प्रमा = स्त्री प्र + मा–भावे अङ्। १ यथार्थज्ञाने भ्रमभिन्ने ज्ञाने तल्लक्षणं तदुत्पत्तौ गुणाश्च भाषा० उक्ता यथा

“दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत्। प्रत्यक्षे तु विशेष्येण विशेषणवता समम्। सन्निकर्षो गुणस्तु स्यादथ ह्यनुमितौ पुनः। पक्षे साध्यविशिष्टे च परामर्शो गुणो भवेत्। शाब्दबोधे योग्यतायास्तात्पर्य्यस्याथ वा प्रमा। गुणः स्याद्भ्रमभिन्नस्तु ज्ञानमत्रोच्यते प्रमा। अथ वा तत्प्रकारं यत् ज्ञानं तद्वद्विशेष्यकम्” भाषा०। दोषशब्दे ३७६६ पृ० भ्रमकारणं दृश्यम् तथा च तद्वति तत्प्रकारकज्ञानत्वं प्रमात्वं प्रामाण्यापरपर्य्यायम् तच्च मतभेदेन स्वतोग्राह्यं परतोग्राह्यञ्च तच्च परतोग्राह्यशब्दे ४२३४ पृ० उक्तम्। तस्य विस्तरस्त्वत्रोच्यते। तत्र न्यायमते “प्रमात्वं न स्वतोग्राह्यं संशयानुपपत्तितः” भाषा० व्याकृतञ्च सि० मु० यथा “मीमांसका हि प्रमात्वं स्वतोग्राह्यमिति वदन्ति। तत्र गुरूणां मते ज्ञानस्य स्वप्रकाशरूपत्वात् तज्ज्ञानप्रामाण्यं तेनैव गृह्यते इति। भट्टनां मते तु ज्ञानसतीन्द्रियम्। ज्ञानजन्या ज्ञातता प्रत्यक्षा। तया च ज्ञानमनुमीयते। सुरारिमिश्राणां मतेऽनुव्यवसायेन ज्ञानं नृह्यते। सर्वेषामपि मते तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यते। विषयनिरूप्यं हिं ज्ञानम्। अतो ज्ञानवित्तिवेद्यो विषयः। तन्मतं दूषयति। न स्वतोजाह्यमिति। संशयेति। यदि ज्ञानपामाण्यं स्वतोग्राह्यं स्यात् तदाभ्यासदशोत्पन्नज्ञाने तत्संशयो न स्योत्। तत्र हि यदि ज्ञानं ज्ञातं तदा प्रामाण्यं ज्ञातमेवेति कथं संशयः। यदि तु ज्ञानं न ज्ञातं तदा धर्मिज्ञानाभावात् कथं संशयः। तस्माजज्ञानप्रामाण्यमनुमेयम्। तथा हि इद ज्ञान प्रमा संवादिप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं यथाऽप्रमा। इदं पृथिवीत्वप्रकारकं ज्ञानः प्रमा गन्धवति पृथिवीत्वप्रकारकज्ञानत्वात्। एवम् इदं जलज्ञानं प्रमा स्नेहवति जलत्वप्रकारकज्ञानत्वात्। न च हतुज्ञानं स्वषं जातमिति वाच्छम्। पृथियीत्वप्रकारकत्वस्व स्वतोग्राह्यत्वात् तत्र गन्धवद्विशेष्यकत्वस्यापि सुग्रहत्वात्। तत्प्रकारकत्वावच्छिन्नतद्वद्विशेष्यकत्वं परं न गृह्यते संशयानुरोधात्। न च प्रमात्वस्य साध्यस्य प्रसिद्धिः कथमिति वाच्यम् इदंज्ञानप्रमात्वस्य स्वतोग्राह्यत्वात्। न च प्रकारभेदेन प्रामाण्यभेदात् धटत्ववति घटत्वप्रकारादेः कथं प्रसिद्धिरिति वाच्यम् घटत्वप्रकारकत्वस्य स्वविशेष्यकत्वस्य च स्वतोग्राह्यत्वात्। घटस्य च पूर्वमुपस्थितत्वाद् घटविशैष्यकं घटत्वप्रकारकमिति ज्ञाने प्रामाण्यस्य बाधकाभावः। व्यवसायपरन्तु प्रामाण्यं न गृह्यते। तत्र संशयसामग्रीसत्त्वे संशयस्यैवोपपत्तेः। किञ्चाभ्यासदशायां तृतोयानुव्यवसायादिना प्रामाण्यस्य स्वत एव ग्रहसम्भवात् प्रथमानुव्यवसायपरं न तद्ग्राहकत्वमिति कल्प्यते संशयामुरोधात्। अथ प्रामाण्यानुमितौ प्रामाण्यग्रहे न तस्य विषयनिश्चयरूपत्वार्थं तत्र प्रामाण्यग्रहो वाच्यः सोऽप्यनुमित्यन्तरेणेति फलमुखी कारणमुखी वा नानवस्थेति चेन्न अगृहीतप्रामाण्यग्रहकस्यैव निश्चयरूपत्वात्। यत्र च प्रामाण्यसंशयस्तत्रैव परं प्रामाण्यानुमितेरपेक्षया यावदाशङ्कं प्रामाण्यानुमितिरिष्यत एव सर्वत्र तु न संशयः क्वचित् कोट्यनुपस्थितेः क्वचिद्विशेषदर्शनादितः क्वचिद्विषयान्तरसञ्चारादिति सङ्क्षेपः। ननु सर्बेषां ज्ञानानां यथार्थत्वात् प्रमालक्षणे तद्विशेष्यकत्वं विशेषणं व्यर्थम्। न च रङ्गे रजतार्थिनः प्रवृत्तिर्भ्रमजन्था न स्वात् तव मते भ्रमस्याभावादिति वाच्यम्। तत्र हि दोषाधीनस्य पुरोवर्त्तिनि स्वतन्त्रोपस्थितरजतभेदाग्रहस्य हेतुत्वात्। सत्यरजतस्थल तु विशिष्टज्ञानस्य सत्त्वात् तदेव कारणम्। अस्तु वा तत्रापि भेदाग्रह एव कारणमिति। न चाऽन्यथाख्यातिः सम्भवति रजतप्रत्यक्षकारणस्य रजतसन्निवर्षस्याभावात् रङ्गे रजतबुद्धेरनुपपत्तेरिति चेन्न सत्यरजतस्थले प्रवृत्तिं प्रति विशिष्टज्ञानस्य हेतुतायाः कॢप्तत्वात् अन्यत्रपि तत्ककल्पनात्। न च र्सवादिप्रवृत्तौ तु भेदाग्रहः कारणमिति वाच्यम् लाघबात् प्रवृत्तिमात्रे तस्य हेतुत्वकल्पनात्। इत्थञ्च रङ्गे रजतत्वविशिष्टबुद्ध्यनुरोधेन ज्ञानलक्षणाप्रत्यासत्तिकल्पनेऽपि न क्षतिः। फलमुखर्गारवस्यादोषत्वात्। किञ्च यद् रङ्गरजतयोरिमे रजते इति ज्ञानं जातं न कारणबोधोऽपि। अपि च यत्र रङ्गरजतयोरिमे रजतरङ्गे इति ज्ञानं तत्रोभयत्र सुगपत्प्रवृत्तिनिवृत्ती स्वाताम्। रङ्गे रङ्ग भेदग्रहे रजते रजतभेदग्रहेऽन्यथाख्यातिभयात्। त्वन्मते रङ्गे रङ्गभेदाग्रहस्य रजते रजतभेदाग्रहस्य च सत्त्वात् किञ्चानुमितिं प्रति भेदाग्रहस्य हेतुत्वे जलह्रदे वह्निव्याप्यधूमवदभेदाग्रहाद् अनुमितिर्निर्बाधा। यदि च विशिष्टज्ञानं कारणं तदाऽयोगोलके वह्निव्याप्यधूमज्ञानमनुमित्यनुरोधादापतितम। इत्थम् अन्यथाख्यातौ प्रत्यक्षमेव प्रमाणम्। रङ्गं रजततया जानामीत्यनुभवादिति सङ्क्षेपः”। वेदान्तिमते तस्य स्वतोग्राह्यता वेदान्तपरिभाषायां व्यवस्थापिता यथा “एवसुक्तानां प्रमाणानां प्रामाण्यं स्वतएव उत्पद्यते ज्ञायते च तथा हि स्मृत्यनुभवसाधारणं संवादादिप्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यं तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात्। नापि प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षः, रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् सत्यपि तस्मिन् पीतः शङ्ख इति प्रत्यक्षस्य भ्रमत्वाच्च। अतएव न सल्लिङपरमर्शादिकमपि अनुमित्यादिप्रमायां गुणः असल्लिङ्गपरामर्शादिस्थलेऽपि विषयाबाधेनानुमित्यादेः प्रमात्वात्। न चैवमप्रमापि प्रमा स्यात् ज्ञानसामान्यसामग्र्यविशेषादितिवाच्यं दोषाभावस्यापि हेतुत्वाङ्गीकारात्। न चैवं परतस्त्वम् “आगन्तुकभावकारणापेक्षायामेव परतस्त्वात्” ज्ञायते च प्रामाण्यं स्वतः, स्वतोग्राह्यत्वञ्च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम्। स्वाश्रयो वृत्तिज्ञानं तद्ग्राहक साक्षिज्ञानं तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यमपि गृह्यते। न चैव प्रामाण्यसंशयानुपपत्तिः तत्र सशयानुरोधेन दोषस्यापि सत्त्वेन दीषाभावघटितस्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात्। यद्वा यावत्स्वाश्रयग्राहकग्राह्ययोग्यत्वं स्वतस्त्वं संशयस्थले प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः। अप्रामाण्यन्तु न ज्ञानसामान्यसामग्री प्रयोज्यं प्रमायामप्यप्रमाण्यापत्तेः किन्तु दोषप्रयोज्यं नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् अप्रामाण्यघटकतदभाववत्त्वादेर्वृत्तिज्ञानानुपनातत्वेन साक्षिणा ग्रहीतुमशक्यत्वात् किन्त विसंवादिप्रवृत्त्यादिलिङ्गकानुमित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति”। अधिकं प्रमाणशब्दे दृश्यम्।

प्रमाण = न० प्र + मा–भावे कैरणे वा ल्युट्। १ प्रमारूपज्ञाने २ विष्णौ “प्रमाणं प्राणनिलयः” विष्णुस०। प्रमार्ण “प्रज्ञानं ब्रह्मेति” श्रुतेस्तस्य ज्ञानरूपत्वात् तथात्वम् “प्रमाणं बीजमव्ययम्” विष्णु स० प्रत्यक्षादिप्रमाणरूपत्त्वात्तस्य तथात्वं व्यत्पत्तिद्वययोगात् नामद्वयम्। ३ सत्यवादनि ४ इयत्तायां परिच्छेदे ५ हेतौ ६ प्रमातरि च मेदि०। ७ प्रमितिकरणे चक्षरादौ “यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता स येनार्थं प्रमिणोति तत्प्रमाणम्” वात्स्या० “तच्च साधनाश्रयव्यतिरिक्तत्वे सति प्रमाव्याप्तं प्रमाणमिति” सर्वद० अक्षपाददर्शने। “तद्वति तत्प्रकारकत्वरूपप्रकर्षविशिष्टज्ञानकरणत्वम्” गौ० वृ०। “अनुभवत्वव्याप्यजात्यवच्छिन्नप्रमावृत्तिकार्य्य तानिरूपितकारणताशालित्वे सति व्यापारवत्त्वम् तत्त्वम्” तर्कप्रकाशे शितिकण्ठः। प्रमाणत्वं च अनधिगतार्थकानुभवकारणत्वम्। तच्च गृहीतग्राहीतरानुभवकारणत्वम्। स्वसमानाधिकरणस्वाव्यवहितपूर्ववर्त्तिस्वसमानाकारनिश्चयविषयविषयकेतरतद्वद्विशेष्यकतत्प्रकारकानुभवकारणत्वमिति यावत् न्यायकुसुमाञ्जलिटी०। “यज्जातीयविशिष्टज्ञानत्वावच्छेदेन समानाकारनिश्चयोत्तरत्वं तज्जातीयान्ययथार्थज्ञानस्यैवागृहीतग्राहित्वेन प्रमात्वात् अतएव धारावाहिप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्त्तित्वेऽपि न तासां प्रमात्वहानिः हानिस्तु समानाकारानुभवसमुत्थानां स्मृतीनामिति” शब्द० प्र०। न्यायनय चत्वारिप्रमाणानि। प्रत्यक्षम्। अनुमानम्। उपमानम्। शब्दः गौ० सू० प्रकारान्तरेण प्रमाणं द्विविधम् “शब्दोपजीवि शब्दानुपजीवि” कुसुमाञ्जलिटी०। प्रत्यक्षमेकमेव प्रमाणमिति चार्वाकाः सङ्गिरन्ते। प्रत्यक्षमनुमानं चेति द्वे प्रमाणे इति बैशेषिका बौद्धा आर्हताश्च। प्रत्यक्षं शब्दश्चेति द्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्य्याः। प्रत्यक्षमनुभानमाप्तवचनमिति त्रीणि प्रमाणानीति सांख्या वेदान्तिनश्च। प्रत्यक्षानुमानोपमानानि त्रीणीति नैयायिकैकदेशिनः। प्रत्यक्षानुमानीपमानशब्दा अर्थापत्तिश्चेति पञ्च प्रमाणानीति प्राभाकराः। प्रत्यक्षानुमानोपमानशब्दा अर्थापत्तिरनुपलब्धिश्चेति षट्प्रमाणानीत्यपरे भाट्टावेदान्तिभेदाश्च। सम्भवैतिह्ये अप्यतिरिक्ते प्रमाणे इति पौराणिकाः। चेष्टाप्यतिरिक्तं प्रमाणामित तान्त्रिकाः। तत्र सांख्यपातञ्जलवेदान्तिमते अन्तःकरणवृत्तीनां पौरुषेयचित्तवृत्तिप्रकाशरूपबोधे करणत्वम् अन्तःकरणवृत्तिषु च ज्ञानत्वारोपेण तत्करणत्वमिन्द्रियाणामिति भेदः। यथोक्तं सां० प्र० भा० “प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव नः। प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम्। प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते। साक्षाद्दर्शनरूपं च साक्षित्वं वक्ष्यति स्वयम्। अतः स्यात् कारणाभावाद्वृत्तेः साक्ष्येव चेतनः। विष्ण्वादेः सर्वसाक्षित्वं गौणं लिङ्गाद्यभावतः”। “प्रमाणविपर्य्ययविकल्पनिद्राः स्मृतयः” पात० सू० “इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषावधारणं प्रधाना वृत्तिः प्रत्यक्षं प्रमाणं, फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः” भाष्यम् “अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा तत्करणं प्रमाणम्। ननु पुरुषवर्त्ती बोधः कथं चित्तगतायावृत्तेः फलं न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियते इत्यत आह अविशिष्ट इति। न हि पुरुषगतो बोधो जन्यते अपि तु चैतन्यमेव बुद्धिदर्पर्णप्रतिबिम्बितं बुद्धिवृत्त्या अर्थाकारया तदाकारतामापाद्यमानं फलम्। तच्च तथाभूतं बुद्धेरविशिष्टं बुद्ध्यात्मिका वृत्तिः वृत्तिश्च बुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभाव इत्यर्थः” विव०। प्रमाणस्य भावः ष्यञ् प्रामाण्य न० तल् प्रमाणता स्त्री त्व प्रमाणत्व न० प्रमाणभावे प्रमितिकरणत्वे प्रमात्वे च। उद्देश्यविधेयभावेनान्वयस्थले प्रमाणशब्दस्य प्रमाकरणपरत्वे क्वचिदेकवचनता यथा “वेदाः प्रमाणं स्मृतयः प्रमाणम्” इत्यादौ। क्वचित्तुबहुवचनता यथा “प्रत्यक्षानुमानोपमानागमाः प्रमाणानि” गौ० सू०। तत्र पूर्वत्र शाब्दत्वरूपप्रमात्वजातेरेकत्वात् एकवचनत्वम्। उत्तरत्र प्रत्यक्षत्वादिजातिचतुष्टयकरणानां बहुत्वात् बहुवचनता इति प्रथमाव्युत्पादे गदाधरेण प्रपञ्चितम् तत्र दृश्यम्। सामान्यत्वात् क्लीवतैवास्य। क्वचित्तु विशेषपरत्वे स्त्रीत्वपरता यथा ष्रमाणी। स्त्री प्रमाणी यस्य ब० ब्री० “अप् पूरणीप्रमाण्योः” पा० अप्समा० न कप्। श्रीप्रमाण इत्येव सि० कौ०। ८ परिमाणभेदे च। “प्रमाणे मात्रजद्वयसज्दघ्नचः” षा० वृत्तौ दृश्यम्।

प्रमाणबाधितार्थक = पु० प्रमाणेन बाधितोऽर्थो यस्य कप्। तर्कभेदे तर्कशब्दे ३२५५ पृ० दृश्यम्।

प्रमाणिक = त्रि० प्रमाणं सिद्धिहेतुतयाऽस्त्यस्य टन्। प्रमाणसिद्धे “प्रमाणिका जरौ लगौ” वृ० र० उक्ते अष्टाक्षरपादके २ छन्दोभेदे स्त्री। ३ परिमाणभेदयुते मध्यमाङ्गुलकूर्परान्तरमितपरिमाणयुते हस्ते हेमच०।

प्रमातामह = पु० पुगतो मातामहं कार्यत्वेन अत्या० स०। १ मातामहस्य पितरि अभरः। तस्य पत्नी ङीष्। प्रमातामही २ तत्पत्न्यां स्त्री।

प्रमातृ = त्रि० पुमिनोति प + मि–तृच्। प्रमाज्ञानकर्त्तरि। न्यायनये “यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता” वात्स्या०। सांख्यमते शुद्धचेतनो वृत्तिसाक्षी स। प्रमाणशब्दे तद्वाक्यम दृश्यम्। वेदान्तिमते “मेहातीतो विशुद्धो मुनिभिरभिहितो मौहसंक्रान्तमूर्त्तिः साक्षी संवित् प्रमा तत्प्रतिफलितवपर्गीयतेऽसौ प्रमाता” इत्युक्तदिशा अन्तःकरणवृत्तिप्रतिबिम्बितं तदवच्छिन्नं वा चैतन्यमेव प्रमाता।

प्रमाथ = पु० प्र + मथ–भावे घञ्। १ बलाद् हरणे २ प्रपीडने च। बा० कर्त्तरिण। ३ कुमारानुचरभेदे भा० श० ४६ अ०। स्वार्थे अण्। ४ शिवपारिषदप्रमथगणे पु० हरिवं० १८१ अ० ५ धृतराष्ट्रपुत्रभेदे पु० भा० द्रो० १५७ अ०।

प्रमाथिन् = त्रि० प्रमथ्नाति प्र + मथ–णिनि। १ बलाद् हारके २ पीडके च। “इन्द्रियाणि प्रमाथीनि” गीतां। स्त्रियां ङीप्। सा च ३ अप्सरोभेदे भा० आ० १२४ अ०। ४ राक्षसभेदे पु० भा० व० २८४ अ०

प्रमाद = पु० प्र + मद–घञ्। १ कर्त्तव्ये अकर्त्तव्यत्वघिया ततो निवृत्तौ अकर्त्तव्ये कर्त्तव्यत्वधिया तत्र प्रवृत्तौ बा अनवधानतायाम् अमरः। अनवधानताशब्दे १५२ पृ० दृश्यम्। स च तमोगुणमार्य्यः तमस्शब्दे ३२३५ पृ० दृश्यम्। तस्य सम्मोहरूपत्वात्तत्कार्य्यत्वं बोध्यम्।

प्रमादवत् = पु० प्रमादोऽस्त्यस्य मतुप् मस्य वः। १ प्रमादयुते २ असमीक्ष्यकारिणि जटा०।

प्रमादिन् = त्रि० प्रमादः नित्ययोगे इनि न तु अस्त्यर्थे एकाक्षरकृदन्तात् तस्य निषेधात्। नित्यप्रमादयुक्ते “एकः प्रमादी स कथं न हन्यते” श्रीधरधृतवाक्यम्।

प्रमापण = न० प्र + मीञ्–हिंसायां स्वार्थे णिच्–आत्वे पुक् ल्युट्। मारणे अमरः।

प्रमायुक = त्रि० प्र + मी–ताच्छील्ये उकञ्। प्रमरणशीले “न चास्य प्रियं प्रमायुकं भवति” वृ० उ०। “प्रमायुकं मरणशीलम्” भा०।

प्रमित = त्रि० प्र + मि–मी वा क्त। १ ज्ञाते २ प्रथभावधारिते च जटा०। ३ परिमिते।

प्रमिताक्षरा = स्त्री प्रमितानि परिमितानि अक्षराणि यस्याम्। सिद्धान्तशिरोमणिव्याख्यानरूपायां टीकायां मुहूर्त्तचिन्तामणिटीकाभेदे “प्रमिताक्षरा सजसकै- रुदिता” वृ० र० उक्ते द्वादशाक्षरपादके ३ वर्णवृत्तभेदे।

प्रमिति = स्त्री प्र + मि–मा–वा क्त। प्रमाज्ञाने अमरः।

प्रमीढ = त्रि० प्र + मिह–क्त। १ मूत्रिते २ चने च मेदि०।

प्रमीत = त्रि० प्र + मीञ्–हिंसायां क्त। १ मृते “प्रमीतौ पितरौ यस्य” इति स्मृतिः। २ यज्ञार्थे हतपशौ पु० अमरः।

प्रमीला = स्त्रौ प्र + मील–भावे अ। तन्द्र्याम अमरः।

प्रमुख = न० प्रकृष्टं मुखमारम्भः। १ तदादित्व त्रिका० प्रकृष्टं मुस्वमस्य। २ प्रथमे ३ प्रधाने अमरः ४ मान्ये ५ श्रेष्ठे च त्रि० मेदि० ६ पुन्नानवृक्षे पु० शब्दरत्ना० ७ समूहे पु० शब्दच०। बहु०। उत्तरपदस्थः। तदादिके त्रि०।

प्रमुच = पु० १ ऋषिभेदे भा० शा० २०८ अ०। प्रमुञ्चति प्र + मुचक। २ प्रकर्षेण मोक्तरि त्रि०।

प्रमुचु = ऋषिभेदे भा० अनु० १५० अ०।

प्रमुद् = त्रि० प्रकृष्टा मुद् यस्म। १ हृष्टे २ हर्षयुक्ते अमरः। ३ देवभेदे पु० यजु० ३०। १०। प्रा० स०। ४ प्रकृष्टहर्षे स्त्री।

प्रमुदित = त्रि० प्र + मुद–कर्तरि क्त। १ हृष्टे २ हर्षयुक्ते अमरः।

प्रमुदितवदना = स्त्री “प्रमुदितवदना भवेन्नौ च रौ” वृ० र० उक्ते द्वादशाक्षरपादके छन्दोभेदे।

प्रमृग = अव्य० प्रकृष्टा भृगा यत्र तिष्ठ० अव्ययी०। प्रकृष्टमृग युक्ते स्थाने

प्रमृत = न० प्रकृष्टं मृतं ब्राणिहिंसितं यत्व। मनूक्ते कषणरूपे जीवनोपायभेदे “मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम्” मनुः। “कर्षणञ्च भूमिगतप्रचुरप्राणिमरणनिमित्तत्वात् बहुदुःखफलकं प्रकर्षेण मृतमिव प्रमृतम्” कुल्लू०।

प्रमेय = त्रि० प्र + मा–कर्मणि यत्। १ प्रमाज्ञानविषये पदार्थे २ परिच्छेद्ये २ अवधार्य्य च। तत्र वेदान्ते शुद्धर्चतन्यं प्रमेयम् अन्यस्याध्यासमूलकत्वेन व्यवहारिकप्रमाज्ञानविधत्वेऽपि न परमार्थप्रमेयत्वम्। न्यायनये “आत्मशरीरान्द्रयार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःस्वापवर्गास्तु प्रमेयम्” गौ० सू० उक्ताः आत्मादयः। प्रमेयत्वं च केवलान्वयि सर्वेषामीश्वरज्ञानरूपप्रमावियत्वात्।

प्रमेह = पु० प्र + मिह–आधारे करणे वा थञ्। रोगमेदे तल्लक्षणभेदादिकं भावप्र० उक्तं यथा “आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदनानूपरसः पयांसि। नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम्। मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफोवस्तिगतं प्रदव्य। करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदष्य चापि। क्षीणेषु दोषेष्ववकृष्य धातून् संदूष्य मेहान् कुरुतेऽनिलश्च। साध्याः कफोत्था दश पित्तजाः षट् याप्यान साध्या पवनाच्चतुष्काः। समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमन्ते। कफश्च पित्तं पवनश्च दोषामेदोऽस्रशुक्राम्बुबसाससीकाः। मज्जारसौजःपिशितञ्च दूष्याः प्रमेहिणां विंशतिरेव मेहाः। दन्तादीनां मलाढ्यत्वं प्राग्रूपं पानिपादयोः। दाहचिक्वणता देहे तृट्स्वाद्वास्यञ्च जायते। सामान्यं लक्षणं तेषां प्रभूताबिलमूत्रता०। दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः। मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते। अच्छं बहुतरं शीतं निर्गन्धसुदकोपमम्। मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छिलम्। इक्षोरसमिवात्यर्थं मधुरञ्चेक्षुमेहतः। सान्द्री भवेत् पर्युसितं सान्द्रमेहेन मेहति। सुरामेहि सुरातुल्यमुपर्यच्छमधोघनम्। संहृष्टरोमा पिष्टेन पिष्टवद्बहलं सितम्। शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति। मूर्त्तासून् सिकठामेही सिकतारूपिणी मलान्। शीतमेही सुवहुशो मधुरं भृशशीतलम्। शनैःशनैः शनैर्मेही मन्दं मन्दं प्रमेहति। लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम्। गन्धव र्णरसस्पर्शौ क्षारेण क्षारतीयवत्। वीलमेहेन नीलाभं कालमेही मसीनिभम्। हारिद्रमेही कटुकं हरिद्रासन्निभं दहत्। विश्रं माञ्जिष्ठमेहेन मञ्जिष्टाशालिकोपमम्। विश्रमुस्तं सखबणं रक्ताभं रक्तमेहिनः। वशामेही वसामिश्वं वसाभं मूत्रयेन्मुहुः। मज्जामं मज्जमिश्रं वा मज्जमेही सुहुर्मुहुः। कष्न्धं मधुरं रूक्षं क्षौद्रमेहं वदेत् बुधः। हस्ती मत्त इवाजस्नं मूत्रयेगविवर्जितम्। सासमीकं विवद्धश्च हस्तिमेही प्रमेहति। अविपाकोऽरुचिश्छर्दिर्निद्राकासः सपीनसः। उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम्। वस्मिमेहनयोस्तोदो मुष्कावदारणं ज्वरः! दाहतृष्णाम्लिकामूर्च्छाविड्भेदः पित्तजन्मनाम्। पातजानासुदावर्त्तकम्पहृद्ग्रहलोलताः। शूलमुन्निद्रता शोषः श्वासः कासश्च जायते। यथोक्तोपद्रवाविष्ठमतिप्रखुतमेव च। पिडकापीडितं गाढं प्रमेहो हन्ति मानवम्। मूर्च्छाच्छर्दिज्वरश्वासकासवीसर्पणौरवैः। उपद्रवैरुपेतो यः प्रमेही दुःप्रतिक्रियः। रजः प्रवर्त्तते यस्मान् मासि मासि विशोधयेत्। सार्वात् शरीरदोषांश्च न प्रमेहन्त्यतः स्त्रियः। जातः प्रमेहो मधुमेहिनो वा न साध्यरोगः सहि बीजदोषात्। बे चापि केचित्कुकजा विकारा सवन्ति तां- क्ष्मापि वदन्त्यसाध्यान्। सर्वएव प्रमेहास्तु कामेनाप्रतिकारिणः। मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति च। मधुमेहो मधुनिभो जायते स किल द्विधा। क्रुद्धे घातुक्षयाद्वायौ दोषावृतपथेऽथ वा। आवृतो दोषलि ङ्गानि सोऽनिनित्तं प्रदर्शयन्। क्षीणक्षीणात् क्षणात् पूर्णो भजते कृच्छ्रसाध्यताम्। मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति। सर्वेऽपि मघुमेहाख्यं माधुर्य्याच्च तनोरतः। शराविकाकच्छपिका जालिनी विनतालजी। मसूरिका सर्षपिका पुत्रिणी सविदारिकाः। विद्रधिश्चेति पिडकाः प्रमेहोपेक्षया दश”। तद्रोगनिमित्तकर्मभेद शा० त० उक्तः। कर्मविपाकशब्दे १०७६ पृ० दृश्यम्। तत्र मधुमेहस्यैव महारोगभेदरूपता “मधुमेहभगन्दरौ” इत्युक्तेः।

प्रमेहिन् = पु० प्र + मिह–णिनि। प्रमेहरोगयुते।

प्रमोचनी = स्त्री प्रकर्षेण मुच्यते निस्त्वचीक्रियते भोजनार्थम् मुच–कर्मणि ल्युट् ङीप्। १ गोडुम्बायाम् (गोमुक) जटा० २ प्रमोचनसाधने त्रि०। भावे ल्युट्। ३ प्रकर्षेणमीचने न०।

प्रमोद = पु० प्र + सुद–हर्षे भावे घञ्। १ हर्षे प्रियलाभनिमित्ते प्रकृष्टहर्षे आनन्दशब्दे ७१७ पृ० तैत्ति० उ० भाष्यवाक्यं दृश्यम्। गकृष्टो मोदोयस्य प्रा० व०। २ प्रमोदयुते त्रि० ३ नागभेदे पु० भा० आ० ५७ अ०। ४ स्कन्दानुचरभेदे पु० भा० श० ४६ अ०। सा० त० कौ० उक्ते ५ मुख्यसिद्धिभेदे “तिस्रश्च मुख्याः सिद्धयः प्रमोदसुदितमोदमानाः”। तत्राध्यात्यिकदुःश्चविथातस्य वृर्वोत्कर्षेण इष्टत्वात् प्रमोदत्वं बोध्यम्। आभिमौतिकंदुःखविघातस्य मोदाधारत्वात् मुदितत्वम आधिदैविकदुःस्वविघातस्य मोदमानत्वं मोदस्य मानं भागं यत्रेति व्युत्पत्त्येति विबेकः।

प्रमोदन = त्रि० प्रमोदयति प्र + सुद–णिच्–ल्यु। १ हर्षकारके २ विष्णौ पु० “जितामित्रः प्रमोदनः” विष्णुस०। भावे ल्युट्। ३ हर्षसम्पादने न०।

प्रमोदित = त्रि० प्रमोदो जातोऽस्य तार० इतच। १ जातप्रमोदे २ कुवेरे पु० शब्दमाला।

प्रमोदिन् = त्रि० प्रमोदयति प्र + मुद–णिच्–णिनि। १ प्रहर्षजनके। स्त्रियां ङीप्। सा च २ जिङ्किनीवृक्षे भावप्र०।

प्रमोहन = न० प्रसुह्यतेऽनेन प्र + मुह–करणे ल्युट्, प्रमोहयत प्र + मुह + णिच्–ल्यु वा। १ प्रमोहसाधने प्रमोहकारके २ अस्त्रभेदे च यदल्यप्रयोगे विपक्षस्य प्रमोहो जायते तस्मिन्नास्त्रे। भा० भी० ७७ अ०। २ प्रमोकारसमात्रे त्रि०।

प्रम्लोचन्ती = स्त्री प्रम्लोचति नरं प्रति आत्मानं दर्शयति प्र + म्लुच–शतृ–ङीप्। अप्सरोभेदे यजु० १५। १७

प्रम्लोचास्त्री = प्रम्लोचति नरं प्रत्यात्मानं दर्शयति प्र + म्लु चअच्। अप्सरोभेदे गरुडपु० ९० अ०।

प्रयज्यु = त्रि० प्र + यज “यजिमनिशुन्धिमसिदनिभ्यो युच्” उणा० युच् निरनुनासिकत्वात् अनादेशो न। अध्वर्यौ उज्ज्व० ऋ० १। २९। ९

प्रयत = त्रि० प्र + यम–कर्त्तरि क्त। १ पवित्रे संयते अमरः। प्र + यत–अच्। २ प्रयत्रविशिष्टे त्रि०। प्रपूर्वक यमेर्दानार्थकात् कर्मणि क्त। ३ दत्ते च। “प्रयतदक्षिणम्” ऋ० १३१। १५

प्रयत्न = पु० प्र + यत–भावे नङ्। प्रयासे। स च न्यायमते त्रिविधः यथा “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम। एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम्। चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा। उपादानस्य चाध्यण प्रवृत्तौ जनकं भवेत्। निवृत्तिस्तु भवेद्द्वेषात् द्विष्टसाधनताधियः। यत्रो जीवनयोनिस्तु सर्वदाऽतीन्त्रियी भवेत्। शरीरे प्राणसञ्चारे कारणं तत्प्रकीर्त्तितम्” भाषा० “प्रयत्रस्तु फलावाप्त्यै व्याषारोऽतित्यरान्वितः” सा० द० उक्ते २ फलार्थिभिः प्रारब्धस्य कर्मणोऽवस्थापञ्चकान्तर्गतेऽवस्थाभेदे ततोऽस्त्यर्थे मतुप् मस्य वः। प्रयत्नवत् तद्युक्ते त्रि० त्रिका० स्त्रियां ङीप्।

प्रयत्नशैथिल्य = ६ त०। स्वाभाविकप्रयत्नस्योपरमपूर्वकप्रयत्नभेदेतच्च योगाङ्गासनसिद्धिकारणं यथोक्तं “प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्” पा० सू० “भवतीति शेषः प्रयत्नो परमात् सिद्ध्यत्यासनं येन नाङ्गमेजयो भवति अनन्ते वा समापन्नं चित्तमासन निर्वर्त्तयतीति” भा० “सां सिद्धिकोहि प्रयत्नः शरीरधारको न यागाङ्गस्योपदेष्टव्यासनस्य कारणं तस्य तत्कारणत्वे उपदेशवैयर्थ्यात् स्वरसत एव तत्सिद्धेः तस्मादुपदेष्टव्यस्यासनस्यायमसा० धकः विरोधी च स्वाभाविकः प्रयत्नः। तस्य च यादृच्छिकासनहेतुतयासनवियमोपहर्तृत्वात्। तस्मादुपदिष्टनियमासनमभ्यस्यता स्वाभाविकप्रयचशैथिल्यात्मा प्रयत्न आस्थेयो नान्यथोपदिष्टमासनं सिध्यतीति स्वाभाविक प्रयत्नशैथिल्यमासनसिद्धिहेतुः अनन्ते वा नागनायके स्थिरतरफणासहस्नविधृतविश्वम्भरामण्डले समापन्नं चित्तमासनं निर्वर्त्तयतीति” विव०।

प्रयन्त = त्रि० प्र + यम–तृच् प्रफर्षेण १ यन्तरि २ दातरि च ऋ० १। ५१। १५ भाष्यम्।

प्रयस् = न० प्रयस्यतेऽत्र प्र + यस–आधारे क्विप्। अन्ने निघण्टुः पय इत्यत्र प्रय इति पाठान्तरं ऋ० १। ४५। ८ उदा०।

प्रयस्त = त्रि० प्र + यस–आधारे क्त। १ प्रयासेन कृते घृतचतुर्जातकादिना द्रव्येण प्रयत्नसंस्कृते २ व्यञ्जने न० अमरः।

प्रयाग = पु० प्रकृष्टो यागो यागफलं यस्य यस्मात् वा। गङ्गायसुनयोः सङ्गमजाते १ तीर्थभेदे २ शतक्रतौ इन्द्रे च। ३ अश्वे अश्वमेघाङ्गस्याश्वस्य यज्ञसाधनत्वात् तथात्वम्। कर्म०। ४ प्रकृष्टे यज्ञे अमरः। तत्र तीर्थभेदे पुं न० पुराणे तथा प्रयोगात्। मन्माहात्म्यञ्च मत्स्यपु० १०२ अध्यायादिके १०७ अध्यायान्ते उक्तम् एवमन्यान्यपुराणेऽप्यु क्तम्। ततो दिग्मात्रं पुराणसमुच्चये दर्शितमत्र प्रदर्श्यते। “एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम्। न शक्यं कथितुं राजन्! फलं वर्षशतैरपि। संक्षेपेण तु वक्ष्यामि तस्य तीर्थस्य यत् फलम्। षष्टिर्वीरसहस्राणि तत्र रक्षन्ति जाह्नवीम्। यमुनां रक्षति सदा सविता सप्तवाहनः। तं वटं रक्षति शिवः शूलपाणिर्महेश्वरः। स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम्। प्रयागं स्मरमाणस्य यान्ति पापानि संक्षयम्। दर्शनात्तस्य तीर्थस्य सर्वपापैः प्रमुच्यते। मृत्तिकालभनाद्वापि नरः पापात् प्रमुच्यते। पञ्च कुण्डानि राजेन्द्र! येषां मध्ये तु जाह्नवी। प्रयागस्य पवेशाद्वै पापं नश्यति तत्क्षणात्। मनसा चिन्तितान् कामान् सर्वान् प्राप्नोति पुष्कलान्। ततो गत्वा प्रयागन्तु सर्वदेवाभिरक्षितम्। ब्रह्मचारी शुचिर्भूत्वा पितॄन् देवांश्च तर्पयेत्। तपनस्य सुता देवीं त्रिषु लोकेषु विश्रुता। समागता महाभाग! यमुना यत्र निर्मला। तत्रोपस्पृश्य राजेन्द्र! स्वर्गलौकमुपाश्नुते। व्याधितो यदि वा हीनः क्रुद्धो वापि भवेन्नरः। गङ्गायमुनमासाद्य यस्तु प्राणान् परित्यजेत्। दीप्तकाञ्चनसङ्काशैर्विमानैः सूर्य्यवर्चसैः। नन्धर्वाप्सरसां मध्ये स्वर्गे तिष्ठति मानवः”। “देशस्थो यदि वाऽरण्ये विदेशे यदि वा गृहे। प्रयागं अरमाणोऽपि यस्तु प्राणान परित्यजेत्। ब्रह्मलोकमषाप्तोति वदन्ति मुनिपुङ्गवाः। सर्वकामफला वृक्षा नहावेदिर्हिरण्मयी। स्त्रीमहस्राकले रम्णे मन्दाकिप्यान्तदे शुभे। मोदते ऋपिभिः सार्द्धं म्वर्गे तेनेह कर्मणाः। सिद्धचारणगन्धर्वैः पूज्यते दिवि नैवतैः। तताः स्वर्गात् परिभ्रष्टो जम्बुद्वीगपतिर्भवेत्। ततः पूभानि कर्माणि चिन्तयानः पुनःपुनः। गुणावान् वित्त- सम्पन्नो भवतीह न संशयः। स्वर्णशृङ्गीं रूप्यखुरां चेलकण्ठीं पयस्विनीम्। प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि। स्वर्गे च ततफलं भुङ्क्ते प्रदाता पञ्चकोटिषु। पुत्रान् दारांस्तघ्ना भृत्यान् गौरेका प्रतितारयेत्। ऐश्वर्य्यलोभमोहाद्वा गच्छेद्यानेन यो नरः। निष्फलं तस्य तत्तीर्थं तस्माद्यानन्तु वर्जयेत्। तत्र दानं प्रदातव्यं यथाविभवसम्भवम्। तेन तीर्थफलश्चैव वर्द्धते नात्र संशयः। स्वर्गे तिष्ठति राजेन्द्र! यावदाहूतसंप्लवम्। वटमूलं समासाद्य यस्तु प्राणान् परित्यजेत्। सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति। तत्र ते द्वादशादित्यास्तपन्ते रुद्रमाश्रिताः। निदहन्ति जगत्सर्वं वटमूलं न दह्यते। नष्टचन्द्रार्कपवनं यदा चैकार्णव जगत्। स्वपते तत्र वै विष्णुर्यतमानः पुनःपुनः। देवदानवगन्धवा ऋषयः सिद्धचारणाः। यदा सेवन्ति तत्तीर्थं गङ्गायनुनसङ्गमम्। ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत!। श्रवणात्तस्य तीर्थस्य नामसङ्कीर्त्तनादपि। मृत्तिकालभनाद्वापि नरः पापात् प्रमुच्यते। तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः। न देववचनात्तात न लोकवचनादपि। मतिरुत्क्रमणीया ते मयागमरणं प्रति। दश तीर्थसहस्राणि षष्ठिःकोट्यस्तथा पराः। तेषां सान्निध्यमत्रैव माघे वै कुरुनन्दन!। या गतिर्योगयुक्तस्य सत्यस्थस्य च धीमतः। सा गतिस्त्यजतः प्राणान् गङ्गायमुनसङ्गमे। कम्बलाश्वतरौ नागौ विपुले यमुनातटे। तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते। तत्र गत्वा च संस्थानं महादेवस्य धीमतः। नरस्तारयते पूर्वान् पुरुषानेकविंशतिम्। कृत्वाभिषेकन्तु नरो ह्यश्वमेधफलं लभेत्। स्वर्गलोकमवाप्नोति यावदाहूतसंप्लवम्। पूर्वपार्श्वे च गङ्गायास्त्रिषु लोकेषु विश्रुतम्। कूपश्चैव तु साहस्रं प्रतिष्ठानञ्च नामतः। तत्र स्नात्वा विशुद्धात्मा अश्वमेधफलं लभेत्। उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः। हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम्। अश्वमेधमवाप्नोति स्नानमत्रेण भारत!। यावच्चन्द्रश्च सूर्य्यश्च तावत्स्वर्गे महीयते। उर्वशीपुलिने रम्ये विपुले हंसपाण्डरे। परित्यजति यः प्राणान् शृणु तस्यापि यत् फलम्। पष्टि वर्षसहस्राणि षष्टिं वर्षशतानि च। मोदते पितृभिः सार्द्धं स्वर्गलोके नरीत्तमः। ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः। उर्वशीसद्वशीनान्त कन्यानां दिव्यतेजसाम्। मध्ये नारीसहस्राणां वहूनाञ्च पतिर्भवेत्। दशग्रामसहस्राणां भर्त्ता भवति भूमिपः। काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिवुध्यते। अथ सन्ध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः। उपासीतशुचिः सन्ध्यां ब्रह्मलोकमवाप्नुयात्। कोटितीर्थं समासाद्य यस्तु प्राणान् परित्यजेत्। कोटिवर्षसहस्राणि स्वर्गलोके महीयते। ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मादिवश्च्युतः। सुवर्णमणिमुक्ताढ्ये कुले जायेत रूपवान्। ततो भागीरथीं गत्वा वासुकेरुत्तरेण तु। दशाश्वमेधिकं नाम तत्र तीर्थं परं भवेत्। कृत्वाभिषेकन्तु नरो ह्यश्वमेधं फलं लभेत्। धनाढ्यो रूपवान् दक्षो दाता भवति धार्मिकः। चतुर्वेदिषु यत् पुण्यं सत्यवादिषु यत्फलम्। अर्हिसायाञ्च यो धर्मो गमनादेव तत् फलम्। तथैव मानसं नाम गङ्गाया दक्षिणे तटे। त्रिरात्रमुषितः स्नात्वा सर्वान् कामानवाप्नुयात्। पृथिव्या आसमुद्राया महाभानः पतिर्भवेत्। षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च। माघे मासि गमिव्यन्ति गङ्गायमुनसङ्गमम्। गवां शतसहस्रस्य सम्यग्दत्तस्य यत् फलम्। प्रयागे माथमासे वै त्र्यहं स्नातस्य तत् फलम्। गङ्गायमुनयोर्मध्ये योऽग्नौ स्वाङ्गं परित्यजेत्। अहीनाङ्गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः। यावन्ति रोमकूपाणि तस्याङ्गेषु च धीमतः। तावद्धर्षसहस्राणि स्वर्गलोके महीयते। जलप्रवेशंयः कुर्य्यात् सङ्गमे लोकविश्रुते। राहुमुक्तो यथा सोमो विमुक्तः सर्वपातकैः। सीमलोकमर्वाप्नोति सोमेन सह मोदते। षष्टिं वर्षसहस्राणि षष्टिं वर्षशताथि च। स्वर्गलोकमवाप्नोति ऋषिगन्धर्वसेवितः। परिभ्रष्टश्च राजेन्द्र! समृद्धे जायते कुले। अधःशिरास्तु यो ज्वालामूर्द्धपादः पिबेन्नरः। शतं वर्षसहस्राणां स्वर्गलोके महीयते। परिभ्रष्टश्च राजेन्द्र! अग्निहोत्री भवेन्नरः। यस्तु खदेहं कर्त्तित्वा शकुनिभ्यः प्रयच्छति। विहगैरुपभुक्तस्य शृणु तस्यापि यत फलम्। शतं वर्षसहस्राणि सोमलोके महीयते। तस्मादपि परिभ्रष्टो राजा भवति धार्मिकः। यामुने चोत्तरे कूले प्रयागस्य च दक्षिणे। ऋणमोचनकं नाम तत्तीर्थं परमं स्मृतम्। एकरात्रोषितः स्नात्वा ऋणैः सर्वैर्विसुच्यते। अश्वमेधफलं तस्माद्गच्छतस्तु पदे पदे। पुरुषांस्तारयेद्राजन्! दश पूर्वान् दशापरान्। व्यतीतान् पुरुषान् सप्त भविष्यांश्च चतुर्दश। नरस्तारयते सर्बान् यस्त् प्राणान् परित्यजेत्। अश्रद्ध धानाः पुरुषा पापापहृतचेतसः। न प्राप्नुवन्ति तत् स्थानं प्रयागं देवरक्षितम्। अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत्। मर्बकामसमृद्धन्तु स्वर्गलोके महीयते। अग्नितीर्थमतिख्यातं यमुनादक्षिणे तटे। उत्तरेण तु वक्ष्यामि आदित्यस्य महात्मनः। तीर्थं निरुर्दकं नाम यत्र देवाः सवासवाः। उपासते सदा सन्ध्यां नित्यकालं युधिष्ठिर!। गङ्गा च यमुना चैव उभे तुल्यफले स्मृते। केबलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते। नैमिषं पुष्करञ्चैव गोमती सिन्थुसागरम्। गया च धेनुकञ्चैव गङ्गासागरएव च। एते चान्ये च वहवो ये च पुण्याः शिलोच्चयाः। दश कोटिसहस्राणि षष्टिकोट्यस्तथा पराः। प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः। कुरुक्षत्रसमा गङ्गाः यत्र तत्रावगाहिता। तस्माद्दशगुणा प्रोक्ता यत्र विन्ध्येन सङ्गता। तस्माच्छतगुणा प्रोक्ता काश्यामुत्तरवाहिनी। काश्याः शतगुणा प्रोक्ता गङ्गायमुनसङ्गमे। सहस्नगुणिता चापि भवेत् पश्चिमवाहिनी। सा राजन्! दर्शनादेव ब्रह्महत्यापहारिणी। पश्चिमाभिमुखी गङ्गा कालिन्द्या सह सङ्गता। हन्ति कल्पकृतं पापं सा माघे नृप! दुर्लभा। अमृतं कथ्यते राजन्! सा वेणी परिकीर्त्तिता। तस्यां माघे मुहूर्त्तन्तु देवानामपि दुर्लभम्। षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च। माघे मासि गमिष्यन्ति गङ्गायमुनसङ्गमम्। ब्रह्मविष्णुमहादेवरुद्रादित्यमरुद्गणाः। गन्धर्वा लोकपालाश्च यक्षकिन्नरगुह्यकाः। अणिमादिगुणैः सिद्धा ये चान्ये तत्त्वदर्शिनः। ब्रह्माणी पार्वती लक्ष्मीः शची मेधावती रतिः। सर्वास्ता देवपत्न्यश्च तथा नागाङ्गना नृप। घृताची मेनका रम्भा उर्वशी च तिलोत्तमा। गणाश्चाप्मरसां तद्वत् पितॄणाञ्च गणाश्च ये। स्नातुमाघन्ति ते सर्वे माघे वेण्यां नराधिप!। कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः। सर्वतीर्थानि कृष्णानि पापिनां सङ्गदोषतः। भवन्ति शुक्लवर्णानि प्रयागे माधमज्जनात्। स्वर्णभारसहस्रेण कुरुक्षेत्रे रविग्रहे। यत् फलं लभते माथे वेण्यां तच्च दिने दिने। यज्ञतीर्थतपोमिश्च न तत् प्राप्नाति मानवः। यत् फलं समवाप्नोति वेण्यां स्नानान्न संशयः। प्रयागे माधमासे तु यस्त्र्यहं स्नाति मानवः। पापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवोरगः। प्रयागे माघमासे तु त्र्यहं स्नातस्य द्भवेत्। नाश्वमेधसहस्रेण तत् फलं लभते भुवि। त्र्यहस्नानफलं माघे पुरा काञ्चनमालिने। राक्षसाय ददौ भूप! तेन मुक्तः स पातकात्। योगाभ्यासेन यत् पुण्यं संवत्सर शतेन च। गवां कोटिप्रदानस्य सम्यग्दत्तस्य यत् फलम्। प्रयागे माघमासे तु त्र्यह स्नातस्य तत् फलम्। किं गयापिण्डदानेन काश्यां वा मरणेन किम्। किं कुरुक्षेत्रदानेन प्रयागे वपनं यदि। प्रयागे वपनं कृर्य्यात् गयायां पिण्डपातनम्। दानं दद्यात् कुरुक्षेत्रे वाराणस्यां तनुं त्यजेत्। सितासितेषु ये स्नान्ति माघे मासि युधिष्ठिर!। न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि। स्वल्पं स्वल्पतरं पापं यद्वा यस्य नराधिष!। प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम्। दर्शनात्तस्य तीर्थस्य नामसंकीर्त्तनादपि। मृत्तिकालभनाद्वापि नरः पापात् प्रमुच्यते। पयागस्य प्रवेशात्तु पापं नश्यति तत्क्षणात्। कीर्त्तनान्मुच्यते पापाद्दृष्ट्या भद्राणि पश्यति। अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम्। गङ्गायमुनयोर्मध्ये स्वातो मुच्येत किल्विषात्। मनसा चिन्तितान् कामांस्तांस्तान् प्राप्नोति पुष्कलान्। प्रयागन्तु ततो गत्वा सर्वदेवाभिरक्षितम्। ब्रह्मचारी भवेन्मासं पितॄन् देवांश्च तर्पयेत्। ईप्सितान् लभते काभान् यत्र कुत्रापि जायते। तत्राभिवेकं यः कुर्य्यात् सङ्गमे संशितव्रतः। स प्राप्नोति फलं तुल्यं राजसूयाश्वमेधयोः। पञ्चयोजनविस्तीर्णं प्रयागस्य च मण्डलम्। प्रवेशाद्यस्य भूमौ तु अश्वमेधः पदे पदे। प्रयागमनुगच्छेद्वा बसते वापि यो नरः। सर्वपापविशुद्धात्मा विष्णुलोके महीयते। मकरस्थे रवौ माघे गोविन्दाच्युत! माधव!। स्नानेनानेन मे देव! यथोक्त फलदो भव। तत्र दानं प्रदातव्यं यथाविभवविस्तरम्। तेन तीर्थफलञ्चैव वर्द्धते नात्र संशयः। स्वर्गे तिष्ठति राजेन्द्र! यावदाहूतसंप्लवम्। योजनानां सहस्रेषु गङ्गां यः स्मरते नरः। अपि दुष्कृतकर्माऽपि लभते परमां नतिम्। स्नातास्तु ये माकारभास्करोदये तीर्थे प्रयागे सुरसिन्धुसङ्गमे। तेषां गृहद्वारमलङ्करोति भृङ्गाबली कुञ्जरकर्णताडिता” मत्स्यपु०। तत्र मुण्डनविधिर्यथा “गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरौ मृते। आधाने सोमपाने च वपनं सप्तस स्मृतम्” इति स्तृतिसमुच्चयतिलितवचनं प्रयागावच्छिन्नगङ्गाया विधायकम्। भास्करक्षेत्रं प्रयागः अपि च प्रयागमधिकृत्य “केसानां यावती सङ्ख्या छिन्नानां जा- ह्नवीजले। तावद्वर्षसहस्राणि स्वर्गलोके महीयते”। प्रयागे स्त्रीणामपि मुण्डन न तु केशानां द्व्यङ्गलच्छेदन मात्रं यथा “केशमूलमुपाश्रित्य सर्वपापानि देहिनाम्। तिष्ठन्ति तीर्थस्नानेन तणात्तान्यत्र वापयेत्। प्रयागे मुण्डनाकरणे दोषोऽपि “गङ्गायां मास्करक्षेत्रे मुण्डनं यो न कारयेत्। स काटिकुलसंयुक्त आतल्यं रौरवे वसेत्” इति प्रा० त०।

प्रयागभय = पु० प्रयागात् प्रकृष्टयागकर्तृक्षनात् पिभेति स्वपद्रच्युतिशङ्कया भी–अच्। इन्द्रे शब्दसाला।

प्रयागसेतु = पु० त्रिस्थलीसेतुग्रन्थांशे प्रयागमाहात्स्यादिप्रतिपादके ग्रन्थे।

प्रयाज = पु० प्र + यज–धञ् यज्ञाङ्गत्वात् न कुत्वम्। दर्शपौर्णमासाद्यङ्गे यागभेदे। प्रयाजाश्च पञ्च “समिघो यजति तनूनपातं यजति इडा यजति वर्हिर्यजति खाहाकारं यजतीत्येवं रूपाः श्रुत्युक्ताः। “पञ्च प्रयाजान्” कात्या० श्रौ० ३। २। १। १७। आपस्तम्बोऽपि “पञ्च प्रयाजान् प्राचः प्रतिदिशं वा, समिधः पुरस्तात्, तनूनपातं दक्षिणतः, इडः पश्चात्, बर्हिरुत्तरतः, खाहाकारं मध्ये” ततकर्मस्थानसाह। कर्मभेदे तेषां मध्ये कस्यविदावृत्त्या षट्सप्तनवैकादशसंख्याऽपि कात्या० श्नौ० उक्ता दृश्या। विस्तरभयात् नोक्ता। प्रयाजादयश्चारादुपकारका यथोक्तं लौकाक्षि० “द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म त्वारादुपकारकम् यथा पृयाजादि। आरादुपकारकञ्च परमापूर्वोत्पत्तावेवो पयुज्यते। सन्निपत्योपकारकन्तु द्रव्यदेवतासंस्कारद्वारा यागस्वरूपेऽप्युपयुज्यते। इदमेव चाश्रयिकर्मेत्युच्यत”।

प्रयाजवत = पु० प्रयाज + अस्त्यर्थे मतुप् मस्य वः। प्रयाजरूप कर्मभेदपञ्चकयुते प्रधानयागे दर्शादौ।

प्रयाण = न० पृ + या–भावे ल्युट्। प्रस्थाने पुरादितो वहिर्गसने हेमच०। राज्ञां प्रयाणे वर्णनीयपदार्थाः कविकल्प लतायामुक्ता यथा “भेरीशब्दः भूमिकम्पः सैन्यधूलिप्रसरणं करभः वृषः (द्रव्यवाहनार्थं) ध्वजः छत्रं वणिक् शकटमित्यादयः। स्वार्थे क। तत्रार्थे हमच०।

प्रयात = त्रि० प्र + या–कर्त्तरि क्त। १ प्रकर्षेण गन्तरि कर्मणि क्त। २ प्रयासेनप्राप्ते ३ भृगौ उच्चदेशे ३ सौप्तिके च पु० हेम०

प्रयाम = पु० प्र + यम–घञ्। महार्घ्यतावशात् धान्यादौ १ जनानामादरातिशये अमरः। २ क्रयदेये इत्यन्ये ३ मूल्याधिक्यपरिष्वेदने भरतः।

प्रयाम = पु० प्र + यस–भावे घञ्। १ प्रयते २ परिश्रमे ३ क्लेशे हेमच०। प्रयस्यतेऽनेन करणे घञ्। ४ अविद्यादिषु पञ्चसु क्लेशदायकेषु।

प्रयियु = त्रि० प्र + या–बा० कु द्वित्वे अभ्यासस्यात इत्त्वम्। प्रयाण युते ऋ० ८। १९। ३७

प्रयुक्त = त्रि० प्र + युज–क्त। १ प्रकर्षेण संयोगयुते २ प्रेरिते ३ प्रयोज्ये परम्परया कार्ये च। तस्य भावः प्रयुक्तत्व तद्भावे न०। स च स्वरूपसम्बन्धभेदः कारणाभावेन कार्य्याभाव इत्यादिप्रतीतिसिद्धः गौ० सू०। तदुक्तं गौ० सू० १। १। २। वृत्तौ प्रयोज्यत्वं प्रयोजकत्वं वा पञ्चम्यर्थः दण्डाभावात् घटाभाव इतिवत् स्वरूपसम्बन्धविशेष एव तत्”।

प्रयुक्ति = स्त्री प्र + युज–भावे क्तिन्। १ प्रयोगे २ शब्दोच्चारणभेदे “ऋद्धस्य राजमातङ्गा इति न स्युः प्रयुक्तयः” व्या० कारिका ३ प्रेरणे प्रा० स०। ४ प्रकृष्टायां युक्तौ च।

प्रयुत = न० १ दशलक्षसंख्यायां २ तत्संख्याते च “लक्षप्रयुतकोटयः” क्रमशः इति लीला०। ३ प्रकर्षेणयुते त्रि०।

प्रयुति = स्त्री प्र + यु–भावे क्तिन्। १ प्रकर्षेण योगे २ प्रयोगे ऋ० १०। ३७। १२

प्रयुतेश्वर = पु० तीर्थभेदे स्कन्दपु०।

प्रयोक्तृ = त्रि० प्र + युज–तृच्। १ प्रयोगकर्त्तरि २ ऋणदानादौ धनप्रयोगकर्त्तरि उत्तमर्णे ३ प्रयोजकमात्रे च अमरः।

प्रयोग = पु० प्र + युज–भावकर्मकरणेषु यथायथं घञ् कुत्वम्। १ अनुष्ठाने २ शब्दादीनामुच्चारणभेदे ३ वशीकरणाद्युषाये कामेणे कर्मणि। ४ घोटके च मेदि०। प्रयोगैर्निर्वृत्तः ठञ्। अनुशति० द्विपदवृद्धिः। प्रायौगिक प्रयोगसाध्ये त्रि० स्त्रियां ङीप्। तत्र वाक्योच्चारणं च अनुमानाङ्गपञ्चावयववाक्योच्चारणं यथा “अत्रायं प्रयोगः प्रर्वतो वह्निमान् धूमादित्यादि” यथायोगं समभिव्याहृतत्वेनोच्चारणं प्रयोग इति शाब्दिकाः। यज्ञादिक्रियाकलापेतिकर्त्तव्यताबोधकानां समुच्चयप्रतिपादके पद्धत्यपरपर्य्याये ग्रन्धे इति याज्ञिकाः। भूतप्रेताद्युच्चाटनादिसाधने मन्त्रोच्चारणभेदे तान्त्रिकाः। ५ शस्त्रादिमोचने योद्धारः। ६ नायकयोर्मेलने क्रियाभेदे इत्यालङ्कारिकाः।

प्रयोगविधि = पु० प्रयोगज्ञापकोविधिः शा० त०। प्रयोगस्यावि लम्बज्ञापके विधिभेदे तल्लक्षणादि लौगाक्षि० उक्तं यथा “प्रयोगप्राशुभावबोधको विधिः गयोगविधिः। स चाङ्ग वाक्यैकवाक्यतापन्नः प्रधानविधिरेव। स हि साङ्गवधानमनुष्ठापयन् विलम्बे प्रमाणाभावादविलम्यापरपर्य्यायं प्रयोगप्राशुभावं विधत्ते। न च तदविलव्येऽपि प्रमा- णाभाव इति वाच्यं विलम्बे ह्यङ्गप्रधानविध्येकवाक्यतावगततत्साहित्यानुपपत्तिः विलग्वेन क्रियमाणयोः पदार्थयोः इदमनेन सह कृतमिति साहित्यव्यवहाराभावात्। स चाविलग्नो नियते क्रमे आश्रियमाणे भवति। अन्यथा हि किमेतदनन्तरमेतत् कर्त्तव्यमेतदनन्तरं वेति प्रयोगविक्षेपापत्तेः। अतः प्रयोगविधिरेव स्वविधेय प्रयोगप्राशुभविध्यर्थं नियतं क्रभमपि पदार्थविशेषण तया विधत्ते। अतएवाङ्गानां क्रमबोधको विधिः प्रयोगविधिरित्यपि लक्षणम्। तत्र क्रमोनाम विततिविशेषः पौर्वापर्य्यरूपो वा। तत्र षट् प्रमाणानि। श्रुत्यर्थपठनस्थानमुख्यप्रवृत्त्याख्यानि। क्रमज्ञापकहेतवश्च क्रमशब्दे २२९० पृष्ठादावुक्ताः।

प्रयोगातिशय = पु० सा० द० नाटकाङ्गप्रस्तावनाभेदे “यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते। तेन पात्रपवेशश्चेत् प्रयोगातिशयस्तदा”। यथा कुन्दमालायाम् “नेपथ्ये इतोऽवतरत्वार्य्या। सूत्रधारः। कोऽयं खलु आर्य्याह्वानेन साहायकं मे सम्पादयति। विलोक्य। कष्टमतिकरुणं वर्त्तते। लङ्केश्वास्य भवने सुचिरं स्थितेति रामेण लोकप्ररिवादभयाकुलेन। निर्वासितां जनपदादपि गर्भगुर्वीं सीतां वनाय परिकर्षति लक्ष्मणोऽयम्”। अत्र नृत्यप्रयोगार्थं स्वभार्य्याह्वानमिच्छता सूत्रधारेण सीतां वनाय परिकर्षति लक्ष्मणोऽयमिति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्कान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः”।

प्रयोगार्थ = पु० प्रयोगस्यायम् “अर्थेनसह नित्यसमासोविभक्त्य लोपश्च” वार्त्ति० स० प्रयोगोऽर्थः प्रयोजगमस्य वा। प्रधानप्रयोगानुष्ठानानुकूले व्यापारभेदे प्रत्युत्क्रमे अमरः।

प्रयोगिन् = त्रि० प्र + युज–थिनुण्। प्रयोगकर्त्तरि।

प्रयोग्य = त्रि० प्रयुज्यते प्रयुज–कर्मणि ण्यत्। १ प्रयोज्ये २ अश्वे च “यथा प्रयोग्य आचरणे (रथे) नियुक्तः” छा० उ० भाष्यम्।

प्रयोजक = त्रि० कार्य्यादौ भृत्यादीन् प्रयुनक्ति प्र + युज–ण्वुल्। निकृष्टस्य भृत्यादेः १ प्रेरके व्याकरणोक्ते हेतुसंज्ञे २ कर्त्तरि च। “तत्प्रयोजकोहेतुश्च” पा० तस्य स्वतन्त्रसंज्ञा विहिता। प्रयोजकस्य हन्तृत्वं प्रा० वि० निर्णीतं यथा “नरान्तरव्यापाराव्यवधानेन बधनिष्पादकः कर्त्ता,यः कर्त्तारं कारयति स प्रयोजकः। सोऽपि द्विविधः एकः स्वतोऽप्रवृत्तं पदातिं वेतनादिना वधार्थं प्रवर्त्तयति अपरः स्तृतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहयति”। तस्य मूलञ्च आपस्तम्बवाक्यं यथा “प्रयोजयिता अनुमन्ता कर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो यो भूय आरभते तस्मिन् फले विशेषः”। तस्य भावः त्व प्रयोज कत्व न० तद्भावे तच्च स्वरूपसम्बन्धभेदः तन्निष्ठान्त्यथासिद्धिभिन्नान्यथासिद्धिशून्यत्वे सति कार्य्याव्यवहित पूर्ववर्त्तित्वम्”।

प्रयोजन = न० प्रयुज्यतेऽनेन प्र + युज–करणे ल्युट्। यमधिकृत्य प्रवर्त्तते १ तस्मिन् प्रवृत्त्यङ्गेच्छाविषये यमर्थमाप्तव्यं हातव्यं वा अवसाय तदाप्तिप्रहाणोपायमनुतिष्ठति प्रयोजनं तद्वेदितव्यम्। प्रवृत्तिहेतुत्वाद् इममर्थमाप्स्यामि हास्यामि वेति व्यवसायोऽर्थस्याधिकारः। एवं व्यवसीयमानोऽर्थोऽधिक्रियते इति” वात्स्या० १। १। २४। करणे ल्युट्। २ हेतौ। कर्मणि ल्युट्। ३ कार्य्ये च मेदि०। प्रयोजनञ्च द्विविधं सुख्यं गौणं च। अत्र अन्येच्छानधीनेच्छाविषयत्वं मुख्यप्रयोजनत्वम् अन्येच्छाधीनेच्छाविषयत्वं गौणप्रयोजनत्वम्। तत्राद्यम् दुःखाभावः सुखञ्च द्वितीयं तदुपकारिशयनभोजनादि। तस्य मुख्यप्रयोजनेच्छयैव जन्याया इच्छायाविषयत्वात् तथात्वम्। “येन प्रयुक्तः प्रवर्त्तते तत्प्रयोजनम्। यमर्थमभीप्सन् जिहासन वा कर्मारभते तेनानेन सर्वे प्राणिनः सर्वाणि कर्माणि सर्वाश्च विद्याव्याप्ताः। तदाश्रयश्च न्यायः प्रवर्त्तते” वात्स्या० १। १। १

प्रयोज्य = त्रि० प्र + युज–ण्यत्। प्रयोक्तुंशक्ये १ भृत्यादौ २ मूल धने न० “प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता” हर्यक्ते ३ णिजन्तधातुप्रकृत्यर्थकर्त्तरि च। तस्य भावः त्व प्रयोज्यत्व स्वरूपसम्बन्धभेदे न० प्रयुक्तशब्दे दृश्यम्।

प्ररथ = अव्य० प्रगती रथी यत्र तिष्ठद्गु० अव्ययी०। प्रगतरथयुक्ते देशे।

प्ररिच्वन् = त्रि० प्र + रिच–ङ्वनिप्। प्रकर्षेण विरेचनकर्त्तरि ऋ० १। १०। १५।

प्ररुज = त्रि० प्र + रुज–क। १ प्रकृष्टरोगकारके २ दैवसैन्याधिपभेदे पु० भा० आ० ३२ अ० ३ राक्षसभेदे पु० भा० व० २८४ अ०।

प्ररुह = त्रि० प्र + रुह–क। प्ररोहणकर्त्तरि अङ्कुरादौ

प्ररूढ = त्रि० प + रुह–क्त। १ प्ररोहणकर्त्तरि २ सजाते वृक्षादौ ३ बद्धमूले च ४ जटरे न० मेदि०। ५ जाते ६ प्रबुद्धे त्रि० शब्दमा०।

प्ररोचन = न० प्र + रुच–णिच्–भावे ल्युट्। १ रुचिसम्पादने यथाऽर्थवादादीनां विध्यर्थानष्ठाने प्ररोघनार्था प्रवृत्तिः। युच् प्ररोचना तत्रार्थे स्त्री। सा च २ पस्तावनाङ्गभेदे। “तस्याः प्ररोचना वीथी तथा प्रहसना मुखे। अङ्गाथत्रोन्मुखीकारः प्रशंसातः प्ररोचना” सा० द० यथा “श्रीहर्षोनिपुणः कविरित्यादि रत्न्याबल्याम्। ३ नाटकाङ्गविमर्षाङ्गभेदे स्त्री “परोचना विमर्षे स्यात्” विमर्षाङ्गोपक्रमे “प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी” इति तत्र लक्षिता यथा वेण्यां पाञ्चालकः अहं देवेन चक्रपाणिना सहित इत्युपक्रमे कृतं सन्देहेन पूर्य्यन्तां सलिलेनेत्यादि।

प्ररोह = पु० प्र + रुह–अच १ अङ्कुरे “प्लक्षप्ररोह इव सौधतलं विभेद” इति रघुः। २ आरोह च हेमच०। भावे घञ। ३ उत्पत्तौ पु०। भावे ल्युट्। प्ररीहण ष्टत्पत्तौ न०

प्रलपन = न० प्र + लप–भावे ल्युट्। १ प्रलापे २ अनथकवाक्ये सा० द० १८८ कारिकायां दृश्यम्। भावे क्त। प्रलपित तत्रार्थे न०। “प्रलपितमिदं केनापि” मिता० काथते

प्रलम्ब = त्रि० प्रलम्बते प्र + लम्ब–अच्। १ प्रलम्वमाने २ दनुपुत्रे असुरभेदे पु० अग्निपु०। ३ त्रपुषे (शशा) ४ पयोधरे ५ लताङ्क रे ६ गाथायां ७ हारभेदे मेदि०। भावे घञ्। ८ प्रसम्बने

प्रलम्बघ्न = पु० प्रलम्बमसुरं हन्ति हन–क। १ वणरामे अमरः तेन तस्य हननकथा हरिवं० ७१ अ० दृश्या। प्रलम्बभिदादयोऽप्यत्र।

प्रलम्बाण्ड = पु० प्रलम्बः अण्डीऽस्य। दीर्थाण्डकोषयुते हेम०।

प्रलम्भ = पु० प्र + लभ–घञ् मुम्। प्रकर्षेण लाभे। भावे ल्युट्। प्रलम्भन तत्रार्थे भाग० ५। २५। ११।

प्रलय = पु० प्रलीथतेऽस्मिन् प्र + ली–आधारे अच्। भूतादि लयाधारे कालभेदे स च चतुर्विधः नित्यनैमित्तिकप्राकृतात्यन्तिकभेदात् यथोक्तं कूर्मपु० ४२। ४३ अ० कूर्म उवाच नित्यं नैमित्तिकञ्चैव प्राकृतात्यन्तिकौ तथा। चतुर्धायं पुराणेऽस्मिन् प्राच्यते प्रतिसञ्चरः”। नित्यो यथा “योऽयं संदृश्यते नूनं नित्यं लोके क्षयन्त्विह। नित्यं संकीर्त्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः” नेमित्तिको यथा “ब्राह्यो नैमित्तिको नाम कल्पान्त योभविष्यति। त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीः षिभिः” प्राकृतो यथा “महदाद्यं विशषान्तं यदा संयाति संक्षयम्। प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचि न्तकैः” आत्यन्तिका यथा “ज्ञानादात्यन्तिका षोक्तो यो गिनः परमात्मनि। प्रलयः प्रतिसर्गोऽय कालचिन्त परैर्द्विजैः। आत्यन्तिकश्च कथितः प्रल्लवा कयसाधनः” नैमित्तिकप्रलयविस्तारो यथा तत्रैव “नैमित्तिकनिदानीं कीर्तयिष्ये समासतः। चतुर्युगसहस्रान्त” संप्राप्ते प्रतिसञ्चरे। आत्मसस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः। ततोभवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी। भूतक्षयकरी घारा मवभूतभयङ्करी। ततो यान्यल्पसाराणि शस्यानि पृथिवीतले। तानि चाग्रे प्रलीयन्ते भूमित्वसुपयान्ति च। सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः। असह्यरश्मिर्भवति पिबन्नम्भोगभस्तिभिः। ततस्तं रश्मयः सप्त पिबन्त्यम्बु महार्णवे। तेनाहारेण ते सूर्य्या दीप्ताः सप्त भवन्ति हि। तस्य ते रश्मयः सप्त सूर्य्या भूत्वा चतुर्दिशम्। चतुर्लोकमिदं कृत्स्नं दहन्ति शिखिनो यथा। व्याप्नुवन्तश्च ते विप्रास्तूर्ध्वञ्चाधश्च रश्मिभिः। दीप्यन्ते भास्कराः सप्त दहन्तोऽग्निप्रतापिमः। ते सूर्य्या वह्निवत् दीप्ता बहुसांहह्ररश्मयः। स्वं समावृत्य तिष्ठन्ति निर्दहन्तो वसुन्धराम्। ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा। साद्रिनद्यर्णवद्वीपा निःस्नेहा समपद्यम। दीप्ताभिः सन्तताभिश्च ज्वालाभिश्च समावृतः। अधश्चोर्द्धञ्च तिर्य्यक् च समावृत्य सहस्रशः। सूर्य्यग्निना प्रसृष्टानां संसृष्टानां परस्परम्। एकत्वसुपजातानामेकज्वालो भवेत् प्रभुः। सर्वलोकप्रणाशश्च सोऽग्निर्भूतान्तकृद्बली। चतुर्लोकमिदं कृत्स्नं निर्दहत्यात्मतेजसा। ततः प्रलीने सर्वस्मिन् जङ्गमे स्थावरे तथा। निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठे प्रकाशते। अम्बरीपमिवाभाति सर्वमापूरितं जगत्। सर्वमेव तदार्चिर्भिः पूर्णं जाज्वल्यते नभः। पाताले यानि तीर्थानि महोदधिगतानि तु। तत्र नानि प्रलीयन्ते भूमित्वमुपयान्ति वै। द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन्। तान् सर्वान् भस्मसात्कृत्वा सप्तात्मा पावकः प्रभुः। समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः। पिवन्नपः समिद्धोऽग्निः पृथिवीमाश्रितोऽज्वलत्। ततः संवर्त्तकः शैलानतिक्रम्य महां स्तथा। सोकान् दहति दीप्तात्मा रुद्रतेजोविजृम्भितः। स दग्ध्या पृथिवीं देवो रसातलमशोषयत्। अधस्तात् पृथिवीं दग्ध्वा दिवमूर्द्धं दहिष्यति। योजनानां शतानीह सहस्राण्ययुतानि च। उत्तिष्ठन्ति शिखास्तस्य बायुः संवर्त्तकस्य च। गन्धर्वांश्च पिशाचांश्च सयक्षोरगराक्षसान्। तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः। भूर्लोकञ्च १ भूवर्लोकं २ स्वर्लोकञ्च ३ तथा महः ४। दहेदशेषं कासाग्विः कालो विश्वतनुः स्वयम्। व्युष्टषु तेषु लोकेषु तिर्य्यगूर्ध्वमथाग्निना। तत् तेजः समनुप्राप्य कृत्स्वं जगदिदं शनैः। अयोगृहनिभं सर्वं तदेवैकं प्रकाशते। ततो गजकुलोन्नादाः स्तनितैः समखङ्कृताः। उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः। केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः। धूम्रवर्णास्तथा केचित्तथा पीताः पयीधराः। केचिद्रक्ताभवर्णाश्च स्थूलाः क्षारनिभास्तथा। शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिमाः परे। मनःशिलानिभास्त्वन्ये कपोतसदृशाः परे। केचित् रुद्राक्षवर्णाभास्तथान्ये क्षीरसन्निभाः। तथा कर्वूरवर्णाभा भिन्नाञ्जननिभास्तथा। इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा। काकाण्डकनिभाः केचिदुत्तिष्टन्ति घना दिवि। केचित् पर्वतसङ्काशाः केचिद्गजकुलोपमाः। कूटागारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः। बहुरूपा घोररूपा घोरस्ररनिनादिनः। तदा जलधराः सर्वे पूरयन्ति नभस्तलम्। ततस्ते जलदा घोरा वारिणा भास्करात्मजाः। सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत। ततस्ते जलदा वर्षं वर्षन्तीह हिमौघवत्। सुघोरमशिवं सर्यं नाशयन्ति च पावकम्। प्रवृत्तेन तदात्यर्थमम्भसा पूर्य्यते किल। अद्भिस्तेजोऽभिभूतत्वात्तदाग्निः प्रविशत्यपः। नष्टे चाग्नौ वर्षशतैः पयोदा जलसम्भवाः। प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः। घाराभिः पूरयन्तीदं चोद्यमानाः स्वयम्भुवा। उद्यन्तः सलिलौथैश्च वेला इव महोदधेः। साद्रिद्वीपा तथा पृथ्वी जलैः संछाद्यते शनैः। आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति पुनः पतति तद्भूमौ पूर्य्यन्ते तेन चार्णवाः। तनः ससुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः। पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति। तस्विन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे। योगनिद्रां समास्थाय शे देवः प्रजापतिः। चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः। वाराहो वर्त्तते कल्पो यस्य विस्तार ईरितः। असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः। कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः। सात्त्विकेष्यथकल्पेषु माहात्म्यमखिलं हरेः। तामसेषु शिवस्योक्तं राजसेषु प्रजापतेः। सोऽयं प्रवर्त्तते कल्पो वाराहः सात्त्विको मतः। अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः। ध्यानन्तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः। आराध्य गिरिशं यत्नात् याति तत् परमं पदम। सोऽहं सत्त्वं समाधाय मायी मायामयं स्वयम्। एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु। मां पश्यन्ति महात्मानः सुप्तं काले महर्षयः। जनलोके वर्त्तमानास्तपसा योगचक्षुषा। अहं पुराणपुरुषो भूर्भुवःप्रभवो विदुः। सहस्रचरणः श्रीमान् सहस्राक्षः सहस्रपात्। मन्त्रोऽग्निर्ब्राह्मणा गावः कुशाश्च समिधो ह्यहम्। प्रोक्षणी च स्रुवश्चैव सोमो घृतभयोऽस्यहम्। संवर्तको महानात्मा पवित्रं परमं यशः। वेदवेद्यः प्रभुर्गोप्ता गोपतिर्ब्रह्मणोमुखम्। अनन्तस्तारको योगी गतिर्मतिमतांवरः। हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः। क्षेत्रज्ञः प्रकृतिः कालो जगद्वीजमथामृतम्। माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते। आदित्यवर्णो भुवनस्य गोप्ता नारायणः पुरुषो योगमूर्त्तिः। मां पश्यन्तो यतयो योगनिष्ठा ज्ञात्वात्मानममृतत्वं व्र जन्ति”। प्राकृतप्रलयविस्तारो यथा तत्रैव “कूर्म उवाच अतःपरं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम्। प्राकृतं च समासेन शृणुध्वं गदतो मम। गते परार्द्धद्वितये काले लोकप्रकालकः। कालाग्निर्भस्मसात् कर्तुं करोति निखिलं मतिम्। आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः। दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम्। तमाविश्य महादेवो भगवान्नीललोहितः। करोति लोकसंहारं भीषणं लोकमाश्रितः। प्राविश्य मण्डलं सौरं कृत्वाऽसौ बहुधा पुनः। निर्दहत्यस्विलं लोकं सप्तसप्तिस्वरूप धृक्। स दग्ध्वा सकलं सत्त्वं मन्त्रं ब्रह्म शिरो महत्। देवतानां शरीरेषु क्षिपत्यखिलदाहकः। दग्धेष्वशेषदेहेषु देवी गिरिवरात्मजा। एका सा साक्षिणः शम्भो स्तिष्ठते वैदिकी श्रुतिः। शिरःकपालैर्देवानां कृत तग्धरभूषणः। आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम्। सहस्रहस्तचरणः सहस्रार्चर्महाभुजः। दष्ट्राकरालवदनः प्रदीप्तानललोचनः। त्रिशृली कृत्तिवसनो योगमैश्वरमास्थितः। पीत्वा तत् परमानन्दं प्रभूतममृतं स्वकम्। करोति ताण्डवं देवीमालोक्य परमेश्वरः। पीत्वा नृत्यामृतं देवी भर्तुः परममङ्गला। योगमास्थाय देवस्य देहमायाति शूलिनः। स त्यक्त्वा ताण्डवरसं स्येच्छयैव पिनाकधृक्। याति स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम्। संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु। गुणैरनेकैः पृथिवी विलयं याति वारिषु। स बारितत्त्वं सगुणं ग्रसते हव्यपाहनः। तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम्। आकाशे सगुणो वायुः प्रलयं याति सत्तमाः!। भूतादौ च तथाऽऽकाशं लीयते गुणसंयुतम्। इन्द्रियाणि च सर्वाणि तैजसे यान्ति संक्षयम्। वैकारिके देवगणाः प्रलयं यान्ति सत्तमाः!। वैकारिकस्तैजसश्च भूतादिश्चेति सत्तमाः!। त्रिविधोऽयमहङ्कारो महति प्रलयं व्रजेत्। महान्तमेभिः सहितं ब्रह्माणममितौजसम्। अव्यक्तं जगतो योनिः संहरेदेकमव्ययम्। एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः। नियोजयत्यथान्योन्यं प्रधानं पुरुषं परम्। प्रधानपुंसोरजयोरेष सहार ईरितः। महेश्वरेच्छाजनितो न खयं विद्यते लयः। गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते। प्रधानं जगतो योनिर्नावातत्त्वगचेतनम्। कूटस्थश्चिन्मयो ह्यात्मा केबलः पञ्चविंशतः। गीयते मुनिभिः साक्षी महानेकः पितामहः। एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा। प्रधानाद्यं विशेषान्तं दहेद्रुद्र इति श्रुतिः। योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम्। आत्यन्तिकञ्चैव लयं विदधातीह शङ्करः”। आत्यन्तिकप्रलयविस्तारो यथा विष्णु पु० पराशर उवाच “आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः। उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम्। आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा। शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः। शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः। गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा। तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः। भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि। कामक्रोधभयद्वेषलोभमोहविषादजः। शोकासूयाबमानेर्ष्यामात्सर्य्यादिभवस्तथा। मानसोऽपि द्विजश्रेष्ठ! तापो भवति नैकधा। इत्येवमादिभिर्भेदैस्ताणो ह्याध्यात्मिकः स्मृतः। मृगपक्षिमनुष्याद्यैः पिशाचोरमराक्षसैः। सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः। शीतोष्णवातवर्षाम्बु वैद्युतादिसमुद्भवः। तापो द्विजवरश्रेष्ठ! कथ्यते चाधिदैविकः। तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः। गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः। निरस्तातिशयाह्लादसुखभावैकलक्षणा। भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता। तस्मात् तत्प्राप्तये यत्नः कर्त्तव्यः पण्डितैर्नरैः। तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं नहामुने!। आगमीत्थं विवेकाच्च द्विधा ज्ञानं तथोत्यते। शब्दव्रह्मागममयं परं ब्रह्म विवेकभ्रम्। अन्यन्तम इवा- ज्ञानं दीपवच्चेन्द्रियोद्भवम्। यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे! विवेकजम्। मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिकत्तस!। तदेतच्छ्रूयतामत्र साधु ते गदतो मम। द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत्। शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति। द्वे विद्ये वेदितव्ये वै इति चाथर्वणी श्रुतिः। परया त्वक्षरप्राप्तिरृग्वेदादिभवाऽपरा। यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम्। अनिर्देश्यमरूपञ्च पाणिपादाद्यसंयुतम्। विभुं सर्वगतं नित्यं भूतयोनिभकारणम्। व्याप्यऽवाप्यं यतः सर्वं तं वै पश्यन्ति सूरयः। तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकाङ्क्षिणाम्। श्रुतिवाक्योदितं सूक्ष्मं तद्विज्ञोः परमं पदम्। तदेव भगवद्वाच्यं स्वरूपं परमात्मनः। वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः। शवं मिगदितार्थस्य सतत्त्वं तस्य तत्त्वतः। ज्ञायते येन तज्ज्ञानं परमत्यत्तयीमयम्। अशब्दगोचरस्यापि तस्यैव ब्रह्मणो द्विज!। पूजायां भगवच्छब्दः क्रियते हौपचारिकः। शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते। मैत्रेय! भगवच्छब्दः सर्वकारणकारणे। सर्वाणि तत्र भूतावि वसन्ति परमात्मनि। भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः। स्वाण्डिक्यः जनकायाह पृष्टः केशिध्वजः पुरा। नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः। भूतेषु वसते सोऽन्तर्वसन्त्यत्र च तानि यत्। धाता विधाता जगतां वासुदेवस्ततः प्रभुः। स सर्वभूतप्रकृतिर्विकारगुणांश्च दाषांश्च मुने! व्यतीतः। अतीतसर्वावरणाखिलात्मातेनास्तृतं यद्भुवनान्तरालम्। समस्तकल्याणगुणात्मको हि स्वशक्तिलेशावृतभूतसर्गः। इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ। तेजोवलैश्वर्य्यसमन्वितश्च स्ववीर्य्यशक्त्यादिगुणैकराशिः। परः षराणां सकला न यत्र क्लेशादयः सन्ति परावरेत्ते। स ईत्तरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः प्रकटत्त्ररूपः। सर्वेश्वरः सर्वदृक् सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः। स ज्ञायते येन तदस्तदीषं शुद्धं परं निर्मलमेकरूपम्। संदृश्यते चाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम्” विष्णु पु०। “नारद उवाच। कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम्। दिनमेकं युग ज्ञयं तस्य या चैकसप्ततिः। मन्वन्तरन्तु तज्ज्ञेयं ते तु गत्र चतुर्दश। स कल्पो नाम वै कांलस्तदन्ते प्रसुयस्य वः। सा ब्रह्म्रात्री राजेन्द्र! यत्र तेतेऽव्यु- जासनः। त्रयोलोकास्तदा राजन्! लीयन्ते तन्निमित्ततः। नैमित्तिको लयो नाम दैनन्दिन इतीर्य्यते। एवं दिनप्रमाणेन ब्रह्मणः शतवार्षिकम। आयुः पूर्वपरार्द्धे तु परार्द्धे द्वे प्रकीर्त्तिते। द्विपरार्द्धे व्यतीते तु व्रह्मणो जगदात्मनः। तदा प्रकृतयः सप्त प्रलयं यान्ति भूमिप! लयः प्राकृतिको ह्येष लीने ब्रह्मणि भूपते!। अण्डकोषोऽपि सकलः प्रलयं याति सर्वशः। पूर्वरूपन्तु वक्ष्यामि प्रलयस्यास्य भूपते!। शतवर्षाणि भूमौ हि पर्जन्यो नैव वर्षति। दुर्भिक्षे निर्जले लोके प्रजाः सर्वाः क्षुधार्दिताः। परस्परं भक्ष्यमाणाः क्षयं यास्यन्ति भूमिप!। समुद्रे च धरण्याञ्च वृक्षेषु च सतासु च। देहे च यो रसस्तं हि रविर्हरति रश्मिभिः। ततः संवर्त्तको नाम ज्वालामाली हुताशनः। सङ्कर्षणमुखोत्पन्नो दहत्यऽनिलसारथिः। सर्वं ब्रह्माण्डभाण्डं वैतत्कालक्षोभगर्जितः। एवं दग्धं महाराज। वह्न्यर्काभ्यां समन्ततः। दग्ध्वा गोमयपिण्डाभं ब्रह्माण्डं सारवर्जितम्। प्रचण्डः पवगी राजंस्ततोवर्षशतं पुनः। संवर्त्तको नाम महान् ब्रह्माण्डं चालयिष्यति। ततो मेषा महाघारा नानावर्णा अनेकशः। शतं वर्षाणि वर्षन्ति गर्जन्ति च महास्वनाः। एकोदकं ततो विश्वं निर्गुणं निर्विकारकम्। भूमेर्गन्घगुणं राजन्! ग्रसन्त्यापः समन्ततः। गुणनाशात् स्वयं पृथ्वी प्रलयं प्रापस्यते तदा। तेजस्त्वपां रसगुणं सगन्धं पिवते बलात्। ततः प्रलयमायान्ति राजन्नापोऽपि तत्क्षणात्। तेजसस्तु ततो रूपं रसगन्धसमन्वितम्। वायुर्हरति चण्डात्मा, तेजः प्रलयमृच्छति। आकाशस्तु ततो वायेः स्पर्शं परगुणैः सह। समादत्ते महाराज! अम्बरेऽथ प्रलीयते। आकाशस्य गुणं शब्दं गणैरन्यैः समन्वितम्। अहङ्कारः समादत्ते नभस्तस्मिन् प्रलीयते। तैजसेष्विन्द्रियाण्यङ्ग देवा वैकारिका स्तथा। अहङ्कारे प्रलीयन्ते जगदेतच्चराचरम्। अहङ्कारं भक्षयन्ति ततः सत्त्वादयो गुणाः। ग्रसते तान् महाराज! आद्या प्रकृतिरुच्यते। न तस्याः कालदोषेण परिणामो नरर्षभ!। आद्यन्तरहिता सा हि नित्यं कारणमव्ययम्। शक्तिर्भगवतः सा हि तदेकपरमा च सा। इत्युक्तः प्रलयो राजन्! विश्वस्यास्य महामते!। यथोत्पत्तिक्रमेणास्य व्युत्क्रमेण लयस्तथा” स च प्रलयो न्यायादिमते द्विविधः खण्डप्रलयो महा- प्रलयश्च तत्र जन्यद्रव्यानधिकरणकाणत्वं खण्डप्रलयत्वं जन्यभावानधिकरणकालत्वं महाप्रलयत्वं महाप्रलयश्च न प्रमाणसिद्ध इति नष्वनैयाविकाः। तत्र नैमित्तिकप्रलयकालश्च कल्पतुल्यः “यदा स देवो जागर्त्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते” इति मनुना हिरण्यगर्भस्य निदासमये तत्प्रलयस्योक्तेः “शर्वरी तस्य तारती” इति तत्कासस्य च कल्पतुल्यकालत्वमुक्तम्। एतदभिप्रायेण अमरे “प्रलयो नष्टचेष्टता” इत्युक्तम् नैमित्तिकप्रलयकाले सर्वभूतानां चेष्ठाशून्यत्वात्। “प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः” सा० द० उक्ते २ सात्त्विकभावभेदे।

प्रलव = पु० प्र + लू–भावे अध्। १ प्रकर्षेण छेदने याथा० अन्तोदात्तताऽस्य। प्रलूयते। कर्मणि अप्। ३ खण्डभेदे २ लेशे च कात्या० श्रौ० २६। १। १० (मुञ्जप्रलवान्) मुञ्जलेशान्।

प्रलवित्र = न० प्रलूयतेऽनेन प्र + लू + करणे इत्र। छेदनसाधने अस्त्रादौ थाथा० अन्तोदात्तताऽस्य।

प्रलाप = पु० प्र + लप–भावे घञ्। १ अनर्थकवाक्ये २ निष्प्रयोजने उन्मत्तादिवाक्ये च अमरः। ३ रोगाणामुपसर्गभेदे “मूर्च्छा मांसक्षयोमोहः प्रलापो मरणमिति क्षुये” सुश्रुते धायोपसर्गोक्तौ।

प्रलापहन् = पु० प्रलापं हन्ति हन–क्विप्। कुलत्थजातेऽञ्जने राजनि०।

प्रलापिन् = त्रि० प्र + लप–ताच्छील्ये घिनुण्। प्रलपनशीले

प्रलीन = त्रि० प्र + ली–कर्त्तरि क्त। १ प्रलयं प्राप्ते २ चेष्टाशून्ये च। तस्य भावः तल्। ष्रलीनता चेष्टानाशे इन्द्रियस्वापे च।

प्रलेप = पु० प्र + लिप–भावे घञ्। व्रणादिशोधनार्थे द्रव्यविशेषेण लेपनविशेषे। सुश्रुते आलेपोपक्रमे “स त्रिविधः प्रलेपः प्रदेह आलेपश्चेति। तेषामन्तरं, प्रलेपः शीतस्तनुरविशोषी विशोषी च। प्रदेहस्तूष्णः शीतो वा बहुलोऽबहुरविशोषी च। रक्तपित्तप्रसादनकृदालेपः” इति आलेपनभेदलक्षणान्युक्तानि तत्र द्रव्यभेदास्तत्रोक्ता दृश्याः

प्रलेपक = त्रि० प्र + लिप–ण्वुल्। १ प्रलेपकर्त्तरि स्त्रियां टाप् कापि अत इत्त्वम् प्रलेपिका तस्या धर्म्यम् महिष्या० अन्। २ प्रलेपिकाधर्मे त्रि०। सुश्रुतोक्ते ३ ज्वरभेदे पु० “तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः। दुश्चाकत्दनमो मन्दः सुकष्टो धातुशोषकृत्” प्रलेपकं वातवलास कक्ष कफाधिकत्पेन वदन्ति तज्ज्ञाः” नुश्रुते तक्तणाद्युक्तम्।

प्रलेह = पु० प्रलिह्यतेऽसौ प्र + लिह–कर्मणि घञ्। व्यञ्जनभेदे (कोरमा) पाकराजेश्वरः।

प्रलोलुप = त्रि० प्रा० स०। १ अत्यन्तलोलुपे गरुडवंश्ये कुन्तिपुत्रे २ पक्षिभेदे पु० मार्क० पु० ७ अ०।

***