प्रवक = त्रि० प्रु + गतौ साधुकारैत्वे द्योत्ये वुन्। भूयोगतियुते तत्र साधुकारिणि तत्त्ववोधिनी।

प्रवक्तृ = त्रि० प्रवक्ति प्र + वच–तृच्। प्रकर्षेण वक्तरि १ अर्थानुसन्धानपूर्वकवेदादिवाचके २ तदर्थोपदेशके च मनुः ६। १ ८६ याज्ञ० २। ३५२

प्रवग = पुं स्त्री० प्लवग + लस्य रः। खगे अमरठीका। एवं प्रवङ्गं प्रवङ्गमावपि रस्यु लत्वे तत्रार्थे। सर्वत्र जातित्वात् स्त्रियां ङीष्।

प्रवचन = न० प्रीच्यते प्र + वच–कर्मणि ल्युट्। १ वेदादौ शास्त्रे भावे ल्युट्। २ अर्थानुसन्धानपूर्वककथने च “नायमात्माप्रवचनेन लभ्य” कठोप०। अस्य तिङः परम्य गोत्रा० कुत्त्सायाम् उदात्तता।

प्रवचनीय = त्रि० प्र + वच–कर्मणि अनीयस्। प्रकर्षेण अर्थानुसन्धानेन १ वाच्ये। “भव्य गेयेत्यादि” वा० कर्त्तरि अनीयर्। प्रवक्तरि कर्मप्रवचनीयाः तच्छब्दे दृश्यम्।

प्र(प्रा)वट = पु० प्रु + बा० अट–स्वार्थे अण् वा। यवे जटाधरः।

प्र(ब)वण = पु० प्र + व (ब)ण–अच्। १ चतुष्यथे अनरः २ निम्नस्थाने ३ उदरे ४ नम्रे मेटिनिः। ५ आयते ६ प्रगुणे ७ क्षण शब्दर०। ८ प्लुते ९ स्विग्धे त्रि० विश्वः १० क्षीणे च त्रि० धरणिः। ११ आसूक्ते त्रि० हेमच०।

प्रवत् = त्रि० प्रवणे वाति वा–बा० डति। १ प्रबणदेशे निम्वस्थाने गन्तरि ऋ० ७। ५०। ४ अतोऽस्त्यर्षे यतूप् मस्य वः तान्तत्वात् न पदत्यम्। प्रवत्त्वत् तद्युते त्रि०। ऋ० १। १ ८१। ३ भाष्यम्। स्त्रियां ङीप्। सोपसृष्टे धात्रर्थे वर्त्तमानात् प्रोपसर्गात् वति। २ प्रकृष्टनमनादौ च।

प्रवत्स्यत्पतिका = स्त्री प्रवत्स्यन्पतिर्यस्याः। यस्याः पतिः परदेशं गमिष्यति तादृश्यां स्त्रियां रसमञ्जरी। तत्र तल्लक्षणभेदादिकमुक्तं यथा “यस्याः पतिरग्रिमक्षणे देशान्तरं यास्यत्येव सा प्रवत्स्यत्पतिका। अस्याश्चेष्टा काकुवचनकातरप्रेक्षणगमनविघ्नोपदर्शननिर्वेदसन्तापसम्मोहनिश्वासबाष्पादयः। सा च सृग्धामध्याप्रोढापरकीया धारणीभेदात् धञ्जविधा तदुदाहरणानि तत्र दृश्यानि।

प्रवद्याम = त्रि० भा–भावे या० मनिन् प्रवत् प्रकृष्टबतियुक्तः थाभा वतिर्यरम्। प्रकृष्टगमनेव शीघ्रयायिनि ऋ० १। १ १८। ३ भाष्ये दृश्यम्। तत्र टास्थाने “सुपांसुलोपः” इत्यादिना पा० आत्। अतो नोपधालोप इति बोध्यम्।

प्रवयन = न० प्र + वय–गतौ भावे ल्युट्। १ प्रकर्षेण २ गमने करणे ल्युट्। २ प्रतोदे हेमच०।

प्रवयस् = त्रि० प्रकृष्टं वयोऽस्य। १ वृद्धे स्थविरे हेमच०। २ पुराणे निघण्टुः

प्रवय्या = स्त्री प्र + वि–यत् “भय्यप्रवय्ये छन्दसि” पा० न०। प्रकर्षेण गतियुतायां स्त्रियां स्त्रियामेवास्य निपातः पुंसि कर्मणि तु यत् प्रवेय इति सि० कौ०।

प्रवर = पु० प्र + वृ–अप्। १ सन्ततौ २ गोत्रे गोत्रप्रवर्तकमुनिव्यावर्त्तके ३ मुनिभेदे च। ४ श्रेष्ठे त्रि० ५ अगुरुचन्दने न०। मेदि०। गोत्रभेदे गोत्रप्रवर्तकमुनिगणाश्च आर्षशब्दे ८१४ अ० दृश्याः। तदधिकं प्रवराध्यायादौ दृश्यम्।

प्रवरललित = न० “यमौनः सो रोगः प्रवरललितं नाम वोध्यम्” वृ० र० टीकोक्ते षोडशाक्षरपाद्रके छन्दोभेदे।

प्रवरवाहन = पु० द्वि० व०। प्रवरं वाहनं ययोः। अश्विनीकुमारयोः हेमच०।

प्रवर्ग = पु० प्रवृज्यतेऽसौ प्र + वृज–घञ्। १ विष्णौ हरिवं० ४२ अ०। २ प्रवर्म्ये महावीरे हेमच०। तत्र प्रवर्ग्य इत्येव पाठो न्याय्यः।

प्रवर्ग्य = पु० प्र + वृज–कर्मणि ण्यत् कुत्वम्। १ महायीरे तत्प्रकारः कात्या० श्रौ० २६ अ० प्रवर्ग्याध्याये दृश्यम्। अस्त्यर्थे मतुप्। प्रवर्ग्यवत्। २ तद्युते २ यज्ञभेदे पु० शत० ब्रा० ३४४१

प्रवर्त्तक = त्रि० प्रवर्तयति प्र + वृत–णिच्–ण्वुल्। प्रवृत्तिजनके “बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताविषयकं ज्ञानम् इष्टसाधनताविषयकं कृतिसाध्यताज्ञानं वा प्रवर्तकमिति जरन्नैयायिकाः। यथा वा स्वविशेषणवत्ताप्रतिसन्धानजन्यं कार्य्यताज्ञानं प्रवर्तकमिति गुरवः। “चोदनेति क्रियायाः प्रवर्तकं वचनम्” चोदनासूत्रे शवरभाष्यम् “क्रियाया नियोगस्य ज्ञानद्वारा प्रवर्तकं वाक्यं चोदनेत्यर्थः।

प्रवर्त्तना = स्त्री घ्र + वृत–णिच्–युच्। प्रवृत्तिजनकव्यापारे विध्यादौ “अस्ति प्रवर्तनारूपमनुरूपं चतुर्ष्वपि” इति भर्तृहरिः। भावे ल्युट् तत्रार्थे आरम्भे च न०।

प्रवलाकिन् = पु० १ भुजङ्गे २ चित्रमेखलके च विश्वः।

प्रवसु = पु० इलिनृपपुत्रे दुष्मलभ्रातरि नृपभेदे भा० आ० ९४ अ०।

प्रवह = पु० प्र + वह–अच्। “यस्मात् ज्योतीषि वहति प्रवहस्तेन कीर्तितः” उक्ते १ वायुभेदे। भावे अप्। २ नगराद्वहिर्गमने

प्रवहण = न० प्र + वह–करणे ल्युट्। १ मनुष्यवाह्ये २ वस्त्राच्छादिते स्त्रीवाहने कर्णीरथे (महापाल) अमरः।

प्रवह्लि = स्त्री प्रबल्हि–पृषो० अन्तस्थादि० वर्णव्यत्यासश्च। प्रहेलिकायां भरतः वा ङीप् तत्रार्थे स्वार्थे क। तत्रार्थे अम०

प्रवा = पु० प्रकर्षेण वाति गच्छति वा–क्विप्। अन्ने यजु० १५। ६ वेददी०।

प्रवाच् = त्रि० प्रकृष्टा वाक् यस्य। युक्तियुक्तवाक्यवक्तरि जटा०।

प्रवाणी = स्त्री प्र + वे–ल्युट् ङीप्। १ तन्तुवायशलाकायाम् (माकु) निष्क्रान्ता प्रवाण्याः निरा० स० गौणत्वे प्रवाणिशब्दस्य ह्रस्वे सम्भवति भरतेन यत् वाणिशब्दस्यापि ह्रस्वान्तत्वं कल्पितं तच्चिन्त्यम्।

प्रवात = त्रि० प्रकृष्टो वातो यत्र। १ सुखसेव्यवातयुक्तदेशादौ प्र + वा–क्त। २ निम्ने प्रवणे च प्रवातैजस्शब्दे दृश्यम्।

प्रवातृ = त्रि० प्रकर्षेण वाति प्र + वा–शतृ। १ प्रकृष्टगतियुते २ प्राणे पु० “प्राणो वै प्रवान्” शत० ब्रा० १४३३

प्रवातैजस् = त्रि० प्रवातं प्रवणं तेज ओजो यस्य। प्रवाततेजसि निरु० ९। ८

प्रवाद = पु० प्र + वद–घञ्। १ परम्परागतवाक्ये लोकेषु २ प्रसिद्धे लोकवादे ३ परस्परकथोपकथने च।

प्रवादिन् = त्रि० प्र + वद–ताच्छील्ये णिनि। परस्परकथनका रके स्त्रियां ङीप्।

प्रवार = पु० प्र + वृ–आच्छादने करणे घञ्। आच्छादने वस्त्रे विभाषेत्यनुवर्तमानात् अपि प्रवर तत्रार्थे सि० कौ०।

प्रवारण = न० प्र + वृ–णिच्–ल्युट्। १ काम्ये दाने २ काम्यस्य उत्तमवस्तुनो दाने च अमरः। ३ प्रकर्षेण वारणे मेदि०। ४ महादाने त्रिका० तस्य उत्तमवस्तुनो दानरूपत्वात्तथात्वम्

प्रवास = पु० प्रस्थितस्य वासः। गृहात् प्रस्थितस्य भिन्नदेशे वासे चिरप्रवासगतस्य पुनर्नागतस्य वार्त्ताद्यश्रवणे कालविशेषे तस्य प्रेतत्वावधारणमुक्तं त्रि० त० “सन्देहे त्वाह यमः “गतस्य न भवेत् वार्त्ता यावत् द्वादशवार्षिकी। प्रेतावधारणन्तस्य कर्त्तव्यं सुतबान्धवैः। यन्मासि यदहर्यातस्तन्मासि तदहःक्रिया। दिनाज्ञाने कुहूस्तम्य आषाढस्याथ वा कुहूः”। नि० सि० वृद्धमनुः “प्रोषितस्य तथा कालो गतश्चेद्द्वादशाव्दिकः। प्राप्ते त्रयोदशे वर्षे प्रेतकार्य्याणि कारयेत्”। वृहस्पतिः “यस्य न न श्रूयते वार्त्ता यावद्द्वादश वत्सरान्। कुशपुत्रकदाहेन तस्य स्यादवधारणा”। भविष्ये “पितरि पोषिते यस्य न वार्त्ता नैव चागमः। ऊर्द्धं पञ्चदशाद्वर्षात् कृत्वा तत्प्रतिरूपकम्। कुर्य्यात्तस्य तु संस्कारं यथोक्तविविना ततः। तदादीन्येव सर्वाणि प्रेतकर्माणि कारयेत्”। द्वादशाव्दप्रतीक्षा पितृभिन्नविषयेति मदनरत्ने उक्तम्। गृह्यकारिकायान्तु “तस्य पूर्ववयस्कस्य विंशत्यव्दीर्ध्वतः क्रिया। ऊर्द्ध्वं पञ्चदशव्दात् तु मध्यमे वयसि स्मृता। द्वादशाद्वत्सरादूर्ध्वमुत्तरे वयसि स्मृता। चान्द्रायणत्रयं कृत्वा त्रिशत् कृच्छ्राणि वा सुतैः। कुशैः प्रतिकृतिं दग्ध्वा कार्य्याः शोचादिकाः क्रियाः” इत्युक्तम् पराशरः “देशान्तरगतो नष्टस्तिथिर्न ज्ञायते यदि। कृष्णाष्टमी ह्यमावास्या कृष्णा चैकादशी च या। उदकं पिण्डदानं च तत्र श्राद्धं तु कारयेत्”। इदं मासज्ञाने” प्रवासादागतेन गुर्वादेः पादयोर्ग्रहणपूर्वकम् प्रणामो विहितः यथा “विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम्। गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्। मातृस्वसा मातुलानी श्वश्रूश्चाथ पितुः स्वसा। प्रपूज्या गुरुपत्नीव समास्ता गुरुभार्य्यया। भ्रातृभार्य्योपसंग्राह्या सवर्णाऽहन्यहन्यपि। विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्घि योषितः। पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि। मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी” कौर्मपु० १३ अ०

प्रवासन = न० प्र + वस–णिच्–भावे ल्युट्। १ विदेशवासने “सीताप्रवासनपटोः करुणां कुतस्ते” उत्तरचरितम्। २ वधे अमरः। ३ निर्वासने पुरात् बहिर्यापने।

प्रवासिन् = त्रि० प्र + वस–णिनि। १ विदेशे वासिनि हेमच०। “प्रवासी सुखमायाति” षट्पञ्चाशिका। स्त्रियां ङीप्

प्रवास्य = त्रि० प्र + वस–णिच्–कर्मणि यत्। पुरान्निर्वास्ये मनुः ८। २८४

प्रवाह = पु० प्र + वह–घञ्। १ प्रवृत्तौ २ जलादिस्रोतसि मेदि० २ व्यवहारे विश्वः ४ उत्तमाश्वे नानार्थरत्ना०। ५ सन्ततौ कालेन देशेन वा विच्छेदाभावे “प्रवाहरूपेणानादि”

प्रवाहक = त्रि० प्र + वह–ण्वुल्। १ प्रकर्षेण बोढरि २ राक्षसे पुंस्त्री० शब्दमाला।

प्रवाहण = पु० १ जैबले ऋषिभेदे शत० ब्रा० १४। ९१। १ तस्यापत्यं शुभ्रा० ढक् पूर्वपदस्य वा वृद्धिः। प्रावाहणेय प्रवाहणेय तदपत्ये पुंस्त्री० ततोऽपत्ये इञ् प्रावहणेयि प्रवाहणेयि प्रवाहाणेयस्यापत्ये पुंस्त्री०। प्रवाहयति प्र + वह–णिच्-ल्यु। २ प्रवाहयितरि “विभुरसि प्रवाहणः” यजु० ५। ३१

प्रवाहिका = स्त्री प्र + वह–रोगाख्यायाम् ण्वुल्। ग्रहणीरीगे अमरः ग्रहणीशब्दे २७५२ पृ० दृश्यम्। ततः अप- नयने तसि। प्रवाहिकातः कुरु प्रवाहिकायाः प्रतीकारं कुर्वित्यर्थः सि० कौ०।

प्रवाहिन् = त्रि० प्र + वह–णिनि। १ प्रवाहयुते त्रि०। प्रवाह + पुष्करा० देशे इति ङीप्। २ प्रवाहिणी प्रवाहयुतदेशे स्त्री

प्रवाही = स्त्री प्र + वह–णिच्–अच् गौरा० ङीष्। बालुकायां राजनि०।

प्रवाह्य = पु० प्रवाहे भवः यत्। १ रुद्रभेदे यजु० १६। ४३। प्र + वह–कर्मणि ण्यत्। २ प्रकर्षेण वाह्ये च।

प्रविख्याति = स्त्री प्र + वि + ख्या–भावे क्तिन्। अतिप्रसिद्धौ अमरः

प्रविदारण = न० प्रविदारयत्यत्र प्र + वि + दॄ–णिच्–आधारे ल्युट्। १ युद्धे अमरः। भावे ल्युट्। २ अवदारणे मेदि०। कर्मणि ल्युट्। ३ आकीर्णे त्रि० शब्दर०। कर्त्तरि ल्यु ४ प्रविदारणकारके त्रि०।

प्रविवर = न० प्रकृष्टं विवरं छिद्रमस्य। १ पीतकाष्ठे शब्दच०। २ प्रकृष्टच्छिद्रयुते त्रि०।

प्रविश्लेष = त्रि० प्रकर्षेण विश्लेषो यस्य। १ विधुरे २ परमविश्लेषयुते च अमरः।

प्रविषा = स्त्री प्रहतं विषं यया। अतिविषायास् (आतैच्) असरः।

प्रविष्ट = त्रि० प्र + विश–कर्त्तरि क्त। १ कृतप्रवेशे २ पैप्पलादिकौशिकयोर्मातरि स्त्री हरिवं० १९१ अ०।

प्रवीण = त्रि० वीणया प्रगायति प्र + वीणा + णिच्–अच्। १ निपुणे वीणया गायकस्य नैपुण्यप्रसिद्धेः तत्तुल्यनैपुण्यवत्त्वात्तथात्वम्। भौत्यस्य मनोः २ पुत्रभेदे पु० हरिवं ७ अ०।

प्रवीर = पु० प्रा० स०। १ प्रकृष्टवीरे २ सुभटे ३ उत्तमे त्रि० धरणिः ४ हर्य्यश्वनृपपुत्रभेदे पु० बिष्णु पु०। ५ पूरोः पौष्ट्यां भार्य्यायां जाते पुत्रभेदे पु० भा० आ० ९४ अ०। ऐलस्य उपदानव्यां जाते ६ पुत्रभेदे पु० हरिवं० ३२ अ०। ७ पुरुवंश्ये प्रचिन्वतः पुत्रे नृपभेदे पु० हरिवं० ३१ अ०।

प्रवीरबाहु = पु० राक्षमुभेदे रामा० ३। ३५ स०।

प्रवृञ्जनीय = पु० प्र + वृन्ज–कर्मणि अनीयर्। १ प्रवर्ग्ये २ महावीरे कात्या० २६। ७। १४

प्रवृत् = न० प्रवृणोति भूतानि प्र + वृ–क्विप्। अन्ने थजु० १५। ९ वेददीपः।

प्रवृतहोम = पु० होमभेदे कात्या० श्रौ० ९। ८। १६८

प्रवृत्त = त्रि० प्र + वृत–कर्त्तरि क्त। १ कृतप्रवृत्तिके प्रवृत्तियुते २ आरब्धे च “प्रवृत्तमन्यथा कुर्य्यात् यदि मोहात् कथञ्चन” छन्दोगप०। ३ प्रवृत्तिलक्षणे थर्मभेदे। भावे क्त। ४ प्रवृत्तौ न०।

प्रवृत्तक = न० “यदा समावोलयुग्मकौ पूर्य्ययोर्भवति ततववृत्त- कम्” वृ० र० उक्ते वैतालीयप्रवरणीये मात्रावृत्तभेदे।

प्रवृत्तचक्र = पु० प्रवृत्तं स्वाज्ञानुसारेण चक्र राष्ट्रादि यस्य। राष्ट्रादिष्वप्रतिहताज्ञे “प्रवृत्तचक्रतां चैव बाणिज्यं प्रभुतां तथा” याज्ञ० व्या० मिताक्षरा।

प्रवृत्ति = स्त्री प्र + वृत–क्तिन्। १ प्रवाहे २ वार्त्तायाम् ३ अबन्त्यादिदेशे मेदि० ४ हस्तिमदे हेमच०। ५ न्यायोक्ते चिकीर्षाकृतिसाध्यताज्ञानाधीने ६ प्रयत्नभेदे च प्रयत्नशब्दे दृश्यम्। “चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा। उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं मतम्” भाषा०। “दुःस्वजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः” गौ त० सू० “एतस्मान्मिथ्याज्ञानादनुकूलेषु रागः प्रतिकूलेषु द्वेषः रागद्वेषाधिकाराच्चासूयेर्ष्यमायालोभादयो दोषा भवन्ति। दोषैः प्रुयुक्तः शरीरेण प्रवर्तमानी हिंसास्तेयप्रतिषिद्धमैथुनान्याचरति वाचाऽनृतपरुपसूचनासम्बद्धानि, मनसा परद्रीहं परद्रव्याभीप्सां नास्तिक्यञ्चेति सेयं पापात्मिकाऽधर्माय अथ शुभा शरीरेण दानं परित्राणं परित्वरणञ्च। वाचा सत्यं हितं प्रियं स्वाध्यायञ्चेति मनसा दयामस्पृहा श्रद्धाञ्चेति सेयं धर्माय। अत्र प्रवृत्तिसाधनौ धर्माधर्म्मौ प्रवृत्तिशब्देनोक्तौ। यथा अन्नसाधनाः प्राणाः। अन्नं घै प्राणिनः प्राणा इति। सेयं कुत्सितस्याभिपूजितस्य च जन्मनः कारणम्” भाष्यम्। “प्रवृत्तिर्वागबुद्धिशरीरारम्भः” गौ० सू० “प्रवृत्तिदोषजनितोऽर्थः फलम्” गौ० सू० “प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम्” कणा०। “प्रत्यगात्मनीति स्वात्मनीत्यर्थः इच्छद्वेषजनिते प्रवृत्तिनिवृत्ती प्रयत्नविशेषौ ताभ्याञ्च हिताहितप्राप्तिपरिहारफलके शरीरकर्म्मणी चेष्टालक्षणे जन्येते तथा च परशरीरे चेष्टां दृष्ट्वा इयं चेष्टाप्रयत्नजन्या चेष्टात्वात् मदीयचेष्टावत् स च प्रयत्न आत्मजन्य आत्मनिष्ठो वा प्रयत्नत्वात् मदोयप्रयत्नवदिति परात्मनोऽनुमानम्” उप० वृ०। “इच्छाद्वेषपूर्बिका धर्माधर्मप्रघृत्ति” गौ० सू० “विहितकर्मणिरागगिवन्धना निषिद्धे कर्मणि हिंसादौ द्वेषनिबन्धना प्रवृत्तिः। तत्र रागनिबन्धना यागादौ प्रवृत्तिर्धर्मं प्रसूते द्वेषनिवन्घना हिंसादौ प्रवृत्तिरधर्मम्। तावेतौ रागद्वेषौ संसारमनुवर्त्तयतः” वात्स्या०। प्रवृत्तिस्तु द्वयी। कारणरूपा कार्य्यरूपा च। तत्राद्या यत्रत्वजातिमती प्रत्यक्षसिद्धा। द्वितीया तु धर्माधर्मरूपा यागादेरगम्यागसनादेश्च चिरध्वस्तस्य व्यापारतया कर्मनाशास्तलस्पर्शादेः प्रायश्चित्तादेश्च नाश्यतया सिध्यतीति। (गौ० वृ० ४। १) भट्टमते प्रवृत्तिर्द्वेधा। स्वेच्छा धीना परप्रेरणाजन्या। तत्राद्यायां प्रवर्त्तनाया अनुपयोगोऽपि द्वितीयपवृत्तौ सा प्रयोजिका। यथा आचार्य्यप्रेरणयेदं करोमोति” दि० क०। ७ शब्दानामर्थबीधनशक्तिभेदे “प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी” कुमा०। ८ स्वस्वविषये इन्द्रियादीनां सञ्चारे च।

प्रवृत्तिज्ञ = त्रि० प्रवृत्तिं वृत्तान्तं जानाति ज्ञा–क। १ वृत्तान्ताभिज्ञे २ चरभेदे पु० त्रिका०।

प्रवृत्तिनिमित्त = म० ६ त०। १ शब्दानां बोधनाशक्तेर्निमित्ते शक्यतावच्छेदके। यथा घटशब्दस्य प्रवृत्तिबिमित्तं घटत्वमेवं शुक्लादिशब्दस्य शुक्लत्वं पाचकादेः पाकः देवदत्तादेः तत्तत्तत्पिण्डादि। “सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च” काव्यप्र०।

प्रवृद्ध = त्रि० प्र + वृध–क्त। १ वृद्धियुक्ते २ प्रौढे च हेमच०।

प्रवृद्धादि = न० उत्तरपदस्यान्तोदात्ततानिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा “प्रवृद्ध प्रयुत अवहित अनवहित खट्वारूढ कविशस्तः आकृतिगणः”।

प्रवेक = त्रि० प्र + विच–कर्मणि घञ्। प्रधाने अमरः।

प्रवेट = पु० प्र + वी–ट। यवे त्रिका०।

प्रवेणि(णी) = स्त्री प्र + वेण–इन् वा ङीप्। १ गजस्कन्धस्थे कूथेचित्रकम्बले २ वेण्यां जलादिप्रवाहे च मेदि०।

प्रवेल = पु० प्र + वेल–अच्। पीतमुद्गे (सोनामुग) हेमच०।

प्रवेश = पु० प्र + विश–घञ्। अन्तर्गमने हेमच०।

प्रवेशक = त्रि० प्रविशति प्र + विश–ण्वुल्। १ मध्ये गन्तरि सा० द० उक्तं अर्थाक्षेपके २ मुखाङ्कभेदे “अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ” इत्युपक्रमे “प्रवेशकोऽनुदात्तोक्त्या नीचपात्रावयाजितः। अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्यके यथा”। अङ्कद्वयान्तरित्युक्तेः प्रथमाङ्के चरमाङ्के ष्वांस्य प्रतिषेधः। यथा वेण्यामश्वत्थामाङ्के राक्षेसमिथुनप्रयोजितः” एवमन्यत्रापि।

प्रवेशन = न० प्रविश्यतेऽनेन प्र + विश–करणे ल्युट्। १ प्रधानद्वारे २ सिंहद्वारे च। भावे ल्युट्। ३ प्रवेशे हेमच०। प्र + विश + णिच्–ल्युट्। ४ प्रवेशसम्पादने। प्रवेशनं प्रयीजनमस्य छ। प्रयेशनीय प्रवंशनसाधने त्रि०।

प्रवेष्ट = पु० प्र + वेष्ट–अच्। १ बाहौ अमरः २ बाहुनीचभागे शब्दच० ३ हस्तिदन्तमांसे हारा०। ४ गजपृष्ठस्थाने त्रिका० स्वार्थे प्राशस्त्येक। प्रवेष्टक दक्षिणबाहौ “प्रविश्य प्रवेष्टकेन निमित्तं सूचयित्वा” श० कु० “प्रवेष्टकेन दक्षिणबाहुना तत्स्पन्देन निमित्तं स्त्रीलाभरूपशुभसूचकं शकुनं सूचयित्वा “वामेतरभुजस्पन्दोवरस्त्रीसूचकः” शाकुनोक्तेः तत्कम्पस्य स्त्रीलाभसूचकत्वम्।

प्रव्यक्त = त्रि० प्रकर्षेण व्यक्तः। स्फुटे अमरः।

प्रव्याध = पु० प्रकृष्टो व्याधो यत्र। बलाधिक्येन क्षिंप्तशरस्य पतनं यत्र तादृशे स्थाने शत० व्रा० ५। १। ५। १३। कात्या० १४। ३। १६

प्रव्रजन = न० प्रास्य गृहादि व्रजनम्। गूहस्थाश्रमं पुत्रादीन् च परित्यज्य व्रजने सन्न्यासे।

प्रव्रजित = पु० प्र + घ्रज–क्त। १ सन्न्यासिनि त्रिका० २ मांस्यां ३ मुण्डीर्य्यां ४ तापस्याञ्च स्वी ५ वृद्धभिक्षुकीभेदे मेदि०। परनिपाते प्रव्रजिताशब्दस्य पाठात् कुमारप्रव्रजिता पुंसि तु न प्रव्रजितकुमार इत्येव।

प्रव्रज्या = स्त्री प्रास्य पुत्रादीन् व्रज्या व्रज–भावे क्यप्। पुत्रादीन् प्ररित्यज्य गमने सन्न्यासाश्रमे।

प्रव्रज्यावसित = पु० प्रव्रज्यातोऽवसितः। सन्न्यासच्युते “प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजोत्तमाः। निर्वासं कारयेद्विप्रं दासत्वं क्षत्रवैश्ययोः” कात्यायनवचनम्। तत् प्रायश्चित्तमुक्तम् शा० सू० भाष्यधृतस्मृतौ “वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्द्धयेत् भिक्षुर्वानप्रस्थवत् सोमवृद्धिवर्जम्”। कृतप्रायश्चित्तानामपि तेषामव्यवहार्य्याता यथोक्तम् “बहिस्तूभयथापि स्पृतराचाराच्च” शा० सू०। यद्यूर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महाषातकं यदि वोपपातकमुभयथापि शिष्टैस्ते बहिः कर्त्तव्याः “आरूढपतितं विप्र मण्डलाच्च विनिःसृतम्। उद्बद्ध कृमिदष्टञ्च स्पृष्ट्वा चान्द्रायणं चरेत्” इति चैवमादिनिन्दातिशयस्मृतिभ्यः शिष्टाचाराच्च। न हिं यज्ञाध्ययनविवाहादीनि तैः सहाचरन्ति शिष्टाः” भाष्यम्।

प्रव्राज = पु० प्र + व्रज–आघार घञ्। १ अत्यन्तनेम्ने देशे ऋ० ७। ६०७ भा०। भावे घञ्। २ सन्न्यासे च।

प्रशंसन = न० प्र + शन्स–भावे ल्युट्। गुणकीर्तनेन स्तुतौ। युच। प्रशंसनाऽप्यत्र स्त्री।

प्रशंसा = स्त्री प्र + शन्स–भावे अ। गुणाविव्कारेण स्तुतौ हेम०

प्रशंसोपमा = स्त्री काव्यादर्शोक्ते अर्थालङ्कारभेदे यथा “ब्रह्मणोऽप्युद्भवः पद्मश्चन्दः शम्भुशिरोधृतः। तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते”। तौ पद्मचन्द्रौ त्वन्मुखेन तुल्यौ इति पद्मचन्द्रयोः प्रशंसितयोरपि त्वन्मु- खसाश्येन प्रर्शसातिशयात् मुखस्य च सभधिकोत् कर्षव्यञ्जनात् प्रशंसोपमा उच्यते।

प्रशत्वन् = पु० प्र + शद–क्वनिप् तुट् च। १ समुद्रे उज्ज्वल० स्त्रियां ङीप् वनोर च। प्रशत्वरी २ नद्यां उजज्वल०।

प्रशम = पु० प्र + शम–घञ् न वृद्धिः। १ शान्तौ २ निवृत्तौ च। प्रशाम्यति प्र + शम–अच् गौरा० ङीष्। ३ अप्सरोभेदे स्त्री मा० अनु० १९ अ०। ४ रन्तिदेबस्य पुत्रेपु० भान० ९। २४। २५

प्रशमन = न० प्र + शम–णिच्–ल्युट्। १ बधे २ शान्तताकरणे च “लब्धप्रशमनखास्थ्यम्” रघु “सर्वाबाधाप्रशमनम्” चण्डी शम–भावे ल्युट्। ३ शान्तौ हेमच०।

प्रशस्त = त्रि० प्र + शन्स–क्त। १ प्रशंसनीये २ श्रेष्ठे ३ क्षेमे च शब्दच०।

प्रशस्ताद्रि = पु० वृ० सं० १४ अ० उक्ते मध्यदेशस्थे गिरिभेदे।

प्रशस्ति = स्त्री प्र + शन्स–भावे क्तिन्। १ प्रशंसायाम् २ स्तुतौ ऋ० १। ७४। ३

प्रशस्य = स्त्री प्र + शन्स–कर्मणि क्यप्। १ प्रशंसनीये। तस्य इष्ठेयसुनोः परता श्रादेश अतिशयेन प्रशस्यः श्रेष्ठः श्रेयान् भावे क्यप्। २ प्रशंसने न०।

प्रशाखा = स्त्री प्रगता शाखाम् अत्या० स०। अग्रशाखायाम् भा० कर्ण० १०६८ श्लोक०।

प्रशान् = अव्य० प्र + शो बा० अनि स्वरादि०। सामर्थ्ये

प्रशासन = न० प्र + शास–भावे ल्युट्। शिष्यादीनामिष्टादिबोधनाय कर्तव्यतावोधकवाक्योच्चारणे “क्षात्रस्यैव प्रशासनमभूत्” छा० उ०।

प्रशास्तृ = पु० प्र + शास–उणा० सू० तृन संज्ञायां अनिट च। शस्त्ररूपशंसनकर्त्तरि ऋत्विग्भेदे असज्ञायान्तु तृचुइट्। प्रशासितृ। प्रशासनकर्त्तरि राजादौ।

प्रशास्त्र = त्रि० प्रशास्तुमिदम् अण् संज्ञापूर्वविधेरनित्यत्वात् न वृद्धिः। शस्त्ररूपशंसनकर्तृसम्बन्धिनि।

प्रशिव्य = पु० प्रगतः शिष्यमध्यापकत्वेन अत्या० स०। शिष्यस्य शिष्ये “शिष्यप्रशिष्यैरुपगीयमानमवे हि तन्मण्डनमिश्रधाम” शङ्करदिग्विजयः

प्रश्न = पु० प्रच्छ–भावे नङ्। जिज्ञासायाम् ज्ञातुमिच्छया १ कघनाय प्रेरणे अमरः। अविज्ञातार्थज्ञानार्घम इच्छाप्रयोज्यवाक्ये “अविज्ञातप्रबचनं प्रश्व इत्यभिधीयते”। जिज्ञासाशब्देन तत्प्रथोज्यकथानुकूलव्यापारोलक्ष्यते को भवान् ? किमेतस्य लक्षणम? इत्यादि। २ उपनिषद्भेदे पु० दैवज्ञं प्रति भाविशुभाशुभज्ञानाय दैवज्ञस्य बचनानुकूल व्यापारे तदुत्तरज्ञापकशास्त्रञ्च प्रश्चमनोस्माटि।

प्रश्नदूती = स्त्री प्रश्रस्य दूतीव। प्रहेलिकायाम् त्रिका०।

प्रश्नविवाक = पु० कृतान् प्रश्नान् विवक्ति उत्तरयति वि + वचकर्त्तरि संज्ञायां घञ्। प्रश्रोत्तरदायके ज्योतिर्विद्भेदे “मर्य्यादायै प्रश्नविवाकम्” यजु० ३०। १० वेददी०।

प्रश्नव्याकरण = पु० प्रश्नान् शिष्यकृतप्रश्नान् व्याकरोति उत्तरयति वि–आ कृं–ल्यु ६ त०। १ जैनभेदे हेमच०। भावे ल्युट्। २ पृष्टार्थोत्तरज्ञापने न०।

प्रश्नि = पु० १ ऋषिभेदे भा० शा० २६ अ०। प्रच्छ–वा–नि वा ङीप्। २ कुम्भिपाकायां (षाना) त्रिका०।

प्रश्नोपनिषद् = प्रश्नाधिकारेण प्रवृत्ता उपनिषत्। आथर्वोषनिषद्भेदे “भगवन्! कुतो वा हवा इमाः प्रजाः प्रजायन्ते” इत्यादि पञ्चप्रश्नाधिकारेण तस्याः प्रवत्तेस्तथात्वम्।

प्रश्रय = पु० प्र + श्रि–करणे अच्। प्रणये अमरः।

प्रश्रित = त्रि० प्र + श्रि–क्त। १ विनीते अमरः शान्विदेवस्य २ पुत्रभेदे पु० भाग० ९ २४ २५

प्रश्लय = त्रि० प्रकृष्टः श्लथ प्रा० स०। प्रकृष्टे शिथिले त्रिका०।

प्रश्लिष्ट = त्रि० प्र + श्लिष्ट–क्त। सुसम्बद्धे युक्तियुक्ते आचिता० नास्यान्तोदात्तता।

प्रश्वास = पु० प्र + श्वस–भावे घञ्। कोष्ठ्यस्य बायोर्बहिनिःसारणे “श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” पा० त० सू० भाष्यम्। कुम्भकशब्दे २११४ पृ० दृश्यम्।

प्रष्टृ = त्रि० प्रच्छ–तृच्। प्रश्नकारके स्त्रियां ङीष्।

प्रष्टि = पु० प्रच्छ–कर्त्तरि बा० ति। वाहनत्रयमध्यवर्त्तिनि मृगभेदे ऋ० १३९। ६

प्रष्ठ = त्रि० प्र + स्था क “प्रष्ठाऽग्रगामिनि” पा० षत्वम्। १ अग्र गामिनि। २ श्रेष्ठे च अमरः। तस्य पत्नी ङीष्। २ तत्पत्न्यां स्त्री। गौरा० ङीष्। ३ चण्डकौषधौ स्त्री राजनि०।

प्रष्ठवाह् = त्रि० प्रष्ठं वहति वह–ण्वि। १ युगषार्श्वगे पथमयोजिते दम्ये गवादौ अमरः युगपार्श्वे योजिते गवाहिके शिक्षार्थः यं प्रथमं वाहयति तस्मिन्। भत्वे वाह ऊट् प्रष्ठौहः प्रष्ठीहा इत्यादि। स्त्रियां ङीप् प्रष्ठौही तथाविधस्त्रियाम् २ प्रथमगर्भिण्यां गवि धरणिः।

प्रस = प्रसवे ततौ च सक० दिबा० आ० सेट्। प्रस्यते अप्रसिष्ट। मित् घटादि णिच् प्रसयति ते।

प्रसक्त = त्रि० प्र + सन्ज–क्त। १ प्रसङ्गविषये “प्रसक्तं हि प्रतिषिध्यते” मीमांस०। २ नित्ये नित्यतायुक्ते त्रि० जटा०

प्रसक्ति = स्त्री प्र + सन्ज–मावे क्तिन्। १ प्रसङ्गे २ आपत्तौ ३ अनुमितौ दीधितिः। ४ व्याप्तौ च “अतिप्रसक्तिरन्यधर्मत्वे” सा० सू०। अतिव्याप्तिस्तदर्थः।

प्रसक्षिन् = पु० प्र + सह–बा० सिनि। प्रसहनशीले ऋ० ८। १३। १०। भाष्ये दृश्यम्।

प्रसंख्यान = न० प्र + सम् + ख्या–भावे ल्युट्। १ सम्यग्ज्ञाने “हरः प्रसंख्यानपरो बभूव” कुमा०। प्रा० ब०। २ प्रकर्षेण संख्यायुते त्रि० भा० व० १२१ अ०।

प्रसङ्ग = पु० प्र + सन्ज–भावे घञ्। १ प्रकृष्टसङ्गे २ व्याप्तिरूपे सम्बन्धे यथाऽतिप्रसङ्गः अप्रसङ्ग इत्यादौ ३ सङ्गतिभेदे “सप्रसङ्ग उपोद्घाता हेतुतावसरस्तथा। निर्वाहकैककार्य्यत्वे षोढा सङ्गतिरिष्यते”। तत्र “प्रसङ्गत्वम् स्मृतत्वे सत्युपेक्षानर्हत्वं तच्च स्मृतिविषयतापन्नत्वे सति द्वेषविषयतानापन्नत्वम्” अनुमितौ गदाधर। ४ अनुरक्तत्वे ५ प्रस्तावे ६ मैथुनासक्तौ ७ प्राप्तौ च “कृताकृतप्सङ्गै नित्यं तद्विपरीतमनित्यम्” व्या० परिभाषा। तत्र प्रसङ्गः प्राप्तिरेव “शब्दान्तरम् प्राप्नुवन् विधिरनित्यो भवति शब्दान्तरात् प्राप्नुवतः शब्दान्तरेऽप्राप्नुवतश्च लक्षणान्तरेण प्राप्नुवन् विधिरनित्यः” नागेशः। क्वचित् कृताकृतप्रसङ्ग मात्रेणापि नित्यता” व्या० परिभाषा। प्रसङ्गशब्देन प्राप्ते रेव ग्राह्यता। अन्योद्देशेन प्रवृत्तौ अन्यस्यापि ८ सिद्धौ तत्र यथान्थस्य सिद्धिस्तथा तदुदाहरणादिकञ्च प्रा० त० उक्तं यथा “अन्योद्देशेन प्रवृत्तावन्थस्यापि सिद्धिः पसङ्गः यथा पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्यपातिनः पुरोडासस्यापि उपकारः सिध्यति। यथा वा “तप्ते पयसि दध्यानयति सावैश्वदेव्यामिक्षा भवति वाजिभ्यो वाजिनम्” इत्यत्रामिक्षार्थं प्रवृत्तौ अनुद्देश्यवाजिनस्यापि सिद्धिः”। यथा वा काम्ययागनिष्पत्त्यर्थमनुष्ठितैराग्नेयादिभिर्नित्यथागादिसिद्धिरिति मिताक्षरोक्तम् यथा दण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयकावगोरणप्रायश्चित्तम्पि सम्पद्यत इति प्रायश्चित्तविवेकोक्तम्। तथा व्राह्मणबवोद्देशेन द्वादशवार्षिके कृते क्षा त्रिषबधनिमित्तकत्रैवार्षिकप्रायश्चित्तस्य सिद्धिः। एवञ्च तन्त्रप्रसङ्गयोरनावृत्तेनैव कर्मणा नानादृष्टफलसिद्धौ नाघवमेव हेतुः। नन्ववगोरणक्षत्रियबधप्रायश्चित्तयोः कथं प्रसङ्गेन सिद्धिः सङ्कल्पादेरभावात्, तयोः सङ्कः ल्पादिः कुत इति चेत् प्रायश्चित्तत्वात् तथात्वऽपि कथं सङ्कल्प इति चेत् काम्यत्वात्”। “एवञ्च काम्यस्य सर्वशक्त्यधिकरणे सर्वाङ्गोपेतस्यैव फलवत्त्वाभिधानात् तस्यापिप्रसङ्गविषयत्वे काम्ये हि काम्याभिलापसहितकुशतिलजलत्यागरूपः सङ्कल्पः शास्त्रार्थ इति प्रक्रसाघफ रणोक्तेन “प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत्। प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत्” इति लिखितवचने प्रत्येकं नियतं कालमिति तत्तद्व्रतकाल संख्याम् आत्मनो व्रतम् आत्ममम्बन्धित्वेस आत्मकर्तृ त्वेन इति यावत्। तेनामुकव्रतमहङ्करिष्ये इति चादिशेदुल्लेखं कुर्य्यात् इत्यनेन प्राप्तस्य सङ्कल्पस्य बाधः” इत्याशङ्क्य तत्र समाहितं यथा “प्रायश्चित्तस्य नित्यत्वेनाङ्गवैकल्येऽपि फलसिद्धिः”। अत्रेद बोध्यम् प्रसङ्गशब्देन व्याप्तिरेवोच्यते तथा चोद्दिष्टकर्मणा व्याप्तस्य यत्र सिद्धिस्तत्रैवास्य प्रवृत्तिः। उद्दिष्टकर्मणः व्याप्यत्वञ्च देशकालकर्त्रादीनां प्रयोगानुवन्धिनां वैधहेतुभूतानामेवैक्ये भवति अतस्तन्त्रवदत्रापि कालदेशाद्यन्तर्भावेनैव व्याप्यता”।

प्रसङ्गसम = पु० स्थापनाहेतुप्रयोगे प्रतिषेधहेतुरूपजात्युत्तरभेदे “दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमो” गौ० ५। १। ९ “साधनस्यापि गाधनं वक्तव्यमिति प्रसङ्गे प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः क्रियाहेतुंगुणयोगी क्रियावाल्लोष्ट इति हेतुर्नोपदिश्यते। न च हेतुमन्तरेण सिद्धिरस्तीति। दृष्टान्तस्य कारणं प्रमाणं तदनपदेशोऽनभिधानम् अभिधानं चानतिप्रयोजनकं तथा च दृष्टान्तस्य साध्यवंत्त्वे प्रमाणाभाणाभावात् प्रत्यवस्थानमर्थः। यद्यपीदं सदुत्तरमेव तथापि दृष्टान्ते प्रमाणं वाच्यं तत्रापि प्रमाणान्तरमित्यनवस्थया प्रत्यवस्थाने तात्पर्य्यं तदुक्तमाचार्य्यैरनवस्थाभासप्रसङ्गः प्रसङ्गसम इति एतन्मते हेतोर्हेत्वन्तरमित्यनवस्थाऽपि प्रसङ्गसम एव पूर्वमते तु हेत्वनवस्थादिकं वक्ष्यमाणाकृतिगणेष्वन्तर्भूतमिति विशेषः। अनवस्थादेशनाभासा चेयं प्रतिदृष्टान्तसमः प्रत्येतव्यः” वृत्तिः। अस्योत्तरं तत्रोक्तम्। प्रदोपादावप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः” गौ० सू० “इदं तावदयं पृष्टो वक्तुमर्हति अथ के प्रदीपमुपाददते किमर्थं वेति दिदृक्षमाणाः दृश्यदर्शनार्थमिति। अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मान्नोपाददते अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः तत्र प्रदोपदर्शनार्थं प्रदोपोपादानं निरर्थकम्। अथ दृथान्तः स किमर्थसुच्यत इति। अपज्ञातस्य ज्ञापनार्थमिति अथ दृष्टान्ते कारणापदेशः किमर्थं दृश्यते यदि प्रज्ञापनार्थम् प्रज्ञातो दृष्टान्तः स खलु लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं त दृष्टान्त इति तत्प्रज्ञानार्वृः कारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम्”। प्रसङ्गसमे प्रत्युत्तरमाह। दृष्टान्तो हि निदर्शनस्थानत्वेनसाध्यनिश्चयार्थमपेक्ष्यते न तु दृष्टान्तदृष्टान्ताद्यनवस्थितपरम्परा लोकसिद्धा युक्तिसिद्धा वा अन्यथा घटादिप्रत्यक्षार्य प्रदीप इव प्रदीपप्रत्ययार्थमनवस्थितप्रदीपपरम्परा प्रसज्येत तदीयसाधन्मपि व्याहन्येत” वात्स्या०।

प्रसज्य = पु० भीमो भीमसेनवत् प्रसज्यप्रतिषेधस्यान्त्यलोपः। प्रसज्यप्रतिषेधे अत्यन्ताभावे अत्र रोगीति निन्दाश्रयणात् प्रसज्यता” मल० त० रथु०।

प्रसज्यप्रतिषेध = पु० प्रसज्य प्रसक्तिं सम्पाद्यारोप्येति यावत् प्रतिषेधः। अत्यन्ताभावे “प्रसक्तं हि प्रतिषिध्यते” इति न्यायेन आरोपितप्रसङ्गस्यैव निषेधः तेन वायौ रूपं नास्तीत्यादावपि वायौ रूपारोपं कृत्वैव निषेधो नञा बोध्यते इति विवेकः। कलञ्जाधिकरणशब्दे १७७७ पृ० नञ्शब्दे ३१४३ पृष्ठादौ मतभेदेन नञ पर्युदासप्रसज्यप्रतिषेधपरता दृश्या। “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्” शाब्दिकाः। न कलञ्जं भक्षयेदित्यत्र वलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वरूपस्य विध्यर्थस्याभावो तंञा बोध्यते तेन विधेरप्राधान्यं नजर्थाभावस्य च प्राधान्यं तेन तत्र क्रियापदान्वयिनञ्प्रसज्यप्रतिषेधार्थकः। गुरुमते तु कलञ्जभक्षणाभावविषयकं कार्यमिति बोधेन अभावविशेष्यकबोधेऽपि प्रतिषेधस्य प्राधान्यात् तथात्वं तथा च तन्मते क्वचित् विधेरप्राधान्येन क्वचिच्च प्रतिषेधस्य प्राधान्येन इति व्यस्तमेव प्रसह्यप्रबिषेधप्रबोधकप्रयोजकमिति बोध्यम्।

प्रसत्ति = स्त्री प्र + सद–क्तिन्। १ नैर्मल्ये २ प्रसन्नतायाम् जटा०

प्रसत्वन् = पु० प्र + सद–वनिप्। १ धर्मे २ प्रजापतौ च सं० उणा०। ३ प्रतिपत्तौ स्त्री ङीप् वनोर च।

प्रसन्धि = पु० १ मनुपुत्रभेदे भा० आश्व० ४ अ०। प्रा० त०। २ प्रकृष्टसन्धौ च।

प्रसन्न = त्रि० प्र + सद–कर्मरि क्त। १ निर्मले २ सन्तुष्टे ३ कृतानुग्रहभेदे अमरः। ४ सुरायां स्त्री मेदि० “प्रसन्ना गुल्मवातार्शोविबन्धानाहनाशिनी। शूलप्रवाहिकाटीपकफवातार्शसां हिता” राजवल्लभः। तस्य भावः तल् प्रसन्नता स्त्री त्व प्रसन्नत्व म० तद्धावे प्रसादे नैर्मल्ये च।

प्रसन्नात्मन् = त्रि० प्रसन्नी निर्म्मल आत्मा यस्य। १ प्रसन्नान्तःकरणे २ विष्णौ पु० “सुप्रसादः प्रसन्नात्मा” विष्णुस०। तत्स्वरूपस्य विर्दोषत्वात्तथात्वम्।

प्रसन्नेरा = स्त्री कर्म्म०। मदिराभेदे भरतः।

प्रसभ = त्रि० घ्रगता सभा सभाधिकारोऽस्मात् प्रा० व०। बलात्कारे अमरः “प्रसभोद्धृतारिः” रघुः।

प्रसयन = न० प्र + सि–बन्धने करणे ल्युट। बन्धनसाधने १ तन्तौ २ जाले च “प्रसितिः प्रसयनात् तन्तुर्वा जालं वा” निरु० ६। १२।

प्रसर = पु० प्र + सृ–भावाधारादौ यथायथम् अप् कर्त्तरि अच् वा। तन्तुविटपादेः प्रकर्षेण १ सर्पणे प्रकर्षेण २ सरणे अमरः ३ वेगे ४ प्रलये च मेदि०। ५ समूहे शब्दर० ६ युद्धे विश्वः। ७ नाराचास्त्रे ८ विसर्पणकर्त्तरि त्रि०।

प्रसरण = न० प्र + सृ–भावे ल्युट्। १ सैन्यादेः सर्वतो गमने तृणाद्याहरणार्थं सैन्यानामितस्ततो गतौ ३ आसारे अमरः। अनि प्रसरणि तथार्थे स्त्री रामाश्रमः वा ङीप्

प्रसर्पण = न० प्र + सृप–ल्युट्। सैन्यानां सर्वतोव्याप्तौ अस्य स्त्रीत्वञ्च तत्र ङीष्।

प्र(श)सल = पु० प्र + शल–अच् पृषो० शस्य (सोवा) हेमन्तकाले हेमच०।

प्रसलवि = अव्य० प्रदक्षिणे शत० ब्रा० २। ६। ११। १५ भाष्यम्।

प्रसव = पु० प्र + सू–भावादौ अप्। १ गर्भमोचने २ उत्पत्तौ ३ कार्ये ४ फले ५ कुसुमे ६ अपत्ये च मेदि० नारीणां गर्घमुक्ति कालश्च भावप्र० उक्तो यथा “नवमे दशमे मासि नारी नर्भं प्रसूयते। एकादशे द्वादशे वा ततोऽन्यत्र विकारतः”। वैकृतं यथा “गर्ग उवाच “अकालप्रसवा नार्य्यः कालातीताः प्रजास्तथा। विकृतप्रसवाश्चैव युग्मप्रसवनास्तथा। अमानुषा अवण्डाश्च नजातव्यञ्जनास्तथा। हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः। पशवः पक्षिणश्चैव तथैव च सरीसृपाः। विनाशं तम्य देशस्य नृपस्य च विनिर्दिशेत्। निर्वासयेत्तां नृपतिः स्वराष्ट्रात् स्त्रियञ्च, पूज्याश्च ततो द्विजेन्द्राः। किमिच्छिकैर्ब्राह्मणतर्पणञ्च लोके ततः शान्तिमुपैति पापम्” मात्स्ये २०९ अ०। “भानौ सिंहगते चैव यस्य गौः सप्रसूयते। मरणं तस्य निर्दिष्टं षड्भिर्मासैर्न संशयः। अत्र शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम्। प्रसुतां तत्क्षणादेव तां गां विप्राय दापयेत्। ततो होमं प्रकुर्वीत घृताक्तैराजसर्षपैः। आहुतीनां घृताक्तानामयुतं जुहुयात्ततः” नारदः। “प्रसबविकारे स्त्रीणां द्वित्रिचतुःप्रभृति सम्प्रसूतौ वा। हीनातिरिक्तकाले च देशकुलसङ्क्षयो भवति। बडवोष्ट्र महिमगोहस्तिनीषु यमलोड्भवे मरणमेमाम्। षण्मा- सात् सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ “नार्य्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना। तर्पयेच्च द्विजान कामैः शान्तिं चैवात्र कारयेत्। चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परमूमिषु। नगरं स्वामिनं यूथमन्यथा हि विनाशयेत्” वृ० सं० ४६ अ०। सुखव्रसवप्रकारः ज्यो० त० उक्तो यथा “अस्ति गोदावरीतीरे जम्भला नाम राक्षसीं। तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्”। “पञ्च रेखाः समुल्लिख्य तिर्य्यगूर्द्ध्वक्रमेण हि। पदानि १६ षड्दशापाद्य त्वेकमाद्ये मुनौ ७ त्रयम्। नबमे सप्त दद्यात्तु वाणं ५ पञ्चदशे तथा। द्वितीयेऽष्टावष्टमे षट् दिशि १० द्वौ षोडशे श्रुति ४ म्। एकादिना समं देयमिच्छार्द्धाङ्कं त्रिकोणके। तदा द्वात्रिं शदादिः स्यात् चतुः कोष्ठेषु सर्वतः। दर्शनाद्धारणात्तासां शुभं स्यादेषु कर्मसु। द्वात्रिंशत् प्रसबे नार्य्याश्चतूस्त्रिंशद्गमे नृणाम्। भूतारिष्टेषु पञ्चाशद् मृतापत्यासु वै शतम्। द्वासप्रतिस्तु सन्ध्यायां चतुः षष्टीरणाध्वनि। विषे विंशो धान्यकीटेष्वष्टाविंशतिरेव च। चतुरष्टौ ३२ च बालानां रोदने परि कीर्त्तिता”। स्थानविशेषादिस्थग्रहभेदानां विकृतप्रसवसूचकताभेदः वृ० जा० उक्तो यथा “उदयस्थेऽपि वा मन्दे कुजे वास्तं ७ समागते। स्थिते वाऽन्तःक्षपानाथे शशाङ्कसुतशुक्रयोः। शशाङ्के पापलग्ने वा वृश्चिकेश (कुज) त्रिभागगे। शुभैःस्वाय २। ११। स्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा। चतुष्पदे गते भानौ शेषैर्वीर्य्यसमन्वितैः। द्वितनुस्थैश्च यमलौ भवतः कोशवेष्टितौ। छागसिंहवृषैर्लग्ने तत्स्थे सौरेऽथ वा कुजे। राश्यं शसदृशे गात्रे जायते नालवेष्टितः”। स्थानभेदे प्रसवसूचकयोगः वृ० जा० उक्ती यथा “पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे। लग्नः जलजेऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते। आप्योदयमाप्यगः शशीसम्पूर्णः समवेक्षतेऽथ वा। मेषूरण बन्धुलग्नः ग स्यात् सूतिः सलिले न संशयः। उदयोडुपयोर्व्यय १२ स्थिते गुप्त्यां पापनिरीक्षिते यमे। अलिकर्कियुते विलग्नगे सौरे शीतकरेक्षितेऽवटे। मन्देऽब्जगते विलग्नगे बुधसूर्य्येन्दू निरीक्षिते क्रमात्। क्रीडाभवने सुरालये शेखरभूमिषु च प्रसूयते। नृलग्नगं प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दूगुरुरग्निहीत्रे। रविर्नरेन्द्रामरगोकुलेषु शिल्पालये ज्ञः प्रसवं करोति। राश्यंशसमानगोचरे मार्गे जन्म चरे न्यिरे गृहे। स्वर्क्षांशिगते स्वमन्दिरे बलयोगात् फलमंशकर्क्षयोः। आरार्कजयोस्त्रिकोणगे चन्द्रेऽस्ते च विसृज्यतेऽम्बया। दृष्टेऽमरराजमन्त्रिणा दीर्घायुः सुखभाक् च स स्मृतः। पापेक्षिते तुहिनगा वुदये कुजेऽस्ते ११ त्यक्तो विनश्यति कुजार्कजयोस्तथाये। सौम्येऽपि पश्यति तथाविधहस्तमेति सौम्येतरेषु परहस्तगतोऽप्यनायुः। पितृमातृगृहेषु तद्बलात्तरुशालादिषु नीचगैः शुभैः। यदि नैकगतौ तु वीक्षितौ लग्नेन्दू विजने प्रसूयते। मन्दर्क्षांशे शशिनि हिवुके भन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयने नीचसंस्थैश्च भूमौ। यद्वद्राशिर्व्रजति हरिजं गर्भमीक्षस्तु तद्वा पापैश्चन्द्रात् स्मर ७ सुख ४ गतैः क्लेशमाहुर्जनन्याः”। अथ सूतिकागृहमानम् “अष्टहस्तायतञ्चारु चतुर्हस्तविशालकम्। प्राचीद्वारमुद्ग्द्वारं विदध्यात् सूतिकागृहम्”। आसन्नपसवायालक्षणमाह “याते हि शिथिले कुक्षी मुक्ते हृदयबन्धने। सशूले जघने नारी विज्ञेया प्रसवो तसुका। आसन्नप्रसवायास्तु कटीपृष्ठन्तु सव्यथम्। भवेन्मुहुः प्रवृत्तिश्च मूत्रस्य च मलस्य च”। अथासन्नप्रसवाया उपचारः “तैलेनाभ्यक्तगात्राणां संस्नातामुष्णारिणा। यबागूम्पाययेत् कोष्णां मात्रया घृतसयु ताम्। कृतोपधाने मृदुभिर्विस्तीर्णे शयने शनैः। आभुग्नसक्थि चोत्ताना नारी तिष्ठेद्व्ययान्विता”। (अभुग्नसक्थि असङ्कोचितोरुः) अथ धात्री “चतस्रोऽशङ्कनीयाश्च स्रावणे कुशला हिताः। वृद्धः परिचरे युस्ताः सम्यक् छिन्ननखाः स्त्रियः”। अथ तत्कृत्यम् “अपत्यमार्गं तैलेन समभ्यज्य समन्ततः। एका तु तासु सुभगे! प्रवाहस्वेति तां वदेत्। अव्यथा मा प्रवाहिष्ठाः प्रवाहेथा व्यथा यदि। प्रवाहेथाः शनै पूर्वं प्रगाढञ्च ततःपरम्। ततो ग ढनरं गर्भे योनिद्दारमुपागते। अपरासहितो गर्भो यावत् पतति भूतले”। व्यथारहितायाः प्रवाहणाद्वैगुण्यमाह “मूकं वा बधिरं कुब्जं श्वासकामक्षयान्वितम्। सूते स्रस्ततनुं वालमकाले च प्रवाहणात्” भावप्र०। नवममाठादिप्रसवकालश्च नारीणामन्यजन्तूनां मासाभेदाअन्यत्रा दृयाः

प्रसवक = पु० प्रसवेन पुप्यादिना कायति कै–क। पियालवृक्षे शब्दमाला।

प्रसवबन्धन = न० बन्ध–करणे ल्युट् प्रसवस्य पुष्पादेः बन्धनम्। वृन्ते ({??}ंर्ट) अमरः।

प्रसवस्थली = स्त्री ६ त०। प्रसवस्य स्थलीव वा। १ उत्पत्तिस्थाने ३ मातरि च।

प्रसवितृ = पु० प्रसूते उत्पादयति प्र + सू–सूतेः उत्पादनानु कूलव्यापारार्थत्वात् तृच्। १ पितरि शब्दरत्ना० निरु० ६। ३१। प्रसूतौ २ मातरि स्त्री ङीप्।

प्रसविन् = त्रि० प्र + सू–शीलार्थे इनि। प्रसवशीले।

प्रसव्य = त्रि० प्रगतं सव्यं वामत्वम्। १ प्रतिकूले अमरः। कर्मणि यत्। २ प्रसवनीये त्रि०।

प्रसह = त्रि० सहति प्र + सह–अच्। १ प्रकर्षेण सोढरि प्रसह्य वलात्कारेण भक्षयतीति प्रसहः। बलात्कारेण भक्षके २ खगभेदे “काको गृध्र उलूकश्च चिल्लश्च शगघातकः। चाषो भासश्च कुरवः इत्याद्याः प्रसहाः स्मृताः” शशघातकः (वाज) इति लोके “प्रमहाः कीर्त्तिता एत प्रसह्याछिद्य भक्षणात्। प्रसहाः खलुवीर्य्योष्णान्तन्मांसं भक्षयन्ति ये। ते शोषभस्मकोन्म देः शुक्रक्षीणा भवन्ति हि” भावप्र०।

प्रसहन = त्रि० प्रगतं सहनं यस्य। १ क्षमारहिते २ हिंस्रपशुभेदे पुंस्त्री० “शार्दूलसिंहशरभर्क्षतरक्षुनुख्यायेऽन्यान् प्रसह्य विनिहत्य निवर्त्तयन्ते। ते कीर्त्तिताः प्रसहनाः पललं तदीयमर्शःप्रमेहजठरामयजाड्यहारि” राजनि०। भावे ल्युट्। ३ आलिङ्गने प्रकर्षेण ४ क्षमायां च।

प्रसह्य = अव्य० प्र + सह–ल्यप्। १ हठादित्यर्थे अमरः “प्रसह्यतेजोभिरसंख्यतां गतैः” माघः। प्र + सह–कर्मणि शक्यार्थे यत्। प्रकर्षेण २ सोढुंशक्ये त्रि०।

प्रसह्यचौर = पु० प्रसह्य बलात्कारेण चौरः। (डाकाइत) प्रकाशचौरे त्रिका०।

प्रसह्यहरण = न० प्रसह्य बलात्कारेण हरणम्। १ क्षत्रियेण कन्यायाः बलाद्धरणे भा० आ० २१९ आ०। २ हठेन हरणे (डाकाइति) प्रसह्यहरणं च साहसभेदः।

प्रसह्वन् = त्रि० प्र + सह–बनिप्। प्रसहनकर्त्तरि क्षमे कात्या० २३४२१।

प्रसातिका = स्त्री सो–क्तिन् प्रगता सातिरस्याः कप् प्रा० ब०। अणुधान्ये सूक्ष्मधान्ये रत्नमाला।

प्रसाद = पु० प्र + सद–भावे घञ्। १ नैर्मल्ये २ अनुग्रहे ३ काव्यगुणमेदे ४ स्वास्थ्ये ५ प्रसक्ते ६ देवनैदेद्ये ७ गुरुजनभुक्ताव शिष्टे च अमरः। काव्यगुणभेदश्च रसस्यैव धर्मभेदः शब्दानां तथात्वमुपचारात् यथोक्तं सा० द० “रसस्याङ्गित्वसाप्तस्य धर्माः शोर्य्यादयो यथा”। गुणाः यथा खत्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वात् शौर्य्यादयो गुणशब्द वाच्याः तथा काव्येऽङ्गित्वमाप्तस्य रसस्य धर्मा। स्वरूपविशेषाः माधुर्य्यादयोऽपि खसम्पकिंपदसन्दर्भस्य काव्य व्यपदेशस्यौपायिकानुगुण्यभाज इत्यर्थः”। यथा चैर्षा रसमात्रस्य धर्मत्वं तथा दर्शितम्। “एवं माधुर्य्यमोजोऽथ प्रसाद इति ते त्रिधा” इत्युपक्रमे “चित्तं व्याव्नेति थः क्षिप्रं शुष्केन्थनमिवानलः। स प्रसादः समस्तेषु रसेषु रचनासु च”। व्याप्नोति आविष्करोति। “शब्दास्तद्व्यञ्जका ह्यर्थबोधकाः श्रुतिमात्रतः” यथा “सूचीमुणेन सकृदेव कृतव्रण! त्वं सुक्ताकलाप। लुठसि स्तनयोः प्रियायाः। बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्नेऽपि तां कथमहं न विलोकयामि” सा० द० “प्रसादवत् प्रसद्वार्थमिन्दोरिन्दीवरद्युति। लक्ष्मलक्षीं तनोतीति प्रतीतिं सुभगं वचः” काव्यादर्शः। धर्मस्य पत्न्यां मूर्त्तौ जाते ८ पुत्रभेदे भाग० ४। १। ३९।

प्रसादना = स्त्री प्र + सद–णिच्–युच्। १ मेवायां हेमच०। भावे ल्युट्। २ प्रसादन तत्रार्थे न० “मैत्रीकरुणामुदितोपेक्षाणां सुखिदुः खिपुण्यपापविषयाणां भावनाश्चित्तप्रसादनम्” पा० सू०। चितप्रसादनशब्दे २९१४ पृ० दृश्यम्।

प्रसादपट्ट = पु० प्रसादसूचकः पट्टः शा० त०। अनुग्रहसूचके वृ० सं० ५० अ० उक्ते पट्टभेदे पट्टशब्दे ४२०१ पृ० दृश्यम्।

प्रसाधक = त्रि० प्रसाधयति प्र + साधि–ण्युल्। १ भूषके स्त्रियां कापि अत इत्त्वम्। २ अलङ्गर्त्त्र्यां ३ नीवारधान्ये स्त्री भावप्र०। राज्ञां प्रसाधनार्थे ४ सेवकभेदे पु० “सूदव्यञ्जनकर्त्तारस्तल्पका व्ययकास्तधा। प्रसाधका भोजकाश्च गात्रसंवाहका अपि। जलताम्बूलकुसुमगन्धभूषणदायकाः” कामन्द०।

प्रसाधन = न० प्र + सिध–णिच्–साधादेशः ल्युट्। १ कृत्रिमभूषणे वेशे। करणे ल्युट्। २ कङ्कतिकायाम् स्त्री ङीप् अमरः। ३ निष्पादने ४ सिद्धौ च मेदि०।

प्रसाधित = त्रि० प्र + साधि–क्त। १ अलङ्कृते २ निष्पादिते च।

प्रसारण = न० प्र + सृ–णिच्–ल्युट्। १ विस्तारकरणे २ क्रियाभेदे च भाषा० कर्मन्शब्दे १७३० पृ० दृश्यम्। विप्रकृष्टदेशसंयोगहेतुक्रिया प्रसारणम्। करणे ल्युट् ङीप्। (गन्ध भादाल) ३ सताभेदे स्त्री० राजवल्लभः।

प्रसारिन् = त्रि० प्र + सृ–णिनि। १ विस्तारयुते स्त्रियां ङीप्। सा च २ लज्जालुलतायां स्त्री राजनि०।

प्रसित = त्रि० प्र + सो–क्त। १ आसक्ते अमरः तद्योगे विषयाधारे उत्सुकसाहचर्य्यात् आसक्तार्थपरत्वे तृती बासप्तम्बौ हरिणा हरौ वा प्रसित इति तत्त्ववो०। प्रा० स०। २ प्रकृष्टशुभ्रे त्रि० ४ पूये न० शब्दच०। तस्य प्रकृष्टशुभ्रत्वात् तषा त्वम्।

प्रसिति = स्त्री प्र + सि–बन्धने करणे क्तिन्। बन्धनसाधने १ निगडादौ अमरः। २ तन्तौ ३ जाले च प्रसयनशब्दे निरु०।

प्रसिद्ध = त्रि० प्र + सिध–क्त। १ भषिते २ ख्याते च मेदि०।

प्रसिद्धि = स्त्री प्र + सिध–भावे–क्तिन्। १ ख्यातौ २ दङ्कारे त्रिका० ३ भूषणे च।

प्रसुह्म = पु० १ सुह्मदेशसमीपस्थे देशे २ तन्नृपे च भा० स० २९ अ०।

प्रसूं = स्त्री प्र + सू–क्विप्। १ मातरि अमरः २ घोटक्यां च ३ कदल्यां ४ बीरुधि च मेदि०। स्वार्थे क। प्रसूका वाजिन्यां राजनि०।

प्रसूत = त्रि० प्र + सू–कर्मणि क्त। १ कृतप्रस वे कर्त्तरि क्त। २ संजाते ३ प्रकृष्टसूते त्रि०। ४ कुसुमे न० मेदि०। ५ जातापत्यायां स्त्रियां स्त्री अमरः। चाक्षुषमन्वन्तरे देवगणभेदे पु० मार्क० पु० ७६ अ०।

प्रसूति = स्त्री + सू–क्तिन् क्तिच् वा। १ प्रसवे अमरः २ उद्भवे ३ तनये ४ दुहितरि च मेदि० ५ सातरि। स्वार्थे क। प्रसूतिका जातप्रसवायां स्त्रियाम् अमरः।

प्रसूतिज = न० प्रसूतेः उद्भवादारभ्य जायते जन–ड। १ दुःस्वे अमरः। २ प्रसवजातमात्रे त्रि०।

प्रसून = न० प्र + सू–क्त ओदित्त्वात् तस्य नः। १ कुसुमे २ फले च अमरः। ३ जाते त्रि० मेदि०।

प्रसूनेषु = पु० प्रसूनमिषुर्यस्य। पुष्पशरे कामे त्रिका० प्रसूनशरादयोऽप्यत्र।

प्रसृत = न० प्र + सृ–क्त। १ पलद्वये शब्दमा० २ अर्द्धाञ्जलौ न०। कर्त्तरि क्त। ३ प्रसरणयुते त्रि० अमरः। ४ विहिते ५ वेगिते त्रि० मेदि०। ६ गते त्रि० त्रिका० ७ नियुक्ते त्रि० हला०। ८ जङ्घायां स्त्री मेदि०।

प्रसृतज = पु० १ कुण्डगोलकरूपे पुत्रभेदे “आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च सः। निरूक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा” भा० अनु० ४९ अ०। “निरुक्तजः स्वक्षेत्रेऽन्योरेतःसेकार्थमुक्तस्तज्जः (क्षेत्रजः) प्रसूतोऽनिरुक्षो यो लोल्यात् परक्षेत्रे रेतः सिञ्चति तज्जः प्रसृतजः” (कुण्डगोलकरूपः) नीलक०।

प्रसृति = स्त्री प्र + सृ–क्तिन्। प्रसृते अर्द्धाञ्जसिमाने रायमु०।

प्रसृष्ट = त्रि० प्र + मृज–क्त। १ प्रकर्षेण सृष्टे “तखैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च” भा० वि० १३ अ० व्याख्याने “अङ्गुल्यः प्रसृता यास्तु ताः प्रसृष्टा सदीरिताः” नीलकण्ठोक्तायां २ प्रमृतायामङ्गुलौ स्त्री।

प्रसेक = पु० प्र + सिच–भावे घञ्। १ आसिद्धने २ च्युतौ च मेरि०

प्रसेकिन् = पु० प्र + सिक–बा० घिनुण्। १ प्रसेचनशीले प्रसेकयुक्ते २ व्रणभेदे असाध्ये रोगभेदे पु० सुश्रुतः “मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वाऽपानवदुद्धृतौष्ठाः” (व्रणभेदाः)।

प्रसेदिका = स्त्री क्षुद्रारामे हेमच०।

प्रसेन = पु० १ अनमित्रपौत्रे सत्राजिन्नृपभ्रातरि क्षत्त्रियभेदे हरिवं० ३९ अ० “सिंहः प्रसेनमबधीत् सिंहो जाम्बवता हतः” स्यमन्तकोपाख्यानम्।

प्रसेनजित् = पु० नृपभेदे भा० स० ८ अ०। हरिवं० १२ अ० तदुपत्तिर्दृंश्या।

प्रसेव = पु० प्र + सिव–कर्मणि घञ्। १ वीणाङ्गे २ स्यूते ३ ग्रथिते च मेदि०। प्र + सेव–भावे घञ्। ३ प्रकृष्टसेवने पु०।

प्रसेवक = पु० प्र + सिव–ण्वुल्। वीणाप्रान्तबद्धे १ काष्ठे वीणादण्डाधः शब्दगाम्भीर्य्यार्थम् अलायुमयं भाण्डं यच्चर्मादिना आच्छाद्य दीयते तस्मिन् पदार्थे अभरः। २ सूत्ररचितपात्रे (धोकडा) ३ प्रकृष्टस्यूतिकारके त्रि०।

प्रस्कण्व = पु० प्रगतः कण्वं कारणत्वेन नि० ऋसौ सुट्। कण्वपुत्रे ऋषिभेदे स च बहूनां वेदमन्त्राणां द्रष्टृत्वात् ऋषिः।

प्रस्कन्दन = न० प्र + स्कन्द–भावे ल्युट्। १ आस्कन्दने “अग्निप्रस्कन्दनपरः” भा० आ० ८४ अ०। अपादाने ल्युट्। आस्कन्दनाग्रादाने यत आस्कन्दनं क्रियते २ तस्मिन्। भावे ल्युट्। ३ विरेके रत्नमा० तत्रार्थे प्रस्यन्दनमित्येव न्याय्यः पाठः स्यन्दतेर्धातोरर्थानुगमात् तत्रार्थे प्रस्कन्दनमिति पाठस्तु लिपिकरप्रमादात्। कर्त्तेरि ल्यु। ४ महादेवे भा० अ० १७ अ०।

प्रस्कुन्द = पु० प्रगतः कुन्दम् चक्रम् अत्या० स० धारस्करा० सुट्। कुन्दाख्यचक्राकारवेदिकायाम् “प्रस्कुन्देन प्रतिष्टव्यः” भा० उ० ७२ अ०। “प्रस्कन्देनेति पाठे मध्यमशिफयेत्यर्थः”। नीलकण्ठः।

प्रस्तर = पु० प्र + स्तॄ–अच्। १ पाषाणे (पातर) २ पल्लवाद्यैरचिते शयनीये शब्दर० ३ मणौ मेदि० ४ दर्भमुष्टौ “अध्यर्युः प्रस्तरं प्रहरति” ताण्ड्य० ब्र० ६७१६ “प्रस्तरो दर्भमुष्टिः” भाष्यम्। तं प्रशंसति “यजमानो वै प्रस्तरः” १७। “प्रस्तरस्य हबिरासादनादिद्वारा यागसाधनत्वात् यजमानोऽपि यज्ञसाधनमिति यागसाधनत्वसाम्यात् प्रस्तरो यजनानत्वेन स्तूयते” भा०।

प्रस्तरिणी = स्त्री प्रस्तरस्तदाकारोऽख्यस्य इनि ङीप्। गोलोनिकायां राजनि०।

प्रस्तरेष्ठा = पु० प्रस्तरे तिष्ठन्ति स्था–क्विप् अम्बष्ठा० षत्वम् अलुक्स०। विश्वदेवभेदे यजु० ३। १७।

प्रस्तार = पु० प्र + स्तॄ–घञ्। १ तृणप्रधानवने हेभच०। २ पल्लवादिरचितशयनीये शब्दर०। ३ शय्यामात्रे हारा०। प्रस्तार्य्यन्ते विस्तार्य्यन्ते गुरुलघुरूपतया वर्णा मात्रा वा अनेन प्र + स्तॄ–णिच् करणे अच्। ४ लथुगुरुवर्णज्ञापनक्रियाभेदे तत्प्रकारश्च वृ० र० उक्तो यथा “पादे सर्वगुरावाद्याल्लघुं न्थस्य गुरोरधः। यथोपरि तथा शेषं भूयः कुर्य्यादसुं विधिम्। ऊने दद्याद्गुरूनेव यावत् सर्वलधुर्भवेत्। प्रस्तारोऽयं समाख्यातच्छन्दोविचितिवेदिभिः”। “प्रस्तारणीयवृत्तादीनां सर्वगुरुके पादे पाद इत्युपलक्षणं वर्णानामपि। प्रथमपङ्क्तौ लिखिते आद्यात् प्रथमगुरोस्तमारभ्येत्यर्थः। द्वितीयपङ्क्तौ अधः तस्यैव अधस्तात्पङ्क्तौ ब्रथमं लथुं न्थस्य यथा उपरि ऊर्द्धस्थपङ्क्तौ अपरे अवशिष्टाः सन्निविष्टास्तथा तस्य दक्षिणपार्श्वेषु गुर्वादयो लेख्याः। तृतीयपङ्क्तौ तु प्रथमाया गुरुव्यक्तेरधस्तात् लक्षुं न्थस्य शेषान् उपरिस्थद्वितीयपङ्क्तिस्थान् गुर्वादीन् त्थपेत् एवश्च तृतीयपङ्क्तौ आद्यस्थानस्य न्यूनता तत्र किं देयमित्थाकाङ्क्षायामाह, ऊने प्रस्तार्य्यसंख्यातो न्थूने सति वामभागे गुरून् दद्यात् एवं भूयो मुहुः कुर्य्यात् यावच्च सर्वलघुकः पादो भवेत्, तावदेवं कुर्य्यादित्यर्थः। त्र्यक्षरप्रस्तारे लघुगुर्वोः ऋजुवक्रतया तदाकारेणोदाहरणम् प्रथमः भेदःऽऽऽ मगणः द्वितीयो भदः।ऽऽऽ यगणः तृतीयो भेदःऽ।ऽ रगणः चतुर्थो भेदः।।ऽ सगणः पञ्चमो भेदःऽऽ। तगणः षष्ठो भेदः।ऽ। जगणः सप्तमो भेदःऽ।। भगणः अष्टमो भेदः।।ऽनगण मात्राप्रस्तारे विशेषस्तु पिङ्गलादौ द्रष्टव्यः। मात्रावृत्तप्रस्तारेऽयं विशेषः जने गुर्वादिक्रमेण वर्णा देयाः। मात्राद्वये अवशेषे एको गुरुः त्रिमात्राबशेषे एको गुरुः तद्वामे एको लघुरेवं रोत्या वृत्तमात्रसंख्यया न्यून मात्राद्वारा संख्यापूरणार्थं गुरुलधुदानमिति वोध्यम्।

प्रस्तारपङ्क्ति = स्त्री छन्दोभेदे छन्दसशब्दे २९७८ पृ० दृश्यम्।

प्रस्तार्य्यर्म्म = न० “समन्ताद्विस्तृतः श्यावो रक्ता वा माससञ्चयः। सन्निपातेन दोषाणां प्रस्तार्य्यर्म्म तदुच्यते” वैद्यकोक्ते नेत्ररोगभेदे।

प्रस्ताव = पु० प्र + स्त–“प्रे द्रुस्तुस्मुवः” पा० भावकरणादौ घञ्। १ प्रकरषेण स्तवे २ अवसरे अमरः। ३ प्रकरणे भानु- दीक्षित ४ प्रकरणे काव्यप्र०। ५ सामावयवभेदे स च पस्तोतृनामकेन ऋत्विजा गेयः साम्नः प्रथमो भागः। प्रस्तोतर्य्या देवता प्रस्तावमन्यायत्ता” छा० उ०। तस्य देवता च ब्रह्मरूपः प्राणस्तत्रैबोक्तः।

प्रस्तावना = स्त्री प्र + स्तु–णिच्–ल्युट्। १ आरम्भे जटा० “आर्य्यवालचरितप्रस्तावनाडिण्डिमः” वीरच०। प्रस्ताववयति प्र + स्तु–णिच्–ल्यु। नाटकाङ्गे आरम्भार्थके आमुखे स्त्री तल्लक्षणभेदादिकं सा० द० उक्तं तच्च आमुख शब्दे ७६६ पृष्ठादौ दृश्यम्।

प्रस्तिर = न० प्र + स्तॄ बा० क ऋत इत्त्वं रपरत्वं च। पल्लवादिरचिते शयनीये शब्दर०।

प्रस्तीत(म) = त्रि० प्र + स्त्यै–क्त तस्य मोवा सम्प्रसारणञ्च। १ संहते २ ध्वनिते च।

प्रस्तुत = त्रि० प्र + स्तु–कर्मणि क्त। १ प्रकरणप्राप्ते २ प्रासङ्गिके ३ उपस्थिते ४ उद्यते ५ प्रतिपन्ने ६ प्रकर्षेण स्तुते च।

प्रस्तृत = त्रि० प्र + स्तृ–क्त। १ अन्तरिते त्रिका०। २ प्रकर्षेण विस्तारिते त्रि०।

प्रस्तोतृ = त्रि० प्रकृष्टं स्तौति प्र + स्तु–तृच्। १ प्रकर्षेण स्तोतरि २ साम्रः प्रथमभागगायके ऋत्विग्भेदे पु० अच्छावाकशब्दे ८५ पृ० दृश्यम्। प्रस्तोतुर्हितं तस्वेदं वा ध। प्रस्तोत्रिय तत्पाठ्ये सामप्रथमभागे तत्सम्बन्धिनि च त्रि०।

प्रस्थ = त्रि० प्र + स्था–क। १ प्रकर्षेण स्थितियुते २ गन्तरि च प्रपूर्वकतिष्ठतेर्गत्यर्थत्वात्। ३ आढकचतुर्थांशरूपे परिमाणभेदे पु० आढकशब्दे ६५५ पृ० दृश्यम्। ४ द्विशरावपरिमाणे वैद्यकम्। आधारे धञर्थे क। ५ पर्वतसमभूभागे स्थितियोग्यस्थाने सानौ पु० न०। ६ उन्मितवस्तुनि मेदिनिः ७ विस्तारे च “दीर्घप्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः” ब्रह्मवै० पु० ज० ख० १०३ अ०। प्रस्थं पचति पच–ख सुम्। प्रस्थम्पच प्रस्थमितपाचके त्रि०।

प्रस्थपुष्प = पु० प्रस्थमिव पुष्पमस्य। १ मरुवके अमरः २ स्यल्पपत्र तुलस्यां ३ जम्बीरभेदे त्रिका०।

प्रस्थल = सुशर्मराजसम्बन्धिनि देशभेदे भा० भी० ७५ अ०।

प्रस्थान = प्र + स्था–भावे ल्युट्। १ जिगीषोर्युद्धार्थगमने २ ममनमात्रे च प्रस्थानं वर्ण्य तयाऽस्त्यत्र ठन्। प्रस्थानप्रतिपादके ग्रन्थे यथा युधिष्ठिरादीनां महाप्रस्थानप्रतिवादकः भारतान्तर्गतपर्वभेदः।

कार्य्यवशात् यात्रादिने स्वयंगमनासम्भवे द्रव्यभेदानां विप्रादिभेदे प्रस्थापनमाह मु० चि० पी० यथा वसिष्ठः “तस्मिन् मुहूर्त्ते स्वयमप्रयाणे प्रयोजनापेक्षि- तया च दैवात्। तत्रैव तन्निर्गमन च कार्य्यं स्वीयासानाच्चापि तदुच्यमानम् राजमार्त्तण्डः। “प्रस्थाने व्राह्मणादीनां यज्ञसूत्रमथाऽऽयुधम्। मध्यामलफलं चैव प्रशस्तं वृद्धिकारणम्” वसिष्ठः “श्वेतातपत्रध्वजचामराश्वविभूषणोष्णीषगजाम्पराणि। आन्दोलिका रत्नरथाश्ववारान् शय्यासनाद्यं मनसस्त्वभीष्टम्” इति नारदोऽपि “अप्रयाणे स्वयं कार्य्यमपेक्ष्य भूपतिस्तधा। कुर्य्यान्निर्गमनं छत्रध्वजवाहनसंयुतमिति” “गेहाद्गेहान्तरमपि गमस्तर्हि यात्रेति गर्गः सीम्नः सीमान्तरमपि भृगुर्वाणविक्षेपमात्रम्। प्रस्थानं स्यादिति कधयतेऽथो भरद्वाज एवं यात्रा कार्य्या बहिरिह पुरात् स्याद्वसिष्ठो व्रवीति”। “प्रस्थानमत्र धनुषां हि शतानि पञ्च केचिच्छतद्वयमुशन्ति दशैव चान्ये। संप्रस्थितो यं इह मन्दिरतः प्रयातो गन्तव्यदिक्षु तदपि प्रयतेन कार्य्यम्”। “प्रस्थाने भूमिपालो दशदिवसमभिव्याप्य नैकत्र तिष्ठेत् सामन्तः सप्तरात्रं तदितरमनुजः पञ्चरात्रं तथैव। ऊर्द्धं गच्छेच्छुभाहेऽप्यथ गमनदिनात् सप्तरात्राणि पूर्वं चाशक्तौ तद्दिनेऽसौ रिपुविजयमनामैथुनं नैव कुर्य्यात् मु० चि०। श्रीपतिरपि “वसेन्नचैकत्र दश क्षितीशो दिनान्यथो सप्त च मण्डलीकः। यः प्राकृतः सोऽपि न पञ्चरात्रं भद्रेण यात्रा परतः प्रयोज्या”। राजमार्त्तण्डः “प्राच्यामहानि मुनयः प्रवदन्ति सप्त याम्यामतीव शुभदानि दिनानि पञ्च। त्रीण्येव पश्चिमदिशि क्षितिनायकानां प्रस्थानकेषु दिवसद्वयमुत्तरस्याम्” प्रस्थावप्रकारमाह गुरुः “पूर्वं दक्षिणमुद्धृत्य पादं यायान्नराधिपः। द्वात्रिंशतं पदं गत्वा यानमारुह्य संव्रजेत्”। करणे ल्युट्। ३ मार्गे ४ उपदेशोपाये च यथा श्रुतिस्मृतिन्यायप्रदर्शकम् उपनिषद्गीताशारीरकसूत्ररूपत्रयभाष्यरूपं प्रस्थानत्रयम्। यथा वा भाष्यटीकायां पञ्चपादिकाभामतीप्रभृतिप्रस्थानत्रयम्।

प्रस्थापित = त्रि० प्र + स्था–णिच्–पुक् कर्मणि क्त। १ प्रेरिते हेमच०। २ प्रकर्षेण स्थापिते त्रि०।

प्रस्थायिन् = त्रि० प्र + स्था–गम्या० भविष्यति णिनि। १ भावि गमनकत्तरि। “प्रे स्थः” उणा० इनि णिच्च। ३ गन्तुमनसि उज्ज्वलदत्तः।

प्रस्थिका = स्त्री प्रस्थस्तदाकारोऽस्त्यस्याः ठन्। अन्यष्ठालतायां भावप्र०।

प्रस्नुषा = स्त्री स्नुषायाः स्नुषा पृषो०। गप्तृवध्वाम्। “स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्बलाः” भा० श० ६० अ०। नीलकण्टः।

प्रस्नेय = त्रि० प्रस्नातुमर्हति प्र + स्ना–अर्हार्थे यत्। स्नानार्ह जलादौ कात्या० श्रौ० २०। २। १३।

प्रस्पन्दन = न० प्र + स्पन्द–भावे ल्युट्। प्रकर्षेण स्पन्दने चलनक्रियाभेदे तच्च सुश्रुते देहे वायुलक्षणतया उक्तम् “तत्र प्रस्पन्दनोद्वहनपूरणविरेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारयति”।

प्रस्फुट = त्रि० प्र + स्फुट–क। १ प्रफुल्ले विकसिते पुष्पादौ शब्दरत्ना०। २ सुस्पष्टे सुव्यक्ते च।

प्रस्फोटन = न० प्रस्फुट्यते अनेन प्र + स्फुट–करणे ल्युट्। १ शूर्पे (कुला) ख्याते अमरः। भावे ल्युट्। २ ताडने ३ प्रकाशे च मेदि०।

प्रस्यन्द = पु० प्र + स्यन्द–भावे घञ्। १ प्रकर्षेण क्षरणे “कृदभिहितो भावो द्रव्यवत् प्रकाशते” उक्तेः २ स्यन्दमाने धृतादौ कर्त्तरि अच्। ३ प्रक्षरणकर्त्तरि त्रि० “प्रस्यन्दमाध्वीकभूः” कुसुमा०।

प्रस्रवण = न० प्र + स्रु–भावे ल्युट्। १ अविच्छेदेन जलादिस्रवणे २ स्वेदे च। आधारे ल्युट्। यत्र स्थाने स्रवज्जलं निपत्य बहुलीभवति तादृशे ३ स्थाने उत्से क्षीरस्वामी। अप्। प्रस्रव तत्रार्थे हेमच०। माल्यवति पर्वते पु० हेमच०।

प्रस्राव = पु० प्र + स्रु–भावे घञ्। १ प्रकर्षेण क्षरणे कृदभिहितभावस्यद्रव्यपरत्वेन २ मूत्रे अमरः।

प्र(स्वा)स्वन = पु० प्र + स्वन–भावे अप् पक्षे घञ्। उच्चैःशब्दे

प्रस्वादस् = त्रि० प्र + स्वद–णिच्–असुन्। प्रकर्षेण स्वादयितरि ऋ० १०। १३। ६६

प्रस्वाप = पु० प्रस्याप्यते शत्रुरनेन प्र + स्वप–णिच्–करणे अच्। शत्रोः प्रस्वापनसाधने अस्त्रभेदे भा० उद्यो० १८४ अ०। करणे ल्युट्। प्रस्वापन तथाविधार्थे भा० व० ४१ अ०।

प्रस्वापिनी = स्त्री सत्यभामायाः भगिन्यां कृष्णभार्य्याभेदे हरिवं० ३८ अ०।

प्रस्वेद् = पु० प्र + स्विद–भावे घञ्। अत्यन्तस्वेदे तस्यौषर्ध गरुड पु० १९८ अ० उक्तम्।

प्रहत = त्रि० प्र + हन–क्त्व। १ वितते २ क्षुण्णे च शब्दरत्ना०।

प्रहनेमि = पु० प्रहन्ति प्र + हन–ड तादृशो नेमिरिबाग्रं शृङ्गं मस्य। चन्द्रे त्रिका०।

प्रहर = पु० पह्रिवते यामिकढक्कादिरस्मिन् प्र + हृ आधारे अप्। दिवसस्याष्टमे भागे अमरः।

प्रहरकुटुम्बी = स्त्री कुटुम्बिनीक्षुपे राजनि०।

प्रहरण = न० प्रह्रियतेऽनेन हृ–करणे ल्युट्। १ अस्त्रे २ कर्णीरथे च अमरः। आधारे ल्युट्। २ युद्वे। भावे ल्युट्। ३ प्रहारे ४ दमे च।

प्रहरणकलिका = स्त्री मनभनलघुगैः प्रहरणकलिका” वृ० र० उक्ते चतुर्दशाक्षरपादके दन्दोभेदे।

प्रहरिन् = पु० प्रहरोऽधिकारकालत्वेनास्त्यस्य इति। १ या मिके २ प्रहरकालाधिकृते ३ सैन्यभेदे।

प्रहर्षण = त्रि० प्रहर्षयति प्र + हृष–णिच्–ल्यु। १ प्रकर्षेण हर्षकारके २ बुधग्रहे पु० त्रिका० करणे ल्युट्। ३ प्रहर्षसाधने त्रि०। स्त्रियां ङीप्। सा च ४ हरिद्रायां हारा० “म्नौ ज्रौ गस्त्रिदश ३। १० यतिः प्रहर्षणीयम्” वृ० र० उक्ते त्रयदशाक्षरपादके छन्दोभेदे च।

प्रहस = पु० राक्षसभेदे रामा० ल० ३९ अ०।

प्रहसन = न० प्र + हस–भावे आधारे वा ल्युट्। १ प्रकर्षेण हासे परिहासे २ दृश्यकाव्यरूपकभेदे मेदि०। ३ आक्षेपे हेमच० रूपकभेदस्य लक्षणमुक्तं सा० द० यथा “भाणवत् सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम्। भवेत् प्रसहनं वृत्तं निन्द्यानां कविकल्पितम्। अत्र नाऽऽरभटी नापि विष्कम्भकप्रबेशकौ। अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा”। तत्र “तपस्विभगवद्विप्रप्रभृति स्तत्र नायकः। एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुः च्यते” यथा कन्दर्पकेलिः।

प्रहसन्ती = स्त्री प्र + हस–शतृ ङीप्। १ यूथ्यां त्रिका० २ वासन्तीलतायां राजनि०। प्रा० स०। २ प्रकृष्टाङ्गारधान्याम्।

प्रहस्त = पु० प्रततो हस्तो यत्र। १ विस्तृताङ्गुलिपाणौ चपेटे अमरः। रावणसैन्याधिपे २ राक्षसभेदे भा० व० २७४ अ०।

प्रहाणि = प्र + हा–नि णत्वम्। अपचये।

प्रहार = पु० पू + हृ–भावे घञ्। आथाते।

प्रहारण = न० प्र + हृ–णिच्ल्यु। काम्यदाने सारसुन्द्ररी।

प्रहारबल्ली = स्त्री प्रहारस्य वेदनोपशमनाथां वल्ली शाक० त०। मांसरोहिण्याम् मावप्र०।

प्रहारिन् = त्रि० प्र + हृ–णिनि। १ प्रहारकर्त्तरि पु० २ राक्षसभेदे रामा० आर० ३१। १९

प्रहास = पु० प्रकृष्टो हासोऽस्थ। १ शिवे त्रिका० २ नटे धरणिः ३ सोमतीर्थे जटा०। प्रा० स०। ४ अट्टहासे पु० शब्दर०। ५ वागभेदे पु० भा० आ० ५७ अ०।

प्रहासिन् = त्रि० प्रकृष्टं हासयति हसति वा हासि–हसवा णिनि। १ परस्य हासक कारके (भा~ड) २ स्वयं हासके ३ विदूषके पु० हेमच०।

प्रहि = पु० प्रह्रियते अत्र प्र + हृ–आधारे इन् डिच्च। कूपे अमरः

प्रहित = त्रि० प्र + हि० क्त। १ प्रेरिते २ क्षिप्ते ३ सूपे न० हेमच०

प्रहुत = न० प्र + हु–भावे क्त। भूतयज्ञे जटा०। “अहुतञ्च हुतञ्चैव तथा प्रहुतमेव च। ब्राह्म्यं हुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते” इत्युपक्रम्य “प्रहुतो भौतिको बलिः” मनुनाऽस्य पारिभाषिकत्वमुक्तम् आर्ष पुंस्त्वम् “देवानभाजयत् हुतञ्च प्रहुतञ्च यद्देवेभ्यो जुह्वति प्रजुह्वति” वृ० उ० “ये द्वे अन्ने सृष्ट्वा देवानभाजयत् के ते द्वे इत्युच्यते हुतञ्च प्रहुतञ्च। हुतमित्यग्नौ हवनम्। प्रहुत हुत्वा बलिहरणम्। यस्माद्द्वे एते अन्ने हुतप्रहुते देवानभाजुयत्। तस्मादेतर्ह्यपि गृहिणः काले देवेभ्यो जुह्वति देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वानाः एव जुह्वति प्रजुह्वति च हुत्वा बलिहर्खञ्च कुर्वते इत्यर्थः” भा०।

प्रहृत = न० प्र + हृ–भावे क्व। १ प्रहारे २ आघाते। कर्मणि क्त। ३ कृतप्रहारे त्रि० ४ ऋषिभेदे पु०। तस्यापत्यम् अश्वा० फञ्। प्राहृतायन तदपत्ये पुंस्त्री०।

प्रहेण(ल)क = न० पिष्टकभेदे हारा०।

प्रहेलिका = स्त्री प्र + हेल–इन् संज्ञायां कन्। दुर्विज्ञानार्थप्रश्ने (हे~यालि) अमरः। तद्भेदलक्षणादि विदग्धमु० उक्तं यथा “व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात्। यत्र बाह्यान्तरावर्थौ कथ्येते सा प्रहेलिका। सा द्विधार्थी च शाव्दी च विख्याता प्रश्नशासने। आथीं स्यादर्थविज्ञानात् शाब्दी शब्दस्य भङ्गतः” आर्थी यथा “तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः। गुरूणां सन्निधानेऽपि कः कूजति सुहुर्मुहुः” (ईषदूनजलपूर्णकुम्भः उत्तरम्) शाब्दी यथा “सदारिमध्यापि न वैरियुक्ता नितान्तरक्ताप्यसितैव नित्यम्। यथोक्तवादिग्यपि नैव द्वती का नाम कान्तेति निवेदयन्ती” (सारिका उत्तरम्) काव्यादर्शे तु “प्रहेलिका प्रकाराणां पुनरुद्दिश्यते गतिः। क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे। परव्यामोहने चापि सोपयोगाः प्रहेलिकाः। आहुः समासतां १ नाम गूढार्थां पदसन्धिना। वञ्चिता २ऽन्यत्र रूढेन यत्र शब्देन वञ्चना। व्युत्क्रान्ता ३ऽतिव्यवहितप्रयोगान्मोहकारिणी। सा स्यात् प्रमुषिता ४ यस्यां दुर्बोधार्था पदावली। समानरूपा ५ गौणार्थारोपितैर्ग्रथिता पदैः। परुषा ६ लक्षणास्तित्वमात्रव्युत्पादितश्रुतिः। संख्याता ७ नाम संख्यानं यत्र व्यामोहकारणम्। अन्यथा भासते यत्र वाक्यार्थः सा प्रकल्पिता ८। वा नामान्तरिता ९ नाम यस्यं नानार्थकल्पना। निभृता १० निभृतान्यार्था तुल्यधर्मस्पृशा गिरा। समानशब्दो ११ पन्यस्तशब्दपर्य्यायसाधिता। संमूढा १२ नाम या साक्षान्निर्दिष्टार्थापि मूढये। योगमालात्मिका नाम या स्यात् सा परिहारिका १३। एकच्छन्ना १४ऽऽश्रितं व्यक्तं यस्यामाश्रयगोपनम्। सा भवेदुभयच्छन्ना १५ यस्यामुभयगोपनम्। सङ्कीर्णा १६ नाम सा यस्यां नानालक्षणसङ्करः। एताः षोडश निर्दुष्टाः पूर्वाचार्य्यैः प्रहेलिकाः। दुष्टप्रहेलिकाश्चान्यास्तैरधीताश्चतुर्दश”। एताः समागताप्रभृतयः षोडश प्रहेलिकाः पूर्वाचार्य्यैः निर्दुष्टाः अदुष्टत्वेन कथिताः इत्यर्थः, तैः पूर्वाचार्य्यैरेव अन्याः चतुर्दश दुष्टाः प्रहेलिकाः च्युताक्षरादिकाः अधीता पठिताः सदोषत्वेन कीर्त्तिता इत्यर्थः”। एतासामुदाहरणानि तत्र दृश्यानि। ताश्चतुर्दश सरस्वतीकण्ठा० दृश्याः। “काम्यान्तर्गडुभूतत्वात् नालङ्कारः प्रहेलिका” सा० द०।

प्रहोषिन् = त्रि० प्र + हु–बा० इनि सुगागमश्च। प्रकर्षेण हवनकर्त्तरि ऋ० ८९२। ४

प्रह्रा(ह्ला)द = पु० १ हिरण्यशिपोः पुत्रभेदे भा० आ० ६५ अ०। तच्चरितं भाग० ७५ अध्यायादौ दृश्यम्। तस्य पूर्वजन्मकथा पाद्मे भूमि० ५ अ०। २ नागभेदे भा० स० ९ अ०। ह्लदभावे घञ्। ३ प्रमोदे विश्वः ह्रद–भावे घञ्। ४ शब्दे धरणिः।

प्रह्व = त्रि० प्र + हा त्यागे वन् नि० आलोपः। १ नम्रे उजज्वल० ३ आसक्ते हेमच०।

प्रह्वलीका = त्रि० प्रवह्लिका + पृषो०। प्रहेलिकायां हला०।

***