प्र = अव्य० प्रथ–ड। १ आरम्भे २ गतौ ३ उत्कर्षे ४ प्राथम्ये ५ सर्वतोभावे ६ उत्पत्तौ, ७ ख्यातौ ८ व्यवहारे च पुरुषोत्तमः। अस्य क्रियायोगे उपसर्गत्वम्। गतित्वञ्च। अस्यार्थभेदो दाहरणानि गणरत्नटी० उक्तानि यथा “प्र आदिकर्मदीर्धेशभृशसम्भवतृप्तिवियोगशुद्धिशक्तीच्छाशान्तिपूजाग्रदर्शनेषु” प्रयातः। प्रवालमूषिकः प्रभुर्देशस्य। प्रवदन्ति दायादाः। हिमवतो गङा प्रभवति। प्रभुक्तमन्नम्। प्रोषितः। प्रसन्नं जलम्। प्रशक्तः। प्रार्थयते। प्रशान्तोऽग्निः। प्राञ्जलि। प्रबालम्। प्रलोकयति”।
प्रौग = न० प्राग्युगम् पृषो०। १ प्राग्वर्त्तिनि युगे ईषान्तरे कात्या० ७। ९। ५। कर्कः। तत्र चीयमानस्याग्नेः प्रौगचित्संज्ञा कात्या० १६। ५। ९। २ शस्त्रविशेषे प्रौगमुक्थ्यमव्यथायै” यजु० १५। ११। “प्रौगं शंसति निष्केबल्यं शंसति” सा० स० भाष्यधृता श्रुतिः” प्रौगनिष्केबल्यशब्दौ शस्त्रविशेष नामनी” इत्युक्त्वा “अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रमिति भाष्ये शस्त्रशब्दार्थमाह भाष्यकृत्।
प्रकङ्कत = पु० १ प्रकृष्टविषे २ प्रकृष्टगमने सर्पभेदे ऋ० १। १९१। ७।
प्रकट = त्रि० प्र + कट–अच्। स्पष्टे।
प्रकटित = त्रि० प्र + कट–क्त। प्रकाशिते हेमच०।
प्रकण्व = पु० प्रकृष्टाः कण्वा यत्र। ऋषिभिन्नत्वात् न सुट्। देशभेदे सि० कौ०। ऋषौतु सुट् प्रस्कण्व इत्येव।
प्रकम्पन = पु० प्र + कपि–णिच्–युच्। १ वायौ “प्रकम्पनेनानु चक्रम्पिरे सुराः” माघः। २ नरकभेदे च शब्दरत्ना०। ३ प्रकम्पनकारके त्रि०।
प्रकर = पु० प्र + कृ–भावे अप्। १ समूहे २ अतिक्षेपे च। कर्मणि अप्। ३ प्रकीर्णे पुष्पादौ त्रि०। ४ अगुरुचन्दने न० मेदि०
प्रकरण = न० प्र + कृ–ल्युट्। १ प्रस्तावे २ अभिनेयनायकादिके दृश्यकाव्यभेदे हेमच०। ३ ग्रन्थसन्धौ ४ एकार्थप्रतिपादकग्रन्थांशे च त्रिका०। नाटकादिनी दश दृश्यकाव्यरूपकाणि विभज्य सा० द० तल्लक्षणमुक्तं यथा “भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितम्। शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथ वा बणिक्। सापाय धर्मकामार्थपरो धीरप्रशान्तकः”। विप्रनायकं यथा मृच्छकटिकम्। अमात्यनायकं मालतीमाधवम्। बणिङ्नायकं पुष्पभूषितम्। “नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित्। तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः। कितवद्यूतकारादिविटचेटकसङ्कुलः”। कुलस्त्री पुष्यभूषिते। वेश्या तुरङ्गदत्ते द्वे अपि मृच्छकटिके। अस्य नाटकप्रकृतित्वात् शेषं नाटकवत्”। कर्त्तव्यस्य इतिकर्त्तव्यताकाङ्क्षस्य वचनं प्रकरणम् इति शवरभाष्योक्ते ५ऽर्थे च “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्” जै० ३। ३। १४५। तत्र विनियीगसाधने तस्य श्रुतिलिङ्गताक्यबाध्यत्वं स्थान समाख्यायोर्बाधकत्वञ्च स्थितम्”। “श्रुतिर्द्वितीया क्षमता च लिङ्गं वाक्यं पदान्येव तु संहतानि। सा प्रक्रिया या कथमित्यपक्षा स्थानं क्रमो योगबलं समाख्या” पार्थसारथिमिश्रः। शास्त्रसिद्धान्तप्रतिपादके ६ ग्रन्थभेदे “अस्य च च वेदान्तप्रकरणत्वात्” वेदान्तसा०।
प्रकरणसम = पु० गौतमोक्ते सत्पक्षापरपर्य्याये १ हेत्वाभासभेदे “यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः” गौ० सू०। “क्रमप्राप्तं प्रकरसमं लक्षयति। स हेतुः स्वसाध्यस्य परसाध्याभावस्य वा निर्णयार्थ मपदिष्टः प्रयुक्तः प्रकरणसम उच्यते स क इत्याकाङ्क्षायामाह यस्मात् प्रकरणचिन्तेति करणं “पक्षप्रतिपक्षाविति” भाष्यं साध्यतदभावन्ताविति तदर्थस्तथा च निर्ण्णयार्थं हेतुर्यत्र निर्णयं जनयितुमशक्तस्तुल्यबलेन परेण प्रतिबन्धात् किन्तु घर्मिणः साध्यवत्त्वं तदभावत्त्वं वेति चिन्तां जिज्ञासां प्रवर्त्तयति स प्रकरणसमः। यद्वा प्रकृष्टं करणं लिङ्गं परामर्शो वा को हेतुरनयोः साधकः एतयोः कः परामर्शः प्रमेति वा यत्र जिज्ञासा भवतीत्यर्थः। यस्मादित्यादि वस्तुस्थितिमात्रं लक्षणन्तु तुल्यबलबिरोधिपरामर्शकालीनपरामर्शविषयत्वं स्वसाध्य परामर्शकालीनतुल्यबलविरोधिपरामर्शो वा। विरोधिगरासर्शस्य च हेतुनिष्ठत्वमेकज्ञानविषयत्वसम्बन्धेन अन्यथा हेतोर्दुष्टत्वं न स्यात्। अयञ्च दशाविशेषे दोषः इत्यतः सद्धेतोरपि विरोधिपरामर्शकाले दुष्टत्वमिष्टमेवेत्यवधेयम्” वृत्तिः। २ जातिरूपासदुत्तरभेदे गौ० ५। १। १६। ८८ सू०। “उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः” सू० “उभयसाधर्म्यात् अन्वयसहचाराद्व्यतिरेकसहचाराद्वा प्रक्रिया प्रकर्षेण क्रिया साधनं विपरीतसाधनमिति फलितार्थः तत्सिद्धेस्तस्य पूर्वमेव सिद्धेः तथाचाधिबलत्वेनारोपितप्रमाणान्तरेण बाधेन प्रत्यवस्थानं प्रकरणसमः यथा शब्दोऽनित्यं कृतकत्वादित्युक्तेनैतदेवं श्रावणत्वेन नित्यत्वसाधकेन बाधात् बाथादेशनाभासा चेयम्। वृ०। “प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः” सू०। अत्रोत्तरमाह प्रतिपक्षाद्विपरीतसाध्यसाधकत्वे नाभिमताच्छ्रावणत्वादितः प्रकरणसिद्धिद्वारा मदीयसाध्यस्य यः प्रतिषेधः त्वया क्रियते तस्यानुपपत्तिः कुतः प्रतिपक्षोपपत्तेः त्वत्पक्षापेक्षया प्रतिपक्षस्य मदीयपक्षस्योपपत्तेः साधनात्। अयमाशयः श्रावणत्वेन पूर्वं नित्वत्वस्य साधनाद्यो बाध उच्यते स नोपपद्यते पूर्वं साधितस्य बलवत्त्वाभावात् कदाचित् कृतकत्वेनानित्यत्वस्यापि पूर्वं साधनादिति त्वत्पक्षप्रतिषेधोऽपि स्यात्” वृत्तिः।
प्रकरणी = न० नाटिकाभेदे “नाटिकैव प्रकरणी सार्थवाहादिनायका। समानवंशजा नेतुर्भवेद् यत्र च नायिका” सा० द०
प्रकरौ = स्त्री १ नाट्याङ्गभेदे २ चत्वरभूमौ च शब्दरत्ना०।
प्रकर्ष = पु० प्र + कृष–घञ्। १ उत्कर्षे २ प्रकृष्टतया कर्षणे च।
प्रकर्षण = न० प्र + कृष–ल्युट् १ उत्कर्षे २ आकर्षणे च।
प्रकलविद = पु० प्रकृष्टां कलां वेत्ति विद–क्विप् पृषो० ह्रस्वः। १ वणिगजने निरु० ६। ६। ३ अज्ञातरि त्रि० ऋ० ७। १८। १५ भा०
प्रकाण्ड = पु० प्रकृष्टः काण्डः प्रा० त०। वृक्षस्य मूलादारभ्य शाखान्ते भागे। २ प्रशस्ते न०। ३ विटपे पु० मेदि०।
प्रकाण्डर = पु० प्रकाण्ड + अस्त्यर्थे बा० र। वृक्षे शब्दच०।
प्रकाम = त्रि० प्रगतः कामम् प्रा० स०। १ यथेष्टे अमरः। प्रा० व०। २ प्रकृष्टकामके त्रि०। ३ देवभेदे पु० यजु० ३०। १२।
प्रकामम् = अव्य० प्र + कम–णमुल्। अत्यर्थे अनुमतौ च अमरः।
प्रकामोद्य = पु० देवभेदे यजु० ३० ९
प्रकार = पु० प्र + कृ + घञ्। १ भेदे २ सादृश्ये च अमरः। ३ विशिष्टज्ञाने विशेषणतया भासमाने पदार्थे “स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तदनिरूपकत्वस सर्वांशे भ्रमभिन्नत्वमिति” गदाधरः।
प्रकारता = स्त्री प्रकारस्य भावः तल्। १ विषयताभेदे ज्ञायमानविशेषणप्रतियोगिकसंसर्गावच्छिन्नविषयत्वे।
प्रकालन = त्रि० प्रकालयति प्र + कालि ल्यु। १ हिंसके २ सर्पभेदे पु० भा० आ० ७५ अ०। भावे ल्युट्। ३ मारणे न०।
प्रकाश = पु० प्र + काश–घञ्। १ आतपे २ विकाशे च। कर्त्तसि अच्। ३ विकाशयुक्ते त्रि० अमरः। प्रकाशश्च सत्वज्ञानतेजः साधारणः यथोक्तम् “जडपकाशायोगात् प्रकाशः” सां० सू० “वैशेषिका आहुः। प्रागप्रकाशरूपस्य जडस्यात्मनो मनःसंयोगाज्ज्ञानाख्यप्रकाशो जायत इति तन्न। लोके जडस्याप्रकाशस्य लोष्टादेः प्रकाशोत्पत्त्यदर्शनेन तदयोगात्। अतः सूर्य्यादिवत् प्रकाशस्वरूप एव पुरुषः इत्यर्थः। तथा च स्मृतिः “यथा प्रकाशतमसोः समन्धो नोपपद्यते। तद्वदैक्यं न शंसध्वं प्रपञ्चपरमात्मनोः”। इति। “यथा दीपः प्रकाशात्माह्रस्वो वा यदि वा महान्। ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु” इति च। प्रकाशत्वं च तेजःसत्त्वचैतन्येष्वनुगतमखण्डोप्राधिरनुगतव्यवहादिति। ननु प्रकाशस्वपरूत्वेऽपि तेजोबद्धर्मधर्मिभावोऽस्ति न वा तत्राह सां० प्र० भा० “निर्गुणत्वान्ना चिद्धर्मा” सू० “पुरुषस्य प्रकाशरूपत्वे सिद्धे तत्सम्बन्धमात्रेणान्यव्यवहारोपपत्तौ प्रकाशात्मकधर्मकल्पनागौरवमित्यपि बोध्यम्। तेजसश्च प्रकाशाख्यरूपविशेषाग्रहेऽपि स्तर्शपुरस्कारेण ग्रहात् प्रकाशतेजसोर्भेदः मिद्ध्यति। आत्मनस्तु ज्ञानाख्यपकाशाग्रहकाले ग्रहणं नास्तीत्यतो लाववाद्धर्मधर्मिभावशूत्यं प्रकाशरूपमेवात्मद्रव्यं कल्प्यते। तस्य च न गुणत्वन् संयोगादिमत्त्वात् अनाश्रितत्वाच्चेति। तथा च स्मर्य्यते “ज्ञानं नैवात्मानो धर्मो न गुणो वा कथञ्चन। ज्ञानस्वरूप एवात्मा नित्या पूर्णः सदा शिवः” सां० प्र० भा०। वैवस्वतमनोः २ पुत्रभेदे हरिवं० ७ अ०।
प्रकाशक = त्रि० प्रकाशयति प्र + काश–णिच् ण्वुल्। १ प्रकाशकारके सूर्य्यादौ सांख्यमतसिद्धे २ सत्त्वगुणे च “तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्” गीता।
प्रकाशकज्ञातृ = पु० प्रकाशकस्य पूर्वं ज्ञाता। कुक्कुटे शब्दच०। तस्य प्रथमं प्रकाशकसूर्य्यज्ञातृत्वात्तथात्वम्।
प्रकाशन = त्रि० प्रकाशयति प्र + काश–णिच्–ल्यु। १ प्रकाशकारके २ विष्णौ पु०। “नैकरूपो वृहद्रूपः शिपिविष्टः प्रकाशनः” विष्णुस०।
प्रकाशात्मन् = पु० प्रकाश आत्मा स्वरूपमस्य। १ विष्णौ “प्रकाशात्मा प्रतापनः” विष्णुस०। २ व्यक्तस्वभावे त्रि०।
प्रकाशित = त्रि० प्र + काश + णिच्–कर्मणि क्त। १ प्रकटिने हेम० प्र + काश–कर्त्तरि क्त। २ प्रकाशयुते त्रि०। भावे क्त। ३ प्रकाशे न०।
प्रकाश्य = त्रि० प्र + काशि–कर्मणि यत्। १ प्रकाशनीये २ प्रायोग्यर्णशुद्ध्यादौ नवके न० काशी० १० अ०। नबनवकशब्दे ३९८८ पृ० दृश्यम्।
प्रकीर्ण = न० प्र + कॄ–कर्मणि क्त। १ चामरे जटा०। २ ग्रन्थविच्छेदे त्रिका०। ३ विक्षिप्ते ४ मिश्रिते विभिन्नजातीये त्रि०। ५ पूतिकरञ्जे पु० राजनि०। माघे क्त। भिन्नजातीयानां ६ मिश्रणे ७ विक्षेप्रे ८ विस्तारे च न०। स्वार्थे क। तत्रार्थे। अनुक्तप्रायश्चिक्षविशेषे पातकविशेषे षातकशब्दे ४२९९ पृ० विष्णुवाक्यम् दृश्यम्। “अनुक्तं तत्प्रकीर्णकम्” अनुक्तमनुक्तनिष्कृतिकं पापं प्रकीर्णकमित्यर्थः। “अनुक्तनिष्कृतीनां तु पापानामपनुत्तये। शक्तिञ्चावेक्ष्य पापञ्च प्रायश्चित्तं प्रकल्पयेत्” विश्वामित्रः “प्रकीर्णपातके ज्ञात्वा गुरुत्वममथ लाघवम्। प्रायश्चित्तं बुधः कुर्य्यात् ब्राह्मणानुमतः सदा” विष्णुः। “क्रयविक्रयदुष्टभोजनप्रतिग्रहेषुं अनादिष्टप्रायश्चित्तेषु चान्द्रायणं प्रजापत्यं वा” शङ्खलिखितौ। भट्टिकाव्ये नानाजातीयप्रत्ययोदाहरणबोधककाण्डं प्रकीर्णकाण्डम्। संज्ञायां कन्। तुरङ्गमे पुंस्त्री० स्त्रियां जातित्वात् ङीष्।
प्रकीर्य्य = पु० प्रकीर्य्यतेऽसौ प्र + कृ–क्यप्। (लाटाकरमचा) १ करञ्जभेदे अमरः। २ घृतकरञ्जे (रीठाकरमचा) राजनि०। ३ विक्षेप्ये ४ व्याप्ये च त्रि०।
प्रकुञ्च = पु० “प्रकुञ्चः षोडशी विश्वं पलमेवात्र कीर्त्त्यते” भावप्र० उक्ते पलरूपे मानभेदे। “चूर्णप्रकुञ्चम्” इत्यादि सुश्रुतः
प्रकुल = न० प्र + कुल–कर्त्तरि क। प्रशस्तदेहे त्रिकाण्डशेषः।
प्रकूष्माण्डी = स्त्री दुर्गायां हेमच०।
प्रकृत = त्रि० प्र + कृ–क्त। १ अधिकृते २ आरब्धे ३ प्रकरणप्राप्ते च। ४ ऋषिभेदे पु०। प्रकृतस्यर्षेर्गोत्रापत्यम् अश्वा० फञ्। प्राकृतायन तद्गोत्रापत्ये पुंस्त्री०।
प्रकृति = स्त्री प्र + कृ–कर्त्तरि क्तिच् भावादौ क्तिन् वा। १ स्वभावे २ योनौ ३ लिङ्गे ४ स्वाम्यमात्यादौ राज्याङ्गे अमरः। ५ शिल्पिनि हेम०। ६ शक्तौ ७ योषिति शब्दर०। ८ परमात्मनि धरणिः। १० आकाशादिभूतपञ्चके ११ करणे १२ गुह्ये १३ जन्तौ च १४ एकविंशत्यक्षरपादके छन्दोभेदे। १५ मातरि १६ प्रत्ययनिमित्ते शब्दभेदे तल्लक्षणं शब्द० प्र० उक्तं यथा “स्वोपस्थाप्ययदर्थस्य बोघने यस्य निश्चयः। तत्त्वेन हेतुरथवा प्रकृतिः सा तदर्थिका। तत्त्वेन यन्निश्चयत्वेन स्वोपस्थाप्ययादृशार्थस्यान्वयबोधं प्रति स्वाव्यवहितोत्तरत्वसंसर्गेण यादृशशब्दवत्तानिश्चयत्वेन हेतुत्वं तादृश एव शब्दस्तथाविधार्थे प्रकृतिरिति तु फलितार्थः। बहुगुडो द्राक्षेत्यादौ बहुजाद्यर्थस्यान्वयबोधं प्रति गुडादिपदधर्मिकवहुजादिनिश्चयत्वेन न हेतुत्वमपि तु सुबादिधर्मिकबहुगुडादिपदनिश्चयत्वेन अन्यथा केवलाद्रपि वहुगुडादिशब्दात् द्राक्षादौ बहुजाद्यर्थस्यान्वयबोधापत्तेरिति न तत्र प्रसङ्गः”। “निरुक्ता प्रकृतिर्द्वेधा नामधातुप्रभेदतः। यत् प्रातिपदिकं प्रोक्तं तन्नाम्नो नातिरिच्यते। निरुक्ता न तु सांख्यानामिव जगदुपादानभूता। यच्च पाणिनिप्रभृतिभिः प्रातिपादिकं प्रकृतिरित्युक्तं तदपि नाम्नो नातिरिच्यते नातो विभागन्यूनता”। वैयाकर्णमते तल्लक्षणन्तु शब्दार्थरत्नेऽस्माभिरुक्तं यथा “एवं प्रकृतिप्रत्ययादिसमुदायरूपपदस्वरूपे तद्विभागे च दर्शिते इदानीं तदवयवरूपप्रकृतिप्रत्ययस्वरूपविभागौ प्रदर्श्येते। तत्र प्रकृतिर्नाम अर्थावबोधहेतुः प्रत्ययविधानावधिभूतः शब्दविशेषः सर्वेषामेव च प्रत्ययानां प्रकृतिं निमित्तीकृत्यैव विधानात्। प्रत्ययानाञ्च प्रत्यायकत्वरूपेणैव निवेशः न तु वक्ष्यमाणप्रत्ययत्वेन तेन नान्योन्याश्रयः। अवधित्वञ्च पूर्वापरत्वरूपं ग्राह्यं तेन बहुजादेर्निमित्तप्रकृतौ नाप्रसङ्गः। वस्ततस्तु सिद्धान्ते वृत्तिशब्दानां समुदायशक्तिस्वीकारात् तद्धितादीमां निरर्थकत्वान्न तत्र प्रकृतिप्रत्ययादिविभागः। अत एव भाय्ये “तावेव सुप्तिङौ यौ ततः परौ भैव प्रकृतिराद्येति” सुप्तिङ्मात्रयोरेव प्रत्ययत्वमित्युक्तम्। ततोविधानाबधेः यौ परौ तावेव सुप्तिङौ या च तयोराद्या विधानाबधिभूता सैव प्रकृतिरिति तदर्थः। एतदभिप्रायेणैव हरिणा “यः शब्दः स्वेतरस्यार्थे स्वार्थस्यान्वयबोधने। यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः” इति प्रकृत्यादिलक्षणमुक्तम्। अत्र च पूर्वत्वं बोधकशब्दविधानावधित्वमेव बोध्यं भाष्यैकवाक्यत्वात् नत्वेतत्कारिकीपात्तपूर्वापरत्वं तथासति पचतीत्यादौ तिङांदेरेव धात्वर्थे स्वार्थप्रकारकान्वयबोधजनकत्वस्वीकारात् तत्रातिव्याप्तिः। एवञ्च निरुक्तपूर्वत्वरूपलक्षणेनैव प्रसङ्गातिप्रसङ्गादिवारणसम्भवे प्रकृतिप्रत्यययोरर्थबोधकत्वसाकाङ्क्षत्वद्योतनायैव यः शब्द इत्यादिकथनं बोध्यमेवञ्च यस्यार्थे इत्यत्र विशेष्यतया विशेषणतया वान्वयबोधने इत्यर्थः तेन सिद्धान्ते तिङर्थप्रकारकान्वयबोधेऽपि न क्षतिः। तथा च तदर्थान्वितस्वार्थबोधने तदपेक्षत्वे सति तद्विधानावधिभूतत्वं तत्प्रकृतित्वमिति फलितम्। एवञ्चावयशक्तिस्वीकारेऽपि बहुजादावतिप्रसंङ्गादिशङ्कापि नोदेति बहुजादेः प्रकृतिविधानावधित्वाभावात् अवधित्वस्य पूर्वापरत्वरूपस्य निवेशाच्च। अत एतत्पक्षे भाष्ये सुप्तिङ्शब्दौ प्रत्ययान्तरस्याप्युलक्षकाविति द्रष्टव्यम् तथा शेखरकारेणापि प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्तत्वमेव प्रकृतित्वमित्यभिदधे पूर्वसिद्धवस्तुन एव उद्देश्यत्वसम्भवात् पूर्वत्वमर्थायातं बहुजादेरपि सुप उद्देश्यत्वान्न किञ्चिद्दूषणमावहतीति। एवञ्च प्रकरोति प्रत्ययं बोधञ्चेतिव्युत्पत्तिमत्त्वात् प्रकृतिशब्दो योगरूढ इति बोध्यम्”। १७ उपादानकारणे “प्रकृतश्च दृष्टान्तानुपरोधात्” शा० सू० “सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी” हरिका०। १८ उपदिष्टसर्वाङ्गके कर्मभेदे। तदेतत् ताण्ड्य० भा० निर्णीतं यथा “ननु का प्रकृतिः का विकृतिरिति चेत् उच्यते यत्र कर्त्तव्यं सर्वं प्रकर्षेण कर्मान्तरनैरपेक्ष्येणोपदिश्यते सा प्रकृतिः यत्र विशेषरूपमेव कर्त्तव्यं श्रुत्योपदिश्यते इतरत् सर्वं कर्मान्तरादतिदिशते सा विकृतिः। सचातिदेशः प्रत्यक्षवचनाद्वा साम्याद्वा लिङ्गाद्वाऽवगन्तव्यः। तत् सर्वं सप्तमाष्टमाध्यायाभ्यां वहुधा विचारितम्। प्रकृतिश्च द्विविधा मूलप्रकृतिरवान्तरप्रकृतिश्चेति। सर्वात्मना कर्मान्तरामरपेक्षा मूसप्रकृतिः कतिपयेप्वङ्गेषु कर्मान्तरं चापेक्षते स्वयञ्च कैसित् कर्ममिरपेक्षणीया मषति सयमवान्तरप्रकृतिः। तत्र तिहोमूसप्रकृतयः ताश्चाष्टमाध्या- यस्य प्रथमपादे तृतीयाधिकरणस्य द्वितीयवर्णके विचारिताः। “इष्ट्यग्निहीत्रसोमानां मूलप्रकृतिता न हि। अस्ति वा नालौकिकत्वादियत्तानवधारणात्। लोकवत् सन्निपात्यारादुपकारिद्वयश्रुतेः। इयत्तायानिश्चितत्वान्मूलप्रकृतिता त्रिषु। अलौकिकत्वेनैतावद्भिरङ्गैः सम्पूर्ण उपकार इति निश्चेतुमशक्यत्वात् इष्ट्यादीनां नास्ति मूलप्रकृतित्वमिति चेत् मैवं लौकिकसदृशत्वात्। यथालोके भुजिक्रियायामोदनः करणं तस्य सन्निपत्योपकारिणः शाकसूपादयः, आरादुपकारिणः पीठप्रदीपादयः। तथा भावनायां यागः करणम् अवधातादयः सन्निपातिनः, प्रयाजादयः आरादुपकारिणः। अतो नात्यन्तिकमलौकित्वम्। इयत्ता लौकिके यथा प्रत्यक्षेण निश्चीयते तथा श्रौते श्रुत्या निश्चीयतां तस्मादिष्ट्यग्निहोत्रसोमानां मूलप्रकृतित्वमस्ति”। १९ सत्त्वरजस्तमसां साम्यावस्थायां साम्यावस्थोपलक्षिते सत्त्वादिगुणे। “सत्त्वं रजस्तमश्चैव गुणत्रयमुदाहृतम्। साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्त्तिता। केचित् प्रधानमित्याहुरव्यक्तमपरे जगुः। एतदेव प्रजासृष्टिं करीति विकरीति च” मात्स्ये ४ अ०। “सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः” सा सू०। “तेषां सत्त्वादिद्रव्याणां या साम्यावस्थाऽन्यूनानतिरिक्तावस्थान्यूनाधिकभावेनासंहतावस्थेति यावत् अकार्य्यावस्थेति निष्कर्षः। अकार्थ्यावस्थोपलक्षितं गुणसाम्यान्यं प्रकृतिरित्यर्थः। यथाश्रुते वैषम्यावस्थायां प्रकृतिनाशप्रसङ्गात् “सत्त्वं रजस्तम इति एषैव प्रकृतिः सदा। एषैव संसृतिर्जन्तोरस्याः पारे परं पदम्” इत्यादि स्मृतिभिर्गु णमात्रस्यैव प्रकृतित्ववचनाच्च। सत्त्वादीनामनुगमाय सामान्येति। पुरुषव्यवर्त्तनाय गुणेति। महदादिव्यावर्तनाय चोपलक्षितान्तमिति। महदादयोऽपि हि कार्य्यसत्त्वादिरूपाः पुरुषोपकरणतया गुणाश्च भवन्तीति। तदत्र प्रकृतेः स्वरूपमेवोक्तम्। अस्या विशेषस्तु पश्चाद्वक्ष्यते” प्र० भा०। “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तु विकारो न प्रकृति र्न विकृतिः पुरुषः” सां० का०। “संक्षेपतो हि शास्त्रार्थस्य चतस्त्रो विधाः। कश्चिदर्थः प्रकृतिरेव, कश्चित् विकृतिरेव, कश्चित् प्रकृतिविश्चतिः कश्चिदनुभयरूप इति। तत्र का प्रकृतिरेवेत्यत सत्त्वम् नूलप्रकृतिरविक्ततिरिति तृकरोतीति प्रषतिः प्रभानं सत्त्वरस्य- स्तमसां साम्यावस्था सा अविकृतिः। प्रकृतिरेवेत्यर्थः कस्मादित्यत उक्तम् मूलेति मूलञ्चासौ प्रकृतिश्चेति मूलप्रकृतिः विश्वस्य कार्य्यसंघातस्य सा मूलं नत्वस्या मूलान्तरमस्तीति भावः। कतमाः पुनः प्रकृतिविकृतयः कियत्यतश्चेत्यत उक्तम् महदाद्याः प्रकृतिविकृतयः सप्तेति प्रकृतयश्च ता विकृतयश्च ता इति। तथा हि महत्तत्त्वमहङ्कारस्य घ्रकृतिर्विकृतिश्च मूलप्रकृतेः। एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणाञ्च प्रकृतिर्वकृतयश्च महतः। एवं पञ्चतन्मात्राणि भूतानामाकाशादीनां प्रकृतयो विकृतय श्चाहङ्कारस्य। अत्र विकृतिरेव कियती चेत्यत उक्तं षोडशकस्तु विकार इति। षोडशसंख्यापरिमिती गणः षोडशकः तुशब्दोऽवधारणे भिन्नक्रमश्च पञ्चमहाभूतान्येकादशेन्द्रियाणि चेति षोडशको गणो विकार एव “न प्रकृतिरिति। यद्यपि च पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः एवं तद्विकारभेदानां दध्यङ्कु रादयस्तथापि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरं तत्त्वान्तरोपादानत्वञ्च प्रकृतित्वमिहाभिप्रेतमिति न दोषः सर्वेषां गोघटादीनां स्थूलतेन्द्रियग्राह्यता च समेति न तत्त्वान्तरत्वम्। अनुभयरूपमुक्तं तदाह न प्रकृतिर्न विकृतिः पुरुषः” इति त० कौ०। शब्दस्पर्शविहीनं तद्रूपादिमिरसंयुतम्। त्रिगुणं तत् जगद्योनिः” स्मृतिः। तदनुमापकाः कार्य्यभेदाः तद्धर्माश्च सा० सू० भाष्याद्युक्ता यथा “ततः प्रकृतेः” सा० सू० “ततो महत्तत्त्वात् कार्य्यात् कारणतया प्रकृतेरनुमानेन बोध इत्यर्थः। अन्तःकरणसामान्यस्यापि कार्य्यत्वं तावदेकदा पञ्चेन्द्रियज्ञानानुत्पत्त्या मध्यमपरिमाणतया-देहादिवदेव सिद्धं श्रुतिस्मृतिप्रमाण्याच्च। तस्य च प्रकृतिकार्यत्वेऽयं प्रयोगः। सुखदुःखमोहधर्मिणी बुद्धिः सुख दुःखमोहधर्मकद्रव्यजन्या कार्यत्वे सति सुखदुःखमोहात्मकत्वात् कान्तादिवदिति कारणगुणानुसारेणैव कार्य्यगुणौचित्यं चात्रानुकूलस्तर्कः श्रुतिस्मृतयोऽपीतिमन्तव्यम् भा० “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्” सू० कारणानुमापकत्वाल्लयगमनाद्वाऽत्र लिङ्गं कार्य्यजातम् न तु महत्तत्त्वमात्रमत्र विवक्षितं हेतुमत्त्वादीना मखिलकार्थ्यसाधारण्यात्। “हेतुमदनित्यमव्यापि सक्तियमनेकमाश्रितं लिङ्गम्। सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्” इति कारिकायामप्यत एव व्यक्ताख्यं सर्वं कार्यमेव लिङ्गमित्य क्तम्। तथा च तल्लिङ्गं हेतुमत्त्वा- दिधर्मकमिति वाक्यार्थः। तत्र हेतुमत्त्वं कारणवत्त्वम् अनित्यत्वं विनाशिता प्रधानस्य या व्यापिता पूर्वोक्ता तद्वैप्ररीत्यमव्यापित्वम्। सक्रियत्वमध्यवसायादिरूपनियतकार्य्यकारित्वम्। प्रथानस्य तु सर्वक्रियासाधारण्येन कारणत्वान्न कार्य्यैकदेशमात्रकारित्वम्। न च क्रिया कर्मैव वक्तुं शक्यते प्रकृतिक्षोभात् सृष्टिश्रवणेन प्रकृतेरपि कर्मवत्तया सक्रियत्त्वापत्तेरिति। अनेकत्वं सर्गभेदेन भिन्नत्वम्। सर्गद्वयासाधारण्यमिति यावत्। न पुनः सजातीयानेकव्यक्तिकत्वम् प्रकृतावति व्याप्तेः प्रकृतेरपि सत्त्वाद्यनेकरूपत्वात् “सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात्” इत्यागामिसूत्रादिति। आश्रितत्वं चावयवेष्विति” सा० प्र० भा०। एतद्विपरीतत्वमेव तद्धर्मत्वम्। २० प्रकृत्यंशदेवीपञ्चकरूपशक्तिभेदे “गणेशजननी दुर्गा १ राधा २ लक्ष्मीः ३ सरस्वती ४। सावित्री ५ च सृष्टिविधौ प्रकृतिः पञ्चमी स्मृता”। पकृतिशब्दनिरुक्तिर्यथा “प्रकृष्टवाचकः प्रश्च भृतिश्च सृष्टिवाचकः। सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्त्तिता। गुणे प्रकृथे सत्त्वे च प्रशब्दो वर्त्तते श्रुतौ। मध्यमे रजसि कृश्च तिशब्दस्तामसः स्मृतः। त्रिगुणात्मस्वरूपा या सर्वशक्ति समन्विता। प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते। प्रथमे वर्त्तते प्रश्च कृतिश्च सृष्टिवाचकः। सृष्टेराद्या च या देवी प्रकृतिः सा प्रकीर्त्तिता”। तस्या आविर्भूतिः स्वरूपञ्च यथा “योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः। पुमांश्च दक्षिणार्द्धाङ्गात् वामाङ्गात् प्रकृतिः स्मृता। सा च ब्रह्मस्वरूपा च यथा नित्या सनातनी। यथात्मा च यथाशक्तिर्यथाग्नौ दाहिका स्मृता। अत एव हि योगीन्द्रः स्त्रीपुंभेदं न मन्यते। सर्वं व्रह्ममयं व्रह्मन्। शश्वत् पश्यति नारद!। स्वेच्छामयं स्वेच्छय च श्रीकृष्णस्य सिसृक्षया। साविर्बभूव सहसा मूलप्रकृतिरीश्वरी। तथा ज्ञेया पञ्चविधा सृष्टिकर्मणि भेदतः। सर्वाः प्रकृतिसम्भूता उत्तमाधाममध्यमाः। सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च प्रतिव्रताः। मध्यमा राजसाश्चांशास्ताश्च भोग्याः प्रकीर्त्तिताः। सुखसम्भोगवश्याश्च स्वकार्य्ये तत्पराः सदा। अधमास्ताससाश्चांशा अजात कुलसम्भवाः। दुर्मुखाः कुलटा धूर्त्ताः स्वतन्त्राः कलहप्रियाः। पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः। प्रकृतेस्तामसांशास्ताः पुंश्चल्यः परिकीर्त्तिताः। एवं निगदितं सर्वं प्रकृतेः परिकीर्त्ततम्”। इति स्त्रीमात्रस्य प्रकृत्यंशतया प्रकृतिवाचकशब्दस्यैव प्रागुत्कीर्त्त्यत्वं निर्णीतं यथा “आदौ राधां समुच्चार्य्य पश्चात् कृष्णं विदुर्बुधाः। निमित्तमस्य मां भक्तं वद भक्तजनप्रिय!” श्रीनारायण उवाच “निमित्तमस्य त्रिविधं कथयामि निशामम। जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता। गरीयसीति जगतां माता शतगुणैः पितुः। राधकृष्णेति गौरीशेभ्येवं शब्दः श्रुतौ श्रुतः। कृष्णराधेशगौरीति लोके न च कदा श्रुतः। प्रसीद रोहिणीचन्द्र! गृहाणार्घ्यमिदं मम। गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर!। प्रसीद कमलाकान्त! गृहाण मम पूजनम्। इति दृष्टं सामवेदे कौथुमे मुनिसत्तम!। राशब्दोच्चारणादेव स्फीतो भवति माधवः। धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः। आदौ पुरुषमुच्चार्य्य पश्चात् प्रकृतिमुच्चरेत्। स भवेन्मातृगामी च वेदातिक्रमणे मुने!” व्रह्मवैपु० जन्म० ख० ५० अ०।
प्रकृतिज = त्रि० प्रकृत्या जायते जन–ड। १ स्वभावजे। प्रकृतिरूपेण जायते जन–ड। प्रकृतिस्वभावरूपे सांख्यमतसिद्धे सत्त्वादिगुणे “गुणाः प्रकृतिजामताः” गीता।
प्रकृतिधर्म = पु० ६ त०। सांख्यमतसिद्धे प्रकृतिधर्मभेदे स च प्रकृतिशब्दे हेतुमदनित्यादिविपरीतधर्मरूपेण दर्शितः। सुश्रुते तु “अत ऊर्द्धं प्रकृतिपुरुषयोः साधर्म्यवधर्ध्ये व्याख्यास्यामः। तद्यथा “उभावप्यनादी उभावप्यनन्तौ उभावप्यलिङ्गौ उभावपि नित्यौ उभावप्यपरौ उभौ च सर्वगताविति। एका तु प्रकृतिरचेतना त्रिगुणा वीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति। वहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अवीजधर्मिण्णोऽप्रसवधर्मिणो भध्यस्थधर्मिणश्चेति”।
प्रकृतिमण्डल = न० ६ त०। १ राज्याङ्गेषु स्वाम्यमात्यादिषु २ प्रजासमुदाये च रघुः ८। २ श्लोकव्या० मल्लिनाथः।
प्रकृतिवत् = अव्य० प्रकृत्या तुल्यम् प्रकृति + वति। व्याकरणप्रसिद्धे आदिश्यमानस्य प्रकृतिभूतस्थानितुल्यकार्य्ये।
प्रकृत्यादि = पु० प्रकृतिशब्द आदिर्यस्य। सर्वविभक्त्यपवाद तृतीयानिमित्ते शब्दगणे स च गणः “प्रकृति प्राय गोत्र सम विषम द्विद्रोण पञ्चक साहस्र”। प्रकृत्या प्रावेण याज्ञिकः इत्यादि। आकृतिगणीऽयम्। तेन नाम्नासुतीक्ष्णश्चरितेन दान्तः” भट्टिः इत्थादि।
प्रकृष्ट = त्रि० प्र + कृष–क्त। उत्कर्षयुक्ते हेमच०।
प्रकृष्य = त्रि० प्र + कृप्र–कर्मणि क्यप्। मूमिसंलग्नतया कर्षणीये “उलूखलबुध्नो यूपः प्रकृष्यः” कात्या० श्रौ० २४। ५। २७। प्रकृष्य देशान्तरनयनेन प्रकर्षणीयः भूमिसंलग्नतया प्रेरणीयो न तु उत्पाठेनेति तदर्थः।
प्रकॢप्ति = स्त्री प्र + कृप–भावे क्तिन्। उपकॢप्तौ विद्यमानतायां कात्या० १। ८। २२
प्रकेत = त्रि० प्र + कित–णिच्–अच्। १ प्रकर्षेण ज्ञापके ऋ० १। ११३। १ भा०। प्रकर्षेण कं सुखमीयतेऽनेन प्र–ई–बा० करणे क्त। २ प्रकृष्टसुखसाधने यजु० १५। ६० वेददीपः।
प्रकोथ = पु० प्र + कुथ–पतितत्वे भावे घञ्। १ प्रकृष्टपतने २ संशोषे च “शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः सर्वं प्रकोथमुपयात्यवदीर्य्यते च” सुश्रुतः।
प्रकोष्ठ = पु० प्रगतः कोष्ठं प्रा० स०। कूर्परस्याधोभागस्थे मणिवन्धपर्यन्ते १ हस्तावयवे २ गृहद्वारपिण्डे च अमरः। गृहाभ्यन्तरप्रदेशभेदे मुकुटः।
प्रक्ख(क्ष)र = पु० प्रखर + पृषो० प्र + क्षर अच् वा। १ अश्वसन्नाहे शब्दमाला तत्र द्विधा पाठा। २ कुक्कुरे ३ अश्वतरे च ४ अत्यन्ततीव्रे त्रि० येदि०।
प्रक्रम = पु० प्र + क्रम–भावे घञ्। १ उपक्रमे अमरः २ प्रथमा रम्भे ३ अवसरे मेदि० भग्नप्रक्रमः काव्यदोषभेदः। भावे ल्युट्। प्रक्रमण–तत्रार्थे प्रकर्षेण क्रमणे न०।
प्रक्रान्त = त्रि० प्र + क्रम–क्त। १ आरब्धे २ प्रकरणप्राप्ते
प्रक्रिया = स्त्री प्र + कृ–भावे श। १ प्रकरणे “सा प्रक्रिया या कममित्यपेक्षा” पार्थ सारथिमिश्रः। २ अधिकारे नृपादीनां चामरव्यजनच्छत्रधारणादिव्यापारे च ३ शव्दपयोगसाधनावस्थायाम् ४ पक्षप्रतिपक्षयो० प्रवृत्तौ गौतमसू० ५। १। १६ शवरमा०।
प्रक्लिन्न = त्रि० प्र + क्लिद–कर्त्तरि क्त। १ तृप्ते जटा० २ बहुक्लेदथुक्ते त्रि०।
प्रक्व(क्वा)ण = पु० प्र + क्वण–भावे घञ् अप् वा। वीणादेः क्वणिते शब्दे अमरः।
प्रक्षाल = त्रि० प्रक्षालयति क्षालि–अच्। शोधके प्रायश्चित्ते न० “परिपृष्टिका वैथसिकास्त्वप्रक्षालास्तथैव च” (यतयः) भा० आश्व० ९२ अ०। “अप्रक्षालाः (निष्पापतथा) शीपकहीनाः नीलकण्टः। अत्र मुद्रितपुस्तके “परिघृ० ष्टिका वैद्यसिकास्त्वप्रख्यालास्तथैव च” इत्यपपाठः
प्रक्षेप = पु० प्र + क्षिप–भावे घञ्। १ अर्पणे २ बहुद्रव्यमध्ये अपराल्पांशनिवेशने च।
प्रक्ष्वेडन = पु० प्र + क्ष्वे ड–ल्यु। नाराचास्त्रे हेमच०।
प्रख्या = स्त्री प्र + ख्या–भावे अङ्। १ यिख्यातौ २ उपमायां च उत्तरपदस्थः वहु०। उपमायुक्ते यथा वज्रप्रख्यः इत्यादि
प्रख्यात = त्रि० प्र + ख्या–क्त। विख्याते सुप्रसिद्धे।
प्रख्यातवप्तृक = पु० प्रख्यातो वप्ता जनयिता यस्य कप्। विख्यातपितृके अमुष्यपुत्रे हेमच०।
प्रख्यास् = पु० प्र + चक्ष–असि “बहुलं शिच्च” इत्युक्तेर्न शित् तेन ख्यादेशः। प्रजापतौ उज्ज्वल०।
प्रगण्ड = पु० गडि–वदनैकदेशे अच् प्रकृष्टो गण्डः अवयवः प्रा० स०। १ कूर्परोपरिकक्षपर्य्यन्तभागे अमरः। दुर्गप्राकारभित्तौ २ शूराणां निवेशनस्थाने च स्त्री गौरा० ङीष्। “सञ्चारो यत्र लोकानां दूरादेववबुध्यते। प्रगण्डी सा च विज्ञेया बहिःप्राकारसंज्ञिता। प्रणिधिस्तत्र यत्नेन कर्त्तव्यो भूतिमिच्छता। स एवाकाशरक्षीति ह्युच्यते शस्त्रकोविदैः” भा० टी० धृतवाक्यम्। “प्रगण्डीः कारयेत् सम्यगाकाशजननीस्तथा” भा० शा० ६९ अ०। “प्रगण्डीर्दुर्गप्राकारभित्तौ शूराणासुपवेशनस्थानानि। आकाशजननीस्तत्रैवैककक्षायां भित्तौ तत्रत्यानां रक्षणभूतायां बाह्यार्थदर्शनार्थानि क्षुद्रछिद्राणि यद्द्वारा आग्नेयास्त्रगुलिकाः प्रक्षिप्यन्ते” नीलकण्ठः।
प्रगतजानु(क) = त्रि० प्रगते परस्परमसंशिष्टे जानुनी यस्य वा कप्। असंहतजानुके प्रज्ञौ यस्य जानुनोर्मध्ये महदन्तरालं तस्मिन् अमरः।
प्रगदिन् = त्रि० प्रगदति बा० शीलार्थे इनि। प्रकर्षेण कथनशीले स्त्रियां ङीप् ततः प्रगद्या० चतुरर्थ्यां ञ्य। प्रागाद्य तददूरदेशादौ त्रि०।
प्रगद्यादि = पु० चतुरर्थ्यां ञ्यपत्ययनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा “पगदिन् मगदिन् मगदिन् कविल खण्ठित गदित चूडार मडार मन्दार कोविदार”
४४९९ पृष्ठस्थप्रसाधनशब्दस्य परिशिष्टम्
प्रसाधनीकरणप्रकारश्च युक्तिकल्पतरावुक्तो यथा
“प्रसाधनी दिङ्नवनागसप्तसंख्याभिरुक्ताङ्गुलिभिः क्रमेण। चतुर्विधानां पृथिवीपतीनां सम्पत्तिसौभाग्ययशःसमृद्विदा। काष्ठजा घातुजा चैवा शृङ्गजा च यथाक्रममु। जाङ्गलानूपसामान्यदेशजानां महीभुजाम्। छत्रदण्डवदुन्नेयः काष्ठजाया विनिश्चयः। कनकं रजतं ताम्रं पित्तलं सीसकं तथा। लौहं सर्वञ्च सर्वार्द्धमादित्यादिदशाभुवाम्। राज्ञामेवोपयुज्येत कालकीर्त्तिप्रसाधनी। मृगाणां महिषाणाञ्च शृङ्गजाता प्रसाधनी। गजदन्तसमद्भूता राज्ञामेवोपयुज्यते। अत्रापि रत्नविन्यासो ज्ञेयश्चामरदण्डवत्”
४५०४ पृष्ठस्थप्राकृतशब्दस्य परिशिष्टम्
प्राकृतभाषा च अष्टादशभाषामध्ये भाषाभेदः। ताश्चा ष्टादश सा० द० उक्ता यथा “पुरुषाणामनीचानां संस्कृता १ स्यात् कृतात्मनाम्। शौरसेनी २ प्रयोक्तव्या तादृशीनाञ्च योषिताम्। आसामेव तु गाथासु महाराष्ट्रीं ३ प्रयोजयेत्। अत्रोक्ता मागधी ४ भाषा राजान्ताःपुरचारिणाम्। चेटानां राजपुत्राणां श्रेष्ठिनां चार्द्रमागधी ५। प्राच्या ६ विदूषकादीनां धूर्त्तानां स्यादवन्ति का ७। योधनागरिकादीनां दाक्षिणात्या ८ हि दीव्यताम्। शकाराणां शकादीनां शाकारीं ९ सम्प्रयोजयेत्। बाह्लीकषाषा १० दिव्यानां द्राविडी ११ द्रविडादिषु। आभीरेषु तथाऽऽभीरी १२ चाण्डाली १२ पुक्कसादिषु। आभीरी शावरी १४ चापि काष्ठपत्रोपजीविषु। तथैवाङ्गारकारादौ पैशाची १५ स्यात् पिशाचवाक्। चेटीनामप्यनीचानामपि स्यात् शौरमेनिका १६। बालानां षण्ड कानाञ्च नीचग्रहविचारिणाम्। उन्मत्तानामातुराणां सैव स्यात् संस्कृता क्वचित्। ऐश्वर्य्येण प्रमत्तस्य दारिद्र्योपस्कृतस्य च। भिक्षुबन्धरादीनां प्राकृतां १७ सम्प्रयोजयेत्। संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषुत्तमासु च। देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम्। यद्देशं नीच० पात्रन्तु तद्देशं तस्य भाषितम् १८। कार्य्यतश्चोत्तमादीनां कार्य्यो भाषाविपर्य्ययः। योषिन्महीपालवेश्या कितवाप्सरसां तथा। वैदग्ध्याथं प्रदातव्यं संस्कृतं च्यन्तरान्तरा”। तत्तद्भाषालक्षणानि भाषार्णवे दृश्यानि।
४५२२ पृष्ठस्थ प्रातर्शब्दस्य परिशिष्टं
“प्रहरोऽप्यर्द्धसंयुक्तः प्रातरित्यभिधीयते” नि० सि० गार्म्योक्ते वृद्धिश्राद्धाङ्गे ३ सार्द्धप्रहरात्मके काले।
प्रगन्ध = पु० प्रकृष्टो गन्धोऽस्य। १ पर्पटे राजनि०। २ प्रकृष्टगन्धयुक्ते त्रि०।
प्रगल्भ = त्रि० प्र + गल्भ–अच्। १ प्रत्युत्पन्नमतौ २ प्रतिभान्विते च अमरः। २ नायिकाभेदे स्त्री तल्लक्षणादि नायिकाशब्दे ४०४३ पृ० दृश्यम्।
प्रगल्भता = स्त्री प्रगल्भस्य भावः तल्। १ औद्धत्ये २ उत्साहे च हेमच०। “निःशङ्कता प्रयोगेषु बुधैरुक्ता प्रगल्भता” उज्ज्वलमण्युक्ते प्रयोगेषु ३ निःशङ्कत्वे च ४ प्रतिभान्वितत्वे च।
प्रगाढ = त्रि० प्रकर्षेण गाढम् गाह–क्त। १ अत्यन्तभृशे २ कृच्छ्रे च अमरः। ३ दृढे भरतः।
प्रगातृ = त्रि० प्र + गै तृच्। उत्तमगायके शब्दरत्ना०।
प्रगाथ = पु० प्र + ग्रन्थ–बा० आधारे घञ् “छन्दसः प्रगाथेषु” निर्देशात् नि० नरयोर्लोपे उपधावृद्धिः। वेदे द्वे ऋचौ यत्र तिस्रः क्रियन्ते १ तत्रार्थे विस्तरस्तु सामसंहिताभाष्ये दृश्यः। दिङ्मात्रं ततः समाहृत्येहोच्यते। “काकुभः प्रगाथः” इत्यत्र प्रगाथशब्दार्थपर्य्यालोचनेनापि ग्रथनं गम्यते प्रकर्षेण ग्रथनं यत्र स प्रगाथः प्रकर्षो नाम आ- म्नातादृकपाठादाधिक्यम्, तच्च पूर्वोक्तरीत्या पादाभ्यासपुरःसरमृगन्तरसम्पादनेनोपजायते। तस्मान्नोत्पत्तिककुभौ ग्रहीतव्ये किन्तर्हि प्रग्रथेन द्वे उत्तर ककुभौ सम्पाद्य तासु तिसृषु रथन्तरं गातव्यम्। रौधसनामकं किञ्चित् साम तथा यौधाजयनामकमपरम् तयोः साम्नोर्वृहतीच्छन्दस्कस्तृच आश्रय इति उत्तराग्रन्थे तु तस्य सासद्बयस्याश्रय एकः प्रगाथः आम्नातः तस्यिंश्च प्र० भाथे पुनानः सोमेत्यसावृक प्रथमा सा च वृहती “दुहान उधदिव्यमिति” द्वितीया सा तु विष्टारपङ्क्तिः तामेतां विष्टारपङ्क्तिमपनीय तस्याः स्थाने उत्पत्तिवृहत्यौ द्वे ऋचौ आनेतव्ये इति पूर्वपक्षः। वृहतीविष्टारपङ्क्त्याः प्रग्रथनविशेषेण द्वे वृहत्यावुत्तरे सम्पादनीये इति राद्धान्तः। प्रगाथत्वेन ध्येये २ मन्त्रे च यजु० १९। २४ वेददी०
प्रगुण = त्रि० प्रस्तती गुणो यत्र प्रकृष्टो गुणो यस्य वा प्रा० ब० १ ऋजतावति २ दक्षे च अमरः। प्रकृष्टगुणोऽप्यत्र।
प्रगृह्य = न० प्र + ग्रह–क्यप्। व्याकरणीक्ते खरसन्धिराहित्ययोग्ये १ पदभेदे २ स्मृतौ ३ वाक्ये च अमरः।
प्रगे = अव्य० प्रगीयतेऽत्र प्र + गै–के। अतिप्रातःकाले अमरः। तत्र भवः ट्यु तुट् च। प्रगेतन प्रातर्भवे त्रि० राजनि०
प्रगेनिशा = त्रि० प्रगे प्रातः कालो निशेव स्वापहेतुर्यस्य। प्रातःकालशायिनि। “उत्सूर्य्यशायिनश्चासन् सर्वे चासन् प्रगेनिशाः” भा० शा० २२८ अ०।
प्रग्रथन = न० प्रकर्षेण ग्रथने। प्रगाथशब्दे दृश्यम्।
प्रग्रह = पु० प्र + ग्रह कर्मकरणादौ पक्षे अप्। १ तुलासूत्रे २ हयादिसंयमनरज्ज्वौ ३ वन्द्यां च अमरः। ४ नियमने ५ भुजे ६ सुवर्णालवृक्षे मेदि०। ७ कर्णिकारवृक्षे राजनि०। प्र + ग्रह–कर्त्तरि अच्। ८ विष्णौ “प्रग्रहो निग्रहो व्यग्रः” विष्णुस० “भक्तैरुपाहुतं पत्रपुष्पादिकं प्रगृह्णातीति प्रग्रहः” भा०।
प्रग्राह = पु० प्र + ग्रह–कर्मकरणादौ वा घञ्। १ तुलासूत्रे २ हयादिसंयमनदामनि च अमरः।
प्रग्रीव = पु० न० प्रकृष्टा ग्रीवा यस्य। १ गृहादौ प्रान्तधार्य्यादारुपङ्क्तौ २ वातायने सुभतिः ३ वृक्षशीर्य्यके गोवर्द्धनः। ४ प्रकृष्टग्रीवान्विते त्रि०।
प्रघटाविद् = पु० प्रकृष्टा घटा आडम्बरः तां वेत्ति विद–क्विप्। शास्त्रगण्डे शास्त्राभिज्ञे त्रिका०।
प्रघट्टक = पु० प्र + घट्ट–ण्वुल्। एकार्थप्रतिपादनार्थग्रन्थावयवभेदे सां० प्र० भाष्ये दृश्यम्।
प्रघ(घा)ण(न) = पु० प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते हन–कर्मणि घञ् अप् वा णत्वम्। १ अलिन्दै अमरः। २ प्रकोष्ठे सि० कौ०। अबन्तः ३ ताम्रकुम्भे ४ लोहमुद्गरे च मेदि०। मुकुटमतेऽयमणत्वमध्यः।
प्रघस = पु० प्र + अद–अप् घसादेशः। १ प्रकृष्टभक्षणे २ राक्षसभेदे पु० भा० व० २८४ अ० ३ असुरे ४ दैत्ये च त्रिका० कुमारानुचरमातृभेदे स्त्री भा० श० ४७ अ०।
प्रघात = न० प्रहन्यतेऽत्र हन–आधारे घञ्। १ युद्धे हेमच० भावे घञ्। २ प्रहनने पु०।
प्रघास = पु० प्र + घस–कर्मणि घञ्। प्रकर्षेण भक्षणीये हविरादौ वरुणप्रघासश्चातुर्मास्ययागभेदः। प्रघासोऽस्यास्ति भूम्ना इनि। प्रघासिन् मरुत्सु “प्रघासिनोहवामहे मरुतश्च” यजु० ३। ४४ वेददीषे दृश्यम्।
प्र(प्रा)घुण = पु० प्र ( + आ + वा) घुण–क। अतिथौ हेमच०।
प्रघूर्ण = पु० प्र + घूर्ण–अच्। अतिथौ हेमच०।
प्रघोष = पु० प्र + घुष–भावे घञ्। १ प्रकृष्टघोषणे अल्पार्थे कन्। २ अव्यक्तशब्दे ध्वनौ जटा०।
प्रचक्र = न० प्रगतश्चक्रं प्रा० स०। स्वचक्रात् परचक्रं प्रति चलिते सैन्ये असरः।
प्रचक्षस् = पु० प्र + चक्ष–असि न ख्यादेशः। वृहस्पतौ उणादि०
प्रचण्ड = त्रि० प्रकर्षेण चण्डः प्रा० स०। १ दुर्द्ध्वर्षे २ दुर्वहे ३ दुरन्ते ४ प्रतापान्विते च ५ श्वेतकरबीरे पु० मेदि० ६ दुर्गाया नायिकाभेदे स्त्री “उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका” कालिकापु०। ७ श्वेतदुर्वायां स्त्री राजनि०।
प्रचण्डमूर्त्ति = पु० प्रचण्डा मूर्त्तिरस्य। १ वरुणवृक्षे २ भयानकदेहे त्रि० शब्दच०।
प्रच(चा)य = पु० प्र + चि- “हस्तादाने चेरस्तेये” पा० हस्तादाने अस्तेये घञ् अन्यत्र “एरच” पा० अच्। तत्र अजन्तः यष्ट्यादिना वृक्षाग्रस्थानां पुष्पाणां १ चयने २ ससूहे शब्दच० ३ उपचये ४ शिथिलसंयोगभेदे परिमाणशब्दे ७२५० पृ० दृश्यम् “संख्यातः परिमाणाच्च प्रचयादपि जायते। प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते। परिमाणन्तूलकादौ नाशस्त्वाश्रयनाशतः” भाषा० हस्तादाने तु घञ्। हस्तेन पुष्यप्रचाय इत्येव चौर्य्ये तु अच्। प्रचय इत्येव चौर्येण हस्तेन पुष्पादेश्चयने।
प्रचर = पु० प्र + चर + गोचरप्रचरौ नि० आधारेअप्। मार्गे धरणिः।
प्रचल = त्रि० प्र + चल–अच्। प्रकृष्टचलनयुक्ते चञ्चले।
प्रचलक = पु० प्र + चल + बा वुन्। कीटभेदे सुश्रुतः कीटशब्दे २०५८ पृ० दृश्यम्।
प्रचलाक = पु० प्र + चल–बा० आकन्। १ शराघाते २ मयूरशिस्वण्डे ३ भुजङ्गमे पुंस्त्री० मेदि० स्त्रियां ङीप्।
प्रचलाकिन् = पु० प्रचलाक + मत्वर्थे इनि। मयूरे त्रिका०।
प्रचलाय = नामघातुः प्रचल + भृशा० अभूततद्भावे क्यङ् आ० अक० सेट्। प्रचलायते अप्रचलायिष्ट प्राचलायिष्ट इत्यन्ये
प्रचलाषित = त्रि० प्रचलाय + नामधातुः कर्त्तरि क्त। निद्रादिना घूर्णिते अमरः।
प्रचायिका = स्त्री प्र + चि + भावे ण्वुच्। १ परिपाट्या पुष्पादेश्चयने। प्र + चि–ण्वुल् टाप् कापि अत इत्त्वम्। प्रचयनकर्त्त्यां २ स्त्रियां स्त्री।
प्रचार = पु० प्र + चर–भावे घञ्। १ प्रसरणे २ गतौ ३ प्रकाशे च। ततः तारका० इतच्। प्रचारित सञ्जातप्रचारे त्रि०। प्रकाशिते च।
प्रचाल = पु० प्रकृष्टचालः। यूपस्य कटकभेदे। भा० द्रो० ६१ अ०।
प्रचिकीर्षु = त्रि० प्र + कृ–सन् + उ। प्रतीकारेच्छौ भाग० ४। १०। १४
प्रचित = त्रि० प्र + कर्मणि क्त। १ कृतप्रचयने पुष्पादौ स्वार्थे क तत्रार्थे। २ प्रचयस्वरयुक्ते त्रि०। संज्ञायां कन्। दण्डकभेदे “प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डकी नद्वयादुर्त्तरैः” वृ० र०।
प्रचीबल = न० प्रचेयं बलं यत्र पृषो०। वीरणे (वेणार मूल) सुश्लतः।
प्रचीर = पु० वत्सप्रीनृपस्य १ सुनन्दागर्भजाते २ पुत्रे नृपभेदे मार्कपु० ११८ अ०।
प्रचुर = त्रि० प्र + चुर–क प्रगतश्चुराया वा प्रा० त०। १ चौरे २ बहुले अमरः।
प्रचुरपुरुष = पु० प्र + चुर–क नित्यक०। चौरे त्रिका०।
प्रचेतसी = स्त्री प्रकर्षेण चेतयति सूर्च्छितं चित–णिच्–असच् गौरा० ङीष्। कट्फले राजनि० तच्चूर्णस्य हि मूर्च्छानाशकता वैद्यकप्रसिद्धेति तस्यास्तथात्वम्।
प्रचेतस् = पु० प्र + चित–असुन्। १ वरुणे कमरः। २ सुनिभेदे ३ प्रकृष्टहृदये त्रि० मेदि०। ४ अनुवंश्ये नृपभेदे हरिवं० ३२ अ०। ५ प्राचीनबर्हिषः सामुद्रीभार्य्यायां जातेषु पुत्रेषु राजभेदेषु ब० व०। हरिवं० २ अ०। ६ प्रकृष्टज्ञानयुक्ते ऋ० २। २३। २ भा०।
प्रचेतृ = त्रि० प्र + चि–तृच्। १ प्रचयनकर्त्तरि २ सारथौ पु० हेमच०
प्रचेतुन = त्रि० प्र + चित–उन। प्रकृष्टज्ञानयुक्ते ऋ० १। २१। ६
प्रचेल = न० प्र + चिल–चेल–वा अच्। पीतकाष्ठे शब्दच०।
प्रचेलक = पुंस्त्री० प्र + चेल–गतौ ण्वुल्। १ घोटके शब्दमा०। स्त्रियां जातित्वात् ङीष्। २ प्रकृष्टगतियुक्ते त्रि० स्त्रियां टाप्।
प्रचोदक = त्रि० प्र + चुद–प्रेरणे ण्वुल्। १ प्रेरके स्त्रियं टापि अत इत्त्वम्। प्रचोदिका। सा च दुःसहस्त नियोजिताख्यायां कन्यायां जाते २ कन्याभेदे मार्कपु० ५१ अ०।
प्रचोदनी = स्त्री प्रचीद्यते अपसार्य्यते रोगोऽनया चुद–णिच् ल्युट् ङीप्। १ कण्टकारिकायाम् अमरः। भावे ल्युट्। २ प्रेरणे न०।
प्रच्छ = जिज्ञासायां तु० पर० द्विक० अनिट्। पृच्छति अप्राक्षीत्। पप्रच्छ। द्विकर्मकत्वेन दुहादि० गोणे कर्मणि लकारादि। पृच्छ्यते शिष्येण गुरुः धर्मं, जिज्ञासाविषयकज्ञानानुकूलव्यापारः कथं धर्म आचरितव्य इमित्यभिलापादिः पृच्छेरर्थः, ज्ञानविषयत्वेन धर्मस्य, तज्ज्ञानाश्रयत्वाच्च गुरोः कर्मत्वम्।
प्रच्छद् = न० प्रच्छादयति प्र + छादि–क्विप् ह्रस्वः। अन्ने “अन्नं वा प्रच्छच्छन्दोऽन्नं प्रच्छद् इति श्रुतेः” यजु० १ ५। ५ वेददीपे दृश्यम्।
प्रच्छद = पु० प्रच्छाद्यतेऽनेन प्र + छद–णिच्–करणेघ ह्रस्वः। आच्छादने वस्त्रादौ।
प्रच्छदपट = पु० प्रच्छाद्यतेऽनेन प्र + छद–णिच्–घ ह्रस्वः कर्म०। (पाचुडि) प्रावरणवस्त्रे अमरः।
प्रच्छना = स्त्री प्रच्छ + वा० ल्यु। आमन्त्रणे जटा०।
प्रच्छन्न = न० प्र + छद्र–क्त। १ गुप्तद्वारे २ अन्तर्द्वारे। ३ आच्छन्ने त्रि० अमरः।
प्रच्छर्दन = न० प्र + छर्द–भावे ल्युट्। १ वमने २ कोष्ठ्यस्य वायोर्नासिकापुटाभ्यां निःसारणप्रयत्नभेदे रेचने “प्रच्छर्दनविधारणाभ्यां वा प्राणस्य” पात० सूत्रे भाष्यं दृश्यम्। कुम्भकशब्दे २११४ पृ० दृश्यम्।
प्रच्छर्दिका = स्त्री प्र + छर्द–रोगाख्यायां ण्वुल्” पा० ण्वुल् तदन्तः स्त्री। १ वमनरोगे अमरः। कर्त्तरि ण्वुल्। २ प्र च्छर्दके वमनकारके त्रि० स्त्रियां टाप् कापि अत इत्त्वम्।
प्रच्छाद्रन = न० प्रच्छाद्यतेऽनेन छद–णिच्–ल्युट्। १ उत्तरीयवस्त्रे हेमच० भावे ल्युट्। २ आच्छादने “नवोदके नवान्ने च गृहप्रच्छादने तथा” स्मृतिः।
प्रच्छान = न० प्र + च्छो–भावे ल्युट्। १ प्रकृष्टच्छेदने २ सुश्रुतोक्ते शस्त्रविस्रावणभेदे “तच्च द्विविधं शस्त्रविस्रावणं सिराव्यधनञ्च” सुश्रुतः।
प्रच्छिल = त्रि० प्रच्छ वा० इलच्। निर्जले जलशून्ये हेमच०
प्रच्यय = पु० प्र + च्यु–अच्। १ प्रच्युतियुते। भावे अप्। २ प्रक्षरणे स्यभावक्षरणे “प्रकृतेः स्यभावप्रच्यव” इति सां० प्र० भाष्वम्। मावे ल्युट्। प्रच्यवन क्षरचे न०।
प्रज = पु० प्रविश्य जायायां जायते जन–ड। पत्यौ भरतः
प्रजङ्घ = पु० प्रकृष्टा जङाऽस्य। राक्षसभेदे रामा० ल० १८ श्लो०।
प्रजग्मि = त्रि० प्र + गम–ज्ञाने कि द्वित्वम् उपधालोपः। प्रज्ञाशीले शत० ब्रा० ५। १। १। १५
प्रजन = पु० प्र + जन–घञ् न वृद्धिः। १ प्रजनने। प्रजायतेऽनेन करणे घञ्। स्त्रीनव्यादिषु २ पुङ्गवादीनामभिगमने गर्भग्रहणार्थमैथुने २ उपसरे (पालदेओया) अमरः।
प्रजनन = न० प्रजायतेऽत्र प्र + जन–आधारे ल्युट्। १ योनौ भावे ल्युट्। २ जन्मनि मेदि०। करणे ल्युट्। ३ उपसरे विश्वः। जनयति जनि–ल्यु। ४ जनके त्रि० यजु० १९। ४८
प्रजनिका = स्त्री प्रजनयति प्र + जनि–ण्वुल्। मातरि जटा०।
प्रजनिष्णु = त्रि० प्र + जन–इष्णुच्। जनने शत० ब्रा० ६। ४। १७
प्रजनुक = त्रि० प्र + जन बा० उक। प्रजननशीले हेमच०।
प्रजनू = स्त्री प्र + जन–बा० ऊ। प्रजनने तैत्ति० ३। ११। ४२
प्रजय = पु० प्र + जि–अच्। प्रकृष्टजये थाथादि० अन्तोदात्ततास्य।
प्रजल्प = पु० प्र + जल्प–भावे घञ्। “असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया। प्रियस्य कौशलोद्गारः प्रजल्पः स तु कथ्यते” उज्ज्वलमणिलक्षिते १ वाक्यभेदे २ प्रकृष्टकथाभेदे च।
प्रजविन् = त्रि० प्र + जू–इनि। प्रकृष्टवेगयुक्ते अमरः।
प्रजहित = पु० १ पुराणे २ गार्हपत्ये वह्नौ ताण्ड्य० ब्रा० १। ४। १० भाष्यधृतवाक्यं दृश्यम्।
प्रजा = स्त्री प्र + जन–ड। १ सन्ततौ २ जने च अमरः “नञ्दुःसुभ्यः परस्य बहु० असिच्समा०। अप्रजाः दुः प्रजाः। ३ जनने च
प्रजागर = पु० प्र + जागृ–अप्। प्रकर्षेण जागरणे १ निद्राक्षये हला०। कर्त्तरि अच्। २ विष्णौ “पुष्पहासः प्रजागरः” विष्णुस० “नित्यं प्रबुद्धत्वात् प्रजागर्त्तीति प्रजागरः” भा० प्रजागरयति णिच्–अच्। ३ अप्सरोभेदे स्त्री भा० व० ४३ अ०।
प्रजाता = स्त्री प्रजातं प्रजननं गर्भमोचनमस्त्यस्याः अर्श आद्यच्। १ प्रसूतायां स्त्रियाम् हला०। प्र + जन–क्त। प्रकर्षोण ३ जाते त्रि०। ३ अश्वभेदे पु० “बडवायां कृतरेतस्कन्दनः प्रजात इत्युच्यते” कात्या० श्रौ० २०३। २० भाष्यम्
प्रजातन्तु = पु० प्रजायाः प्रजननस्य तन्तुरिव। सन्ताने तैत्तिरोष०।
प्रजाति = स्त्री प्र + जन–क्तिन्। १ प्रजायां २ प्रजनने च ३ पौत्रोत्पत्तौ “प्रजा च स्वाध्यायवचने च प्रजनश्च स्वाध्यायवचने च प्रजातिश्च स्वाध्यायवचने च” तैत्ति रोप“तत्र प्रजा खवहुत्पाद्या प्रजनश्च प्रजननमृतौ भार्य्या- गमनं प्रजातिः पौत्रोत्पत्तिः” भा०। ४ पुत्रादिवृद्धौ शत० ब्रा० ७३१ ४६। ५ प्रांशुनृपपुत्रभेदे पु० मार्क० पु० ११८ अ०
प्रजादा = स्त्री प्रजां तद्धेतुगर्भं ददाति सेवनात् दा–क। गर्भधात्रीवृक्षे राजनि०।
प्रजादान = न० ६ त०। १ प्रजाया दाने २ आदाने च। प्रजातः जन्मतः दानं शुद्धिरस्य। ३ रजते न० शब्दच०।
प्रजानाथ = पु० ६ त०। लोकनाथे नृपे प्रजाप्रालादयोऽप्यत्र।
प्रजाप = पु० प्रजां पाति पा–क। नृपे हेमच०।
प्रजापति = पु० ६ त०। १ चतुर्मुखे ब्रह्मणि अमरः। २ दक्षादौ ३ नृपे च मेदि०। ४ जामातरि ५ सूर्य्ये ६ वह्नौ ७ त्वष्टरि हेमच०। प्रजापतयश्च बहुविधाः यथीक्तम् “आत्मार्थे चासृजत् पुत्रान् लोककर्तॄन् पितापहः। विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः। विश्वेशं प्रथमं नाम महातपसमात्मजम्। सर्वाश्रमपदं पुण्यं नाम्ना धर्मं स सृष्टवान्। दक्षं, मरीचिमत्रिञ्च पुलस्त्यं पुलहं क्रतुम्। बशिष्ठं गौतमञ्चैव भृगुमङ्गिरसं मनुम्। अथर्वभूता इत्येते ख्याताश्चैव महर्षयः। त्रयोदश सुता येषां वंशास्तु संप्रतिंष्ठिताः” हरिवं० २०४ अ० “ससर्ज सृष्टिं तद्रूपं स्रष्टुमिच्छन् प्रजापतीन्। मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्। वसिष्ठञ्च महातेजाः सोऽसृजत् सप्तमानसान्। सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः” हरिवं १ अ०। एकविंशतिः प्रजापतयो यथा “ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तथा यमः। मरीचिरङ्गिरात्रिश्च पुलस्त्यि पुलहः क्रतुः। वशिष्ठः परमेष्ठी च विवस्वान् सोम एव च। कर्दमश्चापि यः प्रोक्तः क्रोधोऽर्वाक् क्रीत एव च। एकविंशतिरुत्पन्ना ते प्रजापतयः स्मृताः” महाभारते मोक्षधर्मः। अन्येऽपि प्रजापतयः पुराणादौ प्रसिद्धा यथा “शंयुः प्रजापतिः” श्रुतिः। ८ विष्णौ पु० “पद्मनाभः प्रजापतिः” विष्णुस०। ९ यज्ञे निघण्टुः। १० स्वनामख्याते कीटभेदे।
प्रजापतिहृदय = न० सामभेदे “प्रजापतेर्हृदयं गायति” शत० ब्रा० ९। १। २। ४० “प्रजासु च प्रजापतौ च गायति प्रजापतेर्हृदयमिति किञ्चित् साम तदप्यत्र गायेत्। प्रजापतेर्ह्वदयं गायत्रादि सामवत् कस्यांचिदृचि न गीयते अपि तु केवलं प्रजाशब्दे प्रजापतिशब्दे च गीयते” भा०।
प्रजावत् = पुं स्त्री० प्रजाऽस्त्यस्य मतुप् मस्य वः। १ सन्तानयुक्ते स्त्रियां ङीप्। ङीबन्तः। २ भ्रावृजायायाभ् स्त्री अपरः। ३ प्रकृतियुक्ते नृपे पु०
प्रजासनि = त्रि० प्रजां सनीति ददाति सन–इन्। सन्तानदायके यजु० १९। ४८।
प्रजाहित = त्रि० प्रजायै हितम्। सन्तानजनयोर्हितकारके जले न० शब्दमाला।
प्रजिन = पु० प्र + ज्या–बा० नक् सम्प्र०। वायौ शब्दमा०।
प्रजेश = पु० ६ त०। नृपे प्रजेश्वरादयोऽप्यत्र त्रिका०।
प्रज्ञ = त्रि० प्रजानाति प्र + ज्ञा कर्त्तरि क। १ प्रज्ञायुते प्रज्ञ एव प्रज्ञादि० स्वार्थे अण्। प्राज्ञ तत्रार्थे त्रि० भाये अङ्। २ बुद्धौ स्त्री। प्रज्ञा अस्त्यस्य प्रज्ञा० ण। प्राज्ञ प्रज्ञायुते त्रि०।
प्रज्ञप्ति = स्त्री प्र + ज्ञपि–भावे क्तिन्। १ बुद्धौ हेमच० “ऋतम्भरा तत्र प्रज्ञा” पात० सू० “तत्र सप्तधा प्रान्तभूमिः प्रज्ञा” पात० सू०। २ सङ्केते ३ देवीभेदे च त्रिका०।
प्रज्ञाकाय = पु० प्रज्ञा काय इव यस्य। मञ्जुघोषे त्रिका०।
प्रज्ञाचक्षुस् = पु० प्रज्ञैव चक्षुरिवास्य। धृतराष्ट्रे शब्दर०।
प्रज्ञादि = पु० स्वार्थऽण्प्रत्ययनिमित्ते १ शब्दगणे स च गणः “प्रज्ञ वणिज् उशिज् उष्णिज् प्रत्यक्ष विद्वस् विदन् षोङन् विद्या मनस् (श्रोत्र शरीरे) (जुह्वत् कृष्णमृगे) चिकीर्षत् चोर शत्रु योध चक्षुस् वसु एनस् मरुत् क्रुञ्च सत्वत् दशार्ह वयस् व्याकृत असुर रक्षस् पिशाच अशनि कर्षापण देवता बन्धु!। अस्त्यर्थे णप्रत्ययनिमित्ते २ शब्दगणे च। स च गणः प्रज्ञा श्रद्धा (ऋचः आर्च्चः) (वृत्तेश्च वार्त्तः)” वार्त्ति०।
प्रज्ञान = न० प्र + ज्ञा–भावे ल्युट्। १ बुद्धौ। करणे ल्युट्। २ चिह्ने अमरः। प्रज्ञानमस्त्यस्य अच्। ३ पण्डिते द्विरूपकोषः
प्रज्ञाल = त्रि० प्रज्ञाऽस्त्यस्य सिध्मा० लच्। बुद्धियुते त्रि०।
प्रज्ञिन् = त्रि० प्रज्ञाऽस्त्यस्य इनि। पण्डिते द्विरूपको० पक्षे मतुप् मस्य वः। प्रज्ञावत् तत्रार्थे उभयतः स्त्रियां ङीप्।
प्रज्ञिल = त्रि० प्रज्ञा + स्त्यर्थे पिच्छा० इल। बुद्धियुते
प्रज्ञु = त्रि० प्रगते विरले जानुनी यस्य जानुनोज्ञुः। विरलजानुके जने अमरः।
प्रडीन = न० प्र + डी–क्त। खगगतिभेदे खगगतिशब्दे दृश्यम्।
प्रण = त्रि० पुराभवः प्र + “नश्च पुराणात् प्रात्” ५। ४। ३० वार्त्ति० न। पुराणे प्राचीने चकारात् पक्षे त्न प्रत्न + ख प्रीण तत्रार्थे त्रि०।
प्रणख = पु० प्रकृष्टः नखः पूर्वपदात् णत्वम्। नखाग्रे “आप्रणखात् सर्व एव सुवर्णः” छान्दो०।
प्रणत = त्रि० प्र + नम–कर्त्तरि क्त। कृतप्रणामे त्रिका०। प्रह्वे २ विनययुते च।
प्रणति = स्त्री प्र + नम–भावे क्तिन्। प्रणामे करशिरःसंयोगादिरूपे स्वापकर्षबाधकव्यापारे।
प्रणदन = पु० प्र + नद–भावे ल्युट्। प्रणादे अमरः।
प्रणपात् = त्रि० प्रकर्षेण नपात् नभ्राडित्यादिना नस्य प्रकृति भावः पूर्वपदात् णत्वम्। प्रकर्षेण न पातयितरि ऋ० ८। १७। १३
प्रणय = पु० प्र + नी–अच्। १ प्रेम्णि अमरः ३ प्रार्थनायां ३ विश्वासे ४ निर्वाणे च मेदि०।
प्रणयन = न० प्र + नी–भावे ल्युट्। १ प्रकर्षेण नयने २ करणे च ३ अग्नेः संस्कारभेदकरणे कात्या० श्रौ० ६। १०१४।
प्रणयनीय = त्रि० प्र + नी कर्मणि अनीयर्। १ प्रकर्षेण नेतव्ये २ संस्कार्य्ये वह्नौ च प्रणयनस्य वह्निसंस्कारस्येदम् छ। ३ वह्निसंस्कारसम्बन्धिनि इध्मकाष्ठादौ कात्या० १। ३। २१
प्रणयिन् = त्रि० प्रणयोऽस्त्यस्य सुखा० गणे पाठात् “नैकाक्षरात् कृतोजातेरिति” निषेधस्याप्रवृत्तेः इनि। १ प्रणययुते २ स्वामिनि पु० हेमच०। ३ भार्य्यायां स्त्री ङीप्।
प्रणव = पु० प्रकर्षेण नूयतेऽबेन प्र नु अप्। १ ओङ्कारे वेदादौ षाट्ये शब्दभेदे अमरः। १५५८ पृष्ठादौ दृश्यम्। उद्गात्रादीनां गानारम्भात् प्राक् यजमानेन ओमित्युक्त्वा गेये २ सामावयवभेदे च। प्रणूयते प्र + णू–कर्मणि अष्, प्रणवबाच्यत्वाद्वा। ३ परमेश्वरे पु० “प्राणदः प्रणवः पृभृः” “प्राणदः प्रणवः पण” विष्णु स०। द्विधा व्युत्पत्तियोगात् द्वेनामनी।
प्रणस = त्रि० प्रगता नासिका अस्य नसादेशः अच्समा० णत्वम्। प्रततनासिके
प्रणाङी = स्त्री प्रणाली + लस्य डः। १ प्रणालीशब्दार्थे २ द्वारमात्रे च “तस्यां स्थितौ व्य प्रिवमाणं धनं प्रणाड्या प्रतिग्रहं निष्प दयति” दायभागः।
प्रणाद = पु० प्र + नद-वञ्। असुरागजे शोत्कृतादौ १ शब्दे अमरः। “अनुरागकृते शब्दे प्रणादः शीत्कृतो नृणामिति शब्दार्णवः। २ तारशब्दे ३ श्रवणामये च मेदि०। श्रवणामयश्च कर्णनादः “कंर्णस्रोतः स्थित वाते शृणोति विविधान् स्वरान्। भेरोमृदङ्गशब्दानां कर्णनादः स उच्यते” सुश्रुवः।
प्रणाम = पु० प्र + आम–भावे घञ्। प्रणबौ १ स्वापकर्षबोधकव्यापारे करशिरःसंयोगादौ “पद्ग्यां कराभ्यां जासुभ्यामुरसा शिरदा दृशा। वचसा मनसा चैव प्रणामोऽष्टाङ्ग उच्यते” इत्युक्ते २ अष्टाङ्गव्याषारभेदे च प्रणामश्च चतुर्द्धा भिवादनम् अष्टाङ्ग पच्चाङ्गः करशिरसंयोनश्च। तत्रा- भिवादनशब्दे अभिवादनलक्षणं दृश्यम्। अष्टाङ्गलक्षणमत्रोक्तं तृतीयो यथा “घाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा। पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवरः स्मृतः”। नतिविशेषस्तु जामले “त्रिकोणाकारा सर्वत्र नतिः शक्तेः समीरिता। दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम्। ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत्” एकहस्तबणामनिषेधो यथा “एकहस्तप्रणामश्च एक” वापि प्रदक्षिणम्। अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम्” इति तन्त्रसारः। स च कायिकवाचिकमानसभेदेन प्रत्येकं त्रिविधः यथा “कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः। नमस्कारस्तु तत्त्वज्ञैरुत्तमाधममध्यमः। प्रसार्य्य पादौ हस्तौ च पतित्वा दण्डवत् क्षितौ। जानुभ्यामवनीं गत्वा शिरसाऽऽस्पृश्य मेदिनीम्। क्रियते यो नमस्कार उत्तमः कायिकस्तु सः। जानुभ्यां क्षितिमस्पृष्ट्वा शिरसाऽऽस्पृश्य मेदिनीम्। कियते यो नमस्कारो मध्यमः कायिकस्वु सः। पुटीकृव करौ शीर्षे दीयेते यद्यथा तथा। अस्पृष्ट्वा जानुशीर्षाभ्यां क्षितिं सोऽधन उच्यते। यः स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः। क्रियते भक्तियुक्तैर्वा वाचिकस्तूत्तनः स्मृतः। पौराणिकैर्वेदिकैर्वा मन्त्रैर्या क्रियते नतिः। मध्यनोऽसौ नमस्कारो भवेद्वाचनिकः सदा। स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्रकौ!। इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः। मननं मानसं प्रोक्तमुत्तमाधममव्यमम्। त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृवः। कायिकैस्तु नमस्कारैर्देवास्तुयन्ति नित्यशः। अवमेव नमस्कारो दण्डादिप्रतिपत्तिभिः। प्रणाम इति विज्ञेयः सपूर्वं प्रतिपादितः” कालिकापु० ७० अ०। शूदसस्कृतपूजितदवताप्रणामनिषेधो यथा “यः शूद्रोणार्च्चितं लिङ्गं विष्णुं वा प्रणमेद्यदि। निष्कृतिस्तस्य नास्त्येव प्रायश्चित्तायुतैरपि” इति कर्मलोचनम्। “नमेत् यः शूद्रसंस्कृतम्” इत्यादि च।
प्रणाय्य = त्रि० प्र + नी–यथा “प्रणाय्योऽसम्मतो” पा० नि०। १ चौरे २ प्रोंत्यर्हे ३ विरक्ते च सि० कौ० ४ अभिलाषवर्जितेमेदि०। ५ साधौ त्रिका० ६ प्रिये च। असम्मतिभिन्नेषु प्रणेय इत्येव।
प्रणाली = स्त्री प्र + नल–घञ् गो रा० ङीष् णत्वम्। १ जलवहनमार्गे (पयनाला) अमरः २ परम्पयाञ्च। प्रणालोऽप्यत्र पु०।
प्रणिधान = न० प्रणिधीयते प्र + नि + धा–ल्युट्। १ प्रयत्ने २ अ- भिनिवेशे ३ योगशास्त्रोक्ते चिन्तनविशेषरूपे समाधिभेदे ४ भक्तिविशेषे च “ईश्वरप्रणिधानाद्वा” पात० “प्रणिधानात् भक्तिविशेषात्” भाष्यम्। ५ अर्पणे ६ कर्मणां फलत्यागे च “तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” पात० “इत्वरप्रणिधानं सर्वक्रियाणां तस्मिन् परमगुरावर्पणं फलसन्न्यासो वा” भा० ७ मनसो विषयान्तरसञ्चाराभावरूपे ऐकाग्र्ये च गौत० ३। २। ३६ सूत्रवृत्तिः।
प्रणिधि = पु० प्रणिधीयते प्र + नि + धा-कि। १ गुप्तचरे अमरः। २ अनुचरे च। भावे कि। ३ याचने ४ अवधाने च मेदि०। काश्यपस्य वृहद्रथस्य ५ पुत्रभेदे भा० व० २१९ अ०।
प्रणिपात = पु० प्र + नि + पत–घञ्। प्रणामे हेमच० “तद्विद्धि प्रणिपातेनेति” गीता।
प्रणिहित = त्रि० प्र + नि + धा–क्त। १ प्राप्ते २ स्थापिते ३ समाहिते च मेदि०।
प्रणी = त्रि० प्रणयति प्र + नी० क्विप्। १ कारके २ ईश्वरे च “सायन्तभीं तिथिप्रण्यः” भट्टिः।
प्रणीन = त्रि० प्र + नी–कर्मणि क्त। पाकेन रूपरसान्यथाभावापावैठे १ पदार्थे २ क्षिप्ते ३ निवेशिते ४ विहिते च हेमच०। ५ यज्ञे संस्कृताग्नौ पु० अमरः। ६ यज्ञपात्रभेदे स्त्री मेदि० अग्निपदसान्निध्ये ७ मन्त्रसंस्कृतमात्रे “यथाध्वरे वह्निरभिप्रणीतः” भट्टिः। ८ मन्त्रसंस्कृतासु अप्सु स्त्री ब० व०। तदाधारपात्री तु उपचारात् प्रणीताशब्दवाच्या। “प्रणीतानाम आपो मन्त्रसंस्कृता आहवनीयस्योत्तरतो निहिताः” आश्व० श्रौ० १। १। ५ नारा०। “तदापः प्राणयंस्तस्मादापः प्रणीतास्तत्प्रणीतानां प्रणीतात्वम्” शत० ब्रा० १२। ९। ३। ८।
प्रणीय = त्रि० प्र + नी–कर्मणि वेदे क्यप्। यस्य मन्त्रेण संस्कारः कृतस्तस्मिन्। लोके तु प्रणेय इत्येव।
प्रणूत = त्रि० प्र + णू–स्तुतौ कर्मणि क्त। स्तुते अमरः।
प्रणेय = त्रि० प्र + नी–यत्। १ वश्ये अधीने २ कृतलौकिकसंस्कारे च हेमच० ३ प्रापणीये।
***