प्रतक्वन् = पु० प्र + तक–गतौ वनिप्। प्रकर्षेण गतियुक्ते “नभीऽस्ति प्रतक्का” ता० ब्रा० १। ४। ३२ “प्रकर्षेण प्रतक्वा स्वावयवैः पांशुभिः सर्वान् धिष्ण्यान् प्रति गन्ता तकतिर्गतिकर्म्मा” भा०।

प्रतति = स्त्री प्र + तन–भावे क्तिन्। १ विस्तारे। कर्त्तरि क्तिच् वा ङीप्। २ बल्ल्याञ्च अमरः।

प्रतद्वसु = पु० प्रतत् प्राप्तं वसु धनं येन। १ पाप्तवसुके २ विस्तीर्णधने च ऋ० ९। १३। २७।

प्रतन = त्रि० प्र + “नश्च पुराणात् प्रात्” वार्त्ति० चक्वारात् ट्यु तुट् च। पुरातने अमरः।

प्रतनु = त्रि० प्रकृष्टस्तनुः प्रा० स०। १ अतिस्वल्पे २ अतिसूक्ष्मे च

प्रतमा(रा)म् = अव्य० प्र + आमु तरप् तमप् वा। अत्यन्तप्रकर्षे

प्रतर = पु० प्र + तॄ भावे अप्। प्रकर्षेण १ तरणे आधारे अप्। २ प्रवरणाधारे गोप्रतरशब्दे दृश्यम्।

प्रतर्कण = न० प्र + तर्क–भावे ल्युट्। वितर्के शब्दर०। घञ्। प्रतर्क तत्रार्थे।

प्रतर्द्दन = न० प्र + घृद–भावे ल्युट्। १ ताडने। कर्त्तरिल्यु। २ ताडके त्रि० ३ दिवोदासपुत्रभेदे पु० हरिवं० २९ अ०। ४ इन्द्रोपदेश्यभेदे प्रतर्दनं प्रति इन्द्रेण ब्रह्मविद्योपदिष्टेति वेदान्ते प्रसिद्धम्।

प्रतल = न० न० प्रकृष्टं तलम्। १ पातालभेदे मेदि०। प्रकृष्टं तलमस्य। २ विस्तृताङ्गुलिके पाणौ चपेटे पु० अमरः।

प्रतान = पु० प्र + तन–घञ्। १ विस्तारे २ ऋषिभेदे च तस्य गीत्रापत्यम् इञ्। प्रातानि तद्गोत्रापत्ये बहुत्वे तु तस्य उपका० लुक्। प्रताना इत्येव। ३ तन्तुयुक्ते अलाबू त्रपुषादौ। “गुच्छगुल्मन्तु विविधं तथैव तृणजातयः। वीजकाण्डरुहाण्येव प्रताना वल्ल्य एव वा” मनुः। “प्रतानास्तन्तुयुक्तास्त्रपुषालावूप्रभृतयः” कुल्लू०।

प्रतानिन् = त्रि० प्र + तन–णिनि। १ विस्तीर्णे २ विस्तृतलतायाम् स्त्री ङीप् अमरः।

प्रताप = पु० प्र + तप–घञ्। १ कोषदण्डजाते नृपादेः तेजसि अमरः। २ तापे ३ अर्कवृक्षे च राजनि०।

प्रतापन = पु० प्रतापयति तप–णिच्–ल्यु। १ नरकविशेषे २ तापके त्रि० शब्दरत्ना०। भावे ल्युट्। ३ पीडने शब्दर०। कर्त्तरि ल्यु। ४ विष्णौ पु०। “प्रकाशात्मा प्रतापनः” विष्णु स० “सूर्य्यप्रभृतिभिर्विश्वं प्रतापयतीति प्रतापनः” भा०

प्रतापवत् = त्रि० प्रताप्र + अस्त्यर्थे मतुप् मस्य वः। १ प्रतापयुक्ते २ स्कन्दानुचरगणभेदे पु० भा० श० ४६ अ०।

प्रतापस = पु० तपसि साधु अण् प्रकृष्टस्तापसः प्रा० स०। १ प्रकृष्टतापसे २ शुक्लार्कवृक्षे च अमरः।

प्रतास् = अव्य० प्र + तम बा० ण्वि–स्वरादि। ग्लानौ मनोरमा।

प्रतारक = त्रि० प्र + तॄ–णिच्–ण्वुल्। १ वञ्चके २ धूर्त्ते च।

प्रतारण = न० प्र + तृ–णिच्–भावे ल्युट्। १ वञ्चने अन्थ पदार्थस्य अन्यथारूपेण ज्ञापने। युच्। प्रतारणाऽपि तत्रार्थे स्त्री। “प्रतारणासमर्थस्य विद्यया किं प्रयोजनम्” उद्भटः।

प्रतारित = त्रि० प्र + तृ–णीच्–क्त। १ वञ्चिते त्रिका०।

प्रति = अव्य० प्रथ–डति। १ व्याप्तौ २ लक्षणे ३ कञ्चित्प्रकारमापन्नस्य कथने ४ भागे ५ प्रतिदाने ६ प्रतिनिधीकरणे मेदि० ७ स्तोके ८ क्षेपे ९ निश्चये १० व्यावृत्तौ ११ आभिमुख्ये १२ स्वभावे च शब्दर०। अस्य निपातत्वेऽपि क्रियायोगे उपसर्गत्वम् गतित्वञ्च। अस्यार्थभेदोदाहरणादि गणरत्नमहोदधिटी० उक्तं यथा “प्रति सादृश्यादानहिंसाङ्गोकृतिप्रतिनिधिव्याध्याभिमुख्यव्याप्तिवारणेषु। प्रतिदेवता। प्रतिगृह्णाति। प्रतिहन्ति प्रतिज्ञानम्। अभिमन्युरर्जुनतः प्रति। प्रतिश्यायः। प्रतिसूर्य्यं गतः। प्रतिकीर्णम् पांशुभिः। प्रतिषिद्धः”। तत्र लक्षणेवम्भूताख्यानभागवीप्सायामस्य कर्मप्रवचनीयसंज्ञा तद्योगे द्वितीया परिशब्दे उदा० दृश्यम्। प्रतिनिधिप्रतिदानयोः कर्मप्रवचनीयसंज्ञा तद्योगे पञ्चमी। प्रद्युम्नः कृष्णात्प्रति प्रतिनिधिरित्यर्थः। तिलेभ्यः प्रतियच्छति माषाय, माषान् गृहीत्वा प्रतिरूपतया तिलान् ददातीत्यर्थः। मात्रार्थेऽस्याव्ययीभावे परनिपातः। शाकप्रतिशाकस्य लेश इत्यर्थः। कर्मप्रवनीयत्वे नोपसर्गसंज्ञा तेन वृक्षं वृक्षं प्रतिसिञ्चतीत्यादौ न षत्वं तथा गतिसंज्ञापि न, तेन गतिर्गतावितिनिधातो न। “प्रतेरंश्वादयस्तत्पुरुषे पा० प्रतेः परस्यांश्वादेः अन्तोदात्तता अंश्वादिशब्दे ३७ पृ० दृश्यम्।

प्रतिक = त्रि० कार्षापणेन क्रीतः टिठन् (इकार उच्चारार्थः) प्रतिरा देशश्च। कार्षापणेन क्रीते स्त्रियां टित्त्वात् ङीप्। ततः पुरोहिता० भावे यक्। प्रातिक्य तद्भावे न०

प्रतिकण्ठ = अव्य० वीपसार्थे समीप्ये वा अव्ययीभावः। १ कण्ठे कण्ठे इत्याद्यर्थे २ कण्ठसामीप्ये च। प्रतिकण्ठं गृह्णाति ठक्। प्रातिकण्ठिक कण्ठसमीपग्राहिणि।

प्रतिकर = पु० प्रति + कॄ–विक्षेपे भावे अप्। १ विस्तीर्णतायां २ विक्षेपे च।

प्रतिकर्तृ = त्रि० प्रति + कृ–तृच्। कृतस्यापकारस्य प्रत्यपकारके प्रतीकारकर्त्तरि।

प्रतिकर्म्मन् = न० प्रति + कृ–मनिन्। १ विद्यमानस्य गुणान्तराधाने २ कृत्रिमभूषायां प्रसाधने अमरः।

प्रतिकर्ष = पु० प्रति + फष–भावे घञ्। १ समाकर्षणे अन्वयार्थं पूर्य्योपात्तस्य पदादेर्ग्रहणे कात्या० १५। ८। १० कर्कः।

प्रतिक(ष्क)श = प्रति + कश–गतिशासनयोः अच् सुट् नि०। सुड्मघ्यः। १ सहाये २ पुरोगे च सि० कौ०। ३ वार्त्ताहरे मेदि०। प्रतिगतः कशाम् प्रा० स०। प्रतेः न कशिं प्रत्युपसर्गत्वम् किन्तु गमेरेवोपसर्गत्वमतो न सुट्। ४ कशाघातप्राप्तेऽश्वे सि० कौ०।

प्रतिकष्ट = न० प्रतिरूपं कष्टं प्रा० त०। १ कर्मानुरूपकष्टे २ तद्धेतौ च।

प्रतिकाम = अव्य० कामं कामं प्रति अव्ययी०। प्रत्येककामे

प्रतिकाय = पु० प्रति + चि–घञ् क्यादेशः। १ प्रतिरूपके २ शरव्ये लक्ष्ये च जटा०।

प्रति(ती)कार = पु० प्रति + कृ–धञ् वा दीर्घः। १ वैरनिर्यातने कृतस्याषकारस्य तुल्यरूपापकारकरणेन २ शोधने ३ रोगादेश्चिकित्सायाश्च शब्रत्ना०।

प्रति(ती)काश = पु० प्रतिरूपः काशः प्र + काश–घञ् वा प्रा० स० दीर्घः। तुल्यत्वे अस्य निभा० नित्थस०। अमरटीकायां रमानाथेनायं दन्त्यान्ततया पठितः।

प्रतिकितव = पु० प्रतिकूलः कितवः प्रा० त०। द्यूनकारस्य प्रतिकूले द्यूतकारे येन सह द्यूतप्रवृत्तिस्तस्मिन्।

प्रतिकूप = पु० प्रतिरूपः कूपः प्रा० त०। परिस्वायां हारा०।

प्रतिकूल = त्रि० प्रतिरूपं कूलं पक्षोऽस्य प्रा० व०। १ अननुकूले विरुद्धपक्षावलम्बिनि प्रतीपे अमरः प्रा० त०। २ विपरीताचरणे न०।

प्रतिकृति = स्त्री प्र + कृ–कर्मादौ क्तिन्। १ प्रतिमायां २ सादृश्ये ३ प्रतिनिधौ अमरः। ४ प्रतिकाशे मेदि०।

प्रतिकृष्ट = त्रि० प्रति + कृष–क्त। १ गर्ह्ये २ द्विरावृत्त्या ३ कृष्टक्षेत्रादौ च मेदि०।

प्रतिकोप = पु० प्रतिरूपः कोपः। १ रोगस्यानुरूपे कोपे २ विपक्षं प्रति कोपे च

प्रतिक्रिया = स्त्री प्रति + कृ–भावे श। प्रति(ती)कारे

प्रतिक्षण = अव्य० क्षणं क्षणं व्याप्य व्याप्तौ अव्ययी०। आभीक्ष्ण्ये

प्रतिक्षय = पु० प्रति + क्षि–ऐश्वर्य्ये अच्। रक्षके शब्दर०

प्रतिक्षिप्त = त्रि० प्रति + क्षिप–कमणि क्त। १ प्रेषिते २ वारिते मेदि०। ३ बाधिते ४ तिरस्कृते च अमरः। “आहूय प्रेषितो यस्तु प्रतिक्षिप्तः स उच्यते” इत्युक्ते ५ आहूयप्रेषिते कृष्णदासः।

प्रतिक्षेप = पु० प्रति + क्षिप–भावे घञ्। १ निरासे मेदि०। २ तिरस्कारे च।

प्रतिखुर = पु० सुश्रुते एकीयमतोक्ते मूढगर्भभेदे “निःसृतहस्तप्रादशिरः कायमङ्गी प्रतिखुरः” इति तत्र लक्षितम्।

प्रतिख्याति = स्त्री प्रति + ख्या–भावे क्तिन्। १ विख्यातौ २ अतिख्यातौ अमरः।

प्रतिगत = न० प्रति + गम–भावे क्त। “गतागतघ्रतिगतसम्याताद्याश्च पक्षिणाम” जटाधरोक्ते १ खगगतिभेदे २ परावृत्यगमने च। कर्त्तरि क्त। ३ परावृत्ते त्रि०।

प्रतिगर = पु० प्रतिगीर्य्यते प्रत्युच्चार्य्यते प्रति + गु–भावे अप्। वैदि- कमन्त्रभेदस्य उच्चारणभेदे। तस्य प्रकार आश्व० श्रौ० ५। ९। ४ सूत्रादौ वृत्तौ च दर्शितो यथा “शस्त्रस्वरः प्रतिगर ओथामो दैवेति” सू० “शस्त्रस्य स्वर इव स्वरो यस्य स शस्त्रस्वरः। उत्तरपदलोपोऽत्र द्रष्टव्यः। शस्त्रतुल्यस्वर इत्यर्थः। सवनस्वरस्याविधेयत्वादन्योऽपि यो विशिष्टः स्वरो विहितः शस्त्रस्य तस्य प्रापणार्थं वचनम्। ओथामोदैव इत्ययं प्रतिगरसंज्ञो भवति प्रतिगीर्यते प्रत्युच्चार्यते इति प्रतिगरः। वक्ष्यमाणविशेषविशिष्टतया सकृदेव विधातुं शक्येऽपि सामान्यस्य पृथग्विधानं प्रतिगरशब्दव्यवहारेऽपि सामान्येनास्य ग्रहणार्थम्” नारा० वृ० “शंसामो दैवेत्याहावे” सू० “प्रतिगरो भवतीति शेषः। यः पुनरयं प्रतिगरोऽपरो विधीयते तज्ज्ञापयति। प्रतिगरान्तरमध्यवर्त्तिन्घाहावेऽयं निमज्जते। तेन शस्त्रमध्येऽयमेव स्यात् शस्त्रादावयं व्राह्मणोक्तः शंसामोदैवामिति वा” ना० वृ०। “प्लुतादिः प्रणवेऽप्लुतादिरवसाने” सू०। “व्यवहितस्ये मौ विशेषविधी। अनन्तरस्य प्रणवावसानरूपेण विषयभेदासम्भवात्” वृ०। “प्रणवे प्रणव आहावोत्तरे” सू०। “प्लुतादेरयमपवादः। आहावोत्तरे प्रणवे प्रणव एव प्रतिगरो भवति”। “अवसाने च” सू०। प्रणवः प्रतिगरो भवतीति शेषः। शस्त्रान्तरे शस्त्रमघ्ये चावसानेऽयं विधिर्भवति” वृत्तिः। “प्रणवान्तो वा” सू०। विषयद्वयेऽयं विकल्पः यत्र थत्र चान्तःशस्त्रं प्रणवेनावस्यति। प्रणवान्त एव तत्र प्रतिगरः” वृत्तिः। शस्त्रान्ते तु प्रणवः” बृ०।

प्रतिग्रह = पु० प्रति + ग्रह–अप्। १ स्वीकारे २ अदृष्टार्थदत्तद्रव्यस्य ग्रहणे ३ सैत्यपृष्ठे ४ पतद्ग्रहे च मेदि०। प्रतिग्रहश्चादृष्टार्थत्यक्तद्रव्यस्वीकारः। तत्र दानस्यैव स्वस्वत्व ध्वंसमित परस्वत्वोन्पत्तिं प्रति हेतुता प्रतिग्रहस्य तु यथेष्टविनियोगार्हताप्रयोजकस्वत्वं प्रति कारणता यथोक्तं दायभागे “दृष्टञ्च लोकेऽपि दाने हि चेतनोद्देशविशिष्टत्यागादेव दातृव्यापारात् सम्प्रदानस्य द्रव्ये स्वामित्वम्। न च स्वोकरणात् स्वत्वं स्वकर्तुरेव दातृत्वापत्तेः परस्वत्वा पत्तिफलेन हि दानरूपता तच्च फलं सम्प्रदानाधीनं यथा देवतोद्देशेन द्रव्यत्यागं कुर्वन्नपि यजमानो न होता किन्तु तस्यैव त्यागस्य होमाभिधाननिमित्तं प्रक्षेपं कुर्वन् ऋत्वे गेव होतेत्युच्यते तद्वदत्रापि स्यात्। किञ्च मनसा पात्र मुद्दिश्येत्यादिशास्त्रे स्वीकारात् प्रागेव दानपदा दृष्टम्। ननु ग्रहणं स्वीकारः अभूततद्भावे च्विप्रयोगात् अस्वं स्वं कुर्वन् व्यापारः स्वीकारो भवति कथं तत् प्रागेव स्वत्वम्। उच्यत उत्पन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेदमिति ज्ञानेन यथेष्टव्यवहारार्हं क्रियत इति स्वीकारशब्दार्थः। याजनाध्यापनसाहचर्व्याच्च प्रतिग्रहस्य स्वत्वमजनयतीऽपि अजेनरूपता न विरुद्धा याजनादौ दक्षिणादानादेव स्वत्वात्” मूलम्। व्याख्यातमेतत् श्रोकृष्णेन यथा “ननु त्यागात् केवलं स्वत्वनाशः सम्प्रदानस्वत्वं तु ममेदमिति भाविस्वत्वावगाहितत्स्वीकारादेवेति मतं निराकरोति नचेति। स्वीकर्तुरेवेत्येवकारेण त्यक्तुर्व्यवच्छेद। इदमुपपादयति परस्वत्वापत्तिफलेन हीति। अत्रायमाशयः धात्वर्यतावच्छेदकफलानुकूलव्यापारवत एव तृजन्ततद्धातुव्य्यदेश्यत्वं यथा धात्वर्यतावच्छेदकोत्तरदेशसंयोगानुकूलव्योपारवति चैत्रे गन्तेति व्यवहारः। स्वीकारस्य स्वत्वहेतुत्वे धात्वर्थतावच्छेदकपरस्वत्वामुकूलस्वीकाररूपव्यापारवतः स्वीकर्त्तरेव दातृपदव्यपदेश्यत्वापत्तिरिति पूर्वस्वत्वध्वंसरूपफलस्य न तद्व्यपदेशनियामकता तथात्वे उपेक्षितुछपि दातृपदव्यपदेश्यत्वापत्तिरिति। केचित्तु स्वीकारस्य स्वत्वहेतुत्वे परस्वत्वफलोपहितत्यागात्मकदाने सर्वांशे एकस्यापि कर्तृत्वासन्धवात् एकांशमादायैव दातृत्वव्यवहारे कर्त्तव्ये प्रधानीभूतफलांशानुकूलव्यः पारवत्येव दातृव्यवहारः स्यादिति व्याचक्रुः। दृष्टान्तेनेदं द्रढयति यथा होति। होमाभिधाननिमित्तर्मिति। विशिष्टदेशावच्छिन्नपक्षेपोपहितत्यानस्य होमत्वात् प्रक्षेपस्य तदभिधाननिमित्तत्वमित्यर्थः। तेन हुधात्वर्यतावच्छेदकप्रक्षेपानुकूलव्यापारवति ऋत्विजिहोतेति व्यपदेशो यथा तथेत्यर्यः। व्यागस्य स्वत्वहतुत्व स्फुटमेव शास्त्रं प्रमाणयति किञ्चेति। आदिना भूमौ तोयं विनिःक्षिपेदित्युत्तरप्रतीकपरिग्रहः। शास्त्रे शास्त्रकोधितत्यगे। दानपदं दृष्टमिति। “विद्यते सागरस्वान्तो दानस्यान्तो न विद्यते” इति तद्वचनस्योत्तरार्द्धे दानपदं प्रयुक्तमित्यर्थः। तथाच निरन्वरयोरेव स्वस्वत्ववंसपरस्वत्वात्पत्तिफलयोर्ददातिघात्वर्थतावच्छेदकत्वात् दानस्य परस्वत्वहेतुता शास्त्रसिद्धैवेति भावः। स्वीकारात् प्रागेव स्वत्वे ग्रहणस्य स्वीकारपदार्थत्वासम्भबमाशङ्कते नन्विति। खीकारशब्दार्थ इति। तथाच स्वपदस्य यथेष्टविनियोगार्हत्वविशिष्टे लक्षणेति भावः। ननु याज- नाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमार्जयेदित्यत्र राजसूयेन यजेतेत्यादिवत् याजनाद्यात्मकैर्द्धनमर्जयेदित्यन्वयात् प्रतिग्रहस्यार्जनरूपता सिद्धा प्रतिग्रहस्य स्वत्वाहेतुत्व च तद्विरुद्धं स्वत्वहेतुव्यापारस्येवार्जनत्वादत आह याजनेति। अर्जनरूपता अर्जनपदव्यपदेशः। अविरोधमुपपादयति याजनादाविति तथा च याजनादीनां स्वत्वाहेतुत्वेन तदन्वयानुरोधवत् अर्जयेदित्यत्रार्जनत्वं न स्वत्वजनकत्वं किन्तु स्वत्वप्रयोजकत्वमेव तच्च प्रतिग्रहेऽप्यक्षतं दत्ते सत्ययं प्रतीगृह्णातीत्यवधारण एव तदुद्देशेन दातुस्त्यानात् तत्स्वत्वोदयात् प्रतिग्रहवैमुख्यज्ञाने तद्व्यतिरेकाच्चेति भावः”। “न च दानस्य स्वत्वहेतुत्वे प्रमाणाभावः “सप्तावित्तागमा धर्म्यादायो लाभः क्रयो जयः। प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च” इत्यादिमन्वादिवचनैस्तस्य स्वत्व हेतुत्वाप्रतिपादनादिति वाच्यं ब्राह्मणाय त्यक्तायां गवि गौरियं ब्राह्मणस्य न तु ममेत्यादिसार्वजनीनप्रतीतेरेव तत्र प्रमाणत्वात् प्रदानं स्वाम्यकारणमितिवचनाच्च अत एव विदेशस्थं पात्रमुद्दिश्य त्यक्तधने स्वीकारमन्वरेणैव पात्रस्य मरणस्थले पिवृदायत्वेन तद्धनं पुत्रादिभिर्विभज्य मृह्यते अन्यथा तैरिव उदासीनैरपि तद्धनस्यारण्य कुशादेरिवोपादाने यथेष्टनियोगे च प्रत्यवायो न स्यात्। नन्वेवं दानादेव स्वत्वसिद्धेर्दत्तवस्तुनि स्वीकारो व्यर्थ इति चेन्न “लब्ध्वा चाष्टगुणं फलमित्यादि” स्मृतेः प्रतिग्र हीतरि द्रव्यदानस्य फलविशेषं प्रति हेतुत्वोन तादृशफलसम्पत्त्यर्थमेव प्रतिग्रहस्योपयोगात् याजनाध्यापनप्रतिग्रहैर्द्विजो धनमर्जयेदित्यादिश्रुन्या प्रामुक्तस्मृत्या च प्रतियहस्यापि स्वत्वहेतुत्वबोधनाच्च स्वत्वजनकव्यापारस्यैवार्जनपदार्थत्वात्” शब्दशक्तिप्र०। अधिकं दानशब्दे दृश्यम्। द्रव्यभेदप्रतिग्रहे दोषस्तु अग्राह्यशब्दे उक्तस्तत्र अयाचितस्य विषयभेदे प्रतिग्रहे न दोषः यथा “अयाचितोपपम्ने तु नास्ति दोषः प्रतिग्रहे। अमृतं तं विदर्देवास्तस्मात्तन्नैव निर्णुदेत्। मुरुभृत्यांश्चोज्जिहीर्षुरर्चिष्यत् देवतातिथीन्। सर्वतः प्रतिगृह्णीयात् न तु तृप्येत् स्वयं ततः। साधुतः पतिगृह्णीयादथ बाऽसाधुतो द्विजः। गुणवानल्पदोषश्च निर्गुणो हि निमज्जकि। एवं तस्करवृत्त्या वा कृत्वाभरणमात्मनः। कुर्य्याद्विशुद्धि परतः प्रायश्चित्तं द्विजोत्तमः”। गारुडे १५ अ०। अधिकम् अग्रे दर्शयिष्यमाणे शु० तत्त्वग्रन्थे दृश्यम्। तीर्थप्रतिग्रहनिषेधो यथा “स्वकार्ये पितृकार्य्ये वा देवताभ्यर्चनेऽपि वा। निष्फलं तस्य तत्तीर्थं यावत् तद्धनमश्नुते। अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च” कौर्मे ३३ अ०। राजादितः प्रतिग्रहनिषेधो यथा “न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादषि। न चान्यस्मादशक्तश्च निन्दितात् वर्जयेद्बुधः” कौर्मे १५ अ०। आपदि गर्हितप्रतिग्रहस्थादोषः वृहत्परा० “प्रोक्तप्रतिग्रहामावे प्राप्तायां वृहदापदि। विपोऽश्नन् प्रतिगृह्नन् वा यतस्ततोऽपि नाघमाक्। गुर्वादिपोष्यवर्गार्थं देवाद्यर्थञ्च सर्वशः। प्रत्यादद्याद्द्विजो यस्तु भृत्यर्थमात्मनोऽपि च। दधिक्षीराज्यमांसानि नन्घपुष्याम्बुमत्स्यकान्। शव्यामांसासनं शाकं प्रत्याख्येयं न कर्हिचित्। अपि दुष्कृतकर्मभ्यः समांदद्यादयाचितम्। पतितेभ्यस्तथाऽन्येभ्यः प्रतिग्राह्यमसंशयम्”। प्रतिग्रहीतुं शक्तस्य तत्त्यागे तत्रैव स्थानान्तरे स्वर्ग उक्तो यथा “शक्तःप्रतिग्रहीतुं यो वेदवृत्तः सुसंयतः। लभ्यमानं न गृह्णाति स्वगंस्तस्य सुनिश्चितम्। प्रतिग्रहमृणं वापि याचितं यो न यच्छति। तत्कोटिगुणितिग्रस्तो मृतो दासत्वमृच्छति”। दाता च न स्मरेद्दानं प्रातिग्राही न याचते। तावुभौ नरकं याठो दाता चैव प्रतिग्रही। वदन्ति कवयः केचिद्दानप्रतिग्रहौ प्रति। प्रत्यक्षं लिङ्गमेवेह दातृयाचकयोर्बलम्। दातृहस्तो भवेदूर्द्ध्वमधस्तिष्ठेत् प्रतिग्रही। यद्दानं प्रतिगृह्णीयात् प्रतिग्राही व्रजत्यधः।” तस्य प्रकारमाह शु० त० विष्णुधर्मोत्तरे “भूमेः प्रतिग्रहं कुर्य्याद्भूमेः कृत्वा प्रदक्षिणम्”। प्रदक्षिणं न सर्वस्याभूमेः किन्तु तत्रस्थस्य प्रदक्षिणावर्त्तनमात्रं भूमेरसन्निधाने तामुद्दिश्य प्रदक्षिणम्। “करे गृह्य तथा कन्यां दासदास्यौ द्विजोत्तमाः!। करन्तु हृदि विन्यस्य धर्मो ज्ञेयः प्रतिग्रहे” “आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः। तथाचैकशफानान्तु सर्वेषामविशेषतः। प्रतिगृह्णीत गां पुच्छे पुच्छे कृष्णाजिनं तथा। आरण्याः पशवश्चान्ये ग्राह्याः पुच्छे विचक्षणैः। प्रतिग्रहमथोष्ट्रस्य आरुह्य च तथाऽऽचरेत्। वीजानां सुष्टिमादाय रत्नान्यादाय सर्वशः। वस्त्र दशान्त आदद्यात् परिघाय तथा पुनः। आरुह्योपानहौ यानमारुह्यैव च पादुके। ईषायान्तु रथं ग्राह्यं छत्रं दण्डे च धारयेत्। आयुधानि समादाय तथाऽऽभूष्य विभूषणम्। वर्मध्वजौ तथा स्पृष्ट्वा प्रविश्य च तथा गृहम्। अवतीर्य्य च सर्वाणि जल- स्थानानि वै द्विजाः। द्रव्याण्यन्यान्यथादाय स्पृष्ट्वा यो ब्राह्मणः पठेत्। प्रतिग्रहीता सावित्रीं सर्वत्रैव प्रकीर्त्तयेत्। ततस्तु सार्द्धं द्रव्येण तस्य द्रव्यस्य दैवतम्” भूमिर्विष्णुदेवताकेत्यादि कीर्त्तयेदित्यर्थः। “समापयेत्ततः पश्चात् कामस्तुत्या प्रतिग्रहम्। विधिं धर्ममथो ज्ञात्वा यस्तु कुर्य्यात् प्रतिग्रहम्। दात्रा सह तरत्येव नानादुर्गाण्यसौ द्विजः”। ब्रह्मपुराणे “व्राह्मणः प्रतिगृह्णीयाद्वृत्त्यर्थं साधुतस्तथा। अव्यश्वमपि मातङ्गतिललौहांश्च वर्जयेत्। कृष्णाजिनहयग्राही न भूयः पुरुषो भवेत्। शय्यालङ्कारवस्त्रादि प्रतिगृह्य मृतस्य च। नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा”। तथा “ब्रह्महत्या सुरापानमपि स्तेयं तरिष्यति। आतुराद् यद्गृहीतन्तु तत्कथं वै तरिष्यति” एतदादिदव्य दानं ग्रहीतुर्दोषजनकम्। अनिच्छवे विद्यारहितत्वेनासमर्थाय च दातुरपि दोषजनकमाह दक्षः “न केवलं हि तद्याति शेषमस्य च नश्यति”। तत् द्रव्यं शेषं द्रव्यस्य अतएव याज्ञवल्क्यः “विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः। गृह्णन् प्रदातारमधोनयत्यात्मानमेव च”। अधो नरकम्। एतद्दानप्रतिग्रहणोत्तरं तपोजपादिभिरात्मतारणक्षमाय स्वेच्छया प्रतिग्रहीत्रे दानं न दोषायेत्याह विष्णुः “एतानि यदि गृह्णाति स्वेच्छयाभ्यर्थितो न तु। तस्मै दाने न दोषोऽस्ति यस्त्वात्मानन्तु तारयेत्”। तारणप्रकारमाह हारीतः “मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत् पञ्चमध्यमे दशोत्तमे द्वादशरात्रं पयोव्रतं शतसहस्रं मसत्प्रतिग्रहेष्विति” अष्टसहस्रमष्टाधिकसहस्रम् असत्प्रतिग्रहेषु उभयतोमुख्यादिप्रतिग्रहेषु तथाचादिपुराणे “किं करिष्यत्यसौ मूतो गृह्णात्युभयतोमुखीम्। सहस्रं वारुणाः पाशाः खुरधाराऽग्निसन्निभाः। पूर्णे वर्षसहस्रे तु पाश एकः प्रमुच्यते”। अत एव देवलः “प्रतिग्रहसमर्थो हि कृत्वा विप्रो यथाविधि। निस्तांरयति दातारमात्मानञ्च स्वतेजसा”। स्कान्दे “वेदाङ्गपारगो विप्रो यदि कुर्य्यात् प्रतिग्रहम्। न स पापेन लिप्येत पद्ममत्रमिव म्भसा” एवं “तीर्थे न प्रतिगृह्णीयात् पुण्येष्वायतनेषु च। निमित्तेषु च सर्वेषु न प्रमत्तो भवेन्नरः” इति महाभारतवचनम्। प्रतिग्रहीतृदोषजनके गङ्गातीरादिदेशग्रहणादिकाले दानेऽपि बोध्यम्। किन्त्विदानीन्तथाविधपात्राभावात् “मनसा पात्रमुद्दिश्य” इत्यादि प्रागुक्तवचनात्तत्तद्देशकालयोरुत्सृज्य देशान्तरे कालान्तरे च प्रतिपादनाचारः सर्वथा समीचीनः। गङ्गावाक्याबल्यप्येवम्। याज्ञवल्क्यः “प्रतिग्रहसमर्थो० हि नादत्ते यः प्रतिग्रहम्। ये लोका दानशीलानां स तानाप्नोति पुष्कलान्”। अपबादमाह स एव “कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः। मांसशय्यासनं धानाः प्रताख्येयं न वारि च”। चकाराद्गृहादि “शय्यागृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि। मत्स्यान् धानाः पयोमांसं शाकस्वैव न निर्णु देत्” इति वचतात्। मणीन् विषादिनिवारकान्। तथा “एधोदकं फलं मूलमन्नमभ्युद्धृतञ्च यत्। सर्वतः प्रतिगृह्णीयात् मध्वथाभयदक्षिणाम्”। अभयद्रक्षिणाम् अभयदानं अभयप्रद इति वक्ष्यसाणवचनात्। अभ्युद्धृतम् अभ्यर्थ्य दत्तम्। किमिति प्रत्याख्येयम् इत्याह। तथा स्य मनुः “अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः। अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विषः” एतद्वचनं याज्ञवल्क्यस्येति मिताक्षराकुल्लू कभट्टमाधवाचार्य्याः। मनोरिति शूलपाणिः। भरद्वाजः “अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे। अमृतं तद्विदुर्देवास्तस्मात्तं नैव निर्णुदेत्”। अपवादान्तरमाह स एव “देवातिर्थ्यर्च्च नकृते गुरुभृत्यार्थमेव च। सर्वतः प्रतिगृह्णोयादात्मवृत्त्यर्थमेव च” भृत्या भरणीयाः भार्य्यापुत्रादयः। तथा च मनुः “वृद्धौ च मातापितरौ साध्वी भार्य्या सुतः शिशुः। अप्यकार्य्य शतं कृत्वा भर्त्तव्या मनुरब्रवीत्”। आत्मवृत्त्यर्थं जीवनमात्रम्। “न तु तृप्येत् स्वयं ततः” इति मनुस्मृतेः। प्रयोगसारे “प्रतिग्रहं न गृह्णीयादात्मभोगोपलिपूसया। देवतातिथिपूजार्थं धनं यत्नादुपार्जयेत्”। अङ्गिराः “कुटुम्बार्थं द्विजः शूद्रात् प्रतिगृह्णीत याचितम्। क्रत्वर्थमात्मने चैव न हि याचेत कर्हिचित्”। अत एव यज्ञार्थे याचकत्रे निन्दामाह याज्ञवल्क्यः “चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षणात्” शूद्रस्यापि अयाचितदातृत्वमाह नृसिंहपुराणम् “अयाचितप्रदाता च कृषि वृत्त्यर्थमाश्रयेत्। पुराणं शृणुयान्नित्यं नरसिंहस्य पूजनम्

प्रतिग्रहीतृ = त्रि० प्रति + ग्रह० तृच्। प्रतिग्रहकर्त्तरि प्रतिग्रहीतृधर्माश्च दानशब्दे १ पृ० उक्ता दृशाः।

प्रतिग्राह = त्रि प्रति + ग्रह–कर्त्तरि ण। १ प्रातग्रहकारके २ पतद्ग्रहे (पिकदानी) पु० अमरः।

प्रतिघ = पु० प्रति + हन–ड न्यङ्क्वा० कुत्वम्। १ प्रतिचाते मेदि० २ कोपे अमरः। कामप्रतिधातेन तस्य जातत्वात्तथात्वम्। ३ मूर्च्छायां शब्दर०।

प्रतिघात = पु० प्रति + हन–णिच् भावे अप्। १ मारणे २ कृतश्चित् विघाते च। ल्युट् प्रतिथातन तत्रार्थे न० अमरः।

प्रतिघ्न = न० प्रति + हन–घञर्थे क। अङ्गे शब्दच०।

प्रतिचक्ष्य = त्रि० प्रति + चक्ष–ण्यत् वा ख्यादेशाभावः। प्रकर्षेण दृश्ये ऋ० १। ११३। ११ भा०।

प्रतिच्छन्दस् = त्रि० छन्दोभिप्रायः प्रतिगतश्छन्दः अत्या० स०। १ अभिप्रायानुरूपे २ प्रतिरूपे ३ अनुरोधे च त्रिका०। वेदश्छन्दः साकल्ये अव्ययी०। ४ प्रतिवेदमित्यर्थे अव्य०।

प्रतिच्छन्दक = त्रि० प्रति + छन्द–ण्वुल्। प्रतिनिधौ ९। १८० श्लोके कुल्लूकभट्टः।

प्रतिच्छाया = स्त्री प्रतिरूपा छायायाः प्रा० स०। प्रतिरूपायां १ प्रतिमायां २ सादृश्ये च अमरः।

प्रतिजङ्घा = स्त्री प्रतिगता जङ्गाम् अत्या० स०। अग्रजङ्घायाम् हेमंच०।

प्रतिजन = अव्य० वीप्सायाम् अव्ययी०। जनं जनं प्रतीत्यर्थे तस्य अंश्वा० अन्तोदात्तता। तत्र साधु प्रतिजना० खञ्। प्रातिजनीन प्रत्येकजनसाधौ त्रि०।

प्रतिजनादि = “प्रतिजनादिभ्यः खञ्” पा० उक्ते खञ्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा “प्रतिजन इदंयुग संयुग समयुन परयुग परकुल परस्यकुल अमुष्यकुल सर्वजन विश्वजन महाजन पञ्चजन”

प्रतिजन्य = न० प्रतिकूलं जन्यं युद्धं यस्य, प्रतिजने विपक्षजनपदे भवः यत् वा। १ प्रतिबले २ प्रतिपक्षजनपदभवे च ऋ० ४। ५। ७। भा०।

प्रतिजल्पक = पु०। “दुस्त्यजद्वन्द्वभावेऽस्मिन् प्राप्तिर्नार्हत्यनुद्धतम्। दूतसम्म कनेनोक्तं यत्र स प्रतिजल्पकः” उज्ज्वलभण्युक्तलक्षणे द्वतवाक्यभेदे।

प्रतिजागर = पु० जागरस्य प्रतिनिधिः। १ प्रत्यवेक्षणाय गृहसवेक्षस्वेति नियोने अमरटी० रायमुकुटः। ल्युट्। पतिजागरण तत्रार्थे न० मार्क० पु० ९९ अ०।

प्रतिजिह्वा = स्त्री प्रतिरूपा जिह्वा प्रा० स०। तालूमूलस्थे जिह्वाकारे मांसपिण्डे(आलजिव) स्वार्थे क। तत्रार्थे त्रिका०।

प्रतिज्ञा = स्त्री प्रति + ज्ञा–भावे “आतश्चोपसर्गे” पा० अङ्। १ कर्त्तघ्यत्वप्रकारकज्ञानानुछलव्यापारे स च करिष्यामीत्यादिवाक्यरूपः “साध्यनिर्देशः प्रतिज्ञा” गौ० सू० उक्ते साध्यवत्त्वेन पक्षनिर्देशरूपे २ पञ्चाङ्गन्यायावयवभेदे “यथा प्रर्वतो वह्निमान् इत्यादिवाक्यम् तत्र भाष्यम् “प्रज्ञाप- नीयेन धर्मेण विशिष्टस्य परिग्रहवचनम्। साध्यनिर्देशः प्रतिज्ञा यथा शब्दोऽनित्य इति”। अवयवग्रन्थे अनुमानचिन्तामण्यादिदीधितौ विस्तारः। व्यवहारे पक्षाभिधायके ३ पूर्वपक्षभाषाद्यपरपर्य्याये वाक्ये यथा ममेदं द्रव्यमनेन गृहीतं न ददातीत्यादि। पूर्वपक्षशब्दे ४४०६ पृ० दृश्यम्। ४ अङ्गीकारे अमरः भावे ल्युट्। प्रतिज्ञानं तत्रार्थे न०।

प्रतिज्ञात = त्रि० प्रति + ज्ञा–क्त। प्रागुक्तप्रतिज्ञाविषये “ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” इति स्मृतिः।

प्रतिज्ञान्तर = न० अन्या प्रतिज्ञा मयू० स०। “प्रतिज्ञातार्थ प्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम्” गौ० सू० उक्ते निग्रहस्थानभेदे विवृतं चेदं वृत्तौ “प्रतिज्ञान्तरं लक्षयति। प्रतिज्ञातस्यार्थस्य प्रतिषेधे कृते तद्दूषणोद्दिधीर्षया धर्मस्य धर्मान्तरस्य विशिष्टः कल्पोविकल्पः तस्माद्विशेषणान्तरविशिष्टतया प्रतिज्ञातार्थस्य कथनमिति फलितार्थः। प्रतिषेध इत्यनेन झटितिसंवरणे विलम्बेनापि स्वयं दूषणं विभाव्य विशेषणे न दोष इत्युक्तं, प्रतिज्ञातार्थस्येत्युपलक्ष्मणम् हेत्वतिरिक्तार्थस्येति तत्त्वं तेन उदाहरणान्तरमुपनयान्तरञ्च प्रतिज्ञान्तरत्वेन संगृहीतं भवति। इदञ्च पक्षसाध्यविशेषणभेदात् प्रत्येकं द्विविध यथा शब्दोऽनित्य इत्युक्ते ध्वनौ बाधेन परेण प्रत्युक्ते वर्णात्मकः शब्दः पक्ष इति प्रतिज्ञान्तरं, न चेदमर्थान्तर प्रकृतोपयोगात् न चेयं प्रतिज्ञाहानिः पूर्वोक्तस्यापरि त्यागात् एवं पर्वतो वह्निमान् सुरभिमलिनधूमवत्त्वादित्युक्ते असमर्थ विशेषणत्वेन च परेण प्रत्युक्ते कृष्णागुरुप्रभववह्निमानित्यत्र, एवं तादृशवह्नौ साध्ये यः सुरभि मलिनघूमवान् स वह्निमानित्युदाहरणे न्थूनत्वेन प्रत्युक्ते स तादृशवह्निमानित्यत्र, णवमन्यदप्यूह्यम्।

प्रतिज्ञापत्र = न० प्रतिज्ञासूचकं पत्रम् शा० त०। भाषापत्रभेदे।

प्रतिज्ञाविरोध = न० “प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोवः” गौ० सू० उक्ते निग्रहस्थानभेदे विवृतञ्चेदं वृत्तौ “प्रतिज्ञाविरोधं लक्षयति अत्र च प्रतिज्ञाहेतुपदे कथाकालीनवाक्यपरे तथा च कथायां स्ववचनार्थविरोधः प्रतिज्ञाविरोधः यद्यपि काञ्चनमयः पर्वतो विह्निमान् पर्वतः काञ्चनमयवह्निमान् ह्रदो वह्निमान् ह्रदत्वात् पर्वतो वह्निमान् काञ्चनमयधूमादित्यादौ हेत्वाभासान्तरसाङ्कर्य्यं तथाप्युपाधेयसङ्करेऽप्यु पाधेरसाङ्कर्य्यान्न दोषः। न चासङ्कीर्णस्थलाभावः प्रर्वतो न वह्निमान् धूमात् यो यो धूमवान् स निरग्निरित्युदाहरणे निरग्निश्चायमित्युपनये तत्सत्त्वात एवं निगसनेऽपि बोध्यम्।

प्रतिज्ञासन्न्यास = न० “पक्षपतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः” गौ० सू० उक्ते निग्रहस्थानभेदे विवृतञ्चेदं वृत्तौ “प्रतिज्ञासन्न्यासं लक्षयति। पक्षस्य स्वाभिहितस्य परेण प्रतिषेधे कृते सति तत्परिजिहीर्षया प्रतिज्ञातार्थ स्यापनयनमपलाप इत्यर्थः यथा शब्दोऽनित्य ऐन्द्रयकत्वादित्युक्ते सामान्ये व्यभिचारेण” परेण प्रत्युक्ते क एवमाह शब्दोऽनित्य इति।

प्रतिज्ञाहानि = न० “प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः” गौ० सू० उक्ते निग्रहस्थानभेदे विवृतञ्चेदं वृत्तौ “प्रतिज्ञाहानिं लक्षयति प्रतिकूलो दृष्टान्तो यत्र स पुतिदृष्टान्तः परपक्षः स्वः स्वीयः दृष्टान्तो यत्र स स्वदृष्टान्तः स्वपक्षः तथा च स्वपक्षे परपक्षधर्माभ्यनुज्ञा प्रतित्ताहानिः स्वयं विशिष्याभिहितपरित्याग इति फलितार्थः अपसिद्धान्तस्तु स्वयं विशिष्य नाभिधीयते इति नापमिद्धान्तसाङ्कर्य्यं सेयं पक्षहेतुदृष्टान्तसाध्यतदन्यहानिभेदात् पञ्चधा भवति यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते प्रत्यभिज्ञया बाधितविषयोऽयमित्युत्तरिते अस्तु तर्हि घट एव पक्ष इति, एवं तत्रैव ऐन्द्रिययत्वादिति हेतोरनैकान्तिकत्वमिति प्रत्युक्ते अस्तु कृतकत्वादिति हेतु रिति, एवं पर्वतो वह्निमान् धूमादयोगोलकवदित्युक्ते दृष्टान्तः साधनविकल इति प्रत्युक्ते अस्तु तर्हि महावसवदिति, एवम् अत्रैव सिद्धसाधने च प्रत्युक्ते अस्तु तर्हि इन्धनवानिति अन्यहानिस्तु विशेषणहान्यादिः यथा तत्रैव नीलधूमादित्युक्तेऽसमर्थविशेषेणत्वेन प्रत्युक्ते अस्तु तर्हि धूमादिति हेतुरित्यादि।

प्रतितन्त्र = न० प्रतिकूलं तन्त्रं शास्त्रम् प्रा० स०। स्वमतविरुद्धे शास्त्रे तन्त्रञ्चेतरेतराभिमतसम्बद्धस्यार्थस्योपदेशः शास्त्रमिति।

प्रतितन्त्रसिद्धान्त = पु० “समाननन्त्रसिद्धः परतन्त्रसिद्धः प्रतितन्त्रसिद्धान्तः” गौ० सू० उक्ते सिद्धान्तभेदे विवृतं चेदं वृत्तौ “प्रतितन्त्रमिद्धान्तं लक्षयति। ममानशब्द एकार्थस्तेनैकतन्त्रसिद्ध इत्यर्थः स्वतन्त्रमिद्ध इति पर्य्यवसितोऽर्थः तथा च वादिप्रतिवाद्येकतरमात्राभ्युपगतस्तदेकतरस्य प्रतितन्त्रसिद्धान्त इति फलितार्यः। यथा मीमांसकानां शब्दनित्यत्वम्। उदाहृतं च भाष्ये यथा नासत आत्मलाभः नसत आत्प्रहानं निरतिशया चेतनाः देहेन्द्रि- यमनः सु विषयेषु तत्तत्कारणेषु च विशेष इति सांख्या नाम्। पुरुषकर्मनिमित्तो भूतसर्गः कर्महेतवो दोषाः प्रवृत्तिश्च स्वगुणविशिष्टाश्चेतनाः असदुत्पद्यते उत्पन्न निरुध्यते इति योगानाम्”।

प्रतितर = पु० प्रतितीर्यतेऽनेन प्रति + तॄ–करणे अष्। तरणसाधने नौकाचालनदण्डादौ सुश्रुतः।

प्रतिताल = पु० संगीतसा० उक्ते तालभेदे तल्लक्षणभेदादिकं तत्रोक्तं यथा “कान्तारः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा। कथिताः शङ्करेणैव चत्वारः प्रतितालकाः। कान्तारः प्रतितालस्तु चन्द्रक्रीडे द्रुतद्वयम्। दशाक्षरपदेनायं शृङ्गारे वर्त्तते रसे। १ लघुद्रुतौ लघुश्चान्तो नृपनाल उदाहृतः। रुद्रसंख्याक्षरपदः समरो वीर्के रसे”। २ “रुद्रत्रयस्तु वैकुण्ठे प्रतिताले समीरिताः। अर्कसंख्याक्षरै पादो हास्ये त्रिपुटतालके”। ३ “वाञ्छितस्तृतीय ताले लघुरेको द्रुतस्तथा। बयोदशाक्षरैर्युक्तो रसेऽद्भुते प्रकीर्त्तिनः”।

प्रतिताली = स्त्री प्रतिगता तालं गौरा० ङीष्। (चावि) तालकोद्ध्वाटके यन्त्रभेदे हेमच०।

प्रतितूणी = स्त्री सुश्रुतीक्ते वानरोगभेदे “आवृत्य वायुः सकफा धमनीः शब्दवाहिनीः। नरान् करोत्यक्रियकान् मूकमिन्मिणगद्गदान्। अधिका वेदना याति वर्चोमूत्राशयोत्थिता। भिदन्तीव गुदोपस्थं सा तुणीत्युपदिश्यते। गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी। वेगैः पक्वाशयं याति प्रतितूणी तु सा स्मृता”। तूणीशब्दोऽति तंत्र लक्षितवातरोगभेदे स्त्री।

प्रतिदान = न० प्रतिरूपं तुल्यरूपं दानम् प्रा० स०। विनिमये १ तुल्यरूपदाने न्यस्तस्य द्रव्यस्य २ प्रत्यर्पणे च अमरः।

प्रतिदारण = न० प्रति–दॄ + णच्–आधारे ल्युट्। युद्धो शब्दमाला भावे ल्युट्। भेदने।

प्रतिदिवन् = पु० प्रतिदीव्यति दिव–कनिन्। प्रत्यहं १ दीप्तिशीले सूर्य्ये त्रिका० अस्य भत्वेऽल्लोपे दीर्घविधौ परनिमित्तलोपरूपाजादेशस्य स्थानिवत्त्वाभावात् दीर्थः। प्रतिदीन्नः प्रतिदीव्नेत्यादि। शब्दरत्ना० प्रतिदीवन् इति शब्दान्तरं कृतं तत्र पृषो०। तत्रार्थे।

प्रतिदृष्टान्तसम = पु० गौ० सू० उक्ते जात्युत्तरभेदे जातिशब्दे ३१०१ पृ० दृश्यम्।

प्रतिद्वन्द्व = न० प्रतिरूपं द्वन्द्वम् प्रा० स०। तुल्ययुद्धे मार्क० १९ अ०।

प्रतिद्वन्द्विन् = त्रि० प्रतिद्वन्द्वमस्त्यस्य इति। १ तुल्यरूषे येना सह द्वन्द्वं युद्धं क्रियते २ तस्मिंश्च।

प्रतिधर्त्तृ = त्रि० प्रति + धृ–तृच्। निराकारके यजु० १५। १० येददी०

प्रतिधा = स्त्री प्रति + धा–भावे क्विप्। प्नतिविधाने भावे ल्युट्। पतिधान निराकरणे न०।

प्रतिधि = पु० पु० प्रतिमुखं धीयते ष्रति–धा कर्मखि कि। प्रातःसवनान्ते वाट्ये १ स्तोत्रभेदे ताख्य० ब्रा० भा०। २ ईषातिर्य्यग्गतकाष्ठे ऋ० १९ ८५ ८ भा०। ३ अन्ने यजु० ६८ वेददी०।

प्रतिध्वनि = पु० प्रतिरूपोध्वनिः प्रा० स०। शब्दानुसारेण जायमाने शब्दे प्रतिशब्दे हेमच०।

प्रतिध्वान = पु० प्रति + ध्वन–घञ्। प्रतिशब्दे अमरः।

प्रतिनन्दन = न० प्रति + वन्द–भावे ल्युट्। आशीर्वादादिना सम्भावने।

प्रतिनप्तृ = पु० प्रतिनिहितो नप्ता पओत्रः प्रा० स०। प्रपौत्रे हेम०।

प्रतिनव = त्रि० प्रतिनतो नवं नूतनत्वम् अत्या० स०। नूतने जटा०

प्रतिनाद = पु० प्रतिरूपो नादः प्रा० स०। प्रतिध्वनौ

प्रतिनायक = पु० प्रतिकूलो नायकः प्रा० स०। वीररसादौ प्रतिकूले नायके नायकस्य यं प्रति कोपादि तस्मिन् “धीरोद्धतः पापकरी व्यसनी प्रतिनायका” सा० द०। यथा रामस्य रावण इत्यादि।

प्रतिनिधि = पु० प्रतिरूपं निधीयते तुल्यरूपतया स्वाप्यते पति + नि + धा–कि। १ प्रतिरूपे तुल्यरूपे अमरः। बैदिककर्माङ्गद्रव्यादीनां सुख्यानामलाभे २ तुल्यरूपतयान्यस्मिन् निधीयमाने। कुत्र प्रतिनिधिर्भवति कुत्र वा न मवति तत्सर्वं विशेषसहितं कात्या० श्रौ० १४ कण्डिकायां व्यवस्थापितं यस्य संक्षिप्तार्थस्यु कात्यायनशब्दे १८६५ पृष्ठादो दर्शितः। तदनुसारेण स्मार्त्तादिसम्मतव्यवस्था प्रदर्श्यते तत्र एकादशीतत्त्वे उक्तं यथा स्कन्दपुराणम् “पुत्रञ्च विनियोपेतं भनिनीं भ्रातरन्तथा। एपामभाव एवान्य ब्राह्मणं विनियोजयेत्”। नरुडपुराणम् “भार्य्या भर्तृव्रतं कुर्य्याद्भार्य्यायाश्च पतिस्तथा। असामर्थ्य द्वयोस्ताभ्यां व्रतभङ्गो न जायते”। वराहपुराणे “पितृमातृपतिभ्रातृस्वसृगुर्वादिभूभुजाम्। अदृष्टार्थसुपोवित्वा स्वयश्च फलभाम् भवेत्”। अत्रैव विषये कात्यायनः “दक्षिणा नात्र कर्त्तव्या शुश्रूषा विहिता च सा” ननु प्रतिनिधौ ममेह शर्म इत्यादिमन्त्रस्थफलं कुत्रान्वेतु इति चेत् प्रधान एव। तथाच शारीरकभाष्ये श्रुतिः “यां वे काञ्चन यज्ञ आशिवमाशासते यजमानायेव तामाशासते इति होवाच” इति। ब्राह्मण सुर्वस्वे यजमानायेत्यत्र यजमानखेति पाथः। सरलायां सूत्रं “यां वै काञ्चन ऋत्विगाशिषमाशास्ते सा यजमानस्यैवेति”। अत्र ऋत्विग्यजमानपदे प्रतिनिधिप्रधानपरे आकाङ्क्षितत्वात्। अतएव प्रतिनिधिपुत्रादिना “आयान्तु नः पितरः” इत्यादिरनूह एव षठ्यते वाक्यस्य काल्पनिकत्वान्न तथेति। कालमाधवीये “काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके हि सः। काम्येषुपक्रमादूर्द्ध्वमन्ये प्रतिनिधिं विदुः” यथा नित्यं नैमित्तिकञ्च प्रतिनिधिनाप्युपक्रम्य कारयेत् काम्ये तु स्वसामर्थ्यं परीक्ष्य स्वयमेवोपक्रम्य कुर्य्यात्। असामर्थ्ये उपक्रमादूर्द्ध्वं प्रतिनिधिनापि कारयेत्। एतच्च श्रौतकाम्यपरं स्मार्त्तकाम्यन्तु अन्यद्वाराप्युपक्रम्य कार्य्यम्। तथा च पराशरभाष्ये शातातपः “श्रौतं कर्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाचरेत्। अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः”। अन्तत उपक्रमात् परतः। एतच्च काम्येऽपि प्रतिनिधिविधायक नैमित्तिकमात्रपरत्वे श्रौतस्मार्त्तभेदोपादान व्यर्थं स्यात् तयोरविशेषादेव प्रतिनिधिलाभात्। अत एव भारतपाठादौ तथा समाचारः। स्मृत्यर्थसारे “नाभावस्य प्रतिनिधिरभावान्तरमिष्यते”। सजातीयत्वेऽप्यभावान्तरमभावस्य प्रतिनिघिर्नेष्यते। भावस्तु कदाचिद्यथोपवासादौ ब्राह्मणभोजनादीति। “नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित्। श्रोत्रियाणामभोज्य यद्द्रव्यं हि तदशेषतः। ग्राह्यं प्रतिनिधित्वेन होमकार्य्ये न कुत्रचित्। द्रव्यं वैकल्पिकं किञ्चिद् यत्र सङ्कल्पितं भवेत्। तदभावे सदृग् ग्राह्यं न तु वैकल्पिकान्तरम्। उपात्ते तु प्रतिनिधौ सुख्यार्थो लभ्यत यदि। तत्र मुख्यमनादृत्य गौणेनैव समापयेत्। संस्काराणामयोग्योऽपि मुख्य एव हि लभ्यते। न तु संस्कारयोम्योऽन्यो गृह्यते प्रतिरूपकः। मुख्ये कार्य्यासमर्थे तु लब्धेऽप्येतस्य नादरः। प्रतिरूपकमादाय शक्तमेवोपजायते। कार्य्यैरूपैस्तथा पत्रैः क्षीरैः पुष्पैस्तथा फलैः। गन्धै रसैः सदृग् ग्राह्यं पूर्वालाभे षरं परम्। ग्राम्याणान्तु मवेद्ग्राम्यमारण्यानामरण्यजम्। यवालाभे तु गोघूमास्तथा रेणुयवादयः। हविष्ये गोर्घृतं ग्राह्यं तदभावेऽपि माहिषम्। आजं वा तदभावे तु साक्षात्तैलं प्रयुज्यते। तैलाभावे ग्रहीतव्यं तैलजं तिलसम्भवम्”। तलजं तैलभृष्टं तिलसम्भवम तिलपिष्टादि। “तदभावे तृ सस्नेहं कौसुम्भं सर्षपोद्भवम् वृक्षस्नेहस्तथा ग्राह्यः पूर्वाभावे परः परः। तदभावे गवादीनां क्रमात् क्षीरं विधीयते। तदभावे दधि ग्राह्यमलाभे तिल इष्यते। यत्र मुख्यं दधि क्षीरं तत्रापि तदलाभतः। अजादेः क्षीरदध्यादि तदभावेऽपि गोघृतम्। मुख्यासन्नोऽथ वा ग्राह्यः कार्य्यकारणसन्ततौ”। अत एव धृताभावे पूर्वं दधि ततः पयः। तथा “सर्वत्र गौणकालेषु कर्मचोदितमाचरेत्। प्रायश्चित्तं व्याहृतिभिर्हुत्वा कर्म समाचरेत्”। मत्स्यसूक्ते “घृतं न लभ्यते यत्र शुष्कक्षीरेण होमयेत्। क्षीरस्य च दधि ज्ञेयं मधुनश्च गुडी भवेत्”। आयुर्वेदेऽपि “मधु यत्र न लभ्येत तत्र जीर्णो गुडो भवेत्”। काण्डमूलपर्णपुष्पफलप्ररोहरसगन्धादीनां सादृश्येन प्रतिनिधिं कुर्य्यात्। सर्वाभावे यवप्रतिनिधिर्भवतीति” काण्डं नालं प्ररोहोऽङ्कुरः। सर्वालाभे यव इति कल्पतरुः अवयव इति नारायणोपाध्यायः। शान्तिदीपिकायां नारदीयपञ्चरात्रम् “अभावे चैव धातूनां हरितालं विधीयते। वीजानामप्यभावे तु यव एकः प्रशस्यते। ओषधीनामभावे तु सहदेवी प्रशस्यते। रत्नानामप्यभावे तु मुक्तः फलमनुत्तमम्। लौहानामप्यभावे तु हेमपात्रं प्रकल्पयेत्”। लौहानां तैजसपात्राणाम्। न्यायप्राप्तप्रतिनिधिमधिकृत्य जैमिनिः “न देवताग्निशब्दक्रियाणामिति”। अस्यार्थः देवताया अग्नेश्च आहवनीयादेः शब्दस्य मन्त्रस्य क्रियाया प्रयाजाद्यदृष्टार्थकर्मणश्चादृष्टमात्रार्थकत्वेनारादुपकारकत्वान्न प्रतिनिधिः, व्रीह्यादीनान्तु सन्निपत्योपकारकाणां पुरोडाशसाधनं दृष्टमेव प्रयोजनमिति तत्र प्रतिनिधिरुचित इत्युक्तम्। परिशिष्टम् “मुख्यकाले तु मुख्यञ्चेत् साधनं नैव लभ्यते। तत्कालद्रव्ययोः कस्य गौणता मुख्यतापि वा”। तत्र भरद्वाजः “मुख्यकालमुषाश्रित्य गौणमप्यस्तु साधनम्। न मुख्यद्रव्यलाभेन गौणकालप्रतीक्षणम्। गौणेषु तेषु कालेषु कर्म चोदितमारभेत्। प्रायश्चित्तप्रकरणप्रोक्तां निन्कृतिमाज्वरेत्”। उत्तरमतं सिद्धान्तमिति केचित्। तदभिप्रायकं मीमांसाषष्ठाध्यायसूत्रम्। “पौर्वापर्य्येऽपि पूर्वदौर्बल्यं प्रकृतिवदिति”। ज्योतिष्टोमेऽन्योन्यं सम्बध्य यज्ञशालातो बहिर्निर्गच्छता मृत्विजां विच्छेदबिमित्तं प्रायश्चित्तं श्रूयते यद्युद्गाता विच्छिन्द्य द्दक्षिणेन यजेत यदि प्रतिहर्त्ता सर्वस्वदक्षिणेनेति”। तत्र उद्गातृप्रतिहोत्रोः क्रमेण विच्छेदे विरुद्धप्रायचित्तयोः ससुच्चयासम्भवात्। किं पूर्वं कार्य्यम् उत वा परमिति संशये हि अनुपजातबिरोधात् पूर्वमिति पूर्वपक्षे राद्धान्तः पौर्वापर्य्ये सति निमित्तयोः पूर्वस्यैव निमित्तस्य दौर्बल्यम्। उत्तरस्य पूर्वनिरपेक्षस्य तद्बाधकतया उदितत्वात् पूर्वोदयकाले उत्तरस्याग्राह्यत्वेन पूर्वेण बाध्यत्वायोगात्। उक्तं हि “पूर्वं परमजातत्वादवाधित्वैव जायते। परस्यानन्यथोत्पादादुक्तबाधेन सम्भवः” इति प्रकृतिवदिति यथा हि प्रकृतौ क्लप्तोपकाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराकाङ्क्षिण्यां प्राप्ताः कल्प्योपकारतया चरमभाविभिरमि शरैर्निरपेक्षैर्बाध्यन्ते तद्वदिति। अत एव शारीरकभाष्यटीकायां वाचस्पतिमिश्राः “ज्येष्ठत्वञ्चानापेक्षितस्य बाध्यत्वे हेतुर्न बाधकत्वे रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् तदनपबाधने तद्बाधात्मनस्तस्योत्पत्तेरनुत्पत्तेः तथाच “पूर्वापरबलीयस्त्वं तत्र नाम प्रतीयताम्। अन्योन्यनिरपेक्षाणां यत्र जन्मधियां भवेत्” इति। यदि च पूर्ववचनस्य पूर्वपक्षत्वे वैयर्थ्यं स्यात् अत उभयवचनार्थौ विवक्षणीयौ तदा विषयभेदेन व्यवस्थापनीयौ। तथाहि यत्राष्टकाश्राद्धादौ काला न्तराभावस्तत्र तत्कालानुरोघाद्विहितद्रव्यालाभेऽपि प्रतिनिहितद्रव्यमादाय मुख्यकाल एव तत्करणं न तु वचनानुपात्तस्वेच्छाकल्प्यगौ णकालप्रतीक्षणम्। तथाच छन्दोगपरिशिष्टम् “स्थालीपाकं पशुस्थाने कुर्य्याद् यद्यानुकल्पिकम्। श्रपयेत्तं सवत्सायास्तरुण्यागोः पयस्यनु” इत्यादि। यत्राव्दिकश्राद्धादौ कृष्णैकादश्यादिगौणकालोऽस्ति तत्र मृताहादावन्नाद्यभावे तदनुरोधेन उपवासादिरूपं प्रायश्चित्तं कृत्वा गौणकाले तत् क्रर्त्तव्यम्। तथाच लघुहारीतः “एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम्। अभावे पाकपात्राणां तदह समुपोषणम्”। तथाच छन्दोगपरिशिष्टम् “संस्कारा अतिपत्येरन् स्वकालाच्चेत् कथञ्चन। हुत्वैतदेव कुर्वीत ये तूपनयनादधः”। यत्र तु विनिगमकवचनाभाबस्तत्र यद्यपि क्रियायाः प्राधान्यात् कालो द्रव्यं द्वयमपि गुणभूतमेव तथाप्युभयोपसंहारासामर्थ्ये द्रव्यादरः कालस्य सूर्य्यादिक्रियाघटितस्य कर्त्रधीनत्वाभावाद्वर्जनीयत्वसिद्धिः असन्निधिकत्वान्निमित्तत्वमात्रेण बहिरङ्गत्वात्। कालस्य निमित्तत्वं व्यक्तं भविष्ये “अतः कालं प्रवक्ष्यामि निमित्तं कर्मणामिह”। द्रव्यस्य तु यागस्वरूपनिर्वाहकत्वेनाभ्यर्हितत्वात् कर्मणः कारकत्वेनान्तरङ्गत्वच्च। पुत्रादि- प्रतिनिध्यभावे तु ब्रह्मवैवर्त्तः “उपवासासमर्थश्चेदेकं विघ्रन्तु भोजयेत्। तावद्धनानि वा दद्याद् यद्भक्ताद्द्विगुणं भवेत्। सहस्रसम्मितां देवीं जपेद्वा प्राणसंयमान्। कुर्य्याद्द्वादशसंख्याकान् यथाशक्ति व्रते नरः”। देवीं गायत्रीम्। अत्र चान्द्रायणादौ परिसंख्या। काश्यपपञ्चरात्रे “मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने। फलमूलजलाहारी हृदि शल्यं ममार्पयेत्। अत्र यो दीक्षितः कश्चिद्वैष्णवो भक्तितत्परः। निर्निमित्तमदीक्षायां न च क्षद्व्याधिपीडितः। अन्नं वा यदि भुञ्जीत सूलं फलसथापि वा। अषराधमहं तस्य न क्षमामि तु कश्यप!। क्षिपामि नरके घोरे हृच्छल्यं मम जायते”। निमित्तं प्रारब्धचान्द्रायणादिव्रतविरोध इत्यादि, दीक्षायां चरुशेषप्राशनस्य विहितत्वाददोक्षायामित्युक्तम्। क्षुद्व्याधिना पीडितः सर्वमेतत्प्रदर्शनमात्रं शक्तौ निर्विरोध इत्यर्थः। अन्नादिकमप्युपलक्षणमिति जीमूत वाहनः। अत्र निमित्तं प्रारब्धचान्द्रायणादीति यदुक्तं तन्न चान्द्रायणादौ भोजनस्यावश्यकत्वाभावात् किन्तु निमित्तं रविवाराद्युपवासपारणं जलपानरूपं दीक्षायामपि चरुप्राशनं घ्राणरूपम् अन्यथा “पुरोडाशोऽपि सोमो वा संप्राप्ते हरिवासरे। अभक्ष्येण समः प्रोक्तः किं पुनश्चाशनक्रिया” इति नारदीयं विरुध्येत। तद्घ्राणस्य भोजनरूपतामाह कालादर्शे श्रुतिः “पित्रमाघ्रेयं तन्नैवं प्राशितं नबति” इति पित्र्यमुपलक्षणम् आकाङ्क्षाया अवशिष्टत्वात्। तेनैकादश्यां तदुभयोर्जलपारणं चरुशेषघ्राणञ्च कृत्वा उपबासः कार्य्यः”। आरब्धकार्त्तिकादिस्नाने तु व्याधादिनाऽसामार्थ्ये पुत्रादिभिः प्रतिनिधिना कारयितव्यं नानुकल्पविधिना नित्यस्नान एव तद्विधिनादिति” इति मल० त०। स्वयं करणाऽसामर्थ्ये अत्यद्वारा कारयितव्यं यथा दक्षः “स्वयं होमे फलं यच्च तदन्येन न जायते। ऋत्विक् पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः। एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि” विट्पतिर्जामाना। एवञ्च ऋत्विगादीतरत्र फवन्यूनता। अत्राशौचाशङ्कया बोधनदिनात् पूर्वं शुचितत्कालजीवित्वरूपाधिकाराभावेऽपि यद्वरणादिकं क्रियते तत्कर्मकाले तस्य नारदोक्तस्वयंप्रवर्त्तनवत् प्रवर्त्तनाय न तु तदानीं प्रतिनिधीयते अथ वा “निःक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजन्तथा। प्रवसेत् कार्यवात विप्रो वृथैव न चिरं वसेत्” इति छन्दोगपरिशिष्ट वदन्यत्रापि प्रतिनिघीयते एवं वरणं विनापि क्वचिद्यदि ऋत्विक् प्रवर्त्तते तथापि तत्कर्मसिद्धिः। दक्षिणा च तस्मै शुकिकाले दातव्येति तथा च नारदः “ऋत्विक् च त्रिविधो दृष्टः पूर्वैर्जुष्टः स्वर्यंकृतः। यदृच्छया वा यः कुर्य्यादार्त्विज्यं प्रीतिपूर्वकम्” यदृच्छया स्वेच्छया” ति० त०। परार्थस्नाने स्वयमशक्तौ कुशमयवतिमूर्त्तिस्नानेऽपि फलविशेषः प्रा० त० उक्तो यथा “प्रतिकृतिं कुशमयीं कृत्वा तीर्थवारिषु मज्जयेत्। यमुद्दिश्य निमज्जेत सोऽष्टभागं फलं लभेत्। मातरं पितरं वापि भातरं सुहृदं गुरुम्। यमुद्दिश्य निमज्जेत द्वादशांशं फलं लभेत्”। “अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा। पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः” दत्तकमी०।

प्रतिनियम = पु० प्रत्येकं नियतः। १ एकमेकं प्रति नियमे २ व्यवस्थायाम् “प्रतिनियमादयुगपत्ष्रवृत्तेश्च पुरुषवहुत्वं सिद्धम्” सा० का०।

प्रतिनिर्देश्य = त्रि० प्रति + निर्–दिश–कर्मणि ण्यत्। प्रथमनिर्दिष्टस्य पुनर्मुणान्तरविधानार्थं बुभुत्सितार्थंप्रतिपादनार्थं च निर्देशविषये यथा “उदेति सविता ताम्रस्ताम्र एवास्तमेति च” अत्र ताम्रतयोदितस्य पुनस्ताम्रगुणविशिष्टतयास्तत्वकीर्त्तनाय पुनर्निर्देशः। तत्र च कथित पदता न काव्यदोषः तदुक्तं काव्यग्रकाशे “उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकवदप्रयीग निषेधस्य, द्रेद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोयं विना दोषः। तथा हि “उदेति सविता ताम्रस्ताम्र एवास्तमेति च। सम्पत्तौ च विपत्तौ च महतामेकरूपता”। अत्र रक्त एवास्तमेतीति यदि क्रियते तदा पदान्तरप्रतिपादितः स एवार्थोऽर्थान्तरतयेव प्रतिभासमानः प्रतीतिं स्थगयति”। “तद्वतीति उद्देश्य प्रतितिर्दश्यत्ववतीत्यर्थः दोष इति आपाततोऽर्थान्तरतावभासरूप इत्यर्थः। अयं भावः “न सोऽस्ति प्रत्ययो लोके यत्र शब्दो न भासते” इति नियमाच्छब्देनोपस्थाप्यमानोऽर्थः शब्दविशिष्ट एव भासते अतः शब्दभेदेनोपादाने तच्छब्दविशिष्टेऽर्थे भासमाने विभिन्नशब्दरूपविषेषणभेदाद्भेदावभास इति। सर्वनाम्नापि पूर्वीपात्तशब्दविशिष्टभासनान्न भेदावभास इत्याह सर्वनाम्नोवेति” नागेशः।

प्रतिनिवर्त्तन = न० प्रति + निर्–वृत–भावे ल्युट्। १ अभीष्टवस्तुतः निवृत्तौ णिच्–ल्युट्। २ निवारणे

प्रतिन्याय = अव्य० प्रति + नि + अय इ–वा घञ्। न्यायो युक्तिभेदी वा अनक्रमे अनतिक्रमे वा अव्ययी० वा। १ यथागतं प्रत्यागमने “पुनः प्रतिन्यायं यथा योन्या द्रवति” वृ० उ० “प्रतिन्यायम् यथागतम् नि + आयो न्यायः। अयनमायो निगमनं पुनः पूर्वगमनवैपरीत्येन यदागमनं स प्रतिन्यायः यथागतं पुनरागच्छतीत्यर्थः” भाष्यम्। २ युक्तिमनतिक्रम्येत्यर्थे च।

प्रति(ती)प = पु० प्रति–पाति + पा–क वा दीर्घः। शान्तनुरांज पितरि भा० आ० ९४ अ०। ह्रस्वभध्यः शब्दरत्ना०।

प्रतिपक्ष = पु० प्रतिकूलः पक्षः प्रा० स०। १ विरुद्धपक्षे “विमृश्य पक्षप्रतिपक्षाभ्यामर्थाबधारणं निर्णयः” गौत० सू०। निर्णयशब्दे ४५९३ पृ० अस्यार्थो दृश्यः। प्रतिकूलः पक्षो यस्य प्रा० व०। २ शत्रौ ३ सदृशे च त्रि०। ४ व्यवहारे प्रतिवादिनि विपक्षेच।

प्रतिपक्षित = पु० प्रतिपक्षो जातोऽस्य तारका० इतच। १ सत्प्रतिपक्षरूपदोषयुक्ते हेतौ हेत्वाभासभेदे “अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः। कालात्ययोपदिष्टश्च हेत्वाभासाश्च पञ्चधा” भाषा०। “सत्प्रतिपक्षे तु प्रतिहेतुः साध्याभावसाधकः। अत्र तु हेतुरेवेति विशेषः। साध्याभावसाघक एव साध्यासाधकत्व न उषन्यस्त इत्यशक्तिविशेषोपस्थापकत्वाच्च विशेषः। सत्प्रतिपक्षः साध्याभावव्याप्यवान् पक्षः। अगृहीताप्रामाण्यकतया साध्यव्याप्यवत्त्वेनोपस्थितिकालीनायाः साध्यामावव्याप्यवत्त्वेनोपस्थितेर्विषयस्तथा इत्यन्ये। अत्र च परस्पराभावव्याप्यवत्ताज्ञानात् परस्परानुमितिप्रतिवन्धः फलम्। अत्र केचित् यथा घटाभावव्याप्यवत्ताज्ञाने विद्यमानेऽपि घटचक्षुःसंयोगे सति थटवत्ताज्ञानं जायते। यथा च सत्यपि पीतत्वाभावव्याप्यशङ्खत्ववत्ताज्ञाने पित्तादिदोषेण पीतः शङ्ख इति धीर्जायते एवं कोटिद्वयव्याप्यवत्तादर्शने कोटिद्वयप्रत्यक्षरूपः संशयो भवति तथा सत्प्रतिपक्षस्थले संशयरूपानुमितिर्भवत्येव यत्र चैककोटिव्याप्यदर्शनं तत्राधिकवलतया द्वितीयकोटिभानप्रतिबन्धान्न संशयः फलयलेन चाधिकसमबलाभावः कल्प्यते इति वदन्ति। तन्न तदभावव्याप्यवत्ताज्ञाने मति तदपनीतभावविशेषशाब्दयोधादेरनुदयात् लौकिकसन्निसर्षाजन्यदोषविशेषाजन्यज्ञानमात्रे तस्य प्रतिबन्धकता लाधवात्। न तूपनीतभावविशेषे शाब्दबोधे च पृथक् प्रतिबन्धकता गौरवात्। तथा च प्रतिवन्धकसत्त्वात् कथमनुमितिः। न हि लौकिकसन्निकर्षस्थसे प्रत्यक्षमिव सत्प्रतिपक्षस्थले संशयानुमितिः प्रामाणिकी येनानुमितिभिन्नत्वेनापि विशेषणीयम् यत्र कोटिद्वयव्याप्यवत्ताज्ञानं तत्रोभयत्रा प्रामाण्यज्ञानात् संशयो नान्यथाऽगृहीताप्रामाणकस्यैव विरोधिज्ञानस्य प्रतिबन्धकत्वादिति” सि० मु०।

प्रतिपण = पु० प्रतिरूपः पणः प्रा० स०। १ तल्यरूपे पणे मूल्ये अथ० ३। १५। ४।

प्रतिपत्ति = स्त्री प्रति + पद–क्तिन्। १ प्रवृत्तौ २ प्रानल्भ्ये ३ गौरवे ४ प्राप्तौ ५ पदप्राप्तौ ६ कर्त्तव्यताज्ञाने च मेदि०। “विषादलुप्तप्रतिपत्तिविस्मितम्” इति रथुः। मीमांसकमते ७ फलशून्यकर्माङ्गभेदे यथा श्राद्धादौ दत्तदूव्यस्य कुशमयब्राह्मणपक्षे जलादौ निक्षेपः। पूजितप्रतिमादेश्च जलादौ निक्षेपः। ८ स्थापनमात्रे च कात्या० श्रौत०

प्रतिपत्तिपटह = पु० वाद्यभेदे (नागरा) हारा०।

प्रतिपत्तुर्य्य = न० द्रगडवाद्ये (दगडकाडा) त्रिका०।

प्रतिपत्रफला = स्त्री पतिषत्त्रं फलं यस्याः। क्षुद्रकारबेल्ले (छीटौच्छे) राजनि०।

प्रतिपद् = स्त्री प्रतिपद्यते उपक्रम्यते पक्षोमासो वाऽनया प्रति + पद–करणे क्विष। पक्षयोः प्रथमायां १ तिथौ तिथिशब्दे तत्स्वरूपं ३२९१ पृ० दर्शित कर्मभेदे तत्कालव्यवस्था च ३२९२ पृ० दर्शिता। २ द्रनडवाद्ये त्रिका०। भावे सम्प० क्विप्। ३ ज्ञानं ४ उपक्रमे कालमा० तच्छब्दस्योपक्रमार्थत्वमुक्तं यथा “तत्र प्रतिपच्छब्द उपक्रमे वर्त्तते। चान्द्रः पक्षो मासो वा प्रतिपद्यते प्रारभ्यते यस्यां तिथौ सा तिथिः प्रतिपत्। प्रारम्भवाचित्वं प्रतिपच्छब्दस्य बहुषु ब्राह्माखानुवाक सूत्रेषु प्रयोनादवगम्यते ताथा च श्रुतिः “आत्वारथं यथोतय इदं वसोमृतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचराविति”। अयमर्थः मरुत्वतीयं नाम किञ्चिच्छस्त्रम्। तस्यात्वारथमित्ययं मन्त्रः प्रतिपत् प्रथम पाठ्यः। इदं वसोमृतमन्ध इत्ययं मन्त्रोनुचरः पश्चात् पाठ्य इति। तथा तैत्तिरीया आश्वमेधब्राह्मणे आमनन्ति। “पवस्व वाजसातय इत्यनुष्टुप् प्रतिपद्भवतीति” तथा त एव दर्शपूर्णमासब्राह्मणे पठन्ति “सामिधेनीरनुवक्ष्यन्ते ताव्याहृतीः पुरस्वाहृध्यात् ब्रह्मेव प्रतिपदं कुरुतः” इति। तत्तिथौ वह्नेर्जन्म यथोक्तं वराहपु० “देवानामथ यक्षाणां नन्धर्वाणाञ्च सत्तम! क्षादौ प्रतिपदो येन त्वमुत्पन्नोऽसि पावक। तत्पदात् प्रातिपादिकं सभविष्यन्ति देवताः। अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति”। ४ बहिष्पवमानस्तोत्रस्य प्रथमस्तुतौ ताण्ड्य० ब्रा० ४। २। १५ यथा “कवन्ते वाजसातये सोमाः सहस्र पाजस इति संहस्रवती प्रतिपत्कार्य्या”। “प्रतिपद्यते प्रकम्यते बहिष्पवमानस्तोत्रे एषा प्रतिपत् सा सहस्रवती सहस्रशब्दोपेता एषा कार्य्यां” भा०। वा टाप् तत्रार्थे

प्रतिपन्न = त्रि० प्रति + पद–क्त। १ अवगते अमरः २ स्वीकृते मेदि० “प्रतिपन्नं हि विचेतनैरपि” कुमारः। ३ वि क्रान्ते च हेमच० आचिता० अस्य गतिपूर्वकत्वेऽपि नान्तोदात्तता।

प्रतिपर्णशिफा = स्त्री प्रतिपर्णं शिफाऽस्याः। द्रवन्तीवृक्षे राजनि०।

प्रतिपाण = पु० प्रति + पण–धञ्। प्रतिरूपदेवने

प्रतिपादक = त्रि० प्रति + पद–णिच्–ण्वुल्। बोधके।

प्रतिपादन = न० प्रति + पद–णिच् भावे ल्युट्। १ दाने २ बोधने ३ प्रतिपत्तौ च मेदि०।

प्रतिपाद्य = त्रि० प्रति + पद–णिच् कर्मणि यत्। वोधनीये

प्रतिपूजन = न० प्रतिरूपं पूजनं प्रा० स०। केनचित् पूजने कृते तदनुरूपे तेन पूजकस्य १ पूजने २ आभिमुख्येन पूजने च।

प्रतिप्रदान = न० प्रति + आ + दा–भावे ल्युट्। १ प्रतिदाने २ प्रत्यर्पणे च।

प्रतिप्रसव = पु० प्रति + प्र + सू–अप्। १ निषिद्धस्य पुनःप्राप्तिसम्भावनायाम्। साकल्येऽव्ययी०। २ प्रसवसाकल्ये प्रतिजन्मनीत्यर्थे।

प्रतिप्रस्थातृ = पु० प्रति + प्र + स्था–तृच्। सोमयागीये ऋत्विग्भेदे अच्छावाकशब्दे ८५ पृ० दृश्यम्।

प्रतिप्रस्थान = न० प्रतिकूलं प्रस्थानम् प्रा० स०। १ विरुद्धपक्षाश्रयणे प्रतिकूलं प्रस्थानं यस्य प्रा० ब०। २ तद्वति त्रि० ३ निग्राह्ये यजु० १८। १९ वेददी०।

प्रतिप्रहार = पु० प्रतिरूपः प्रहारः प्रा० स०। १ कृतप्रहारानु रूपप्रहारे २ प्रतिघातभेदे च।

प्रतिप्रैष = पु० प्रतिरूपः प्रैषः प्रा० स०। नियोजितेन नियोक्तारं प्रति पुनःप्रेषणे कात्या० २५। १०। ३ कर्कः।

प्रतिफल = त्रि० प्रतिफलति प्रति + फल–अच्। १ प्रतिविम्बे येन यत्कर्म कृतं २ तस्यानुरूपप्रतीकारे। साकल्य अव्ययी०। ३ फलसाकल्ये अव्य०।

प्रतिफलन = न० प्रात + फल–भावे ल्युट्। प्रतिविम्बने सादृश्ये

प्रतिफुल्लक = त्रि० प्रति + फुल्ल–विकाशे ण्वुल्। प्रफुल्ले शब्दच०

प्रतिबद्व = त्रि० प्रति + बन्ध–कर्मणि क्त। १ प्रतिरुद्धे २ साकल्येन सम्बद्धे व्यापके च प्रतिबन्धशब्दे दृश्यम्।

प्रतिबन्ध = पु० प्रति + बन्ध–भावे घञ्। १ पतिरोधे २ साकल्येन सम्बन्धे व्याप्तौ च “प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानम्” सा० सू० “प्रतिबन्धो व्याप्तिर्व्याप्तिदर्शनाद्व्यापकज्ञानमनुमानम्” प्र० भा०।

प्रतिबन्धक = त्रि० प्रतिबन्धाति प्रति + बन्ध + ण्वुल्। १ प्रतिरोधके। स्त्रियां टाप् कापि अत इत्त्वम्। “बलवद्द्विष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका” भाषा०। २ विटपे शब्दच० प्रतिबन्धकत्वञ्च कारणोभूताभावप्रतियोगित्वम् तच्च मणाद्यभावत्वेन न तु प्रतिबन्धकाभावत्वेनेति नान्योन्याश्रयः। एवं प्रतिबन्धकाभावकूट एव कारणं तेन मणिसद्भावे मण्याद्यभावेऽपि न कार्य्यमिति” अनुमा० चि० अतिरिक्तशक्तिनिरासे। तच्च पञ्चधा भवति यथा तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयत्वेन प्रतिबन्धकत्वस् १। तदभावव्याप्यवत्तानिश्चयत्वेन २ तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयत्वेन ३। तदसमानाधिकरणधर्मवत्तानिश्चयत्वन ४। तद्व्यापकतावच्छेदकतया गृहीत धर्मावच्छिन्नाभाववत्तानिश्चयत्वेन ५ चेति। तत्राद्य यथा ह्रदो वह्निमानिति बुद्धिं प्रति ह्रदो न वह्निमानिति निश्चयस्य प्रतिबन्धकत्वम्। द्वितीयं ह्रदो वह्न्यभावव्याप्यवानिति निश्चयस्य। तृतीयं जलवान्वह्न्यभाववानिति निश्चयविशिष्टस्य जलवान् ह्वदः इति निश्चयस्य। चतुर्थं वह्न्यसमानाधिकरणजलवान् ह्रद इति निश्चयस्य। पञ्चसं ह्रदो धूमवानिति बुद्धिं प्रति धूमव्यापकतावच्छेदकतया गृहीतं यद्वह्नित्वं तादृशवह्नित्वावच्छिन्नाभाववान् ह्रद इति निश्चयस्येति। कार्य्यमात्रं प्रति तु कामिनी जिज्ञासायाः स्वातन्त्र्येण प्रतिबन्धकत्वम्। क्वचित् मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वम् यथा दाहं प्रति मणेः प्रतिबन्धकत्वम् इति।

प्रतिबन्धि(न्धी) = प्रति + बन्ध–इन् वा ङीप्। प्रकृतैककल्पे प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्तरापादने प्रतिवादिमतेऽनिष्टान्तरप्रसञ्जकवाक्ये तत्रार्थे प्रतिबन्दीशब्दोऽपि तन्मूलं मृग्यम्।

प्रतिबन्धु = पु० प्रतिरूपो बन्धुः प्रा० स०। बन्धुतुल्ये दौहित्रादौ ना० उ० १२० अ०।

प्रतिबल = पु० प्रतिकूलं बलं यस्य। १ शत्रौ “प्रतिवलजधेरिति” वेणी०। प्रतिरूपं बलं यस्य। २ तुल्यषले त्रि० “यो मे प्रतिबलो लोके” इति चण्डी। प्रतिगतं बलम् प्रा० स०। २ सामर्थ्ये न० त्रिका०।

प्रतिबाहु = पु० प्रतिगतो बाहुम् अत्या० स०। बाहोरग्रे वृ० सं० ५८। २५ श्वफल्कस्य २ पुत्रभेदे अक्र् रभ्रातरि भाग० ९। २४। ९

प्रतिबुद्ध = त्रि० प्रति + बुध–कर्त्तरि क्त। १ जागरिते। कर्मणि क्त। २ ज्ञाते च।

प्रतिबोध = पु० प्रति + बुध–भावे घञ्। १ जागरणे २ ज्ञाने च कर्त्तरि अच्। ३ जानरिते ४ ज्ञायिनि च त्रि०। तस्यापत्यम् विदा० अञ्। प्रातिबोध तदपत्ये यूनि तु हरिता० फक्। प्रातिबोधायन तदीये यून्यपत्ये पुंस्त्री०।

प्रतिबोधिन् = त्रि० प्रति + बुध–भविष्यति गम्या० णिनि। भाविप्रातबोधयुते गम्याद० द्वितीयात०। शास्त्रप्रतिबोधी

प्रतिभट = पु० प्रतिकूलो भटः प्रा० स०। प्रतियोधे येन सह युध्यते तस्मिन्।

प्रतिभय = त्रि० प्रतिगतं भयमस्मात् निरा० स०। १ भयहेतौ भयङ्करे अमरः। प्रतिगतं भयम प्रा० स०। २ भये न०।

प्रतिभा = स्त्री प्रति + भा–भावे अङ्। १ बुद्धौ २ प्रत्युत्पन्नबुद्धौ च हेम० “प्रज्ञा नवनवीन्मेषशालिनी प्रतिभा मता” रुद्रः ३ दीप्तौ च।

प्रतिभात = त्रि० प्रति + भा–कर्त्तरि क्त। १ ज्ञानेमासमाने पदार्थे २ प्रदीप्तियुते च।

प्रतिभान्वित = त्रि० ३ त०। प्रतिभायुक्ते प्रगल्भे अमरः।

प्रतिभामुख = त्रि० प्रतिभान्वितं मुखं मुख्यव्यापारोऽस्य। प्रतिभान्विते हेसच०।

प्रतिभास = पु० प्रति + भास–भावे घञ्। १ प्रकाशे कर्त्तरि अच्। २ प्रकाशमाने च।

प्रतिभू = पु० प्रतिरूपो भवति प्रति + भू–क्विप्। (जामिन) ख्याते पदार्थे स्त्री। दर्शनप्रतिभूशब्दे ३४७५ पृष्ठादौ दृश्यम्।

प्रतिभेदन = न० प्रति + भिद–भावे ल्युट्। १ नेत्रादेरुत्पाटने २ भेदने च।

प्रतिमण्डल = त्रि० प्रतिरूपं मण्डलं प्रा० स०। सूर्य्यादिमण्डलस्य १ परिधौ परिवेशे हरिवं० २०६ अ०। अव्ययी०। २ प्रत्येकमण्डले अव्य०।

प्रतिमल्ल = पु० प्रतिकूलो मल्लः प्रा० त०। प्रतिथोधे

प्रतिमा = स्त्री प्रति + मा–भावे अङ्। १ सादृश्ये। करणे अङ्। २ मृदादिनिर्मितदेवतादिमूर्त्तौ तन्मानादि देवता” प्रतिमाशब्दे ३६८५ पृष्ठादौ दृश्यम्। ३ अनुकृतौ ४ गजदन्तबन्धे हेमच० उत्तरपदस्थः। ५ सदृशार्थे त्रि० हेमच०। यथा देवपतिमः।

प्रतिमान = न० प्रतिमीयतेऽनेन प्रति + मि–मा–बा ल्युट्। १ प्रतिबिम्बे २ प्रतिमायां ३ गजकुम्भस्याधीभागे ४ तद्दन्त० योर्मध्यस्थाने च अमरः।

प्रतिमार्गक = पु० सौभपुरे व्योमचारिपुरे त्रिका०।

प्रतिमित्र = पु० १ नृषभेदे भा० द्रो० १०२ अ०। अव्ययी०। २ प्रत्येकमित्रे अव्य०।

प्रतिमुक्त = त्रि० प्रति + मुच–क्त। १ परिहिते २ परित्यक्ते च अमरः।

प्रतिमुख = न० सा० द० उक्ते नाटकाङ्गसन्धिभेदे यथा “यथासङ्ख्यमवस्थाभिरभियोगात्तु पञ्चभिः। पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्च सन्धयः” इत्यु पक्रमे तल्लक्षणमाह “अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति”। एकेन प्रयोजनेनान्वितानां कथाङ्गानामवान्तरैकप्रयोजनसम्बन्धः सन्धिः। तद्भेदानाह “मुखं प्रतिमुखं गर्भो विमर्ष उपसंहृतिः। इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षण मुच्यते”। तत्र प्रतिमुखाङ्गलक्षणं भेदोदाहरणादि यथा “विलासः परिसर्पश्च विधृतं तापनं तथा। नर्म नर्मद्युतिश्चैव तथा प्रगमनं पुनः। विरोधश्च प्रतिमुखे तथा स्यात् पर्युपासनम्। पुष्पं वज्रमुपन्यासा वर्णसंहार इत्यपि”। तत्र “समीहा रतिभीगार्था विलास इति कथ्यते”। रतिलक्षणस्य भावस्य यो हेतुभूतो भोयोऽस्य विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः यथा शाकुन्तले “काम प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि। अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते”। “दृष्टनष्टानुसरणं परिसर्पश्च कथ्यते” यथा शाकुन्तले राजा। भवितव्यमत्र तया। तथा हि “अत्युन्नता पुरस्तादवगाढा जचनगौरबात्पश्चात्। द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा”। “कृतस्यानुनयस्यादौ विधृतं त्वपरिग्रहः” यथा तत्रैव “अलं बो अन्तौरविरहपज्जुस्मुएण राएसिणा उबरुद्धेण”। केचित्तु “विधृतं स्यादरतिरिति” वदन्ति। उपायादर्शनं यत्तु तापनं नाम तद्भवेत् यथा रत्नबल्यां सागरिका “दुल्लहजनानुराओ लज्जा गुरुई परबसो अप्पा। णियसहि! विसमं पेम्म मरणं सरणं बरै एक्कं”। अपरिहासवचो नर्म–यथा रत्नवल्याम सुसङ्गता। “सहि जस्म किदे तुमं आअदा सो अय दे पुरदो चिट्ठदि। सागरिका साभ्यसूयम्। कस्मकिदे अहं आअदा। सुसं। ऐ अण्णसंकिदे णं चित्तफलख{??}”। –धृतिस्तु परिहासजा”। “नर्दद्युतिः–यथा तत्रेव। ससङ्गता “सांह अदक्खिणा दाणिं सि तुमं जा एवं भट्टिणा हत्थावलम्बिदावि कोर्बं ण मुञ्चसि”। साग। सभ्रूभङ्गमीषद्विहस्य “सुसङ्गदे दाणिं बि कीलिदुं ण विरमसि”। केचित्तु “दोषस्याच्छादन हास्यं नर्मद्युतिरिति” वदन्ति।–प्रग ममं वाक्यं स्यादुत्तरोत्तरम्”। यथा विक्रमोर्वश्याम् उर्वशी “जअदु जअदु महाराओ। राजा। मया नाम जितं यस्य त्वया जय उदीर्य्यते इत्यादि”। “विरोधो व्यसनप्राप्तिः–यथा चण्डकीशिके राजा “नूनमसमीक्ष्यकारिणा मयान्धेनेव स्फुरच्छिखाकलापी ज्वलनः पद्भ्यां समाक्रान्तः”–कृतस्यानुनयः पुनः” “स्यात्पर्युषासनं–रत्नावल्याम् विदू “भो मा कुप्प एसा हि कदलीघरन्तरं गदेत्यादि”–पुष्प विशेषवचनं सतम्”। यथा तत्रैव राजा “हस्ते गृहीत्वा स्पर्शं ताटयति” विदू “भो बअस्म एसा अबरेब्ब सिरी तए लामासादिदा” राजा। वयस्य सत्यम् “श्रीरेषा पाणिरप्यस्याः पातिजातस्य पल्लवः। कुतोऽन्यथा पतत्येष खेदच्छद्मामृतद्रवः”। “प्रत्यक्षनिष्ठुरं वज्रं–यथा तत्रैव राजा “कथमिह सोऽहं त्वया ज्ञातः” ससं। न केवलं तमं चित्तफलएण ता जाव गदुअ देवीए णिथेदैण्ण।–उपन्यासः प्रसादनम्”। यथा तत्रैव सुसं। भट्टा अलं सङ्काए मएबि भट्टिनीए पसादेण कीलिद ज्जेब एदिहिं ता किं कण्णाभरणेण। अदोबि मे गरुअरो पसादो एमो जं तए अहं एत्थ आलिहिदात्ति कुबिदा मे पिअसही सागरिका एसा ज्जेव पसादी दुअ”। केचित्तु “उपपत्तिकृतो योऽर्थ उपन्यासः स कीर्त्तितः” इति वदन्ति उदाहरन्ति च। तत्रैव “अदिमुहरा कखु सा गव्भदासीति। “चातुर्बर्ण्येपगमनं बर्णसंहार इष्यते” यथा वीरचिते तृतीयेऽङ्के “षरिषदियमृषीणामेष वीरो युधाजित् सममृषिभिरमात्यैर्लोमपादश्च वृद्धः। अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामद्रुहो याजकास्ते”।

प्रतिमूर्त्ति = स्त्री प्रतिरूपा मूर्त्तिः प्रा० स०। देवादिमूर्त्तिसदृशिप्रतिमायाम्।

***