पृ = व्यापारे तु० आत्म० अक० अनिट् प्रायेणायम् व्याङ्पूर्वः। व्याप्रियते व्यापृत। व्यापप्रिये। व्याप्रियते। व्यापृतः व्यापारः।

पृ = प्रीतौ अक० प्रीणने सक० स्वा० षर० अनिट्। पृणोति अपार्षीत्। पपार।

पृ = पालने पूरणे च जुहो० पर० सक० अनिट् वा दीर्धे सेट्। पिपर्त्ति पिपृतः पिपूर्त्तः। अषार्षीत्–अपारीत्। पपार पप्रतुः पपरतुः। पूर्णः।

पृ = पर्त्तौ चु० उभ० सक० सेट्। पारयति ते–अपीपरत्–त।

पृक्का = स्त्री पृच–कन् न्यड्क्वा० कुत्वम्। (पिडिङ्) शाकभेदे रत्नमाला।

पृक्त = त्रि० पृच–क्त। १ सम्बन्धे २ धने न० हेमच०।

पृक्ति = स्त्री पृच–भावे क्तिन्। १ सम्पर्के २ स्पर्शे च अमरः।

पृक्षस् = पु० पृच–वा० असि सुट् च। अन्ने निघण्टुः। ऋ० ३। ७। १०।

पृक्षे = अव्य० पृच–वा० क्मे। संग्रामे निघण्टुः ऋ० १। ६३। ३

पृक्षुध् = स्त्री प्र + क्षुध्–क्विप् वेदे वा० प्रस्य सम्प्रधारणम्। प्रकृष्टक्षुधायाम् ऋ० १। १४१। ४।

पृच = सम्पर्के अदा० आत्म० अक० सेट्। पृक्ते अपर्चिष्ट। पपुचे ईदित्। पृक्णः।

पृच = संयमने सक० सम्पर्के अक० चु० उभ० पक्षे भ्वा० पर० सेट्। पचंयति–ते पर्चति। अपीपृचत्–त अपपर्चत्–त अपर्चीत्।

पृच्छा = स्त्री प्रच्छ–अङ् संप्रसारणम्। प्रश्ने १ ज्ञातुमिच्छया कथनाय प्रेरणे अमरः।

पृच्छ्य = त्रि० प्रच्छ–बा० कर्मणि क्यप् सम्प्र०। जिज्ञास्ये।

पृज = सम्पर्के, अदा० आ० अक० सेट्। पृक्ते अपर्जिष्ट। ईदित् पृग्णः।

पृड = हर्षे तु० पर० अक० सेट्। पृडति। अपर्डिष्ट पपृडे।

पृण = तर्पणे तु० पर० सक० सेट। पृणति अपर्णीत्। पपर्ण।

पृत् = स्त्री पृ–पालने क्विप्। सेनायाम् ऋ० २। २७। १५।

पृतना = स्त्री पृ–तनन्–किच्च। १ सेनायाम् २ सङ्ख्याविशेषान्वितरथहस्त्यश्वादिसैन्यभेदे च (रथाः २४३ गजाः २४३ अश्वाः ७२९ पदातयः १३१५)। अमरः। अनीकिनी शब्दे १६९ पृ० रथादिसंख्या दृश्या। ३ संग्रामे ४ मनुष्ये च भिघण्टुः।

पृतनाज्य = न० संग्रामे निषण्टुः। “पृतनानामजनाद्वा पृतनाज्यं जयनाद्वा” निरु० ९। २४।

पृतनासाह् = पु० पृतनां सहते सह–ण्व। इन्द्रे त्रिका०। अस्य झलि पदान्ते च सस्य षत्वम्। पृतनाषाट् अन्यत्र न षत्वम् पृतनासाहम् इत्यादि।

पृत्सुध = पु० पृत्सु धीयते धा–कर्मणि धञर्थे क अलुक्स०। १ संग्रामे निघण्टौ पाठान्तरम्।

पृथ = प्रक्षेपे चुरा० उभ० सक० सेट्। पार्थयति–ते अपीपृथत् त अपपर्थत्–त।

पृथक् = अव्य० पृथ–वा० ककि। १ भिन्ने २ नानारूपे ३ विनार्थे च। अमरः।

पृथक्त्व = न० पृथक् इत्यस्य भावः त्व। वैशेषिकोक्ते पृथक्त्ववुद्धिसम्पादके गुणभेदे। तत्परीक्षा च कणा० सू० वृत्त्यार्दर्शिता यथा “तथा पृथक्त्वम्” सू०। “एकत्वतुल्यतयैकपृथकत्वमपि साधयितुमाह अपोद्धार व्यवहारस्तावदस्ति इदमस्मात् पृथगन्यदर्थान्तरमित्याकारः अपवृज्यावधिमपेक्ष्य य उद्धारो निर्द्धारणं सह्यपोद्धारः तत्र च न रूपादि तन्त्रं व्यभिचारादवध्यनिरूप्यत्वाच्च। नन्वन्योन्याभाव एव पृथकत्वम् इदमस्मात् पृथगन्यदर्थान्तरमितिवद्भिन्नमिति प्रतीतेरन्योन्याभावावलम्बनत्वात्, न, पृथगादिशब्दानां पर्य्यायत्वेऽपि नान्योन्याभावार्थत्वं तत्र पञ्चमीप्रयोगानुपपत्तेः इदमस्मात् पृथक् इदमिदं न भवतीति प्रतीत्योर्भिन्नविषयत्वात्, न चान्योन्याभाबवानर्थः पृथक्त्वम् अथटः पट इत्यत्रापि पञ्चमी प्रयोगापत्तेः। ननु पृथगिति विशिष्ट इति प्रतीत्योऐकाकारत्वाद्वैशिष्ट्यमेव पृथक्त्वमिति चेन्न मैत्रस्य दण्डवैशिष्ट्यदशायां मैत्रात् पृथगयं मैत्र इत्यपि प्रतीत्यापत्तेः। एवं शब्दविशिष्टे व्योम्नि बुद्धिविशिष्टे चात्मनि पृथक्त्वव्यवहारापत्तेः। अतएव वैधर्म्यमपि न पृथक्त्वं पाकरक्ते घटे श्यामाद्घटात् पृथगयं घट इति व्यवहारापत्तेः तद्विरोधिधर्मवत्त्वमेव हि तद्वैधर्म्यं तच्च श्यामानन्तरं रक्ततादशायामपि। न च सामान्यमेव पृथक्त्वं सामान्यस्यावध्यनिरूप्यत्वात् जातिसङ्करप्रसङ्गाच्च। सन्मात्रवृत्तित्वे सत्तया, द्रव्यमात्रवृत्तित्वे द्रव्यत्वेनान्यूनानतिरिक्तवृत्तित्वापत्तेः” वृत्तिः। “एकत्वैकपृथक्त्वयोरेक त्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः” क० सू०। “नन्वेकमेकत्वं रूपादिभ्यः पृथक्पृथकत्वमिति व्यवहारादेकत्वेऽप्येकत्वं पृथक्त्वेऽपि पृथकत्वमेवं तत्र तत्रापीत्यत आह यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तद्व्यवहारस्तत्र भाक्तस्तथैकत्वैकपृथक्त्वे नैकत्वैकपृथक्त्ववती तद्व्यवहारस्तत्र भाक्त इत्यर्थः। कर्मभिः कर्माणि गुणैगुणाः इत्यपि दृष्टान्तसूत्रद्वयं पूर्वदृष्टान्तसूत्रेणैक- वाक्यतापन्नमेवात्र भासते यथा कर्माणि न कर्मवन्ति गुणाश्च न गुणवन्तस्तथैकत्वैकपृथकत्वे न तद्वती इत्यर्थः” वृत्तिः।

पृथक्त्वचा = स्त्री पृथक् त्वचा यस्याः। मूर्वायाम्। रत्रमा०

पृथक्पर्णी = स्त्री पृथक् पर्णान्यस्याः ङीप्। (चाकुलिया) क्षुपभेदे अमरः।

पृथक्क्षेत्र = पु० पृथक् भिन्नं क्षेत्रमुत्पत्तिस्थानमस्य। एकस्मात् पितुर्विभिन्नमातृजाते पुत्रे मिता०।

पृथगात्मता = स्त्री पृथक् आत्मा स्वरूपं यस्य तस्य भावः तल्। १ भेदे २ विशेषे।

पृथगात्मिका = स्त्री पृथक् आत्मा स्वरूपं यस्याः कप् नलोपे कापि अत इत्त्वम्। व्यक्तौ। वह्नित्वेनैकरूपाणामपि वह्नीनां महानसीयत्वादिरूपेण तेषां स्वरूपभेदात् तथात्वम्।

पृथग्जन = पु० पृथक् भिन्नो जनो महाजनो यस्मात्। १ नीचे २ मूर्खे ३ पामरे च अमरः।

पृथग्विध = त्रि० पृथक् भिन्ना विधा यस्य। नानारूपे अमरः।

पृथग्बीज = पु० पृथक् बीजान्यस्य। भल्लातकवृक्षे (भेला) राजनि०

पृथा = स्त्री कुन्तिभोजकन्यायाम् कुन्त्याम् जटाधरः।

पृथाज = पु० पृथायां जायते जन–ड ७ त०। १ युधिष्ठिरादौ कुन्तीपुत्रे २ अर्जुनवृक्षे राजनि०।

पृथापति = पु० ६ त०। पाण्डुराजे त्रिका०।

पृथिका = स्त्री पृप्रथघञर्थे–क स्वार्थे क शतपद्याम् अत इत्त्वम्। शतपद्याम् शब्दमाला।

पृथिन् = पु० प्रथ-वा० किनि संप्र०। वेनपुत्रे पृथुनामके नृपे “पृथी ह वे वैन्यो मनुष्याणां प्रथमोऽभिषिषेचे” शत० व्रा० ५। ३ ५। ४ “पृथी यद्वां वैन्यः” ऋ० ८। ९। १० “लोकेऽस्य पृथुसंज्ञा”।

पृथ(थि)(वि)वी = स्त्री प्रथते विस्वारमेति प्रथ-षिवन् (षवन्) वा नि० संप्रसारणं षित्त्वात् ङीष् पृषो० वा ह्रस्वः। धरायाम् क्षितौ तद्गुणादिकं यथा “रूपद्रवत्वप्रत्यक्षयोगि स्यात् प्रथमत्रिकम्। गुरुणी द्वे रसवती द्वयोर्नैमित्तिकोद्रवः। स्पर्शादयोऽष्टौ वेगश्च द्रव्यत्वञ्च गुरुत्वकम्। रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश। स्नेहहीना गन्धयुता क्षितावेते चतुर्दश”। “तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता। षड्विधस्तु रसस्तव गन्धोऽपि द्विविधो मतः। स्पर्शस्तु तस्या विज्ञेयो ह्यनुष्णाशीतपाकजः। नित्या नित्या च सा द्वेधा नित्या स्यादणुलक्षणा। अनित्या तु तदन्या स्यात् सैवावयवयोगिनी। सा च त्रिधा भवेद्देह इन्द्रियं विषयस्तथा। योनिजादिर्भवेद्देहमिन्द्रियं घ्राणलक्षणम्। विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः” भाषाप०। तस्या अध्यात्मादिभेदा यथा “पृथिवी पञ्चभं भूतं घ्राणञ्चाध्यात्ममुच्यते। अधिभूतं तथा गन्घो वायुस्तत्राधिदैवतम्” मा० आश्व० ४२ अ०। तस्या उत्पत्तिकारणं यथा “श्रूयतां वसुधाजन्म सर्वमङ्गलकारणम्। विघ्नविघ्नकरं पापनाशनं पुण्यवर्द्धनम्। अहो केचिद्वदन्तीति मधुकैटभमेदसा। वभूब वसुधा जन्म तद्विरुद्धमतं शृणु। ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा। आवां जहि न यत्रोर्वी पाथसा संवृतेति च। तयोर्जीवनकाले च प्रत्यक्षा साऽभवत् स्फुटम्। ततो बभूव मेदश्च मरणस्यान्तरन्तयोः। मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु। जलौता कृशा पूर्वं वर्द्धिता मेदसा यतः। कथयामि च तज्जन्म सार्थकं सर्वसम्मतम्। पुरा श्रुतं यत् श्रुत्युक्तं धर्मवक्त्राच्च पुष्करे। महाविराट् शरीरस्य जलस्थस्य चिरं स्फुटम्। मलो बभूव कालेन सर्वाङ्गव्यापको ध्रुवम्। स च प्रविष्टः सर्वेषां तल्लोम्नां विवरेषु च। “कालेन महता तस्माद्बभूव वसुधा मुने!। प्रत्येकं” प्रतिलोम्नाञ्च कूपेषु सा स्थिरा स्थिता। आविर्भूता तिरोभूता सा जले च पुनःपुनः। आविर्भूता सृष्टिकाले तज्जलोपर्य्यवस्थिता। प्रलये च तिरोभूता जलाभ्यन्तरवस्थिता। प्रतिविश्वेषु वसुधा शैलकाननसंयुता। सप्तसागरसंयुक्ता सप्तद्वीपयुता सती। हिमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता। ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदालये। पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता। पातालसप्त तदधस्तदूर्द्ध्वे ब्रह्मलोककः। ब्रह्मलोकश्च तत्रैव सर्वविश्वञ्च तत्र वै। एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च। ऊर्द्ध्वौ गोलोकवैकुण्टौ नित्यौ विश्वपरौ च तौ। नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि च। प्रलये प्राकृते ब्रह्मन्! ब्रह्मणश्च निप्रातने। महाविराडादिसृष्टौ सृष्टेः कृष्णेन चात्मना। नित्यैः स्थिता च प्रलये काष्ठाकाशेश्वरैः सह। क्षित्याधिष्ठाषदेवी सा वाराहे पूर्जिता सुरैः। मुनिभिर्मुनिभिर्विप्रैपन्धर्वादिभिरेव च। विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता। तत्पुत्रो मङ्गलो ज्ञेयो घण्टेशो मङ्गलात्मजः। भवनं यत्र सर्वेषां भूर्भूमिस्तेन कीर्त्तिता। वसुरत्नं या दधाति बसुधा सा वसुन्धरा। हरेरूरौ च या जाता सा चोर्वी परिकीर्त्तिता। धरा धरित्री धरणी सर्वेपां धारणात्तु या। इज्याथ यागाधाराच्च क्षौणी क्षीणा लये च या। महालये क्षयं याति क्षितिस्तेन प्रकीर्त्तिता। काश्यपी कश्यपस्येयमचला स्थिररूपतः। विश्वम्भरा तद्धरणाच्चानन्तानन्तरूपतः। पृथिवी पृधुकन्यात्वाद्विस्तृतत्वान् महामुने!” ब्रह्मवै० प्र० स्व ७ अ०। तस्याः सर्वंसहत्वेऽपि केषाञ्चित् भारासहनकथा यथा “कृष्णमक्तिविहीना ये ये च तद्भक्तनिन्दकाः। तेषां महापातकिनामशक्ता भारवाहने। स्वधर्माचारहोना ये नित्यकृत्यविवर्जिताः। श्रद्धाहीनाश्च वेदेषु तेषां भारेण पीडिता। पितृमातृगुरुस्त्रीणां पोषणं पुत्रपोष्ययोः। ये न कुर्वन्ति तेषाञ्च न शक्ता भारवाहने। ये मिथ्यावादिनस्तात! दयासत्यविहीनकाः। निन्दका गुरुदाराणां तेषां भारेण पीडिता। मित्रद्रोही कृतघ्नश्च मिथ्यासाक्ष्यप्रदायकः। विश्वासघ्नः स्थाप्यहारी तेषां भारेण पीडिता। कल्याणयुक्तनामानि हरेर्नामैकमङ्गलम्। कुर्वन्ति विक्रयं ये वै तेषां भारेण पीडिता। जीवघाती गुरुद्रोही ग्रामयाजी च लुब्धकः। शवदाही शूद्रभोजी तेषां भारेण पीडिता। पूजायज्ञोपवासादि व्रतानि नियमानि च। ये ये मूढा विहन्तारस्तेषां भारेण पीडिता। सदा द्विषन्ति ये पापा नोविप्र सुरवैष्णवान्। हरिं हरिकथां भक्तिं तेषां भारेण पीडिता। शङ्खादीनाञ्च भारेण पीडिताऽहं यथा विधे!। ततोऽधिकेन दैत्यानां तेषां भारेण पीडिता” ब्रह्मवैपु० जन्मख० ४ अ०।

पृथिवीक्षित् = पु० क्षि–ऐश्वर्य्ये क्विप् ६ त०। भूमीशे नृपे।

पृथिवीञ्जय = पु० पृथिवीं जयति जि–वा० खश् मुम् च दानवभेदे हरिवं० २३२ अ०।

पृथिवीतीर्थ = न० तीर्थभेदे भा० वन० ८३ अ०।

पृथिवीपति = पु० ६ त०। १ भूमिपतौ राजनि २ ऋषभनामोषधौ च मेदि०। ३ यमे हेम०। पृथिवीनाथादयोऽपि राजनि।

पृथिवीपाल = पु० पृथिवीं पालयति पालि–अण् उप० स०। भूमिपाले। ण्वुल्। पृथिवीपालक तत्रार्थे पु०।

पृथिवीभुज् = पु० पृथिवीं भुनक्ति अवति भुज अवने क्विप्। भूपाले क। पृथिवीभुजोऽपि तत्रार्थे।

पृथिवीरुह = पु० पृथिव्यां रोहति रुह–क। भूमिरुहे वृक्षे।

पृथिवीशक्त = पु० पृथिव्यां शक्र इव। राजनि हेमच०। पृथिवीन्द्रभूमीन्द्रादयोऽप्यत्र।

पृथु = त्रि० प्रथ–कु सम्प्र०। १ विस्तीर्णे स्त्रियां गुणवचनोदन्तत्वात् ङीप्। २ आदिराजे वेनपुत्रे सूर्य्यवंश्ये नृपभेदे पु० तदुत्पत्तिकथा भाग० ४। १५ अ०। अथ तस्य (वेनस्य) पुनर्विप्रैरपुत्रस्य महीपतेः। बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत। तद्दृष्ट्वा मिथुनं जातमृषयो ब्रह्मवादिनः। ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम्। एष विष्णोर्भगवतः कला भुवनपालिनी। इयञ्च लक्ष्मी संभूतिः पुरुषस्यानपायिनी। अत्र यः प्रथमो राज्ञां पुमान् प्रथयिता यशः। पृथुर्नाम महाराजो मविष्यति पृथुश्रवाः”। तेन च भगवदवतारेण पृथिवी समीकृता नानोषधीश्च मथिता दुहितृत्वेन कल्पिता च। तत्कथा उत्तरत्राध्याये दृश्या ४ १८ अ०। “एवं पृथ्वादयः पृथ्वीं द्रदुहुः स्वन्नमात्मनः। दोहवतमादिभेदेन क्षीरभेदं कुरूद्वह!। ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः। दुहितृत्वे चकारेमां प्रेमणा दुहितृवत्सलः। चूर्णयन् स्वधनःकोट्या गिरिकूटानि राजराट्। भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः” ३ महादेवे भा० आश्व० ९ अ०। चतुर्थमन्वन्तरे काव्ये ४ सप्तर्षिभेदे हरिवं० ७ अ०। काकुतस्थे अनेनसः पुत्रे ५ नृपभेदे १७ अ०। अजमीढबंश्ये पारपुत्रस्य ६ पुत्रभेदे हरिवं० २० अ०। क्रोष्टुवंश्ये चित्रसू पुत्रे ७ नृपभेदे ३५ अ०। ८ दानवभेदे २६ अ०। ९ अम्नौ मेदि०। १० कृष्णजीरके पु० अमरः ११ त्वक्पर्ण्यां १२ हिङ्गुपत्र्याञ्च स्त्री मेदि० १३ अहिफेने शब्दरत्ना० १४ महति त्रि० शब्दर० १५ विष्णौ पु०। “प्राणदः प्रणवः पुथुः” विष्णुस०।

पृथुक = पु० पुथु कं जलं पेयत्वेनास्त्यस्व अच्। १ चिपिटके अमरः। तस्य चर्वणे बहुजलशोपणात् तश्र तथात्वम्। अस्य क्लीवत्वमपि “द्विःखिन्नमन्नं पृथुकं शुद्धं देशविशेषके” व्रह्मवै० ख० २१ अ०। पृथु कं शिरोऽस्य। २ बालके पुंस्त्री० मेदि०। ३ हिङ्गुपत्र्यां स्त्री शब्दरत्ना०।

पृथुकीय = त्रि० पृथुकाय हितं अपूपा० छ। पृथुकहिते। पक्षे यत् पृथुक्य तत्रार्थे त्रि०।

पृथुकीर्त्ति = स्त्री पृथानुजायाम् वसुदेवभगिनीभेदे “पृथुकीर्त्त्यां तु संजज्ञे घनयो वृद्धशर्मणः। करूपाधिपतिर्वीरो दसवक्रो महावलः”। हरिवं० २७ अ० पृथः कीर्त्तिरस्य। २ वृहश्चशस्के त्रि०।

पृथुकोल = पु० कर्म०। राजवदरे राजनि०।

पृथुग्रीव = पु० १ राक्षसभेदे रामा० आ० ९ स०। २ विस्त्रीर्गपीवे त्रि०

पृथुच्छद = पु० पृथुछदोऽस्य। १ हरिदर्भे राजनि०। २ वृहत्पत्रयुक्ते त्रि०।

पृथुपत्र = पु० पृथूनि पत्राण्यस्य। रक्तलशुने राजनि०।

पृथुपलाशिका = स्त्री पृथूनि पलाशान्यस्याः कप् कापि अत इत्त्वम्। शठ्याम् राजनि०।

पृथुरुक्म = पु० क्रोष्टुवंश्ये रुक्मकवचपुत्रभेदे हरिवं० ३७ अ०।

पृथुरोमन् = पु० पृथूनि रोमाणि रोमस्थानीयशल्कान्यस्य। १ मत्स्ये अमरः। २ वृहल्लोमयुक्ते त्रि० स्त्रियां वा डाप्।

पृथुल = त्रि० पृथु + स्वार्थे लच् पृथुः पथत्वमस्त्यस्य सिध्मा० लच् वा। १ स्थूले अमरः। २ हिङ्गुपत्र्यां स्त्री जटाध०।

पृथुलाक्ष = त्रि० पुथुले अक्षिणी यस्य षच्समा०। १ वृहन्नेत्रयुक्ते २ पुरुवंश्ये चतुरङ्गपुत्रभेदे पु० हरिवं० ३७ अ०।

पृथुवक्त्र = त्रि० पृथु वक्त्रमस्य। १ वृहन्मुखयुक्ते। २ कुमारानुचरमातृभेदे स्त्री भा० श० ४७ अ०।

पृथुशिम्ब = पु० पृथ्वी शिम्बा यस्य। श्योनाकभेदे राजनि०।

पृथुशेखर = पु० पृथु शेखरं यस्य। पर्वते त्रिका०।

पृथुश्रव(स) = त्रि० पृथु श्रवः कर्णोऽस्य। १ वृहत्कर्णे अदन्तः २ कुमारानुचरभेदे भा० श० ४६ अ०। सान्वस्तु। २ शशविन्दुनृपपुत्रभेदे पु० हरिवं० ३६ अ०।

पृथुसेन = पु० अनुवंश्ये रुचिरनृपपुत्रनेदे हरिवं० २० अ०।

पृथुस्कन्ध = पुं स्त्री पृथुः स्कन्धोऽस्य। शूकरे राजनि० स्त्रियां जातित्वात् ङीष्।

पृथूदक = न० तीर्थभेदे भा० ब० ६८ अ०। नच्च सरस्वत्यं शदेशस्थितम् यथोक्तम् “जातिस्मरारुषद्गुस्तु गङ्गाद्वारे तदास्थितः। अन्तकालं ततो दृष्ट्वा पुत्रान् वचनमब्रवीत्। इह श्रेयो न पश्यामि नयस्व मां पृथूदकम्। विज्ञाय तस्य तद्भावं रुषद्गोस्ते तपोधनाः। तं वै तीर्थमुपानिन्युः सरस्वत्यास्वपोधनम्। स तैः पुत्रैः समानीतः सरस्वत्थां समीपतः। स्मृत्वा तीर्थगुणान् सर्वान् प्राहेदमृषिसत्तमः। सरस्वत्यास्तु तीरे यः संत्यजेदात्मनस्तमुम्। पृथूदके जन्म परो नैनं श्वो मरणम् लभेत्। तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्भिता” वामनपु० ३८ अ०।

पृथूदर = पु० स्त्री० पृथु उदरं यस्य। १ मेषे स्त्रियां जातित्वात् ङीष्। २ वृहत्कुक्षौ त्रि० हारा०। स्त्रियां स्वाङ्गत्वात् वा ङीष्।

पृथ्वादि = पु० “पथ्वादिभ्य इमनिच् वा” पा० भावे इमनिप् प्रत्ययनिमित्ते शब्दनणे स च पा० ग० उक्तो यथा “पृथु मृदु महत् णटु तनु लघु बहु साधु आशु ऊरु गुरु बहुल खण्ड दण्ड चण्ड अकिञ्चन होड पाक वत्स मन्द स्वादु ह्रस्व दीर्घ प्रिय वृष ऋजु क्षिप्र क्षुद्र अणु”।

पृथ्वी = स्त्री पृथत्वगुणयुक्ता स्त्री ङीष्। १ पृथुत्वयुक्तायां स्त्रियां २ भूमौ ३ हिङ्गुपत्र्यां ४ कृष्णजीरके च। ५ स्थूलैलायाम् ६ पुनर्नवायाम् मेदि०। ७ वृत्तार्हन्मातृभेदे हेम० स्वार्थे क। पृथ्वीका। वृहदेलायाम् हिङ्गुपत्र्यां कृष्णजीरके च। तत्र पृथिव्याः पृथुराजेन दुहितृत्वस्य कल्पनात् पुंयोगे ङीष्। “दुहितृत्वमनुप्राप्ता देवी पृथ्वी तथोच्यते” अग्निपु०। “जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरुः वृ० र० उक्ते ८ सप्तदशाक्षरपादके छन्दीभेदे।

पृथ्वीकुरवक = पु० पृथ्व्यां भूमौ कुरुवक इव शुभ्रत्वात्। श्वेतमन्दारके राजनि०।

पृथ्वीगर्भ = पु० पृथ्वीव लम्बमानो गर्भ उदरमस्य। १ लम्बोदरे २ गणेशे हेमच०।

पृथ्वीज = त्रि० पृथ्व्यां जायते जन–ड ७ त०। १ भूमिजाते २ गडलबणे न० राजनि०।

पृथ्वीधर = पु० गृथ्वीं धरति धृ–अच्। महीध रे पर्वते।

पृदाकु = पु० स्पर्द–वा० आकु सम्प्रसारणे सलोपश्च। सर्गे अमरः १ वृश्चिके २ व्याघ्रे ३ चित्रके मेदि०। ४ गजे ५ वृक्षे च। संक्षिप्तसारोणादिवृत्तिः।

पृदाकुसानु = पु० पृदाकुः गज इव सानुः समुन्नतः। इन्द्रे ऋ ८। १७। १५।

पृशन्य = पु० स्पृश–भावे क्यु पृषो० सलोपः पृशनं स्पर्शः तत्र साधु यत्। स्पर्शसाध्ये ऋ० १। ७१। ५ आत्मनः पृशनमिच्छति क्यच् उ। पृशनायु तदिच्छौ ऋ० १। ८४। ११।

पृश्नि = त्रि० स्पृश–प्रच्छ–वा नि किच्च पृषो० सलोपः। १ स्वल्पे २ दुर्बलास्थियुक्ते ३ खर्वे च अमरः। ४ रश्मौ श्रीकृष्णस्य जन्मान्तरे मातृभूतायां देवकीरूपेण द्वापरे प्रादुर्भूतायां ५ वसुदेवपत्न्याञ्च स्त्री। “त्वमेव पूर्बसर्गे भूः पृश्निः स्वायम्भुवे सति!। तदायं सुतपा नाम प्रजापतिरकल्मषः। अहं सुतो वामभवं पृश्निगर्भ इति स्मृतः। तयोर्वा पुनरेवाहमदित्याम्बस कश्यपात्। उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः। तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषा हि वाम्। जातो भूयस्तयोरेव” भाग० १०। ३ अ०। देवकीं प्रति वासुदेववाक्यम्। ५ साधरणे त्रि० निघण्टुः ६ सवितुःपत्नीभेदे स्त्री भाग० ६। १८। १। ७ ऋषिभेदे पु० भा० द्रो १९१ अ०। युधाजिन्नृपस्य माद्र्यां जाते ८ पुत्रभेदे अग्निपु०।

पृश्निका = स्त्री पृश्नि स्वल्पं कं जलमत्र। कुम्भिकायां (पाना) शब्दमाला।

पृश्निगर्भ = पृश्नेः सुतपःप्रजापतिपत्न्याः गर्भः साधनत्वेनास्त्यस्य अच्। नारायणे पृश्निशब्दे दृश्यम्।

पृश्निगु = त्रि० पृश्नियोनानावर्णत्वात् साधरणा गावो रश्मयोऽस्य। नानावर्णदीप्तिके ऋ० १। ११३। ७। वेदे क्वचित् “गोस्त्रियोरुपसर्जनस्येति न ह्रस्वः” ऋ० ७। १८। १०। उदा० दृश्यम्।

पृश्निपर्णी = स्त्री पृश्नि स्वल्पं पर्णमस्याः ङीप्। (चाकुलिया) विख्यातायां लतायाम् अमरः।

पृश्निभद्र = पु० ७ त०। पृश्निगर्भजाते नारायणांशभेदे।

पृश्निमातृ = पु० पृश्निः नानावर्णा भूमिर्मातेव जन्मभूमिर्यस्य समासान्तविधेरनित्यत्वात् न कप। नानार्णभूमिजाते ऋ० १। २३। १७।

पृश्निशृङ्ग = पु० पृश्नि शृङ्गमग्रमस्य। गणेशे त्रिका०। तस्य मुखे गजमुखत्वेन शृङ्गाकारत्वात् तथात्वम्। पृश्निः शृङ्गमिवास्य उत्पत्तिस्थानत्वेन। पृश्निगर्भजाते २ विष्णौ शब्दमाला।

पृश्नी = स्त्री पृश्नि + कृदिकारान्तत्वात् वा ङीप्। कुम्भिकायां(पाना)शब्दमाला।

पृष = सेके भ्वा० आ० सक० सेट्। पर्षते अपर्षिष्ट। पपृषे।

पृषत् = न० पृष–अति कित् शतृवच्च कार्य्यं तेन पृषन्ति। १ विन्दौ अमरः। २ सेकयुक्ते त्रि०। अस्य विन्दौ बहुत्वमिच्छन्त्येके।

पृषत = पुंस्त्री० पृष–अतच् किच्च। १ शुभ्रविन्दुमति मृगभेदे स्त्रियां जातित्वात् ङीष्। २ विन्दौ पु० अमरः। ३ वायुवाहने मृगे पुंस्त्री निघण्टुः। “पृषत्यो मरुताम्” इत्यत्र स्त्रीत्वमविवक्षितम्। भरद्वाजसुते ४ नृपभेदे पु० भा० आ० १३ अ०।

पृषतांपति = पु० ६ त० अलुक्स०। वायौ जटा०।

पृषताश्व = पु० पृषतो मृगभेदोऽश्व इव गतिसाधनं यस्य। वायौ अमरः।

पृषत्क = पु० पृषन्ति विन्दव इव को वायुरत्र। वाणे अमरः।

पृषदंश = पु० पृषात विन्दौ अंशोऽस्य। वायौ ततः उत्सा० भवादौ अञ्। पार्षदंश तद्भवादौ त्रि०।

पृषदश्व = पु० पृषन् मृगभेदोऽश्व इव वाहकत्वात् यस्य। वायौ अमरः

पृषदाज्य = न० पृषद्युक्तं दधिविन्दुयुक्तं दधिसेकयुक्तं वा आज्यम् शाक० त०। दधिसिक्ते वृते अमरः।

पृषद्बल = पु० पृषन्नेव बलमस्य। वायोरश्वे शब्दमाला।

पृषद्ध्र = पु० वैवस्वतमनोःपुत्रभेदे हरिवं० १० अ०।

पृषद्ध्रु = पु० द्वापरयुगीये युधिष्ठिरपक्षस्थे नृपभेदे भा० द्रो० १५६ अ०

पृषन्ति = पु० पृष–बा झि। विन्दौ। “पयः पृषन्तिभिः स्पृष्ट्वा यान्ति वाताः शनैः शनैः” जाम्बबतीविजयपद्यम्।

पृषभाषा = स्त्री पृष–सेके क तादृशी भाषा यस्याः। अमरावत्यामिन्द्रनगर्य्याम् शब्दमाला०।

पृषाकरा = स्त्री पृषदिवाकृष्यते आ + कॄ–कर्मणि अच् पृषो०। क्षुद्रशिलायाम् (वाट्खारा) शब्दच०।

पृषातक = न० पृषन्तं पृषदाज्यं तकते हसति तक–अच्। पृषो०। दधियुक्तघृते हेमच०।

पृषोदर = त्रि० पृषःदिवोदरं यस्य पृषो० तलोपः। १ स्वल्पोदरे पृषन्ति उदरे यस्य। २ वायौ पु०।

पृषोदरादि = “पृषोदरादीनि यथोपदिष्टम्” पा० विहित लोपादिनिमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “पृषोदर पृषोत्थान वलाहक जीमूत श्मशान उलूखल पिशाच वृषी मयूर”। “वर्णागमो वर्णविपर्य्ययश्च द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्”। एतच्च समासविषयकमेवेति नियमो न प्राचीनकारिकायां हंससिंहादिशब्दानामपि पृषोदरादित्वात् सिद्धत्वोक्तेः। अस्यार्थः सि० कौ० मनोरमादौ यथा “पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः। पृषत् उदरम् पृषोदरम्। तलोपः। वारिवाहको वलाहकः। पूर्वपदस्य वः उत्तरपदादेश्च लत्वम्। “भवेद्वर्णागमात् हंसः सिंहो वर्णविपर्य्ययात्। गूढोत्मा बर्णविकृतेर्वर्णनाशात्पृषोदरम्” दिक्शब्देभ्यस्तीरस्य तारभावो वा। दक्षिणतारम् दक्षिणतीरम्। उत्तरतारम् उत्तरतीरम्। दुरो दाशनाशदभध्येषूत्त्वमुत्तरपदादेष्टुत्वञ्च। दुःखेन दाश्यते दूडाशः। एवं दुःखेन नाश्यते दुणाशः दुःखेन दभ्यते दूडाभः। खल् त्रिभ्यः। दम्भेर्नलोपो निपात्यते। दुष्टं ध्यायतीति दूट्यः। आतश्चेति कः। ब्रुवन्तोऽस्यां सीदन्तीति वृषी। ब्रुवच्छब्दस्य वृ आदेशः। सदेरधिकरणे डट्। आकृतिगणोऽयम्”। हन्तेः पचाद्यचि सुमागमे हंस इति हिंसेस्तु पचाद्यचि हकारसकारयोः स्थानव्यत्ययात् सिंह इति गूढोत्मेत्यत्र आकारविकृत्या उकारादेशः पृषोदरमित्यत्र तकारवर्णलोपः इत्येवं रीत्या सर्वत्र बोध्यम्। एतन्मूलकमेव “लुम्पेदवश्यमः कृत्ये तुम् काममनसोरपि। समो वा हितततयोर्मांसस्य पचियुज्घञोरिति”। अन्तमिति शेषः कृत्यप्रत्ययान्ते उत्तरपदे अवश्यम्शब्दस्यान्त्यमकारं लु स्पेत्। अवश्यसेव्यः। तथा कामशब्दमनः शब्दयोः परतः तुम्शब्दस्यान्तम्। हन्तुकामः गन्तुमनाः। तुमिति षष्ठ्यर्थे प्रथमा। हितततशब्दयोः परतः समोऽन्त्यं मकारम् वा लुम्पेत्। सहितः संहितः सततः सन्ततः। युज्घञ्परपंचिधातौ परे मांसशब्दान्त्याकारं लुम्पेत्। मांस्पचनः मांसपचनः मांस्पाकः मांसपाक इत्यादि।”

पृष्ट = त्रि० पृषु सेके प्रच्छ–वा क्त। १ सिक्ते–यजु० ३३। ९। २ जिज्ञासिते “नापृष्टः कस्यचित् ब्रूयात्” मनुः।

पृष्टहायन = पु० नित्यक०। १ धान्यभेदे २ गजे पुंस्त्री मेदि०। स्त्रियां जातित्वात् ङीष्।

पृष्टि = स्त्री पृष + सेके भावे क्तिन्। सेके शत० ब्रा० ७। ५१। १३। २। १। १५। प्रच्छ–क्तिन्। २ जिज्ञासायाञ्च। पृष–कर्त्तरि क्तिच् दीर्घः। ३ पार्श्वस्थे स्त्री ऋ० १०। ८। १० पृष्टीः पार्श्वस्थान् भा०। ४ पृष्ठदेशे यजु० २। ८। “पृष्टीः पृष्ठदेशः” वेददीप०। पृष्टिवह पृष्ट्यावहः। पृष्ठवहे अथ० १८। ४। १०

पृष्ठ = न० पृष–स्पृ श–वा थक् नि०। तनीः पश्चाद्भागे अमरः। निरुक्ते ४। ३ “पृष्टं संस्पृष्टमङ्गैः” इत्युक्तं युक्तश्चैतत् पृषधातोस्तु तद्रूपसिद्धेः निपातनानुपपत्तेः अतः स्पृशधातोरेव निपा०। २ स्तोत्रविशेषे स च सा० सं० भाष्ये उक्तो यथा “एकस्मिन् सूक्ते विद्यमानानां तिसृणामृचां ब्राह्मणोक्तविधानेन सप्तदशधाम्यासः सप्तदशस्तोमः तादृशेषु स्तोत्रेषु पृष्ठशब्दः श्रूयते “सप्तदशानि पृष्ठानि इति” तानि पृष्ठानि विश्वजिति चोदकप्रप्तत्वात् सर्वपृष्ठशब्देनानूद्यन्ते इत्येकः पक्षः। रथन्तर पृष्ठ वृहत्पृष्ठयोर्ज्योतिष्टोमे विकल्पितयोरिहापि चोदकेन विकल्पप्राप्तौ सर्वशब्देन समुच्चयो विधीयते। तथा सत्यनुवादकृतं वैयर्थ्यं न भविष्यति इति द्वितीयः। सर्वत्वं बहुषु मुख्यं न तु द्वयोः। तस्मादनेन सर्वपृष्ठशब्देन षट्संख्यकानि पृष्ठान्यतिदिश्यन्ते षडहे प्रतिदिनमेकैकं पृष्ठं विहितम्। तानि च पृष्ठानि षट् रथन्तरवृहद्वैरूपवैराजशाक्वररैवतसामभिः निष्पाद्यानि”।

पृष्ठगीप = पु० पृष्ठं गोपायति गुप–वा अयाभावे ण्वुल्। पृष्ठदेशरक्षके योधभेदे भा० आ० २०१ अ०।

पृष्ठग्रन्थि = त्रि० पृष्ठे ग्रन्थिर्यस्य। (कुजो) कुब्जे हेमच०।

पृष्ठचक्षुस् = पु० पृष्ठे पश्चाद्भागे चक्षुः दृष्टिः तद्व्यापारोऽस्य। पश्चाद्दृष्टियुक्ते भल्लूके शब्दार्थक०।

पृष्ठज = त्रि० पृष्ठे पश्चात् जायते जन–ड। पश्चाद् जात भा० आ० ६३ अ०।

पृष्ठजाह = त्रि० पृष्ठस्य मूलं कर्णा० मूले जाहच्। पृष्ठमूले।

पृष्ठतल्पन = न० तल्पमिवाचरति तल्प + क्विप्न मधातुः भावे ल्युट्। पृष्ठस्य तल्पनं तल्पवदाचरणम्। (पिठे शोओया) प्रवेष्टे त्रिका०।

पृष्ठतस् = अव्य० पृष्ठ + तसिल्। पश्चाद्भागे इत्यर्थे।

पृष्ठदृष्टि = पु० पृष्ठे दृष्टिस्तद्व्यापारोऽस्य। भल्लूक राजनि०।

पृष्ठमर्म्मन् = न० ७ त०। सुश्रुतोक्ते पृष्ठस्थमर्मभेदे स च तत्रोक्तो यथा “अत ऊर्द्धपृष्ठमर्माण्यनुव्याख्यास्यामः। तत्र पृष्ठवंशमुभयतः प्रतिश्रोणीकाण्डमस्थिनी कटीकतरुणे नाम मर्मणी तत्र शीणितक्षयात् पाण्डुर्बिवर्णो हीनरूपश्च म्रियते। पार्श्वजघनबहिर्भागे पृष्ठवंशमुभयतो नातिनिम्ने कुकुन्दरे नाम मर्मणी तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च। श्रोणीकाण्डयोरुपर्य्याशयाच्छादनौ पार्श्वान्तरप्रातबद्धौ नितम्बौ नाम तत्राधः कायशोषो दौर्बल्यात्तु मरणम्। अधःपार्श्वान्तरप्रतिवद्धौ जघनपार्श्वमध्ययोस्तिर्य्यगूर्द्धञ्च जघनात् पार्श्वसन्धी नाम तत्र लोहितपूर्णकोष्ठतया म्रियते। स्तनमूलादुभ्रयतः पृष्ठवंशस्य वृहती नाम तत्र शोणितातिप्रवृत्ति निमित्तैरुपद्रवैर्म्रियते। पृष्ठोपरि पृष्ठघंशमुभयतस्त्रिकसम्बद्धे अंसफलके नाम तत्र बाह्वोः स्वापः शोषो वा। बाहुमूर्द्ध्वग्रीवामध्येऽंसपीठस्कन्धनिबन्धनावंसौ नाम तत्र स्तब्धवाहुता। एवमेतानि चतुर्दश पृष्ठमर्माणि व्याख्यातानि”।

पृष्ठमांस = न० पृष्ठस्य मांसम्। पश्वादीनां पृष्ठस्थे मांसे। तस्याभक्ष्यता मार्कपु० उक्ता यथा “पृष्ठमांसं वृथामांसं गर्ह्यमांसं च पुत्रक!। न भक्षयीत सततं प्रत्यक्षलवणानि च”।

पृष्ठमांसाद = त्रि० पृष्ठे परोक्षे मांसाद इव। १ परोक्षे शःठ्येन वाक्याभिधायिनि पुरुषे दाषोद्घोषके त्रिका०। “कुसृत्या विभवान्वेषीत्यतः कुसृव्येति समाकर्षात् बाक्याभिधानेऽन्वये तथार्थत्वम्। पृष्ठमांसादनशब्दे दृश्यम्। पत्वादेः २ पृष्ठमांसभक्षके त्रि०।

पृष्ठमांसादन = न० पृष्ठे पराक्षे मांसादनमिव। “पृष्ठमांसादनं तत् यत् परोक्षे दोषकीर्त्तनम्” हेमच० उक्तेऽर्थे २ पश्वादीनां पृष्ठमांमस्य भक्षणे च।

पृष्ठयज्वन् = पु० पृष्ठैः रथन्तरादिभिरिष्टवान् यज–वनिप्। रथन्तरादिभिः षडभिःस्तोत्रसमूहैरिष्टवति ऋ० ५ ५४१

पृष्ठयान = न० पृष्ठेन यानं गमनम्। (पिठे याओया) पृष्ठेन गमने। तच्च अर्शोरोगे निदानं सुश्रुते उक्तं अर्शश्शब्दे दृश्यम्।

पृष्ठवंश = पु० ६ त०। (पिटेर दा~ङा) पृष्ठास्थ्नि हेमच०। “चतुर्विंशतिः पृष्ठ वंशे” सुश्रुतोक्तेः तत्र चतुर्विंशति रस्थीनि। पृष्ठमर्मन्शब्दे दृश्यम्।

पृष्ठवास्तु = न० ७ त०। बलिदातुः पृष्ठभागस्थे वाखुनि “पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये” मनुः। मृहो परिगृहं पृष्ठवास्तु” २ कुल्लूकभट्टोक्तेऽर्थे च।

पृष्ठवाह् = त्रि० पृष्ठं पश्चाद्भागं वहति वह–ण्वि। पश्चाद्भागवाहके हरिवं १६६ श्लो०। भत्वे वाहघठ्। पृष्ठौहः। स्त्रियां ङीप्। पृष्ठं युगपार्श्व वहति वह–ण्वि। २ युगपार्श्वबाहकवृषे

पृष्ठवाह्य = पु० पृष्ठेन वाह्यं वहनं यस्व। पृष्ठेन भारवाहकवृषे हेमच०।

पृष्ठशय = त्रि० पृष्ठे शेते पृष्ठरूपाधिकरीणोपपदे कर्त्तरि अच्। पृष्ठे शायिनि उत्तानशये।

पृष्ठशृङ्ग = पुं स्त्री पृष्ठे शृङ्गमस्य। वनच्छागे हेमच०। स्वियां जातित्वात् ङीष्।

पृष्ठशृङ्गिन् = पु० ७ त०। १ महिषे २ नपुंसके ३ भीमसेने च भेदि०।

पृष्ठेमुख = पु० पृष्ठे सुखमस्य अलुक्स०। कुमारानुचरभेदे भा० श० ४६ अ०।

पृष्ठोदय = पु० पृष्ठेनोदयो यस्य। ज्योतिषोक्ते पृष्ठेनोदययुक्ते राशिभेदे “अजो गोपतियुग्मञ्च कर्किधन्विमृगास्तथा। निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः। निशा संज्ञा विमिथुनाः स्मृताः पृष्ठोदबास्तथा। शेषाः शीर्षो दया ह्येते मीनश्चोभयसंज्ञकः”।

पृष्ठ्य = न० पृष्ठानां स्तीत्रभेदानां समूहः “पृष्ठेस्योपसंख्यानम्” वार्त्ति० समूहे यत्। १ स्तोत्रसमूहे। पृष्ठे भवः यत्। २ पृष्ठभवे त्रि०। “सोमयागेषु छन्दोगैः क्रियमाणः पृष्ठ्याति सज्ञिका स्तुतिः स्तोषः” मि० कौ०। पृष्ठेन वहति यत्। ३ पृष्ठेन भारवाहके अश्वे (वेटोघोडा) अमरः।

पृष्ठ्यस्तोम = पु० पृष्ठ्यस्तोमः साधनतयाऽस्त्यस्य अच्। सामवेदप्रसिद्धेषु षट् सु क्रतुभेदेषु “पृष्ठ्यस्तोमास्त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिनवत्रयस्त्रिंशाः” कात्या० औ० २२, ६ २६ “पृष्ठस्तोमसंज्ञकाः षट् क्रतवो भवन्ति त्रिवृदादयः” कर्कः।

पृष्णि = पु० पृश्नि + पृषो०। नानावर्णयुक्ते मततः २ पार्ष्णिभागे स्त्री उणादि०।

पॄ = पालने पूर्त्तौ च क्य्रा० भ्वा० पर० सक० सेट् श्नाप्रत्यये परे ह्रस्वः। पृणाति अपारीत्। पपार पपरतुः पप्रतुः।

पृ = पूर्त्तौ च्र० उम० सक० सेट्। पारयति-ते अपीपरत् त।

पेचक = पु० स्त्री पद–वुनृ अतपच्च। (पे~चा) १ उलूके स्त्रियां जातित्वात् ङीष्। २ गऊपुख्वमृलोपाले २ पुदाच्छादकमांसपिण्डमेदे पु० अमरः। ४ पय्य ङ्के ५ यूके पु० विश्वः। ६ मेघे शब्दर०।

पेचकिम् = पु० पेचकः पुच्छमूलोपान्तोऽस्त्यस्य इनि। गजे शब्दरत्ना० स्त्रियां ङीप्।

पेचिल = पुंस्त्री० पच + बा० इलच् अतएच्च। गजे त्रिका०। स्त्रियां जातित्वात् ङीष्।

पेचु = न० पचि–उन् अत एत्त्वम्। पेचुल्यां त्रिका०।

पेचुली = स्त्री पच–उलच् अतएत् गौरा० ङीष्। शाकभेदे। त्रिका०।

पेट = पु० पिट–अच्। १ प्रहस्ते राजनि०। २ संहतिकारके त्रि०

पेटक = पु० न० पिट–ण्वुल्। पुस्तकादीनां स्थापनार्थे वेत्रादिनिर्सिते १ पदार्थे २ कदम्बके ३ समूहे च मेदि०। ४ वंशादिनिर्मिते समुद्गकाकारे (पेटारा) पदार्थे पु० अमरः।

पेटाक = पु० पेटक + पृषो०। पेटके द्विरूपकोषः।

पेटिका = स्त्री पिट–ण्वुल् कापि अत इत्त्वम्। (टेपारि) क्षुपभेदे रत्नमाला।

पेटी = स्त्री पिट–अच् स्वल्पार्थे ङीप्। क्षुद्रपेटके अमरः।

पेडा = स्त्री पेट + पृषो०। वृहत्पेटिकायां भरतः।

पेढान = पु० अवसर्पिण्यां जिनोत्तमभेदे हेमच०।

पेण = गतौ पेषे च सक० श्लेषे अक० भ्वा० पर० सेट्। पेणति अपेणीत्। ऋदित् चङि न ह्रस्वः अपिपेणत् त।

पेत्व = न० पा–पाने कर्मण्णि इत्वन्। १ अमृते २ घृते च उज्ज्वल०

पेदु = पु० राजभेदे ऋ० १। ११९। १० भा०।

पेय = त्रि० पा–पाने कर्मणि यत्। १ पातव्ये २ जले नेदि०। ३ दुग्धे शब्दच०। ४ अष्टविधान्नान्तर्गते तरलयवाग्वादौ अन्नभेदे “भोज्यं षेयंतथा चूष्यं लेह्यं खाद्यञ्च चर्वणम्। निष्पेय ञ्चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम्” राजनि०। ५ सिक्थ युक्तपेयद्रव्ये स्त्री। “पेया स्वेदाग्निजननी वातपर्चोऽनुलोमनी। क्षुत्तृष्णाग्लानिदौर्वल्यकृक्षिरोगविनाशिनी” राजव०। ६ श्राणायां मेदि०।

पेयूष = पु० न० पीय–सौ० ऊषन् बाहुलकात् पक्षे गुणः। १ अमृते २ नवघृते। “सप्तरात्रप्रसूतायाः क्षीरं पेयूषमुच्यते” हारा० उक्ते आसप्तरात्राभ्यन्तरकालीने ३ दुग्धे च।

पेरज = न० उपमणिभेदे राजनि०। पिरोजशब्दे दृश्यम्।

पेरा = स्त्री पि–बा० रे। वाद्यभेदे भट्टिः १७। ७।

पेरु = पु० पोयते रसान् पी–रु। १ आदित्ये २ वह्नौ च उज्ज्वल०। पुर–उ मृगय्वादेराकृतिगणत्वात् नि०। ३ समुद्रे त्रिका०

पेरुक = पु० राजभेदे ऋ० ६। ६३। ९

पेरोज = न० उपमणिभेदे (पीरोजा) राजनि०। तच्च द्विविधं पीताभं हरिताभञ्च। तस्य गुणाः “पेरजं सुकषायं स्यान्मधुरं दीपनं परम्। स्थावरं जङ्गमञ्चैव संयोगाच्च यथाविधम्। तत्सर्वं नाशयेत् शीघ्रं शूलं भूतादिदोषजम्। पाठान्तरं यथा “पेरजं सुकषायं स्यान्मधुरं दीपनं द्वयोः। स्थावरादिविषव्नं स्याद्धरितञ्चापरं शृणु। पीताभं नाशयेच्छीघ्रं शूलं तिमिरभूतजम्” राजनि०।

पेल = कम्पे अक० गतौ सक० भ्वा० पर० सेट्। पेलति अपेलीत्। ऋदित् चङि न ह्रस्वः अपिपेलत् त। निघण्टौ अयं गतिकर्मतया चुरादित्वेन पठितः। तेन पेलयति ते

पेल = न० पेल–अच्। पुंश्चिह्ने अङ्गभेदे (अण्डकोष) हेमच०।

पेलव = त्रि० पेल–घञ् पेलं वाति वा–कं। १ कोमले त्रिका० २ कृशे हेमच०। ३ विरले अमरः।

पेलि = पु० पेल–इन्। गन्तरि ६ त०। तत्परं शालायाः न क्लीवत्वम्। आद्युदात्तता चास्य।

पेव = सेवने भ्वा० सक० आत्म० सेट्। पेवते अषेविष्ट। ऋदित् चङि न ह्रस्वः। अपिपेवत् त। ओष्ठान्त्यतयाऽयं धातुपाठे पठितस्तेनोभयरूपता।

पेश = पु० पिश–अच्। रूपे निघण्टुः पेशलशब्दे दृश्यम्।

पेश(ष)(स)ल = त्रि० पिश(ष)(स)–अलच्। १ सुन्दरे २ दक्षे ३ कोमले च अमरः। मूर्द्धन्यदन्त्यमध्योऽप्युक्तार्थेषु भरतः। ४ धूर्त्ते शब्दर०। पेशोरूपमस्त्यस्य सिध्मा० लच्। ५ विष्णौ पु०। “अक्रूरः पेशलो दक्षः” विष्णुस०

पेशस् = न० पिश–असुन्। १ रूपे २ हिरण्ये च निधण्टुः। ३ कोषे च।

पेशस्कार = त्रि० पेशोरूपान्तरं करोति स्वगृहीतकीटस्य कृ–अण् उप० स०। खरूपकरे कीष्टभेदे स्त्रियां ङीप्। यजु० ३०। ९।

पेशस्कृत् = त्रि० पेशो रूपान्तरं स्वगृहीतकीटस्य करोति कृ–क्विप्। कीटभेदे (का~चपोका) “कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः। याति तत्सात्मतां राजन्! पूर्बरूपमसंत्यजन्” भाग० ११। ९। २४

पेशि(शी) = स्त्री पिश–इन् वा ङीप्। १ वज्रे २ माषविदले च उणादि०। दीर्घाग्वः ३ अण्डे अमरः। ४ सुपक्वकलिकायां ५ मांस्यां ६ खड्गपिधाने (खाप) ७ मांसपिण्ड्यां च मेदि०। ५ नदीभेदे ६ पिशाचीगेदे ७ राक्षसीमेदे शब्दरत्ना०। ८ गभा- वेष्टनचर्ममये कोषे च “बिन्दुमांसादयोऽवस्थाः शुक्रशोणितसम्भावाः। यासामेव निपातेन कललं नाम जायते। कललात् बुद्बुदोत्पत्तिः र्पशी च बुद्बुदात् स्मृता। षेश्यास्त्वक्प्रतिनिर्वृत्तिः” भा० शा० ३३२ अ०। ९ वाद्यभेदे “तथा भेर्य्यश्च पेश्यश्च क्रकचा गोविषाणिकाः” भा० भी० ४३ अ०।

पेशीकोष = पु० ६ त०। अण्डकोषे हेमच०।

पेष = सेवने निश्चये च भ्वा० आ० सक० सेट्। पेषते अषेषिष्ट पिषेषे ऋदित् चङि न ह्रस्वः। अपिपेषत् त।

पेषण = न० पिप–भावे ल्युट्। १ अवयवविभागेन चूर्णने। आधारे ल्युट्। २ खले औषधादेर्मदनपात्रभेदे (तेकाटासिज) ३ वृक्षभेदे पु० शब्दच०।

पेषणि(णी) = स्त्री पिष–करणे अनि। (शिल)ख्याते हरिद्रादेश्चूर्णनसाधने शिलामये द्रव्यभेदे वा ङीप्।

पेषाक = पु० पिष–आकन्। पेषण्याम् उणा०।

पेषि = पु० पिष–इन्। वज्रे उज्ज्वलदत्तः।

पेस = गतौ भ्वा० पर० सक० सेट्। पेसति अषेसीत् पिषेसे। ऋदित् चङि न ह्रस्वः। अपिपेशत् त।

पेसुक = त्रि० पिस–बा० उक। अभिवर्द्धनशीले शत० ब्रा० १। ७। ३१८। भा०

पेस्वर = त्रि० पिस–शीलार्थे वरच्। गतिशीले।

पै = शोषे भ्वा० पर० सक० अनिट्। पायति अपासीत् पपौ।

पैङ्ग = पु० ऋषिभेदे भा० स० ४ अ०।

पैङ्गराज = पु० पक्षिभेदे यजु० २४। ३४ मा०।

पैङ्गल = पु० ब० व०। पिङ्गलस्यापत्यं गर्गा० यञ्। पैङ्गल्य तस्य छात्राः कण्वा० अण् यलोपः। पिङ्गललापत्यस्य छात्रेषु।

पैङ्गरा(ला)यन = पुं स्त्री० पिङ्गर (ल) स्यर्षे गोत्रापत्यम् नडा० फक्। तन्नामकर्षेरपत्ये।

पैङ्गलोदायनि = पुं स्त्र० पैङ्गलोदायनस्यापत्यम् इञ्। प्राच्यभवे तन्नामकर्षिगोत्रापत्ये ततः यूनि फक् तस्य पैला० लुक्। तदीये यून्यपत्ये।

पैङ्गल्य = पुंस्त्री० पिङ्गलस्य गोत्रापत्यं गर्गा० यञ्। पिङ्गलर्षेर्गोत्रापत्ये।

पैङ्गि = पुंस्त्री० पिङ्गस्यापत्यमिञ्। पिङ्गस्यर्षेः पुत्रे स्त्रियां ङीप्। “पैङ्गीपुत्रात् पैङ्गीपुत्रः” शत० ब्रा० १४। ९। ४। ३०।

पैङ्गिन् = पु० पिङ्गेनर्षिणा प्रोक्तः कल्पः इनि। पिङ्गर्षिप्रोक्ते कल्पशास्त्रे।

पैङ्ग्य = पु० पिङ्ग बा० अपत्ये यञ्। पैङ्गर्षिपुत्रे स च गोत्रप्रवरर्षिभेदः।

पैयवन = पु० पीयवनस्यापत्यमण्। षैयवने नृपे सनुः ८। ११० प्रैयवन इति पाठान्तरम्।

पैञ्जूष = पु० पिञ्च–ऊष स्वार्थे अण्। कर्णे श्रीत्रे हेमच०।

पैठर = त्रि० पिठरे संस्कतं पक्वम्। स्थालीपक्वमां सादौ अमर।

पैठिक = पु० असुरभेदे हरिवं० १६१ अ०।

पैठिनसि = पु० १ उपस्मृतिकारके २ ऋषिभेदे ३ गोत्रर्षिमेदे च प्रवरा०।

पैण्डायन = पुंस्त्री पिण्डर्षेर्गोत्रापत्यम् नडा० फक्। पिण्डर्षिगोत्रापत्ये।

पैण्डिक्य(न्य) = पिण्डं परपिण्डं भक्ष्यतयाऽस्त्यस्य ष्ठन् इनि बा पिण्डिक पिण्डिन् वा तस्य भावः पुरोहिता० यक् ष्यञ् वा। परपिण्डोपजीवित्वे भिक्षोपजीवने त्रिका०।

पैण्ड्य = त्रि० पिण्ड्यां भवः कुर्वा० ण्य। पिण्डीभवे।

पैतरावण = पु० गोत्रप्रवरर्षिभेदे प्रवरा०।

पैतृक = त्रि० पितृत आगतं पितुरिटं वा ठञ्। १ पितृत। प्राप्ते २ षितृसम्बन्धिनि च। पैतृकभूमिमाहात्म्यं ब्रह्मवै। जन्मख० १०३ अ० दर्शितं मथा “वासुदेव! न यास्यामि भूमिं तां, पैतृकी पुनः। सर्वत्रीर्थपरा शुद्धा दैवे कर्मणि षैतृके। पारक्ये भूमिदेशे च पितॄणां निर्वपेत्तु यः। तद्भूमिस्वामिपितृभिः श्राद्धकर्म निहन्थते। पितॄणां निष्फलं श्राद्धं देवानामपि पूजनम्। किञ्चित्फलप्रदञ्चैव सम्पूर्णं पैतृके स्थले। पुत्रपौत्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा। दुर्लभा पैतृकी भूमिः तितुर्मातुर्गरीयसी। तच्छस्यञ्च पवित्रञ्च दैवे कर्मणि पैतृके। क्रीतञ्च तदृते दानं परदत्तमशुद्धकम्। म्रियते पैतृकभूम्यां तीर्थतुल्यफलं लभेत्। गङ्गाजलसमं पूतं पितृखातोदकं हरे!। पितॄणां तर्पणं तत्र पवित्रं देवपूजनम्। पैतृकी जन्मभूमिश्चेत् फलं तद्द्विगुणं लभेत्। पैवृकभूमितुल्या न दानभूमि। सतामपि”।

पैतृमत्य = त्रि० पितृमत्यां अनूढायां कन्यायां भवः कुर्वा० ण्य। कन्यायां भवे कानीने।

पैतृष्वसेय = पुं स्त्री पितुः स्वसुरपत्यम् टक् अन्त्यलोपः षत्वम्। पितृस्वसुरपत्ये।

पैतृस्वस्रीय = पुंस्त्री० पितुः स्वसुरपत्यम् छण्। पितुस्वसरपत्ये

पैत्त = त्रि० षित्तात् आगतः अण्। धातुविशेषपित्तकृते ज्वरादौ

पैत्तिक = त्रि० पित्तेन निर्वृत्तः ठञ्। धातुविशेषपित्तकृते व्याधौ।

पैत्र = त्रि० वितुरिदम् अण्। १ पितृसम्बन्धिनि श्राद्धादौ। अङ्गुष्ठतर्जन्योर्मध्यस्थाने २ पितृतीर्थे न०। ३ पितृसम्बन्धिदिने च तन्मानं च अहन्शब्दे ५७६ पृ० उक्तं दृश्यम्।

पैद्व = पुंस्त्री स्मश्वे निघण्ठु। ऋ० ९। ८८। ४। स्वियां खातित्वात् ङीष्।

पैनद्धक = त्रि० पिनद्ध + चतुरर्थ्यां वराहा० कक्। पिनद्धसमीपादौ।

पैप्पलाद = पु० ब० व०। पिप्पलादेन ऋषिणा प्रोक्तमधीयते अण्। १ पिष्पलर्धिप्रोक्ताध्यायिषु तदर्शस्य २ वेत्तृषु च कार्त्तकौज० सौभेन सह द्वन्द्वे पूर्बं प्रकृतिस्वरः।

पैप्पलादि = पुंस्त्री पिप्पलादस्यर्षेरपत्यम् इञ्। पिप्पलादर्षेरपत्ये स च गोत्रप्रवरर्षिभेदः प्रवराध्यायः स्त्रियां ङीष्।

पैल(लेय) = पुंस्त्री० पीलाया अपत्यं “पीलाया वा” पा० अण् पक्षे ढक्। पीलाया अपत्ये स्त्रियां ङीष्। यून्यपत्ये तु “अनोद्व्यचः” पा० फिञ् तस्य पैलादि० लुक्। तस्य यन्यपत्येऽपि। तथा च पैलः पिता पुत्रश्च।

पैलगर्ग = पु० कर्म०। ऋषिभेदे तदाश्रमस्य च तीर्थत्वम् भा० उ० १८७ अ०।

पैलव = त्रि० पीलौ दीयते कार्य्यं वा व्युष्टा० अण्। पीलौ १ दीयमाने २ कार्य्ये च। व्युष्टा० गणे पीलुमूलेति व्यस्तमित्येके समस्तसित्यन्य। इदमर्थेअण्। पीलुसम्बन्धिनि त्रि० मनुः २। ४०।

पैलवहक = त्रि० पीलुवहे भवः वहान्तत्वात् वुण्। पीलुवहजलादिभवे।

पैलादि = “पैलाद्रिभ्यश्च” पा० युवप्रत्ययलुग्निमित्ते शब्दगणे स च गणः “पैल शालङ्कि सात्यकि सात्यङ्कामि राहवि रावणि औदञ्ची औदव्रजी औदमेढि औदमज्जि औदभृज्जि दैवस्थानि पैङ्गलोदायनि राहक्षति भौलिङ्गि राणि औदन्यि औद्गाहमानि औज्जिहानि औदशुद्धि (तद्राजा चाणः) (आकृतिगणोऽयम्)। तद्राजसंज्ञकात् परस्य युवप्रत्ययस्य लुगित्यर्थः।

पैशाच = पु० पिशाचेन निर्वृत्तः अण्। “सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति। स पापिष्ठो विवाहानां पैशाचः” मनूक्ते १ विवाहभेदे २ पिशाचकृते ३ तत्सम्बन्धिनि च त्रि०। स्त्रियां ङीप् “पैशाचीं योनिमापन्नाः” पुरा०। “यच्चाक्रुश्य ददाति दत्त्वा वा क्रोशति असत्कृतं पैशाचमिति” हारीतोक्ते ४ दानभेदे स्वार्थे अण्। ५ षिशाचशब्दार्थे पु० पर्श्वा० अण्। ६ आयुधजीविसङ्घभेदे। बहुषु तस्य लुक्।

पैशुन (न्य) = न० पिशुनस्य भावः युवा० अण् ब्राह्मणा ष्यञ् वा। पिशुनत्वे

पैष्ट = त्रि० पिष्टस्येदम्। अण् १ पिष्टसम्वन्धिनि स्त्रियां ङीप् सा च २ सुराभेदे। “पैष्टी कट्वम्लतीक्ष्णा स्यादीषद्गौडीसमा परा। वातहृत् कफकृत्त्वीषत्पित्तकृन्मोहनी च सा” राजनि०।

पैसुकायन = पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः।

पो = त्रि० पवते पुनाति वा पु–पू–वा विच् १ शुद्धे २ शोधके च।

पोगण्ड = पु० पौः शुद्धो गण्ड एकदेशो यस्य। १ विकलाङ्गे २ न्यूनाधिकाङ्गे। स्वार्थे अण्। “पौगण्डः पञ्चमादवदादर्वाक् च दशमाब्दतः” इत्युक्तवयस्के बालके पु० हला०।

पोट = पु० पुट–श्लेषे घञ्। १ संश्लेषे–आधारे घञ्। २ वेश्मभूमौ जटा०।

पोटमंल = पु० पोटेन संश्लेषमात्रेण गलति गल–अच्। १ नले २ काशे च अमरः। ३ मत्स्यभेदे पुंस्त्री मेदि० स्त्रियां ङीष्।

पोटलक = न० पोटेन लीयते ली–ड स्वार्थे क। (पु~टलि) ख्याते संश्लिष्टवस्त्रादौ कात्या० श्रौ० ७। ९। ४। कर्कः। तत्रार्थे स्त्री कापि अत इत्त्वम् पोटलिका।

पोटा = स्त्री चु० पुट–अच्। पुरुषलक्षणयुक्तायां स्त्रियाम्। अमरः।

पोट्टलिका = स्त्री पोटलिका + पृषो० (पु~टलि) ख्याते पदार्थे पोट्टलीत्यपि तत्रार्थे “शुद्ध्यर्थं त्रिफलाक्वाथे गुडूव्याः क्वाथ एव वा। दोलायन्त्रे पुरः पाच्यः पोट्टल्या वस्त्रवद्धया” वैद्यक०।

पोट्टिल = पु० अवसर्पिण्यां जिनीत्तमभेदे हेमच०।

पोडु = पु० पुड–उन्। कपालास्थितले राजनि०।

पोत = पुंस्त्री पू–तन्। १ बालके २ वहित्रे च अमरः। ३ गृहस्थानभेदे (पो~ता) ४ वस्त्रे च मेदि०। ५ दशवर्षीयगजे हेमच०। ६ समुद्रयाने नौकाभेदे (जाहाज) ततः समूहे पाशा० य। पोत्या पोतसमूहे स्त्री।

पोतक = पु० पोत इव कायति कै–क स्वार्थे क वा। १ पोतपदार्थे २ नागभेदे भा० उ० १०२ अ०। गौरा० ङीष्। ३ पूतिकाशाके स्त्री ४ श्योनाके च स्त्री राजनि०।

पोतज = पु० पोतः सन् जायते जन–ड। शिशुभूततया जायमाने गजाश्वादौ हेमच०।

पोतन = त्रि० पू–तन। १ पवित्रे २ पवित्रताकारके च स्त्रियां गौरा० ङीष्।

पोतप्लव = पु० पोतेव प्लवते प्लु–अच्। नौकया तारके वृ० सं० १०। १०।

पोतबणिज् = पु० पोते बणिक्। नौकया बाणिज्यकारके अमरः।

पोतरक्ष = पु० पोतं रक्षति अण् उप० स०। (हालि) ख्याते पदार्थे केनिपातके शब्दमा०।

पोतनकप्रिय = त्रि० बुद्धगेदे त्रिका०।

पोतवाह = पु० पोतं नावं वहति वह–अण् उप० स०। नौकावाहके (दा~डि) अमरः।

पोताच्छादन = न० पोतस्येवाच्छादनम्। वस्त्रकुटीरे हारा०।

पोताधान = पु० पोतानां शिशूनामण्डजातमत्स्यानामाधानम्। क्षुद्रमत्स्यसङ्घे (पोनारझा~क) अमरः।

पोतास = पु० पोत इवासति अस–दीप्तौ अच्। कर्पूरभेदे राजनि०।

पो(पौ)तिमत्स्यक = पु० नृपभेदे भा० उ० ३ अ०।

पोतिका = स्त्री पूतिका + पृषो०। पूतिकायां १ शाकभेदे भरतः २ शतपुष्पायां ३ सूलपीत्यां च राजनि०।

पोतु = पु० पु–तुन्। मानभाण्डशोधके हेमच०।

पोतृ = पु० पुनाति पु–तृन्। ऋत्विग्मेदे अच्छावाकशब्दे ८५ पृ० दृश्यम्। होत्रादिशब्देन द्वन्द्वे ऋत आत्। पोताहोतारौ।

पोत्र = न० पू–त्र। १ वज्रे २ शूकरमुखाग्र ३ लाङ्गलसुखाग्रे, ४ वहित्रे च मेदि०।

पोत्रायुध = पुं स्त्री पोत्रमायुधमिवास्य। शूकरे राजनि०। स्त्रियां जातित्वात् ङीष्।

पोत्रिन् = पु० पोत्रमस्त्यस्य इनि। शूकरे अमरः। पोत्रयुक्ते त्रि०। स्त्रियां ङीप्।

पोत्रिरथा = स्त्री पोत्री रथ इव गतिसाधनमस्याः। जिनशक्तिभेदे त्रिका०।

पोत्रीय = त्रि० पोतुः कर्म छ। पोतृकर्त्तव्ये कर्मणि। कात्या० श्रौ० २४। ४। ४२।

पोथकी = स्त्री “कण्डूस्रावान्विता गुर्व्यो रक्तसषणसन्निभाः। पिडकाश्च रुजावत्यः पोथक्य इति संज्ञिताः” सुश्रुतोक्ते पिडकाभेदे।

पोल = त्रि० पुल–ज्वला० ण। १ महत्त्वयुक्ते। २ पिष्टकमेदे स्त्री गौरा० ङीन।

पोलिका = स्त्री पूरिकाभेदे कृतान्नशब्दे २१८१ पृ० दृश्यम्।

पोलिन्द = पु० पोतस्यालिन्द इव पृषो०। नौकांशभेदे त्रिका०।

पोषयित्रु = त्रि० पुष–णिच्–इत्नु। १ पोषके २ काकपोष्ये पिके च उज्ज्वल०।

पोषुक = त्रि० पुष–बा० उक। पोषणकरणशीले “तमनुपोषं षोषुको भवति” षड्विंशब्रा०।

पोष्टृ = पु० पुष–तृच्। (का~टा करमजा) १ करञ्जभेदे। २ पोषके त्रि० शब्दच०।

पोष्य = त्रि० पुष–कर्मणि ण्यत्। १ पोषणीये। आवश्यके ण्यत्। २ अबश्यपोष्ये। अवश्यपोष्यश्च दर्शितो यथां “भरणं पोव्यवर्गस्य दृष्टादृष्टफपोदयम्। प्रत्यवायोऽप्यभरणे कर्त्तव्यन्तत् प्रयत्नतः। माता पिता गुरुः पत्नी त्वपत्यानि समाश्रिताः। अभ्यागतोऽतिथिश्चाग्निः पोष्यपर्गा अमी नव” काशी० ख० ४५ अ०। “ज्ञातिर्बन्धुजनः क्षीणस्तथाऽनाथः समाश्रितः। अन्येऽप्यधनयुक्ताश्च पीष्यवर्ग उदाहृतः” दक्षसं०।

पोष्यपुत्र = पु० कर्म०। पालनादिना पुत्रत्वगाप्ते “अधुना कृत्तिकादीनां षण्णां यः पोष्यपुत्रकः। तन्नाम चक्रु स्ता प्रेम्णा कार्त्तिकश्चेति कौतुकात्” ब्रह्म० वै० गण० ख० १४ अ०। अधुना दत्तकपुत्रस्य पोष्यपुत्रत्वं व्यवह्रियते तद्विधानं। दत्तकशब्दे ३४३८ पृ० दृश्यम्।

पौंश्चलेय = पुं स्त्री पुंश्चली + अपत्ये ढक्। पुंश्चल्या अपत्ये

पौंश्चल्य = न० पुं श्चल + भावे ष्यञ्। १ असतीत्वे परपुरुषगामित्वे २ पुंस्त्रियोर्मिथोव्यभिचारे च मनुः ९। १५।

पौंसायन = पु० सौत्रामण्यां याजके दुष्टरीतौ राजभेदे शत० व्रा० १२। ९। ३। २

पौंस्न = न० पुंसो भावः स्नञ्। पुंस्त्वे।

पौंस्य = न० पुंस व्यमिमर्दने ण्यत् तत्र साधु बा० ण्य। १ वले निरु०। ३ संग्रामे च निघण्टुः ऋ० १। १८०। १०।

पौगण्ड = न० पौगण्डस्य भावः। १ पञ्चमात्रधिदशमवर्षान्तावस्थाभेदे पोमण्डशब्दे दृश्यम। स्वार्थे अण्। २ बदवस्थायुते त्रि०।

पौञ्जिष्ठ = पुंस्त्री अन्त्यजातिमेदे यजु० ३०१। ८। वेददी०।

पौटायन = पुंस्त्री पुटायानर्षेरपत्यम् अण्। पूटायनर्षेः गोत्रापत्ये।

पौणिक्या = स्त्री पुणगोत्रस्य स्त्री अण् स्त्रियां ष्यङ्। पुणगोत्रस्त्रियास।

पौण्डरीक = न० पुण्डरीकमिव शर्करा० अण्। पुण्डरीकतस्थे प्रपौण्डरीके राजनि०।

पौण्डर्य्य = न० पुण्डर्य्यमेव अण्। पुण्डर्य्ये भरतः।

पौण्ड्र = पु० २ वेशमेदे स च वृ० स० १४० पूर्वस्यासुक्तः मा० भी० ९ अ० सोऽस्य अमिखनः तस्य राजा वा अण्। २ तद्देशनृप्रे २ पित्रादिक्रमेण तद्देशवासिनि च। “पौण्ड्रश्च वलिनां वरः” हरि०वं० ९१ अ०। स च कृष्णेन निहतः “पाण्ड्यं पौण्ड्रं कलिङ्गश्च मात्स्यञ्चैव जनार्दनः। जथान सहितान् सर्वान्” हरिवं० १६१ अ०। “वसुदेवस्य सुतनूपत्नीजाते ४ पुत्रभेदे। “सुतनूश्च नराची च शौरेरास्तां परिग्रहः। पौण्ड्रश्च कपिलश्चैव वसुदेवस्य तौ सुतौ। नराच्वां क० पिलो जज्ञे पौण्ड्रश्च सुतनूसुतः। तयोर्नृपोऽभवत् पौण्ड्रः कपिलश्च वनं ययौ” हरिवं० १६२ अ०। ५ भ्रीमसेनशङ्खे ६ इक्षुभेदे पु० शब्दमा०। ७ क्रियालोपेन वृष० लत्वप्राप्ते क्षत्रियभेदे मनुः १०। ४४ स्वार्थे क। तत्रार्थे इजुभेदे (पुडि)।

पौण्ड्रनागर = पु० पौण्ड्रनगरे भवः अण् तस्य प्राच्यदशत्वेऽपि नगसन्तत्वेन उत्तरपदवृद्धिः। षौण्ड्रनगरभवे।

पौण्ड्रमात्स्यक = पु० राजभेदे भा० आ० ३७ अ०।

पौण्ड्रवर्द्धन = पु० (वेहार) ख्याते देशभेदे शब्दर० तत्र पौण्ड्रेक्षु प्राचुर्य्यात् तथात्वम्।

पौण्ड्रिक = पु० पुण्ड्र + स्वार्थे ठञ्। १ इक्षुभेदे शब्दमा०। २ गोत्रप्रवरर्षिभेदे प्रवराध्यायः।

पौण्य = त्रि० पुण्येषु श्रौतस्मातकर्मसु साधु अण्। पूर्णकर्मकारके कात्या० २३। २। ५।

पौतव = न० यौतव–पृषो०। परिमाणे हेमच०।

पौतिक = त्रि० पूतिकेन दुर्गन्धिना निर्वृत्तम् सङ्कला० अण्। पूतिकद्रव्यनिर्वृत्ते।

पौतिमाष = पु० ब० व०। पूतिमाषस्यर्षेः गोत्रापत्यं गर्गा० घञ्। तस्य छात्राः कण्वा० अण् यलोपः। पौतिमाष्यच्छात्रेषु।

पौतृक = न० पोतृरिदं ठञ्। ऋत्विग्भेदपोतृसम्वन्धिनि।

पौत्तिक = न० पुत्तिकाभिर्मधुमक्षिकाभेदैर्निर्वृत्तम् ठञ्। मधुनि रत्नमा०।

पौत्त्र = पुंस्त्री पुत्रस्यापत्यं शिवा० अण्। पुत्रस्य पुत्रे नप्तरि “पौत्रेणानन्त्यमश्नुते” इति स्मृतिः। स्त्रियां ङीप्।

पौदन्य = पु० अश्मकनृपनगरे भा० आ० १७७ अ०।

पौनःपुनिक = त्रि० पुनः पुनर्भवः ठञ् टिलोपः। पुनःपुनर्भवे।

पौनःपुन्य = न० पुनः पुनरेव स्वार्थे चतुर्वर्णा ष्यञ् टिलोपश्च। १ पुनःपुनरित्यर्थे भावे ष्यञ्। २ आभीक्ष्ण्ये

पौनरुक्त = न० पुनरुक्तस्य भाव ऋगयना० अण्। पुनर्वारोक्तौ

पौनरुक्तिक = न० पुनरुक्तमर्थं वेत्ति तत्पदं वाऽधीते उक्था० ठक्। १ पुनरुक्तार्थाभिज्ञे २ पुनरुक्तपदाध्येतरि च।

पौनर्भव = पुंस्त्री पुनर्भू + विदा० अपत्ये अञ्। पुनर्म्ब पत्ये १ द्वादशपुत्रमध्ये पुत्रभेदे “पत्या या च परित्यक्ता विधवावा स्वयेच्छया। उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते” मनुः। २ तथाविधकन्यायां स्त्री स्वार्थे अण्। तत्रार्थे “सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः। वाचादत्ता मनोदत्ता कृतकौतुकमङ्गला। उदकस्पर्गिता या च या च पाणिगृहीतिका। अग्निं परिगता या च पुनर्भूप्रभवा च। इत्येताः काश्यपेनोक्ता दहन्ति कुल० मग्निवत्” काश्यपोक्ते सप्तविधे ३ कन्याभेदे च। आर्षत्वात् ङीबभावः। अजादेराकृतिगणत्वात् वा टाप् इत्येके। पुनर्भुवं विन्दति अण। ४ गुनर्भूवेदके भर्त्तरि। “सा चेदक्षतयोनिः स्यात् गतप्रत्यागताऽपि वा”। पौनर्भवेन भर्त्रा सा पुनःसंस्कारगर्हति” मनुः।

पौर = त्रि० पुरे वसति शैषिकोऽण्। १ पुरवासिनि २ रोहिषतृणे न० (रामकर्पूर) अगरः। पूरः पूरक एव स्वार्थे अण्। ३ उदरपूरके त्रि० ऋ० २। ११। ११ भा०। पुरोभवः पुरस् + अण् टिलोपः। ३ पूर्वदिग्देशकालभवे “पौरा बुधगुरुर० विजा नित्यम्” वृ० सं० १७ अ०।

पौरक = न० पौर इव कायति कै–क। गृहबाह्योद्याने हेम०।

पौरकुत्सी = स्त्री पुरकुत्स्यापत्यं स्त्री इञ् ङीप्। गाधिराजमातरि हरिवं० २७ अ०।

पौरगीय = त्रि० पुरग + कृशाश्वा० चतुरर्थ्यां छण्। पुरगतसमीपादौ।

पौरण = पु० “पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरणेति आश्व० श्रौ० १२। १४। ५ उक्ते गोत्रप्रवरर्षिभेदे। पूरण + स्वार्थे अण्। ३ पूरणे स्त्रियां ङीप्। “पौरणीं भूषणक्रियाम्” हरिवं० ९८ अ०।

पौरन्दर = त्रि० पुरन्दरस्येदम् पुरन्दरोदेवताऽस्य वा अण्। १ शक्रसम्बन्धिनि २ ज्येष्ठानक्षत्रे च वृ० सं १५ अ०।

पौरव = पुंस्त्री० पु (पू) रोर्गोत्रापत्यमण्। १ ययातिपुत्रभेदस्य पु(पू) रोरपत्ये २ तत्सम्बन्धिनि च। ३ उतीच्यदेशभेदे वृ० सं० १४ अ०। मार्क० पु० ५८ अ० तस्य पूर्वोत्तरदिक्स्थत्वमुक्तं यथा “त्रिनेत्राः पौरवाश्चैव गन्धर्वाश्च द्विजोत्तम!। पूर्वोत्तरन्तु कूर्मस्य पादमेते व्यवस्थिताः” सोऽभिजनोऽस्य तस्य राजा वा अण्। पित्रादिकमेण ४ तद्देशवासिनि ५ तन्नृपेच।

पौरवीय = त्रि० पौरवो राजा भक्तिरस्य छ। पौरवनृपभक्तियुक्ते सि० कौ०।

पौरश्चरणिक = त्रि० पुरश्चरणस्य, व्याख्यानस्तत्र भवो वा ठञ्। १ पुरश्चरणप्रतिपादकग्रन्थव्याख्यानग्रन्थे २ तत्र भवे च।

पौरस्त्य = त्रि० पुरस् + भवार्थे त्यक्। १ पुरीभवे २ प्रथमे च अमरः

पौरागीव = त्रि० पुराग + कृशाश्वा० चतुरर्थ्यां छण्। पूर्वकालगतस्यादूरदेशादौ।

पौराण = त्रि० पुराणे पठितः अण्। पुराणपठिते भा० आ० १ अ०।

पौराणिक = त्रि० पुराणं वेत्त्यधीते वा “आख्यानाख्यायिकेतिहासपुराणेभ्यश्च” वार्त्ति० ठक्। १ पुराणार्थाभिज्ञे २ तदध्येतरि च। पुराणे पठिता ठक्। ३ तत्र पठिते त्रि० स्त्रियां ङीप्।

पौरिक = पु० दाक्षिणात्ये देशभेदे मार्कपु० ५७ अ०।

पौरुकुत्स = पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः।

पौरुष = न० पुरुषस्य भावः कर्म वा युवा० अण्। १ पुरुषत्वे २ विक्रमे ३ उद्यमे च। पुरुषस्येदम् अण्। ४ ऊर्द्ध्वविस्तृतवाहुपाणिकमनुष्यपरिमाणे अमरः। “जवेऽपि मानेऽपि च पौरुषाधिकम्” नैष०। स्वार्थे अण्। ४ पुरुषशब्दार्थे शत० ब्रा० १४। ७। १। १२।

पौरुषांशकिन् = पु० ब० व०। पुरुषांशकेन ऋषिणा प्रोक्त- मधीयते शौनका० णिनि। पुरुषांशकर्षिणा प्रोक्ताध्येतृषु।

पौरुषेय = पु० पुरुषस्य बधादि “पुरुषाद्बधविकारसमूहतेन कृतेषु” पा० ठञ्। पुरुषस्य १ बधे २ विकारे ३ समूहे ४ तेन कृते च।

पौरेय = त्रि० पुरस्यादूरदेशादि सख्या० ढञ्। नगरसमीपादौ

पौरोगव = पु० पुरोऽग्रे पाच्यवस्तुषु गौर्नेत्रं यस्य पुरोगुः ततः स्वार्थे प्रज्ञा० अण्। पाकशालाध्यक्षे अमरः।

पौरोहित = त्रि० पुरोहितस्य धर्म्यम् महिष्या० अण्। पुरोहितस्य धर्म्ये।

पौर्णदर्व = न० पूर्णया दर्व्या निष्पाद्यं कर्म अण्। वैदिके कर्मभेदे आश्व० श्रौ० २। १८। ९।

पौर्णमास = पु० पौर्णमास्यां भवः सन्धिवेला० अण्। १ पौर्णमासीविहिते यागे “दर्शपौर्णमासाभ्यां यजेत” श्रुतिः स च द्विविधः यावज्जीवकालिकः पञ्चदशीप्रतिपत्सन्धिकाल कर्त्तव्यश्च। तत्कालादिविधानं कात्या० श्रौ० २। १ कण्डिकादौ दृश्यम्। पूर्णोमाश्चन्द्रमास्तस्येयम् अण् पूर्णो मासो यस्यां वर्त्तते “पूर्णमासादण् वक्तव्यः” वा० अण् वा। २ शुक्लपक्षीयपञ्चदशकलाक्रियायां तदुपलक्षितकालरूपायां वा ३ तिथौ स्त्री ३ तदुत्तरप्रतिपदि च “द्वे ह वै पौर्णमास्यौ पूर्वा उत्तरा च तत्र पञ्चदशी पूर्वा प्रतिपदुत्तरा” इति श्रुतेः तत्र पञ्चदशी मुख्या प्रतिपद्गौणी इत्यर्थः।

पौर्णमासिक = त्रि० पूर्णमास्यां भवः कालाट् ठञ्। पौर्णमासभवे यागादौ वा० यत्। पौर्णमास्य तत्रार्थे।

पौर्णमी = स्त्री पूर्णतया चन्द्रो–मीयतेऽत्र मा–आधारे घञर्थे क स्वार्थे अण् ङीप्। पूर्णिमातिथौ त्रिका०।

पौर्त्तिक = त्रि० पूर्त्ताय साधु ठक्। पूर्त्तसाधने कर्मणि मनु० ३। १७८

पौर्य्य = पुं स्त्री० पुरस्यापत्यं कुर्वा० ण्य। पुरनामकस्य नृपस्यापत्ये

पौर्वनगरेय = त्रि० पूर्बनगर्य्यां भवः नद्या० ढक्। पूर्वनगरीभवे

पौर्वपदिक = त्रि० पूर्वपदं गृह्णाति ठञ्। पूर्वपदग्राहके।

पौर्वातिथ = पु० गोत्रप्रवरर्षिभेदे आश्व० श्रौ० १२। १४। १।

पौर्वापर्य्य = न० पूर्वापरयोर्भावः ष्यञ्। पूर्वापरत्वे।

पौर्वार्द्ध(र्द्धिक)र्द्ध्य = त्रि० पूर्वार्द्धे भवः यत् अञ् ठञ् वा पूर्वार्द्धभवे।

पौर्वाह्णिक = त्रि० पूर्वाह्णे भवः ठञ्। पूर्वाह्णभवे पक्षे ट्यु तुट् च। पूर्वाह्णेतन तत्रार्थे त्रि०।

पौर्विक = त्रि० पूर्वस्मिन् काले भवः ठञ्। पूर्वकालभवे स्त्रियां ङीप्। “जातिं स्मरति पौर्विकीम्” मनुः ४। १४८।

पौलस्त्य = पुंस्त्री० पुलस्तस्यापत्यं गर्गा० यञ्। पुलस्तस्यापत्ये १ कुवेरे २ रावणादौ च मेदि०। स्त्रियां ङीप् यलोपः। पौलस्ती शूर्पनखायाम्।

पौलाक = त्रि० पुलाकस्य विकारः पलाशा० अञ्। पुलाकविकारे।

पौलि = पु० पुल–इन् बा० वृद्धिश्च। १ ईषद्दग्धे आरब्धपक्वावस्थे कलायादौ अमरः। स्वार्थे क। तत्रार्थे हेमच०।

पौलुषि = पु० पुलुषवंश्ये सत्ययज्ञे ऋषिभेदे शत० ब्रा० १०। ६। १। १

पौलोमी = स्त्री पुलोम्नोऽपत्यम् अण् अनोलोपः। पुलोमजायां शच्यां हेमच०।

पौष = पु० पुष्येण युक्ता पौर्णमासी पुष्य–अण् यलोपः ङीप् पौषी सा यत्र मासे अर्द्धमासे वर्षे वा पुनरण्। १ पुष्यनक्षत्रयुक्तपौर्णमासीयुक्ते १ मासे २ पक्षे ३ जैवे वर्षभेदे कार्त्तिकशब्दे १९४९ पृ० दृश्यम्। “मीनादिस्थो रविर्येषामारम्भः प्रथमक्षणे” इत्यादिरीत्या धनुःस्थरव्यारब्धः शुक्लपतिपदादिदर्शान्तात्मको मुख्यचान्द्रपौषः कृष्णपक्षादिपौर्णमास्यन्तः गौणः पौषः, धनूराशिस्थरविकः सौरः पौष इति भेदः तेनान्यत्र भक्तिः।

पौष्कर = न० पुष्करस्याकारोऽस्त्यस्य सूले प्रज्ञा० अण्। १ पुष्करमूले राजनि० पुष्करस्येदम् अण्। २ पुष्करसम्बन्धिनि त्रि० विष्णोः पद्मतया प्रादुर्भावयुते ३ पाद्मे कल्पे पु०।

पौष्करमूल = न० स्वार्थे अण्। पुष्करमूले सुगन्धिद्रव्यभेदे भरतः

पौष्करिणी = स्त्री पुष्कराणां समूहः अण् स्वार्थे अण् वा ततोऽस्त्यर्थे इनि ङीप्। पुष्करिण्यां शब्दच०।

पौष्करेयक = न० पुष्करे जातादि कत्त्य्रा० ढकञ्। पुष्करे जातादौ स्त्रियां ङीप्।

पौष्कल = त्रि० पुष्कलेन निर्वृत्तम् सङ्कला० अण्। १ पुष्कलनिर्वृत्ते २ सामभेदे न० “उष्णिहि शफं ककुभि पौष्कलम्” सामसं० भा० धृता श्रुतिः “तच्च गीतं पवस्व मधुमत्तम” इति प्रगाथे (उत्तरा० १ प्र० १६) तस्मिन् पूर्वा ककुप् उत्तरा पङ्क्तिः। तत्र (ककुभि) पौष्कलं साम। (तच्च) ऊहगा० १ प्र–१६ दर्शितम्।

पौष्कलावत = पु० दिवोदासधन्वन्तरिं प्रति आयुर्वेदज्ञानार्थं प्रश्नकारके सुश्रुतसहाध्यायिभेदे सुश्रुते १। १ अ० दृश्यम्।

पौष्कलेयक = त्रि० पुष्कले जातादि कत्त्य्रा० ढकञ्। पुष्कलेजातादौ स्त्रियां ङीप्।

पौष्टिक = त्रि० पुष्ट्यै हितम् ठक्। पुष्टिसाधने कर्मभेदे “पुष्टिर्धनजनादीनां वृद्धिरित्यभिधीयते। तद्वेतृभूतं यत् कर्म पौष्टिकं तदिहोच्यते” स्मृतिदुर्गभञ्जनः।

पौष्टी = स्त्री पुरोर्नृपस्य स्त्रीभेदे भा० आ० ९४ अ०।

पौष्ण = त्रि० पुषा देवताऽस्य तस्येदं वा अण् षणन्तत्वात् उपधालोपः। १ पूषदेवताके चर्वादौ २ रेवतीनक्षत्रे न० ३ पूषसम्बन्धिनि त्रि० स्त्रियां ङीप्।

पौष्प = न० पुष्पेण निर्वृत्तः तस्येदं वा अण्। १ पुष्पसाध्ये २ मद्यभेदे स्त्री। ३ कुसुमसम्बन्धिमात्रे त्रि० स्त्रियां ङीप्। ४ पाटलिपुत्रनगर्य्यां स्त्री ङीप् शब्दरत्ना०।

पौष्य = पु० करवीरपुराधिपे पूष्णः पुत्रे १ नृपभेदे तत्कथा “पुष्णः पुत्रोऽभवत् पौष्यः सर्वशास्त्रार्थपारगः” कालिकापु०। उतङ्केनर्षिणा गुरुदक्षिणार्थं याचिते तस्मै कुण्डलदातरि २ नृपभेदे भा० आ० ६ अ०। तदधिकृत्य कृतो ग्रन्थः अण्। भा० आ० पर्वान्तर्गते ३ पर्वभेदे न०।

प्याट् = अव्य० प्याय–बा० डाटि। सम्बोधने अमरः।

प्याय = वृद्धौ भ्वा० आ० अक० सेट्। प्यायते, अप्यायि–अप्यायिष्ट इदित् ओदिच्च पीनः।

प्यायस्थूण = पु० गोत्रप्रवरर्षिभेदे।

प्युक्ष्ण = न० अपि–उक्ष–बा० नक अपेरल्लोपः। १ स्नायुनि २ अजगरसर्पे कर्मणि च कात्या० श्रौ० १५। ३। ३१ कर्कः।

प्युष = उत्सर्गे चु० उभ० सक० सेट्। प्योषयति ते। अपुप्युषत् त-

प्युष = विभागे दाहे च दि० पर० सक० सेट्। प्युष्यते इरित् अप्युषत् अप्यौषीत् पुष्योष।

प्युस = विभागे दिवा० पर० सक० सेट्। प्युस्यते इरित् अप्युसत् अप्योसीत् पुष्योस।

प्यै = वृद्धौ भ्वा० आ० अक० अनिट्। प्यायते अप्यास्त।

***