पुद्गल = पु० पूरणात् पुत् गलतीति गलः कर्म०। १ परमाणौ “पूरणाद्गलनात् देहे पुद्गलाः परमाणवः” इति विष्णुपु० टीकायां श्रीधरधृतवाक्यम्। २ बौद्धमतप्रसिद्धे द्व्यणुकादिपदार्थभेदे च। पुत् कुत्सितो गलो यस्मात्। ३ सुन्दराकारे त्रि० शब्दर०। ३ रूपादिविशिष्टे त्रि० हेमच०

पुनःपुनर् = अव्य० पुनर् + वीप्सायां द्वित्वम्। १ मुहुरित्यर्थे २ अभीक्ष्णे अमरः।

पुनःपुना = स्त्री पु० पुनः पुनाति पू–नक् पृषो०। नदीभेदे “कीकटेषु गया पुण्या नदी पुण्या पुनःपुना” वायुपु०।

पुनःसंस्कार = पु० पुनर्वारः संस्कारः। १ द्वितीयोपनयनसंस्कारे गोमांसादिमक्षणे प्रायश्चिचनिमित्ते पुनर्वारोपयनभेदे “पुनर्वसौ कृतो विप्रः पुनःसंस्कारमर्हति” इत्युक्ते उपनयने ज्यो० त० “अज्ञानात् प्राश्य विण्मूत्रं सुरासं- स्पृष्टमेव च। पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातुयः। वपनं मेखलादण्डो भैक्ष्यचर्य्याव्रतानि च। निवर्त्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि” मनुः। “विड्वराहादीनां बक्ष्यमाणत्वात् मनुष्यसम्बन्धि मूत्रं पुरीषं वा अबुद्धिपूर्वकं प्राश्य सुरासंस्पृष्टञ्च भक्तादिरसं वा प्राश्य द्विजातयस्त्रयोवर्णाः पुनरुपनयनमर्हन्ति। वपनमिति “शिरोमुण्डनं मेखलाधारणं दण्डधारणं भैक्ष्याणि च मधुमांसस्त्रीवर्जनयुतानि प्रायश्चित्तार्थं पुनरुपनयने द्विजातीनां न मवन्ति” कुल्लू०।

पुनः(न)स्तोम = पु० वा विसर्गलोपः। उक्थ्यसंस्थेयज्ञभेदे “बहुप्रतिगृह्य गरगीरिव योमन्येत तस्य पुनःस्तोम उक्थ्यः” कात्या० २२। ६०। ६ “बहुप्रतिगृह्य गरगृहीतमिवात्मानं यो मन्यते तस्य पुनःस्तोममंज्ञक उक्थ्यसंस्थो भवति” कर्कः।

पुनर् = अव्य० पन–स्तुतौ बा० अरि पृषो०। १ द्वितीयवारे अप्रथमे २ भेदे च अमरः। ४ अधिकारे ५ पक्षान्तरे मेदि० “पुनरित्यप्रथमे ६ विशेषे च” गणर० उक्ते विशेषे च पुनरिति भूयोऽर्थबिशेषयोः” गणरत्नटीका।

पुनरसु = पु० पुनरसुर्जीवनं सम्भवोऽस्य। पुनर्जाते शत० ब्रा० १। ५। ३। १४।

पुनरागत = त्रि० पुनर्वारमागतः। प्रत्यागते मनुः १११९६

पुनरागमन = न० पुनर्वारमागमनम्। प्रत्यागमने

पुनराधान = न० पुनर्वारमाधानम्। श्रौतस्मार्त्ताग्नेर्द्वितीयाधाने “पुनर्दारक्रियां कुर्य्यात् पुनराधानमेव च” मनुः ५। १५८। “अरण्योरल्पमप्यङ्गं यावत्तिष्ठति पूर्वयोः। न तावत् पुनराधानमन्यारण्योर्विधीयते” कर्मप्रर्दीपः। “नाशक्षयदाहादिनिमित्तेष्वन्ययोः परिग्रहोपदेशाच्च” कात्या० श्रौ० ४। ७। २२ “अरण्योर्दग्धयोर्वापि नष्टयोः क्षीणयोस्तथा। आहृत्यान्ये समारोप्य पुनस्तत्रैव निर्मथेत्” इति “अरण्योः क्षयनाशाग्निदाहेष्वग्निं समाहृतः। पालयेटुपलान्तेऽस्मिन् पुनराधानमिष्यते” कर्मप्रदीपः।

पुनराधेय = न० पुनर्वारमाधेयमग्न्याधानम्। श्रौते कर्मभेदे तच्च “पुनराधेय आधानाप्रतिज्ञातस्य” कात्या० श्रौ० ४। ११ सूत्रादौ तद्भाष्ये च पद्धतौ दृश्यम्।

पुनरावर्त्तिन् = त्रि० पुनःपुनर्वारमावर्त्तते आ + वृत्त–णिनि। भूयो भूय आगन्तरि “आ ब्रह्मभुवनात् लोकाः पुनरावर्त्तिनोऽर्जुन!” गीता।

पुनराहार = पु० पुनर्वारमाहारो भोजनं शा० त०। द्वितीयवारभोजने भूयस्तत्तदर्थाहरणे च कात्या० श्रौ० २५। ११। १०

पुनरुक्त = त्रि० पुनर्वाररुक्तम्। पुनर्वारं कथिते १ अर्थे २ शब्दे च। तत्र शब्दस्य पुनरुक्तत्वे तदर्थस्यापि पुनरुक्तत्वं नियतम् ततः उक्था० तद्वेत्तीत्यर्थे ठक् पौनरुक्तिक तद्वेत्तरि त्रि०। शब्दपरत्वे ऋगनयनादित्वात् अण्। पौनरुक्त तच्छब्दाध्येतरि त्रि०। भावे क्त। ३ पुनःकथने न०

पुनरुक्तजन्मन् = पु० पुनरुक्तं द्वितीयवारं जन्म यस्य। १ द्विजातौ २ ब्राह्मणे त्रिका० “द्वितीयं मौञ्जीबन्धने” मनूक्ते स्तस्य तथात्वम्।

पुनरुक्तवदाभास = पु० अलङ्कारभेदे अलङ्कारशब्दे ३८८ पृ० दृश्यम्।

पुनरुत्पत्ति = स्त्री उत्पन्नस्य पुनरुत्पत्तिः। असत्ये उत्पपन्नस्य पुनरुत्प दे स च न सम्भवति उत्पन्नस्य पुनरुत्पादासम्भवात् इति सिद्धान्तः।

पुनरुत्सृष्ट = पु० पशुभेदे। पूर्वं वाहितः दौर्बल्यात् स उत्सृष्टः पुनरपि सवलो जातः पुनरपि वाहितः पुनश्च दौर्बल्याद्य उत्सृष्टस्तादृशे पशौ” कात्या० ७। १। ५ सूत्रभाष्यम्।

पुनर्जन्मन् = न० पुनर्भूयोजन्म। भूयोजन्मनि “मामुपेत्य तु कौन्तेय! पुनर्जन्म न विद्यते” गीता

पुनर्ण्ण(न)व = पु० पुनरपि नवः “पूर्वपदात् संज्ञायामगः” पा० संज्ञायां णत्वम अन्यत्र न णत्वम्। १ नखे हेमच० तस्य छिन्नरूढत्वात्तथात्वम्। २ भूयोनवे त्रि० अणत्वम्।

पुनर्नवा = स्त्री पुनर्नवा पुनर्नूयते नू–अप् वा क्षुभ्रादेराकृति गणत्वात् न णत्वम्। शोथघ्न्यां (पुनपुना) शाकभेदे अमरः। सा च द्विविधा श्वेता रक्ता च तयोर्गुणादि भावप्र० उक्तं यथा “पुनर्नवा श्वेतमूला शोथघ्नी दीर्घपत्रिका। कटुः कषायाऽरुच्यर्शःपाण्डुहृद्दीपनी परा। शोफानिलगरश्लेष्म हरी ब्रध्नोदरप्रणुत्। पुनर्नवाऽपरा रक्ता रक्तपुष्पानि लाटिका। शीथघ्नी क्षुद्रवर्षाभूर्बर्षकेतुः कटिल्लकः। पुनर्नवाऽरुणा तिक्ता कटुपाका हिमा लघुः। वातला ग्राहिणी श्लेष्मपित्तरक्तविनाशिनी”।

पुनर्नवामण्डूर = न० चक्रपाणिदत्तीक्ते औषधभेदे “पुनर्नवात्रिवृच्छुण्ठीपिप्पलीमरिचानि च। विडङ्गं देवकाष्ठञ्च चित्रकं पुष्कराह्वयम्। त्रिकलां द्वे हरिद्रे च दन्तीञ्च चविकन्तथा। कुटजस्य फलं तिक्तां पिप्पली मलमुस्तकम्। एतानि समभागानि मण्डूरं द्विगुणं ततः। गोमूत्रेऽष्टगुणे पक्त्वा स्थापयेत् स्निग्धभाजने। पाण्डुशोथोदरानाहशूलार्शःक्रिमिगुल्मनुत्”।

पुनर्भव = पु० छिन्नोऽपि पुनर्भवति भू–अप। १ नखे अमरः इभूयोजाते त्रि०। भावे अप। ३ पुमरुपादे पु० कुमा० ३ सर्ग-

पुनर्भू = स्त्री पुनर्भवति जायात्वेन भू–क्विप। एकेन व्यूढायां पुनरन्यगृहीतायां भार्य्यायाम् अन्यपूर्वायाम् अन्यपूर्वाशब्दे २१३ पृ० दृश्यम्।

पुनर्मृत्यु = पु० भूयोभूयो मृत्युः। भूयोभूयोमरणे शत० ब्रा० २। ३३। २०।

पुनर्यच = पु० भूयः कार्ये यज्ञे। कात्या० श्रौ० २५। १। २० भाष्यम्।

पुनर्यात्रा = स्त्री १ प्रत्यागतौ जगन्नाथस्य पुनर्वारं २ रथयात्रायाञ्च “पुनर्यात्रा विधातव्या तथैव नममेऽहनि” ति० त०। सा च द्वितीयातो नवमदिने दशम्यां कर्त्तव्याऽहन्शब्दस्य चान्द्रदिनपरत्वात्। ३ पुनर्वारगमने च।

पुनर्वत् = त्रि० पुनः पुनःशब्दोऽस्त्यस्य मतुप् मस्य वः। पुनः शब्दयुक्ते कात्या० २ १। १०। २७ भाष्यम्।

पुनर्वसु = पु० पुनर् + वस–उ। १ विष्णौ “विश्वयोनिः पुगर्वसुः” विष्णुस० पुनः पुनः सर्बशरीरेषु क्षेत्रज्ञरूपेण वसतीति पुनर्वसुः, भाष्यम्। २ शिये च अश्विन्यवधिके सप्तमे ३ नक्षत्रे द्वि० व० ४ कात्यायनमुनौ ५ लोकमेदे ६ धनारम्भे च शब्दच०। अश्विन्यादिषु मध्ये सप्तमनक्षत्रस्वरूपाथिदेवादि अश्लेषाशब्दे ४९७ पृ० दर्शितम्। तदीयाद्यचरणत्रयं मिथुनराशिघटकम् शेषपादस्तु कर्कटराशिघटकः। तस्य द्विवचनान्तत्वं तु प्रायिकं “पुनर्बसौ कृतो विप्रः” इत्यादिप्रयोगात्। नक्षत्रार्थे तिष्येण सह द्वन्द्वे अस्य द्विवचनान्तता, तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू पुनर्वसुनक्षत्रस्य द्विवचमत्वेन वहुत्वे प्राप्ते द्वित्वविधानम्। कुकुरवंश्ये ४ नृपभेदे हरिवं० ४२ अ०

पुन्नाग = पु० पुमान् नाग इव श्रेष्ठत्वात् म इव वा। १ स्वनाम ख्याते पुष्पप्रधाने पृक्षे अमरः “पुन्नःगपुष्पं मधुरं सुगन्धि शीतलं तथा। मत्रप्रसादनकरं पित्तनाशनमेव तत्” राजनि०। २ सितोत्पले १ जातीफले ४ नरश्रेष्ठे ५ पाण्डुनागे च मेदि०।

पुन्नाट(ड) = पु० पुमानिव नाटयति नाटि–अच्। चक्रमर्दे राजनि०। नाडि–अच्। पुन्नाडोऽप्यत्र।

पुन्नामन् = पु० पुदिति नामास्य। १ नरकभेदे “पुंनाम्नो नरकात् यस्मात्” मनुः। तन्नरकगतिकारणञ्च षोडशविधं यथोक्तं वामनपु० ५८ अध्याये “परदाराभिगमनं पापानाञ्चोपसेवनम्। पारुष्यं सर्वभूतानां प्रथमं नरक ऋतम्। फलस्तेयं महापापं फलार्हस्य च पाटनम्। पाटनं वृक्षजातीनां द्वितीयं परिकीर्त्तितम्। वर्ज्यादानं तथा द्विष्टमवध्यबधबन्धनम्। विवादित्वमहेतूत्यं तृतीयं नरकं ऋतम्। मयदं सर्वसत्त्वानां नरभूतिविनाशनम्। भ्रंशनं निजधर्माणां चतुर्थं नरकं ऋतम्। मारणं मित्रकौटिस्त्यं मिथ्यामिशपनञ्च यत्। मिष्टैकाशनमित्युक्तं पञ्चमञ्च विपाचनम। प्ररोहणं यन्त्रकर वमनं योगनाशनम्। यान मुख्यस्य हरणं षष्ठमुक्तं नृपार्थनम्। राजभागस्य हरण राजजायानिषेवणम्। राज्ये त्वहितकारित्वं सप्तमं नरकं स्मृतम्। स्तब्धत्वं लोलुपत्वञ्च लब्धधर्मार्थनाशनम। नानाकर्मकरं प्रोक्तमष्टमं वरकं स्मृतम्। ब्रह्मस्वहरणञ्चैव ब्राह्मणानां विनिन्दनम्। विरोधो ब्राह्मणैश्चोक्तो नवभो नरकस्त्वयम्। शिष्टाचारविनाशञ्च मित्रद्वेषं शिशोर्बधम्। शास्त्रस्तेयं धर्मशून्यं दशमं परिचक्षते। षडङ्गनिधनं घोरं षाड्गुण्यप्रतिषेधनम्। एकादशममेवोक्तं नरकं सद्भिरुत्तम!। सद्भिरुक्तं सदाचारं विना चारोह्यसत्क्रिया। संस्कारपरिहीनत्वमिदं द्वादशमं स्मृतम्। हानिर्धर्मार्थकामानामपवर्गस्य हारणम्। स्वर्गहर्तुश्च मतिदं त्रयोदशममुच्यते। संमलं धर्महीनञ्च यद्वर्ज्यं यच्च दोषजम्। चतुर्दशकमेवाक्तं नरकं सद्विगर्हितम्। अज्ञानञ्चाप्यनिष्ठत्वमशौचमशुभावहम्। गर्ह्यं तत्पञ्चदशकमसत्यवचनानि च। आलस्यं चाततायित्वमगारष्वग्निदापनम्। इच्छा च परदारेषु नरकाय निगद्यते। ईर्ष्याभावश्च सभ्येषु औद्धत्यन्तु विगर्हितम्। एतैस्तु पापैः पुरुषः पुन्नामनरके पतेत्। पुन्नामनरकं घोरं विनाशं प्राह सर्वतः। एतस्मात् कारणात् त्राता ततः पुत्त्रा निगद्यते”। पुमान् पुंलिङ्गनामास्यनक्षत्रगणभेद “हस्तो मूलश्रवणपुनर्वसुमृगशिरस्तथा पुष्यः। गर्भाधानादिकार्य्यषु पुन्नामायं गणः शुभदः” ज्यो० त०।

पुप्पुट = पु० “दन्तवेष्टः सोपकुशः पीतामो दन्तपुष्पुटः” इति सुश्रुतोक्ते १ क्षुद्ररोगे “नीरुक् स्वायी कोलमात्रः कफात् स्यात् मेदोयुक्तात् पुष्पुटस्तालुदेशे” तत्रोक्ते २ तालुगते रोगभेदे च।

पुप्पुस = पु० (फोफरा) ख्याते १ क्लोमे पद्मबीजाधारे २ बीज कोषे च हेमच०। फुप्फुष इति पाठान्तरं तत्रार्थे।

पुमस् = पु० पाति पा–पालने “पातेर्डुमसुन्” उणा० डुमसुन्। १ पुरुषे २ मनुष्यजातिमात्रे च अमरः। सत्त्वप्रधानत्रिगुणकार्ये शब्दसंस्कारविशेषयुक्ते शब्दे च। सर्वनामस्थाने परे असुन् पुमांसौ पुमास इत्यादि समासे पदान्तत्वे अम्- परे खयि परे रुः तस्य च सः। पुंस्कोकिल इत्यादि। बहुब्रीहौ उरःपभृतित्वात् नित्यं कप्। स पुंस्का अपुंस्का इत्यादि।

पुमनुजा = स्त्री पुमांसमनुरुध्य जायते “अनौ कर्मणि” पा० (अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात्) अमु + जन–ड पुर्मासमनुरुध्य जाता पुमनुजा” सि० कौ०। “इह जनिः सकर्मकः अनुरोधविशिष्टजननवृत्तित्वात्” तत्त्वकौ० पर्दान्तत्वेन अन्त्यलोपः। पुरुषानन्तरजातायां भगिन्याम्।

पुमपत्य = न० पुंरूपमपत्यम्। पुंरूपापत्ये अमरः।

पुमाख्या = स्त्री ६ त०। १ पुरुषसंज्ञायां पुमांसमाख्याति आ + ख्या–क। “जातिभेदाः पुमाख्याश्च” अमरोक्ते २ पुरुवाचकशब्दे पु०।

पुम्भूमन् = पु० ६ त०। पुलिङ्गबहुत्वे अमरः।

पुर = अग्रगतौ तु० पर० सक० सेट्। पुरति अपोरीत्।

पुरःसर = त्रि० पुरोऽग्रे सरति सृ–ट। अग्रगामिणि स्त्रियां ङीप्।

पुर = न० पुर–अग्रगमने क। १ गेहे २ देहे पाटलिपुत्रे ३ नगरभेदे ४ कुसुमदलवृत्तौ मेदि० ५ नागरमुस्तायां रत्नमा० ६ चर्मणि शब्दर० ७ गृहोपरिगृहे च विश्वः। ८ बहुग्रामीणव्यवहारस्थाने वहुहट्टादियुक्ते प्रधानग्रामे न० स्त्री श्रीधरः। स्त्रीत्वे ङीप्। ९ पीतझिण्ट्याम् अमरः घान्यादिचये १० राशौ ११ गुग्गुलौ च पु० शब्दच० पॄ–क। १२ पूर्णे प्रचुरे त्रि०। नगरशब्दे ३९३६ पृ० पुरीशब्दे च दृश्यम्। पुरे वर्णनीयपदार्थाः कविकल्पलतायामुक्ता यथा “पुरे हट्टप्रतोली च परिखातोरणध्वजाः। प्रासादाध्वप्रपारामवापीवेश्यासतीत्वरी”।

पुरग = त्रि० पुरं गच्छति गम–ड। नगरगामिणि ततः कृशाश्वा० चतुरर्थ्यां छण्। पौरगीय तत्सन्निकृष्टदेशादौ। कोटरादि० वनशब्दे परे दीर्घः कृतदीर्घात् परस्य वनस्य णत्वम्। पुरागवण नगरगतवने।

पुरजित = पु० पुरं त्रिपुरासुरं जितवान् जि–भूते क्विप्। १ त्रिपुरारौ शिवे त्रिपुरघ्नशब्दे ३३७ पृ० दृश्यम् २ चन्द्रवंश्ये नृपभेदे च “अजोऽथ पुरजितसुतः” भाग० ९ १३ १३ श्लो०।

पुरज्योतिस् = पु० पुरं प्रचुरं ज्योतिरस्य। वह्नौ शब्दार्थक०

पुरञ्जन = पु० पुरं देहरूपक्षेत्रं जनयति जनि–वा० ख। क्षेत्रज्ञे जीवे “पुरुषं पुरञ्जनं विद्याद् यद्व्यनक्त्यात्मनः पुरम्। एकद्वित्रिचतुष्पादं बहुपादमपादकम्” भाग० ४। २९। ४ श्लो० १ तदधिष्ठानरूपायां २ बुद्धौ स्त्री ङीप् भाग० ४। २५ २९ अध्याये पुरञ्जनीपाख्याने दृश्यम्।

पुरञ्जय = पु० ऋक्षेयुवंश्ये मृञ्जयपुत्रे १ नृपभेदे हरिवं० ३१ अ० २ सूर्यवंश्ये काकुत्स्थे त्रिका०। “पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः। काकुत्स्थ इति चाप्युक्तः” भाग० ९। ६। १२ श्लो०।

पुरट = न० पुर–बा० अटन्। सुवर्णे “पुरटलतारूढस्थलविहङ्गमिथुनैः” भाग० ५ २ ५ “पुरटलता स्वर्णबल्यः” श्रीधरः

पुरण = पु० पॄ–क्यु। समुद्रे उज्ज्वलदत्तः।

पुरतटी = स्त्री पुरस्था तटीव। क्षुद्रहट्टे हारा०।

पुरतस = अव्य० पुर–अतसुच्। अग्रत इत्यर्थे अमरः।

पुरद्वार = न० ६ त०। गोपुरे नगरप्रवेशद्वारे अमरः।

पुरद्विष् = पु० पुराणां मयनिर्मितानां नगरभेदानां दाहकत्वात् द्विट् द्विष–क्विप् ६ त०। शिवे जटा० त्रिपुरघ्नशब्दे ३३७२ पृ०

पुरन्दर = पु० पुरः शत्रूणां दारयति “पूःसर्वयीदारिसहोः” पा खच्। “वाचंयमपुरन्दरौ” पा० नि०। १ इन्द्रे अमरः। तस्य शत्रुपुरदारकत्वात् तथात्वम्। स च वैवस्वतमन्वन्तरे इन्द्रभेदः भाग० ८ १३२ दृश्यम् २ ज्येष्ठानक्षत्रे। ३ विष्णौ “आदिदेवः पुरन्दरः” विष्णुस०। ४ चव्ये (चै) ख्याते न० शब्दच० ५ गङ्गायां स्त्री हारा०।

पुरन्धि = स्त्री द्वि० व० १ द्यावापृथिव्योः निघण्टुः। बहु इष्टकाजातं दधति पुरुधा बहुधा धीयते स्थाप्यते वा धा–कि पृषो०। २ इष्टकाभेदे यजु० १४। २ वेददी० ३ बहुबुद्धौ स्त्री “कक्षीवते अरदतं पुरन्धिम्” ऋ० १। ११६। ७ पुरन्धिर्बहुधिरिति यास्कः पृषोदरःदित्वात् पुरन्धिभावः। यद्वा पुरं पूरयितव्यं सर्वविषयजातमस्यां धीयतेऽवस्थाप्यत इति पुरन्धिर्वद्धिः कर्मण्यधिकरणे चेति दधातेः किप्रत्ययः। “तत्पुरुके कृति बहुलमिति” पा० बहुलवचनादलुक् इदं तु व्युत्पत्तिमात्रं वस्तुतः पृषोदरादिरेव” माधवभाष्यम्। पुरन्धिः अस्त्यस्य मतुप् “छन्दसीरः पा० भस्य वः पुरन्धिवत् ऋ० ९७।२।८ तद्युते त्रि०

पुरन्ध्रि(न्ध्री) = पुरं गेहस्थजनं धारयति पालयति धृ–खच् ङीप् पृषो० वा ह्रस्वः। बहुकुटुम्बवत्याम्, पतिपुत्रवत्याञ्च स्त्रियां, “गृहेगृहे व्याग्रपुरन्ध्रिवर्गम्” कुमा०।

पुरपाल = पु० पुरं नगरं देहं वा पालयति पालि–अण्। १ नगरपाले २ देहपालके जीवे च।

पुरभिद् = पु० पुराणि त्रिपुरासुरपुराणि भिनत्ति–भिदक्विप्। महादेवे शिवे हेमच० त्रिपुरघ्नशब्दे दृश्यम्। पुरभेदनादयोऽप्यत्र।

पुरमथन = पु० पुरं त्रिपुरासुरं मथ्नाति मथ–ल्यु। शिवे

पुरमार्ग = पु० ६ त०। नगरमार्गे कुमा० ४ ११ श्ले०।

पुरमानिनी = स्त्री नदीभेदे भा० भी० ९ अ०।

पुरय = पु० नृपभेदे ऋ० ६६३९ भा०।

पुररक्ष = पु० पुरं रक्षति रक्ष–अण् उप० स०। नगररक्षके णिनि ६ त०। पुररक्षिन् तत्रार्थे।

पुरला = स्त्री पुर–कलच्। दुर्गायां हेमच०।

पुरवासिन् = त्रि० पुरे वसति णिनि। नगरवासिनि पौरे जने स्त्रियां ङीप्।

पुरशासन = पु० पुरं शास्ति शास–ल्यु। महादेवे कुमा० ७। ३०

पुरश्चरण = न० पुरस् + चर–भावे ल्युट्। १ अग्रत आचरणे तन्त्रोक्ते २ गृहीतमन्त्रसिद्धिहेतुप्रयोगभेदे तत्प्रकारादि तन्त्रसारे उक्तं यथा “अथ पुरश्चरणं योगिनीहृदये “गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः। ततः पुरस्क्रियां कुर्य्यान्मन्त्रसंसिद्धि काम्यया”। तस्य नित्यतामाह “जीवहीनो यथा देही सर्वकर्मसु न क्षमः। पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्त्तितः। तस्मादादौ स्वयं कुर्य्याद्गुरुं वा कारयेद्बुधः” योगिनीहृदये “गुरोरभावे विप्रं वा सर्वप्राणिहिते रतम्। स्निग्धं शास्त्रविदं मित्रं नानागुणसमन्वितम्। स्त्रियं वा सद्गुणोपेतां सपुत्रां विनियोजयेत्। आदौ पुरस्क्रियां कर्तुं स्थाननिर्णय उच्यते”। योगिनी हृदये “पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम्। तीर्थप्रदेशाः सिन्धतां सङ्गमः पावनं वनम्। उद्यानानि विविक्तानि बिल्वमूलं तटं गिरेः। तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम्। अश्वत्थामलकीमूलं गोशाला जलमध्यतः। देवतायतनं कूलं समुद्रस्य निजं गृहम्। साधने तु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम्। अथ वा निवसेत्तत्र यत्र चित्तं प्रसीदति”। वायवीयसंहितायामपि “सूर्यस्याग्रे गुरोरिन्दोर्दीपस्य च जलस्य च। विप्राणाञ्च गवां चैव सन्निधौ शस्यते जपः”। तथा “गृहे शतगुणं विद्याद्गोष्ठे लक्षगुणं भवेत्। कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ। गृहे गोष्ठे तडागे च नदीनदशिवालये। गुरोर्वा सन्निधिर्यत्र स जपः परमोमतः। म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवर्जिते। एकान्तप्रवणे निन्दारहिते भक्तिसंयुते। स्वदेशे धार्मिके देशे सुभिक्षे निरुपद्रवे। रम्ये भक्तजनस्थाने निवसेत्तापसः प्रिये!। गुरूणां सन्निधाने च चितैकाग्र्यस्थले तथा। प्रेतभूम्यादिकञ्चैव तत्तत्कल्पप्रकाशितम्। एषामन्यतभं स्थानमाश्रित्य जपमाचरेत्। यत्र ग्रामे जपेन्मन्त्री तत्र कूर्मं विचिन्तयेत्” गौतमीये “पर्व्वते सिन्धुतीरे वा पुण्येऽरण्ये नदीतटे। यदि कुर्य्यात् पुरश्चर्य्यां तत्र कूर्मं न चिन्तयेत्। ग्रामे वा यदि वा वास्तौ गृहे तञ्च विचिन्तयेत्” रुद्रयामले “जपमेकगुणं गेहे गोष्ठे दशगुणं भवेत्। वनान्तरे शतगुणं तडागे च सहस्रकम्। नदीतीरे लक्षगुणं नगाग्रे कोटिसम्मितम्। शिवालये कोटिशतमनन्तं गुरुसन्निधौ”। अथ पुरश्चरणे भक्ष्यादिनियमाः गौतमीये “पुरश्चरणकृन्मन्त्री तत्र भक्ष्यं विवेचयेत्। अन्यथा भोजनाद्दोषात् सिद्धिहानिः प्रजायते। शस्तान्नञ्च समश्नीयान्मन्त्रसिद्धिसमीहया। तस्मान्नित्यं प्रयत्नेन शस्तान्नाशी भवेन्नरः”। अगस्त्यसंहितायाम् “तिलाश्चैव सितामुद्गाः कन्दः केमुक वर्जितः। नारिकेलफलञ्चैव कदली लवनी तथा। आम्रप्तामलकञ्चैव पनसञ्च हरीतकी। व्रतान्तरे प्रशस्तञ्च हविष्यं मन्यते बुधैः”। व्रतान्तर इति “हैमन्तिक सितास्विन्नं धान्यं मुद्गास्तिला यवाः। कलायकङ्कुनीवारा वास्तूकं हिलमोचिका। षष्टिकाः कालशाकानि मूलकं केमुकेतरत्। लवणे सिन्धुसामुद्रे गव्ये च दधिसर्पिषी। पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी। पिष्पलीजीरकञ्चैव नागरङ्गकतिन्तिडी। कदली लवनो धात्री फलान्यगुडमैक्षवम्। अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते। भुञ्जनो वा हविष्यान्नं शाकं यावकमेब वा। पयोमूलं फलं वापि यत्र यत्रोपलभ्यते। रम्भाफलं तिन्तिडीकं कमलानागरङ्गकम्। फलान्येतानि भोज्यानि एभ्योऽन्यानि विवर्जयेत्” यत्तु योगिनी तन्त्रे “चिञ्चाञ्च नालिकाशाकं कलायं लकुचन्तथा। कदम्बं नारिकेलञ्च व्रते कुष्माण्डकं त्यजेत्” इति तत्तु व्रतान्तरे बोद्धव्यम्। तथा वर्ज्यानि “विवर्जयेन्मधुक्षार लवणं तैलमेव च ताम्बूलं कांस्यपात्रञ्च दिवाभोजनमेव च”। तथा “क्षारञ्च लवणं मांसं गृञ्जनं कांस्यभोजनम्। माषाढकीमसूरांश्च चनकान् कोद्रवानपि। कौटिल्यं क्षौरमभ्यङ्गमनिवेदितभोजनम्। असङ्कल्पित कृत्यञ्च वर्जयेन्मर्दनादिकम्। स्नायाच्च पञ्चगव्येन केवलामलकेन वा। मन्त्रजाप्यन्नपानीयैः स्नानाचननभोजनम्। कुर्थ्याद्यथोक्तविधिना त्रिसन्ध्यं देवतार्चनम्। अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा। प्रलपन् प्रजपेद्यावत्तावन्निस्कलमुच्यते”। नारदीये “मृदु सीष्णं सुपक्वञ्च कुर्य्याद्वै लघुभोजनम्। नेन्द्रियाणां यथावृद्धिस्तथा भुञ्जीत साधकः”। कुलार्णवेऽपि “यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम्। अन्नदातुः फलस्यार्द्धं कर्तुश्चार्द्धं न संशयः। तस्मात्सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः। पुरश्चरणकाले तु सर्वकर्मसु शाम्भवि!। जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात्। मनोदग्धं परस्त्रीभिः कथं सिद्धिर्वरानने!” परान्नं भिक्षेतरविषयम्। भिक्षायां तस्य सत्वोत्पादात् तथा च “वैदिकाचारयुक्तानां शुचीनां श्रीमतां सताम्। सत्कुलस्थानजातानां भिक्षा स्यादग्रजन्मनाम्” योगिनीहृदये “विहाय वह्निं न हि वस्तु किञ्चित् ग्राह्यं परेभ्यः सति सम्भवे च। असम्भवे तीर्थबहिर्विशुद्धात् पर्वातिरिक्ते प्रतिगृह्य जप्यात्। तत्रासमर्थोऽनुदितं विशुद्धाद्याचेतयावद्दिनमात्रंभक्ष्यम्। गृह्णाति रागादधिकं न सिद्धिः प्रजायते कल्पशतैरनुष्य”। सकृदुच्चरिते शब्दे प्रणवं स मुदीरयेत्। प्रोक्ते पारशवे शब्दे प्राणायामं सकृच्चरेत्। वहुप्रलापी आचम्य न्यस्याङ्गानि ततो जपेत्। क्षुतेऽप्येवं तथाऽस्पृश्यस्थानानां स्पर्शनेन च। एवमादींश्च नियमान् पुरश्चरणकृच्चरेत्। विण्मूत्रोत्सर्गशङ्कादियुक्तः कर्म करोति यः। जपार्चनादिकं सर्वमपवित्रं भवेत् प्रिये!। मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः। यो जपेत्तं दहत्याशु देवता गुप्तिसंस्थिता। आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम्। नीचाङ्गस्पर्शनं कोपं जपकाले विवर्जयेत्। एवमुक्तविधानेन विलम्बं त्वरितं विना। चक्तसङ्ख्यं जपं कुर्य्यात् पुरश्चरणसिद्धये। देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया। जपेदेकमनाः प्रातःकालान्मध्यन्दिनावधि। यत्सङ्ख्यया समारब्धं तत्कर्त्तव्य महर्निशम्। यदिन्यूनाधिकं कुर्य्यात् व्रतभ्रष्टो भवेन्नरः”। मुण्डमालायाम् “यत्सङ्ख्यया समारब्धं तज्जप्तव्यं दिने दिने। न्यूनाधिकं न कर्त्तव्यमासमाप्तं सदा जपेत्। प्रजपेदुक्तसंख्यायाश्चतुर्गुणजपं कलौ”। अन्यत्रापि “कते जपस्तु कल्पोक्तो त्रेतायां द्विगुणो जपः। द्वापरे त्रिगुणः प्रोक्तश्चतुर्गुणजपः कलौ”। कुलार्णवेऽपि “न्यूनातिरिक्तकर्माणि न फलन्ति कदाचन। यथाविधि कृतान्येव तत्कर्माणि फलन्ति हि। भूशभ्याव्रह्मचारित्वं मौनमाचार्य्य सेविता। नित्यं त्रिषवणं स्नानं क्षुद्रकर्मविवर्जनम्। न्मित्यपूजा नित्यदानं देवतास्तुतिकीर्त्तनम्। नैमित्तिक्तार्चनञ्चैव विश्वासो गुरुदेवथोः। जपमिष्टा द्वा- दशैते धर्माः स्युर्मनासिद्धिदाः। स्त्रीशूद्रपतितब्रात्य नास्तिकोच्छिष्टभाषणम्। असत्यभाषणं जिम्भभाषणं परिवर्जयेत्। सत्येनापि न भाषेत जपहोमार्चनादिषु। अन्यथानुष्ठितं सर्वं भवत्येव निरर्थकम्”। तन्त्रे “ऋतुकाल विना मन्त्री खस्त्रियं नापि संस्पृशेत्। मैथुनं तत्कथालापं तद्गोष्ठीः परिवर्जयेत्। पुरश्वरणकाले तु यदि स्यान्मृतसूतकम्। तथापि कृतसंकल्पो व्रतं नैव परित्यजेत्” योगिनीहृदये “शयीत कुशशय्यायां शुचिवस्त्रधरः सदा। प्रत्यहं क्षालयेत् शव्यामेकाकी निभेयः स्वपेत्। असत्यभाषणं वाचं कुटलां परिवर्जयेत्। वर्जयेद्गीतवाद्यादिश्रपणं नृत्यदर्शनम्। अम्यङ्गं गन्धलेपञ्च पुष्पधारणमेव च। त्यजदुष्णोदकस्नानमन्यदेव प्रपूजनम्”। तत्रैव “नैकवासा जपेन्मन्त्रं वहुवासाकुलोपि वा”। वैशम्पायनसंहितायाम् “विपयासं न कुर्य्याच्च कदाचिदपि मोहतः। उपर्य्यधो बहिर्वस्त्रे पृरश्चरणकृन्नरः। विनियोगविधाने तु भवेदनियसः क्वचित्। पतितानामन्त्यजानां दर्शने भाषणे श्रुते। क्षुतेऽधो वायुगमने जृम्भणे जपमुत्सृजेत्। तथा तस्य च तत्प्राप्तौ प्राणायामं वडङ्गकम्। कृत्वा सम्यग् जपेच्छेषं यद्वा सूर्य्यादिदर्शनम्”। आदिशब्दाद्वह्निब्राह्मणौ। तन्त्रान्तरे “मनःसंहरणं शौच मौनं मन्त्रार्थचिन्तनम्। अव्यग्रत्वमनिर्वेदो जपसम्पत्तिहेतवः। उष्णीपी कञ्चुकी नग्नो सुक्तकेशो मलावृतः। अपवित्रकराऽशुद्धः पलपन्न जपेत् क्वचित्। अनासीनः शयानो वा गच्छन् भुञ्जान एव वा। अप्रावृतौ करौ कृत्वा शिरसि प्रावृतोऽपि वा। चिन्ताव्याकुलचित्तो वा क्षुब्धो भ्रान्त क्षुधान्वितः। रथ्यायामशिवे स्थाने न जप्रेत्तिमिरान्तरे। उपानद्मूढपादो वा यानशय्यागतन्तथा। प्रसार्य्य न जपेत् पादावुत्कटासन एव वा। न यज्ञकाष्ठे पाषाणे न भूमौ नासने स्थितः। मार्ज्जारं कुक्कुटं क्रौञ्चं श्वानं शूद्रं कपिं स्मरम्। दृष्ट्वाचम्य जपेच्छेषं स्पृष्ट्वा स्नानं पिधीयते”। “एवं जपं पुरा कृत्वा तेजोरूषं समर्पयेत्। देवस्य दक्षिणे हस्ते कुशपुष्पार्घवारिभिः। सफलं तद्विमाव्यैव प्राणामामं समाचरेत्। जपस्यादौ जपान्ते च त्रितयं त्रितयञ्चरेत्”। शक्तिविषये देव्या वामहस्ते तथा च “एवं जपं पुरा कृत्वा गन्धाक्षतकुशोदकैः। जपं समर्पयेद्देव्या वामहस्ते विचक्षणः”। “जपान्ते प्रत्यहं मन्त्री होमयेत्तद्दशांशतः। तर्पणञ्चाभिषेकञ्च तत्तद्दशांसतो मुने!। प्रत्यहं भोजयेद्विप्रान् न्यूनाधिक्यप्रशान्तये। अथ वा सर्वसम्पूर्त्तौ होमादिकमयाचरेत्”। मुण्डमालायाम् “तस्य यावान् जपः प्रोक्तस्तद्दशांशमनुक्रमात्। तत्तद्द्रय्यैर्जपस्यान्ते होमं कुर्ब्याद्दिने दिने”। पुरश्चरणचन्द्रिकायाञ्च “ततो जपदशांशेन होमं कुर्य्याद्दिने दिने। अथ वा लक्षसंख्यायां पूर्णायां होममाचरेत्”। तथ होमाद्य शक्तौ सनत्कुमारीये “यद्यदङ्गं भवेद्भग्नं तत्संख्याद्विगुणो जपः। होमाभावे जपः कार्य्यो होमसंख्याचतुर्गुणः। विप्राणां, क्षत्रियाणाञ्च रससङ्ख्या गुणः स्मृतः। वैश्यानां वसुसंख्याकमेवं स्त्रीणामयं विधिः। यं वर्णमाश्रितः शूद्रः स च तस्य विघिञ्चरेत। अनाश्रितस्य शूदस्य दिक्संख्याकः समीरितः। शूद्रस्य विप्रभृत्यस्य तत्पत्न्याः सदृशो जपः”। अत्राव्यशक्तश्चेद्योगिनीहृदये “होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः। इतरेषान्तु वर्णानां त्रिगुणादिः समीरितः। त्रिगुणादिः होमसंख्यात्रगुणजपः क्षत्रियेण कार्य्यः। वैश्येन चतुर्गुणः। शूद्रेण पञ्चगुणः कार्यः। तदुक्तं कुलप्रकाशे “यद्यदङ्गं विहीनं स्यात्तत्संख्याद्विगुणो जपः। कुर्वीत त्रिचतुःपञ्च यथासख्यं द्विजादयः”। एतेन स्त्रीशूद्रादीनां होमाधिकारः। तथा च शूद्राणां त्र्यस्रमिति कुण्डप्रकरखे शारदायाम्। स्त्रीणां होमाधिकारश्च तत्रैव “लाजैस्त्रिमधुरोपेतैर्होमः कन्यां प्रयच्छति। अनेन विधिना कन्या वरमाप्नोति वाञ्छितम्”। अत स्त्रीआं होमाविकारः। तच्च ब्राह्मणद्वारा तथा च तन्त्रे “ओद्धारोच्चारणाद्धोमात् शालग्रामशिलार्चनात्। ब्राह्मणीगमनाच्चैव शूद्रश्चाण्डालतां व्रजेत्”। तथा स्त्रीणामपि सर्ववैदिककर्मसु शूद्रतुल्यत्वप्रतिपादनात् यथा “स्त्रीशूद्रकृरसंस्पर्शो वज्रषातसमो मम” इति भगवद्वचनात् तथा नारायणकल्पे “अष्टाक्षरो महामन्त्रः स प्रार्णः शूद्रयोषितोः। प्रणवादिस्तु यो मन्त्रो न स्त्रीगूद्रे पशस्यते” इति सर्वत्र स्त्रीणां शूद्रव्यवहारः। सर्वेषां वा द्विगुणो जपः। तथा च तन्त्रान्तरे “यद्यदङ्गं विहीवेत तत्संख्याद्विगुणो जपः। कर्त्तव्यश्चाङ्गसिड्यर्थं तदशक्तेन भक्तितः। न चेदङ्गं विहीयेत तद्विशिष्टमवाप्नुयात्” तथागस्त्यसंहितायाम् “यदि होमेऽप्यशक्तः स्यात् पूजायां तर्पणेऽपि वा। तावत्संख्यजपेनैव ब्राह्मणारारधनेन च। मवेदङ्कद्वयेनैव पुरश्चरणमाप्यते”। तत्र ब्राह्मणमोजनमावश्यकमेव “सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये। विप्राराधाममात्रेण व्यङ्गं साङ्गं भवेद्ध्रुवम। दीक्षाहीनान् पशून् यस्तु भोजयेद्वा स्वमन्दिरे। स याति परमेशानि! नरकानेकविंशतिम्”। पशुद्विधा अदीक्षितः कुलाचारनिन्दकश्च यथा कुलार्णने “अदीक्षितः कुलाक्षारनिन्दको द्विविधः पशुरिति”। नैवेद्यदानेऽपि “न पशुभ्यो न वाऽद्विजे” इति निन्दाश्रवणाच्च सर्वत्रायं विधिरिति सम्प्रदायः। “एवं यः कुरुते देवि पुरश्चर्य्यादिकं प्रिये। सर्वपापविनिर्मुक्तो देवलायुज्यमाप्नुयात्”। ततश्च “गुरवे दक्षिणान्दद्याद्भोजनाच्छादनादिनिः। गुरुसन्तोधमात्रेख मन्त्रसिद्धिर्भवेत् ध्रुवम्। सम्यकसिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन च। सर्वे मन्त्राश्च सिद्ध्यन्ति तत्प्रसादात् सुरेश्वरि!। गुरुमूलमिद सर्वमित्याहुस्तन्त्रवेदिनः। एकग्रामे स्थितो नित्यं गत्वा वन्देत वै गुरुम्। गुरुरेव परंव्रह्म तस्मादादौ तमर्चयेत्। तदन्ते महतीं पूजां कुर्य्यात् साधकसत्तमः। सुवासिनीं कुमारीञ्च भूषणैरमिभूषयेत्। मिष्टान्न वहुशः कार्य्यं भुञ्जीत बान्धवैः सह। एवंसिद्धमनुर्मन्त्री साधयेत् सकलेप्सितान्”। तन्त्रे “अथ वान्यप्रकारेण पुरश्चरणमिव्यते। ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः। नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः। ग्रासाद्विमुक्तिपर्य्यन्तं जपेन्मन्त्रमनन्यधीः। इति कृत्वा न सन्देहो जपस्य फलभाग भवेत्”। नद्यभावे “यद्वा पुण्योदके स्तात्वा शुचिः पूर्वमुपोषितः। ग्रहणादिविनीक्षान्तं जपेन्मन्त्रं समाहितः” उपवासासामर्थ्ये तु तत्रैव “अथ वान्यप्रकारेण पौरश्चारणिको विधिः। चन्द्रसूर्योपरागे च स्नात्वा प्रयतमानसः। स्पर्शाद्विमोक्षपर्य्यन्तं जपेन्मन्त्रं समाहितः। जपाद्दशांशतो होमं तथा होमात्तु तर्पणम्। एवं कृत्वा तु मन्त्रस्य जायते सिद्धिरुत्तमा। चन्द्रसूर्य्योपरागे तु ये शक्ताः परसेविनः। तेषां विद्या न सिद्ध्यन्ति परं नरकगामिनः। सूर्य्याचन्द्रमसोः पर्व प्राप्यापि च पुरस्क्रियाम्। ये मूढा न च कुर्वन्ति ते भवन्ति कुलद्रुहाः” इति कुलार्णवनचनात् पुरश्चरणस्वावश्यकत्वमेवेति। गोपालमन्त्रतर्पणं तु होम समसंख्यकं यथा “इह गोपालमन्त्राणां तर्पणं होमसंख्यया” इति। “दृष्ट्वा ज्ञात्वा ससङ्कल्पो विमोक्षान्तं जपञ्चरेत्। तावद्यज्ञादिकं कुर्थाद्ग्रहणान्ते शुचिःपुमान्। एवंजपे मन्त्रसिद्धिर्भवत्येव न संशयः”। ग्रहणे जपस्यावश्यकत्वम् “श्राद्धादेरनुरोधेन यदि जाप्यं त्यजेन्नर। स भवेद्देवताद्रोही पितॄन् सप्त नयत्यधः” इति सनत्कुमारीयवचनादिति केचित्। वस्तुतस्तु आरब्ध पुरश्चरणविषयमिदम्। तथा हि “आरब्धे पुरश्चरणे यदि ग्रहो मवेत् तदा। श्राद्धादेरनुरोधेन जपं नैव त्यजेत् नरः”। एवं रात्रावपि पुरश्चरणे बोद्धव्यम् इति सर्वसमञ्जसम्। नारदतन्त्रे “रोहिणी श्रवणार्द्रा च घनिष्ठा चोत्तरात्रयम्। पुष्या शतभिषा हस्ता पुरश्चरणकर्मणि। पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा। त्रयोदशी च दशमी प्रशस्ता सर्वकर्मणि। सत्तीर्थेऽर्कविधु ग्रासे तन्तुदामनपर्वणि। पुरश्रर्य्यां प्रकुर्वाणो मासर्क्षादीन् न शोधयेत्”। योगिनीहृदये “कल्पोक्तबिधिना मन्त्री कुर्य्याद्धोमादिकन्ततः। कथ वा तद्दशांशेन होमादींश्च समाचरेत्” तथा “अनन्तरं दशांशेन क्रमाद्धोमादिकञ्चरेत्। वदन्ते महतीं पुजां कुर्य्यात् ब्राह्मणभोजनस्। ततो मन्त्रस्य सिद्ध्यर्थं गुरुं संपूज्य तोषयेत्। एवञ्च मन्त्रसिद्धिः स्याद्देवता च प्रसीदति। दीक्षहीनान् पशून् यस्तु भोजवेद्वा स्वमन्दिरे। स याति परमेशानि! नरकानेकविंशतिम्”। यद्यपि पुरश्चरणपदं पञ्चाङ्गपर तथा च “जपहोसौ तर्पणञ्चाभिषेको विप्रभोजनम्। पञ्चाङ्गीपासन लोके पुरश्चरणमिष्यते” तथापि ग्रहणादौ पुरश्चरणपदं गौणं जपमात्रम् “सूर्य्योदयं समारभ्य याबत् सूर्य्योदयान्तरम्” इत्यादौ तथादर्शनात् तत्र होमादेरभावात्। तर्हि कथं ग्रहण पुरश्चरणे होमादिरिति वेत्। वचनादेव जायते न च पुरश्चरणस्य पुञ्चाङ्गत्वात् सर्वत्र तदेव स्यादिति वाच्य। ग्रहणे पुनस्तदिघानमनर्यकं स्यात्। किञ्च ग्रहणे होमादिनियमान् नान्यत्र होमादिः। ग्रहणपुरश्चरणे होमादिविघानन्तु प्रकृतीभूतपञ्चाङ्गपुरश्चरणतुल्पताबोधनाय। अतएव ग्रहणे पञ्चाङ्गस्वरूपपुरश्चरणकृतो मुख्यप्रयोगेऽप्यधिकार इति प्रकटीकृतम्। तदकरणे पुनः केबलजपमात्रपुरश्चरणे नाधिकार इति सर्वसम्मतम्। पुरश्चरणकालस्तु वाराहीतन्त्रे “चैत्रे मास्यथा वा कुर्य्यात् शुभर्क्षे गुरुशासनात्। द्वादश्यां शुक्लपक्षे तु माधवे मासि तत्तिथौ। आरभेदमलायां वै पुरश्चर्य्यां विशुद्धये”। इदन्तु योपालविषयम्। वैशम्पायनसंहितायाम् “चन्द्रतारानुकूले च शुक्लपक्षे शुमेऽहनि। आरभेन्मकरादौ च सुप्ते विष्णौ जपेन्न च। चन्द्रतारानुकूले च शुक्लपक्षे शुभेऽहनि। आरभेन्मकरादौ च हरौ सुप्ते न चारभेत्”। प्रतिप्रसवो रुद्रयामले “कार्त्तिकाश्विनवैशाखमाथेऽथ मार्गशीर्षके। फाल्गुने श्रावणे दीक्षा षुरश्चर्व्या प्रशस्यते। रवौ गुरौ सिते सोमे कर्त्तव्यं बुधवासरे। चन्द्रतारानुकूले च पुरश्चरणकर्म तत्। ग्रहणे च महातीर्थे न कालमवधारयेत्”। ग्रस्तास्ते ग्रस्तोदये च दीक्षा पुरश्चरणयोर्निषेधमाह तन्त्रान्तरे “ग्रस्तेऽस्ते ह्युदिते नैव दीक्षां कुर्य्याज्जपं प्रिये!। कृते नाशोऽभवेदाशु ह्यायुः स्त्रीसुतसम्पदाम्”। क्यप्। पुरश्चर्य्याप्यत्र स्त्री।

पुरश्छद = पु० पुरश्छादयति छदि स्वच् ह्रस्वश्च। (उलु) तृणभेदे त्रिका०।

पुरस् = अव्य० प्रथमापञ्चमीसप्तम्यर्थवृत्तेः पूर्वशब्दात् दिग्देशकालवाचकात् असि पुर् आदशः। १ पूर्वस्यां दिशि पूर्वस्मिन् २ काले ३ देशे च। तथा च पूर्वा दिक् पूर्बः कालो देशो बा तथा पूर्वस्या दिश आगच्छति पूर्बस्मादागच्छति पूर्वस्यां दिशि वर्त्तते पुरो वर्त्तते एवं देशे काले च। ४ अग्रत इत्यर्थे अमरः। “पुरोऽव्ययम्” पा० अस्य च समर्थेन सह समासः कृञ्योगे भूपमृतियोगे च उपपद्रसंज्ञायाम् पुरस्कृत्य पुरीभूय पुरोगत्येति प्रयोगः।

पुरसंस्कार = पु० ६ त०। नष्टदुर्गस्य संस्कारे हारा०।

पुरस्कार = पु० पुरस् + कृ–भावे घञ्। १ पूजने २ अरिग्रहणे ३ अभिशापे ४ अग्रतः करणे ५ स्वीकारे ६ सेके च। पुरम् + कृ–भावे श। पुरस्क्रिया तथार्थे पुरश्चरणे च स्त्री।

पुरस्कृत = त्रि० पुरस् + कृ–क्त। १ पूजिते २ अगिशप्ते ३ अरिगृहीते ४ अग्रतः कृते च मेदि०। ५ स्वीकृते ६ सिक्ते च हेमच०।

पुरस्तात् = अव्य० दिग्देशकालपरात् पूर्वशब्दात् प्रथमापञ्चमीसप्तम्यर्थे अस्ताति पुर् आदेशः। दिगदेशकालवृत्तौ प्रसमापञ्चमोसप्तम्यर्थवृतौ पूर्वशब्दार्मे, पुरोवत् उदाहरणम् बोध्यम्

पुरहन् = पु० पुरं त्रिपुरं हन्ति स्म हन–भूते क्विप्। १ महादेने शत्रुपुराणां हन्तरि २ विष्णौ च भाग० ७१०६८ तस्य महादेवे स्वशक्त्याः संक्रमणात् त्रिगुरनाशकत्वम् तत्कथा तत्र अध्याये दृश्या।

पुरा = अव्य० पुर–का। १ अविच्छेदेन क्रियाकरणै २ पुराणे ३ अतीते ४ माविनि ५ निकटे पुरावृत्ते च अमरः। पुर + क टाप्। ७ पर्वस्यां दिशि ८ सुगन्धिद्रव्यभेदे च स्त्री० राजनि० “पुरा तिक्ता कटुः शीता कषायकफपित्तनुत्। पित्तश्वास म्रमविषदाहमूर्च्छातृषापहा” तद्गुणाः तत्रोक्ताः ९ मीरौ अव्य० शब्दरत्ना०।

पुराकया = स्त्री पुरा प्राचीना कथा। इतिहासे भाग० ३१३४९

पुराकल्प = पु० पुरा पुराणः कल्पः। प्राचीने कल्पे मनुः ९। २२ अ०। “स्तुतिर्निन्दापुराकृतिपुराकल्पः” इत्यर्थवादः गो० १२६० उक्ते २ अर्थवादभेदे। अर्थवादशब्दे ३६९ पृ० उदा० दृश्यम्।

पुराकृत = त्रि० पुरा पूर्वं कृतम्। पूर्वकृते इह जन्मनि जन्मान्तरे कृते पापपुण्यादौ “अकाले दर्शनं विष्णोर्हन्ति पण्यं पुराकृतम्” स्मृतिः। प्रारब्धकर्मणान्तु भोगादेव क्षयो न तेषां केनापि नाश्यतेति सिद्धान्तः।

पुराग = त्रि० पुरा गच्छति गम–ड। पूर्वगामिणि ततः कृशाश्वा० चतुरर्थ्यां० छण्। पौरागीय तत्सन्निकृष्टदेशादौ त्रि०

पुराण = आख्याने कण्ड्वादेराकृतिगणत्वात् यक् पर० सक० सेट्। पुराण्यति अपुराण्यीत्।

पुराण = त्रि० पुरा भवः ट्यु नि० तुट् न, पुरा नीयते नी ड वा पूर्व० णत्वम्। १ पुराभवे “सर्गश्च प्रतिसर्गश्च वंशोमन्व० न्तराणि च। वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम्” इत्युक्तलक्षजे व्यासादिप्रणीते २ शास्त्रभेदे न०। तज द्विविधं महापुराणोपपुराणभेदात् तत्र उपपुराणशब्दे गद्भेदादिकमुक्तं महापुराणं च दशलक्षणकम् “सर्गोऽस्याथ विसर्गश्च वृनी रक्षान्तराणि च। वंशोवंक्षानुचरितं संस्या हेतुरपाश्रयः। दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः। केचित् पञ्चविधं ब्रह्मन्! महदल्पव्यवस्थया। अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः। भूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते। पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं समाहारो वीजाद्बीजं चराचरम्। वृत्तिर्भूतानि भूतानां चराणागचराणि च। कृता स्वेन नृणां त्वत्र कामाच्चोदनयापि वा। रक्षाऽच्युतावतारेहा विश्वस्यानुयुगे युगे। तिर्य्यङ् गर्त्यर्षिदेवषु हन्यन्ते यैस्त्रयोद्विषः। मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः। ऋषयोऽंशावताराश्च हरेः षड्विधमुच्यते। राज्ञां ब्रह्मप्रसूतीनां वंशस्त्रैकालिकोऽन्धयः वंशानुचरितं तेषां वृत्तं वंशधराश्च ये। नैमित्तिक्तः प्राकृतिको नित्य आत्यन्तिको लयः। संस्थेति कबिभि प्रोक्तश्चतुर्द्धाख स्वभावतः। हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः। यं चानुशयिनं प्राहुरव्याकृतमुतापरे। व्यतिरेकान्वयौ यस्य जाग्रत्स्नप्रसुषुप्तिषु। मायामयेषु तद्ब्रह्म जीववृत्तिष्यपाश्रयः। पदार्थेषु तथा द्रव्यं तन्मात्रं रूपनामसु। वीजादिपच्चतान्तास ह्यवस्थासु युतायुतम्” भाग० १२। ७ अ०। तच्चाष्टादशविधम। विष्णुपुराणे तद्भेदा उक्ता यथा “अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते। ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा। तथान्यन्नारदीयञ्च मार्कण्डेयञ्च सप्तमम्। आग्नेयमष्टमञ्चैव भविष्यं नवमं स्मृ“तम्। दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम्। वाराहं द्वादशञ्चैव स्कान्दञ्चैव त्रयोदशम्। चतुर्दशं वामनञ्च कौर्मं पञ्चदशं स्मृतम्। मात्स्यञ्च गारुडञ्चैव ब्रह्माण्डञ्च ततःपरम्”। हेमाद्रि० व्र० उक्तं तेषां श्लोकसंख्यादि तत्तत्पुराणशब्दे दृश्यम्। तेषां तामसत्वादिभेदाः पद्मपु० उत्तरख० ४३ अ० दर्शिता यथा “मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च। आग्नेयञ्च षडेतानि तामसानि निबोधत”। “वैष्णवं नारदीयञ्च तथा मागवतं शुभम्। गारुडञ्च तथा पाद्म वाराहं शुभदर्शने!। सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै”। “ब्रह्माण्डं व्रह्मवैवर्त्तं मार्कण्डेयं तथैव च! भविष्यं वामनं ब्राह्मं राजसानि नोबोधत। सात्त्विका मोक्षदा देवि! निर्वाणप्राप्तिहेतवः”। अशीति वराटकमिते ३ पणे ४ कार्षापणे च पु० न० शब्दरत्ना०।

पुराणग = पु० पुराणैः गीयते गै–घञर्थे क, पुराणं गायति गै–क वा। १ ब्रह्मणि परात्मनि हेमच० २ पुराणगायके त्रि०।

पुराणपुरुष = पु० पुराणैरुपस्तुत्यः पुरुषः शाक० त० कर्म० वा। १ विष्णौ २ वृद्धे पुरुषे च त्रिका०।

पुराणान्त = पु० पुराणान् पुरातनान् अन्तयति अन्त + णिचण उप० स०। १ यमे हेमकरः। ६ त०। २ पुराणशेषे च

पुरातन = त्रि० पुराभवः पुरा + ट्यु–तुट् च। १ पुराभवे अमरः स्त्रियां ङीप्। २ विष्णौ पु० “ज्ञानगम्यः पुरातनः” विष्णुसं०। “कालेनापरिच्छिन्नत्वात पुराऽपि भवतीति पुरातनः” भा०।

पुराधिप = पु० ६ त०। १ नगराधिपे। पुराध्यक्षादयोऽप्यत्र। देहाधिगे जीवे पुरञ्जनशब्दे दृश्यम्

पुरायोनि = पु० पुरा प्राचीना योनिरस्य महादेवे। “पुरायोनिर्युधाजिच्च अभिया मुदितो भवः” भा० व० १८५ अ०।

पुराराति = पु० ६ त०। त्रिपुरभेदके शिवे पुरारिप्रभृतयोऽपि

पुरार्द्धविस्तार = पु० पुरा प्राग्वर्त्ती अर्द्धविस्तारोऽस्य। १ खेटके २ अस्त्रभेदे हेमच०।

पुरावती = स्त्री नदीभेदे भा० भी० ९ अ०।

पुरावसु = पु० पुरा पूर्वं वसुः। पसुभेदांशजाते भीद्मे त्रिका०। द्युनामवसोर्वसिष्ठशापेन भीद्मरूपणाविर्भवकथा भा० आ० ९७ अ० दृश्या।

पुराविद् = त्रि० पुरा पुरावृत्तं वेत्ति विद–क्विप्। पुरावृत्ता–भिज्ञे।

पुरावृत्त = न० पुरा पूर्वकालिकं वृत्तम यत्र। १ इतिहासे पूर्वतनकथने भारतादौ अमरः। कर्म०। २ पूर्वतनवृत्तान्ते च।

पुरासाह = पु० पुराणि शत्रुपुराणि सहते अभिभवति सहण्व पूर्वपददीर्घः। १ शत्रुपुराभिभावके २ इन्द्रे च। झलि पदान्ते च “सहेः षाडः षः” पा० षत्वम् ऋ० १०७४४ अन्यत्र न षत्वम्।

पुरासिनी = स्त्री पुरं मृहमस्यति अस–णिनि। सहदेवीलतायां राजनि०।

पुरासुहृद् = पु० पुरस्य त्रिपुरस्यासुहृत् शत्रुः। त्रिपुरारौ महादेवे हेमच०।

पुरि(री) = स्त्री पूर्य्यते पॄ–इ किच्च। १ नगरे २ नद्याञ्च उज्ज्वलद० वा ङीप्। ३ राजनि सि० कौ०। तत्र जिगीषु नगरे वर्णनीयपदार्थाः भा० व० दर्शिता यथा “अभिस रेण सर्वेण तत्र युद्धमवर्त्तत। पुरी समन्ताद्विहिता सपताका सतोरणा। सचक्रा सहुडा चैव सयन्त्रखनका तथा। सोपशल्यप्रतीलीका साट्टाट्टालकगोपुरा। सचक्रग्रहणी चैव सोल्कालातावपोथिका। सोष्ट्रिका भरतश्रेष्ट! सभेरीपणवानका। स तोमराङ्कुशा राजन्! सशतघ्नीकलाङ्गला। सभुशुण्ड्यश्म गुडका सायुधा सपरश्वधा। लोहचर्मवती चापि साग्निः सगुडशृङ्गिका। शास्त्रदृष्टेन विधिना सुयुक्ता भरतषभ!। रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः। पुरषैः कुरुशार्दूल! समर्थः प्रतिवारणे। अतिख्यातकुलैर्वीरैर्दृष्टवीर्य्यैश्च संयुगे। मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता। उदक्षिप्तगुलमैश्च तथा हयैश्च सपताकिमिः। आघोपितञ्च नगरे न पातव्या सुरेति वै। पमार्द परिरक्षद्भिरुग्रसेनोद्धवादिभिः। प्रमत्तेष्वभिघातं हि कुर्य्याच्छाल्वो नराधिपः। इति कृत्वाऽप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः। आनर्ताश्च, तथा सर्वे मट नर्त्तकगायनाः। वहिर्निवासिताः क्षिप्रं रक्षद्भिर्बित्तसञ्चयम। संक्रमा भेदिताः सर्वे नावच्च प्रतिषेधिताः। परिखाश्चापि कौरव्य। कीलेः सुनिचिता कृताः। उदपानाः कुरुश्रेष्ठ! तथैवाप्यम्बरोषकाः। समन्तात् क्रोशमात्रञ्च कारिता विषमा च भूः। प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्। प्रकृत्या चायुधोषेतं विशेषेण तदाऽनच!। सुरक्षितम् सुगुप्तं च सर्वायुधसमन्त्रितम्। तत्पुरं भरतश्रेष्ठ। यथेन्द्रभवनं तथा। न चामुद्रोमिनिर्याति न चामुद्रः प्रवेश्यते। वृष्ण्यन्धकपुरी राजं स्तदा सौभसमागमे। अनुरथ्यासु सर्वासु चत्वरेषु च कौरव!। बलं बभूव राजेन्द्र! पभूतनजवाजिमत्। दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्। कृतोपधानं च तदा बलमासीन् महाभुज!। न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी। नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः। एवं सुविहिता राजन् द्वारका भूरिदक्षिणा। आहुकेन सुगुप्ता च राज्ञा राजीवलोचन!” भा० व० १५ अ०। “अभितः परित उपरितश्चायुधानां सरणं निःसरणमभिसारस्तेन सर्वेणाच्छिद्रेण सर्वाभ्यो दिग्भ्यो युगपदविरलायुधसमूहागमेनेत्यर्थः। पताका ध्वजाञ्चकः तोरणानि वहिर्द्वाराणि चक्राणि योधगणाः हुडास्तदाश्रयस्थानानि भाषायां (वुरुज)इति संज्ञानि। अन्ये तु विण्मूत्रोत्सर्जनशृङ्गाणि हुडा इत्याहुः उदाहरन्ति च “कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि धूरपि विण्भूत्रस्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यते” इति। यन्त्राण्याग्नेयौषधबलेन दृषत्पिण्डीत्क्षेपखानि महान्ति(कमान) इति संज्ञानि क्षुद्राणि सीसगुलिकोत्क्षेपणानि (वन्दुक) इति संज्ञानि। खनकाः सुरङ्गद्वारा गुप्तमार्गकर्त्तारः। उपशल्या लोहमुखाः कीलास्तद्युक्ताः प्रतोल्यो रथ्यामार्गा यस्या सा अट्टालिका उपरिगृहाः गोपुराणि साट्टानि अट्टेनान्नेन सहितानि अट्टालकादीनि यस्यां सा साट्टेति विशेषणम् उपशल्यस्य ग्रामान्तस्य रथ्यायाश्चावृत्त्या संवध्यते। चक्रग्रहणी सैन्यनिग्राहिका (मोर्चा) इति म्लेच्छप्रसिद्धा। सोल्कालातावपोथिका सोल्कलातं ज्वालासहितमुलमुकं यस्यां सा सोल्कालाता अवबद्धाः पोथिकायन्त्र बद्धाः काष्ठपाषाणादयो रिपूणामुपरिपातनाय यस्यामिति प्राञ्चः। उल्केवोल्का प्राणहरत्वाद्यन्त्रोत्क्षिप्तो गोलः अलातं सकाष्ठदण्डलोहमयमाग्नेयं प्रहरणं (वाण) इति भाषायां प्रसिद्धं तयोरप्रत्याख्येयनत्योरवपो थिकाः पातयित्र्यो गन्त्रमय्यः शक्तयः कर्णायेन्द्रदत्तशक्ति सदृशास्तद्युक्ताः सोल्कालातावपोक्षिकाः। उष्ट्रिश्चा मृच्चर्ममयाणि भाण्डानि सर्ष्टिकेति पाठे ऋष्टय आयुथचिशेषाः। अश्मगुडका वर्तुलीकृताः पाषाणाः लोहमयानि चर्माणि कमठपृष्ठाकाराणि प्रहारवारकाणि (ढास) साग्निः आग्नेयौषधसहिता गुडागोलकः शृङ्गिकास्तदुत्क्षेप कयन्त्राणि शत्रूणासुपरिपातनाय तप्तोगुडो द्रवीभूतो यत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये। मध्यमो गुल्मः यत्र स्थितेन योधसङ्घेन चतुर्दिगवस्थिता रिपवोद्रष्टुं वाणादिना प्रहर्तुं च शक्यन्ते तादृशमुच्चस्थानम्। उत्क्षिप्तगुल्मैः परकीयगुल्मोच्चाटनकरैः। अप्रमत्ता इतिच्छेदः। संक्रमा नदीसेतवः। कीलैः शूलैः सुनिचिता व्याप्नाः। “उदपानाः कूपाः “अम्बरीषो भवेद्भ्राष्ट्र” इति विश्वः गुप्ताग्निरित्यन्ये। विषमलोहकण्टकाद्याकीर्णा। अनुरथ्यासु प्रतिरथ्यम्। वेतनं धनं भक्तं नित्यभोजनं कृतोपधानं कृतविशेषम्। कुप्यं स्वर्णरूप्येतरधनं ताम्रादि। ग्रहोरणोद्यमस्तमनुलक्ष्यीकृत्य भृतोऽनुग्रहभृतस्तत्कालस्वीकृतो न कश्चित् किन्तु चिरसंभृत एव। कृपा भृतो न किन्तु शौर्य एवेति वा। भूरिदक्षिणा बहवो दाक्षिण्ययुक्ता यस्याम् आहुकेन उग्रसेनेन” नील०। ४ सन्न्यासिनामुपाधिभेदे स्त्री “ज्ञानरत्नेन सम्पूर्णा पूर्णतत्त्वपथस्थितिः। परब्रह्मरतो नित्यं पुरीनामा स उच्यते” महानिर्वा०। ५ देहे च स्त्री।

पुरि(री)तत् = स्त्री पुरीं देहं तनोति तन–क्विप्। १ देहारम्भके (आ~त) अन्त्राख्ये नाडीभेदे। पुरि देहे तनोति आच्छादयति हृदयादि अलुक्स० ह्रस्वमध्यः। २ हृदयाच्छादके मांसभेदे यजु० ३९। ९ दीर्घपाठः अन्यत्र ह्रस्वपाठः। ३ देहे च “यदा सुप्तो न कञ्चन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात् पुरीततममिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते” शत० ब्रा० १४५। १। २१ “यस्मिन् काले जाग्रत्स्वप्नयोर्द्रष्टा दर्शनवृत्ति स्वप्नं हित्वा सुषुप्तः विशेषज्ञानाभावेन सम्प्रसादस्वस्वरूपं ब्रह्मैक्यं गतो भवति। हृदयं नामोदरवक्षःप्रदेशयोर्मध्यस्थितः पुण्डरीकाकारो मांसपिण्डस्तत्परिवेष्टनं पुरीतदित्युच्यते इह पुनस्तदुपलक्षितं शरीरं पुरीतच्छब्देनाभिप्रेतम्। तथा च हृदयात् पुरीततं शरीरमभिप्रतिष्ठन्त इति कृत्स्नं शरीरं व्याप्नुवन्त्योऽश्वत्थं पर्णराजय इव बहिर्मुखाः अभितो निःसरन्ति। ताभिर्वाडीभिः कृत्वा जाग्रद्विमयाया बुद्धेः कर्मवशात् पत्यवसर्पणमनु विज्ञानमय आत्मा प्रत्यवसृप्येन्द्रियाण्युपसंहृत्य पुरीतति शेते अग्निवत् तप्तं लोहपिण्डमविशेषेण संव्याप्य वर्त्तते” भा०

पुरिश = पु० पुरि देहे शेते शी–अच् अलुक् स०। जीवे शत० ब्रा० १४५५१८

पुरीमोह = पु० पुरीं देहं मोहयति मुह–णिच्–अण्। धूस्तूरे शब्दमाला

पुरीष = न० पॄ–ईषन् किच्च। १ विष्ठायाम् अमरः २ उदके निषण्टुः पुरीषिन्शव्दे दृश्यम्। विष्ठात्यागप्रकारादिकं यथा “मूहूर्त्ते ब्राह्म उत्थाय रात्रिवासं परित्यजेत्। परिधाया रं वस्त्रं शयनस्थानतोन्यहम्। मुखाङ्घ्रिहस्तान् प्रक्षाल्य द्विराचम्य ततो द्विजः। कृष्ण! कृष्ण! स्मृतिं कृत्वा खनित्वा नैरृतीं दिशम्। खनित्रखननेनैव द्वादशाङ्गल्यधोमृदम्। गृहीत्वोदकपात्रञ्च मितं गच्छेद्धनुः शतम्। ग्रामाद्वा शरविक्षेपमात्रमनुदिते रवौ। मैत्रमावश्यकं कर्तुं नगराच्च चतुर्गुणम्। तत्त्रिमुष्ट्यायतं गर्त्तं तथा कृत्वा गभीरकम्। कृत्वा त्वद्भिः खनित्रेण कुशैराच्छाद्य तत्तृणम्। शुष्कैः काष्ठैरयज्ञीयैर्भूगर्त्तमवगुण्ठितः। सवीताङ्गो वेणुदलैः पत्रैर्मृण्मयभाजनैः। छत्रं खनित्रं संस्थाप्य वारिपात्रमुपानहौ। ततो द्विजस्तूपविशेद्वस्त्रेणाच्छाद्य मस्तकम्। यज्ञोपवीतं कर्णेऽथ धृत्वा मोनी च दक्षिणे। अग्रतो द्विजमग्निं नो पश्यन् सन्तञ्च भास्करम्। गुरुं समीरणं सर्वदेवतामूर्त्तिमेव च। मातरं पितरं चन्द्रं सर्वं गुरुजनं स्त्रियम्। उदङ्मुखस्त्रिसन्ध्यासु दिवसे च यदा निशि। दक्षिणामुख उत्सर्गं कुर्य्यान्मूत्रपुरीपयोः। पूर्वाह्णे तु द्विजः कुर्य्यात् पश्चिमाभिमुखोऽथ वा। अपराह्णे पूर्वमुखो मूत्रगूथविसर्जनम्। मध्याह्ने प्रयतः कुर्य्याद्यतवागुत्तरामुखः। दक्षिणाभिमुखो रात्रौ द्विजो मैत्रं प्रयत्नतः। निशायामन्धकारे तु छायायां दिवसे तथा। यथेच्छं सुमुखो भूत्वा मैत्रं कुर्य्यात् द्विजो भयात्। दिग्भ्रमाच्च मनोदुःखाद्विण्मूत्रस्य विसर्जनम्। मोहाद्वाऽधोमुखः कुर्य्याद्यतवाकप्रयतो द्विजः। सन्न्यासी ब्रह्मचारी च वानप्रस्थो गृही द्विज!। शाखाध्यायी च वेदानां सर्वयज्ञेषु दीक्षितः। मुनिश्च सर्वधर्मज्ञो दान्तः शान्त उदारधीः। सदोत्तरमुखः कुर्य्याद्वैष्णवो नान्य एव च। प्रातश्च मैत्रं सायाह्ने दक्षिणामिमुखो निशि। योगिनान्तु तथा स्त्रीणां शूद्रादीनामयं क्रमः। न देवायतने वृक्षमूले च न जले नदे। न नदीकूपमार्गेषु न वापीगोष्ठभस्मसु। न चिताग्निश्मशानेषु नोषरे न द्विजालये। नाम्भःसमीपे न पुण्ड्रे नाकाशे न च शाद्बले। न समुद्रे न काम्ये च न तीर्थे न द्विजाश्रमे। न यज्ञवृक्षमूलेषु नोपद्वारे चतुष्पथे। न शस्यक्षेत्रे न खले पुष्पोद्याने न चत्वरे। सोपानत्कोन नग्नश्च न रथ्या- सेव्यभूले। न वैष्णवालये गोत्रे न सूर्य्याभिमुखस्तथा। न फालकृष्टकेदारे न तिष्ठंश्च सदाचन। न गच्छन्न च वल्मीके न च पर्वतमस्तके। न जलं न दिशोमागान्नाकाशमवलोकयन्। न गोव्रजे नदीतीरे नित्यस्थाने न गोमये। न यज्ञभूमौ न गृहे न पवित्रीकृतस्थले। द्विजो न देहच्छायायां शकृन्मूत्रविश्चजेनम्। कुर्य्याद् यज्ञेष्टकाकूटे न च सप्राणिगर्त्तके। उद्धृताम्भोमृत्तिकाभ्यामित्थं नारद! यत्नतः। कृत्वोत्सर्गं ततः कुर्य्यात् शौचं म्त्रपुरीषयोः। शुष्ककाष्ठेन लोष्टेनायज्ञीयेन तृणेन वा। प्रमार्ज्य गुह्यमुत्तिष्ठेत् शिश्रञ्चैव विशेषतः। विधृत्य वामहस्तेन शिश्नं तूपविशेन्निशि। चेद्दक्षिणामुखः सन्ध्यां दिवोत्तरमुखस्तदा। पूतिगन्धि जलं दुष्टं सफेनञ्च सबुद्बुदम्। तीर्थोदकं सलवणं पाथो वर्णान्तरन्तथा। समुद्रगा नदीवारः सामुद्रञ्च सकर्दमम्। यवनान्त्यजखाताम्भः समुद्रगनगोदकम्। धान्यक्षेत्रस्य सलिलं सकीटञ्च परित्यजेत्। मानवो देवखाताम्भः सकले शौचकर्मणि”। “मृदः सकीटास्तीर्थानां देवायतनगोष्ठयोः। नदोदधि नदीदेवखाततीरस्य मृत्तिकाः। महीतलोद्भवाः क्षेत्र कूड्ययोः सिकताश्च याः। अन्तर्जला धूलिमृदो वल्मीकस्य च कर्दमाः। उषराश्च हलोत्खाता मूत्तिका भवनस्य च। अश्वत्थतुलसीधात्रीमूलादीनां च या मृदः। श्मशानभूमेः शैलस्य तथाऽपूतस्थलस्य च। शौचावशिष्टा मार्गस्य आखूत्खाताश्च मृत्तिकाः। वज्ञस्थानस्य विप्राणां साधूनामालयस्य च। मृत्तिका वर्जवेदेता देवर्षे! शौचकर्मणि। पवित्रस्थानतो ग्राह्या द्वादशाङ्गुल्यधोभृदः। द्विजः सकलशौचार्थं शर्करादिविवर्जिताः। प्रथमेऽद्भिनेरः शौचं कुर्व्यान्मृद्भिरतःपरम्। पुनर्जलैः पुरीषस्य यथा गन्धक्षयो भवेत्। मृत्तिका प्रथमा शौचे त्वर्द्धप्रसृतिसम्मिता। पूर्णप्रसृतिमात्रा तु द्वितीया सजला तथा। तृतीया प्रमिता शौचे सार्द्धप्रसूतिमृत्तिका। चतुर्थ्याद्याः क्रमादेवमर्द्धप्रसृतिवर्द्धिताः। यया मृत्तिकया पूर्य्यं त्रिपर्व शौचकारिणः। अर्द्धप्रसृतिमात्रा सा मुनिभिः परिकीर्त्तिता। गुदे दद्यान्मृदन्तिस्रः पञ्च वा सप्त वा तथा। मृदमेकां तथा शिश्ने निस्रो वा मृत्तिकाद्वयम्। सप्त वामकरे दद्यान्मृदस्त्रिंशच्चतुर्दश। तिस्रो वा हस्तयोः सप्त चतुर्दश च षीडश। पाण्योरेकां मृदं पृष्ठे षड् वा तिखश्च मृत्तिकाः। हस्तद्वयनखेष्वेकां तिखश्च षड् मृदस्तथा। मैथुने रेतःस्खलने मूत्रोत्सर्गे च मृद्द्वयम्। दद्यात्तिस्रश्च शिश्ने च तिखो वामकरे ऋदः। हस्ते ह मृद्द्वयं म्रक्षेत्तिस्रो वा शुद्धितत्परः। पादैकैके द्विजस्तिस्रो गृहीत्थं शौचमाचरेत्। गृहिणो द्विगुणं शौचं यत्नतो ब्रह्मचारिणाम्। गृहस्थात् वानप्रस्थानां प्रोक्तं द्विगुणमेव च। सन्न्यासिनां वैष्णवानां शौचं सेव्यं चतुर्गुणम्। हस्तपाद्वारिपात्रेषु मृद्भिरद्भिश्च गोमयैः। दिवा यद्विहितं शौचं निशायामर्द्धकं भवेत्। एतदर्द्धमशौचे तु जातके मृतकेऽपि च। चोरादिवाधिते मार्गे शौचमस्यार्द्धमाचरेत्। योषितामेतदर्द्धत्नु शूदादीनाञ्च नारद!। व्याधिभिश्चातुरो मर्त्त्य आर्त्तो यदि यथाबलम्। शौचं कुर्य्यात् कृतं यत्र तत् स्थानं शोधयेज्जलैः। वेदस्मृतिपुराणानि धर्मशास्त्राणि नैत्यिकम्। मैत्रादिकर्म यः कुर्य्याद्विहाय मन्दधीर्द्विजः। प्रतिप्रज्ञानमायुश्च प्रज्ञां हन्तियशः श्रियम्। नलमाचारहीनस्य सदा तस्यापवित्रता। सात्वताश्चेद्द्विजा भूपा वैश्यशूद्रान्त्यजाः स्त्रियः। कुर्वन्ति शौचं यत्नेन यावच्चेतःपवित्रता। येषां कृष्णस्य मननं तथा नामप्रजल्पनम्। सदेव स्मरणं भागवतानां साधुसेवनम्। भक्तिप्रधौतजनसां गोविन्दार्पितकर्मणाम्। वाह्यान्तःकृष्णचित्तानां शुचिता तदहर्निशम्। मृद्गोमयजलैः शौचमनेकैः कुरुते यदि। मनोऽपवित्रता यस्य कदाचिद्वै न शुध्यति। गोविन्ददासता नास्ति यस्य लोकस्य जन्मनि। सोऽपि देहाशुचिः कृत्वा शौचं मैत्रादिकर्ममु। शतथा यदि देवर्षे! शौचं कुर्य्यात् सहस्नधा। मृद्वारिगोमयैर्लोको भावदुष्टो न शुध्यति। सदा चित्तापवित्रत्वमकार्णा भुवि यो नरः। तस्य तु स्यान्न मैत्रादिशौचेनैव स शुध्यति। पर्वताकारकूटैश्च गोविट्सर्वनदीजलैः। शौचं कृत्वा न शुध्येत दुष्टचित्तो भवेद् यदि” पाष्मोत्तरखण्डे १०९ अ०। ३ पुरीषतुल्यायां गृदि ४ यवसे च वेददी० पुरीषवाहनशब्दे दृश्यम्।

पुरीषण = पु० पुरीतो देहात् ईष्यते ईष–दाने (त्यागे) कर्मणि ल्युट्। पुरीषे विष्ठायां त्रिका०

पुरीषम = पु० पुरीषं मिमीते मा–क। शर्दंजहे माषे त्रिका०।

पुरीषवाहन = पुरीषमिव पांशुरूपां मृदं यवसं वा वहति वह–ञ्युट्। १ पांशुरूपमृद्वाहके ३ यवसवाहके नर्दने यजु० ११४। वेददी०

पुरीषाधान = न० पुरीषमाधीयतेऽत्र आ + घा–आधारे ल्युट्। देहस्थे पुरीषाशयख्याने “पुरीषाधानमेव च” याज्ञ० ३ ९५ “पुरीषाशयः” इति मिता० पुरीषाशयादयोऽप्यत्र।

पुरीषिन् = त्रि० पृणाति पीणातीति पुरीषमुदकं ततः मत्वर्थे इनि। जलयुक्ते ऋ० ५५५५।

पुरीष्य = त्रि० पुरीषाय हितम् यत्। पुरीषहिते।

पुरु = त्रि० पॄ–पालनपोवणयोः कु। १ प्रचुरे अमरः २ देवलोके मेदि० तस्य कर्मिमिः पूरणात् तथात्वम्। ३ यथातिपुत्रभेदे हरिवं० ३० अ०। तद्वंशकथा ३१ अ०। ४ तन्नामके युधिष्ठिरसभ्ये नृपभेदे भा० स० ४ अ०। ५ परागे मेदि०। ६ दैत्यभेदे पुरुहूतशब्दे दुश्यम्। ७ नदीभेदे स्त्री शब्दच०।

पुरुकुत्स = पु० मान्धातुः पुत्रभेदे हरिवं० १२ अ०। तस्यै। पत्नी मानसी कन्या नर्म्मदा ऋषिशापेन नदीत्वमाप्ता।

पुरुकुत्सन = पु० १ दैत्यभेदे “इन्द्रो विपश्चिद्देबानां तद्रिपु पुरुकुत्सनः। जथान हस्तिरूपेण भगवान् मधुसूदनः गारुडे ८७ अ०।

पुरुकुत्सानी = स्त्री पुरुकुत्सस्य पत्नी मा० आनङ् ङीष् पुरुकुत्समानयति अन–णिच् अण् गौरा० ङीष् वा। पुरुकुत्सपत्न्यां ऋ० ४४५९।

पुरुक्ष = त्रि० पुरवःक्षुधोऽन्नान्यस्य छान्दसः अन्त्यलोपः। बह्वन्नखामिनि ऋ० ३५ २ पुरुषु क्षीयते क्षि–निवासे डु। २ बहुनिकेतने यजु० २७। २० वेददी०।

पुरुज = पु० भरतवंश्ये मुशान्तेः पुत्रे ऋपभेदे भाग० ९२१। २३ हरिवंशे “पुरुजातिः सुशान्तेश्च” ३२ अ०। पाठान्तरात् सोऽपि तत्रार्थे

पुरुजित् = त्रि० कुन्तिभोजे नृपभेदे भा० स० ८ अ०। य च अर्जुनमातुलः यथोक्तं “पुरुजित् कुन्तिभोजश्च नातुलः सव्यसाचिनः” भा० क० ६ अ०। २ शशविन्दुवंश्ये रुचकपुत्रभेदे भाग० ९२३१५३ विष्णौ पु०। “पुरुजित् पुरुषोत्तमः” विष्णुस०। बहूनां जेतृत्वात्तस्य तथात्वम्।

पुरुणा(ना)य = पु० पुरूणा नायोनेता संज्ञायां णत्वम्। १ एतन्नामके नृपभेदे ऋ० १५९ ७। २ बहुजेतृमात्रे त्रि० अणात्वम्

पुरुत्मन् = पु० पुरुरात्या यस्य पृषो०। प्रचुरात्मके ऋ० १२३८

पुरुत्रा = अव्य० द्वितीयासप्तम्यर्थकृत्तेः पुरुशब्दात् त्रा। बहुकर्म्मके बह्वाधिकरणे च ऋ० १। ३२। ७

पुरुद = न० पुरु–प्रचुरं दायति दै–क। सुवर्णे शब्दार्थक०।

पुरुदंशक = पु० पुरवो दंशा यस्य गरुति कप्। हंसे त्रिका०।

पुरुदंशस् = पु० पुरुं तन्नामानमसुरं दष्टवान् दंश–असुन्। इन्द्रे उज्ज्वल० असम्बुद्धौ सौ परे आनङ्। पुरुदंशा

पुरुदंसस् = त्रि० पुरूणि दसांसि कर्माण्यस्य। बहुकर्मयुक्ते। पुरुं तन्नामानं दैत्यभेदं दसयते पस्यति शत्रुत्वेन चुरा० दसि–दर्शने भूते असुन्। २ इन्द्रे पु० उज्वलदत्तः।

पुरुदत्त्र = पु० दीयते दा–क्त्र दत्त्रं धनम् पुरु दत्त्रमस्य बहुधने इन्द्रे ऋ० ६। १८। ९ भा०।

पुरुदस्म = त्रि० पुरु दसति दस–बा० मन्। बहुनाशके २ बहुकर्मके च ऋ० ३। ५४। ८।

पुरुद्रुह् = त्रि० पुरुभ्यो बहुभ्यः पुरवे दैत्याय वा द्रुह्यति द्रुह–क्विप्। १ बहूनां द्रोहकारके ऋ० ३। १८। १। २ पुरुहूते इन्द्रे च। झलि पदान्ते च वा घत्वढत्वे।

पुरुद्वत् = पु० वैदर्भ्यां जाते क्रोष्टुवंश्ये मधुसुते नृपभेद हरिबं० ३७ अ०।

पुरुधा = अव्य० बह्वर्थत्वेन संख्याशब्दत्वात् प्रकारे धाच्। बहुप्रकारे ऋ० ११२२। २

पुरुभूत = पु० पुरुहूत + पृषो०। इन्द्रे हरिवं० १५ अ०। पुरुहूत इत्येव तत्र पाठः साधुः।

पुरुभोजस् = पु० पुरून् भुङ्क्तेः भुज–असुत्। १ मेषे निघ० २ प्रचुरभोजके त्रि०।

पुरुमित्र = पु० १ महारथनृपभेदे भा० व० ६ त०। भा० आ० ६३ अ० २ धृतराष्ट्रपुत्रभेदे च

पुरुमीढ = ऐक्ष्वाक्यां सुहोत्रात् जाते अजनीढानुजे कौरवनृपभेदे भा० आ० ९४ अ०।

पुरुरथ = पु० रथा रंहतेः पुरुः रघो रंहणं यस्य। प्रत्यहं भुक्तिभेदात् बहुरंहणे आदित्ये ऋ० १०। ६४। मा०

पुरू(रु)रवस = पु० सोमवंश्ये नृपभेदे “तथेति ताभ्यामुक्ते तु देवाभ्यां सैव कन्यका। इला समभवत् सद्यः सुद्यम्न इति विश्रुतः। पुनश्चेश्वरशापेन मृगव्यामटता वने। स्त्रीत्वमासादितन्तेन मनुपुतेर्श्च धीमता। पुरू(रु)रवसनामानं चक्रवर्त्तिममूर्जितम्। जनयामाश्च तनयं यत्र सोमसुतो बुधः” मार्क० पु० १११ अ०। पुरू(रु)रवस् पृषो० तत्रार्थे

पुरुरावन् = त्रि० पुरु फलं ददाति रा–दाने वनिन्। बहुविधफलदातरि युजु० ५। ७ स्त्रियां ङीप् वनीरश्च।

पुरुवर्गस् = त्रि० पुरुर्वर्गोऽस्य। बहुमाने ऋ० १०। १२०। ५।

पुरुश्चन्द्र = त्रि० पुरुः चन्द्र आह्वादकत्वात् दीप्तिरस्य पृषो०। ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे” पा० सुट्। बहुदीप्तिके ऋ० १ २७ १। अमन्त्रे तु न सुट् पुरुचन्द्र इत्येव

***