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधारकात् प्रयत्नादभावो भवति न पुनः पूर्ववदापूरणप्रयत्नौघप्रविधारकः प्रयत्नो नापि रेचकप्रयत्नौघविधारण्य्रयत्नोऽपेक्ष्यते किन्तु यथा तप्ते उपले निहितं जलं परिशुष्यत् सर्वतः सङोचमापद्यते एव मयमपि मारुतो वहनशीलो बलबद्विधारकप्रयत्न निरुद्धक्रियः शरीर एव सूक्ष्मीभूतोऽवतिष्ठते न तु रेचयति येन रेचक इति। इयानस्य देशो विषयः प्रादेशवितस्तिहस्तादिपरिमितो निवाते प्रदेशे ईषिका तूलादिक्रियानुमितो बाह्य एवमान्तरोऽप्यापादतलमामस्तकं पिपीलिकास्पर्शसदृशेनानुमितः। स्पर्शननिमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस्तेषामियत्तावधारणेनावच्छिन्नः स्वजानुमण्डलं पाणिना त्रिः परामृश्य च्छोटिकावच्छिन्नः कालो मात्रा ताभिः षट्त्रिंश न्मात्राभिः परिमितः प्रथम उद्घातो मन्दः। स एव द्विगुणीकृतो द्वितीयो मध्यमः स एव त्रिगुणीकृतस्तृतीय स्तीव्रस्तमिमं सङ्ख्यापरिदृष्टं प्राणायाममाह सङ्ख्याभिरिति। स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावञ्छिन्नेन कालेन यथोक्तच्छोटिकाकालः समानः प्रथमोथात कर्मतां नीतः उद्घातो विजितो वशीकृतो निगृहीतः क्षणानामियत्ताकालो विवक्षितः श्वासप्रश्वासेयत्ता संख्येति कथञ्चिद्भेदः। स खल्वयं प्रत्यहमभ्यस्ती दिवसपक्षमासादिकमेण देशकालप्रचयव्यापितया दीर्घः परमनैपुण्यं स भधिगमनीयः तया च सूक्ष्मो न तु मन्दतया” विवृतिः। भोगाङप्राणायामविधिः दत्तात्रेयसंहितायामुक्तो यथा “तस्मिन् शस्तं समास्तीर्य्य आसनं विष्टरादिकम्। तत्रो पविश्य मेधावी पद्मासनसमन्वितः। समकायः प्राञ्ज- लिश्च प्रणम्य चेष्टदेवताम्। ततो दक्षिणहस्तस्याप्यङ्गुष्ठेन तु पिङ्गलाम्। निरुध्य पूरयेद्वायुमिडया तु शनैः शनेः। यथाशक्त्यानिरोधेन ततः कुर्य्याच्च कुम्भकम्। ततस्त्वजेत् पिङ्गलया शनैरेव न बेगतः। पुनःपिङ्गलयाऽऽकृत्य पूरयेदुदरं शनैः। धारयित्वा यथाशक्ति रेचयेन्मारुतं शनैः। यथा त्यजेतयाऽपूर्व्व घारयेदविरोघतः। एवं प्रातः समासीनः कुर्य्याद्विंशातकुम्भकान्। कुम्भकः सहितो नाम सर्वग्रहविवर्जितः। मध्याह्नेऽपि तथा कुर्य्यात् पुनर्विंशतिकुम्भकान्। एवं सायं प्रकुर्वीत पुनर्विंशतिकुम्भकान्। कुर्वीत रेककुम्भाभ्यां सहीतान् प्रतिवासरम्। कुर्य्यादेवं चतुर्वारमनालस्यो दिने दिने। एव मासत्रयं कुर्य्यान्नाडीशुद्धिस्ततो भवेत्”। ग्रहजामले त्रयोदशपटले “प्राणायामस्त्रिधा प्रोक्तो रेचकुम्भकपूरकैः। सहितः केवलश्चेति कुम्भको द्विविधो मतः। रेचपूरणयुक्तो यः स वै सहितकुम्भकः। यावत् केवलसिद्धिः स्यात् सहितं तावदभ्यसेत्। रेचकं पूरकं त्यक्त्वा सुखं यद्वायुधारणम्। प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः। गुरूपदिष्टमार्नेण प्राणायामं समाचरेत्। यावद्वायुः स्थितो देहे तावज्जीवितमुच्यते। मरणं तस्य निषक्रान्तिस्ततो वायुं निबन्धयेत्। मलाकुलासु नाडोषु मासता नैव मध्यगः। कथं स्यात् निर्मलीभावः कायशुद्धिः कथं भवेत्। शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकलम्। तदैव जायते योगो प्राणसंग्रहणे क्षमः। प्राणायामं ततः कुर्य्यान्नित्यं सात्त्विकया धिया। तथा सुषुम्णापार्श्वस्था मलाः शोषं प्रयान्ति हि। बद्धपद्मासनोयोगी प्राणं चन्द्रेण पूरयेत्। धारयित्वा यथाशक्ति पुनः सूर्य्येण रेचयेत्। प्राणं सूर्य्येण चाकृत्य पूरयेदुदरं शनैः। विधिवत कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत्। येन त्यजेच्च तेनैव पूरयेदविरोधतः। रेचयेच्च ततोऽन्येन रेचयेच्च न वेगतः” चन्द्रेण वामनासया सूर्य्येण दक्षिणनासया। “प्राणं चेदिडया पिवेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया। सूर्थाचन्द्रमसोरनेन विधिना विम्बद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति मलिना मासत्रयाद्रर्द्धतः। प्रातर्मध्यन्दिनं सायं मध्यरात्रे च कुम्भकान्। चतुरशीतिपर्य्यन्गं चतुर्बारं समभ्यसेत्। प्राणायामे महान् धर्मो बोगिनो मोक्षदायिनि। प्राणायामे दिवारात्रौ देहचालं परि- त्यजेत्। अधमे द्वादशी मात्रा मध्यमे द्विगुणा स्मृता। उत्तमे त्रिगुणा ज्ञेया प्राणायामस्य निर्णये। कनीयसि भवेत् स्वेदः कम्पो भवति मध्यमे। उत्तिष्ठत्युत्तमे प्राणी बद्धपद्मासनो मुहुः। जलेन श्रमजातेन गात्रमार्जनमाचरेत्। दृढता लघुता दीप्तिस्तेन गात्रस्य जायते। यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः। जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः। शरीरलघुता दीप्तिर्जठराग्निविवर्द्धनम्। कृशत्वञ्च शरीरस्य तस्य जायेत निश्चितम्। पूर्वोक्तकाले कुर्वीत परमाभ्यासमेव च। ततःपरं यथेष्टन्तु शक्तिः स्याद् वायुधारणे। यथेष्टधारणाद्वायोः सिद्धिः कुम्भस्यकेवला। केवले कुम्भके सिद्धे रेचपूरकवर्जिते। न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते”।

प्राणावाय = न० प्राणेनावैति अव–इ अच। क्रियाविशाले हेमच०।

प्राणासन = न० “एतत् प्राणासनं नाम सर्वमिद्धिप्रदायकम्। वायुं मूले समारोप्य ध्यात्वाऽऽकुञ्च्य प्रसारयेत्। केवलं पादमेकञ्च स्कन्धे चारोप्य यत्नतः। एकपादेन गगने तिष्ठेत् स दण्डवत् प्रभो!। आपानासनमेतत् हि सर्वेषां पूरकाश्रयम्”। कृत्वा सूक्ष्मशीर्षपद्मे समारोप्याथ वायुभिः। तदासिद्धो भवेत् मर्त्यः प्राणापानसमागमम्। अपानासनयोगेन कृत्वा योगेश्वरो भुविं रुद्रयामकोक्ते पूजाङ्गे आसनभेदे।

प्राणाहुति = स्त्री प्राणरूपेभ्योऽग्निभ्य आहुतिः। भोजनात् प्राक् गृहस्थकर्त्तव्ये प्राणरूपाग्न्युद्देश्यकाहुतौ तत्प्रकारच आह्नि० त० दर्शितो यथा छन्दोगपरिशिष्टे “प्राणेभ्यस्त्वथ पञ्चभ्यः स्वाहा प्रणवसंयुताः। पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषु च”। प्राणांहुतिमुद्रामाह शौनकः “तर्जनीमध्यमाङ्गुष्ठैर्लग्ना प्राणाहुतिर्भवेत्। मध्यमानामिकाङ्गुष्ठैरपाने जुहुयात्ततः। कनिष्ठानामिकाङ्गुष्ठैर्व्याने च जुहुयाद्धविः। तर्जनीन्तु बहिष्कृत्वा उदाने जुहुयात्ततः। समाने सर्बहस्तेन समुदायाहुतिर्भवेत्”। स्मृत्यर्थसारे “प्राणाहुतौ घृताभावे पश्चात् भुञ्जीत नो घृतम्” अत्र पाठक्रमेण प्राणापानव्यानोदानसमानरूपेभ्य आहुतिरुक्ता। वैश्वानरविदस्तु छान्दो० उ० अन्यक्रम उक्तो यथा “तद्यद्भक्त प्रथममागच्छे त्तद्धोमीयं, स यां प्रथमामाहुतिं जुहुयात्तां जुहुवात् प्रणाय स्वाहेति प्राणस्तुप्यति”। अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति”। “अथ यां तृतीयां जुहुयात्ता जुहुयादषनाय स्वाहेत्यपानस्तृप्यति”। “अथ यां चतुर्थीं जुहुयात्तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति”। “अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति”।

प्राणिद्यूत = न० ६ त०। समाह्वयाख्ये विवादपदभेदे अमरः। द्यूतशब्दे ३७७३ पृ० दृश्यम् “एष एव बिधिर्ज्ञेयः प्राणिद्यूते समाह्वये” याज्ञ० द्यूतधर्मोऽतिदिष्टः।

प्राणिन् = नित्यम् त्रि० प्राणोऽस्त्यस्य इनि। जीवे चेतने जनुमात्रे।

प्राणिमातृ = स्त्री प्राणिनो मातेव। गर्भदात्रीक्षुपे राजनि०।

प्राणिहित = त्रि० ६ त०। १ प्राणिनो हितसाधने २ पादुकायां स्त्रीं त्रिका०।

प्राणीत्य = न० प्रणीतस्य प्रयुक्तस्य भावः ष्यञ्। ऋणे त्रिका० प्रामीत्य तत्रार्थे पाठान्तरम्।

प्राणेश = पु० ६ त०। १ पत्यौ जटा०। २ भार्य्यायां स्त्री हेमच०। ३ वायौ पु० त्रिका०। प्राणेश्वरादयोऽप्यत्र।

प्राण्यङ्ग = न० ६ त०। प्राणिनोऽङ्गे अवयवे हस्तपादादौ तत्र उपसर्जने “अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारिजम्। अतत्स्थं तत्र दृष्टञ्च तेन तद्वत् तथा युतम्” इत्युक्तलक्षणस्वाङ्गरूपकत्वे असंयोगोपधत्वे ङीष्। तत्र क्रोडादिबह्ववो नासिकोदरजङ्घादन्तशृङ्गाणाम् उच्छस्य च विशेषोक्तेः संयोगोपधत्वेऽपि ङीष् स्यात्।

***