पुरुष = पु० पुर–अग्रगतौ कुषन् पुरिदेहे शेते शी–ड पृषो०। १ मनुष्ये २ पुंसि च अमरः। ३ आत्मनि साख्यमतसिद्धे पञ्चविंशे ४ तत्त्वे ५ पुन्नागवृक्षे च मेदि०। ६ विष्णौ शब्दच० ७ रेषमिथुनादौ विषमराशौ। “भौमारजीवाः पुरुषाः” ज्यो० त० ८ मौमादिषु ग्रहेषु। पुरुषाणां शुभाशुभलक्षणं वृ० सं० ६८ अ० उक्तं यथा “उन्मानसानगतिसंहतिसारवर्णस्नेहस्वरप्रकृतिसत्त्वमनूक मादौ। क्षेत्रं मृजां च विधिवत् कुशलोऽवलोक्य सामुद्रविद्वदति यातमनागतं च। अस्वेदनौ मृदुतलौ कमलोदराभौ श्लिष्टाङ्गुलौ रुचिरताम्रनखौ सुपार्ष्णी। उष्णौ सिराविरहितौ सुनिगूढगुल्फौ कूर्मोन्नतौ च चरणौ मनुजेश्वरस्य। शूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ सिरासन्ततौ संशुष्कौ विरलाङ्गलौ च चरणौ दारिद्र्युदुःखप्रदौ। मार्गायोत्कटकौ कषायसदृशौ वंशस्य विच्छित्तिदौ ब्रह्मव्रौ परिपक्वमृद्युतितलौ पोतावमम्यारती। प्रविरलतनुरोमवृत्तजङ्घा द्विरदकरप्रतिमैर्वरोरुभिश्च। उपचितसमजानवद्य भूपा धनरहिताः श्वशृमालतुल्थजङ्घाः। रोमैकेकं कूपके पार्थिवानां द्वे द्वे ज्ञेये पण्डितश्रीत्रियाणाम्। त्र्याद्यैर्निःस्वा मानवा दुःखभाजः केशाश्चैवं निन्दिताः पूजिताश्च। निर्मांस जानुर्म्बियते प्रवासे सौभाग्यगल्पैर्विकटैर्दरिद्राः। स्त्रीनिर्जिताश्चापि भवन्ति निम्नै राज्यं समांसैश्च महद्भिरायुः। लिङ्गेऽल्पे धनवानपत्यरहितः स्थूले विहीनो धनैर्नेद्ये वामनते सुतार्थरहितो वक्रेऽन्यथा पुत्रवान्। दारिद्र्यं विनते त्वधोऽल्पतनयो लिङ्गे सिरासन्तते स्थूलग्रन्थियुत सुखी मृदुकरोऽत्यन्तं प्रमेहादिभिः। काषनिगूढैर्भूपा दीर्घैर्मग्नैश्च वित्तपरिहीनाः। ऋजु वृत्तशोफसा लथुसिरालश्नाश्च धनवन्तः। जलमृत्युरेकवृषणो विषमैः स्त्रीचञ्चलः समैः क्षितिपः। ह्रस्वायुश्चोद्बद्धैः प्रलम्बवृषणस्य शतमायुः। रक्तैरास्मा मणिभिर्निर्द्रव्याः पाण्डुरैश्च मलिनैश्च। सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च। त्रिचतुर्धाराभिः प्रदक्षिणावर्त्तवलितमूत्राभिः। पृथ्वीपतयो ज्ञेया निकीर्णमूत्राश्च पनहीनाः। एकैव मूत्रधारा वलिता रूपप्रपानसुतदात्री। स्निग्धोन्नतसममणयो धनवनितारत्नभोक्तारः। मणिमिश्च मघ्यनिस्नैः कन्यापितरो भवन्ति निःष्वाश्च। बहुपशुभाजो मध्योन्नतेश्च नात्युल्वणैःधनिनः। परिशुष्कवस्तिशीर्पैर्घनरहिता दुर्भगाश्च विज्ञेयाः। कुसुमसमगन्धशुक्रा विक्षानव्या महीपालाः। मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहून्यपत्यानि। तनु शुकः स्त्रीजमको सांससगन्धो महामोगी। मदिरा- गन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः। शीघ्रं मैथुनगामी दीर्घायुरतोऽन्यथाऽल्पायुः। निःस्वोऽतिस्थूलस्फिक् समांसलस्फिक् सुखान्वितो भवति। व्याघ्राभाध्यर्धस्फिगमण्डूकस्फिग्नराधिपतिः। सिंहकटिर्मनुजेन्द्रः कपिकरभकटिर्धनैः परित्यक्तः। समजठरा मोगयुता घटपिठरनिभोदरा निःखाः। अविकलपार्श्वा धनिनो निम्नैर्वक्रैश्च भोगसन्त्यक्ताः। समकुक्षा भोगाद्या निम्नाभिर्भोगपरिहीनाः। उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युर्मानवा विषमकुक्षाः। सर्पोदरा दरिद्रा भवन्ति बह्वाशिनश्चैव। परिमण्डलौन्नताभिर्विस्तोर्णाभिश्च नाभिभिः सुखितः। खल्पा त्वदृश्यनिम्ना नाभिः क्लेशावहा भवति। वलिमध्यगता विषमा शूलावाधं करोति नैःख्यञ्च। शाठ्यं वाभावर्त्ता करोति मेधां प्रदक्षिणतः। पार्श्वायता चिरायुषमुपरिष्टाच्चेश्वरं गवाद्यमधः शतपत्रकर्णिकाभा नाभिर्ममुजेश्वरं कुरुते। शस्त्रान्तं स्त्रीभोगिनमाचार्य्यं बहुसुतं यथासङ्क्यम्। एकद्वित्रिचतुर्भिर्वलिभिर्विद्यान्नृपं त्वबलिम्। विषमवलयो मनुष्या भवन्त्यगम्याभिगामिनः पापाः। ऋजुवलयः सुखभाजः परदारद्वेषिणश्चैव। मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्त्तरोमभिर्भूपाः। विपरीतैर्निर्द्रव्याः सुखपरिहानाः परप्रेष्याः। सुभगा भवन्त्यनुद्बद्धचूचुका विधना विषमदीर्घैः। पीनोपचितनिमग्नैः क्षितिपतयश्च चुचुकैः सुखिनः। हृदयं समुन्नतं पृथु न येपनं भासकञ्च नृपतीनाम्। अधमानां विपरीतं खररोमचितं सिरालञ्च। समवक्षसोऽर्थवन्तः घीतैः शूरास्त्यकिञ्चनास्मनुमिः। विषणं वक्षो येषां ते निःस्वाः शस्त्रनिधनाश्च। विषमैर्विषमो जत्रुभिरर्थविहीनोऽस्थिश्चन्धिपरिखद्धैः। उन्नतजत्रुर्भोनी निम्नैर्निःस्वोऽर्थनान् पीनैः। चिपिटग्रीवो निःस्वः शुष्का ससिरा च यस्य वा ग्रीवा। माहषग्रीव शूरः शस्त्रान्तो वृषसमग्रीवः। कम्बुग्रीवो राजा प्रलम्बकण्ठः प्रमक्षणो भवति। पृष्टमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत्। अखेदनपीनोद्मतसुगन्धिसमरोमसङ्कुलाः कक्षाः। विज्ञातव्या धनिनामतोऽन्यथार्थैर्विहीनानाम्। निर्मांसौ रोमचितौ भग्यावल्पौ च निर्धनस्यांयौ। विपुकावप्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम्। करिकरसदृशौ वृत्तावाजान्ववलम्बिनौ सूमौ पीनौ। वाहू पृशिबीन्था- नामधमानां रौमशौ ह्रस्वौ। हस्ताङ्गुलयो दीर्घाश्चिरायुषामवलिताश्च सुभगानाम्। मेधाविनां च सूक्ष्माश्चिपिटाः परकर्मनिरतानाम्। स्थूलाभिर्धनरहिता बहिर्नताभिश्च शस्त्रनिर्याणाः। कपिसदृशकरा धनिनो व्याघ्रोपमपाणयः पापाः। सणिबन्धनैर्निगूढैः सुश्लिष्टतन्धिभिर्मूपाः। हीनैर्हस्तच्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः। पितृवित्तेन विहीना भवन्ति निम्नेन करतलेन नराः। संवृत्तनिम्नैर्धनिनः प्रोत्तानकराश्च दातारः। विषमैर्विषमा निःस्वाश्च करतलैरीश्व्रास्तु लाक्षाभैः। पीतैरगम्यवनिताभिगामिनो निर्घना रूक्षैः। तुषसदृशनखाः क्लीवाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः। कुनस्वविवर्णैः परतर्कुकाश्च ताम्नैश्च भूपतयः। अङ्गुष्ठयवैराद्याः, सुतवन्तोऽङ्गुष्ठमूलगैश्च यवैः। दीर्घाङ्गुलिपर्वाणः सुभगा दीर्घायुमश्चैव। स्विग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निःस्वानाम्। विरलाङ्गुलयो निःखा धनसञ्चयिनी धनाङ्गुलयः। तिस्नो रेखा मणिवन्धनोत्थिताः करतलोपगा नृपतेः। मीनयुगाङ्कितपाणिर्नित्यं सत्रप्रदो भवति। वज्राकारा धनिनां विद्याभाजां तु मीनपुच्छनिभाः। शङ्खातपत्रशिबिकागजाश्वपद्मोपमा नृपतेः। कलसमृणालपतकाङ्कुशोपमाभिर्भवन्ति निधिपालाः। दामनिभामिश्चाणाः स्वस्तिकरूपाभिरैश्वर्यम्। चक्रालिपरशुतोमरशक्तिधनुःकुन्त० सद्धिभाः रेखाः। कुर्वन्ति चमूनाथं यज्वानमुलूणलाकाराः। मकरध्वजकोष्ठागारसन्निभाभिर्महाधनोपेताः। पेदीनिमेन चैवाग्निहोत्रिणो ब्रह्मतीर्येन। वापीदेवकुलाद्यैर्षर्मं कुर्वन्ति च त्रिकोणामिः। अङ्कठमूलरेकाः पुत्राः स्युर्दारिमाः सृक्ष्माः। रेखाः प्रदेशिनीगाः शतायुषां लल्पगीयमूगाभिः। छिन्नाभिर्द्रुमपकृनं बहुरेखारेखिणो निःखाः। अतिकृशदीर्घैश्चिबुकैर्निर्द्रव्या मांसलैर्धनोपेताः। विम्बोपमैरवक्रैरधरैर्भूपास्तनुभिरखाः। ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः। स्निग्धा घनाश्च दशनाः सुतीक्ष्यदंष्ट्राः समाश्च शुभाः। जिह्वा रक्ता दीर्पा श्लक्ष्मा सुसमा च भोगिनां ज्ञेया। श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु। वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं च मूपानाम्। विपरीतं क्लेशभुजां महामुस्वं दुर्भगाणां च। स्त्रीमुखमनपत्यानां शठ्यवतां मण्डकं परिज्ञेथम्। दीर्घं निर्द्रव्याणां भीरुमुखाः पीपकर्नाणः। चतुरखं धूर्तानां निम्नं वक्त्रं च तनयरहितानाम्। कृपखानामतिह्रस्य सन्थूर्णं भोगिनां कान्तम्। अस्फुटिताग्रं स्निग्धं श्मश्चु शुमं मृदु च सन्नतं चैव। रक्तैः परुषैश्चौराः श्मश्रुभिरल्पैश्च विज्ञेयाः। निर्मांसैः कर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः। कृपणाश्च ह्रस्वकर्णाः शङ्कुश्रवखाश्च मूपतथः। रोजशकर्णा दीर्घाकुषस्तु धनभागिनो विपुलकर्णाः। क्रूराः सिरावगद्धैर्व्यालम्बैर्मांसलैः सुखिनः। भोगी त्वनिम्नगण्डो मन्त्री सम्पूर्णमांसगण्डो यः। सुखभाक् शुकसमनासश्चिरजीवी शुष्कनासश्च। छिन्नानुरूपयाऽगम्यगामिनो दीर्घया तु सौभाग्यम्। आकुञ्चितया चौरः स्त्रीमृत्युः स्याच्चिपिटनासः। धनिनोऽग्रवक्रनासा दक्षिणवक्राः प्रभक्षखाः क्रूराः। ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाग्यानाम्। धनिनां क्षुतं सकृद् द्वित्रिपिण्डितं ह्वादि सानुनादं च। दीर्घायुषां प्रमुक्तं विज्ञेयं संहतं चैव। पद्मदलाक्षाधनिनो रक्तान्तविलोचनाः श्रियोभाजः। सधुपिङ्गलैर्महार्था मार्जारविलोचनाः पापाः। हरिआक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः। क्रूराः केकरनेत्रा गजसदृशदृशश्च नूपतयः। ऐश्वर्य्यं गम्भीरैर्नीलोत्पलकान्तिभिश्च विद्वांसः। अतिकृष्णतारहाखामक्ष्णामुत्पाटनं गवति। मन्त्रित्वं स्यूलष्टशां श्वावाक्षाणां च मवति सौभाग्यम्। दीना दृङ् निःखानां स्निग्धा विपुलार्थभोगवताम्। चभ्युन्नतामिरत्वायुथो विशालोन्नतामिरतिरतिमुखितः। विषमभ्रुवो दरिद्रा बालेन्दुनतभुवः सधनाः। दीर्षासंसक्ताभिर्धनिनः खण्डामिरर्थपरिहीना। मध्यविनभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु। उन्नतविपुसैः शङ्खैर्धन्या निर्म्नैः सुतार्थसन्त्यक्ताः। विषमल्ललाटा विहना धनवन्तोऽर्धेन्दुसद्वशेन। शुक्तिविशालैराचार्यता सिरालन्ततैरधर्मरताः। उन्नतसिराभिराणाः स्वस्तिकवत्संस्थितामिश्च। निम्नललाटा बधबन्धभानिनः क्रूरकर्मनिरताश्च। अभ्युन्नतैश्च भूपाः कृपणाः स्युः सङ्कटललाटाः। रुदितमदीनमनश्रु स्निग्धं च शुभावहं मनुष्याणाम्। रूक्षं दीनं प्रचुराश्रु चैव न शुभप्रदं पुंसाम्। हसितं शुभदसकम्पं सनिमिलितलोचनं च पापस्य। हृष्टस्य हसितमसकृत् सोन्मादस्यासकृत् प्रान्ते। तिस्रो रेखाः शतजीविनां ललाटायताः स्थिता यदि ताः। चतसृभिरवनीशत्वं नवतिश्चायुः सपञ्चवदा। विच्छिन्नाभिश्चा- गम्यगामिनो नवतिरप्यरेखेण। केशान्तोपगताभी रेखाभिरशीतिवर्षायुः। पञ्चभिरायुः सप्ततिरेकाग्रावस्थिताभिरपि षष्टिः। बहुरेखेण शतार्धं चत्वारिंशच्च वक्राभिः। त्रिंशद्भ्रूलग्नाभिर्विंशतिकश्चैव वामवक्राभिः। क्षुद्रामिः खल्पायुर्न्यूनाभिश्चान्तरे कल्प्यम्। परिमण्डलैर्भोगाट्याश्छत्राकारैः शिरोभिरवनीशाः। चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान्मृत्युः। घटमूर्धा ध्यानरुचिर्द्विमस्तकः पापकृद्धनैस्त्यक्तः। निम्नं तु शिरो महतां बहुनिम्नमनथदं भवति। एकैकमवैः स्निग्धैः कृष्णैराकुञ्चितैरभिन्नाम्रः। मृदुभिर्न चातिबहुभिः केशैः सुखमाग् नरेन्द्रो वा। बहुमूलविषमकपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च। अतिकुटिलाश्चातिथनाश्च मूर्चजा वित्तहीनानाम्। यद्यद्गात्रं रूक्षं मांसविहीनं सिरावनद्धं च। तत्तदनिष्टं प्रोक्तं विपरीतमतः शुभं सर्वम्। त्रिषु विषुलो गम्भीर स्त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः। सप्तसु रक्तो राजा पंञ्चसु दीर्घश्च सूक्ष्मश्च। उरो ललाटं वदनं च पुंसां विस्तीर्णमेतत्त्रितयं प्रशस्तम्। नाभिः स्वरः सत्त्वमिति प्रदिष्टं गम्भीरमेतत्त्रितयं नराणाम्। वक्षोऽथ कक्षा नखनासिकास्यं कृकाटिका चेति षडुन्नतानि। ह्रस्वानि चत्वारि च लिङ्गपृष्ठं ग्रीवा च जङ्गे च हितप्रदानि। नेत्रान्तवादकरताल्वधरोष्ठजिह्वा रक्ता नखाश्च खलु सप्त सुखावहानि। सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशाः साकं त्वचा कररुहाश्च न दुःखितानाम्। हनुलोचनबाहुनासिकाः स्तनयोरन्तरमत्र पञ्चमम्। इति दीर्घमिदं तु पञ्चकं न मवत्येव नृणामभूभृताम्” (इति क्षेत्रम्)। “छाया शुभाशुमफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः। तेजोगुणान् बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थितेव। स्निग्धद्विजत्वङनखरोमकेशच्छाया सुगन्धा च महीसमुत्था १। तुष्ट्यर्थलाभाभ्युदयान् करोति थर्मस्य चाहन्यहनि प्रवृत्तिम्। स्निग्धा सिताच्छहरिता नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति। सर्वार्थसिद्धिजननी जननीव चाप्या२ छाया फलं तनुभृतां शुभमादधाति। चण्डाऽधृष्या पद्महेमाग्निवर्णा युक्ता तेजोविक्रमैः सप्रतापैः। आग्नेयीति ३ प्राणिनांस्याज्जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य घत्ते। मलिनषरुषकृष्णा पापगन्धाऽनिलोत्था ४ जनयति बधबन्धन्व्याध्य- नर्थार्थनाशान्। स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा निधिरिव गगनोत्था ५ श्रेयसां स्वच्छवर्णा। छायाः क्रमेण कुजलाग्न्यनिलाम्बरोत्थाः केचिद्वदन्ति दश ताश्च यथानुपूर्व्या। सूर्याब्जनाभपुरुहूतयमोडुपानां तुल्यास्तु लक्षणफलैरिति तत्समासः” (इति छाया)। “करिवृषरथौघभेरीमृदङ्गसिंहाब्दनिःस्वना भूपाः। गर्दमजर्जरस्वरास धनतौख्यसन्त्यक्ताः” (इति खरः)। “सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि। रुधिरं मांसं चेति प्राणभृतां तत्समासफलम्। ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः। रक्तैस्तु रक्तसारा बहुमुखवनितार्थपुत्रयुताः। स्निग्धत्वक्का धनिनो मृदुभिः सुमगा विचक्षणास्तनुभिः। मज्जामेदःसाराः सुशरीराः पुत्रवित्तयुक्ताः। स्थूलास्थिरस्थिसारो बलवान् विद्यान्तगः सुरूपश्च। बहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च। उपचितदेहो विद्वान् धनी सुरूपस मांससारो यः। (इति सारः) सङ्घात इति च सुन्धिष्टसन्धिता सुखभुजो ज्ञेयाः” (इति संहतिः)। स्नेहः पञ्चसु लक्ष्योवाग्जिह्वादन्तनेत्रनखसंस्थः। सुतधनसौभाग्ययुताः स्विग्धैस्तैर्निर्धना रूक्षैः” (इति स्नेहः)। “द्युतिमान् वर्णः स्निग्धः क्षितिपानां मध्यमः सुतार्थवताम्। रूक्षो धनहीनानां शुद्धः शुमदो न सङ्कीर्णः” (इति वर्णः)। “साध्यमनूकं वक्त्राद् गोवृषशार्दूलसिंहगरुडमुखाः। अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च। वानरमहिमवराहाजतुल्यवदनाः सुतार्थसुखमाजः। गर्दभकरभप्रतिमैर्मुखैः शरीरैश्च निःखमुखाः” (इत्यनूकम्।) “अष्टशतं पण्णवतिः परिमाणं चतुरशीति रिति पुंसाम्। उत्तमसमहीनानामङ्गुलसङ्ख्या स्वमानेन” (इत्युन्मानम्)। “भारार्धतनुः सुखभाक् तुलितोऽतो दुःखभाग्भवत्यूनः। भारोऽतीवाद्यानामध्यर्चः सर्वधरणीशः। विंशतिवर्षा नारी पुरुषः खलु पञ्चविंशतिमिरब्दैः। अर्हति मानोन्मानं जीवितगागे चतुर्थे वा” (इति मानम्)। “भूजलशिख्यनिलाम्बरसुरनररक्षःपिशाचकतिरश्चाम्। सत्त्वेन भवति पुरुषो लक्षणमेतद्भवत्येषाम्। महीस्वभावः शुभपुष्पगन्धः सम्भोगवाम् सुश्वसनः स्थिरश्च। तोयस्वभावो बहुतोयपायी प्रियामिलाषी रसभोजमश्च। वायोः स्वभावेन चलः कृशश्च क्षिप्रं च कोपस्य वशं प्रयाति। खप्रकृतिर्निपुणो विवृतास्यः शब्दगतौ कुशलः सुषिरा। त्यागयुतो पुरुषो मृदुकोपः स्नेहरतश्च भवेत् सुरसत्त्वः। मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः। संविभागशीलवान्नित्यमेव मानवः। तीक्ष्णप्रकोपः खलचेष्टितश्च पापश्च सत्त्वेन निशाचराणाम्। पिशाचसत्त्वश्चपलो मलाक्तो बहुप्रलापी च समुल्वणाङ्गः। भीरुः क्षुधालुर्बहुभुक् च यः स्याज्ज्ञेयः स सत्त्वेन नरस्तिरश्चाम्। एवं नराणां प्रकृतिः प्रदिष्टा यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम्” (इति प्रकृतिः)। “शार्दूलहंमसमदद्विपगोपतीनां तुल्या भवन्ति गतिभिः शिखिनां च भूपाः। येषां च शब्दरहितं स्तिमितं च यातं तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः”। (इति गतिः)। “श्रान्तस्य यानमशनं च बुभुक्षितस्य पानं तृषापरिगतस्य भयेषु रक्षा। एतानि यस्य पुरुषस्य भवन्ति काले धन्यं वदन्ति खलु तं नरलक्षणज्ञाः। पुरुषलक्षणमुक्तमिदं मया मुनिमतान्यवलोक्य समासतः। इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः”। प्रकृत्यादिभ्योऽतिरिक्तत्वेन साङ्ख्यकारिकया पुरुषस्यास्तित्वं समर्थितं यथा “सङ्घातपरार्थत्वात् त्रिगुणादिविपर्य्ययादधिष्ठानात्। पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रघृत्तेश्च।” का० “पुरुषोऽस्त्यव्यक्तादेर्व्यतिरिक्तः कुतः सङ्घातपरार्थत्वात् अव्यक्त महदहङ्कारप्रभृतयः परार्थाः सङ्घातत्वात् शयनासनाद्यङ्गवत् सुखदुःखमोहात्मकतया अव्यक्तादयः सर्वे सङ्गाताः। स्यादेतत् शयनासनादयः सद्ध्वाताः सङ्घातशरीराद्यर्था दृष्टा न तु आत्मानं व्यक्ताव्यक्तव्यतिरिक्तं प्रति परार्थाः तस्रात्सङ्घातान्तरमेव परं गमयेयुर्नत्वसङ्घातमात्मानमित्यत आह त्रिगुणादिविपर्य्ययात्। अयमभिप्रायः सङ्घातान्तरार्थत्वे हि तस्यापि सङ्घातत्वात् तेनापि सङ्घातान्तरार्थेन मवितव्यमेवं तेन तेनेत्यनवस्था स्यात्। न च व्यवस्थायां सत्यामनवस्थाकल्पना युक्ता गौरवप्रसङ्गात्। नच प्रमाणवत्त्वेन कल्पना गौरवमपि मृष्यत इति युक्तं संहतत्वस्य पारार्थ्यमात्रेणान्वयात्। दृष्टान्तदृष्टसर्वधर्मानुरोधेन त्वनमानमिच्छतः सर्वानुमागोच्छेदप्रसङ्गः इत्युपपादितं न्यायवार्त्तिकतात्पर्यटीकायामस्माभिः। तस्मादनवस्थामिया अस्यासहतत्वामच्छ्रता अत्रिगुणत्वमविवेकित्वमबिषयत्वमसामान्थत्वं चेतनत्वमप्रसवधर्मित्वं चाभ्युपेयं त्रिगुणत्वादयो हिं धर्माः सङ्घातत्वेन व्याप्ताः। तत् संहतत्वमस्मिन् परे निवर्त्तमानं त्रिगुणत्वादि व्यवर्त्तयति ब्राह्मण्यमिव निवर्त्तमानं कठत्वादिकं तस्मादाचार्य्येण त्रिगुणादिविपर्ययादिति वदता असंहतः परोविवक्षितः स चात्मेति सिद्धम्। इतश्च पुरुषोऽस्ति अधिष्ठानात् त्रिगुणात्मकानामधिष्ठीग्रसानत्वात् यद्यत् सुखदुःखमोहात्मकं तत्सर्वं परेणाधिष्ठीग्रमानं दृष्टं यथा रथादि यन्त्रादिभिः, सुखदुःखमोहात्मकञ्चेदं बुद्ध्यादि तस्मादेतदपि परेणाधिष्ठातव्यम्। स च पंरस्त्रैगुण्यादन्य आत्मेति। इतश्चास्ति पुरुषः मोक्तृ भावात् भोक्तृभावेन भोग्ये सुखदुःखे उपलक्षयति। भोग्ये हि सुखदुःखे अनुकूलप्रतिकूलवेदनीये प्रत्यात्ममनुभूयेते तेनानयोरनुकूलनीयेन प्रतिकूलनीयेन च केनचिदप्यन्येन भवितव्यं नचानुकूलनीयाः प्रतिकूलनीयाः वा बुद्ध्यादयस्तेषां सुखदुःखाद्यात्मकत्वेन स्वात्मनि वृत्तिविरोधात्। तस्माद्योऽसुखाद्यात्मा सोऽनुकूलमीयः प्रतिकूलनीयो वा स चात्मेति। अन्ये त्वाहुः भोग्या दृश्या बुद्ध्यादयः न च द्रष्टारमन्तरेण दृश्यता युक्ता तेषां, तस्मादस्ति द्रष्टा दृश्यबुद्ध्याद्यतिरिक्त, स चात्मेति। भोक्तृभावात् दृश्येन द्रष्टृत्वानुमानादित्यर्थः। दृश्यत्वं च बुद्ध्यादीनां सुखाद्यात्मकतया पृथिव्यादिवदनुमितम्” त० कौ० अधिकम् आत्मन्शब्दे ६६३ पृष्ठादौ दर्शितम् रतिमधुर्य्यां पुरुषचातुर्विध्यमुक्त्वा तेषां लक्षणमुक्तं यथा “शशो मृगो वृषश्चाश्वो नृणां जातिचतुष्टयम्। मदुवचन सुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानः सत्यवादी शशोऽयम्। १ वदति मधुरवाणीं दीर्घनेत्रोऽतिभीरुश्चथलमतिसुदेहः शीघ्रवेगो मृगोऽयम्। २ बहुगुणबहुबन्धुः शीघ्रकामो नताङ्गं सकलरुचिरदेहः सत्यवादी वृषोऽयम् ३। उदरकटिकृशः स्यादुग्रकण्ठाधरष्ठो दशनवदननासः श्रोत्रदीर्घो हि वाजी४”। तत्र विष्णौ “अव्ययः पुरुषः साक्षी” विष्णुस०। “आसीत् पुरा पूर्वमेवेति” विग्रहं कृत्वा व्युत्पादितः पुरुषः पूर्वमेवाहमिहासमिति तत् पुरुषस्य पुरुषत्वमिति” श्रुतेः पूर्षु पुरीषु उत्कर्षशालिष सत्त्वेष्ववसीदतीति वा, पुरूणि बहूनि फलानि मनोऽभिलषितानि सनोति ददाति वा, पुरूणि भुवनानि संहारसमये स्यति अन्तं करोतीति वा पूरणात् सदनाद्वा पुरुषः, “पूरणात् सदनाच्चैव ततोऽसौ पुरुषा मतः” “इति महाभारतम्” भाष्यम्। “पुरं शरीरं ब्रह्म पुरं वा शेते इति पुरुषः। नवद्वारं पुरं पुण्यमेतैर्भूयः समन्वितम्। व्याकरोति महात्मा यत्तस्मात् पुरुष उच्यते” इति महाभारते यद्वा पद शरणगत्यवसादनेष पण दाने षो अन्तकर्मणि इत्येषां धातूनां रूपाणि पूरणात् पृ–पालनपूरणयोरिति धातोरिदं रूपं पुरुः। सीदति गच्छति द्युलोकान्तरिक्षपृथिवीषु सूर्य्यवा य्वग्न्यात्मना गत्यर्थकसदेरिदं रूपम्” आनन्दगि० “पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः “शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ” भाग० ७। १४। ३७ “पुरः स चक्रे द्विपदः पुरश्चक्रे चतुष्पद” इत्युपक्रमे” पुरः पुरुष आविशत्” इति श्रुतेस्तस्य सर्वपुरप्रवेशात् तथात्वम्।

पुरुषक = न० पुरुश्र इव कायति कै–क। अश्वानामूर्द्ध्वस्थितौ (शिरपातोला) त्रिका०।

पुरुषकार = पु० कृ–भावे घञ् ६ त०। पुरुषचेष्टिते पौरुषे दैवात् पुरुषकारस्य प्राधान्यमुक्तं मत्स्यपु० १९५ अ० यथा “स्वमेव कर्म दैवाख्यं बिद्धि देहान्तरार्जितम्। तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः। प्रतिकूलन्तथा दैवं षौरुषेण विहन्यते। मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम्। येमां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम!। पौरुषेण विना तेषां केपाञ्चिद्दृश्यते फलम्। कर्मणा प्राप्यते लोके राजसस्य तथा फलम्। कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम्। पौरुषेणाप्यते राजन्! मार्गितव्यं फलं नरैः। दैवमेव विजानन्ति नराः पौरुषवर्जिताः। तस्मात्त्रिकालसंयुक्तं दैवं न सफलं भवेत्। पौरुषं दैवसम्पत्त्या काले फसति पाथिव!। दैवं पुरुपकारश्च कालश्च मनुजोत्तम!। त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम्। कृषेर्वृष्टिसमायोगाद्द्वश्यन्ते फलसिद्धयः। तास्तु काले प्रदृश्यन्ते नैबाकाले कथञ्चन। तस्मात् सदैव कर्त्तव्यं सधर्मं पौरुषं नृभिः। एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रुवम्। नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः। तस्मात् सर्वप्रयत्नेनं पौरुषे यत्नमाचरेत्। त्यक्त्वालसान् दैवपरान् मनुष्यानुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः। अन्विष्य यत्नाद्वृणु ते नृपेन्द्र! तस्मात् लदोत्थानवता हि भाव्यम्”।

पुरुषच्छन्दस् = स्त्री पुरुष इव द्विपादत्वात् छन्दो यस्याः। द्विपदाख्ये छन्दोभेदे “अथ द्विपदाः पुरुषछन्दसं वै द्विपदा द्विपाद्वा अयं पुरुषः” शत० ब्रा० २। ३। ४।

पुरुषत्रा = अव्य० द्वितीयासप्तम्यन्तार्थवृत्तेः पुरुषशब्दात् त्राच्। द्वितीयासप्तम्यन्तार्थवृत्तौ पुरुषशब्दार्थे पुरुषत्रा वन्दे रमे वा

पुरुषदघ्न = त्रि० पुरुषः पुरुषपरिमाणं परिमाणमस्य। ऊर्द्ध्वविस्तृतवाहुकनरपरिमाणतुल्ये पञ्चहस्तपरिमाणे स्त्रियां ङीप्। तदर्थे द्वयसच्। पुरुषद्वयस तत्रार्थे त्रि० स्त्रियां ङीप्। एवं मात्रच्। पुरुषमात्र तत्रार्थे त्रि० स्त्रियां टाप्।

पुरुषदन्तिका = स्त्री पुरुषस्येव दन्तो दन्ताकारोऽखाः कप्० कापि अतैत्त्वम्। मेदायां राजनि०।

पुरुषधर्म = पु० ६ त०। पुरुषमात्रधर्मे न यज्ञधर्मे। “धेन्वमुडुहोर्मांसं नाश्नीयात्” इत्युपक्रमे “पुरुषधर्मो वाऽसम्भवात्” कात्या० श्रौ० ७। २। २४। “क्रतुमध्ये समाम्नानात् क्रतुधर्मोऽयमिति प्राप्ते इदमुच्यते पुरुषमात्रधर्मोऽयम् न क्रतुधर्सः कुलः जतावसम्नवात् न हि क्रतौ धेन्वनडुन्मांसभोजनस्य पाप्तिः या निषिध्येत यतो दीक्षितस्य पयोव्रतता विहिता तश्चिवृत्त्यनन्तरं हविःशेषभक्ष उक्तः अतो निषेधस्यासम्भवात् पुरुषमात्रधर्म एवायमिति” कर्कः

पुरुषनाय = पु० पुरुषान् नयति अण् उप० स०। १ मरपाले २ सनापतौ च छान्दो० ६। ८। ३।

पुरुषपुण्डरीक = पु० पुरुषः पुण्डरीकः व्याघ्रभेद इव उपमितस०। १ मनुष्यश्रेष्ठे २ जिनराजभेदे च हेमच०।

पुरुषमेध = पु० पुरुषेण परमपुरुषेण दृष्टो मेधः, पुरुषा नरजातीया मिध्यन्ते हिंस्यन्तेऽत्र वा मिध–आधारे घञ्। स्वनामख्याते यज्ञभेदे तदुक्तं शत० प्रा० १३। ६। १। १। “पुरुषो ह नारायणोऽकामयत। अतितिष्ठेयं सर्वाणि मूतान्यहमेवेदं सर्वं स्यामिति स एतं पुरुषमेधं पञ्चरात्रं यज्ञक्रतुमपश्यत्तमाहरत्तेमायजत तेनेद्वात्यतिष्ठत् सर्वाणि भूतानीदं सर्वममवत् अतितिष्ठति मर्वाणि भूतानीदं सर्वं भवति य एवं विद्वान् पुरुषमेधेन यजते यो वैतदेवं वेद”। यजु० ३० अ० व्याख्यायायाञ्च तत्कालाद्युक्तं यथा “इत उत्तरं पुरुषमेधो व्याख्यायते

“नारायव्यः पुरुषोऽपश्यत्। ब्राह्मणराजन्ययोरातडाकामयोः पुरुषमेधसंज्ञको यज्ञो मवति। सर्वभूतान्यतिक्रम्य स्थानमतिष्ठा। चैत्रशुक्लदशम्यामारम्भः। अत्र त्रयोविंशतिर्दीक्षा भवन्ति द्वादशोप्रसदः पञ्च सुत्या इति चत्वारिंशद्दिनैः सिध्यति अत्र यूपैकादशिनी भवति एकादशाग्नीषोमीयाः पशवो मवन्ति तेषां च प्रतियूपं मध्यमे वा यूपे यथेच्छं नियोजनम्। आज्येन सकृद्गृहीतेन “देव सवितरिति” प्रत्यृचं तिस्र आहुतीराहवनीये जुहोति” वेददी०। तत्र चाध्याये चतुर्थ्यन्तेन देवतामेदा द्वितीयान्तेन पशुभेदा उक्ताः।

पुरुषवाच् = स्त्री पुरुषस्येव वाक् यस्याः। शारिखगे यजु० २४। ३६। वेददी०।

पुरुषवाह = पु० पुरुषेण नरेण उह्यते बह–कर्मणि घञ्। नरवाहने १ कुवेरे। पुरुषमादिपुरुषं वहति–वह–अण् उप० स०। २ गरुडे। भाग० ५। २४ ३९ श्लो०।

पुरुषवाहम् = अव्य० पुरुप + वह–णमुण्। पुरुषकर्मके वहने पुरुषवाहं वहति पुरुषं वहतीत्यर्थः कसादि० यत्राविध्यनुप्रयोगः।

पुरुषविध = त्रि० पुरुषस्येव विधा यस्य। पुरुषप्रकारे नि रु० ७। ६

पुरुषव्याघ्र = पु० पुरुषः व्याघ्र इव उपमितस०। श्रेष्ठपुरुषे एवं पुरुषपुङ्गवादयोऽपि व्याघ्रादित्वात् उपमितस०। नरश्रेष्ठे “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहक्षार्दुलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” अमरः। व्याघ्रादितुल्यत्वेन नरस्य प्रशंसनात् श्रेष्ठत्वं गम्यते।

पुरुषसिंह = पु० उपमितस०। १ पुरुषश्रेष्ठे अमरः। २ जिनराजमेदे हेमच०।

पुरुषसूक्त = न० परमपुरुषप्रतिपादकम् सूक्तम्। ऋ० १०९० पठिते सहस्रशीर्षेत्यादिके षोडशर्चात्मके सूक्तमेदे।

पुरुषांशक = पु० ६ त० स्वार्थे क। १ पुरुषांशभेदे २ तत्प्रतिपादके ग्रन्थे च। ततः शानिका० तद्वेत्त्यधीते वेत्यर्थे छन्दसि णिनि। पौरुषांशकिन् तदध्येतरि तद्वेत्तरि च त्रि० ब० व०।

पुरुषाद = पु० पुरुषमत्ति अद–क्विप्। राक्षसे।

पुरुषाद = पु० स्त्री पुरुषमत्ति अद–अण् उप० स०। १ राक्षसे स्त्रियां जातित्वात् ङीष्। २ मध्यदेशमेदे वृ० सं० १४ अ० दृश्यम्।

पुरुषाद्य = पु० पुरुषेम्बाद्यः। १ विष्णौ २ जिनभेदे। पुरुषो नर आद्योयस्य। ३ राक्षसे च।

पुरुषायण = त्रि० पुरुष आत्मा अयनं प्रतिष्ठा यस्य पूर्वप० णत्वम्। आत्मप्रतिष्ठे प्राणादौ। “षोडश कलाः पुरुषायणाः पुरुष प्राप्यास्त गच्छन्ति” प्रश्नोप० ६। ५। “षोडश कलाः प्राणाद्या उक्ताः कलाः पुरुषायणा नदीनामिव समुद्रः पुरुषोऽयनमात्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य यथैवास्तं गच्छन्ति” भाष्यम्।

पुरुषायुष = न० ६ त० अच्समा०। पुरुषस्यायुःकाले रघुः १। ६३।

पुरुषार्थ = पु० ६ त०। १ धर्मार्थकाममोक्षरूपेषु पुरुषस्य इष्टेषु “धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः” अग्निपु०। वैष्णवमते भक्तिरपि पुरुषेष्टत्वात् पुरुषार्थः। २ पुरुषप्तयोजनमात्रे च कत्वर्थशब्दे २२८५ पृष्ठादौ दृश्यम्। ४ साङ्ख्यमते पुरुषाय बुद्धेरिष्टे भोगेऽपवर्गे च।

पुरुषाशिन् = पु० पुरुषमश्राति अथ–णिनि ६ त०। नरतक्षके राक्षमे राजनि० स्त्रियां ङीप्।

पुरुषास्थिमालिन् = पु० पुरुषस्वास्थिमासा साऽस्त्रस्य इनि। महादेवे हेम०।

पुरुषोत्तम = पु० पुरुषेषु उत्तमः। नारायणे “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः” गीता। अत्र समासादिविवेकः गुरूत्तमशब्दे २६२४ पृ० दृश्यः।

पुरुष्य = त्रि० पुरुषाय हितं यत्। पुरुषहिते ऋ० ज २९। ४

पुरुह = त्रि० पुरु पुरुत्वं हन्ति गच्छति हन–गतौ ड। प्रचुर अमरः। हन–बा० डु अमरे पुरुहु इति पाठान्तरं तत्रार्थे क्षीरखामी।

पुरुहूत = पु० पुरूणि पचुराणि हूतानि नामान्यस्य पुरुर्दैत्यभेदो हूतो युद्धार्थं येन वा। इन्द्रे अमरः।

पुरुहूति = स्त्री दाक्षायण्यां १ पुरवो हूतयो नामान्यस्य। २ विष्णौ पु० भाग० ६। ९। २९।

पुरुहोत्र = पु० अशुनृपपुत्रभेदे भाग० ९। २४। ४।

पुरूद्वह = पु० पुरूव् पौरवनृपान् तद्भारमुद्वहति उद् + वह। १ पौरववंश्यनृपश्रेष्ठे २ द्वादशमन्वन्तरे रुद्रसावर्णमनोः पुत्रभेदे च मार्कपु० ९४ अ०।

पुरूरवस् = पु० पुरु रौति रु–असि दीर्षश्च सोमवंश्ये बुधस्य पुत्रे १ राजभेदे तज्जन्मकथा यथा “इलोवाच। मित्रावरुणयोरंशे जाताऽस्मि वदतां वर!। तयोः सकाशं यास्यामि न मां घर्मो हतोऽवधीत् ६ सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला। गत्वाऽन्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत्। अंशेऽस्मिन् युवयोर्जाता देवौ किं करवाणि वाम्। मनुना चाहमुक्त्वा वै अनुगच्छस्व मामिति। तां तथा वादिनीं साध्वीमिलां धर्मपरायणाम्। मित्रश्च वरुणश्चोभावूचतुर्यन्निबोध तत्। अनेन तव धर्मेण प्रश्रयेण दमेन च। सत्येन चैव सुश्रोणि! प्रीतौ स्वो वरवर्णिनि!। आवयोस्त्वं महाभागे! ख्यातिं कन्येति यास्यसि। मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि। सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने!। जगत्प्रियो धर्मशीलो गनोर्वंशविवर्द्धनः। निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकम्। बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता। सोमपुत्राद्बुधाद्राजन्! तस्या जज्ञे पुरूरवाः। जनयित्वा ततः सा तं पुनः सुद्युम्नतां गता” हरिवं० ३० अ०। २ विश्वदेवभेदे जटा०। स च पार्वणे यजनीयदेवः। “पुरूरवामार्दवाश्च पार्वणे समुदाहृतौ” श्राद्धत० वृहस्यतिः।

पुरूवसु = त्रि० पुरु प्रचुरं वसु धनं यस्य वेदे दीर्घः। बहुधने ऋ० १। ८१। ८।

पुरोग = त्रि० पुरोऽग्रे गच्छति गम–ड। १ अग्रनामिनि अमरः। २ प्रधाने च हेमच०

पुरोगति = पु० पुरोऽग्रे गतिरस्य। १ कुक्कुरे धरणिः। २ पुरोगन्तरि त्रि०।

पुरोगम = त्रि० पुरो गच्छति गम–अच्। पुरीगन्तरि ऋ० ६। ८५। ८

पुरोग्निः = पु० पुरोऽग्रे अङ्गति अङ्कु–नि नि०। अम्रगमे यजु० १७। ६६।

पुरोचन = पु० जतुगेहे पाण्डवानां दाहार्थं नियोजिते दुर्योधनमित्रमेदे तत्कथा भा० आ० ६१ अ० दृश्या।

पुरोजन्मन् = त्रि० पुरोऽग्रे जन्म यस्य। १ अग्रजभ्रातरि २ अग्रजभगिन्यां स्त्री वा डाप्।

पुरोटि = पु० पुरोऽटति + अट–इन्। पत्रशब्दे त्रिका०।

पुरोडाश्(श) = पु० पुरोदाश्यते दाश–दाने कर्मणि क्विप्, घञ् वा दस्य डः। हविषि यज्ञियद्रव्ये। पदत्वे अन्। पुरोडा इत्येव। पुरोडाशसहचरितो अन्त्रः अन्। अदन्तः २ पुरोद्धाशसहचरिते मन्त्रे। तस्य व्याख्यानो ग्रन्थः ठन्। पुरोडाशिक तद्व्याख्याने ग्रन्थे। अदन्तः ३ यवचूर्णमिश्रितरोटिकाभेदे ४ हुतशेषे ५ पिष्टकधूमस्यां च मेदि०। ६ सोमरसे हेमच०।

पुरोडाशीय = त्रि० पुरोडाशाय हितं छ। पुरोडाशहिते यवतण्डुलादौ पक्षे यत्। पुरोडाशय तत्रार्थे त्रि०।

पुरोद्भवा = स्त्री पूरे उद्भवति उद् + भू–अच्। १ महामेदायां रत्नमाला। २ नगरभवे त्रि०।

पुरोधस् = पु० पुरोऽग्रे धीयते धा–कर्मणि असि किच्च। पुरोहिते अभरः।

पुरोधा = स्त्री पुरस् + घा–सम्ब० भावे क्विप्। पौरहित्ये “एतामेव पुरोधाकामस्य कुर्य्यात्” वञ्च भी० २। १६। ४

पुरोऽनुवाक्या = स्त्री पुरोऽग्रेऽनुवाक्या। ऋग्भेदे यजु० २१। १२

पुरोभागिन् = त्रि० पुरः पूर्वं मजते भज–षिनुण्। १ गुणत्यागेन दोषमात्रग्राहिणि। २ अग्रमागवति त्रि०। कर्त्तरि घञ्। पुरोमाग तत्रार्थे तस्य भावः ष्यञ्। पौरोभाग्य दोषदर्शने दुष्टत्वे च।

पुरोमारुत = पु० पुर्वो मारुतः पूर्वशब्दादमि पुर् आदेशः। पूर्वदिग्मवे वायौ।

पुरोयावन् = त्रि० या–वनिप् ७ त०। पुरोगते ऋ० ५। ६५।

पुरोरवस् = पु० पुरूरवस् + पुषो०। पुरूरवसि ऋ० ९४ अ०।

पुरोरुच् = स्त्री पुरोऽग्रे राचते रुच–किप्। १ फगभेदे यजु० २०। ३६। “वायुरग्रेगा यज्ञप्रीरिति सप्तानां पुरोसचां तस्यास्तस्या उपरिष्टात् तृच तृचं शंसेत्” आ० श्रौ० ५। १०। ४। “एताः सप्त पुरोसचो नाम ऋचः” नारा० मन्विग्रहग्रहणे अन्थापि ऋग् शत० ब्रा० ५। ४। ४। ३०। भा० उक्ता, यजु० ७। १६ मन्त्रे च तदग्यापि ऋक् तत्संज्ञा बोध्या।

पुरोवात = पु० पूर्ववर्त्ती वातः। पौरख्यवायौ कात्या० श्रौ० ४। ५। १८। “वापयति वाययति वा गाः पुरोवातः” सि० कौ०। रघुः १७। १८ श्लो०।

पुरोहित = पु० पुरो धीयतेऽसौ धा–क्त। देवकृत्यादौ अग्रे धार्य्ये १ पुरोधसि तञ्जक्षणं कविसल्पलतायामुक्तं यथा “पुरोहितो हितो वेदस्मृतिज्ञः सत्यवाक् शुचिः। ब्रह्मण्यो विमलाचारः प्रतिकर्त्ताऽऽपदामृजुः”। “वेदवेदाङ्ग तत्त्वज्ञो जपहोमपरायणः। आशीर्वादवचोयुक्त एव राजपुरोहितः” आणक्यः। “तस्मात् धर्मप्रधानात्मा वेदधर्मविदीप्सितः। ब्राह्मणो गुणवान् कञ्चित् पुरोधाः प्रतिदृश्यताम्। क्षत्रियेणाभिकातेन पृथिवीं जेतुमिच्छता। पूर्वं पुरोहितः कार्य्यः पार्थ! राज्याभिवृद्धये। मर्हीं जिगीषता राज्ञा ब्रह्म कार्य्यं पुरःसरम्” भा० आ० १७३ अ०। भा० शा० ७३ अ० “राज्ञा पुरोहितः कार्य्यो भवेद्विद्वान् बहुश्रुतः। उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम्। धर्मात्मा मन्त्रविद्येषां राज्ञां राजन्। पुरोहितः। राजा चैवं गुणो येषां कुशलं तेषु सर्वतः। उभौ प्रजा वर्द्धयतो देवान् सर्वान् सुतान् पितॄन्। भवेयातां स्थितौ धर्मे श्रद्धेयौ सुतपखिनौ। परस्मरस्य सुहृदौ विहितौ समचेतसौ। ब्रह्मक्षत्रस्य सम्मानात् प्रजासुखमवाप्नुयात्। विमाननात् तयोरेव प्रजा नश्येयुरेक हि। ब्रह्म क्षत्रं च सर्वेषां वर्णानां जूलमुच्यते” इत्युषक्रमे “राज्ञां पुरोहिताधीनः विजयादिः तत्रोक्तो दृश्यः। अग्निपु० “त्रय्याञ्च दण्डनीत्यां च कुशलः स्यात् पुरोहितः” “अयञ्च वेदविहितं कुर्य्याच्छान्तिकवौडिकम्”। “काणं व्यङ्गमषुत्रं वाऽनभिज्ञमनितेन्द्रियम्। न ह्रस्वं व्याधितं वापि नृपः कुर्य्यात् पुरोहितम्” काकिकापु० तदीयदोषा उक्ताः। २ अग्रघारिते त्रि०। पुरोहितस्य धर्म्यं सहिष्या० अन्। २ पुरोहितधर्म्ये।

पुरोहितादि = पु० “पुरोहितादिभ्यो यक्” पा० यक्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “पुरोहित (राजाऽसे) ग्रामिक पिण्डिक ञ्चुहित वाल मन्द खण्डिन वर्मिक कर्मिक धर्सिक शिलिल सुतिक मूलिक तिलक अञ्जलिक ऋषिक पुत्रिक अविक छत्रिक पर्षिक पथिक चर्मिक प्रतिक सारथि आस्तिक सूचिक संरक्ष सूचक नास्तिक अजानिक शाक्कर नागर चूडिक”। पुरोहितस्य भावः कर्म वा यक्। पौरहित्य तद्भावे तत्कर्मणि च न०

पुरोहितिका = स्त्री पुरोहितस्य पत्नी ङीष् पुरोहिती ततः स्वार्थे क अनुकम्पायां कन् वा। अनुकम्पित पुरोहितपत्न्याम्। ततः शिवा० अपत्ये अण न स्त्रीभ्यो ढक्। पौरोहितिक तदपत्ये पुंस्त्री।

पुर्व = निवासे भ्वा० प० सक० सेट्। पूर्वति अपूर्वीत् ओष्ठ्योपधोऽयमित्यन्ये

पुर्व = पूर्वणे भ्वा० प० सक० सेट। पूर्वति अपूर्वीत् अन्तःस्थोपधोऽयम्।

पुल = महत्त्वे भ्वा० प० सक० सेट्। पोलति ते अपोलीत्। पुपोल अयं ज्वलादिरपि तेन पुलयति पोलयतीति भेदः

पुल = उद्धृतौ चु० उभ० सक० सेट्। पोलयति ते अपूपुलत् त

पुल = पु० पुल–क। १ पुलके २ विपुले त्रि० मेदि०।

पुलक = न० पुल + संज्ञायां कन्। १ कङ्गुष्ठे २ पर्वतीयमृत्तिकाभेदे राजनि०। ३ रोमाञ्चे पु० त्रिका०। ४ देहात् बहिर्भूतकीटभेदे हेमच०। ५ प्रस्तरभेदे तल्लक्षणादि गारुडे ७७ अ० उक्तं यथा “पुण्येषु पर्बतवरेषु च निम्नागासु स्थानान्तरेषु च तथोत्तरदेशगर्त्ते। संस्थापिताश्च नखरा भुजगैः प्रकाशं संपूज्य दानवपतिं प्रथिते प्रदेशे। दाशार्णवागदवमेकल कालगाद्रौ गुञ्जाञ्जनक्षौद्रमृणालवर्णाः। गन्धर्ववह्निकदलीसदृशावभासा एते प्रशस्ताः पुलकाः प्रसूताः। शङ्खाब्जभृङ्गार्कविचित्रभङ्गा सूत्रैरुपेताः परमाः प्रवित्राः। मङ्गल्ययुक्ता बहुभक्तिचित्रा वृद्धिप्रदास्ते पुलका भवन्ति। काकश्वरासभशृगालवृकोग्ररूपैर्गृध्रैः समांसरुधिरार्द्रसुखैरुपेताः। गृत्युप्रदास्तु विदुमा परिवर्जनीया मूल्यं पलस्य कथितञ्च शतानि पञ्च”। ६ मणिदीपभेदे ७ हरिताले ८ गन्धर्वमेदे ९ गजायपिण्डे मेदि० १० असुराज्यां ११ गल्वर्के च हेम०

पुलकिन् = त्रि० पुलक + मत्वर्थे इति। १ रोमाखयुते स्त्रियां ङीप्। २ धाराकदम्बे पु० राजनि०।

पुलस्ति = पु० पुलं महत्त्वमसते गच्छति अस–ति शक०। पुलस्त्ये मुनौ उज्ज्व०।

पुलस्त्य = पु० सप्तर्षिभेदे स च ब्रह्मणः कर्णती जातः तस्य भार्य्या कर्द्दमकन्या हविर्भूः। तस्य पुत्रा अगस्त्यः विश्रवाश्च तत्कथा भाग० ४। १३। ०।

पुलह = पु० सप्तर्षिभेदे सच ब्रह्मणोनाभितो जातः तस्य पत्नी कर्दमकन्या गतिः कर्मश्रेष्ठः यवीयान् सहिष्णुश्च तत् पुत्राः भाग० ४। १। ३१।

पुलाक = पु० पुल + कलाका० नि०। १ संक्षेपे २ शस्यशून्ये (आगडा) धान्ये ३ भक्तसिक्थके भक्तगुखिकायां ४ क्षिप्रे च अमरः।

पुलाकिन् = पु० पुल–बा० काकिनि। वृक्षे हेमच०।

पुलालिका = स्त्री सुश्रुतोक्ते नासाग्रदंशे विषोपद्रवभेदे “शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नसाग्रदंश”।

पुलायित = न० पुल + क्यच्–क्त। अश्वगतिभेदे त्रिका०। अर्द्धपुलायितशब्दे ३३५ पृ० दृश्यम्।

पुलिन = न० पुल–इनन् किच्च। तोयादुत्थिते तटे (चडा)। अमरः।

पुलिनवती = स्त्री पुलिन + अस्त्यर्थे मतुप् मस्य वः अजिरा० न पूर्वपददीर्घः ङीप्। नद्याम्।

पुलिन्द = पु० स्त्री पुल–किन्दच्। १ चाण्डालमेदे स्त्रियां जातित्वात् ङीष्। तदुत्पत्तिकथा वामनपु० ७३ अ० उक्ता ततः संक्षेपः। अदितिगर्भनिकृन्तनेन जातम्रूण्हत्यापापस्य शक्रस्य तपसश्चर्य्यानन्तरं पुलिन्दाः देहाद् जाताः ते च हिमाद्रिकालाञ्जनगिर्य्योरन्तरालवास्तव्याः। भा० आ० १७५ अ० तु वसिष्ठधेनोःफेनतस्तेषामुत्पत्तिरुक्ता। २ तदावासे देशभेदे भा० भी० ९ अ०।

पुलिश = पु० ज्योतिषसिद्धान्तकारके ऋषिभेदे तस्येदमण्। पौलिश तत्कृतसिद्धान्ते तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु” वृ० सं० २ अ०

पुलुकाम = पु० पुरु–कामयते कामि–अण् उप० स० रस्य सः। बहुकामे निरु० ६। ४ ऋ० १७९। ५।

पुलोमन् = पु० दैत्यभेदे। हरिवं० ६ अ०। स च इन्द्रस्य श्वशुरः। “पुलोमानं जघानाजौ जामाता सन् शतक्रतुः” हरिवं २० अ०। तेन पुलोमजित् पुलोमद्विट् पुलोमारिप्रभृतयः इन्द्रे। २ राक्षसभेदे मा० आ० ६ अ०। च्यवनशब्दे २९७३ पृ० दृश्यम्।

पुलोमजा = स्त्री पुलोम्नो जायते जन–ड ५ त०। शच्यामिन्द्रपत्न्याम् अमरः।

पुलोमा = स्त्री भृगुमार्य्यायाम् च्यवनमातरि २९७३ पृ० दृश्यम्

पुल्कस = पु० स्त्री० ब्राह्मणात् क्षत्रियायां जाते सङ्कीर्णवर्णभेदे शत० ब्रा० १४। ७। १। २२ भाष्ये दृश्यम्। स्त्रियां जातित्वात् ङीष्।

पुल्य = त्रि० पुल + चतुरर्थ्यां बलादि० यः। पुलनिर्वृत्तादौ।

पुल्ल = त्रि० फुल्ल + पृषो०। विकसिते शब्दार्थकल्पतरुः।

पुल्वघ = पु० पुरु बहु अत्ति अद–अच्–पृषो० रस्य लः। बहुभक्षके मृगभेदे ऋ० १०। ८६। २२। स्थामृचमधिकृत्य “क्व स पुल्वघो मृगः क्व स बह्वादी मृगः” निरु० १३। ३। उक्तम्

पुष = पुष्टौ दिवा० पर० अक० अनिट्। पुष्यति ऌदित् अपुषत् पुपोष। “स्वे पुषः” पा० खमुल् कसादिषु यथाविध्यसुपयोगात् खपोषं पुष्यति आत्मानं पुष्यतीत्यर्थ।

पुष = पुष्टौ अक० पोषणे सक० क्य्रा० प० सेट्। पुष्णाति अपोषीत्

पुष = पुष्टौ भ्वा० पर० अक० सेट्। पोषति अपोषीत्।

पुष = धृतौ चु० उभ० सक० सेट्। पोषयति ते अपूपुषत् त।

पुषा = स्त्री पुष्णाति पुष–क टाप्। लाङ्गलीवृक्षे शब्दच०।

पुष्क = न० पुष–बा० भावे क किच्च आद्य कस्य नेत्त्वम्। १ पुष्टौ ततः सिध्मा० मत्वर्थे लच्। पुष्कल तद्युते त्रि०।

पुष्कर = न० पुष्कं पुष्टिं राति रा–क। १ हस्तिशुण्डाग्रे २ वाद्यभाण्डमुखे ३ जले ४ आकाशे ५ असिफले ६ पद्मे ७ तीर्थभेदे ८ कुष्ठौषधौ अमरः। ९ काण्डे १० द्वीपभेदे च मेदि०। ११ रोगभेदे १२ नागभेदे १३ सारसखगे नलराज भ्रातरि १४ नृपभेदे १५ वरुणपुत्रे पुष्करद्वीवस्य १६ राजभेदे च पु० मेदि०। १७ मेघाधिपभेदे १८ त्रिपुष्करघटकयोगे त्रिपुष्कशब्दे ३३३१ पृ० दृश्यम्। १९ असुरभेदे हरिवं० २० विष्णौ मा० शा० ४३ अ०। तीर्थभेदश्च त्रिपुष्करशब्दे दृश्यः। १९ ब्रह्मकृतसरोवरभेदे न०। “पितामहसरः पुण्यं पुष्करं नाम नामतः” भा० व० ८५ अ०। २। पुष्करद्बीपस्थे पर्वतभेदे पु० “पुष्करे पुष्करो नाम पर्वतो मणिसानुमान्” भा० भी० १२ अ०। १६ पुष्करद्वीपाधिपनृपे “द्वीपे शुभे पुण्यजनैरुपेते उवास राजा स तु पुष्कराख्यः। तेनैव नाम्नास तु पुष्करोऽपि सदोच्यते देवगणैः ससिद्धैः” अग्निपु०। तस्य पुष्कर (पद्म) तुल्ययानत्वात् वा तथात्वम् “तेनैव यानेन तथाम्बुजेन बभूव नाम्ना तमथाह्वयन्ति” अग्निपु०। १७ मेधाधिपभेदानयनञ्च ज्यो० त० उक्तं यथा “त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात्। आवर्त्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम्” तस्य फलम् “पुष्करे दुष्करं वारि शस्यहीना वसुन्धरा। विग्रहोपहगा लोकाः पुष्करे जलदाधिपे”। १० द्वीपभेदश्च “यत एव कृताः सप्त भुवोद्वीपाः जम्बुप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञाः” भाग० ५। १। ३३। विष्णुपु० तस्य प्रमाखाद्युक्तं यथा “शाकद्वीपप्रमाणेन वणयेनेव वेष्टितः। क्षीराब्धिः सर्वती ब्रह्मन्! पुष्कराख्येन वेष्टितः। द्वीपेन शाकद्वीपात्तु द्बिगुणेन समन्ततः। तद्द्वीपाधिपतेश्चैव महावीतोऽभवत् सुतः। धातकिश्च तयोस्तत्र द्वे वर्षे नाम चिह्निते। महावीतं तथैवान्यत् धातकीपण्डमण्डितम्। एकश्चात्र नहामाग! प्रख्यातो वर्मपर्वतः। मानतोत्तरसंज्ञो वै मध्यतो वलयाकृतिः। योजनानां सहस्माणि ऊर्द्ध्वं षञ्चाशदुच्छ्रितः। तावदेव च विस्तीर्णः सर्वतः परिमण्डलः। पुष्करद्वीपवलयं मध्ये च विभजन्निव। स्थितोऽसौ पर्वतस्तेन जातं तद्वर्षकद्वयम्। बलयाकारमेकैकं तयोर्वर्षं तथा गिरिः। दशवर्मसहस्नाणि यत्र जीवन्ति मानषाः। निरामया विशोकाश्च रागद्वेष विवर्जिताः। अधमौत्तमौ न तेष्वास्तां न वध्यबधकौ द्विज!। नेर्प्यासूयाभयं रोषो दोषो लोभादिको ग च। महावीतं महावर्षं धातकिसंज्ञकन्ततः। मानसोत्तर शैलस्य देवदैत्यादिसेवितम्। सत्यानृते न तत्र स्तो द्वीपे पुष्करसंज्ञिते। न तन शैलनद्यो वा द्वीपे वर्षद्वयान्विते। तुल्यवेशास्तु मनुजा देवैस्तत्रैकरूपिणः। वर्णाश्रमाचारहीर्नं धर्माचरणवर्जितम्। त्रयीवार्त्तादण्डनीतिशुश्रूपारहितञ्च तत्। वर्षद्वयञ्च मैत्रेय! भौमः स्वर्गोऽयमुत्तमः। सर्वश्च सुखदः कालो जरारोगादिवर्जितः। पुष्करे धातकीषण्डे महावीते च वै मुने!। न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम्। तस्मिन्निव सति ब्रह्मा पूज्यमानः सुरासुरैः। स्वादूदकेनोदधिना पुष्करः परिवेष्ठितः। समेन पुष्करस्यैव विस्तारान् मण्डलातथा”। १४ नलनृपभ्रातरि “पुष्कर! त्वं हि मे भ्राता सञ्जीव शरदः शतम्। एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः। स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः। स्वान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम्” भा० व० ७८ अ०। भगवतः २३ पद्मरूपेण प्रादुर्भावे हरिवं० २०३ अ०।

पुष्करकर्णिका = स्त्री पुष्करं पद्मभिव कर्खः पुष्पं यस्याः कप् कापि अत इत्त्वम्। ख्यलपद्मिन्यां राजनि०।

पुष्करचूड = पु० लोकालोकपर्वतोपरिस्थे दिग्गजभेदे भाग० २०। ३०।

पुष्करनाडी = स्त्री पुष्करं वाडयति नाडि + अण् उप० त० गौरा० ङीप्। स्थलपद्मिन्यां राजनि०।

पुष्करनाभ = पु० पुष्करं पद्मं नाभौ यस्य अच्समा०। पद्मनाभे विष्णौ पु०।

पुष्करप्रादुर्भावः = पु० पुष्कराकारः प्रादुर्भावः। भगवतः पद्मा कारेण प्रादुर्भावे तद्बिवरखम्। “अथ योगविदां श्रेष्ठं सर्वभूतमनोमयम्। स्वष्टारं सर्वभूतानां ब्रह्माणं सर्वतोमुखम्। तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते। सर्वतेजोगुणामये पार्थिवैर्लक्षणैर्युते। तच्च पद्मं पुराणज्ञाः पृथिवीरुहमुत्तमम्। नारायणात् समुत्पश्नं प्रवदन्ति महर्षयः। य तु पद्मासना देवी तां पृ सरिचक्षते। ये तु गर्भाङ्कुराः सारास्तान् दिव्यान् पर्वतान् विदः। हिमवन्तञ्च मेरुञ्च नीलं निषधमेव च। कैलासं क्रौञ्चवन्तञ्च तथाऽद्रि गन्धमादनम्। पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च। उदयञ्च गिरिश्रेष्ठं विन्ध्यमस्तञ्च पर्वतम्। एते देवगणानाञ्च सिद्धानाञ्च महात्मनाम्। आश्रयाः सर्वभूतानां पुण्या १ कामयुजोऽद्रयः। एतेषामन्तरो देशो जम्बूद्वीप इति स्मृतः। जम्बुद्वीपस्य संख्यानं याज्ञिका यत्र कुर्वते। गर्भाद्यतः स्नवेत् तोयं देवामृतरसोपमम्। दिव्यतीर्थशतापाङ्ग्यस्ता दिव्याः सरितः स्मृताः। यान्येतानि तु पद्मस्य केसराणि समन्ततः। असंख्याता पृथिव्यान्तु सर्वे ते धातुपर्वताः। यानि पद्मस्य पत्राणि भूरीण्यूर्द्ध्वं नराधिप!। ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः। यान्यधः पद्मपत्राणि निवासार्थं विभागशः। दैत्यानासुरगाष्णाञ्च पातालं तन्महात्मनाम्। तेषामथोगतं यत्तदुदकेत्यभिसंज्ञितम्। महापातककर्माणो मज्जन्ते यत्र माभवाः। पद्मस्यान्ते कुशं यत्तदेकार्णवजलं महत्। प्रोक्तास्ते दिक्षु सङ्घाताश्चत्वारो जलसागराः। एष नारायणस्याद्यो महापुष्करसम्भवः। प्रादुर्भावोऽव्ययस्तणान्नाम्ना पुष्करसंज्ञितः। एतस्मात् कारणात् तज्ज्ञैः पुराणैः परमर्षिभिः भाज्ञिकैर्पेददृष्टार्थैर्यज्ञे पद्मविधिः स्थृतः। एवं मगवता पद्मविधया परया विधिः। पर्वतानां नदीनाश्च देशानाञ्च विनिर्मितः। विमुस्तथा चाप्रतिमप्रभावः प्रभाकरो योगिवरोऽमितद्युतिः। स्वयं स्वयम्भूः शयनेऽसृजत्तदा जगन्मयं पद्मनिधिं महार्णवे” हरिवं० २०२ अ०।

पुष्करमालिन् = त्रि० पुष्करमाला + अस्त्यस्य इनि। १ पद्ममालायुक्ते स्त्रियां ङीप्। २ हिमवत्कन्याभेदभर्त्तरि पु० मार्कपु० २१ अ०।

पुष्करमूल = न० पुष्करनिव मूलमस्य। १ कुष्ठौषधे राजनि०। ६ त०। २ पद्ममूले च स्वार्थे क०। तत्रार्थे त्रिका०।

पुष्करवी(बी)ज = न० ६ त०। पद्मवीजे।

पुष्करशायिका = स्त्री सङ्घचारिखगभेदै प्लवे सुश्रुतः।

पुष्करशिफा = पुष्करस्य शिफा जटेव। पुष्करमूले राजनि०। पुष्करजटाप्यत्र।

पुष्करसद = त्रि० पुष्करे सीदति सद–क्विप्। १ पद्मवासिनि। २ गोत्रप्रवर्त्तकर्षिभेदे पु० तस्य गोत्रापत्यम् बाह्वा० इञ् अनुशतिखा० द्विपदवृद्धिः पौष्करसादि तदपस्थे पुंस्त्री। ततो यूनि फञ् पौष्करसादायग यदीपे यूनिन्यपत्ये बहुत्वे तु यजो यस्का० लुक्।

पुष्करसागर = पु० पुष्करं सागर इव। १ कुष्ठौषधे नैघण्टुप्र०।

पुष्करसाद = पु० पुष्करं पद्मं सीदति भक्षयति धातूनामनेकार्थत्वात् सद–भक्षणे अण् उप० स०। कमलभक्षे पक्षिभेदे यजु० २४३।

पुष्करस्थपति = पु० महादेये भा० आनु० १७ क०।

पुष्करस्रज् = स्त्री ६ त०। १ पद्ममालायाम्। पुष्करमयी अक् यस्य। २ पुष्करमालायुक्ते त्रि० ३ अश्विनीकुमारयोः पु० द्वि० व०। यजु० २ ३३।

पुष्कराक्ष = पु० पुष्करमिवाक्षि यस्य षच्समा०। १ पद्मतुल्यनेत्रे स्त्रियां ङीष्। २ विष्णौ पु० “पुष्कराक्षो महास्वनः” “पुष्कराक्षो महामनाः” इति च विष्णुस०। “पुष्कर” हृदयपुण्डरीकमक्ष्णोति व्याप्नोति अक्ष–उप० स० अण्। हृदयपुण्डरीकव्यापितथा तस्य तथात्वम् व्युत्पत्तिभेदाच्च नामद्वयम्।

पुष्कराख्य = पु० पुष्करस्य पद्मस्याख्या आख्या यस्य। पद्मतुल्यनामके १ सारसे अमरः। पुष्कराह्वये २ कुष्ठौषधे राजनि०।

पुष्कराङ्घ्रिज = न० पुष्कराङ्घ्रिरिव जायते जन–ड। पुष्करमूले कुष्ठौषधे नैधण्टुप्र०।

पुष्करादि = पु० “पुष्करादिभ्यो देशे” पा० देशे गम्ये मावर्थे इनिपत्ययनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा “पुष्कर पद्म उत्पत्त तमाल कुमुद नड कपित्थ विस मृणाल कर्दम शालूक विगर्ह करीव शिरीष यवास प्रवाह हिरण्य कैरव कल्लाल तट तरङ्ग पङ्कज सरोज राजीव नालीक सरोरूह पुटक अरविन्द अम्भोज अब्ज कमल पयस”

पुष्करारुणि = पु० पुरुपंश्ये गर्मपौत्रे नृपभेदे भाग० ९। २१। १५

पुष्करावती = स्त्री पुष्कराणि सन्त्यत्र मतुप् मस्य वः दीर्घः। नदीभेदे।

पुष्करावर्त्तक = पु० पुष्करं जलमावर्त्तयति आ + वृत–णिचण् उपस०। मेघाधिपभेदे “पुष्करावर्त्तका नाम ये मेघाः पक्षम्भवाः। संयोगाद्वायुनोच्छिन्नाः पर्वतानां महौजसाम्। कामगानां प्रवृद्धानां लोकानां शिवमिच्छ ताम्। पुष्करा नाम ते मेघा वृहतस्तोयमत्सराः। पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः” विष्णुपु०। भीमो भीमसेनवत् उत्तरपदलोपे पुष्करोऽप्यत्र ३०६३ पृष्ठे दृश्यम्।

पुष्कराह्व = पु० पुष्करस्वाह्वा आह्वा यस्य। सारसखगे अमरः पुष्कराह्वयमप्यत्र। तच्च पुष्करमूले कुष्ठौषधे न० राजनि०।

पुष्करिका = स्त्री पुष्करं तदाकारोऽस्त्यस्य ठन्। शूकदोषनिमित्ते रोगभेदे “पित्तशोणितसम्भूता पिडका पिडकातिता। या पुष्करसमानाभा ज्ञेया पुष्करिकेति सा” सुश्रुतः

पुष्करिन् = पु० पुष्करं शुण्डाग्रमस्त्यस्य इनि। १ गजे हारा० स्त्रियां ङीप्। पुष्करादि० देशे गम्ये इनि ङीप्। २ स्थलकमले ३ पुष्करमूले कुष्ठौषधे राजनि०। ४ पद्मिन्यां ५ जलाशयभेदे मेदि०। जलाशयशब्दे ३०७५ पृ० तल्लक्षणादि दृश्यम्। ६ चाक्षुषमनोःपत्नीभेदे हरिवं० २ अ०। ७ ऋचीकमातरि भूमन्युपत्नीभेदे भा० आ० ९४ अ०। जम्हार्थे इनि। ८ पद्मसमूहे हेम०।

पुष्कल = त्रि० पुष–कलच् किच्च आद्यकस्य नेत्त्वम् पुष्क + सिध्मा लच् वा। १ श्रेष्ठे अमरः २ उपचिते जटा० ३ बहुत्वयुक्ते च। “अष्टमुष्टिर्भषेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम्” इत्युक्ते ४ परिमाणे न० ५ भिक्षार्थदेवे अन्नमानभेदे न०। “भिक्षामाहुर्ग्रासमात्रमन्नं तस्माच्चतुर्गुणम्। पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते” कूर्मपु०। ६ असुरभेदे पु०। हरिवं० ४२ अ०। ७ भरतपुत्रे पु० भाग० ९११७।

पुष्क(ष्य)लक = पु० गन्धमृगे त्रिका० रघुः १५८ “सीम्निपुष्क(व्य)कोहतः” सि० कौ०। यमध्यपाठस्तत्रैव

पुष्कलावत = पु० १ उत्तरस्थे देशभेदे वृ० स० १४ अ०। २ भरत पुत्रपुष्कलस्य राजधान्याम् स्त्री।

पुष्ट = त्रि० पुष–क्त। यस्य पोषणं कृतं तस्मिन् १ कृतपोषणे अमरः। भावे क्त। २ पुष्टौ न०। तत् कार्य्यतया अस्त्यस्य अच्। ३ विष्णौ पु० “तुष्टः पुष्टः पुष्टिकरः” विष्णुस०।

पुष्टावत् = त्रि० पुष्टं पोषणं कार्य्यत्वेनाऽस्त्यस्य मतुप् मस्य वः वेदे दीर्थः। पोषणकर्त्तरि सम्भृतघासे ऋ० ८। ४५। १६

पुष्टि = स्त्री पुष–भावे क्तिन्। १ पोषणे अन्नादि नोपचयकरणे २ वृद्धौ च मेदि०। कर्त्तरि क्तिच्। ३ अश्वगन्धायां राजनि० शच्यादिषु ४ मातृकाभेदे ५ योगिनीभेदे ६ धर्मस्य पत्नीभेदे भा० ६६ अ०।

पुष्टिका = स्त्री पुष्ट्यै कं जलमस्याः। जलशुक्तिकायां राजनि०।

पुष्टिकान्त = पु० ६ त०। गणाधिपे गणेशे।

पुष्टिद = त्रि० पुष्टिं ददाति दा–क। १ पोषणकारके २ अश्वगन्धायां स्त्री राजनि०।

पुष्टिपति = पु० १ अग्निभेदे भा० व० २२० अ०। २ सरस्वत्यां च शत० व्रा० ११४३१६।

***