पूर = पूर्त्तौ प्रीणने च दिवा० आत्म० सक० सेट्। पूर्य्यते अपूरिअपूरिष्ट। पुपूरे ईदित्। पूर्णः।
पूर = पूर्त्तौ प्रीणने चु० उभ० सक० सेट्। पूरयति अपूपुरत् त। पूरितः।
पूर = पु० पूर–क। १ जलसमूहे २ खाद्यभेदे ३ व्रणशुद्धौ च मेदि० ४ दाहागुरुणि न० राजनि०।
पूरक = त्रि० पूरयति पूरि–ण्वुल्। १ पूरणकर्त्तरि २ गुणके अङ्खे च। ३ वीजपूरे राजनि०। ४ बहिर्वृत्तिकस्य प्राणस्य वायोः नासयाकृष्य देहान्तःप्रवेशनरूपव्यापारभेदे। प्राणायामशब्दे दृश्यम्। स्वाशौचकालमध्ये देये प्रेतस्यातिवाहिकदेहनाशनेन प्रेतदेहपूरके ५ पिण्डे तत्कर्त्तव्यतादिशु० त० यथा “अत्रेदं वीजं पूर्वक्रियाया आतिवाहिकदेहत्यागोत्तर देहान्तरजननं, मध्यक्रियाया अपि प्रेतत्वपरिहारो० त्तरं देहान्तरजननं ततश्चैकयैव तत्सिद्धौ पुनस्तत् करणं वचनाभावेऽनर्थकम्। तथा च विष्णुधर्मोत्तरे “तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम्। उर्द्ध्वं व्रजन्ति भूतानि त्रीण्यस्मात्तस्य विग्रहात्”। त्रीणि भूतानि तेजोवाय्वाकाशानि पृथिवीजले तु अधो गच्छतः। तत्क्षणात् मृत्युक्षणात्। तथा “आतिवाहिक संज्ञोऽसौ देहो भवति भार्गव!। केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्”। तथा “प्रेतपिण्डैस्तथा दत्तै- र्देहमाप्नोति भार्गव!। भोगदेहमिति प्रोक्तं क्रमादेव न संशयः। प्रेतपिण्डा न दोयन्ते यस्य तस्य विमोक्षणम्। माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते। तत्रास्य यातना घोराः शतवातातपोद्भवाः। ततः सपिण्डीकरणे बान्धवैः स कृते नरः। पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते। ततः स नरके याति स्वर्गे वा स्वेन कर्मणा”। तथा च वायुपुराणम् “पूरकेण तु पिण्डेन देहो निष्पाद्यते यतः। कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम्”। अत एवातिवाहिकदेहपरित्यागाय तत्कालीनकर्माऽ समर्थपुत्रसत्त्वेऽप्यन्येन दाहादि क्रियते “पितृज सपिण्डैस्तु समानसलिलैर्नरैः। संघान्तर्गतैर्वापि राजा वा धनहारिणा। पूर्वाः क्रियास्तु कर्त्तव्याः पुत्राद्येरेव चोत्तराः” शुद्धित०। तेन दाहादिपूरकपिण्डदानान्तमाद्यक्रिया तथा आतिवाहिकदेहनिवृत्तिपूर्वकं प्रेतदेहप्राप्तिः आद्यश्राद्धादि मपिण्डान्ता मध्यक्रिया तया प्रेतदेहवमुक्तिपूर्वकं मोगदेहप्राप्तिः तदुत्तरवार्षिकादिश्राद्धादि उत्तरक्रिया तया र्भागमात्रमिति भेदः। पूरकपिण्डदानकालादिश्च शुद्धित० निर्णीतो यथा “प्रथमेऽहनि यो दद्यात् प्रेतायान्नं समाहितः। यत्नान्न वसु चान्येषु स एव प्रददात्यपि। मृण्मयं भाण्डमादाय नवं स्नातः सुसंयतः। लगुडं सर्वदोषघ्नं गृहीत्वा तोयमानयेत्। ततश्चोत्तरपूर्वस्यामग्निम् प्रज्ज्वालयेद्दिशि। तण्डुलप्रसृतिं तत्र प्रक्षाल्याद्भिः पचेत् स्वयम्। सपवित्रैस्तिलौर्मश्रां केशकीटविवर्जिताम्। द्वारोपान्ते ततः क्षिप्ता शुद्वां वा गौरमृत्तिकात्। तत्पृष्ठे प्रस्तरेदर्भान् याम्याग्रान् देशसम्भवान्। ततोऽवनेजनं दद्यात् संस्मरन् गोत्रनामनी। तिलसर्पिर्मधुक्षीरैः सञ्चितं तप्तमेव हि। दद्यात् प्रेताय पिण्डन्तु दक्षिणाभिमुख स्थितः। फलमूलगुडक्षीरतिलमिश्रन्तु कुत्रचित्। अर्व्यैः पुष्पेस्तथा धूपैर्दीपैस्तोयैः सुशीतलैः। ऊर्णातन्तुमयैः शुद्धैर्वासोभिः पिण्डमर्चयेत्। प्रयाति यावदाकाशं पिण्डाद्बाष्पमयी शिखा। तावत्तत्सम्मुखस्तिष्ठेत् सर्वं तीये ततः क्षिपेत्। दिवसे दिवसे देयः पिण्ड एवं क्रमेण तु। सद्यःशौचेऽपि दातव्याः सर्वेऽपि युगपत्तथा। त्र्यहाशोचे प्रदातव्याः प्रथमे त्वेक एव हि। द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि”। दैवात् अग्निदात्रा पूरकपिण्डस्यादाने आद्यश्राद्धाधिछारिणा अन्तिमदिने आद्यश्राद्धदिने वा तत् करणीयमिति व्यवस्था शुद्धित० स्थिता।
पूरण = न० पूर–भावे ल्यट्। अङ्कशास्त्रप्रसिद्धे १ गुणने २ वृष्टौ ३ कुटन्नटे शब्दमा०। करणे ल्युट्। ४ वापतन्तुषु हेम०। ५ सेतौ ६ समुद्रे च पु० ७ सङ्ख्यापूरणे मेदिनिः। यथा द्वयोः परणः द्वितीयः। कर्त्तरि ल्य। ८ पूरयितरि त्रि० ९ विष्णुतैले धरणिः। करणे ल्युट् ङीप् यया संख्या पूर्य्यते १० तस्यां संख्यायां स्त्री त्रयाणां पूरणी तृतीयेत्यादि। कर्मणि ल्युट्। १२ शाल्मलिवृक्षे पु० अमरः
पूरयितृ = त्रि० पूर–तृच्। १ पूरणकर्त्तरि त्रि० स्त्रियां ङीप्। २ विष्णौ पु०। “पूर्णः पूरयिता पुण्यः” विष्णुस०।
पूराम्ल = पु० पूरमम्लं यत्र। वृक्षाम्ले राजनि०।
पूरिका = स्त्री पिष्टकभेदे कृतान्नशब्दे २१८२ पृ० दृश्यम्।
पूरित = त्रि० पूर–क्त। १ पूर्णे २ गुणिते च अमरः।
पूरु = पु० व० ब०। पॄ–बा० कु। १ मनुष्ये निघण्टुः ऋ० ६३०१ वैराजस्य मनोः नड्बलायां जाते २ पुत्रभेदे हरिवं० २ अ०। ३ जह्नुपुत्रभेदे भाग० ९।१५।३। ४ राक्षसभेदे यजु० १२। ३४ वेददी०। ५ ययातिपुत्रभेदे भा० आ० ७५ अ०। तस्यापत्यं अण्। पौरव तदपत्ये पुंस्त्री० स्त्रियां ङीप्।
पूरुष = पु० पूर–उषन्। १ पुरुषे २ नरे च अमरः तस्य शुभाशुभलक्षणं पुरुषशब्दे उक्तं किञ्चिदधिकमत्रोच्यते “कटिर्विवशाला बहुपुत्रभागी विशालहस्तो नरपुङ्कवः स्यात्। उरो विशालं धनधान्यभागी शिरोविशालं नरपूजितः स्यःत्। न श्रीस्त्यजति रक्ताक्षं नार्थ कनकपिङ्गलम्। दीर्थबाहुं न चैश्वर्य्यं न मांसोपचितां सकम्। कदाचिद्दन्तुरो मूर्खः कदाचल्लोमशः मुखी। कदाचित् तुन्दिलो दुःखी कदाचिच्चञ्चला सती। नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम्। हस्तस्नेहेन चैश्वर्य्यं पादस्नेहेन वाहनम्। अकर्मकठिनौ हस्तौ पादावध्वनि कोमलौ। यस्य पाणितले रक्ते तस्य राज्यं विनिर्दिशेत्। दीर्घलिङ्गन दारिद्र्यं स्थूललिङ्गेन निर्धनः। कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः। रेखाभिर्बहुभिर्दुःखं स्वल्पामिर्धनहीनता। रक्ताभिः श्रियमाप्नोति कृष्णाभिर्लोकपूजितः। अङ्गुष्ठोदरमध्ये तु यवो यस्य विराजितः। उन्नतं भोजनं तस्य शतं जीवति मानयः। अङ्कुशं कुलिशं छत्रं यस्य पाणितले भवेत्। ऐश्वर्य्यञ्च विनिर्दिष्टमशीत्यायुर्भवेद्रध्रुवम्। धनुर्यस्य भयेत् पाणौ पङ्कजं वाथ तोरणम्। तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद् ध्रुवम्। कनिष्ठा तर्जनीं यावत् रेखा भवति चाक्षता। विंशत्यव्दाधिकशतं नरा जीवन्त्यनामयाः। कनिष्ठामध्यमां यावत् रेखा भवति चाक्षता। शताब्दं वाथ वाशीतिर्नरो जीवेन्न संशयः। कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता। विंशत्यब्दाधिकं शतं नरा जीवन्त्यनामय्नाः। कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता। षष्ठिपञ्चाशदव्दं वा नरा जीवन्त्यसंशयम्। रेखया भिद्यते रेखा स्वल्पायुश्च भवेन्नरः। कनिष्ठायां स्थिता रेखा संख्या यावतिका स्मृता। तावती पुरुषाणान्तु नारी भवति निश्चित्म्। करमध्यगता रेखा ध्रुवा ऊर्द्ध्वं भवेद् यदि। नृपो वा नृपतुल्यो वा चिरं ख्यातोऽर्थवान् भवेत्। मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः। पितामहस्य वा” किञ्चित् धनञ्च लभते ध्रुवम्। मध्यमायां यदि यवा दृश्यन्तेऽत्यन्तशोभनाः। तदान्यसञ्चितं वित्तं प्राप्नोत्यङ्गुष्ठके यवे। यस्याऽथ चक्रमङ्गुष्ठे यवादूर्द्ध्वञ्च दृश्यते। तदा वै पामरादीनामर्ज्जितं धनमाप्नुयात्। गर्जन्यामथ चक्रञ्च मित्रद्वारा धनं मवेत्। तेनैव विपरीतन्तु व्ययो भवति निश्चितम्। अनामायां भवेत् चक्रं सर्वद्वारा भवेद्धनम्। तेवैव विपरीतन्तु व्ययो भवति निश्चितम्। कनिष्ठायां भवेच्चक्रं बाणिज्येन धनं भवेत्। तेनैव विपरीतन्तु व्ययो भवति निश्चितम्। ललाटे दृश्यते यस्य चक्ररेखाचतुष्टयम्। अशीत्यायुः समाप्नोति पञ्च रेखाः शतं समाः। यस्योन्नतं ललाटञ्च ताम्रवर्णञ्च दृश्यते। रेखाहीनश्च कक्षश्च स चोन्मत्तो महीं भ्रमेत्। यस्य जिह्वा भवेद्दीर्घा नासाग्रं लेढि सर्वदा। भोगी भवति निर्विण्ण पृथ्वीं भ्रमति सर्वदा। दन्ताश्च विरला यस्य नीचवन्नीचकर्मकृत्। प्रगल्भो दन्तुरः सत्यं वेदान्तपारगो भवेत्”। प्राकारान्तरम्। “दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते। परस्त्री रमणो नित्यं परवित्तेन वित्तवान्। दीर्घलिङ्गे च सौमाग्यं सूक्ष्मलिङ्गे नृपो भवेत्। वक्रस्य कठिनैर्लिङ्गैः प्रमाणान्निर्गतः सदा। रमते च सदा दास्यां निर्धनो भवति ध्रुवम्। कृशलिङ्गेन सूक्ष्मेणारक्तवर्णेन मूपतिः। बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत्। कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम्। राज्यं सुखञ्च दिव्याङ्ग्याः कन्ययायाः पतिर्भवेत्। यस्य पादतले पश्नं चक्रं वाप्यथ तोरणम्। अङ्कुशं कुलिशं वापि स राजा भवति ध्रुवम्। कृशनिर्लोमशा ये स्युः केकराक्षाः कुचेलकाः। कातरा व्यालजिह्वाश्च ते दरिद्रा न संशयः। कपिला मलिनाङ्गाश्च ह्रस्वाश्चैव वृहन्नस्वाः। कृशातिदीर्घा मनुजास्ते दरिद्रा न संशयः। चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये। ते धूर्त्ता नैव सन्देहः समुद्रवचनं यथा। सूचीमुखाः भग्नपृष्ठाः कृष्णदन्ताः कुचेलकाः। वक्रनासा वज्रनासास्ते नरा दुष्टमानसाः। दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः। परोपकारिणैश्चैव तेऽपूर्वा मानवाः स्मृताः”।
पूर्ण = त्रि० पूर–क्त नि०। १ पूरिते २ सकले ३ समग्रे च ज्योतिषोक्ताषु उभयपक्षयो ४ पञ्चमीदशमीषञ्चदशीतिथिसु व स्त्री मेदि०। ५ आप्तकामे पु० स्वेच्छावद्भिन्ने (अपक्षाशून्ये) गदाधरः। वृ० सं० ८८ अ० उक्त पक्षिभेदाना ६ स्वरभेदे पु० तत्र दृश्यम् ७ नागभेदे पु० भा० आ० ५७ अ०। ८ प्राधेये देवगन्धर्वभेदे पु० ६५ अ०। ९ उदके न० निघण्टुः।
पूर्णक = पुंस्त्री० पूर्ण + संज्ञायां कन्। स्वर्णच्डखगे मेदि०। स्त्रियां जातित्वात् ङीष्। स्वार्थे क। पूर्णशब्दार्थे स्त्रियां टाप् अत इत्त्वम्।
पूर्णककुद् = पु० पूर्णं ककुदमस्य अवस्थायाम् अन्त्यलोपः समा०। तारुण्यावस्थे वृषे। अनवस्थायां तु नान्त्यलोपः।
पूर्णकाकद = त्रि० पूर्णं काकुदं तालु अस्य न अन्त्यलोपः समा०। पूर्णतालुकभात्रे।
पूर्णकाम = पु० पूर्णः कामोऽस्य। आप्तेच्छौ परमेश्वरे मार्क० ३३ अ०
पूर्णकू(कु)ट = पुंस्त्री पक्षिभेदे “मषकूटपूरिकरवकचरायिकाः पूर्णकूटसंज्ञाः स्युः” वृ० सं० ८८ अ०। तत्रैव २५ श्लोके ह्रस्वमध्यतया पठितः तत्रार्थे।
पूर्णकुम्भः = पु० जलादिभिः पूर्णः कुम्भः। १ जलादिभिः पूरिते घटे अमरः। २ दानवभेदे पु० हरिवं० २४२ अ०।
पूर्णकोशा = ओमधिभेदे वृ० स० ४८४०।
पूर्णकोष्ठा = स्त्री पूर्णं कोष्ठं यस्याः। सागरमुस्ताथाम् राजनि०
पूर्णपर्वेन्दु = स्त्री पूर्णः पर्वणि इन्दुः पर्वेन्दुः यत्र। पौर्णमास्यां “द्वे द्वे चित्रादिताराणां पूर्णपर्वेन्दुसङ्गते” सङ्कर्षणकाण्डम्। “पूर्णपर्देन्दुसङ्गते पौर्णमासीयुते” मल० त० रघुनन्दनः।
पूर्णपात्र = न० नित्यक०। वद्धापके वस्तुपूर्णे १ पात्रे मेदि०। “हर्षादुत्सवकाले यदलङ्कारांशुकादिकम्। आकृव्य गृह्यते पूर्णपात्रं पूर्णकञ्च तत्” जटाधसोक्ते २ पुत्रजन्मोत्सवादिषु दासै खामिनोऽङ्गात् वख्यादेर्ग्रहणे। होमान्ये ब्रह्मणे देये दक्षिणारूपे ३ द्रव्यभेदे “होमान्ते पूर्णपात्रं दक्षिणां ब्रह्मणे दद्यात्” गोभिलः। तन्मानह्व गृह्यसंग्रहे “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम्। पुष्कलानि च चत्वारि पूर्णपात्रं विधीयते”। तेन २५६ मुष्टिभिः पूर्णपात्रम्। तत्रत्यद्रव्यञ्चोक्तं “पूर्णपात्रो दक्षिणा” कात्या० श्रौ० ६। १०। ३७। कर्केण। “पाकयज्ञेषु तण्डुलमुद्गगोधूमादियज्ञियधान्यपूर्णः पूर्णपात्रो दक्षिणा धान्यस्य मानपात्रम्” कर्कः। तेनास्य पुंस्त्यमपि। छन्दोगपरिशिष्टे (कर्मप्रदीपे) २। ५। २ कात्यायनस्तु प्रकारान्तरमाह “यावता बहुभोक्तुस्तु तृप्तिः पूर्णेन विद्यते। नावरार्ध्यमतः कुर्य्यात् पूर्णपात्रमिति स्थितिरिति”। ४ जलपूर्णपात्रे च कात्या० श्रौ० ३। ८। ८।
पूर्णप्रज्ञ = त्रि० पूर्णा प्रज्ञाऽस्य। सम्पूर्णबुद्धौ वायोस्तृतीयावतारे मध्यापरनामके आनन्दतीर्थे २ वैष्णवमतभेदप्रस्थापकाचार्यभेदे। तन्मतञ्च सर्च० सं० न्यरूपि यथा “तदेतद्रामानुजमतं जीवाणुत्वदासत्ववेदापौरुषेयत्वसिद्धार्थबोधकत्वस्वतःप्रमाणत्वप्रमाणत्रित्वपाञ्चरात्रोपजीव्यत्वप्रपञ्चभेदसत्यत्वादिसाम्येऽपि परस्परविरुद्धभेदादिपक्षत्रथकक्षीकारेणा क्षपणकपक्षनिक्षिप्तमित्युपेक्षमाणः स आत्मा तत्त्वमसीत्यादेर्वेदान्तवाक्यजातस्य भङ्ग्यन्तरेणार्थान्तरपरत्वमुपपाद्य ब्रह्ममीमांसाविवरणव्याजेना० नन्दतीर्थः पस्थानान्तरमास्थित। तन्मते हि द्विविधं तत्त्वं स्वतन्त्रास्वतन्त्रभेदात्। तदुक्तं तत्त्वविवेके “स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते। स्वतन्त्रो भगवान् विष्णुर्निर्दोषोऽशेषसद्गुणः” इति। तनु सजातीयविजातीयस्वगतनामात्वशून्यं ब्रह्म तत्त्वमिति प्रतिपादकेषु वेदान्तेषु जागरूकेषु कयमशेषसद्गुणत्वं तस्य कथ्यत इति चेन्मैवं भेदप्रमापकनहुप्रमाणविरोधेन तेषां तत्र प्रामाण्यानुपपत्तेः तथा हि प्रत्यक्षं तावदिदमस्माद्भिन्नमिति नीलपीतादेर्भेदमध्यति। अथा मन्येथाः किं प्रत्यक्षं भेदमेवावगाहते किं सा धर्मिप्रतियोगिघटितम्। न प्रथमः धर्मिप्रतियोगिप्रतिपत्तिमन्तरेण तत्सापेक्षस्य भेदस्याशक्याध्यवसायत्वात्। द्वितीयोऽपि धर्मिप्रतियोगिमहणपुरासरं भेदग्रहणमथ वा युगपत् तत्सर्वग्रहणम्। न पूर्वः बुद्धेर्विरम्य व्यापाराभावात् अन्योन्याश्रयप्रसङ्गाच्च। नापि चरमः कार्य्याकारणबुद्ध्या यौगपद्याभावात् धर्मिप्रतीतिहि भेदप्रत्ययस्य कारणं सन्निहितेऽपि धर्मिणि व्यवहितप्रतियोगिज्ञानमन्तरेण मेदस्याज्ञातत्वेनान्धयव्यतिरेकाभ्यां कार्य्यकारणमावावगगात्। तस्मान्न भेदप्रत्यक्षं सुप्रसरमिति चेत् किं वस्तुस्वरूपभेदवादिनं प्रति इमानि दूषणान्युद्घुष्यन्ते किं वा धर्मिभेदवादिनं प्रति। प्रथमे चोरापराधान्माण्डव्यनिग्रहन्यायापातः भवदभिधीयमानदूषणानां तदविषयत्वात्। ननु वस्तुस्वरूपस्यैव भेदत्वे प्रतियोगिसापेक्षत्वं न घटते घटादितत्तत्प्रतियोगिसापेक्ष एव सर्वत्र भेदः प्रयत इति चेन्न प्रथमं सर्वतो विलक्षणतया वस्तुस्वरूपे ज्ञायमाने प्रतियोग्यपेक्षया विशिष्टव्यवहारोपपत्तेः तथा हि परिमाणघटितं वस्तुस्वरूपं प्रथममवगम्यते पश्चात् प्रतियोगिविशेषापेक्षथा ह्रस्वं दीर्घमिति तदेव विशिष्य व्यवहारभाजनं भवति। तदुक्तं विष्णुतत्त्वनिर्णये “न च विशेषणविशेष्यतया भेदसिद्धिः विशेषणविशेष्यभावश्च भेदापेक्षः, धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः भेदापेक्षञ्च धर्मिप्रतियोगित्वमित्यन्योन्याश्रथतया भेदस्यासिद्धेः पदार्थस्वरूपत्वाद्भेदस्येत्यादिना”। अत एव गवार्थिनो गवयदर्शनान्न प्रवर्त्तन्ते गोशब्दञ्च न स्मरन्ति। न च नीरक्षीरादौ स्वरूपे गृह्यमाणे भेदप्रतिभासोऽपि स्यादितिं भणनीयं समानाभिहारादिप्रतिबन्धकबलाद्भेदभानभ्यवहाराभावोपपत्तेः तदुक्तम् “अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्। सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहाराच्चेति” अतिदूराद् गिरिशिखरवर्त्तितर्वादौ, अतिसामीप्याल्लोचनाञ्जनादौ, इन्द्रियघाताद्विद्युदादौ, मनोऽनवस्थानात् कामाद्यपप्लुतमनस्कस्य स्फीतालोकवर्त्तिनि घष्टादौ, सौक्ष्म्यात् परमाण्वादौ, व्यवधानात् कुड्याद्यन्तर्हिते, अभिभवात् दिवाप्रदीपप्रभादौ, समानाभिहारात् नीरक्षीरादौ यथावद्ग्रहणं नास्तीत्यर्थः। भवतु वा धर्मभेदवादस्तथापि न कश्चिद्दोषः धर्मिप्रतियोगिग्रहणे सति धर्मभेदभानसम्भवात्। न च धर्मभेदवादे तस्य तस्य भेदस्य भेदान्तरभेद्यत्वेनानवस्था दुरवस्था स्यादित्यास्थेयं भेदान्तरप्रसक्तौ मूलाभावात् भेदभेदिनौ भिन्नाविति व्यवहारदर्शनात्। न चैकभेदबलेनान्यभेदानुमानं दृष्टान्तभेदाविघातेनोत्थानदोषाभावात्। सोऽयं पिण्याकयाचनाय गतस्य स्वारिकातैलदातृत्वाभ्युपगम इव दृष्टान्तभेदविमर्दे त्वनुत्थानमेव। न हि वरविघाताय कन्योद्वाहः। तस्मान्मूलक्षयाभावादनवस्था न दोषाय। अ० नुमानेनापि भेदोऽवसीयते। परमेश्वरो जीवाद्भिन्नः तं प्रति सव्यत्वात् यो यं प्रति सेव्यः स तस्माद्भिन्नः यथा भृत्याद्राजा। न हि सुखं मे स्यात् दुःखं मे न मनागपि इति पुरुषार्थमर्थयमानाः पुरुषाः स्वपतिपदं कामयमानाः सत्कारभाजो भवेयुः। प्रत्युत सवानर्थभाजनं भवन्ति। यः स्वस्यात्मनो हीनत्वं परस्य गुणोत्कर्षञ्च कथयति स स्तुत्यः प्रीतः स्तावकस्य तस्याभीष्टं प्रयच्छति। तदाह “घातयन्ति हि राजानो राजाहमिति वादिनम्। ददत्यखिलमिष्टञ्च स्वगणोत्कर्षवादिनामिति”। एवञ्च परमेश्वराभेदवृष्णया विष्णोर्गुणोत्कर्षस्य मृगवष्णिकासमत्वाभिधानं विपुलकदलफललिप्सया जिह्वाच्छेदमनुहरति एतादृशविष्णुविद्वेषणादन्धतमसप्रवेशप्रसङ्गात्। तदेतत् प्रतिपादितं मध्यमन्दिरेण महाभारततात्पर्य्यनिर्णये “अनादिद्वेषिभिर्दैत्यैर्विष्णोर्द्वेषो विवर्द्धितः। तमस्यन्धे पातयति दैत्यानन्धे विनिश्चयादिति”। सा च सेवा अङ्कननामकरणभजनभेदात्त्रिविधा। तत्राङ्कन नारायणायुधादीनां, तद्रूपस्मरणार्थमपेक्षितार्थसिद्ध्यर्थञ्च। तथा च शाकल्यसंहितापरिशिष्टम् “चक्रं विभर्त्ति पुरुषोऽभितप्तं बलं दवानाममृतस्य विष्णोः। स याति नाकं दुरितं विधूय विशन्ति यद्यतयो वीतरागाः। देवासो येन विधृतेन बाहुना सुदर्शनेन प्रयातास्तमायन्। येनाङ्किता मनवो लोकसृष्टिं वितन्वन्ति ब्राह्मणास्तद्वहन्ति। तद्विष्णोः परमं पदं येन गच्छन्ति लाञ्छिताः। उरुक्रमस्य चिह्नैरङ्किता लोके सुभगा भवाम” इति “अतप्ततनुर्न तदानो अश्नुते श्रितास इद्वहन्तस्तत् समासतेति” तैत्तिरीयकोपनिषच्च। स्थानविशेषश्चाग्नेयपुराणे दर्शितः “दक्षिणे तु करे विप्रो बिभृयाद्वै सुदर्शनम्। मव्येन शङ्खं विभृयादिति ब्रह्मविदो विदुरिति”। अन्यत्र चक्रधारणे मन्त्रविशेपश्च दर्शितः “सुदर्शन! महाज्वाल! कोटिसूर्य्यसमप्रभ!। अज्ञानान्धस्य मे नित्यं विष्णोर्मार्ग प्रदर्शय। त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे। नमितः सर्वदेवैश्च पञ्चजन्य! नमोऽस्तु ते इति” नामकरणं पुत्रादीनां केशवादिनाम्ना व्यवहारः सर्वदा तन्नामानुस्मरणार्थम्। भजनं दशविधं वाचा सत्यं हितं प्रियं स्वाध्यायः, कायेन दानं परित्राणं परिरक्षणं, मनसा दया स्पृहा श्रद्धा चेति। अत्रैकैकं निष्पाद्य नारायणे समर्पणं मजनम्। तदुक्तम् “अङ्कनं नामकरणं भजनं दशधा च तदिति”। एवं ज्ञेयत्वादिनापि भेदोऽनुमातव्यः तथा श्रुत्यापि भेदोऽवगन्तव्यः सत्यमेतमनुविश्वे मदन्ति रातिं देवस्य गृणतोमघोमः सत्यासो अस्य महिमा गृणे शवोयज्ञेष विप्रराज्ये सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा मयि वारुण्यो मयि वारुण्यः” इति मोक्षानन्दभेदप्रतिपादकश्रुतिभ्यः। “इदं ज्ञानमुपाश्रित्य मम सामर्थ्यमागताः। सर्गेपि नीपजायन्ते प्रलये न व्यथन्ति च” “जगद्व्यापारवर्जम्” “प्रभुकरणासन्नितत्वाच्चेत्यादिभ्यश्च। न च “ब्रह्म वेद ब्रह्मैव भवतीति” श्रुतिबलाज्जीवस्य पारमैश्वर्य्यं शक्यशङ्कं “सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेदितिवत् वृंहितो भवतीत्यर्थपरत्वात्। “ननु प्रपञ्चो यदि वर्त्तेत निवर्त्तेत न संशयः। मायामात्रमिर्द द्वैतमद्वैतं परमार्थतः” इति वचनात् द्वैतस्य कल्पितत्वमवगम्यत इति चेत् सत्यं भावमनभिसन्धायाभिधानात् तथा हि यद्ययमुत्पद्येत तर्हि निवर्त्तेत न संशयः। तस्मादनादिरेवायं प्रकृष्टः पञ्चविधो भेदप्रपञ्चः। न चायमविद्यमानः मायामात्रत्वान्मायेति भगवदिच्छोच्यते। “महामायेत्यविद्येति नियतिर्मोहिनीति च। प्रकृतिर्वासनेत्येव तवेच्छानन्त! कथ्यते। प्रकृष्टकृत्या प्रकृतिर्वासना वासयेद्यतः। अ इत्यक्ते हरिस्तस्य मायाऽविद्येति संज्ञिता। मायेत्युक्ता प्रकृष्टत्वात् प्रकृष्टे हि मयाभिधा। विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्य्यते। प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा” इत्यादिवचननिचयप्रामाण्यबलात्। सैव प्रज्ञा मानत्राणकर्त्री च यस्य तन्मायामात्रं ततश्च परमेश्वरेण ज्ञातत्वाद्रक्षितत्वाच्च न द्वैतं भ्रान्तिकल्पितं न हीश्वरे सर्वस्य भ्रान्तिः सम्भवति विशेषादर्शननिवन्धनत्वाद्भ्रान्तेः। तर्हि तद्व्यपदेशः कथमित्यत्रोत्तरम् अद्वैतं परमार्थत इति परमार्थत इति परमार्थापेक्षया तेन सर्वस्मादुत्तमस्य विष्णुतत्त्वस्य समाभ्यधिकशून्यत्वमुक्तं भवति। तथा च परमा श्रुतिः “जीवेश्वरभिदा चैव जडेश्वरभिदा तथा। जीवभेदो मिथश्चैव जडजीवभिदा तथा। मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः। सोऽयं सत्योऽप्यनादिश्च सादिश्चेन्नाशमाप्नुयात्। न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः। कल्पितश्चेन्निवर्त्तेत न चासौ विनिवर्त्तते। द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्। मतं हि ज्ञानिनामत न्मितं त्रातं हि विष्णुना। तस्मान्मात्रमिति प्रोक्तं परमो हरिरेव तु” इत्यादि। तखाद्विष्णोः सर्वोत्कर्ष एव तात्पर्य्यं सर्वागमानाम्। एतदेवाभिसन्धायाभिहितं भगवता। “द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थाऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य विभर्त्तव्यय ईश्वरः। यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः। यो मामेवमसंमूढो जानाति पुरुषोत्तमम्। सर्वविद्भजति मां सर्वभावेन भारत!। इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ!। एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत!”। महावाराहेऽपि “मुख्यञ्च सर्ववेदानां तात्पर्य्यं श्रीपतौ परे। उत्कर्षे तु तदन्यत्र तात्पर्य्यं स्यादवान्तरम्” इति। युक्तञ्च विष्णोः सर्वोत्कर्षे महातात्पर्य्यम्। “मोक्षो हि सर्वपुरुषार्थोत्तमः धर्मार्थकामास्त्वनित्याः मोक्ष एव नित्यः तस्मान्नित्यं तदर्थाय यतेत मतिमान्नर” इति भाल्लवेयश्रुतेः। मोक्षश्च विष्णुप्रसादमन्तरेण न लभ्यते। “यस्य प्रसादात् परमा यत्स्वरूप्रात् तस्मात् ससाराम्मुच्यते नावरे सुरानाराधयन्तोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मादिति” नारायणश्रुतिः। “तखिन् प्रसन्ने किमिहास्त्यलभ्यं सर्वार्थकामैरलमल्पकास्ते। समाश्रिताद्ब्रह्मतरोरनन्तात् निःसंशयं मुक्तिफलं प्रयातः” इति विष्णुपुराणोक्तेश्च। “प्रसादश्च गुणोत्कर्षज्ञानादेव नाभेदज्ञानादित्युक्तम्। न च तत्त्वमस्यादितादात्म्यव्याकोपः श्रुतितात्पर्य्यापरिज्ञानविजृम्भणात्। “आह नित्यपरक्षोक्षन्तु तच्छब्दी ह्यविशेषतः। त्वंशब्दश्चापरोक्षार्थं तयोरैक्य कथं भवेत्। आदित्योयूप इतिवत् सादृश्यार्था तु सा श्रुतिरिति”। तथाच परमा श्रुतिः। जीवस्य परमैक्यञ्च बुद्धिसारूप्यमेव वा। एकस्थाननिवासे वा व्यक्तिस्थानमपेक्ष्य वा। न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः। स्वातन्त्वपूर्णतेऽल्पत्वपारतन्त्र्ये विरूपता” इति। अथ वा तत्त्वमसोत्यत्र स एवात्मा स्वातन्त्र्यादिगुणोपेत्वतात् अतत्त्वमसि त्वं तन्न भवसि तद्रहितत्वादित्येकत्वमतिशयेन निराकृतम्। तदाह “अतत्त्वमिति वा च्छेदस्तेनैक्यं सुनिराकृतम्” इति। तस्मात् दृष्टान्तनवकेऽपि “स यथा शकुनिः सूत्रेण बद्ध” इत्यादिना भेद एव दृष्टान्ताभिधा नाय अयमभेदोपदेश इति तत्ववादरहस्यम्। तथाच महोपनिषत् “यथा पक्षो च सूत्रञ्च नानावृक्षरसा यथा। यथा नद्यः समुद्राश्च शुद्धोदलवणे यथा। चारापहार्यौ च यथा यथा पुंविषयावपि। तथा जीवेश्वरा भिन्नौ सर्वदैव विलक्षणौ। तथापि सूक्ष्मरूपत्वान्न जीवात् परसो हरिः। भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपि सन्। वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्ययेति। ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः। लक्ष्मीरक्षरदेहत्वादक्षरातः परो हरिः। स्वातन्त्र्यशक्तिविज्ञानसुखाद्यैरखिलैर्गुणैः। निसीमत्वेन ते सर्वे तद्वशाः सर्वदेवता” इति। विष्णुं सर्वगुणैः पूर्णं ज्ञात्वा संसारवर्जितः। निर्दुःखानन्दभुग्नित्यं तत्समीपे स मोदते। मुक्तानाञ्चाश्रयो विष्णुरधिकाधिपतिस्तथा। तद्वशा एव ते सर्वे सर्वदैव स ईश्वर” इति च। एकविज्ञानेन सर्वविज्ञानञ्च प्रधानत्वकारणत्वादिना युज्यते न तु सर्वमिथ्यात्वेन। न हि सत्यज्ञानेन मिथ्याज्ञानं सम्भवति यथा प्रधानपुरुषाणां ज्ञानाज्ञानाभ्यां ग्रामो ज्ञातः अज्ञात इत्येवमादिव्यपदेशो दृष्ट एव। यथा च कारणे पितरि ज्ञाते जानात्यस्य पुत्रमिति। अन्यथा “यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातम्” इत्यत्र एकपिण्डशब्दौ वृथा प्रसज्येयातां मृदा विज्ञातयेत्येतावतैव वाक्यस्य पूर्णत्वात्। न च वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यसित्येतत् कार्यस्य मिथ्यात्वमाचष्टे इत्येष्टव्यं वाचारम्भणं विकारो यस्य तत् अविकृतं नित्यं नामधेयं मृत्तिकेत्यादिकमित्येतद्वचनं सत्यमिति तथ्यस्य स्वीकारात्। अपरथा नामधेयमेवेति शब्दयोर्वैयर्थ्यं प्रसज्येत। अतो न कुत्रापि जगतो मिथ्यात्वसिद्धिः। किञ्च प्रपञ्चो मिथ्येत्यत्र मिथ्यात्वं तथ्यमतथ्यं वा। प्रथमे सत्याद्वैतभङ्गप्रसङ्गः चरमे प्रपञ्चसत्यत्वापातः। नन्वनित्यत्वं नित्यमनित्यं वा उभयथाप्यनुपपत्तिरित्याक्षेपवदयमपि नित्यसमजातिभेदः स्यात्। तदुक्तं न्यायनिर्वाणवेधसा “नित्यमनित्यभावादनित्यनित्यत्वोपपत्तेर्नित्यसमः” इति। तार्किकरक्षायाञ्च “धर्मस्य तदतदूपविकल्पानुपपत्तितः। धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत्” इति। अस्याः संज्ञायाः उपलक्षणत्वमभिप्रेत्याभिहितं प्रबोधतिद्धौ “अन्वर्थित्वात्तूपरञ्जकधर्मसमेति”। तस्मादसदुत्तरमेतदिति चेत् अशिक्षितत्रासनमेतत् दुष्टत्वमूलानिरूपणात्। तद्द्विविधं साधारणमसाधारणञ्च तत्राद्य स्वव्याघातकं द्वितीयं त्रिविधं युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वञ्चेति। तत्र साधारणमसम्मावितमेव उक्तस्याक्षेपस्य स्वात्मव्यापनानुपलम्भात्। एवमसाधारणमपि घटस्य नास्तितायां नास्तितोक्तावस्तित्ववत् प्रकृतेऽप्युपपत्तेः। ननु प्रपञ्चस्य मिथ्यात्वमभ्युपेयते नासत्त्वमिति वेत गदेतत् सोऽयं शिरश्छेदेऽपि शतं न ददाति विंशतिशञ्चकन्तु प्रयच्छतीति शाकटिकदृत्तान्तमनुहरेत् मिथ्यात्वासत्त्वयोः पर्थ्यायत्वादित्यलमतिप्रपञ्चेन। तत्र “अथातो ब्रह्म जिज्ञासेति” प्रथमसूत्रस्यायमर्थः तत्राथशब्दो मङ्गलार्णोऽधिकारानन्तर्य्यार्थश्च स्वीक्रियते। अतःशब्दी हेत्वर्थः तदुक्तं गारुडे “अथातःशब्दपूर्वाणि सूत्राणि निखिलान्यपि। प्रारभेत नियत्यैव तत्किमत्रं नियामकम्। कश्चार्थस्तु तयोर्विद्वान् कथमुत्तमता तयोः। एतदाख्याहि मे व्रह्मन्। यथा ज्ञास्यामि तत्त्वतः। एवमुक्तो नारदेन व्रह्मा प्रोवाच सत्तमः। आनन्तर्य्याधिकारे च लङ्गलार्थे तथेव च। अथशब्दस्ततःशब्दो हेत्वर्थे समुदीरितः” इति। यतो नारायणप्रसादमन्तरेण न मोक्षो लभ्यते प्रसादश्च ज्ञानमन्तरेण अतो ब्रह्म जिज्ञासा कर्त्तव्येति सिद्धम्। जिज्ञास्यब्रह्मणो लक्षणमुक्तं “जन्माद्यस्य यतः” इति। सृष्टिस्थित्यादि यतो भवति तद्व्रह्मेति वाक्यार्थः। तथाच स्कान्दं वचः “उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः। बन्धमोक्षौ च पुरुषाद् यस्मात् स हरिरेकराड्” इति। “यतो वा इमानीत्यादि” श्रुतिभ्यश्च। तत्र प्रमाणमप्युक्तं यथा “शास्त्रयोनित्वादिति”। “नावेदविन्मनुते तं वृहन्तम्” “तन्त्वोपनिषदम्” इत्यादिश्रुतिभ्यः तस्यानुमानिकत्वं निराक्रियते न चानुमानस्व स्वातन्त्र्येण प्रामाण्यमस्ति। तदुक्तं कौर्मे “श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित्। निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च। श्रुगिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम्। प्रमाणपदवीं गच्छेन्नात्र कार्य्या विचारणा” इति शास्रस्वरूपमुक्तं स्कान्दे “ऋग्यजुः सामाथर्वा च भारतं पाञ्चरात्रकम्। मूलरामा यणञ्चैव शास्त्रमित्यमिधीयते। यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्त्तितम्। अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्मतः” इति। तदनेनानन्यलभ्यः शास्त्रार्थ इति न्यायेन भेदस्य प्राप्तत्वेन तत्र न तात्पर्यं किन्त्वद्वैत एव वेदवाक्यानां तात्पर्यमिति अद्वैतप्रत्याशा प्रतिक्षिप्ता अनुमानादीश्वरस्य सिद्ध्यभावेन तद्भेदस्यापि ततः सिद्ध्य भावात्। तस्मान्न भेदानुवादकत्वमिति तत्परत्वमवगभ्यते अत एवोक्तम् “सदागमैकविज्ञेयं समतीतक्षराक्षरम्। नारायण सदा वन्दे निर्दोषाशेषसद्गुणम्” इति। शास्त्रस्य तत्र प्रामाण्यमुपपादितं “ततु समन्वयादिति” उपन्तय उपक्रनादितिङ्गम् उक्तं घृहत्संहितायाम “उप- क्रमोपसंहारावभ्यासोऽपूर्वता फलम्। अर्थवादोपपत्तीच लिङ्गं तात्पर्यनिर्णये” इति। एवं वेदान्ततात्पर्यवशात्तदेव ब्रह्म शास्त्रगम्यमित्युक्तं भवति। दिड्मार्त्रमत्र प्रादर्शि शिष्टमानन्दतीर्थभाष्यव्याख्यानादौ द्रष्टव्यं ग्रन्थवहुत्वभियोपरम्यत इति। एतच्च रहस्यं पूर्णप्रज्ञेन मध्यमन्दिरेण वायोस्तृतीयावतार मन्येन निरूपितमिति। “प्रथमस्तु हनूमान् स्यात् द्वितीयो भीम एव च। पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः” इति। एतदेवाभिप्रेत्य तत्र तत्र ग्रन्थसमाप्ताविदं पद्यं लिख्यते “यस्य त्रीण्युदितानि वेदवचने दिव्यानि रूपाण्यलं ह्येतद्दर्शितमित्थमेतदखिलं वेदस्य गर्भे महः। वायो रामवचोनतं प्रथमकं वृक्षो द्वितीयं वपुर्मध्यो यस्तु तृतीयमेतदमुना ग्रन्घः कृतः केशवे”। तस्मात् सर्वस्य शास्त्रस्य विष्णुतत्त्वं सर्वोत्तममित्यत्र तात्पर्यमिति सर्वं निरवद्यम्”
पूर्णबीज = पु० पूर्णं बीजं यस्य। बीजपूरे राजनि०।
पूर्णभद्र = पु० १ नागमदे भा० आ० ३५ अ०। २ यक्षभेदे हरिवं० ३१ अ०। स च रत्नभद्रसुतः तस्य पुत्रः हरिकेशः तत्कथा काशीख० ३२ अ०।
पूर्णमा = स्त्री पूर्ण्णः कलापूर्ण्णश्चन्द्रो मीयतेऽस्यां मा–घञर्थे क। पूर्णमास्यां तिथौ।
पूर्णमास् = स्त्री पूर्ण्णः कलाभिः पूर्णोमाश्चन्द्रमा यत्र। १ पूर्ण्णिमायाम्। पूर्णं मासंमिमीते मा–असन्। २ सूर्ये ३ चन्द्रे च “एष वै पूर्णमाः। य एष तपत्यहरहर्ह्येवैष पूर्णोऽघैम एव दर्शो यच्चन्द्रमा दृदृश इव ह्येष अथो इतरथाहुः एव एव पूर्णमा यच्चन्द्रमा एतस्य ह्यनुपूरणं पौर्णमासीत्थाचक्षते” शत० प्रा०। १। २। ४१ “एषा सूर्य्यस्तपति एष खलु पूर्णमाः स पूर्य्यमाणः ददृश इव अमावास्यायामविद्यमानः प्रतिपदि पञ्चाद्दृश्यमानो भवति। एतच्च पूरणमनुलक्ष्य पौर्णमासीत्याचक्षते” भा०।
पूर्णमास = पु० पूर्णमासी विधानकालत्वेनास्त्यस्य अच्। १ पूर्णिमायां कर्त्तव्ये यागभेदे “दर्शपूणैमासाभ्यां यजेत” “सर्वेभ्यो दर्शपूर्णभासौ” श्रुतिः। आदिव्यभेदस्य घातुरनुमतभार्य्यायां जाते २ पुत्रभेदे। “धातुः कुहूः सिनीवाली २ राका ३ चानुमति ४ स्तथा। सायं १ दर्शमथप्रातः ३ पूर्णमास ४ मनुक्रमात्” भाग० ६। १६। ३। असृतेत्यनुषङ्गः। पूर्णमासयागविधानञ्च शत० ब्रा० ११। २। ४। ८। पूर्णोमासश्चाद्रमासो यत्र गौरा० ङीष। २ पूर्णिमातिथौ स्त्री शब्दमाला।
पूर्णमुख = पु० जनमेयसर्पसत्रे दग्धनागभेदे भा० आ० ५७ अ०।
पूर्णयोग = पु० बाहुयुद्धभेदे तत्प्रकारः भा० स० २२ अ० उक्तो यथा “ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः। वीरौ परमसहृष्टावन्योऽन्यजयकाङ्क्षिणौ। करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम्। कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः। स्कन्घे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः। अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं विभो!। चित्रहस्तादिकं कृत्वा कक्षाबन्धं च चक्रतुः। गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम्। बाहुपाशादिकं कृत्वा पादाहतसिरावुभौ। उरोहस्तं ततश्चक्रौ पूर्णकुम्भौ प्रयुज्य तु। करसंपीडनं कृत्वा गर्जन्तौ वारणाविव। नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ। तलेनाहन्यमानौ तु अन्योऽन्यं कृतवीक्षणौ। सिंहाविव सुसंक्रुद्धावाकृष्याकृष्यायुध्यतम्। अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि। आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः। उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ। अधोहस्तं स्वकण्ठे तूरस्युरसि चाक्षिपत्। सर्वातिक्रान्तमर्य्यादं पृष्ठभङ्गं च चक्रतुः। स पूर्णमूर्द्धं बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः। तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम्। एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम्” मू० “कक्षैर्दोर्मूलैः कक्षां प्रकोष्ठगतां रज्जुं धुन्वानौ यत्र यत्र कक्षे आस्फोटं चक्रतुः बाहुमूलास्फालनेनाङ्गदबन्धरज्जुशेषं कम्पयन्तावित्यर्थः। चित्रहस्तादिकं हस्तस्यातिवेगेनाकुञ्चनप्रसारणोपर्य्यधश्चालन मुष्टीकरणानि चित्रहस्ताः। आदिपदात् पादस्याप्याकुञ्चनादि। कक्षाबन्धं परस्परकक्षायां हस्तौ कृत्वा बन्धनम् गले गण्डेन भालदेशेनाभिधातस्तेन पाषाणसदृशाङ्गत्वात्तयोरभिधातेन विस्फुलिङ्गोत्पत्त्याऽशनिं वज्रमिव ससृजतुरित्यर्थः। बाहुपाशादिकं चरणपाश आदिशब्दार्थः। पादाभ्यामाहताः सिराः स्नायवो याभ्यान्तौ दृढप्रहारेण नाडीपर्य्यन्तमपि वेदनावन्तावित्यर्थः। उरोहस्तमुरसि चपेटाप्रहारं पूर्णकुम्भौ ग्रथिताङ्गलिभ्यां हस्ताभ्यां परशिरसः पीडनं पूर्णकुम्भः द्वित्वं परस्परं द्वावपि चक्रतुरिति वक्तुम्। तलेन चपेटया, आवृत्य जत्रुदेशे पृष्ठं कृत्वा बाहुभिर्बहुभ्यां द्वावपि मिथ उदरमादाय प्रचक्रतुः प्रचिक्षिपतुः कॄ विक्षेपेऽस्य रूपम्। एवं कट्यां सुपार्श्वे च प्रचक्रतुः। तक्षवन्तौ तक्षस्तनूकरणं गात्रसङ्कोच इत्यर्थः तद्वन्तौ। अधोहस्तमुदरस्या- धस्ताद्धस्तं कृत्वा हस्ताभ्यामुदरमावेष्ट्य स्वकण्ठे खोरसि च कण्ठोरःसमीपे आनीयाक्षिपदास्फालितवान्। पृष्ठस्य भूमम्बन्धेन जातं भङ्गं पराभवं बाहुभ्यामुदरादीनि पीडने सम्पूर्णमूर्द्ध्वम्” नीलकण्टः।
पूर्णवैनाशिक = पु० सर्ववनाशिके सर्वशृन्यत्ववादिनि बौद्धभेदे सर्ववैनाशिकोऽप्यत्र।
पूर्णहोम = १० पूर्णो होमः। पूर्णाहुतौ।
पूर्णा = स्त्री “नन्दा भद्रा जया रिक्ता पूर्णा प्रतिपदः क्रमात्” ज्यो० त० उक्ते पक्षयोः पञ्चमीदशमीपञ्चदशीरूपे तिथिभेदे
पूर्णाङ्गद = पु० नागभेदे भा० आ० ५७ अ०।
पूर्णान(ल)क = न०। वर्द्धापनायाप्ते पूर्णपात्रे मेदि० पूर्णपात्रशब्दे दृश्यम्।
पूर्णानन्द = पु० पुर्ण आनन्दो यत्र। १ परमेश्वरे २ तन्त्रप्रकरणकारे विद्वद्भेदे च।
पूर्णाभिषेक = पु० कर्म०। तन्त्रोक्ते कौलाभिषेकभेदे।
पूर्णायुस् = पु० १ प्राधेये गन्धर्वभेदे भा० आ० ६५ अ०। पूर्णमायुरस्य। २ शतायुष्के कर्म०। ३ शतवर्षमिते जीवनकाले न०।
पूर्णावबात = पु० कर्म०। १ नृसिंहे २ रामे ३ श्रीकृष्णे च तेषां भगवतः संपूर्णावतारत्वात् तथात्वं अन्येषान्तु कलावतारत्वम्। “पूर्णो नृसिंहो रामश्च श्वेतद्वीपविराड् विभुः। परिपूर्णतमः कृष्णो वैकुण्ठे गोकुले स्वयम्। वैकुण्ठे कमलाकान्तो रूपभेदाच्चतुर्भुजः। गोलोके गोकुले राधाकान्तोऽयं द्विभुजः स्वयम्” ब्रह्मवै० जन्मख० ३९ अ० उक्तेस्तेषां तथात्वम्।
पूर्णाशा = स्त्री नदीभेदे भा० भी० ९ अ०।
पूर्णाहुति = स्त्री पूर्णा आहुतिः। होमसमाप्तौ होम्यायामाहुतौ शत० ब्रा० २२। ११।
पूर्णि = स्त्री पॄ–णिङ्। पूर्त्तौ पूर्णिमा।
पूर्णिका = स्त्री नासाच्छिन्नीनामकखगे त्रिका०।
पूर्णिमा = स्त्री पूर्णिं पूर्त्तिं मिमीते म–क। १ पौर्णमास्य तिथौ मरीचेः कलायां पत्न्यां जाते २ कन्याभेदे “भार्य्या मरीचेस्तु कला सुषुवे कर्दमात्मजा। कश्यपं पूर्णिकाञ्चैव ययोरापूरितं जगत्। पूर्णिकाऽसूत विरजं विश्वगञ्च परन्तप!। भाग० ४। १। १२ तत्तिविस्वरूपं द्वैधे खण्डभेदस्य कर्मभेदे ग्राह्यतादिकं च कालमा० न्यरूपि यथा “तत्र शुक्लायां पञ्चदश्यां चन्द्रमण्डलं स्वकलामिः सर्वात्मना पूर्य्यते सेयं मण्डलपरिपूर्त्तिः पूर्णिमेत्यनेन नाम्ना ज्ञायते। तदुक्तं ब्रह्माण्डमत्स्यपुराणयोः “कालक्षये व्यतिक्रान्ते दिवापूर्णौ परस्परम्। चन्द्रादित्यौ प- राह्णे तु पूर्णत्वात् पूर्णिमा स्मृता” इति। अह्नः परो भागः पराह्णः सूर्य्यास्तमयकाल इत्यर्थः। तत्र यथादित्यः संपूर्णमण्डलः सन्नस्तमेति तथोत्तरक्षणे चन्द्रः सम्पूर्णमण्डलः सन्नुदेतीति। दृष्टान्तदार्ष्टान्तिकभावस्य विवक्षितत्वाद् द्वयोरादित्यचन्द्रयोरुपन्यासः। यथा मण्डलपूर्णत्वविवक्षया पूर्णिमाशब्दः प्रयुज्यते तथा मासपूर्णत्वविवक्षया पौर्णमासीशब्दः प्रयुज्यते। नदुर्क्तं भविष्योत्तरे “पौर्णमासी महाराज। सोमस्य दयिता तिथिः। पूर्णो मासो भवेद् यस्मात् पौर्णमासी ततः स्मृता” इति। पूर्णिमामावास्ययोर्विकल्पेन मासान्तत्वं मासप्रस्तावे दर्शितम्। अतएव पौर्णमास्यामत्यन्तविप्रकर्षे सत्यनभिभूतत्वाच्चन्द्रमण्डलः सम्पूर्णो दृश्यते। तावेतौ सन्निकर्षविप्रकर्षौ गोभिल आह “यः परो विप्रकर्षः सूर्य्याचन्द्रमसीः सा पौर्णमासी। यः परः सन्निकर्षः सामावास्येति”। तदेवं पर्वाभिधायाः पञ्चदश्याः पूर्णिमादिनामनिर्वचनेन स्वभावविशेषो ज्ञाप्रितो भवति। ते च पूर्णमास्यामावास्ये प्रत्येकं द्विविधे। तच्च पुराणे दर्शितम् “राका चानुमतिश्चैव पौर्णमासी द्विधा स्मृता। सिनीबाली कुहूश्चैवममावास्या द्विधैव तु” इति। एतासां चतसृणां स्वरूपं काठकशाखायां विस्पष्टं श्रूयते “या पूर्वा पौर्ण्णमासी सानुमतिर्योत्तरा सा राका। या पूर्वाऽमावास्या सा सिनीबाली योत्तरा सा कुहूः” इति। वृहद्वशिष्ठोऽपि “राका आनुमतिश्चैव पौर्णमासीद्वयं विदुः। राका संपूर्णचन्द्रा स्यात् कलोनाऽनुमतिर्मता। पौर्णमासी दिवा दृष्टे शशिन्यनुमतिः स्मृता। रात्रिदृष्टे पुनस्तस्मिन् सैव राकेति कीर्त्तिता”। मत्स्यब्रह्माण्डपुराणयोः “यस्मात्तामनुमन्थन्ते पितरो दैवतैः सह। तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता। अत्थर्थं राजते यस्मात् पौर्णमास्यां निशाकरः। रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः” इति। “अथ पञ्चदशी निर्णीयते। सा द्विविधा पौर्णसास्यमावास्या च। तत्र पौर्णमास्यां परस्परविरुद्धानि वाक्यान्युपलभ्यन्ते। तत्र परविद्धाथा ग्राह्यत्वं विष्णुधर्मोत्तरे “एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी। अमावास्या तृतीया च उपोष्या स्युः परात्विताः”। परविद्धानिषैधः पूर्बविद्धाविधिश्च ब्रह्मपुराणपद्मपुराणयोः “घष्ठ्येकादश्यमावास्या पूर्बविद्धा तथाऽष्टमी। पूर्ण्णिमा परविद्धा च नोपोष्यं तिथिपञ्चकम्। पूर्वबिद्धा तु कर्त्तव्या सप्तमी ब्रतिभिर्नरैः। पौर्णमासी, महीपालपराया नियमाङ्गता” इति। पूर्बबिद्धाग्राह्यत्व च युन्मवाक्ये। “चतुर्दश्या च पूर्ण्णिमति”। एवं परस्परविरोधे सति या व्यवस्था सा ब्रह्मवैवर्त्ते दर्शिता “पूर्वविद्धा न कर्त्तव्या अमावास्या च पूर्णिमा। वर्जयित्वा मुनिश्नेष्ठ! सावित्रीव्रतमुत्तमम्” इति। सावित्री राजकन्या तया चीर्णं व्रतं सावित्रोव्रतम्। तच्च मविष्योत्तरपुराणे दर्शितम् “कथयामि कुलस्त्रीणां महिम्नो वर्द्धनं परम्। यथा चीर्ण्णं व्रतं पूर्बं सावित्र्या राजकन्यया” इति। एतच्च पौर्ण्णमास्याममावास्यायां च विहितम्। तस्मिन् व्रते पूर्बविद्धा ग्राह्या। व्रतान्तरे पूर्बबिद्धा न कर्त्तव्या किन्तु परविद्धैव कर्त्तव्येति परस्परविरुद्धस्य शास्त्रद्वयस्य व्यवस्था। यदा तु चतुर्दश्यष्टादशनाडिका भवति तदा सावित्रीव्रतमपि तत्र परित्याज्यस्। “भूतोऽष्टादशनाडोभिर्दूषयत्युत्तरां तिथिमिति” स्मृतेः। योऽयं पौर्णमासीनिर्ण्णव स एवामावास्यायासप्यवगन्तव्यः। तत्रापि सावित्रीव्रतं पूर्वदिने कर्त्तव्यं व्रतान्तराण्युत्तरदिने। अस्यां च व्यवस्थायां ब्रह्मवैवर्त्तवचनं पूर्बमुदाहृतम्। स्कन्दपुराणेऽपि “भूतविद्धा सिनीवाली न तु तत्र व्रतं चरेत्। वर्जयित्वा तु सावित्रीव्रतं तु शिखिनाहन!” इति। एवं च सति युग्मशास्त्रं सावित्रीव्रतव्यतिरिक्तेषु व्रतेषु द्रष्टव्यम्। प्रचेता अपि “नागबिद्धा तु या षष्ठी सप्तम्या च युताष्टमी। दशस्येकादशीविद्धा त्रयोदश्या चतुर्दशी। भूतबिद्धाप्यमावास्या न ग्राह्या मुनिपुङ्गवैः। उत्तरोत्तरविद्धास्ताः कर्त्तव्याः काठकी श्रुतिः” इति। पद्मपुराणेऽपि “षष्ठ्यष्टमी तथा दर्शः कृष्णपक्षे त्रयोदशी। एताः परयुताः कार्य्याः पराः पूर्बेण संयुताः” इति। यत्तु नारदीयपुराणे “दर्शं च पौर्ण मासं च षितुः सांवत्सरं दिनम्। पूर्बबिद्धमकुर्वाणो नरकं प्रतिप्रद्यते” इति तत् सावित्रीव्रतविषयं श्राविषयं वा। अमावास्यायामिव पौर्णमास्यामपि श्राद्ध विहितम् तथाच पितामहः “अमावास्याव्यतीपातपौर्णमास्यष्टकासु च। विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते हि सः” इति। अमाबास्याश्राद्धस्य च पार्वणरूपत्वमपराह्णस्य तत्कर्मकालत्वं कुतपस्य प्रारम्भकालत्वमित्येतत्त्रितयं प्रतिपत्प्रकरणे प्रत्याव्दिकनिर्णये प्रपञ्चितम्”। “सा चतुर्दशीयुता ग्राह्या युम्मात्। यमः “पह्मान्ते स्रो- तसि स्नायात् तेन नायाति मत्पुरम्” विष्णुः “दृश्येते सहितौ यस्यां दिवि चन्द्रवृहस्पती। पौर्ण्णमामी तु महती ज्ञेया संवत्सरे तु सा। तस्यां स्नानोपवासा भ्यामक्षयं परिकीर्त्तितम्”। सहितो मासमंज्ञानिमित्तकृत्तिकादिनक्षत्रगतौ महाकार्त्तिक्यादिदर्शनात्। नथा च राजमार्त्तण्डः “माससंज्ञे यदा ऋक्षे चन्द्रः सम्पूर्णमण्डलः। गुरुणा याति संयोगं सा तिथिर्महती स्मृता”। स्कान्दमात्स्ययोः “पौर्ण्णमासीषु चैताषु मासर्क्षसहितासु च। एतासु स्नानदानाभ्यां फलं दशगुणं स्मृतम्” ति० त० स्थितम्।
पूर्णेन्दु = पु० कर्म०। पञ्चदशभिः कलाभिः पूर्णे चन्द्रे।
पूर्णोत्कट = पु० पु० प्राच्ये देशभेदे मार्क० ५८ अ०।
पूर्णोपमा = स्त्री उपमालङ्काराभेदे अलङ्कारशब्दे ३९६ पृ० दृश्यम्।
पूर्त्त = त्रि० पूर–क्त नि०। १ पूरिते २ छन्ने विश्वः। पॄ–पालने कर्मणि क्त। ३ पालिते। भावे क्त। ४ पालने न० ५ शब्दर०। ५ खातादिकर्मणि न० अभरः। जातुकर्ण्यः “वापी कूपतडागादिदेवतायतनानि च। अन्नप्रदानमारामः पूर्त्तमित्यभिधीयते”। आरामः पुष्पफलोपायहेतुर्भूभागः। “अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम्। आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते। ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधीयते। इष्टापूर्त्तं द्विजातीनां धर्मः सामान्थ उच्यते। अधिकारी भवेच्छूद्रः पूर्त्ते धर्मे न वैदिके”। वैदिके वेदाध्यवनसाध्ये अग्निहोत्रादाविति” रत्राकरः। एवं स्त्रीणामपि पूर्त्ताधिकारः। यथा नारीत्यनुवृत्तौ वृहस्पतिः “पितृव्यगुरुदौहित्रान् भर्तुः स्वस्रीयमभ्तुलान्। पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः”। एतेन “जलाशयोत्सर्गे गोरवतरणानुमन्त्रणयोर्यजमानकर्तृकमन्त्रपाठः तत्रामन्त्रकतया स्त्रीशूद्रयोरनधिकारेण तद्वति यागेऽप्यनधिकारः विशेषोपदेशविरहादिति” द्वैतनिर्णयोक्तं निरस्तम्। अतएव तयोर्जलाशयोत्सर्गादिग्रहयज्ञवेदी होमादिसमाचारः। अत्र होमो वह्रौ न साक्षात् कल्पतरुरत्नाकरधृतापस्तम्बवचनात्। तद्यथा क्षारलवणाद्युपक्रम्य “तद्धुतमहुतञ्चाग्नौ न स्त्री जुहुयान्नानुपेतः इति” अनुपेतः अनुपनीतः, किन्तु ब्राह्मणद्वारा करणीयः। “श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृत्विजः स्वयम्” इति याज्ञवल्क्योक्तेः “ऋत्विग्वादे नियुक्तौ च समौ प्रंपरिकीर्त्तितौ। यज्ञे स्वाम्याप्नुयात् पुण्यं हानिं वादेऽथ वा जयम्” इति वृहस्पत्युक्तेः। वैदिकेतर मन्त्रपाठे शूद्रादेरप्यधिकारः। “वेदमन्त्रवर्जं शूद्रस्येति” छन्दीगाह्निकाचारचिन्तामणिधृतस्मृतौ वेदेतिविशेषणात्। “शूद्रोऽप्येवंविधः प्रोक्तो विना मन्त्रेण संस्कृतः। न केनचित् समसृजत् छन्दसा तं प्रजापतिः” इति यमस्मृतौ छन्दसा वेदेन इत्युक्तेश्च। तं शूद्रम्। पञ्चयज्ञस्नानश्राद्धेषु वैदिकेतरमन्त्रीऽपि निषिद्धः। शूद्रमधिकृत्य “नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत्” इति याज्ञवल्कीयेन “व्रह्मक्षत्रविशामेब मन्त्रवत् स्नानमिष्यते। तूष्णीमेव हि शूद्रस्य सनमस्कारकं मतम्” इति योगियाज्ञवल्कीयेन श्राद्धमधिकृत्य “अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः। अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेश्च गृह्यते” इति बराहपुराणीयेन च नमस्कारेणेति तूष्णीमिति मन्त्रवर्जित इत्यभिधानात्”।
पूर्त्ति = स्त्री पॄ–भावे क्तिन्। १ पूरणे “हन्तिः पूर्तिश्च पूरणे” ज्यो० त० उक्ते २ गुणने च।
पूर्त्तिन् = त्रि० पूर्त्तमनेन इष्टा० इनि। कृतपूरणे। स्त्रियां ङीप्।
पूर्द्वार = न० ६ त०। पुरस्य द्वारे गोपुरे अमरः।
पूर्धि = याच्ञायां भ्वा० प० सक० सेट् निघण्टुः। पूर्धयति अपूर्धायीत्।
पूर्व = निमन्त्रणे सक० निवासे अक० चु० उभ० सेट्। पूर्बयति ते अपुपूर्बत् त। ओष्ठ्यान्तोऽयम्।
पूर्य्य = त्रि० पॄ–क्यप् पूर–ण्यत् वा। १ पूरणीये २ परिपाल्येच
पूर्व = निवासे अक० निमन्त्रणे सक० भ्वा० प० सेट। अन्त्यस्थान्तोऽयम्। पूर्वति अपूर्वीत्।
पूर्व(र्व) = त्रि० पूर्ब (र्व)–अच्। १ प्रथमे आद्ये यस्यां दिशि येषां सूर्यस्य प्रथमं दृष्टिः तेषां तस्यां २ दिशि स्त्री तदुपलक्षिते ३ देशे यस्य यदपेक्षया प्रथमं जन्मादि तस्य ४ तादृशकाले ५ तदुपलक्षिते च। तस्य दिग्देशकालव्यवस्थावाचित्वे सर्वनामकार्य्यं पूर्वस्मै इत्यादि जसि ङिङस्योस्तु वा पूर्बे पूर्बाः पूर्बस्मात् पूर्वात् पूर्ब पूर्बस्मिन्। स्त्रियां तु न विभाषा पूर्बस्यै षूर्बस्याम् इत्यादि। सर्वनामत्वेन वृत्तिमात्रेऽस्य पुंवद्भावः। पूर्बस्यां स्थितं पूर्बस्थितम्। पूर्बस्या रूपं पूर्बरूपम् इत्यादि।
पूर्व(र्ब)कर्म्मन् = न० कर्म०। प्रथमे कर्मणि “कर्म त्रिविधं पूर्बकर्मप्रधानकर्म पश्चात्कर्मेति” सुश्रुतः। पूर्बभागे।
पूर्व(र्व)काय = पु० पूर्वं (र्वं) कायस्य एकदेशित०। कायस्य
पूर्व(र्व)कालिक = त्रि० पूर्वः(र्वः) कालः साधनतयाऽस्त्यस्य ठन्। पूर्ब(र्व)कालसाध्ये “दर्शनं पूर्ब(र्व)कालिकम्” मा० सौ० ८ अ०। पूर्ब(र्व)काले भवः ठञि वृद्धिः। पौर्व्य(र्ब)कालिक इत्येव तत्रार्थे त्रि० स्त्रियां ङीप् इति भेदः।
पूर्व(र्व)कृत् = पु० पूर्वां(र्बां) करोति कृ–क्विप् वृत्तौ पुंवत्। १ पूर्ब(र्व)दिगसूचके आदित्ये २ तदधिपे इन्द्रे च यजु० १०३६। ३ पूर्ब(र्व)कारकमात्रे त्रि०।
पूर्व(र्ब)कोटि = स्त्री विप्रतिपत्तौ पूर्बोपात्ते विषये पूर्वपक्षे
पूर्व(र्ब)गङ्गा = स्त्री नित्यक०। नर्मदानद्यां हेम०।
पूर्व(र्ब)चित्ति = त्रि० चित–भावे क्तिन् पूर्वं(र्बं) चित्तिः स्मरणं यस्य। १ पूर्बानुभवविषये यजु० १३। ११। १३। ४३। २ अप् सरोभेदे स्त्री हरिवं० १२ अ०।
पूर्व(र्ब)ज = पु० पूर्वस्मिन् काले जायते जन–ड। १ ज्येष्ठभ्रातरि रघुः १०। ३६। २ ज्येष्ठभगिन्यां स्त्री अमरः। ३ पूर्बकालजातमात्रे त्रि०। “ज्येष्ठाभूलीयमिच्छन्ति मासमाषाढ पूर्ब(र्व)जम्”। ४ चन्द्रलोकस्थे दिव्यपितृगणे “अथ पूर्ब(र्व)जाः” पितरश्चन्द्रगोलस्था न्यस्तशस्त्राः स्वधाभुजः। कव्यबालादयस्ते च” त्रिका०। ५ पितामहादौ “स पूर्ब(र्व)जानां कपिलेन रोषात्” रघुः।
पूर्व(र्ब)जिन = पु० कर्म०। प्राचीने जिनभेदे मञ्जु घोषप्रभृतौ त्रिका०
पूर्व(र्ब)दक्षिणा = स्त्री पूर्व(र्ब)स्या दक्षिणस्याश्चान्तराला दिक् “दिङ्नामान्यन्तराले” पा० स०। पूर्बदक्षिणयोर्दिशोरन्तरालायां दिशि १ अग्निकोणे २ तद्दिक्स्थे देशे च मार्क० पु० ५८ अ०।
पूर्व(र्ब)दिक्पति = पु० कर्म० ६ त०। इन्द्रे हेम०। पूर्व(र्ब)दिगी शादयोऽप्यत्र। २ मेषसिंहादिराशिषु। “प्रागादिककुभां नाथा यथासंख्यं प्रदक्षिणम्। मेषाद्या राशयो ज्ञेया स्त्रिरावृत्तिपरिभ्रमात्” ज्यो० त०।
पूर्व(र्ब)दिग्बल = न० दिग्बलशब्दे ३५७३ पृ० उक्ते सूर्य्यादिग्रहाणां कालभेदे पूर्बस्यां दिशिभवे बलभेदे
पूर्व(र्ब)दिग्वदन = न० पूर्वदिशि वदनमस्य। दिग्वदनशब्दे ३५ ७५ पृ० उक्ते मेषसिंहधनूरूपराशित्रिके
पूर्व(र्ब)दिश् = स्त्री कर्म०। प्राच्यां दिशि यस्यां दिशि येषां सूर्य्यस्य प्रथमदृष्टिः तेषां सा दिक्प्राची। तज्ज्ञानो पायश्च दिग्ज्ञानशब्दे ३५ ७४ पृ० दृश्यः।
पूर्व(र्ब)दिष्ट = त्रि० पूर्वं(र्वं)दिष्टं भाग्यं साधनत्वेनास्त्यस्य “अच्। पूर्बभाग्यानुरूपेण जाते १ दुःखादौ “दैवैर्मर्त्यस्य यत्प्रोक्तं पूर्ब(र्व)दिष्टं हि तत् स्मृतम्” भाग० ६। १७ श्लो०। पूर्बं(र्वं)दिष्टम्। २ पूर्बविहिते त्रि०।
पूर्व(र्ब)देव = पु० पूर्बे(र्व)देवाः। १ असुरे अमरः। तेषां प्रथमं देवत्वेन जायमानत्वेऽपि अन्यायाचरणात् ततो भ्रष्टानां दैत्यभावं प्राप्तिरिति पौराणिकी कथानुसन्धेया। कर्म०। पूर्बतनयोः देवयोः २ नरनारायणयोः द्वि० व०। भा० उ० ४८ अ०।
पूर्व(र्ब)देवता = स्त्री कर्म०। अनादिदेवभावेषु पितृषु “अक्रोघनाः शौचपराः सततं ब्रह्मचारिणः। न्यस्तशस्त्रा महाभागाः पितरः पूर्ब(र्व)देवताः” मनुः। तदधिकं पितृशब्दे दृश्यम्।
पूर्व(र्ब)देश = पु० पूर्व(र्ब)वर्त्ती देशः। जम्बुद्वीपस्थे देशभेदे स च देशः वृ० सं० १४ अ० कूर्मविभागे दर्शितः।
पूर्व(र्ब)नदी = स्त्री कर्म०। कूर्मविभागे उक्तायां पूर्वदिक्स्थायां नद्याम् ततो नद्यन्तत्वात् ढक् उत्तरपदवृद्धिः पूर्वनादेय तत्र–भवे त्रि०।
पूर्व(र्ब)पक्ष = पु० कर्म०। १ शुक्लपक्षे अमरः। शास्त्रीयसंशयनिरासार्थप्रश्ने २ फकिकायाम्। ३ सिद्धान्तविरुद्धकोटौ “विषयो विषयश्चैव पूर्वपक्षस्तथोत्तरम्” इत्युक्ताधिकरणावयवभेदे व्यवहारे प्रतिज्ञापरपर्य्याये भाषापत्ररूपे ४ प्रथमावयवभेदे। तल्लक्षणादिकं वीरमि० उक्तं यथा “पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरस्तथा। क्रियापादस्तृतीयस्तु चतुर्थो निर्णयस्तथा” इति वृहस्पतिवचनस्थं निर्णयफलकपरामर्शरूपप्रत्याकलितपरमेव निर्णयपदमुपचारादित्याह “इतरथा पूर्वोदाहृततद्वचनविरोधः स्यात्। तत्र प्रतिज्ञावादी कः स्यादित्यपेक्षिते नारदः “राज्ञे कुर्य्यात् पूर्बमावेदनं यस्तस्य ज्ञेयः पूर्ववादो विधिज्ञैः” इति पूर्बवादः प्रतिज्ञा। पूर्ववादकस्यैव प्रतिज्ञावादितेत्यस्यापवादमाह स एव “यस्य वाभ्यधिका पीडा कार्य्यं वाभ्यधिकसम्भवेत्। तस्यार्थिवादो दातव्यो न यः पूर्बं निवेदयेत्”। अर्थिवादः प्रतिज्ञा। वृहस्पतिः “अहंपूर्वि(र्व)कया यातावर्थिप्रत्यर्थिनौ यदा। वादो वर्णानुपूर्वेण ग्राह्यः पीडामवेक्ष्य चेति”। मनुरपि “अर्थानर्थावुभौ बुद्धा धर्माधर्मौ च केवलौ। वर्णक्रमेण सर्वाणि पश्येत् कार्य्याणि कार्य्यिणाम्”। ब्राह्मणादीनां युगपद्धर्माधिकरणं प्राप्तानां वर्णानुक्रमेण ब्राह्मणस्यादौ ततः क्षत्रियस्येत्येवमादिक्रमेण चतुष्पाद्व्यवहारः प्रवर्त्तनीयो राज्ञा पीडाधिक्यकार्य्यगौरवं चेदर्थिप्रत्यर्थिनोरन्यतरस्य तदा न पूर्वावेदनक्रमो नापि वर्णक्रमः। यदा तु सर्वे सवर्णास्तदा आवेदनक्रमः। युगपदावेदने समानवर्णत्वे समानपीडत्वे च ससभ्यसभापतीच्छयेति निर्गलितोऽर्थः। प्रतिज्ञालक्षणमाह याज्ञवल्क्यः “प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितभर्थिना। समामासतदर्द्धाहन्नोमजात्यादिचिह्नितम्”। अर्थ्यत इत्यथः साध्यः सोऽस्यास्तीत्यर्थी तद्विपरीतः प्रत्यर्थी तस्याग्रतः पुरतो लेख्यं लेखनीयं ससभ्येन सभापतिना यथावेदितं पूर्बावेदनमनतिक्रम्य येन प्रकारेणावेदनसमये स्ववचनं लेखितं तथैव प्रत्यर्थिसमक्षमपि न पुनरन्यथा। तथा सत्यन्यवादित्वेन भङ्गप्रसङ्गात्। अन्थवादीत्यादि हानलक्षणे वक्ष्यते। प्रागेवार्थिना स्वप्रतिज्ञातार्थस्य लिखितत्वादधुमा लेखनमनर्थकमित्याशङ्कानिरासायाह समामासेति। संवत्सरमासपक्षतिथिवारार्थिप्रत्यर्थिनामतदीयजातिभिरादिशब्दोपात्तैश्च द्रव्यसङ्ख्यातज्जाति ऋणग्रहणादिस्थानवेलाक्षमालिङ्गादिभिर्यथीपयोगं चिह्नितमिति कार्य्यमात्रमावेदनकाले लिखितमधुनोपयुक्तसहितं लिख्यत इति नानर्थक्यमिति भावः। आदिशब्दग्राह्याणि च कात्यायन आह “निवेश्य कालं वर्षं च मासं पक्षं तिथिं तथा। बेलां प्रदेशं विषयं स्थानं जात्याकृती वयः। साथ्यं प्रमाणं द्रव्यञ्च सङ्ख्या नाम तथात्मनः। राज्ञां च क्रमशी नाम निवासं साध्यनाम च। क्रमात् पितॄणां नामानि पीडामाहर्तृदायकौ। क्षमालिङ्गानि चान्यानि पक्षं सङ्कल्प्य कीर्त्तयेत्”। कालो धनप्रयोगादिकालः। वर्षं पत्रलिखनकालीमम् एवं मासपक्षतिथयोऽपि सन्ध्यावन्दनादिक्रिथोपलक्षितः कालो बेला। प्रदेशः क्षेत्रादिस्थलविशेषः। विषयोऽन्तर्वेद्यादिविषयः स्यानं विवादास्पदीभूतगृहादिग्रामादि आकृतिरवयवसंस्थानविशेषः वयस्तारुण्यादि प्रमाणं निवर्त्तनप्रस्थादि। आत्मनो राज्ञां च क्षेत्रादिभोगकालोनानां वहुवचनं तदीयपित्रादिप्राप्त्यर्थं निवासो निकटगृहादिः। पितरोऽर्थिप्रत्यर्थिनोः। पीडा प्रतिभूप्रभृतीनां धनिकादिकृता। आहर्त्ता प्रतिग्रहादिविषयवस्तूनि आनेता दायको दातृविक्रेत्रादिः। क्षमालिङ्गान्यात्मीयधनादेः परोपभोगाद्यपराधसहनचिह्नानि। अन्यत् सुबोधम्। सग्रहकारोऽपि “अर्थवद्धर्मसंयुक्तं परिपूर्णमनाकुलम्। साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च। प्रसिद्धमविरुद्धञ्च निश्वितं साधनक्षमम्। संक्षिप्तन्निखिलार्थं च देशकालाविरोधि च। वर्षर्तुमासपक्षाहर्वेलादेक्षप्रदेशवत्। स्थानावसघसृध्याख्याजात्थाकारवयोयुतम्। साध्यप्रमाणं ङ्ग्यावदात्मप्रत्यर्श्रिनाम च। परा- त्मपूर्वजानेकराजनामभिरङ्कितम्। क्षमालिङ्गात्मपीडावत् कथिताहर्तृदायकम्। यदावेदयते राज्ञे तद्भाषेत्यभिधीयते” इति। अर्थवत् प्रयोजनवत्। धर्मसंयुक्तम् अल्पाक्षरप्रभूतार्थत्वादिगुणयुक्तम्। परिपूर्णमध्याहाराद्यनपेक्षम्। अनाकुलमसन्दिग्धाक्षरम्। साध्यवत् साधनीयार्थयुतम्। वाचकपदम् गौणलाक्षणिकपदरहितम्। प्रकृवार्थाविरोधि पागावेदितार्थेन सह संवादि। प्रसिद्धं लोकप्रसिद्ध्यनतिक्रान्तम् अबिरुद्धं पुरराष्ट्रप्राड्विवाकराजाद्यविरुद्धम्। पूर्वापराविरुद्धं व्यवहारिकधर्माविरुद्धञ्च। निश्चितं संशयरहितम्। साधनक्षमम् साधनार्हम्। संक्षिप्तं शब्दाडम्बरशून्यम्। निखिलार्थं निरवशेषवक्तव्यार्थप्रतिपादकम्। देशलोकाविरोधि मध्यदेशीयममुकक्षत्रम् शरत्कालीनशस्याढ्यं मदोयमपहृतमित्यादिदेशकालविरोधविधुरम्। परात्मनोः प्रतिवादिवादिनोर्ये पूर्बजाः पित्रादयस्त्रयः अनेके राजानः क्षेत्रादिभुक्तिकालीनास्त्रेषान्नामभिरङ्गितं युक्तम्। अत्रार्थवत्त्वादीनि देशकालविरोधिम्यमर्थिप्रत्यर्थिनामाशून्यत्वं चेति सर्वत्र भाषायामवश्यम्भावीनि तैर्विना साध्यनिर्देशासिद्धेः। वर्षादीनि तु यत्र यावन्त्युपयुज्यन्ते तत्र तावन्त्येव निवेशनीयानि सर्वाणिन सर्वत्र अदृष्टार्थत्वपमङ्गात्। तत्र वर्षादीनां कालानां वृद्धिधनद्वैगुण्यादिघिवादेन प्रतिग्रहक्रयादिपौर्वापर्य्यवादे वोपयोगः। देशप्रदेशस्थानानामाहर्तृदायकयोरात्मादिपूर्बजराजादिनाम्ना च स्थावरक्षेत्रादिविवादेषु। साध्याख्याजात्याकारवयसां चौर्य्यादिस्वाम्यविक्रयादिबिवादेषु। प्रमाणसंख्ययोर्मेयतुलितादिद्रव्यविवादे वौर्य्यादिविवादे च क्षनालिङ्गानामुपेक्षितपरोक्षभुज्यमानभुम्यादिविबादे। आत्मपीडाया ऋणिकप्रतिभ्वादिविवादे एवमन्यदप्युन्नेयम्। अतएवाशयादाह कात्यायनः “देशञ्चैव तथा स्थान सन्निवेशस्तथैव च। जातिः संज्ञाधिवासश्च प्रमाणं क्षेत्रनाम च। पितृपैतामहञ्चैव पूर्बराजानुकीर्त्ततम्। स्थावरेषु विवादेषु दशैतानि निवेशयेत्” इति। एतेषां तत्रीपयोगित्वात्। हारीतोऽपि “आसनं शयनं यानन्ताम्रं कांस्यमयोमयम्। धान्यमश्ममयं यच्च द्विपदञ्च चतुष्पदम्। मणिमुक्ताप्रबालानि हीरका रूप्य काञ्चनम्। यदि द्रव्यसमूहः स्यात् संख्या कार्य्या तदैक तु। यस्मिन् देशे च यद्द्रव्यं येन मानेन मीयते। त्वेन तस्मिंस्तदा सङ्ख्या कर्त्तव्या व्यवहारिभिः” इति। मानसंख्याशब्दावत्रान्योऽन्योपलक्षणम्। अत्रैतावद्विवक्षित यत्र यावदुपयुज्यत तत्र तावन्निवेश्यं भाषापत्रे। अन्यथा साध्यनिर्देशस्यापूर्णत्वात् पक्षाभासतापत्तेरधिकनिवेशेऽदृष्टार्थतापत्तेरिति। कात्यायनोऽर्थत एवाह “देशकालविहीनश्च द्रव्यसङ्ख्याविवर्जितः। क्रियामानवि हीनश्च पक्षो नादेय इष्यते”। क्रिया प्रमाणम्। मान साध्यपरिमाणम्।” यद्यपि पूर्वोक्तपक्षलक्षणरहितानां पक्षाभासत्वमर्थसिद्धं तथापि नारदादिभिः स्पष्टार्थं प्रपञ्चितम्। तत्र नारदः “अन्यार्थमर्थहीनञ्च प्रमाणागमवर्जितम्। लेख्यहीनाधिकं भ्रष्टं भाषादीषा उदाहृताः”। एतान् स एव विवृतवान्। “अर्थे साधारणेऽप्येको सम्बन्धोऽथानियुक्तकः। लेखयेद् यत्तु भाषार्थमन्यार्थं तं विदुर्बुधाः”। गणकार्य्यमेकी वा यद्यसम्बन्धी गदनियुक्तो वा लेखयेद् यस्यां भाषायामित्यर्थः। “ब्रह्महायमिति द्वेषात् क्रोधाद्वापि वदेत्तु यः। साध्यं च मोचयेत् पश्चादर्थहीनान्तु तां विदुः”। उक्तं साध्यं वादिना यस्यान्त्यज्यते सा भाषाऽर्थहीनेत्यर्थः। “गणिते लिखिते मेये तथा क्षेत्रगृहादिषु। यत्र सङ्ख्या न निर्दिष्टा सा प्रमाणविवर्जिता”। सङ्ख्यानं सङ्ख्येति व्युतपत्त्या सङ्ख्याशब्देन गणनतोलनमानानां परिग्रहः। “विद्यया प्राप्तमर्थार्थं लब्धं क्रीतं क्रमागतम्। नत्वेवं लिख्यते यत्र सा भाषा स्यादनागमा। समामासस्तथा पक्षस्तिथिर्वारस्तथैव च। यत्रैतानि च लिख्यन्ते लेख्यहीनान्तु तां विदुः”। अवश्यं यद् यत्र पूर्वोक्तरीत्या लेख्यं तद्रहिता लेख्यहीनेत्यर्थः। “लेखयित्वा तु तां भाषामनिर्दिष्टे तथोत्तरे। निर्दिशेत् साक्षिणः पूर्वमधिकां तां विनिर्दिशेत्”। साक्षिण इति प्रमाणोपलक्षणम्। व्युत्क्रमादत्राधिक्यन्तेनाप्राप्तकालता फलिता। “यत्र स्यात्तु यथापूर्बं निर्दिष्टं पूर्बवादिना। मन्दिग्धमेव लेख्येन भ्रष्टां भाषान्तु तां षिदुः” उभयं पूर्बमिति पाठे पक्षद्वयमपि प्रतिज्ञावादिनैव निर्दिष्टं स्यादित्यर्थः”। प्रसङ्गात् पक्षाभासोऽपि तत्र निर्णीतोऽत्र प्रदर्श्यते। तत्र कात्यायनः “अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम्। असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत्”। अप्रसिद्धमाह वृहस्मतिः “न केनचित् कृतो यस्तु सोऽप्रसिद्ध उदाहृतः। यथा फलसहम्रकृष्टक्षेत्रमपहृतमिति मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्याद्यप्रसिद्धमित्याह विज्ञानेश्वरः। वृह- स्पतिना त्विदमसाध्योदाहरणमुक्तं तच्च वक्ष्यते। निराबाधन्निरुपद्रव मम मन्दिरे दीप्यमानदीपकप्रकाशेनायं खमन्दिर व्यवहरतीतिप्रभृति निरर्थममिधेयहीनं मदीयं कचटतपञ्जवगडदशं वा गृहीत्वा न ददातीत्यादि विज्ञानयोगी। वृहस्पतिवचनात् त्वन्यथा निरर्थकपदार्थः प्रतीयते यथाह “खल्पापराधः स्वल्पार्षो निरर्थक इति स्मृतः” इति। एतस्योदाहरणं स्मृतिचन्द्रिकायाम् “अहमनेन सस्मितमीक्षितः। मामकी शिक्षाऽनेनापहृतेत्यादि निष्प्रयोजनं यघायं देवदत्तोऽस्मद्गृहमन्निधौ सुस्वरमधीते इत्यादि मिताक्षरास्मृतिचन्द्रिकयोरुदाहृतम्। वृहस्पतिना तथैव लक्षितम्। “कार्य्यबाधाविहीनस्तु विज्ञेयो निष्प्रयोजनः” इति। स एव प्रकारान्तरेणापि निरर्थनिषप्रयोजनौ लक्षितवान् “कुसीदाद्यैः षदैर्हीनो व्यवहारो निरर्थकः। वाक्पारुष्यादिभिश्चैव विज्ञेयो निष्प्रयोजनः”। कुमीदमृणदानं तत्प्रभूतिभिश्चतुर्दशभिरर्थविषयव्यवहारैर्हीनो निरर्थकः। वाकपारुष्यादिभिहिंसात्मकैश्चतुर्भिर्हीनी निष्प्रयोजनः इत्यर्थः। अष्टादशपदाविषयः पक्षो दुष्ट इत्याशयः। असाध्यविरुद्धावाह स एव “ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः। असम्भाव्यमसाध्यन्तं पक्षमाहुर्मनीषिणः। यस्मिन्नावेदिते पक्षे प्राड्विवाकेऽथ राजनि। पुरराष्ट्रे विरोधः स्याद्विरुद्धः सोऽभिधीयते” इति। मिताक्षराथामसाध्यविरुद्धावन्यथोक्तौ “देवदत्तेनाहं सभ्रूभङ्गमुपहसित इत्याद्यसाभ्यसाधनासम्भवात् अल्पकालत्वान्न साक्ष्यादिसम्भवी लिखितं दूरतोऽल्पत्वान्न दिव्यमिति। भूकेनाहं शप्त इत्यादि विरुद्धमिति”। पुरराष्ट्रादिविरुद्धमपि विरुद्धपदेन व्याख्याय राज्ञा विवर्जित इत्यादिस्मृत्यन्तरञ्च तदर्थतयोदाहृतन्तच्च पूर्बमस्माभिरनादेयव्यवहारनिरूपणे लिखितम्। अन्येऽपि पक्षाभासाः स्मृतिचन्द्रिकोदाहृतवचनोक्ता ज्ञेयाः। यथा “भिन्नक्रमो व्युत्क्रमार्थः प्रकीर्णार्थो निरर्थकः। अतीत्कालो विद्विष्टः पक्षो नादेय इष्यते। यथास्थानानिवेशेन नैव पक्षार्थकल्पना। शस्यते तेन पक्षः स भिन्नक्रम उदाहृतः”। व्यत्यस्ताक्षरसन्निवेशो भिन्नक्रम इति यावत्। व्युत्क्रमार्थो व्यवहितास्ययेनार्थाबोधकः। प्रकीर्णार्थोऽसङ्कलितार्थः। “मूलमर्थं परित्यज्य तद्गुणो यत्र लिख्यते। निरर्थकः स वै वक्षो भूतसाधनवर्जितः। भतकालमतिक्रान्तं द्रव्यं यत्र हि लिख्यते। अतीत- वालः पक्षोऽसौ प्रमाणे सत्यपि स्मृतः। यस्मिन् पक्षे द्विधा साध्यं भिन्नकालविमर्शनम्। विमृष्यते क्रियाभेदः स पक्षोद्विष्ट उच्यते”। भूतसाधनं मूलभूतं साधनं तेन वर्जितः। भूतकालः साध्यकालः। अन्यानपि पक्षाभासानाह स एव “अन्याक्षरनिवेशेन अन्यार्थ गमनेन च। आकुलन्तु भवेल्लेख्यं क्रिया चैवाकुला भवेत्। साधनं सह साध्येन निर्दिष्टं यत्र लेखयेत्। उक्तक्रमविहीनत्वात् सोऽपि पक्षो न सिध्यतीति। विरुद्धश्चाविरुद्धश्च द्वावप्यर्थौ निवेशितौ। एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस्त्यजेत्। परस्परविरुद्धानि यः पदानि निवेशयेत्। विरुद्धपदसङ्कीर्णा भाषा तस्य न सिध्यतीति”। यत्तु “पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विवजितः। अनेकपदसङ्कीर्णः पूर्बपक्षो न सिद्ध्यतीति” स्मरणात् तस्यायमर्थः। राज्ञा विवर्जितो राजत्यक्तशुल्कादिविषयकर्णादानादिपदमिश्रितस्तु क्रियाभेदेन युगपन्न सिद्ध्यतीति मदीया रूपका इयन्तोऽनया वृट्याऽनेन गृहीताः सुवर्णञ्च मया निक्षेपीकृतमयमिदं मदीयक्षेत्रमपहरतीत्यनेकपदविषयस्यापि पक्षस्य क्रमेणाप्यनुपादेयत्वे तत्त्वनिर्णयाभावप्रसङ्गेन युक्तिविरोधात्। “बहुप्रतिज्ञं यत्कार्य्यं व्यवहारेषु निश्चितम्। कामं तदपि गृह्णीयाद्राजा तत्त्वबुभूत्सयेति” कात्यायनवचनविरोधाच्च। तस्माद्युगपत् पक्षाभामतेत्येव रमणीयम्। अनेकवस्तुसङ्कीर्णस्यापक्षत्वन्त्वतत्पदसम्बद्धम्। हिरण्यरूपकवासांसि वानेन मत्तो वृद्ध्या गृहीतान्यस्य हस्ते मया लिक्षिप्तान्यननापहृतानि वेत्येकस्मिन्नपि पदे युगपदपीदृशपक्षोपन्यासस्यादुष्टत्वात्। साध्यञ्च विधिमुखेन प्रतिषेधमुखेन वा पक्षनिपणीयमित्याह कात्यायनः “न्यायं संयच्छते कर्तुमन्यायं वा करोत्ययम्। न लेखयति यख्येवं तस्य पक्षो न सिद्ध्यति”। न्यायं समित्यनेन ममैतावद्धनसादाय न ददातीत्यादि प्रतिबन्धमुखताऽपि लक्षिता। अन्यायं वेत्यनेन ममेदमपहरतीत्यादि विधिमुखता प्रदर्शिता। वृहस्पतिरपि “प्रतिज्ञादोषनिमुंक्तं साध्यं सत्कारणान्वितम्। निश्चितं लोकसिद्धञ्च पक्ष पक्षविदो विदुः” इति। प्रतिज्ञादोषैः प्रतिज्ञासन्न्यासादिभिर्मुक्तं रहितम्। ते च दर्शिताः प्राक। साध्यं साधनार्हम्। सत्कारणान्वितं स्फुटटोषरहितहेतुसहितम्। निश्चितं सन्देहाजनकवाक्यरश्चनायुशुं न तृ स्ववमेव० निश्चितं विप्रतिपत्तावर्थनि- श्चयाभावात्। लोकसिद्धं व्यवहारिकधर्माविरुद्धम्। अतएव मनुः “सत्या न भाषा भवति यद्यपि स्यात् प्रतिष्ठिता। बहिश्चेद्भाष्यते धर्मान्नियताद्व्यवहारिकात्”। प्रतिष्ठिता प्रसिद्धत्वादिदोषनिर्मुक्त। भाषा प्रतिज्ञा व्यावहारिकधर्माद्विरुद्धा च सत्या ग्राह्या न भवति राजादीनामित्यर्थः। मवदेवस्तु “यत्र श्रुतमात्र एव सति लोकानां सम्प्रत्ययस्तल्लोकसिद्धं तेन निर्धनकृतो लक्षादिसङ्ख्यधनाक्षेपो न पक्ष इति व्याचक्षौ तद्बाधरूपप्रतिज्ञादीषवत्त्वेनैव तादृशपक्षस्य निराकरणात्। प्रतिज्ञादोषनिर्मुक्तमित्यनेनैव गतार्थम्”। ततः गहा० भावार्थे छ। पूर्बपक्षीय तद्भवे त्रि०।
पूर्व(र्ब)पद = न० कर्म०। पूर्ववर्त्तिनि विभक्त्यन्ते पदे “पूर्वपदात् संज्ञायामगः” पा०। २ पूर्बवर्त्तिस्थाने च। पूर्बपदमधीते “पूर्बोत्तरपदात्” वार्त्ति० इकन्। पूर्बपदिक तद्वेत्तरि तदध्यायिनि च।
पूर्व(र्ब)पर्वत = पु० नित्यक०। उदयाचले अमरः।
पूर्व(र्ब)पाञ्चालक = त्रि० पूर्वस्मिन् पञ्चाले मवः बुञ् उत्तरपदवृद्धिः। पूर्बपञ्चालभवे। पूर्बं पञ्चालानाम् एकदेशिस० तत्र भवः अणि तु नोत्तरपदवृद्धिः। पौर्बपञ्चाल इत्येव सि० कौ०।
पूर्व(र्ब)पाटलिपुत्रक = त्रि० पूर्वपाटलिपुत्रे भवः वुञ् न पूर्बपदवृद्धिः। पूर्बपाटलिपुत्रनगरभवे।
पूर्व(र्ब)पाद = पु० पूर्वं पादस्य एकदेशिस०। अग्रचरणे कात्या० श्रौ० ४। ९। ४
पूर्व(र्ब)पालिन् = पु० पूर्वं देशं दिशं वा पालयति पालि–णिनि। १ पौरस्त्यदेशपतिनृपभेदे २ पूर्बदिगीशे इन्द्रे च।
पूर्व(र्ब)पितामह = पु० पूर्वः पितामहात्। प्रपितामहे भा० वि० १ अ०।
पूर्व(र्ब)पीठिका = स्त्री कर्म०। कथाग्रन्थावतरणिकाभेदे।
पूर्व(र्ब)पुरुष = पु० कर्म०। पित्रादित्रिके पुरुषे।
पूर्व(र्ब)पूर्व(र्ब) = त्रि० पूर्व + वीप्सायां द्वित्वम्। वीप्सार्थक पूर्बशब्दार्थे।
पूर्व(र्ब)फल्गुनी = स्त्री अश्विन्यादिषु एकादशे नक्षत्रे। अश्लेषाशब्दे तदीशादि दृश्यम्।
पूर्व(र्ब)फल्गुनीभव = पु० पूर्व(र्ब)फलगुन्यां भवति भू–अच्। वृहस्पतौ शब्दमाला।
पूर्व(र्ब)भ(भा)द्रपदा = स्त्री भद्रस्य वृषस्येव पदं चरणमस्य तस्येदमण् वा कर्म०। अश्विन्यादिषु पञ्चविंशतितमनक्षत्रे तत्स्वरूपादिकं अश्लेषाशब्दे उक्तम्।
पूर्व(र्ब)भाव = पु० पूर्बो भावः। १ पूर्ववर्त्तित्वे कारणत्वे “येन सह पूर्बभावः कारणमाद्राय वा यस्य” भाषा० कुर्म०। २ पूर्बवर्त्तिनि भावे पदार्थधर्मभेदे शृङ्गाररसंस्य पूर्बरागापरपर्य्योय ३ भावभेदे।
पूर्व(र्ब)भाविन् = त्रि० पूबं भवति भू–णिनि। १ कारणे २ पूर्ववर्तिनि पदार्थमात्रे च सां० सू० १ ७५।
पूर्व(र्ब)यक्ष = पु० नित्यक०। मणिभद्रादौ जिनोत्तमे त्रिका
पूर्व(र्ब)रङ्ग = पु० पूर्वं रज्यतेऽस्मिन् रज–आधारे घञ। “यन्नाट्य वस्तुनः पूर्बं रङ्गविघ्नोपशान्तये। कुशीलयाः प्रकवन्ति पूर्व(र्ब)रङ्गः स उच्यते” दशरूपकोक्ते नान्दीपाठादौ।
पूर्व(र्ब)राग = पु० पूर्बो रागः। नायकयोर्मेलनात् पूर्वजाते अनुरागभेदे “श्रवणाद्दर्शनाद् वापि मिथःसंरूढ रागयोः। दशाविशेषो योऽप्राप्तौ पूर्बरागः स उच्यते। श्रवणन्तु भवेत्तत्र दूतवन्दिसखीमुखात्। इन्द्रजाले च चित्रे च साक्षात् स्वप्ने च दर्शनम्। अभिलाषश्चिन्ता स्मृतिगुणकथनोद्वेगसंप्रलापाश्च। उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः। अभिलाषः स्पृहा चिन्ता प्राप्त्युपार्यादिचिन्तनम्। उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि। अलक्ष्यवाक् प्रलापः स्यात् चेतसो भ्रमणाद्भृशम्। व्याधिस्तु दीर्घनिःश्वासः पाण्डुताकृशतादयः। जडता हीनचेष्टत्वमङ्गानां मनसस्तथा। रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते। जातप्रायन्तु तद्वाच्यं चेतसा चापि काङ्क्षितम्। “वर्ण्यतेऽपि यदि प्रत्युज्जीवनं स्याददूरतः”। “आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः। नीलीकुसुम्भमञ्चिष्ठाः पूर्बरागोऽपि च त्रिधा। न चातिशोभते यन्नापैति प्रेम मनोगतम्। तन्नीलीरागमाख्यान्ति यथा श्रीरामसीतयोः। कुसुम्भरागं तं प्राहुर्यदपैति च शोभते। मञ्जिष्ठारागमाहुस्तं यन्नापैत्यतिशोभते” सा० द०।
पूर्व(र्ब)रात्र = पु० पूर्वं रात्रेः एकदेशिस० अच्समा० रात्रान्त त्वात् पुंस्त्वम्। रात्रेः पूर्बभाग्ये।
पूर्व(र्ब)रूप = न० कर्म०। अर्थालङ्कारभेदे अलङ्कारशब्दे ४०० पृ० दृश्यम्। भविष्यद्रोगस्य प्राग्जातरूपे तस्य लक्षणविशेषो भाविरोगलणत्वं चोक्तं यथा “प्राग्रूपं येन लक्ष्यते। उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः। लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम्। द्विविधं हि पूर्बरूपं भवति सामान्यं विशिष्टञ्च सामान्यं येन दोषदुष्यसंमूर्च्छनावस्थाजनितेत भाविसवराद व्याधिमत्रं प्रतीयते न तु वातादिजनितत्वादिविशेषा। यथा “श्रमोरतिर्विवर्णत्वमिति”। तथा बालगुरुवाक्यप्रद्वेषादि। सामान्याभिप्रायेणैव तन्त्रान्तर यथा “व्याधेर्जातिर्बुभूषा च पूर्वरूपेण लक्ष्यते। भावः किमात्मकत्वञ्च लक्ष्यते लक्षणेन तु” इति। तथाह पराशरः “पूर्वरूपं नाम येन भाविव्याधिविशेषो लक्ष्यते न तु दोषविशेषः” इति। विशिष्टं यथा उरःक्षतादौ लिङ्गान्येव वातादिजान्यव्यक्तानि। यदुक्तं तत्रैव “अव्यक्तं लक्षणं तेषां पूर्बरूपमिति स्मृतिः”। तथाह सुश्रुतः “सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात्। पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनमिति”। हारीतेनाप्युक्तम् “इति पूर्बरूपमष्टानां ज्वाराणां सामान्यतो विशेषात्तु जृम्भाङ्गमर्द्दभूयिष्ठं हृदयोद्वेगि वातजमिति”। प्राग्रूपं येन लक्ष्यते इत्यस्यार्थमाह रक्षितः “येन श्रमादिना उत्पित्सुः सामग्रीसाकल्यादुत्पादेच्छुरामयो रोगः दोषविशेषेण वातादिजन्यासाधारणवेपव्यादिना अनधिष्ठितोऽसम्बद्धो लक्ष्यते ज्ञायते तत् प्राग्रूपमिति”। लिङ्गमव्यक्तमल्पत्वादित्यस्यार्थमाह स एव “प्राग्र्पमित्यनेन पूर्वोक्तेन सम्बन्धि लिङ्गं लक्षणम् अव्यक्तं नात्यभिव्यक्तं तत्र हेतुरल्पत्वात् नत्वावरणादियोगादव्यक्तत्वमित्यर्थः। अन्ये तु पूर्वरूपलक्षणमाहुः “स्थानसंश्रियणः क्रुद्धा भाविव्याधिप्रबोधनम्। दोषाः कुर्वन्ति यल्लिङ्गं पूर्वरूपं तदुच्यते” इति। संक्षेपतस्तु लक्षणं भाविव्याधिबोधकमेव लिङ्गं पूर्वरूपम्” इति माधवकरुविजयरक्षितौ।
पूर्व(र्ब)वत् = अव्य० पूर्वस्येव पूर्वेण तुल्यं वा क्रियावति। १ पूर्वेण तुल्यक्रियान्वितभेदे पूर्वस्य २ तुल्ये च। पूर्वं कारणं विषयतयास्त्यस्य मतुप् मस्य वः। ३ कारणेन कार्य्यानुमाने न०। “अथ तत्पूर्वकं त्रिविधमनुमानं पूर्वच्छेषवत्सामान्यतोदृष्टञ्च” गौत० सू०। “पूर्वं कारणं तद्वत् कारणलिङ्गकम् यथा मेघोन्नतिविशेषेण कार्य्यानुमानमिति” गौत० वृत्तिः। “तत्रैकं दृष्टस्वलक्षणसामान्यविषयं यत् तत् पूर्ववत्, पूर्वं प्रसिद्धं दृष्टस्वलक्षणसामान्यमिति यावत् तदस्य विषयत्वेनास्त्यनुमानज्ञानस्येति पूर्ववत् यथा धूमाद्वह्नित्वसामान्यविशेष पर्वतेऽनुमीयते तस्य च वह्रिसामान्थविशेषस्य स्वलक्षणो वह्निविशेषो दृष्टो रसवत्याम्” सां० त० कौ०।
पूर्व(र्ब)वयस् = त्रि० पूर्वं वयः कालावस्थाभेदोऽस्य। १ वाल्यावस्थान्विते। कर्म०। २ वाल्यावस्थायाम् न०। वेदे बा० अच्समा०। पूर्ववयस वाल्यवयसि न०। शत० ब्रा० १२। २। ३। ४
पूर्व(र्ब)वर्त्तिन् = त्रि० पूर्वं वर्त्तते वृत–णिनि। अन्यथासिद्धिशून्ये १ प्राग्वर्त्तिनि कारणे २ प्राग्वर्त्तिमात्रे च त्रि०।
पूर्व(र्व)वाद = पु० पूर्वो वादः। व्यवहारे प्रथमावेदने पक्षभाषाऽपरपर्य्याये पूर्वपक्षवादे। “पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः। पदसंक्रमणात् ज्ञेयो हीनवादी स वै नरः” मिताक्षरा।
पूर्व(र्ब)वादिन् = त्रि० पूर्वं वदति बद–णिनि। षूर्ववादकारके व्यवहारे प्रथमावेदनकर्त्तरि अर्थिनि। “मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत्”। “मिथ्योत्तरे पूर्ववादी कारणे प्रतिवादिनि च” मिता०।
पूर्व(र्ब)वार्षिक = त्रि० पूर्बं वर्षाणाम् एकदेशिस० ततः “कालात् ठञ्” पा० ठञ् “अवयवादृतोः” पा० उत्तरपदवृद्धिः। वर्षाणां पूर्वभागभवे अवयवादित्युक्तेः षूर्बासु वर्षासु भवः इत्यर्थे ठञि पूर्वपदवृद्धिः पौर्ववर्षिक इत्येव सि० कौ०।
पूर्व(र्ब)वाह् = पु० पूर्वे वयसि वहति वह–ण्वि ७ त०। पूर्ववयसि वाहके शत० ब्रा० २। १।४। १७।
पूर्व(र्ब)वृत्त = न० पूर्वं वृत्तम्। कर्म०। प्राचीने वृत्ते इतिहामे।
पूर्व(र्ब)शारद = त्रि० पूर्बं शरदः एकदेशिस०। तत्र भवः ऋत्वण् “अवयवादृतोः” पा० उत्तरषदवृद्धिः। शरदः पूर्वभवे।
पूर्व(र्ब)शैल = पु० कर्म०। उदयाचले जटा०। पूर्वाचलादयोऽप्यत्र।
पूर्व(र्ब)शक्थ = न० पूर्वं शक्थ्नः एकदेशिस० अच्समा०। शक्थ्नः पूर्वभागे।
पूर्व(र्ब)समुद्र = पु० कर्म०। पूर्ववर्त्तिनि समुद्रे पूर्वसागरादयोऽप्यत्र।
पूर्व(र्ब)सर = त्रि० पूर्बः सन् सरति कर्तरि उप पदे एव सृ + ट उप० स०। पूर्वाभूयगामिनि स्त्रियां ङीप्। अन्यत्र पूर्बं सरतीति वाक्ये अण् पूर्वसार अग्रगामिनि त्रि०।
पूर्वा(र्बा)तिथि = पु० गोत्रप्रवरर्षिभेदे।
पूर्वा(र्बा)दि = पु० पूर्वः आदिर्यस्य। व्यवस्थायामसंज्ञायां सर्वनामकर्मनिमित्ते १ शब्दगणे स च गणः “पूर्व पर अवर दक्षिण उत्तर अपर स्व–अन्तर। “पूर्वादिभ्यो नवभ्यो वा” पा० पूर्वे पूर्वा इत्यादि। पूर्वा आदिर्यख्याः। २ पूर्वादिककुमि स्त्री
पूर्वा(र्बा)निलः = पु० कर्म०। पूर्वदिक्स्थवायौ तद्गुणाश्च “पूर्वस्तु मधुरो वातः स्निग्धः कटरसान्वितः। गुरुर्बिदाह शमनो वातदः पित्तनाशनः” राजनि०। “प्राग्वातो मधुरः क्षारो वह्निमान्द्यकरो गुरुः। वैरस्यगौरवौष्ण्यानि करोत्यप्स्वोषधीषु च। भग्नोत्पिष्टक्षताद्येषु रागश्वयथुदाहकृत्। सन्निपातज्वरश्वासत्वग्दोषार्शो विषक्रिमीन्। कोपयेदामवातञ्च घनसंथातकारणम्” राजवल्लभः।
पूर्वा(र्बा)नुयोग = पु० दृष्टिवादभेदे “प्रतिकर्मसूत्रपूर्वानुयोत पूर्वगतचूलिकाः। पञ्च स्युर्दृष्टिःवादभेदाः” हेम०।
पूर्वा(र्बा)पर = त्रि० द्वन्द्व०। पूर्बस्मिन् अपरस्मिन् च देशे तयोर्भावः ष्यञ्। पौर्वापर्व्य तद्भावे न०। क्वचिन्न पूर्वपद वृद्धिः। पूर्वापर्य्य तत्रार्थे न०।
पूर्वा(र्बा)पहाना = स्त्री पूर्वमपहीयते अप–हा–कर्मणि ल्युट् अजा० टाप्। पूर्वापहानकर्मणि अजादिगणः।
पूर्वा(र्बा)र्द्ध्य = त्रि० पूर्वार्द्धे भवः पक्षे यत्। पूर्वार्द्धभवे। पक्षे ठञ्। पौर्वा(र्बा)र्द्धिक तत्रार्थे त्रि०।
पूर्वा(र्बा)षाढा = स्त्री कर्म०। अश्विन्यादिषु विंशे नक्षत्रे तत्स्वरूपादिकमश्लेषाशब्दे उक्तम्।
पूर्वा(र्बा)ह्ण = पु० पूर्वमह्नः एकदेशिस० टच्समा० अह्नादेशः “रात्राहाह्नान्ताः पुंसि” पा० पुंस्त्वम्। दिनस्य पूर्वभागे पूर्वाह्णश्च त्रिधा विभक्तदिनस्य प्रथमभागः। “पूर्वाह्णो वै देवानां मध्याह्नो मनुष्याणामिति” श्रुतिः। अह्नः प्रथमप्रहरद्वयकालश्च। “आवर्त्तनात्तु पूर्वाह्णो ह्यपराह्णस्ततः परम्” स्कन्दपु०। “आवर्त्तनात् पश्चिमदिग्वर्त्तिच्छायायाः परिवर्त्तनम्”। अतएव “अश्वत्थं वन्दयेन्नित्यं पूर्वाह्णे प्रहरद्वेये” मल० त०।
पूर्वा(र्बा)ह्ण(ह्णे)तन = त्रि० पूर्वाह्ने काले भवः ट्यु तुट् च “कालतनेति” सप्तघम्यानलुक्। १ पूर्वाह्णभवे स्त्रियां ङीप्। पूर्वाह्णः सोढोऽस्य इति विग्रहे तु पूर्वाह्णतन इत्येव। २ पूर्वाह्णसहनकर्त्तरि त्रि०।
पूर्वा(र्बा)ह्णिक = त्रि० पूर्वाह्णः साधनतयाऽस्तस्य टन् पूर्वाह्णसाध्ये कर्मणिं। “दैवं पूर्वाह्णिकं कुर्य्यादपराह्णे तु पैतृकम्” भा० आ० २३ अ०।
पूर्वि(र्बि)न् = त्रि० पूर्वं कृतमनेन “पूर्वादिनिः” पा० इनि। १ पूर्बं क्रियाकारके। वेदे तु “पूर्षैः कृतमिनयौ च” पा० इन। पूर्विण पूर्पैः कृते “आयान्तु नः पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः” पित्रावाहनमन्त्रः। छान्दसी रूपसिद्धिः।
पूर्वे(र्बे)द्युम् = अव्य० पूर्वस्मिन् अहनि पूर्ब(र्व) + एद्युस्। पूर्वस्मिन् दिने इत्यर्थे।
पूर्वे(र्बे)षुकामशमी = स्त्री कर्म०। पूर्वदग्वर्त्तिनगरोभेदे अन्तोदात्तताऽस्य। पूर्पेषुकामशम्यां भावः अण् उत्तरपदवृद्धिः पूर्वैषुकामशम तद्भवे त्रि०।
पूर्वो(र्बो)त्तरा = स्त्री पूर्वस्याः उत्तरस्याश्चान्तराला दिक ब० व०। ईशानकोणे विदिशि।
पूर्व्य(र्व्य) = त्रि० पूर्वैः कृतम् “पूर्वैः कृतमिनयौ” पा० पक्षे य। पूर्वैः कृते पुराणे निघण्टुः।
पूल = संहतौ (राशीकरणे) वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। पूलयति ते पूलति। अपूपुलत् त अपूलीत्।
पूलक = पु० पूल–ण्वुल्। १ तृणादेस्तूपे २ धान्यतृणादिसुष्टौ कात्या० श्रौ० २२। ३। ३०।
पूलाक = पु० पुलाक + पृषो०। तुच्छधान्ये। तस्य विकारः अवयवो वा पलाशा० अञ्। पौलाक तदवयवे तस्य विकारे च त्रि०।
पूलास = त्रि० पूल–राशीकरणे घञ् तमस्यति अस–क्षेपे अण्। तृणादिस्तूपविक्षेपके तेन निर्वृत्तम् सङ्कला० अण्। पौलास तन्निर्वृत्ते त्रि०।
पूलासककुण्ड = न० कुण्डस्य पूलासकः राजद० परनि०। कुण्डस्य तृणादेर्निरासके।
पूलिका = स्त्री पूरिका + रस्य लः। पूपभेदे हेमच०।
पूष = वृद्धौ अक० भ्वा० पर० सेट्। पूषति अपूषीत्। पुपूष।
पूष = पु० पूष–वृद्धौ क। ब्रह्मदारुवृक्षे (तुत) अमरः।
पूषक = पु० पूष–ण्वुल्। ब्रह्मदारुवृक्षे राजनि०।
पूषणा = स्त्री पूष–ल्यु। कुमारानुचरमातृभेदे भा० शा० ४७ अ०। पूष्णः पृथिव्याः इदम् अण् वेदे न वृद्धिः नोपधा लोपः। पार्थिवे पदार्थे त्रि० ऋ० १०। ५। ५।
पूषदन्तहर = पु० पूष्णः सूर्य्यभेदस्य दन्तं हरति हृ–अच। दक्षयज्ञकाले पूष्णो दन्तोत्पाटके शिवांशे वीरभद्रे अदन्तशब्दे ११३ पृ० दृश्यम्।
पूषध्र = पु० वैवश्वतमनोः पुत्रभेदे। मार्कपु० १११ अ०।
पूषन् = पु० पूष–कनिन्। १ सूर्य्ये आदित्यभेदे भा० आ० ६ श्लो० ङौ तु पूष्णि पूषणि पूषि। २ पृथिव्यां स्त्री निघण्टुः। पूषणा शब्देदृश्यम्। अयमन्तोदात्तः। स्वार्थे क। तत्रार्थे। पूषा अस्त्यस्य मतुप् वेदे नुट् णत्वम्। पूषण्वत् सूर्य्ययुक्ते पृथिवीयुक्ते च त्रि०। ऋ० १। ८२। ६। भा०
पूषभासा = स्त्री पूषेव भासते भास–अच्। इन्द्रनगर्य्यां जटाध०।
पूषराति = पु० पूषा तदाख्यो देवो रातिर्दाता यस्य। सूर्य्यदेये वस्तुनि ऋ० १। २३। ८।
पूषात्मज = पु० ६ त०। १ मेघे २ इन्द्रे देवे च। “आदित्याज्जायते वृष्टिरित्युक्तेर्वृष्ट्यधिपमेधस्य आदित्याज्जायमानत्वात् तथात्वम्। “वृष्टिम् पूषानुजो यथा” भा० व० २० अ०। तत्र पूषात्मजेति पाठान्तरं वृष्ट्यधिपस्य मेघस्य सूर्य्याज्जातत्वात् तथात्वम्।
पूषासुहृत् = पु० ६ त०। शिवे तस्म खांशवीरभद्रेण पूष दन्तीत्पाटनात् तथात्वम्। अदन्तशब्दे दृश्यम्।
***