पायना = स्त्री पा–णिच + भावे युच्। अस्त्रादीनां धाराकरणार्थे व्यापारभद तेषां पायना त्रिविधा “क्षारोदकतैलेपु, तत्र क्षारपायितं शरशल्यास्थिच्छेदनेष। पुटक पायितं मांसच्छेदनभेदनपाटनेषु, तैलपायित सिराव्यधनस्नायुच्छेदनेषु” सुश्रुतः।

पायस = त्रि० पयसोविकारः अण्। १ दुग्धविकारे २ परमान्ने पु० अमरः। तत्पाकप्रकारो यथा “अतप्ततण्डुलो धौतः परिभृष्टो घृतेन च। खण्डयुक्तेन दुग्धेन पाचितः पायसो भवेत। पायसः कफकृद्बल्यो विष्टम्भी मधुरी गुरु” पाकराजेश्वरः।

पायसिक = त्रि० पायसी भक्तिरस्य। पायसभक्तियुक्ते

पायिक = पु० पादविक + पृषो०। पदातौ शब्दच०।

पायित = त्रि० पा + णिच–क्त। १ पानकर्तृभूतीकृते पदार्थे (पानदेओया) २ अस्त्रे च पायनाशब्दे दृश्यम्।

पायु = पु० अपैति अनेन वायुः अप + इण करणे–उण् अपेरल्लोपः पिबत्यौषधमनेन पा–उण् वा। १ अपानवायुस्थाने २ कर्मेन्द्रियभेदे च इन्द्रियशब्दे दृश्यम्।

पाय्य = न० मीयतेऽनेन मा–ण्यत् नि० पादेशः। १ परिमाणे २ पानीये न० ३ निन्दनीये त्रि० विश्वः। ४ पाने उणादि०

पार = कर्मसमाप्तौ अद० चु० उभ० सक० सेट्। पारयति ते अपपारत् त।

पार = न० परं तीरं परमेव अण्, पृ–घञ् वा। नदीलङ्घनेन प्राप्ये १ परे तीरे अमरः। २ प्रान्तभागे शेषावधौ मेदि०।

पारक = त्रि० पृ–ण्वुल। १ पूर्त्तिकारके २ पालके ३ प्रीतिकारके च स्त्रियां गौरा० ङीष्।

पारकुलीन = त्रि० परंकुले साधु प्रतिजना० खञ्। परकुले साधौ।

पारक्य = त्रि० परस्मै लोकाय हितम् तस्येदं वा ष्यञ् कुक्च। १ परलोकसाधने २ परकीये च “पारक्यमविरोधि च” कर्मप्रदीप “उद्धृत्य चतुरः पिण्डान् पारक्ये स्नानमाचरेत्” अत्रिस०।

पारग = त्रि० पारं गच्छति गम–ड। १ पारगन्तरि २ कार्यसमाप्तिगन्तरि च।

पारगत = त्रि० पारं गतः। १ पारगामिनि २ जिने पु० हेमच०

पारज् = न० पार–अजिन्। सुवर्णे उज्ज्वलद०।

पारजायिक = पु० परजायां गच्छति परदारादि० ठक्। परदारगन्तरि।

पारटीन = पु० प्रस्तरे त्रिका०।

पारण = न० पार–भावे ल्युट्। १ व्रतान्तभोजने युच् पारणा तत्रार्थे। “पारणं पावनं पुंसां सर्वपापप्रणाशनम। उपवासाङ्गभूतञ्च फलदं शुद्धिकारणम्। सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते। अन्यथा फलहानिः स्यादृते धारणपारणम। न रात्रौ पारणं कुर्य्यादृते वै रोहिणीवतात्। निशायां पारणं कुर्य्याद्वर्जयित्वा महानिशास्। पृर्वाह्णे पारणं शस्तं कृत्वा विप्र। सुरार्चनम्। सर्वेषां सम्मतं कुर्य्यादृते वै रोहिणीव्रतम्” व्रह्मवै० श्रीकृष्णजन्मखण्डे ८ अ०। जन्माष्टमीशब्दे एकादशीशब्दे च दृश्यम्। ल्यु। २ मेघे पु० शब्दमाला। ३ ऋषिभेदे। पारणस्यर्षेरपत्यम् इञ्। पारणि तदपत्ये। ततः यूनि फञ् पारणायन यूनि तदपत्ये। तौल्वला० फिञो न लुक्।

पार(द)त = पु० पॄ–णिच्–तन्, पृषो० तस्य दो वा। १ रसभेदे (पारा)। पारं ददाति दा–क। २ पारदायिनि त्रि० हेमच० “रसायनार्थिमिर्लोकैः पारदो रस्यते यतः। ततो रस इति प्रोक्तः स च धातुरपि स्मृतः”। अथ पारदस्योत्पत्तिर्लक्षणनामगुणाः “शिवाङ्गात् प्रच्युतं रेतः पतितं धरणीतले। तद्देहसारजतित्वाच्छुक्लमच्छमभूच्च तत्। क्षेत्रभेदेन विज्ञेयं शिववीर्य्यञ्चतुर्बिधम्। श्वेतं रक्तन्तथा पीतं कृष्णं तत्तु भवेत् क्रमात्। ब्राह्मणः क्षत्रियो वैश्य शूद्रश्च खलु जातितः। श्वेतं शस्तं रुजां नाशे रक्तङ्किलरसायनम्। धातुवादे तु तत्पीतं खेगतौ कृष्णमेव च। पारदो रसधातुश्च रसेन्द्रश्च महारसः। चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः। पारदः षडसः स्निग्धस्त्रिदोषघ्नो रसायनः। योगवाहो महा वृष्यः सदा दृष्टिबलप्रदः। सर्वामयहरः प्रोक्तो विशेषात्सर्वकुष्ठनुत्। स्वस्थो रसो भवेद्ब्रह्मा बद्धो ज्ञेयो जनार्दनः। रञ्जितः कामितश्चापि साक्षाद्देवमहेश्वरः। मूर्च्छिती हरति रुजं बन्धनमनुभूय खेगतिं कुरुते। अजरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात्। असाध्यो यो भवेद्रोगो यस्य नास्ति चिकित्सितम्। र० सेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम्। मलं विषं वह्निगिरी च वापलन्नैसर्गिकन्दोषमुशन्ति पारदे। उपाधिजौ द्वौ त्रपुनागयोगजौ दोषौ रसेन्द्रे कथितौ मुनीश्वरैः। मलेन मूर्च्छा, मरणं विषेण दा होऽग्निना कष्टतरः शरीरे। देहस्य जाड्यङ्गिरिणा सदा स्यात् चाञ्चल्यतो वीर्य्यहृतिश्च पुंसाम्। वङ्गेन कुष्ठम्भुजगेन षण्डो भवेदतोऽसौ परिशोधनीयः। वह्निर्विषं मलञ्चेति मुख्यादोषास्त्रयो रसे। एते कुर्वन्ति सन्तापं मृतिं मूर्च्छां नृणां क्रमात्। अन्येऽपि कथिता दोषा भिषग्भिः पारदे यदि। तथाप्येते त्रयो दोषा हरणीया विशेषतः। संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम्। देहस्य नाशं विदधाति नूनं कष्टांश्च रोगान् जनयेन्नराणाम्”। तस्य शोधनादिविधिः तत्स्वेदनञ्च “नानाधान्यैर्यथाप्राप्तैस्तुषवज्रैर्जलान्वितैः। मृद्भाण्डं पूरितं रक्षेद् यावदम्लत्वमाप्नुयात्। तन्मध्ये भृङ्गरा मुण्डी विष्णुक्रान्ता पुनर्णवा। मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी। त्रिफला गिरिकर्णी च हंसपदी च चित्रकम्। समूलं कुट्टयित्वा तु यथालाभं विनिःक्षिपेत्। पूर्वाम्लभाण्डभध्ये तु धान्याम्लकमिदं स्मृतम्। स्वेदनादिषु सर्वत्र रसराजस्य योजयेत्” विष्णुक्रान्ता गिरिकर्णी च अपराजितैव नीलश्वेतपुष्पभेदात्। “अत्यम्लमारनालं वा तदभावे प्रयोजयेत्” तदभावे धान्याम्लाभावे “त्र्यूषणं लवणं राजी रजनी त्रिफर्लाद्रकम्। महाबला नागबला मेघनादः पुनर्णवा। मेषशृङ्गी चित्रकञ्च नवसारं समं समम्। एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत्। प्रलिम्पेत्तेन कल्केन वस्त्रमङ्गुलमात्रकम्। तन्मध्ये निक्षिपेत्सूतं बद्ध्वा तत्त्रिदिनं पचेत्। दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः” मेघनादः (चवराई)शाकविशेषः। मेष शृङ्गी (मेढाशृङ्गी)। तदलाभे कर्कटशृङ्गी ग्राह्या। नवसारं नवसादरम्। अन्यच्च “मूलकानलसिन्धूत्थत्र्यूपणार्द्रकराजिका। रसस्य षोडशांशेन द्रव्यं युञ्ज्यात् पृथक् पृथक्। द्रवेष्वनुक्तमानेषु मतं मानमिदं बुधैः। पट्टावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके। स्वेदयेद्दिनमेकञ्च दोलायन्त्रेण बुद्धिमान्। स्वेदात्तीव्री भवेत्सृतो मर्दनाच्च सुनिर्मलः”। मूलकम् (मुरै) अनलश्चित्रकम्। त्र्यूषणं त्रिकटु राजिका (राई)। अथ मर्दनम् “इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्योरसस्ततः। दघ्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः”। अन्यच्च “कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः। फलत्रिकेणापि विमर्द्दितो रलो दिवत्रयं सर्वमलैर्विमुच्यते”। अथ मूर्च्छनम् “त्र्यूषणं त्रिफलाबन्ध्याकन्दैः क्षुद्राद्वयान्वितैः। चित्रकोर्णानिशाक्षारकन्यार्ककनकद्रवैः। सूतं कृतेन यूषेण वारान् सप्ताभिमर्द्दयेत्। इत्थं सम्मूर्च्छितः सूतस्त्यजेत्सप्तापि कञ्चुकान्”। बन्ध्याकन्दः (वान्दुस्वेखसाकन्द) क्षुद्राद्वयं (छीटीकटाई वडीकटाई) उर्णा उर्णमेषका। निशा हरिद्रा क्षारः यवक्षारः। कन्या कुमारिका अर्कस्तत्पत्ररसः कनकघूत्तूरपत्ररसः। अथोर्द्धपातनम् “मयूरग्रीवताप्याभ्यान्नष्टपिष्टीकृतस्य च। यन्त्रे विद्याधरे कुर्य्याद्रसेन्द्रस्योर्द्धपातनम्”। ताप्यम् सुवर्णमाक्षी। नष्टपिष्टीकृतस्य। कुमारिकाद्रवयोगेन तावन्मर्द्दनं कर्त्तव्यं यावत्पारदः पृथक् न दृश्यत इत्यर्थः। विद्याधरयन्त्रे डमरुयन्त्रे। अथाःधपातनम् “त्रिफलाशिग्रुशिखिभिर्लवणासुरिसंयुतैः। नष्टपिष्टं रसं कृत्वा लेपयेदूर्द्धभाजनम्। ततो दीप्वैरधःपातः सुपलैस्तस्य कारयेत्। यन्त्रे भूधरसंज्ञे तु ततः सूतो विशुध्यति। स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा मवेत्। तदा कार्य्याणि कुरुते प्रयोज्यः सर्वकर्मसु”। अथ मुख्यदोषहरः शोधनविधिः “गृहकन्या हरति मलन्त्रि फलाऽग्निञ्चित्रको विमं हन्ति। “तस्मादेभिर्मिश्रैर्वारान् संमूर्च्छयेत् सप्त”। अथ सर्वदोषहरः शोधनविधिः “कुमारिकाचित्रकरक्तसर्षपैः कृतः कषायैर्वृहतीविमिश्रितैः। फलत्रिकेणापि विमर्द्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते। कुमार्य्या च निशाचूर्णैर्दिनं सूतं विमर्द्दयेत्। एवं कदर्थितः सूतो षण्डो भवति निश्चितम्। वह्वौषधीकषायेण स्वेदितः स बली भवेत्। सर्पाक्षीचिञ्चिकाबन्ध्यामृद्वव्दैः स्वेदितो बली। ततः स पावकद्रावैः स्विन्नः स्यादतिदीप्तिमान्”। सर्पाक्षी (नागफणी) चिञ्चिका (अम्बिली) बन्ध्या (वाङ्खखेखसा) भृङ्गः भृङ्गराजः। अव्दो मुस्ता पावकः चित्रकम्। अथ रसस्य मारणविधिः “धूमासारं रसं तोरीगन्धकं नवसादरम्। यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम्। काचकूप्यां विनिक्षिप्य ताञ्च मृद्वस्त्रमुद्रया। विलिप्य परितो वक्त्रे मुद्रां दत्त्वा विशोधयेत्। अधःसच्छिद्रपिठरीमध्ये कूपीं निवेशयेत्। पिठरीं बालुकापूरैर्भृत्वा च कूपिकागलम्। निवेश्य चुल्यां तदधो वह्निं कुर्य्याच्छमैः शनैः। तस्मादप्यधिकं किञ्चित्पावकं ज्वालयेत् क्रमात्। एवं द्वादशभिर्यामैर्म्रियते रस उत्तमः। स्फोटयेत् स्वाङ्गशीतं तमूर्द्धगङ्गन्धकं त्यजेत्। अधस्थञ्च मृतं सूतं गृह्णीयात्तन्तु मात्रया। यथोचितानुपानेन सर्वकर्मसु योजयेत्” भावप्र०। सर्व० सं० रसेश्वरदर्शने तनिरुक्तिः “संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः” इति। रसार्णवेऽपि “पारदो गदितो यस्मात् पारार्थं साधकोत्तमैः। गुप्तोऽयं मत्समो देवि मम प्रत्यङ्गसम्भवः। मम देहरसो यस्माद्रसस्तेनायमुच्यते” इति “कर्मयोगेन देवेशि! प्राप्यते पिण्डधारणम्। रसश्च पवनश्चेति कर्मयोगो द्विधा स्मृतः। मूर्च्छितो हरति व्याधीन् मृतो जीवयति स्वयम्। वद्धः खेचरतां कुर्य्याद्रसो वायुश्च भैरवि!” इति। मूर्च्छितस्वरूपमप्युक्तम् “नानावर्णो भवेत् सूतो विहाय घनचापलम्। लक्षणं दृश्यते यस्य मू र्च्छितं तं वदन्ति हि। आर्द्रत्वञ्च घनत्वञ्च तेजो गौरव चापलम्। यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम्” इति। अन्यत्र बद्धस्वरूपमप्यभ्यधायि “अक्षतश्च लघुद्रावी तेजस्वी निर्मलो गुरुः। स्फोटनं पुनरावृत्तौ वद्धसूतस्य लक्षणम्” इति। “ननु हरगौरीसृष्टिसिद्धौ पिण्डस्थैर्यमास्थातुं पार्य्यते तत्सिद्धिरेव कथमिति चेन्न अष्टादशसंस्कारवशात्तदुपपत्तेः तदुक्तमाचार्य्यैः “तस्य हि साधनविधौ सुधियां प्रतिकर्मनिर्मलाः प्रथमम्। अष्टादशसंस्काराविज्ञातव्याः पयत्नेनेति”। ते च संस्कारानिरूपिताः “स्वेदनमर्द्दनमूर्च्छनस्थापनपातननिरोधनियमाश्च। दीपनगगनग्रासप्रमाणमथ जारणापिधानम्। गर्भद्रुतिबाह्यद्रुतिक्षारणसरागमारणाश्चैव क्रमेण वेधो भक्षणमष्टाशधेति रसकर्मेति”। रसेश्वरशब्दे विवृतिः

पारतन्त्र्य = न० परतन्त्रस्य भावः ष्यञ्। पराधीनत्वे

पारत्रिक = त्रि० परत्र भवं, हितं वा ठक्। १ परलोकहितकारके कर्मणि २ परलोकभवे च।

पारदण्डक = पु० देशभेदे शब्दरत्ना०।

पारदारिक = पु० परस्य दारान् गच्छति “गच्छतौ परदारादिभ्यः” वार्त्ति० ठक्। यथेष्टं परस्त्रीगामिनि।

पारदार्य्य = न० परस्य दारा दारा अस्य तस्य कर्म्म–ष्यञ्। परदारगमने। तच्चोपपातकम् याज्ञ० ३। २३५ श्लो०।

पारदृश्वन् = त्रि० पारं दृष्टवान् दृश–भूते क्वनिप्। पारं दृष्टवति। स्त्रियां ङीप् रश्चान्तादेशः।

पारदेश्य = त्रि० परदेशे भवः परदेशात् आगतो वा व्यञ्। १ परदेशोद्भवे द्रव्यादौ याज्ञ० २। २५५। २ परदेशागते च।

पारमार्थिक = त्रि० परमार्थाव पारलौलिकधर्म्माय हितं ठक। १ परमार्थोपायमूते श्रेयःसाधने कर्म्मणि। पर- मार्थतो भवः तत आगतो वा ठक्। २ वस्तुत आगते स्वाभाविके। स्वार्थे वा ठक्। यथार्थे “सत्ता त्रिविधा पारमार्थिकी व्यवहारिकी प्रातीति की चेति वेदान्तस०।

पारम्परीण = त्रि० परम्पराया आगतः खञ्। परम्पराया क्रमादागते।

पारम्पर्य्य = न० परम्परैव स्वार्थे ष्यञ्। कुलादिपरम्परयाम् “पारम्पर्य्यक्रमागतः” इति मनु।

पारम्पर्य्योपदेश = पु० पारम्पर्य्येण पित्रादिपरम्परया उपदेशः न तु साक्षात्कारादिज्ञानम्। ऐतिह्ये अमरः (यथा इह वटे यक्षः) इत्यादिरुपदिश्यते एव सर्वैः न तु तत्र यक्षः केनचित् दृश्यते।

पारयुगीन = त्रि० परयुगे साधु प्रतिजना० खञ्। परयुगसाधौ।

पारलौकिक = त्रि० परलोकाय हितं ठक् द्विपदवृद्धिः। परलोके जन्मान्तरादौ, हिते कर्म्मणि।

पारवत = पुंस्त्री पारावत + पृषो०। पारावते द्विरूपकोषः।

पारवश्य = न० परवशस्य भावः ष्यञ्। पारतन्त्र्ये त्रिका०।

पारशव = पुंस्त्री “निषादः शूद्रकन्यायां यः पारशव उच्यते। स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः” इति मनूक्ते ऊढायां शूद्रायां ब्राह्मणेनोत्पादिते निषादरूपे १ सङ्कीर्णवर्णे २ परस्त्रीतनये ३ लौहे च मेदि०। परशु + इदमर्थेऽण्। ४ परशुसम्बन्धिनि त्रि०। ५ मध्यस्थे देशभेदे वृ० सं० १४ अ०। पारशवस्य गोत्रापत्यं युवादि० अञ्। ६ तद्गात्रापत्ये हरिता० फञ्। पारशवायन तदीये यूनि गीत्रापत्ये।

पारशीक = पु० १ देशभेदे तद्देशोद्भवे २ घोटके च (आरवी)।

पारश्वधिक = पु० परश्वधः प्रहरणमस्य “परश्वधाट्ठञ्” च पा० ठञ्। परश्वधास्त्रेण योद्धरि अमरः। पक्षे अण् पारश्वध तत्रार्थे हेमच०।

पारस = त्रि० पारस्यदेशभवे अण् बा०। यलोपः। १ पारस्यदेशोद्भवे २ तत्सम्बन्धिनि च स्त्रियां ङीप्। “ज्येष्ठाश्लेषामघा पूर्वारेवतीभरणीद्वये। विशाखार्द्रोत्तराषाढाशतभे पापवासरे। लग्ने स्थिरे सचन्द्रे च पारसीमारवीं पठेत्” मुहूर्त्तगणपतिः।

पारसिक = पु० पारसीक + पृषो०। १ पारस्यदेशे २ घोटके पुं स्त्री० शब्दरत्ना० स्त्रियां ङीष्।

पारसीक = पु० १ देशभेदे २ तद्देशस्थे जने ब० व०। “पारसीकांस्ततो जेतुम्” रघुः। ३ तद्देशस्थे घोटके पु० स्त्री (आरबीषोडा) तद्देशस्य कुङ्कुमाकरता भावप्र० उक्ता कुङ्कुमशब्दे २६४० पृ० दृश्या।

पारस्कर = पु० पारं करोति कृ–ट पारस्करा० सुट्। १ देशभेदे २ गृह्यसूत्रकारके मुनिभेदे च।

पारस्करादि = “पारस्करप्रभृतीनिच संज्ञायाम्” पा० उक्ते ससुट्कनिपातनिमित्ते शब्दगणे स च “पारस्करो देशः। कारस्करोवृक्षः। रथस्या नदी। किष्कुः प्रमाणम्। किष्किन्धा गुहा। (तद्वृहतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च) (प्रात्तुम्पतौ गवि कर्त्तरि)।

पारस्त्रैणेय = त्रि० परस्त्रिया अपत्यं ढञ् इनङादेशः। जारजे परस्त्रियाः सुते अमरः स्त्रियां ङीप्।

पारस्यकुलीन = त्रि० परस्य कुले भवः प्रतिजना० खञ् तत्र परस्यकुलेति पाठात् अलुक्स०। परकुलोत्पन्ने दत्तकसुतादौ

पारापत = पुंस्त्री० पारादप्यापतति प्रेम्णा आ + पत–अच्। पारावते (पायरा) अमरः स्त्रियां ङीष्।

पारावत = पुंस्त्री० परं जीवमवति परात् शत्रोर्वा अहङ्कारद्वा ज्ञानोपदेशद्वारा अवति अव–शतृ परावन् तत्त्वज्ञः तस्यायमुपदेष्टा अण्। कपोते अमरः स्त्रियां ङीष्। चतुर्विंशगुरुमध्ये पारावतस्यापि गुरुत्वमुक्तं तत्र प्रस ङ्गात् चतुर्विंशतिर्गुरवोऽत्र प्रदर्श्यन्ते “पृथिवी वायुराकाशमापोऽग्निश्चन्द्रमा रविः। कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद्गजः। मधुरहां हरिणो मीनः पिङ्गला कुररीऽर्भकः। कुमारी शरकृत् सर्प ऊर्णनाभिः सुपेशकृत्। ततो मे गुरवो राजन्! चतुर्विंशतिराश्रिताः। शिक्षावृत्तिभिरेतेषामन्वशिक्षमिहात्मना” भाग० ११। ७ अ०। तत्कथा तदुत्तरत्र दृश्या

पारापा(वा)र = न० पारमपारञ्चास्त्यस्य अर्शा० अच्। १ समुद्रे पमरः द्व०। २ तटद्वये द्वि० व०। पारावारशब्दोऽप्युभयत्रार्थे।

पारायण = न० पारं समाप्तिमयतेऽनेन अय–ल्युट्। १ साकल्ये अमरः २ ग्रन्थादीनामाद्यन्तपाठे च। तत्र वेदपारायणं चतुष्प्रकारम् ऋग्वेदशब्दे १४१२ पृ० दृश्यम्। पुराणसम्पूर्णग्रन्थापाठेऽपि पारायणव्यवहारः। तत्र भायवतपारायणे कश्चिद्विशेषः पद्म० पाता० ७१ अ० उक्तो यथा “कृत्यनित्यक्रियः प्रातः कुशहस्तः कृतासनः। देवद्विजगुरून्नत्वा ध्यात्वा विष्णुं सनातनम्। द्वैपायनं नमस्कृत्य शुकदेवञ्च भक्तितः। हिरण्याक्षबधं यावत् प्रथमेऽहनि कीर्त्तयेत्। चरितं भरतस्यापि द्वितीयेऽथ तृतीयके। मथनञ्चामृतस्यापि, यत्र कूर्मः स्वयं हरिः। चतुर्थदिवसे, चैव दशमे हरिजन्म च। पञ्चमे तु पठे द्विद्वान् रुक्मिण्या हरणावधि। षष्ठे चोद्धवसंवादं सप्तमे तु समापयेत्। अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन। कुते बिरामे मध्ये तु अध्यायादिं पठेत् पुनः। पठेदर्थं बुध्यमानः श्रावयेद्वैष्णवोत्तमैः। श्रोता तु प्राङुमुखो भूत्वा शृणुपाद्भक्तितत्परः। अध्याये स्वर्णमाषैकं तथा दद्याच्च दक्षिणाम्। समाप्तौ च ततो धेनुं स्वर्णशृङ्गीं निवेदयेत्। कुर्य्याच्च वैष्णवं होमं सात्वतान् भोजयेत्ततः। एवं यः कुरुते देवि! पाठं भागवतस्य तु। श्रवणं श्रावणं वापि स इष्टां गतिमाप्नुयात्। एतत् पारायणं नाम सर्वकामफलप्रदम्” तत्र मासभेदाः पाद्मोत्तरख० ६ अ० उक्ता यथा “अथ ते संप्रवक्ष्यामि सप्ताहश्रवणे विधिम्। सहायैर्बन्धुभिश्चैव प्रायः साध्यो विधिः स्मृतः। दैवज्ञन्तु समाहूय मुहूर्त्तं पृच्छ्य यत्नतः। विवाहे यादृशं वित्तं तादृशं परिकल्पयेत्। नभस्य आश्विनोर्जौ च मार्गशीर्षः शुचिर्नभाः। एते मासाः कथारम्भे श्रोतॄणां मोक्षसूचकाः”। “कृच्छ्रो देव्ययुतञ्चैव प्राणायामशतद्वयम्। तिलहोमसहस्रन्तु वेदपारायणं भवेत्” इति मिता० धृतषट्त्रिंशन्मतम्।

पारायणिक = त्रि० पारायणमावर्त्तयति ठक्। १ तदावर्त्तनकारिणि। पारयणस्येदं तदधिकृत्य वा प्रवृत्तं “वृद्धाच्छः” पा० छ। परायणीय पारायणकसम्बन्धिनि पारायणग्रन्थाधिकारेण प्रवृत्ते ग्रन्थभेदे च।

पारारुक = पारमृच्छति ऋ–उकञ्। प्रस्तरे शब्दच०

पारावतघ्नी = स्त्री पारावारं हन्ति हन–टक् पृषो०। पारवति दूरदेशे भवाऽपि वृक्षादेर्हन्त्री। सरस्वत्यां नद्याम् ऋ० ६। ६१। २। इतामृचकमधिकृत्य निरु० २। २४ उक्तं “पारावतघ्नीं पारावारघातिनी”।

पारावतपदी = स्त्री पारावतस्येव पादोमूलमस्य अन्त्यलोपः ङीष् पद्भावः। (नया फटकि) १ लतायां रत्नमा०। २ काकजङ्घायां राजनि०।

पारावताङ्घ्रि = पु० पारावतस्याङ्घ्रिरिव मूलमस्य। ज्योतिष्मतीलतायाम् अमरः।

पारावताङ्घ्रिपिच्छ = पुंस्त्री० पारावताङ्घ्रिरिवास्तदाकारयुतं पिच्छमस्य। पारावतभेदे राजनि०।

पारावारीण = त्रि० पारमवारञ्च समस्तं समुद्रं वा गच्छति खञ्। १ तटद्वयगामिनि २ समुद्रगामिनि च। पारापारीणोऽप्यत्र।

पाराशर = पु० पराशरस्यापत्यं गर्गा० यञ् पाराशर्य्यः तस्य छात्रा० कण्वा० अण् अन्त्ययलोपः। १ पाराशर्य्यस्य छात्रेषु। पराशरण प्रोक्तम् अण्। २ पराशरप्रोक्ते स्त्रियां ङीप् “कलौ पाराशरी स्मृतिः” पराशरः।

पाराशरकल्पिक = त्रि० पाराशरकृत कल्पः तं वेत्त्यधीते वा “विद्यालक्षणकल्पान्तात्” वार्त्ति० ठक्। १ पराशरकृतकल्पग्रन्वाध्येतरि २ तत्कल्पग्रन्थस्यार्थवेत्तरि च।

पाराशरि = त्रि० पराशरस्येदम् इञ्। अपत्ये तु यञेव। १ पराशरसम्बन्धिनि २ शुकदेवे पु० त्रिका०।

पाराशरिन् = पु० ब० व०। पाराशर्य्येण प्रोक्तं भिक्षुसूत्रमधीयते इनि यलोप। वेदव्यासप्रणीतशारीरकसूत्ररूप भिक्षुसूत्राध्यायिपु चतुर्थाश्रमिषु अमरः।

पाराशरीय = त्रि० पराशरस्यादूरदेशा० कृशाश्वा० छण्। पराशरसन्निकृष्टदेशादौ।

पाराशर्य्य = पु० पराशरस्यापत्यं गर्गा० यञ्। पराशरस्यापत्ये वेदव्यासे द्वैपायनशब्दे दृश्यम्। “यञञोः” पा० ततो यूनि फञ् पाराशर्य्यायण तदीये यून्थपत्ये।

पारिकर्म्मिक = त्रि० परिकर्मणि नियुक्तः ठञ्। परिकर्मकरणे नियुक्ते।

पारिकाङ्क्षिन् = पु० पारयति संसारात् तारयति पारि णिनि पारि व्रह्मज्ञानं तत्काङ्क्षति णिनि। यतिभेदे अमरः।

पारिख = त्रि० परिखायां भवः पलद्या० अण्। परिखाभवे तस्येदं “वृद्धाच्छः” पा० छ। षारखीय तत्सम्बन्धिनि त्रि०।

पारिखेय = त्रि० परिखा प्रयोजनमस्य ढक्। परिखार्थे स्थलादौ स्त्रियां ङीप् पारिखेयी भूमिः।

पारिग्रामिक = त्रि० परिग्रामं भवः ठञ्। ग्रामस्य परितोभते

पारिजात = पु० पारमस्यास्ति पारी समुद्रस्तत्र जातः जनक्त। १ देवतरुभेदे “ततीऽभवत् पारिजातः सुरलोकविभूषणम्” भाग० ८। ८। ५ श्लो०। तस्यामृतमथनकाले समुद्रादुत्पत्तिरुक्ता। हरिवंशे तु १८६ अ० तस्य कश्यपात् सृष्टिरुक्ता तन्नामनिरुक्तिश्चान्था दर्शिता यथा

“पारिजातं ततोऽस्नाक्षीददित्याः प्रिइयकाम्ययः सर्वकामप्रदैः पुष्पैरावृतं दिव्यगन्धजैः। त्रिर्शाखं सर्वदा दश्यं सर्वभूतमनोहरम्। सर्वपुष्पाणि दृश्यन्ते तस्मिन्नेव महाद्रुमे। ईदृशान्यस्य पुष्पाणि विभर्त्त्येकाऽतिरूपिणी। बहुरुपाणि चाप्यस्य पद्माऽपि च तथाऽपरा। मन्दरादपि दृक्षच्च सारमुद्धृत्य कश्यपः। तस्यादेष परुश्रेष्ठः सर्वेषां ज्येष्ठतां गतः। ततस्तत्र निवध्याथ कश्यपं प्रददौ शुभा। अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च। निष्क्रयेण मया मुक्तः कश्यपस्तु तपोधनः। इन्द्रोदत्तस्तथेन्द्राण्या सौभाग्यार्थं ततो मम। सोमश्चाप्यथ रोहिण्या ऋध्या च धनदस्तथा। एवं सौभाग्यदो वृक्षः पारिजातो न संशयः। पारेजातो पिष्णुपद्याः पारिजातेति शब्दितः। मन्दारपुष्पैर्यद्युक्तो मन्दारस्तेल कथ्यते। कोऽप्येमं दारुरित्याहुरजानन्तो यतो जनाः। कोविदारः इति ख्यातस्तत्त्वबः स महातरुः। मन्दारः कोविदारश्च पारिजातश्च नामभिः। स वृक्ष्योःज्ञायते दिव्यो यस्यैतत् कुसुमोत्तमम्”। तस्य द्वारकायामानयनकथा पारिजातहरणे तदुत्तरत्राध्यायेषु दृश्या। २ नागभेदे भा० आ० ५७ अ०। ३ ऋषिभेदे मा० स० ५ अ०। खार्थे क। पारिजातक तथार्थे अमरः।

पारिजातसरस्वती = स्त्री पारिजातेश्वरी सरस्वती। सरस्यतीभेदे तन्मन्त्रादि तन्त्रसारे दृश्यम्।

पारिणाय्य = त्रि० परिणये तत्काले लब्धम् बा० ष्यञ्। परिणयकाले लब्धे धनादौ मातुः पारिणार्य्य स्त्रियो विभजेरन्” दायभागे वसिष्ठः।

पारिणाह्य = त्रि० परिणाहमर्हति बा० ष्यञ्। मृहोप करणे शव्यासनादौ मनुः ९। ११ कुल्लूक०।

पारितथ्या = स्त्री परितस्तथा परितथा स्वार्थे ष्यञ्। सीमन्तस्थितायां स्वर्णादिपट्टिकायां (सि~ती) अमरः।

पारितीषिक = त्रि० परितोषः प्रयोजनमस्य ठञ्। परितोषार्थं दीयमाने धनादौ।

पारिधेय = त्रि० परिधौ भवः शुभ्रा० ढक्। परिधौ भवे।

पारिन्द्र = पुंस्त्री० पारीन्द्र + पृषो०। सिंहे हेमच० स्त्रियां ङीष्।

पारिपन्थिक = त्रि० पन्थानं वर्ज्जयित्वा व्याप्य वा परिपन्थम् अव्ययीभा० तत्र तिष्ठति हन्ति वा ठक् “परिपन्थञ्च तिष्ठति” पा० उक्तेः निपा० पन्थादेशः। पन्थासं वर्ज्जयित्वा व्याप्य वा १ स्थायिनिः २ हन्तरि च चौरे हेमच०।

पारिपाट्य = न० परिषाष्ट्येव स्वार्थे ष्यञ्। परिपाट्याम्।

पारिपा(या)त्र = पु० पर्वतभेदे “हिमवान् पारिपात्रश्च” भा० स० १० अ०। स तु भारतवर्मस्थकुलाचलभेदः यथोक्तं “विन्ध्यश्च पारिपात्रश्च सप्तैते कुलपर्वताः। तेषां सहस्वशो राजन्! पर्वतास्ते समीपतः” भा० भी० ९ अ०। “जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ। आनीलनिषधौ प्राप्तौ परस्परनिरन्तरौ। निषधः पारिपात्रश्च मेरोःपार्श्वे तु पश्रिमे। यथा पूर्वौ तथा चैता वानीलनिषधायतौ” मार्क० पु० ५४ अ०। “वेदस्मृतिर्वेदवती वृत्नघ्नी सिन्धुरेव च। वेण्वा सा नन्दिनी चैव सदा नीरा नदी तथा। पारा चर्मण्वती मूपी बिदिशा तत्रवत्यर्ण। शिमा ह्यवर्णी च तथा वारिपात्रा श्रयाः स्मृताः” मार्क० पु० ५७ अ०। “मरुकामालवाश्चैव पारिपात्रनिवासिनः” विष्णुपु०। स च पर्वतः वृ० स० १४ अ० कूमेविमागे मध्यस्थिततयाक्तः यथा “उत्तरसाकेतकङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः” स्वार्थे क। पारिपात्रक तत्रार्थे क्वचिद् यमध्यपाठस्तत्रार्थे।

पारिपार्श्विक = त्रि० परिपार्श्वं पार्श्वं व्याप्य वर्त्तते ठक्। पार्श्वं व्याप्य स्थायिनि १ सेवकादौ। स्थापकानुचरे २ नटभेदे पु० “नटी विदूषको वाऽपि पारिपार्श्विक एव वा। सूत्रधारेण सहितः संलापं यत्र कुर्वते”। सूत्रधारसदृशत्वात् स्थापकोऽपि सूत्रधार उच्यते तस्यानुचरः पारिपार्श्विकः” सा० द०।

पारिप्लव = त्रि० परि + प्ल–अच् स्वार्थेऽण्। १ चञ्चले २ आकुले च अमरः। ३ तीर्घभेदे भा० व० ८ अ०। पञ्चममन्वन्तरे ५ प्रकृतिभेदे हरिवं० ७ अ०। ६ आख्यानभेदे शत० ब्रा० १३। ४। ३। २। तच्चाख्यानं “पारिप्लवमाख्यानमाख्यास्यन्” इत्युपक्रमे “मनुर्वैवस्वतो राजेत्याह” इत्यादिकं तत्र दृश्यम्

पारिभद्र = पु० परितो भदूमस्त्यस्य प्रज्ञाद्यण्। (पालदामान्दार) १ वृक्षे अमरः। “पारिभद्रोऽनिलश्लेष्मशोथमेदः कृमिप्रणुत्। तस्य पुष्पं पित्तरोगकर्णव्याधिविनाशनम्” भावप्र०। परिभद्राय कायति कै–क। २ देवदारुवृक्षे ३ निम्बवृक्षे च पु० मेदि०। ४ कुष्ठौषधौ न० शब्दच०। ५ सरलवृक्षे पु० शब्दच० ६ शाल्मलिद्वीपपतिपुत्रभेदे ७ तद्वर्षभेदे च पु० भाग० ५। २०। ९ श्लो०।

पारिभाव्य = न० परिभवाय रोगप्रशमनाय हितः ष्यञ्। कुष्ठौषधौ अमरः। परिभुवः प्रतिभुवो भावः ष्यञ्। प्रतिभूभवने “साक्षित्वं पारिभाव्यञ्च” इति स्मृतिः।

पारिभाषिक = त्रि० परिभाषात आगतः ठञ्। १ परिभाषातः प्राप्ते २ परिभाषारूपाधुनिकसङ्केतयुते शब्दे पु० ३ तादृशसंज्ञायां स्त्री। “उभयावृत्तिधर्मेण संज्ञा स्यात् पारिभाषिकी”। “उभयावृत्तिधर्म्मावच्छिन्नसङ्केतवती संज्ञा पारिमाषिकी यथाकाशडित्थादिः सा हि द्वितीयावृत्तिनैव शब्दादिना रूपेण तदाश्रयमभिधत्ते न चाकाशादिपदस्य गगनादौ निरवच्छिन्नैव शक्तिः पटादिपदस्यापि पटादौ तादृशशक्त्यापत्तेः पटे शक्तमपि पटपदं न पटत्वावच्छिशन्नशक्तिमदित्यादिग्रहोत्तरं ततः पटत्वविशिष्टस्याननुभवादवश्यं तच्छक्तिरवच्छिन्नेति चेत् शब्दवति शक्तमप्याकाशपदं न शब्दवत्त्वावच्छिन्नशक्तिमदित्येवं ग्रहदशायामाकाशादिपदान्न शब्दवत्त्वेन गगनस्य प्रतीतिरत- स्तस्यापि शब्दवत्त्वावच्छिन्नैव तत्र शक्तिरिति विभावव्यताम्। “यद्वाधुनिकसङ्केतशालित्वात् पारिभाषिकम्” यत्रार्थे यन्नामाधुनिकसङ्केतवत्तदेव तत्र पारिभाषिकं यथा पित्रादिभिः पुत्रादौ सङ्केतितं चैत्रादि यथा च शास्त्रकृद्भिः सिद्ध्यभावादौ पक्षतादि” शब्दशक्तिप्रका०।

पारिमाण्डल्य = न० परितो मण्डलं यस्य सर्वत्र विद्यमानत्वात् परिमण्डलः परमाणुस्तस्य मावः व्यञ्। १ न्योयोक्ते असमवायिकारणताशून्ये परमाणुपरिमाणे। स्वार्थे ष्यञ्। २ परिमण्डलशब्दार्थे परिमण्डलशब्दे दृश्यम्।

पारिमुखिक = त्रि० परिमुखं वर्त्तते ठक्। मुखसमीपे वर्त्तमाने।

पारियात्रिक = पु० पारियात्र + स्वार्थे ठक्। कुलाचलभेदे हेमच०। पारिपात्रशब्दे दृश्यम्।

पारियानिक = पु० परियानं प्रयोजनमस्य ठक्। मार्गयानयोग्यरथे हेमच०।

पारिरक्षक = पु० परिरक्षा व्रतभेदः प्रयोजनमस्य ठक्। मस्करिणि तापसे हेमच०।

पारिव्राजक = न० परिव्राजकस्य भावः युवा० अण्। परिव्राजकस्य भावे सन्न्यामे।

पारिश = पु० पिपूर्त्ति पॄ–णिनि पारी तं श्यति शो–क। (पलाशपिपुल) ख्याते वृक्षे।

पारिषत्क = पु० परिषदं तत्प्रतिपादकं ग्रन्थमधीते वेत्ति वा उक्था० ठक्। परिषद्ग्रन्थाध्येतरि तद्वेत्तरि च।

पारिषद = त्रि० परिषदि साधु अण् भवेऽर्थे पलद्या० अण वा। १ सभासाधौ २ सभाभवे च।

पारिषदक = त्रि० परिषदा कृतं कुला० वुञ्। परिषदा कृते

पारिषद्य = त्रि० परिषदि साधु–ण्य। सभायां साधौ

पारिसीर्य्य = त्रि० परिसीरं सीरं वर्जयित्वा भवम् परिमुखा० ञ्य। हलवर्जनेन भवे।

पारिहनव्य = त्रि० परिहनु + परिमुखा० ञ्य। हनूपरिमवे

पारिहारिक = त्रि० परिहारे साधु ठक्। परिहारकारके शब्दार्थकल्पतरु।

पारिहार्य्य = पु० परिह्रियतेऽसौ परि + हृ–कर्मणि घञ् स्वार्थे ष्यञ्। वलय अमरः।

पारी = स्त्री पा–पाने रक्षणे वा सम्प० भावे क्विप् तां राति रा–क गौरा० ङीष्। १ जलपूरे २ कर्कर्य्यां गलन्तिकायां ३ हस्तिपादबन्धनदामनि च मेदि०।

पारीण = त्रि० पारं गच्छति पार + खञ्। १ पारगे २ कर्मसमाप्तिकारके च।

पारीन्द्र = पु० पृ–पालने कर्मणि इण् पारिः पशुः पारिरिन्द्र इव। १ सिंहे २ अजग्रसर्पे च हेमच०।

पारीरण = पुंस्त्री० पार्य्यां जलपूरे रणति रण + अच। कमठे स्वियां ङीष्। १ दण्डे २ पटशाटके च विश्व।

पारु = पु० पिबति जले रश्मिभिः पा–क। १ आदित्ये २ वह्नौ च उणादि०

पारुच्छेपि = पु० आवापभेदे आश्व० श्रौ० ७। १२। १।

पारुष्ण = स्त्री पशुभेदे यजु० २४। २४ स्त्रियां ङीष्।

पारुष्य = न० परुषस्य भावः परुषि भबो वा ष्यञ्। १ निष्ठुरत्वे २ दुर्वाक्ये च मेदि०। ३ इन्द्रवने विश्वः ४ अगुरुचन्दने शब्दच० ५ वृहस्पतौ पु० मेदि०। ६ विरुद्धाचरणे दण्डपारुष्यशब्दे ३५३४ पृ० दृश्यम्।

पारेगङ्ग = अव्य० गङ्गायाः पारम् अव्ययी० एदन्तत्वं निपा०। गङ्गायाः पारे पारेसमुद्रादयोऽपि तत्तत्पारे।

पार्घट = न० पादे घटते घट–अच् पृषो०। पांशौ हारा०।

पार्थ = पु० पृथायाः कुन्त्या अपत्यम् शिवा० अण्। १ कुन्तीपुत्रे युधिष्ठिरादौ २ अर्जुननामवृक्षे शब्दच०। पृथेः पृथिव्या ईश्वरः अण्। ३ पृथिवीपाले

पार्थक्य = न० पृथक् इत्यस्य भावः ष्यञ् भत्वे अव्ययस्य टिलोपस्यानित्यत्वात् न टिलोपः। पृथक्त्वे

पार्थव = न० पृथोर्भावः पृथ्वा० इमनिजोऽभावपक्षे अण्। १ पृथुत्वे। पृथोरयम् अण्। २ पृथुसम्बन्धिनि स्त्रियां ङीप्। अस्य कार्त्तकौजपा० द्वन्द्वे न अन्तीदात्तता।

पार्थसारथि = पु० ६ त०। १ श्रीकृष्णे २ मीमांसाग्रन्थकारके मिश्रोपाधिके विद्वद्भेदे च।

पार्थिव = पु० पृथिव्या ईश्वरः अण्। १ राजनि पृथिव्याविकारः इदं वा उत्सा० अञ्। २ भूमिभवे त्रि० ३ सीतायां स्त्री ङीप्। ४ तगरपुष्पे न० राजनि०। पृथिव्याः निमित्तं संयोग उत्पातो वा अण्। ५ पृथिवीनिमित्ते ६ तत्संयोगे ७ तदुत्पाते च पशरीरे पु० त्रिका०।

पार्थ्य = पु० पृथेरपत्यं बा० यक्। पृथिवंश्ये नृपभेदे ऋ० १०। ९३। १५ भा०।

पार्य्य = पु० पारे भवः ष्यञ्। रुद्रभेदे यजु० १६। ४२।

पार्य्याप्तिक = त्रि० पर्य्याप्तिरेव स्वार्थे क सा अस्त्यस्य प्रज्ञा० अण्। १ सम्पूर्णे २ मृगभेदे पुंस्त्री० शब्द० स्त्रियां ङीष् पर्य्याप्तिमाह ठक्। ३ पर्य्याप्तिर्जातेति वादिनि।

पार्वण = त्रि० पर्वणि क्रियते शैषिकोऽण् पर्वणि भवे तु कालाट्ठञेव स्यात् तेन पार्विक इत्येव अतएव “न शारदः पार्विक शर्वरीश्वरः” इति नैषधे पठित्वा मल्लिनाथेन तथोक्तम्। १ पर्वविहिते २ अमावास्यानिमित्तके श्राद्धे न० यथोक्तं श्रा० त० “अमावास्याकर्त्तव्यपर्वकर्त्तव्ययोः पार्वणत्वमाह भविष्यपुराणम् “अमावास्यां यत् क्रियते तत्पार्वणमुदाहृतम्। क्रियते वा पर्वणि यत् तत्पार्वणमिति स्मृतिः”। अत्र यदित्यादेरुभयत्राभिधानेन विक- ल्पार्थवाशब्देन च पार्वणस्य लक्षणं द्वितीयमुक्तं पर्वणि यत् क्रियते इत्यनेनामावास्यायाः पर्वत्वात्तच्छ्राद्धस्य वैदिकप्रयोगाधीनयौगिकत्वेन पार्वणत्वप्राप्तौ अमवास्यायां यत् पृथगुपादानं तदमावास्याश्राद्धस्य रूढित्वार्थं तेन पार्वणेन विघानेन इत्यादौ यौगिकनानावयवशक्त्यपेक्षया एकस्या एव समुदायशक्तेर्लघुत्वात् अमावास्यापार्वणधर्मातिदेशो लभ्यते न तु पूपादिद्रव्याष्टकादिपार्वणधर्मातिदेशः। अतः अमावास्यायामष्टम्यादि पर्वणि च तन्निमित्तकश्राद्धे पार्वणश्राद्धम् अन्यत्र पार्बणविधिना श्राद्धमित्यभिलापे विशेषः”। कालमाधवीये च शातातप आह “दर्शश्राद्धन्तु यत् प्रोक्तं पार्वणं तत् प्रकीर्त्तितम्। अपराह्णे पितॄणां तु तत् प्रदानं विशेष्यते” इति। यद्यप्येतादृशं पार्वणं प्रतिपदि न प्राप्नोति तथापि तद्विकृतिरूपतया त्रिपुरुषोद्देशेन कर्त्तव्यादिकाम्यश्राद्धादेः पार्बणत्वं व्यवहर्त्तुं शक्यम्। अतएव काण्ववाक्यं पूर्वमुदाहृतम् “त्रीनुद्दिश्य तु यत्तद्धि पार्वणं मुनयी विदुः” इति। तस्य कालभेदाश्च नि० सि० निर्णीताः यथा वृद्धपराशरः “श्राद्धं वृद्धावचन्द्रेभच्छायाग्रहणसंक्रमे। नवोदके नवान्ने च नवच्छन्ने तथा गृहे। नवैक्षवेषु चेहन्ते पितरो हि मघास्वपि”। “पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च” इति शातातपपाठः नवोदके नवक्पवाप्यादाविति केचित्। वर्षोपक्रमे आर्द्राप्रवेशे इति गौडाः “वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः” अतः कृष्णपक्षे नेति गौडाः मैथिलास्तु “अकृताग्रयणं चैव धान्यजातं नरोत्तम!” इति वाराहोक्तेः प्रतिधान्यं श्राद्धमाहुः तन्न जातपदस्य श्राद्धयोग्यसमूहपरत्वात्। हेमाद्रौ जातूकर्ण्यः “ग्रहोपरागे च सुते च जाते पित्र्ये गयायामयनद्वये च। नित्यं च शङ्खे च तथैव पद्मे दत्तं भवेन्निष्क्रसहस्रतुल्यम्। शङ्खं प्राहुरमावास्यां क्षीणचन्द्रां द्विजोत्तमाः। अष्टकासु भवेत्पद्म तत्र दत्तं तथाऽक्षयम्”। तत्रैव शङ्खः “यदाविष्टिर्व्यतीपातो भानुवारस्तथैव च। पद्मकं नाम तत्प्रोक्तमयनाच्च चतुर्गुणम्”। याज्ञवल्क्यः “अमावस्याष्टकावृद्धिः कृष्णपक्षोऽयनद्वयम्। द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः। व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्य्ययोः। श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्त्तिताः” कृष्णपक्ष सर्वोऽपि “शाकेनापरपक्षं नातिक्रमेत मासि मासि वाऽशनमिति” श्रुतेः “ऊर्द्धं वा चतुर्य्या यदहः सम्पद्यते ऋते चतुर्दशीमिति” कात्यायनोक्तेः “मासि मासि कार्यमपरपक्ष्स्यापराह्णः श्रेयान्” इत्थापस्तम्बोक्तश्च वीप्सया सर्वकृष्णपक्षेषु नित्यम् “तेनोपसंहारान्महालयपरत्व परास्तम् अत्र प्रत्यहं पञ्चम्यादि यदहःसम्पत्तिर्वेति त्रय पक्षाः यदैकैकदिने श्राद्धं तदा दार्शं पृथगेव याज्ञवल्क्येनामावास्यायाः पृथङ्निर्देशात्। एतेन कृष्णपक्षे यदहः सम्पद्यते अमावास्यायां तु विशेषेणेति निगमोक्तेर्गुणोऽपरपक्षश्राद्धस्यामावास्येति शूलपाणिमतमप्यपास्तम्। अशक्तौ दर्शेनापि मासि श्राद्धसिद्धिरिति नारायणवृत्तिः। निरग्निकानां कस्मिंश्चिद्दिने आहिताग्नेस्तु दर्शे एव “न दर्शेन विना श्राद्धमाहिताग्नेर्हिजन्मन” इति मनूक्तेः सर्वकृष्णपक्षाशक्तौ मात्स्ये “अनेन विधिना श्राद्धं त्रिरव्दस्येह निर्वपेत्। कन्याकुम्भवृषस्थेऽर्के कृष्णपक्षे च सर्वदा”। कर्कोऽपि “आहिताग्नेः संवत्सरे त्रिः श्राद्धनियम” इति। देवलः “अनेन विधिना श्राद्धं कुर्य्यात् संवत्सरं सकृत्। द्विश्चतुवां यथाश्रद्धं मासे मासे दिने दिने”। कृष्णपक्षेष्वपि महालयस्य श्रेष्ठत्वं तच्चोक्तं प्राक्। व्यतीपाते विशेषमाह हेमाद्रौ शङ्खः “फलं लक्षघ्नमुत्पत्तौ भ्रमणे कोटिरुच्यते। पतने शतकोट्यस्तुं पाते वै दत्तमक्षयम्” ज्योतिःशास्त्रे “द्वाविंशतिस्तथोत्पत्तौ भ्रसणे चैकविंशतिः। पतने दश नाड्यस्तु पतिते सप्त नाडिकाः” अन्यौ च द्वौ व्यतीपातौ प्रागुक्तौ। हेमाद्रौ मार्कण्डेयः “यदा च श्रोत्रियोऽभ्येति गृहं वेदविदग्निचित्। तेनैकेनापि कर्त्तव्यं श्राद्धं च विषुवच्छुभम्”। इदं चापिण्डं कार्यमिति हेमाद्रिः एतज्जीव पितृकोऽपि “उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके मखे। तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः” इति मैत्रायणीयपरिशिष्टोक्तेः। तिथिविशेषे फलविशेषो याज्ञव् क्येनोक्तः “कन्यां १ कन्यावेदिन २ श्च पशू ३ न्वै भर्तृसुतानपि ४। द्यूत ५ कृषिं ६ च वाणिज्य ७ दिशफैकशफां ८। ९ स्तथा। ब्रह्मवर्चस्विनः पुत्रान् १० स्रणरौप्ये सकुप्यके ११। १२। ज्ञानिश्रैष्ठ्य १३ सर्वकामानाप्रोति १५ श्राद्धदः सदा। प्रतिपत्प्रभृतिष्वेका वजयित्वा वतुर्दशीम्” एताः कृष्णपक्षस्था एव महालये तु फलभूमेति पृथ्वीचन्द्रीदयः। पोर्णमास्यां हैमाद्रौ पितामहः “अमावास्याव्यतीपाते पौर्णमास्यष्टकसि च। विद्वान् श्रामकुर्वाणो नरकं प्रतिपद्यते” एतन्माव्यादिपरम् “व्रीहिपाके च कर्त्तव्यं यव- पाके च पार्थिव!। पौर्णमासी तथा माथी श्रावणी च नृपोत्तम!। प्रोष्ठपद्यामतीतायां तथा कृष्णत्रयोदशी। एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः” इति विष्णुधर्मोक्तेः। विष्णुः “माघी प्रोष्ठपद्यूर्द्धं कृष्णा त्रयो दशीति”। अत्र माथी पौर्णमासीति कल्पकरुः। श्रावण्यूर्द्ध्वमपि मघायोगसम्भवात्त्रयोदशी विशेषणमिति गौडाः नक्षत्रेष्वपि याज्ञवल्क्यः “स्वर्गं ह्यषत्यमोजश्च शौर्यं क्षेत्रं बलं तथा। पुत्रान् श्रैष्ठ्यं च सौभाम्यं सखद्धि मुख्यत शुभम्। प्रवृत्तचक्रता वापि बाणिज्यप्रभृतीनपि। अरोगित्वं यशोवीतशोकतां परमाङ्गतिम्। धनं वेदान् भिषक्सिद्धिं कुप्यङ्गाभप्यजाविकम्। अश्वानायुश्च विधि वद्यः श्राद्धं संप्रयच्छति। कृत्तिकादिभरण्यन्तं सकामान् प्राप्नुयादिमान्”। फलान्तराण्यपि महामारत कौर्मादेर्ज्ञेयानि। माधवीये मरीचिः “कृत्तिकादिषु ऋक्षेषु श्राद्धे यत् फलमीरितम्। विष्कम्भादिषु योगेषु तदेव फलमिष्यते” वृहस्पतिः “आरोग्यं चैव सौभाग्यं शत्रूणां च पराजयम्। सर्वान् कामान् प्रियां विद्या धनमायुर्यथाक्रमम्। सूर्य्यादिदिवसेष्वेतच्छ्राद्धकृल्लभते फलम्। बवादिकरणेष्वेतच्छ्राद्धकृल्लभते फलम्” अन्यानि च वण्णवतिश्राद्धादीनि प्रागुक्तानि मार्कण्डेयपुराणे श्राद्धार्हद्रव्यसम्पत्तौ तथा दुःस्वप्नदर्शने। जन्मर्क्षे ग्रहपीडासु श्राद्धं कुर्वीत चेच्छया”। “संक्रान्तान्नावुपरामे च पर्वण्यपि महालये। निर्वाप्यास्तु त्रयः पिण्डा एकतस्तु क्षयऽहनि। एकोद्दिष्टं परित्यज्य पार्वणं कुरुते द्विजः। अकृतं तद्वीजानीयात् स नरः पितृघातकः। अमावस्यां क्षयो यस्य प्रेतपक्षेऽथ वा यदि। सपिण्डोकरणादूद्धं तस्योक्तः पार्वणो विधिः। त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते। अहन्येकादशे प्राप्ते पार्वणन्तु विधीयते” लिखितस०। एतेषां व्याख्यानतात्पर्यकथनपूर्वकं विकृतिपार्वणविधानम् श्रा० त० निर्णीतं यथा “त्रयं सम्प्रदानानां त्रय कुर्य्यात् त्रिभ्यो दद्यादित्यर्थः। सृताहपर्युदस्तत्रिदैवतत्वस्य प्रतिप्रसवमाह अमावास्यामिति प्रेततक्षोऽत्र पितृपक्षा अश्वयुक्कृष्णपक्ष इति यावत् न तु कृष्णपक्षमात्र कृष्णपक्षसामान्यपरत्वेऽमाबास्यापदवैयर्थ्यापत्तेः पितृपक्ष विशपयति हेमाद्रिमाधवाचार्य्यधृतं नागरखण्डम “नभो वाथ नभस्यो वा भलमासो यदा भवेत्। सप्तमः पिवृपक्षः स्यादन्यत्रैव तु पञ्चमः”। अत्र श्रावणभाद्रयोरन्यतरस्य मखमासत्वे आपाढापेक्षया सप्तमपक्षस्य पितृपक्षत्वात् अत्र मृतस्यैव प्रोतपक्षमृतत्वं न तु मलमासभाद्रकृष्णपक्षमृतस्य। ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक्कृष्णपक्षेऽपि तच्छ्राद्धकरणे न पार्वणं किन्त्वेकोद्दिष्टमिति। अत्र पार्वणो विधिः पार्वणेतिकर्त्तव्यताकैकोद्दिष्टविधिरिति नव्यवर्द्धमानप्रभृतयः तन्न पूर्ववचनोक्तत्रैप्रुरुषिकस्य मृताहे पर्युदस्तस्य पार्वणो विधिरित्यनेन प्रतिप्रसवात् तस्मात् तदेकोद्दिष्टं त्रैपुरुषिकं न तु षाट्पौरुषिकं “कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्वषोडशम्। प्रत्याव्दिकञ्च शेषेषु पिण्डाः स्युः षडिति स्थितिः” इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दिकव्यतिरेकेण षट्संख्यानियमात्। एवममावास्यादिमरणनिमित्तेन मातुरपि पत्याव्दिकं पार्वणविधिनैव “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्” इति आपस्तम्बवचने अपुत्त्रा इति विशेषणोपादानात् सपुत्त्राणां पार्वणाभ्यनुज्ञानात्। एतच्च भात्रादित्रितयदैव तं कार्य्यम् “मात्रे पितामह्यै प्रपितामह्यै च पूर्ववत् ब्राह्मणान् भोजयित्वा” इत्यन्वष्टकायां तथा दर्शनात् अवसानदिननिमित्तत्वेन पार्वणविधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धं कर्त्तव्यं “न योषिद्भ्यः पृथग्दद्यादवसानदिनादृते” इति छन्दोगपरिशिष्टवचने विशेषतः प्रतिप्रसवात्। एवं सपिण्डीकरणेऽपि। एतच्च मृताह पार्वणं मातापित्रोरेव। तथा च हेमाद्रिधृतकात्यायनवचनं “सपिण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्वणम्। पितृव्यभ्रातृमातॄणामेकोद्दिष्टं सदैव तु”। मातृपदं सपत्नीमातृपरम्। सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादित्वात् परनिपातः ततश्च वाक्ये मातृसपत्नीति न प्रयोज्यं किन्तु सपत्नीमातरित्यादिकम्। एवं साग्निकौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम् “औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु। प्रत्यव्दमितरे कुर्युरेकोद्दिष्टं सुता दश” इति जावालवचनस्य “यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम्। पार्वणेन विधानेन देयमग्निमता सदा” इति मत्स्यपुराणवचनस्य चैकवाक्यत्वात्। उशना च “प्रत्यव्दं दर्शवच्छ्राद्धं साग्निः कुर्वीत वै द्विजः। एकोद्दिष्टं सदा कुर्य्यान्निरग्निः श्राद्धदः सुतः”।

पार्वत = त्रि० पर्वते भवः अण्। १ पर्वतजातमात्रे (घोडानिम) २ निम्बभेदे ३ दुर्गायां स्त्री ङीप् अमरः। ४ श- ल्लक्यां ५ गोपालपूतिकायां स्त्री मेदि० ६ जीवन्त विश्वः ७ द्रौपद्यां ८ सौराष्ट्रमृत्तिकायाम् रत्नमाला ९ क्षुद्रपा षाणभेदायां १० धातक्यां राजनि० तत्र दुर्गायां पार्वतीशब्दनिरुक्तिर्यथा “तिथिभेदे कल्पभेदे पर्वभेदप्रभेदतः। ख्यातौ तेषु च विख्याता पार्वती तेन कीर्त्तिता। महोत्सवविशेषश्च पर्वस्विति प्रकीर्त्तितम्। तस्याधिदेवी या सा च पार्वती परिकीर्त्तिता। पर्वतस्य सुता देवी साविर्भूता च पर्वते। पर्वताधिष्ठातृदेवी पार्वती तेन कीर्त्तिता” इति प्रकृतिखण्डे दुर्गोपाख्याने ५४ अ०। ११ अन्ने स्त्री ब० व० निघण्टुः तत्र वार्वत्यः इति पाठान्तरं तत्रार्थे।

पार्वतायन = पुंस्त्री० पर्वतस्यर्षेः गोत्रापत्यम् फक् वा। पर्वतर्षेर्गोत्रापत्ये पक्षे इञ्। पार्वति तत्रार्थे

पार्वतीनन्दन = पु० ६ त०। कार्त्तिकेये अमरः पार्वतीसुतादयोऽप्यत्र तस्य तत्सुतत्वकथा अग्निकुमारशब्दे ५५ पृ० भा० व० २२४ अ० वाक्ये दृश्या। तत्र उभायोन्यां तु रुद्रेणेत्यशुद्धम् उमायोन्यां तु रुद्रेणेत्येव पाठः साधुः।

पार्वतीश्वर = न० १ काशीस्थे शिवलिङ्गभेदे काशीख० २ शिवे पु०

पार्वतेय = न० पर्वते भवं ढक्। १ सौवीराञ्जने २ सूर्य्यावर्त्तवृक्षे पु० रत्नमाला।

पार्वायनान्तीया = स्त्री पर्वणोऽयनस्य चान्ते विहिता छण्। इष्टिभेदे सा च इष्टिर्दर्शपौर्णमासाग्रायणस्य काले विहिता” “इष्टी पार्वायनान्तीयाः केवला निर्व पेत् सदा” मनु० कुल्लूकव्याख्याने।

पार्शव = पु० पर्शुः प्रहरणमस्य। पर्शुप्रहरणयुक्ते

पार्श्व = पु० न० स्पृश–श्वण् धातोः पृ–च। १ कक्षाधोभागे अमरः २ समीपे च। पर्शूनां पार्श्वासथ्नां समूह पर्शूअण। पर्शूसमूहे न० मेदि० ४ जिने पु० ५ सन्निकृष्टे त्रि० हेमच०। ६ अनृजूपाये शाठ्ये सि० कौ०।

पार्श्वक = त्रि० पार्श्वेन अनृजूपायेन शाठ्येनान्विच्छति कन्। शाठ्येनान्विच्छायुक्ते।

पार्श्वतस् = अव्य० पार्श्व + सार्बविभक्तिकस्तसिल्। तत्तद्विभक्त्यर्थयुते पार्श्वशब्दार्थे ततो भवार्थे गहा० छ भत्वे टिलोपः। पार्श्वतीय पार्श्वतोभवे त्रि०।

पार्श्वद = त्रि० पार्श्वं ददाति दा–क। पार्श्वचरे भा० श० ४६ अ०

पार्श्वनाथ = पु० परेशनाथे जैनदेवभेदे

पार्श्वपरिवर्त्तन = न० पार्श्वेन परिवर्त्तनम्। यत्पार्श्वमधः स्थापयित्वा शयितः तत्पार्श्वस्योर्द्धोन्नयने (पाशमोड) १ पार्श्वस्य परावृत्तौ। सुप्तस्य हरेः भाद्रशुक्लैकादश्यादौ कर्त्तव्ये पार्श्वपरिवर्त्तनाख्ये २ उत्सवभेदे च “प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि। कटिदानं भवेद्विष्णोर्महापातकनाशनम्। जलाशयान्तिकं नीत्वा संपूज्याभ्यर्च्य च प्रभुम्। कर्णिकापरिवृत्तिञ्च दक्षिणाङ्गे प्रकल्पयेत्” हरिभ० भवि० पु०। एकादश्यामिति सन्ध्यायां श्रवणमध्यपादलाभे वोध्यमन्यथा “द्वादश्यामेव कारयेत्” तत्र व्यवस्था उत्थानशब्दे ११०३ पृ० दृश्या।

पार्श्वपिप्पल = न० पार्श्वेपिप्पलमिव। हरीतकीभेदे (गजाठ) भावप्र०।

पार्श्वभाग = पु० कर्भ०। १ पक्षभागे हस्त्यादेः २ पार्श्वदेशे अमरः

पार्श्वल = त्रि० पार्श्व + अस्त्यर्थे सिध्मा० लच्। पर्शुसमुदाययुते

पार्श्ववक्त्र = पु० पार्श्वे वक्त्रमस्य। महादेवे हरिवं० २१७ अ०।

पार्श्वशय = त्रि० पार्श्वाभ्यां शेते शी–अच्। पार्श्वाभ्यां क्रमेण शायिनि।

पार्श्वशूल = पु० सुश्रुतोक्ते शूलरोगभेदे तल्लक्षणादि यथा “रुणाद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः। स संरुध्यकरोत्याशु ध्मानं गुडगुडायनम्। सूचीभिरिव निस्तोदः कृच्छोच्छासी तदा नरः। नान्नं वाञ्छति नो निद्रामुपैत्यार्त्तिनिपीडितः। पार्श्वशूलः स विज्ञेयः कफानिल समुद्भवः”।

पार्श्वस्थ = त्रि० पार्श्वे तिष्ठति स्था–क ७ त०। १ समीपस्थिते २ तथाभूते नटे पारिपार्श्विके हेमच०।

पार्श्वादि = “पार्श्वादिषूपसंख्यानम्” वार्त्ति० उक्ते शेतेरच्प्रत्ययनिमित्ते शब्दगणे स च गणः “पार्श्व उदर पृष्ठ उत्तान अवमूर्द्ध”।

पार्श्वास्थि = न० ६ त०। देहपार्श्वस्थिते अस्थ्नि (पा~जर) अमरः

पार्श्विक = त्रि० पार्श्वे भवः ठक्। १ पार्श्वभवे २ सन्धिजीवके हारा०

पार्श्वी = स्त्री द्वि० व०। द्यावापृथिव्योः निघण्टुः।

पार्श्वेकादशी = स्त्री पार्श्वस्य हरेः पार्श्ववर्त्तनस्य निमित्तमेकादशी। पार्श्ववर्त्तनैकादश्याम् भाद्रशुक्लैकादश्याम्। पार्श्ववत्त नशब्दे दृश्यम्।

पार्श्वोदराप्रय = पाश्व मुदरञ्च ताभ्यां प्रीणाति भोजिनं प्रीक। कर्कटे हेमच०।

पार्षिक = पु० गोत्रप्रवर्त्तकर्षिभेदे प्रवराध्यायः।

पार्षत = त्रि० पृषतस्य विराटनृषस्येदम् अण्। १ विराटनृपसम्बन्धिनि २ तत्पुत्रे धृष्टद्युम्ने पु० ३ द्रौपद्यां स्त्री ङीप् त्रिका०

पार्षद् = स्त्री परि द् + पृषो०। सभायां त्रिका०।

पार्षद = त्रि० पार्षदमर्हति अण्। पारिषदे शब्दच०। ष्यञ्। पार्षद्योऽप्यत्रार्थे भरतः।

पार्षदंश = त्रि० पृषदंशे भवः उत्सा० अञ्। पृषदंशे विन्दोरंशे भवे।

पार्षदश्व = पु० पृषदश्वस्य वायोर्नृपभेदस्य वेदम् अण्। १ वायुसम्बन्धिनि २ नृपभेदसम्बन्धिनि च ३ गोत्रप्रवर्षिभेदे पु० आश्व० श्रौ० १२ ११

पार्ष्ठिक = त्रि० पृष्ठे षडहे भवः ठञ्। षडहसम्बन्धिनि कात्या० श्रौ० २२ ७१

पार्ष्णि = पुंस्त्री० पृष–नि नि० वृद्धिः। १ पादग्रन्थेर्गुल्फस्याधोभागे अमरः। (गोडारि) २ पृष्ठे मेदि० ३ सैन्यपृष्ठे हला० ४ जिगीषायाञ्च पु० रत्नकोषः ५ उन्मदस्त्रियां स्त्री मेदि० कुन्त्यां स्त्री धरणिः।

पार्ष्णिक्षेम = पु० विश्वदेवभेदे भा० अनु० ९१ अ०।

पार्ष्णिग्राह = पु० पार्ष्णिं पृष्ठपदं गृह्णाति अण्। विजयार्थ जिगमिषोः पश्चात्पदग्राहिणि पृष्ठस्थे १ शत्रौ २ द्वादशराजचक्रमध्ये पृष्ठस्थायिनृपे च अरिशब्दे ३५५ पृ० दृश्यम्।

पार्ष्णिवाह = त्रि० पार्ष्णिं वहति वह–अण्। पृष्ठस्थे कार्यनिर्वाहके भा० सौ० १३० अ०।

पार्ष्णील = त्रि० पार्ष्णिरस्त्यस्य सिध्मा० लच् दीर्घश्च। पार्ष्णियुक्ते

पाल = रक्षणे चु० उभ० सक० सेट्। पालयति ते अपीपलत् त।

पाल = त्रि० पालयति पाल–अच्। १ रक्षके “पालदोषविनाशे च पाले दण्डो विधीयते” इति स्मृतिः। भावे अच्। २ रक्षणे पु०।

पालक = पु० पालयति पाल–ण्वुल्। १ अश्वरक्षके जटा० २ चित्रकवृक्षे पु० राजनि० ३ पालनकर्त्तरि त्रि० स्त्रियां टाप कापि अतैत्त्वम् एतदन्तस्य पुंयोगेऽपि टाप् गोपालकस्य पत्नी गोपालिका इत्येव न ङीष्।

पालकाव्य = पु० १ करेणुभुवि मुनिभेदे हेमच०। २ तत्कृते हस्त्यश्वादिलक्षणज्ञापके अर्थशास्त्रभेदे न०

पालक्या = स्त्री पालाय कायति कै–क। (पालङ्) शाकभेदे हेमच०।

पालघ्न = पु० पालं जलादितो रक्षकं छत्रं हन्ति हन–ठक्। १ छत्राख्ये २ जलजतृणभेदे अमरः।

पालङ्क = पु० पाल–सम्प० क्विप् पाला अङ्क्यते अङ्क–घञ्। (पालङ) १ शाकभेदे अमरः। स्त्रीत्वमपि स्त्रियां ङीष्। अत्रैव “पालङ्की कथिता रूक्षा वातादित्रयबन्धनुत् राजवल्लभः २ कुन्दुरुवृक्षे स्त्री अमरः गौरा० ङीष्।

पालङ्क्य = न० पालङ्क + स्वार्थेष्यञ्। (पालङ्) १ शाके राजनि २ कुन्दरौ स्त्री अमरः। “पालङ्क्या वातला शीता श्लेष्मला भेदिनी गुरुः। विष्टम्मिनी मदश्वासपित्तरक्तविषापहा” भावप्र०। २ श्येनखगे मेदि०।

पालन = न० पाल–भावे ल्युट्। १ रक्षणे करणे ल्युट्। सद्यःप्रसूतायाः गोः क्षीरे पेयूषे शब्दचन्द्रिका। तत्क्षी रस्य पानद्वारा वत्मपालनकरत्वात् तथाभूतत्वम्।

पालबणिज् = पु० पाले कन्यारक्षणे वणिक्। कन्यापाले त्रिका०

पालल = त्रि० पललस्य तिलचूर्णस्य विकारः अण्। तिलचू र्णपिष्टके “पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः” सुश्रु०।

पालाश = त्रि० पलाशस्य विकारः अवयवो वा अख्। १ पलाशावयवे २ तद्विकारे च “पालाशो दण्ड आषाढः” अमरः। ३ तमालपत्रे (तेजपात) राजनि० तद्वर्णः अंस्त्यस्य अण्। ४ हरिद्वर्णे पु० ५ तद्विशिष्टे त्रि० अमरः पलाशेन निर्वृत्तम् सङ्काशा० ण्य। पालाश्य पलाशनिर्वृत्ते त्रि०। पलाशस्यादूरदेशादि वराहा० कक्। पालाशक तत्सन्निकृष्टदेशादौ। स्वार्थे क। तत्रार्थे

पालाशखण्ड = पु० मगधदेशे शब्दरत्ना०।

पालाशि = पु० पलाश गोत्रप्रवर्षिभेदे प्रवराध्यायः।

पालि(ली) = स्त्री पल–बा० इण्। १ कर्णलताग्रे २ अश्रौ कोणे ३ श्रेणौ ४ अङ्कभेदे ५ छात्रादिदेये च मेदि० ६ यूकायां ७ पोटायां ८ प्रशसायां ९ प्रस्थे १० उत्सङ्गे क्रोडे च हेमच० वा ङीप् दीर्घान्तः ११ स्थाल्याम् शब्दच०।

पालिंहिर = स्त्री मण्डलिसर्पभेदे सुश्रुतः अहिशब्दे दृश्यम्।

पालिका = स्त्री पालि + स्वार्थे क। १ पालिशब्दार्थे संज्ञायां कन्। २ कर्णपत्रे शब्दच० ३ दध्यादिच्छेदन्यां हारा०। ४ पालनकर्त्त्र्यां स्त्रियां च।

पालित = त्रि० पाल–क्त। १ रक्षिते क्रोष्टुवंश्ये २ नृपभेदे ३ देशभेदे च पु० हरिवं० ३७ अ०। ४ शाखोटवृक्षे पु० शब्दाथंकल्प० ५ कुमारानुचरमातृभेदे स्त्री भा० श० ४७ अ०।

पालित्य = न० पलितस्य भावः ष्यञ्। केशादेः शुभ्रतादौ। पलितस्यादूरदेशादि सङ्काशा० ण्य। पलितस्य सन्निकृष्टदेशादौ त्रि०।

पालिन् = त्रि० पालयति पालि–णिनि। १ पालके २ पृथुपुत्रनृपभेदे पु० हरिवं० २ अ०।

पालिन्द = पु० पालि–वा० किन्दच्। १ कुन्दुरुवृक्षे राजनि०। २ श्यामालतायां स्त्री अमरः गौरा० ङीष्। पलिन्धीति पाठान्तरम् पृषो०। ३ त्रिवृतायां द्विरूपकोषः।

पालिशायन = पु० गोत्रप्रवर्षिभेदे प्रवराध्यायः।

पालीवत = काण्डरोप्ये वृक्षभेदे वृ० सं० ५४ अ०। “द्राक्षापालीवताश्चैब वीजपूरातिमुक्तकाः। एते द्रुमाः काण्डरोप्या गोमयेन प्रलेपिताः। मूलच्छेदेऽथ वा स्कन्धे रोपणीयाः प्रयत्नतः”।

पालोहय = पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः।

पाल्लक = त्रि० पल्ल्यां भवः धूमा० वुञ्। पल्लीभवे जानदौ

पाल्वलतीर = त्रि० पल्वलतीरे भवः अञ्। पल्वलतीरभवे

पावक = पु० पुनाति पू–ण्वुल्। १ वह्नौ अमरः “अपावनानि सर्वाणि वह्निसंसर्गतः क्वचित्। पावनानि भवन्त्येव तस्मात स पावकः स्मृतः” इति काशीख० ९ अ० उक्तेत्तस्य तथात्वम्। २ वेद्युताग्नौ च “पावकः पवमानश्च शुचिरग्निश्च ते त्रयः। निमन्थ्यः पवमानः स्यात् वैद्युतः पावकः स्मृतः। यश्चासौ तपते सूर्य्यः शुचिरग्निश्च स स्मृतः” कूर्मपु०। ३ सदाचारे ४ वह्निमन्थे ५ चित्रकवृक्षे ६ भल्लातके ७ विडङ्गे च मेदि०। ८ शोधके त्रि० हेमच०। ९ रक्तचित्रके १० कुसुम्मे च पु० राजनि० ११ वरुणे १२ सूर्ये च ऋ० १। ५०। ६ भा० तयोश्च शोधकत्वात् तथात्वम्। १३ ऋषिभेदे भा० व० १२५ अ०। पावः पवनं शुद्धिस्तं कायति कै–क। १४ सरस्वत्यां स्त्री ऋ० १। ३। २० भा०। पावकाश्च सप्तविंशतिः “पावकाः सप्तविंशतिः” भा० स० ७ अ० व्याख्यायां नीलण्ठधृतवाक्येभ्यः तानि च “ब्रह्मणोऽङ्गात् प्रसूतोऽग्निरङ्गिरा १ इति विश्रुतः। दक्षिणाग्निर्गार्हपत्याहवनीयाविति २। ३। ४ त्रयी। निर्मन्थ्यो ५ वैद्युतः ६ शूरः ७ संवर्त्तो ८ लौलिक ९ स्तथा। जाठरो १० विषगः ११ क्रव्यात् १२ क्षेमवान् १३ वैष्णव १४ स्तथा। दस्युमान् १५ वलद १६ श्चैव शान्तः १७ पुष्टो १८ विभावसुः १९। ज्योतिष्मान् २० भरतो २१ भद्रः २२ २३ स्विष्टकृदृसुमान् २४ क्रतुः २५। सोमश्च २६ पितृमां २७ श्चैव पावकाः सप्तविंशतिः”। अन्ये पावकभेदा अग्निशब्दे ५३ पृ० दृश्याः ति० त० गृह्यपरिशिष्टे कर्मभेदे तस्य नामभेदा उक्ता यथा

“लौकिके पावको१ ह्यग्निः प्रथमः परिकल्पितः। अग्निस्तु मारुतो२ नाम गर्भाधाने विधीयते। पुंसवने चन्द्रनामा ३ शुङ्गाकर्मणि शोभनः ४। सीमन्ते मङ्गलो ५ नाम प्रगल्भो ६ जातकर्मणि। नाम्नि स्यात् पार्थिवो ७ ह्यग्निः प्राशने च शुचि ८ स्तथा। सत्यनामा ९ थ चूडायां व्रतादेशे समुद्भवः १०। गोदाने सूर्य्यनामा ११ च केशान्ते ह्यग्नि १२ रुच्यते। वैश्वानरो १३ विसर्गे तु विवाहे योजक १४ स्तथा”। गोदाने गोदानाख्य संस्कारे। “चतुर्थ्यान्तु शिखी १५ नाम धृति १६ रग्निस्तथाऽपरे”। अपरे धृतिहोमादौ। “प्रायश्चित्ते विधु १७ श्चैव पाकयज्ञे तु साहसः” १८। प्रायश्चित्ते तदात्मकमहाव्याहृतिहोमादौ। पाकयज्ञे पाकाङ्गकवृषोत्सर्गगृहहोमादौ। “लक्षहोमे च वह्निः १९ स्यात् कोटिहोमे हुताश- नः २०। पूर्णाहुत्यां मृडो २१ नाम शान्तिके वरदः २२ सदा। पौष्टिके वलद २३ श्चैव क्रोधो २४ऽग्निश्चाभिचारके। कोष्ठे तु जठरो २५ नाम क्रव्यादो २६ मृतभक्षणे। आहूय चैव होतव्यो यत्र यो विहितोऽनलः”।

पावकात्मज = पु० ६ त०। १ कार्त्तिकेये पावकसुतादयोऽप्यत्र इक्ष्वाकुवंश्यदुर्य्योधनकन्यवोढरि सुदर्शनाख्ये २ मुनिभेदे च

पावकारणि = पुंस्त्री० ६ त०। अग्निमन्थनकाष्ठे शब्दमाला। अरणिशब्दे दृश्यम्।

पावकि = पु० पावकस्यापत्यम् इञ्। १ कार्त्तिकेये सुदर्शनाख्ये मुनिभेदे च भा० आनु० २ अ० तत्था दृश्या।

पावकेश्वर = पु० १ तीर्थभेदे शिवपु०। काशीस्थे पावकस्थापिते २ शिवलिङ्गभेदे न०।

पावन = त्रि० पावयति पू–णिच्–ल्यु। १ पवित्रीकारके २ प्रायश्चित्ते ३ जले च न० मेदि० ४ गोमये न० शब्द च०। ५ रुद्राक्षे ६ कुष्ठौषधे न० राजनि० ७ चित्रकवृक्षे ८ अध्यासे न० विश्वः। पावके ८ वह्नौ ९ वेदव्यासे पु० मेदि०। १० सिह्लके विश्वः। ११ पीतभृङ्गराजे पु० राजनि०। १२ सिद्धे १३ पावयितरि त्रि० हेमच० १४ विष्णौ पु० विष्णुसं० पवनशब्दे दृश्यम् तस्य स्मृतिमात्रेण पवित्रताकरणात् तथात्वम् “पवनः पावनोऽनलः” इति द्विधापाठस्तु पावयतीति “भीषास्माद्वातः पवते” इति श्रुतेः पवनव्यापारनियोक्तृत्वात् पावनत्वम् इति अर्थभेदान्नामद्वयम्। करणे ल्युट् ङीप्। १५ हरीतक्यां १६ स्त्रीगव्यां १७ तुलस्यां च स्त्री राजनि० १८ गङ्गायां च स्त्री।

पावनध्वनि = पु० पावनो ध्वनिरस्य। १ शङ्खे राजनि० २ पावनशब्दयुक्ते त्रि०।

पावमान = त्रि० पवमानमधिकृत्य प्रवृत्तम् अण्। १ पवमानवह्न्याद्यधिकारेण प्रवृत्ते सूक्ते २ ऋचि स्त्री ङीप्।

पावित्रायण = पुंस्त्री पवित्रस्यर्षेर्गोत्रापत्यम् अश्वा० फञ्। पवित्रर्षेर्गोत्रापत्ये।

पावीरवी = स्त्री १ शोधयित्र्यां स्त्रियां ऋ० ६। ४९। ७ भा० “आयुधवान् पवीरवान् इन्द्रो देवताऽस्य अण् ङीप्। २ दिव्यायां ३ वाचि निरु० १२। ३० “इन्द्रः पावीरवान् तद्देवता का पावीरवी पावीरवी च दिव्या वाक्” इत्युक्तम्।

पाश = पु० पश्यते बध्यतेऽनेन पश–करणे घञ्। १ मृगविहगादिबन्धने रज्ज्वुभेदे (फा~द) २ रज्ज्वुमात्रे च। केशादुत्तरं पाशशब्दः संघार्थः। यथा केशपाशः। कर्णात् परः शोभार्थः यथा कर्णपाशः शोभनकर्ण इत्यर्थः। छात्रादिभ्यः पाशप्। छात्रपाश अपकृष्णच्छात्र इत्याद्यर्थे ३ शस्त्रभेदे शब्दरत्ना०। तल्लक्षणं हेमा० परि० औशनसशास्त्रोक्तं यथा “शाणं क्षौमं कार्पासं सूत्रं तथा रोमाणि चर्म च सर्वकालिकस्य पाशस्य द्रव्याणि भवन्ति तानि द्रव्याणि स्नायुमिश्राणि ग्रैष्मस्य पाशस्य योग्यानि स्युः। नालिकेलवल्कलादिबन्धनादि प्रावृषेण्यस्य नारिकेलाश्मन्तक तालवृन्तवल्कलानि हैमनस्य पाशस्य भवन्ति। त्रिवृतादृढवृतगुणसयुक्तः पाशः प्रयोगिकः। पाशो भवेदामूलात् सङ्गपाशः षडङ्गुलः स्याद्रक्षासुप्रमाणः सुखावहः सुखस्पर्शश्च पाशस्थाने सुमृष्टोऽनुपूर्वबलान्वितो भवति। रज्ज्वुपाशस्तु नवकानुवर्त्तितः स्यात्। एकहस्तस्त्रिहस्तः पादहीनः सह कर्णाभ्यां च पाशो दशपलिकः पादान्ते पञ्चकार्मुकः श्रेष्ठो भवति पञ्चदशपलो वा तथा रथाश्वयोरपि विज्ञेयो। विंशतिपलिकः कर्त्तव्यः प्रमाणे सप्तकार्मुकस्त्रिंशत्पलिको वा स्यन्दिनां मतङ्गजस्य नवपलको हस्तिनि प्लवे च पाशो भवति भावविकृते नागारत्निगुणः पाशः” इति।

पाशक = पु० पश–ण्वुल्। द्यूतक्रीडासाधने गुडिकादौ (पाशा) अमरः।

पाशद्युम्न = पु० वयतः पुत्रे एतन्नामके नृपे ऋ० ७३३२ भा० दृश्यम्।

पाशधर = पु० पाशं धारयति धारि–अच् ह्रस्वः। १ वरुणे हरिवं० ४८० अ० तद्देवताके २ शततारके ३ पाशधारिमात्रे त्रि०

पाशन = न० पाशि–भावे ल्युट्। बन्धने भा० द्रो० ५९ अ०।

पाशपाणि = पु० पाशः पाणौ यस्य। १ वरुणे हला० २ शतभे च पाशहस्तादयोऽप्यत्र पाश + अस्त्यर्थे इनि। पाशीत्यप्यत्र

पाशभृत् = पु० पाशं बिभर्त्ति भृ–क्विप्। १ वरुणे २ तद्देवताके शतभिषानक्षत्रे न०। ३ पाशधारिमात्रे त्रि०। “हंसारूढः पाशभृद्वरुणः” वृ० सं० ५० अ०।

पाशमुद्रा = स्त्री तन्त्रसारोक्ते मुद्राभेदे “वाममुष्टेस्तु तर्जन्या दक्षमुष्टेस्तु तर्जनीम्। संयोज्याङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे स्वके क्षिपेत्। एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्त्तिता”।

पाशव = त्रि० पशोरिदम् अण्। १ पशुसम्बन्धिनि तन्त्रोक्ते २ पश्वाचारे च पशूनां समूहः अण्। ३ पशुसमूहे न०

पाशवपालन = न० पाशवं पशुसंघंपालयति पालि–ल्यु। घासे शब्दच०

पाशवासन = न० “पाशवासनमावक्ष्ये कृत्वा पशुपतिर्भवेत्। पृष्ठे हस्तद्वयं बद्ध्वा कर्पराग्रे स्वमस्तकम्” रुद्रजा० उक्ते आसनभेदे।

पाशवीज = न० (आ~) इत्याकारके वीजे देवप्र० रघु०।

पाशहस्त = पु० पाशः हस्ते यस्य। १ वरुणे २ शतभे च ३ हस्तस्थितपाशके त्रि०।

पाशादि = (पाशादिभ्योयः) पा० उक्तयप्रत्ययनिमित्ते शब्द गणे स च गणः “पाश तृण धूम वात अङ्गार पाटल पोत गल पिटक पिटाक शकट हल नट वन”। तदन्तः स्त्रीलिङ्गः पाश्या वात्या इत्यादि।

पाशान्त = पु० पार्श्वस्यान्तः पृषो०। वस्त्रस्य पार्श्वान्ते वृ० सं० ७१ अ०।

पाशिक = त्रि० पाशः प्रहरणमस्य ठक्। पाशवन्धनरूपप्रहरणयुक्ते मृगयौ वृ० सं० ७५ अ०।

पाशिन् = पु० पाशोऽस्त्यस्य इनि। १ वरुणे २ शतभे ३ पाशवति त्रि०। स्त्रियां ङीप्। ४ व्याधे पु० मेदि० ५ धृतराष्ट्रपुत्रभेदे पु० भा० आ० ११७ अ०।

पाशिल = त्रि० पाशस्यादूरदेशादि० काशा० इल। पाशस्य सन्निकृष्टदेशादौ।

पाशिवाट = पु० देशभेदे भा० भी० ९ अ०। सोऽभिजनोऽस्य अण्। तस्य बहुषु लुक्। पित्रादिक्रमेण तद्देशवासिषु ब० व०।

पाशुक = पु० पशोर्यागज्ञापकग्रन्थस्य व्याख्यानो ग्रन्थः द्व्यच्कत्वात् ठक्। १ पशुयागज्ञापकग्रन्थव्याख्याने। पशोरिदम् ठक्। २ पशुसम्बन्धिनि त्रि० कात्या० श्रौ० ३१। २० “नानापाशुकमज्जमांसरुधिरैः कृत्वा नवम्यां वलिम्” ति० त०।

पाशुपत = त्रि० पशुपतिर्देवताऽस्य तस्येदं तेन प्रोक्तम् वा अश्वपत्या० अण्। १ पशुपतिदेवताके अस्त्रादौ २ तद्दैवते हविरादौ ३ पशुपतिसम्बन्धिनि ४ तेनोपदिष्टे शास्त्रभेदे न० तन्मतं पशुपतिशब्दे दर्शितम्। ५ वकवृक्षे पु० मेदि० तस्य तत्प्रियत्वात्तथात्वम्।

पाशुपाल्य = न० पशुपालस्य भावः ष्यञ्। वैश्यवृत्तौ याज्ञ० १। ११९

पाशुबन्धक = त्रि० पशुबन्धः प्रयोजनमस्य ठक्। यज्ञे १ आलम्भनार्थपशुबन्धनस्थानादौ २ वेद्यां स्त्री कापि अतैत्त्वम् आश्व० श्रौ० ३। १। ६

पाश्चात्त्य = त्रि० पश्चाद् भवः त्यक्। पश्चिमदेशभवे।

पाश्चात्त्याकरसम्भव = न० पाश्चात्त्ये आकरे सम्भवति सम् + भू–अच् ७ त०। (सामरी) लवणभेदे रत्नमाला।

पाषक = न० पष–बब्धे ण्वुल्। पादाभरणभेदे

पाषण्ड = त्रि० पाति रक्षति दुरितेभ्यः पा–क्विप् पाः वेदधर्मस्तं षण्डयति निष्फलं करोति। “पालनाच्च त्रयीधर्मः पाशब्देन निगद्यते। षण्डयन्ति तु तं यस्मात् पाषण्डस्तेन कीर्त्तित” इत्युक्ते वेदाचारत्यागिनि अमरः ण्वुल्। पाषण्डक तत्रार्थे त्रि०।

पाषण्डिन् = पु० पां वेदधर्मं षण्डयति षण्ड + णिच–इनि पाषण्डे शब्दच० तस्य लक्षणं यथा “येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः। नारायणादु जगद्वन्द्यात् ते वै पाषण्डिनस्तथा। कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः। ऋते वनस्थाश्रमांश्च जटावल्कल धारिणः। अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा। शङ्खचक्रोर्द्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः। रहिता ये द्विजा देवि! ते वै पाषण्डिनो मताः। श्रतिस्मृत्युक्तमाचारं यस्तु नाचरति द्विजः। स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः। समस्तयज्ञभोक्तारं विष्णुं ब्रह्मण्यदैवतम्। उदस्य देवतान्येभ्यो जहोति च ददाति च। स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्म्मसु। स्वातन्त्र्यात् क्रियते यैस्तु कर्म वेदोदितं महत्। विना वै भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः। यस्तु नारायणं देवं व्रह्मरुद्रादिदैवतैः। समत्वेनैव जानाति स पाषण्डी भवेत् सदा। अनास्था क्रियते यैस्तु मनोवाक्कायकर्मभिः। वासुदेवं न जानाति स पाषण्डी भवेत् द्विजः। हरेर्नामकमन्त्राभ्यां लोकाः सद्भिर्विवर्जिताः। यदि वर्णाश्रमाद्या ये ते वै पाषण्डितः स्मृताः। वर्णानां गुरवो नित्यं शिवे! यद्यप्यवैष्णवाः। भगवद्धर्मरहिता वैष्णवादिविनिन्दकाः। रजस्तमोमया जीवहिंसका जीवभक्षकाः। असत्प्रतिग्रहरता देवला ग्रामयाजकाः। भ्रष्टाचारास्तथा व्रात्या नानाविबुधपूजकाः। देवतोच्छिष्टश्राद्धादिभोजिनः शूद्रवत्क्रियाः। विविधासत्कर्मरता भक्षणाद्यविचारिणः। लोभमोहमदक्रोधकामाहङ्कारिणः सदा। एवंविधाः पारदारिकाद्या येऽत्र शुभानने!। अन्येषां का कथा तत्र पाषण्डा ब्राह्मणाः स्मृताः। वर्णाश्रमाद्या ये मर्त्याः स्वस्वधर्मविवर्जिताः। ते वै पाषण्डिनो देवि! नारायणबहिर्मुखाः। सर्वाशिनो द्विजा येऽपि सर्वविक्रयिणस्तथा। ये वेदाचाररहितास्ते वै पाषण्डिनो मताः। ये त्वसद्भक्ष्यपानादिरता लोका निरन्तरम्। शिवे! पाषण्डिनो ज्ञेया इह नास्त्यत्र संशयः। विष्णुवैष्णवगोभूमिदेवादिषु विशेषतः। अश्वत्थतुलसीतीर्थक्षेत्रादिषु महा गुरौ। लक्ष्मीसरस्वतीगङ्गायमुनासु वरानने!। स्मृताः पाषण्डिनस्तेऽपि ये न सेवापरायणाः। रुद्राक्षेन्द्राक्षभद्राक्षस्फटिकाक्षादिधारिणः। जटिला भस्मलिप्ताङ्गास्ते वै पाषण्डिनः प्रिये!। असिजीवी मसीजीवी- घावकः पाचकस्तथा। एते पाषण्डिनो विप्रा मादक द्रव्यभोजिनः। देवि! कार्ष्णादयो भक्ता अनन्यशरणास्तु ये। पाषण्डसङ्गं न कुर्युस्तद्गेहे पानभोजने। तत् स्पर्शजलपानञ्च चक्रुस्तत्सङ्गमादिकम्। तत्पानभोजनालापसङ्गालिङ्गनतोऽचिरात्। पाषण्डिनो वैष्णवाः स्युरन्येषामपि का कथा। किमत्र बहुनोक्तेन ब्राह्मणा ये ह्यवैष्णवाः। असदाचरणाश्चेत् स्युस्तदा पाषण्डिनः स्मृताः। एतद्भोजनपानादिकर्मभिर्वैष्णवा जनाः। पाषण्डिनस्तथा स्युर्वै जटामस्मादिधारिणः” पाद्मोत्तरखण्डे पाषण्डाचरणं नाम ४२ अ०। एतच्च वैष्णवप्रशंसार्थंशैव लिङ्गधारणस्यापि शास्त्रसिद्धत्वात्। तत्संसर्गादिनिषेधो यथा “तस्मात् पाषण्डिभिः प्रापैरालापं स्पर्शनं त्यजेत्। विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः। क्रियाहानिर्गृहे सूर्यं पश्येत सतिमान् नरः। किं पुनर्येस्तु सन्त्यक्ता त्रयी सर्वात्मना द्विज!। पाषण्डभोजिभिः पापैर्वेदवादविरोधिभिः। पाषण्डिनो विकर्मस्थान् वैडालव्रतिकान् शठान्। हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत्। दूरापास्तस्तु संसर्गः सहास्या वापि पापिभिः। पाषण्डिभिर्दुराचारैस्तस्मात्तान् परिवजयेत्। एते नग्नास्तवाख्याता दृष्ट्या श्राद्धोपघातकाः। येषां सम्भाषणात् पुंसां दिनपुण्यं प्रणश्यति। एते पाषण्डिनामानो ह्येतान्न चालपेद्बुधः। पुण्यं नश्यति सम्भाषादेतेषां तद्दिनोद्भवम्। पुसां जटाधरणमौण्ड्यवतां वृथैव मोघाशिनामखिलशौचनिराकृतानाम्। तोयप्रदानपितृपिण्डबहिष्कृताना सम्भाषणादप्रि नरा नरकं प्रयान्ति” विष्णु पु० ३ अंशे १८ अ०।

पाषाण = पु० पिनष्टि पिष–संचूर्णने आनच् पृषो०। १ प्रस्तरे अमरः अल्पार्थे ङीप्। २ पाषाणी (वाटखारा) २ तुलामानपाषाणे स्त्री शब्दच०।

पाषाणगर्दभ = पु० सुश्रुतोक्ते क्षुद्ररोगभेदे “हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम्। पाषाणगर्ढभं विद्याद् बलासपबनात्मकम्”।

पाषाणचतुर्दशी = स्त्री वृश्चिकस्थरविके मासे शुक्लचतुर्दश्याम् तस्यां पाषाणाकारपिष्टकभोजनात्तस्यास्तन्नामता यथोक्तं भविष्ये “वृश्चिके शुक्लपक्षे तु या पाषाणचतुर्दशी। तस्यामाराधयेद्गौरीं नक्तं पाषाणभोजनैः”। पाषाणभोजनैः पाषाणाकारपिष्टकमोजनैः” ति त० रघु०।

पाषाणदारक = पु० पाषाणं दारयति दारि–ण्वुल्। टङ्कास्त्रे (पाथरकाटाछेनी) अमरः। ल्यु। पाषाणदारणोऽप्यत्र।

पाषाणभेदन = पु० पाषाणं भिनत्ति ल्यु। (हाडजोडा) १ वृक्षभेदे राजनि० ण्वुल्। पाषाणभेदकोऽप्यत्र “पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजनी। अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः। भेदनो हन्ति दोषार्शो गुल्मकृच्छ्राश्महृद्रुजः। योनिरोगान् प्रमेहांश्च प्लीहा शूलव्रणानि च” भावप्र०। २ प्रस्तरभेदकमात्रे त्रि०।

पाषाणभेदिन् = पु० पाषाणं भिनत्ति भिद–णिनि (पाथुरचुर) १ वृक्षभेदे रत्नमा० २ शिलाभेदके त्रि० स्त्रियां ङीष्।

पाषी = स्त्री पाष्यते वध्यतेऽनया पष–बन्धे करणे घञ्। १ शक्त्यां २ शिलायाञ्च ऋ० १। ५६। ६ भा०। पाषाणवद्दृढायाञ्च ऋ० ९ १०३। २ भा०।

पास्त्य = त्रि० पस्त्ये गृहे वसति शैषिकोऽण्। गृहवासिनि ऋ० ८। २१। ६ भा०।

पाहत = पु० अपाहन्ति अप + आ + हन–ड अपेरल्लोपः पाहः स इव अतति अत–अच् शक०। ब्रह्मदारुवृक्षे शब्दच०।

***