पात = पु० पातयति ग्रहमुत्तरा दक्षिणा वा पाति–अच्। रविभिन्नग्रहाणां दक्षिणोत्तराकर्षके अदृश्यरूपे कालमूर्त्तिरूपे सू० सि० उक्ते भचक्रस्थिते १ जीवभेदे तदधिष्ठातृदेवे २ राहौ च। पातस्य तथात्वमुच्चशब्दे सू० सि० वाक्ये दर्शितम्। तस्य ग्रहाणां दक्षिणोत्तराकर्षकत्वं च तत्रोक्तं यथा “दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा। विक्षिपत्येष विक्षेषं चन्द्रादीनामपक्रमात्” सू० सि० “चन्द्रादीनां विरविग्रहाणामपक्रमात् क्रान्तिवृत्तस्थस्पष्टग्रहभोगस्थानाद्दक्षिणोत्तरतो दक्षिणस्यामुत्तरस्यां वा दिशि। अपिशब्दः पूर्वापराभ्यां समुच्चयार्थकः। एष गणितागतः पातः पातराश्यादिभोगस्थानम्। अत्राप्यपिशब्द उच्चेन समुच्चयार्थकोऽन्वेति। यथोच्चेन पूर्वापरयोः फलान्तरं भवति तथेत्यर्थः। विक्षेपं विक्षेपणं स्वरंहसात्मवेगेन विक्षिपति करोति। विशिष्टवाचकानां पदानां विशेषणवाचकपदसमवधाने विशेष्यमात्रार्थत्वात् चन्द्रादीन् विक्षिपति तात्प र्य्यार्थः। ननूच्चेन स्वाधिष्ठितजीवद्वारा ग्रहाकर्षणं क्रियते तथा पातेनाचेतनत्वाद्वेगाभावेन ग्रहविक्षेपणं कर्तुमशक्यमित्यत आह राहुरिति। पातस्थानाधिष्ठात्री देवता राहुर्जीवविशेषश्चन्द्रपातस्तु दैत्यविशेषो राहुः। रहतित्यजति ग्रहमिति राहुरिति व्युत्पत्तेः। अथैतद्विशदयति” रङ० “उत्तराभिसुखं पातो विक्षिपत्यपरार्द्धगः। ग्रहं प्रागभगणार्धस्यो ग्राम्याया- मपकर्षति” सू० सि० “अपरार्द्धगो ग्रहस्थानात् पश्चिमविभागस्थितभगणार्द्धात्मकराशिषट्कस्थिती राहुर्ग्र हविम्बं स्वराश्यादिभोगस्थानीयप्रदेशादुत्तरदिगभिमुखं विक्षिपति विक्षेषान्तरेण त्यजति। प्राग्भगणार्धस्थः ग्रहस्थानात् पूर्वविभागस्थितराशिषट् कमध्यस्थिती दक्षिणस्यां दिश्यपकर्षति विक्षिपति। अथ बुधशुक्रयोर्विशेषमाह” रङ्ग० “बुधभार्गवयोः शीघ्रात् तद्वत् पातो यदा स्थितः। तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत्” सू० सि० “बुधशुक्रयोः शीघ्रोच्चाज्जात्यभिप्रायेणैकवचनम्। तद्वत् परार्द्धपूर्वार्द्धभगणार्द्धमध्ये यदा तत्काले स्थितस्तुकारात् यत्काले पाताभ्यादित्यर्थः। तौ बुधशुक्रौ यथोक्तवत् पूर्वार्द्धपरार्द्धक्रमेण दक्षिणोत्तरयोर्विक्षिप्येते विक्षेपान्त ण त्यज्येते। तथा हि स्वशीघ्रोच्चाद्बुधशुक्रयोर्यदनरं राश्यात्मकं तद्वत् पातस्तेनान्तरेण युक्तः पूर्वानीतपात इत्यर्थः। यथा बुधशुक्रयोरपरपूर्वार्द्धक्रमेण स्थितोऽवस्थितस्तुकारात् तथेत्यर्थः। तच्छीघ्रकर्षणात् तादृशपाताभ्यां शीघ्रं वेगेनाकर्षणं तस्मात् पातस्थानाधिष्ठातृदेवताभ्यां स्वहस्तस्थितग्रहसम्बद्धवायुसूत्रस्यातिबेगाकर्षणरचनादित्यर्थः। तौ बुधशुक्रावुक्तवदुत्तरदक्षिणक्रमेण विक्षिप्येते। अत्र पातशब्देन चक्रशोधितपातो बोध्यः। अन्यथा ग्रहोन शीघ्रोच्चरूपकेन्द्रयोजनस्योपपत्तिसिद्धत्वेन शीघ्रोच्चोनग्रहरूपकेन्द्रयोजनोक्त्यनुपपत्तेः। तथा च सर्वग्रहसाधारणं विक्षेपकथनं पातभेददर्शनार्थं बुधशुक्रयोः पृगगुक्तम्। न ह्यन्यस्मिन् पक्ष उच्चयोर्विक्षेपणं प्रतीयते येन प्रागुक्तसर्वविलीपाशङ्कनं शङ्कनीयम्। पातभेदोक्तिकारणं च “ये चात्र पातभगणाः कथिता ज्ञभृग्वीः ते शीघ्रकेन्द्रभगणैरधिका यतः स्युः। स्वल्पाः सुस्यार्थमुदिताश्चलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ” इति भास्कराचार्य्योक्तमिति दिक्” रङ्ग०। अत्रेदं बोध्यं रवेः स्वतएव दक्षिणोत्तरयोर्गमनसम्भवात् नास्य पातेन विक्षेपणापेक्षेति विरविग्रहाणामित्युक्तम्। तत्र युगे चन्द्रपातभगणाः “चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे। वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः” सू० सि० “चन्द्रमन्दोच्चस्य पूर्वगतेरदृश्यरूपस्य भगणा महायुगे रामनखाष्टाष्टवेदमिताः। पातस्य चन्द्रशब्दस्य सन्निहितत्वाच्चन्द्रपातस्यादृश्यरूपस्य वामं पश्चिमगत्या हादशराशिभागात्मकपरिवर्त्तरूपभगणा महायुगे वसु- रामाकृतिरामद्विमिताः। अत्र युगग्रहणं वक्ष्यमाणग्रहोच्चपातभगणसम्बन्धिकल्पकालवारणार्थम्। ग्रहोच्चपातभगणास्तु युगे युगे नोत्पन्ना इत्यस्मिन् युगसम्बन्धिप्रसङ्गेनोक्ताः” रङ्ग०। कल्पे भौमादिपातानां भगणास्तु तत्रोक्ता यथा “पातानामथ वामतः” इत्युपक्रमे “अथानन्तरं पातानां भौमादिपातानां वामतः पश्चिमगन्था भगणा उच्यन्त इति शेषः। तान् श्लोकाभ्यामाह” रङ्ग० “मनुदस्रास्तु कौजस्य, बौधस्याष्टष्टसागराः। कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च भृगोस्तथा। शनिपातस्य भगणाः कल्पे यमरसर्तवः। भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः” सू० सि० “कौजस्य कुजसम्बन्धिनः। तुकारात् पातस्य भौमपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्वयम्। बौधस्य बुधसम्बन्धिनः शनिपातस्यैत्यस्यैकदेशपातस्येत्यत्रान्वेति। बुधपातस्य द्वादशोना पञ्चशती। जैवस्य गुरुपातस्य चतुःसप्तत्यधिकं शतम्। भृगोः शुक्रस्य तथा सम्बन्धिनश्चकारात्पातस्य शुक्रपातस्येत्यर्थः। त्र्यधिका नवशती। शनिपातस्य द्विरसषट्का भगणाः कल्पे भवन्ति। नन्वस्मिन् प्रसङ्गे चन्द्रोच्चपातयोर्भगणाः कथं नोक्ता इति मन्द्राशङ्कापाकरणाय पूर्वोक्तं स्मारयति भगणा इति। चन्द्रोच्चपातयोश्चन्द्रण मन्दोच्चपातयोर्मगणा अत्रास्मिन्नधिकारे पूर्वं अहयुगगगणकथने उक्ताः” रङ्ग०। पतति चन्द्रार्कयोः क्रान्तिसाम्येन उत्तिष्ठति षत–ज्वला० कर्त्तरि ण। सूर्य्यसिद्धान्तोक्ते चन्द्रार्कयोः क्रान्तिसाम्येनानानीते अशुभसूचके महापातरूपे ३ वह्निभेदे तथा हि “तत्र भेदद्वयात्मकपातस्य सम्भबं विवक्षुः प्रथमम् वैधृतसंज्ञपातस्य सम्भवमाह” रङ्ग० “एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा। तद्युतौ मण्डले कान्त्योस्तुल्यत्वे वैधृताभिधो” सू० सि०। सूर्याचन्द्रौ “सूर्य्याचन्द्रमसौ धाता यथापूर्वमक्तल्पयदिति” श्रुत्युक्तप्रयोगः। एकायनगतौ अभिन्नदणिणोत्तरान्यतरायनस्थौ भवतस्तत्र यदा यस्मिन् काले तद्युतौ सूर्यचन्द्रयोर्भाद्योर्योगे मण्डले द्वादशराशिमिते सति तदा तयोः क्रान्त्योः समत्वे महापातरूपै वैधृतसंज्ञः पातो भवति। अथ ष्यतीपातसंज्ञपातस्य सम्भवमाह” रङ्ग० “विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिकाः। समास्तदा व्यतीपातो भगणार्थे तयीर्युलौ” सू० सि० “चन्द्रार्कौ विपरीतायनगतौ भिन्नायनस्थौ मवतस्तत्र यत्र तयोः सूर्यचन्द्रयोर्भाद्योर्योगे भगणार्द्धे राशिषट्के सति तयोः क्रान्तिकलास्तुल्या भवन्ति तदा तस्मिन् काले व्यतीपातसंज्ञकः पातो भवति” “ननु क्रान्त्योः साम्ये कथं पातो भवतीत्यत आह” रङ्ग०। “तुल्यांशुजालसम्पर्कात् तयोस्तु प्रवहाहतः। तद्दृक् क्रोधभवो वह्निर्लोकाभावाय जायते” सू० सि०। “तयोश्चन्द्रसूर्य्ययोः। तुकारात् क्रान्तिसाम्यकाणिकयोः। तुल्यांशुजालसम्पर्कात् समकिरणानां जालं समूहस्तयोरन्योन्याभिमुखयोः सम्पर्कात् एकीभावापन्नत्वात् तद्दृक्क्रोधभवः सूर्य्यचन्द्रयोरन्योन्याभिमुखयोर्दृक्क्रोधो विम्बकेन्द्रयोर्दृग्रूपोयो क्रोधः परस्पराभिमुखेन दोप्त्याधिक्यं तदुत्पन्नोऽग्निः। प्रवहाहतः प्रवहवायुप्रज्वलितः लोकाभावाय जनानामशुभफलाय जायते। अथायं वह्निर्व्यतीपाताख्यो वैधृताख्यो वेत्यत आह” रङ्गना०। “विनाशयति पातोऽस्मिन् लोकानामसकृद्यतः। व्यतीपातः प्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः” सू० सि०। “अस्मिन् क्रान्तिसाम्यकाले प्रसिद्धः पूर्वश्लोकोक्तस्वरूपः पातो वह्निः, यतः कारणात् असकृत् स्वसम्भवेन वारं वारम् लोकानां विनाशयति। नाशं करोति। अतः कारणादयं वह्निर्व्यतीपातसंज्ञोऽयमेवाग्निः संज्ञाभेदेन नामान्तरेण बैधृतिसंज्ञः। तथा चोभयत्र पाताख्यो वह्निर्भवतीति भावः। अथ तत्स्वरूपमाह” रङ्गना०। “स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः। सर्वानिष्टः करो रौद्रो भूयो भूयः प्रजायते” सू० सि०। “स क्रान्तिसाम्यकालोत्पन्न उभयसंज्ञकः पाताख्योऽग्निपुरुषः कृष्णः श्यामः, दारुणवषुः कठिनशरीरः, लोहिताक्ष आरक्तनेत्रः, महोदरः पृथूदरः। अतएव सर्वानिष्टकरः सर्वलोकानामशुभकारकः, रौद्रः क्षयकारकः, भूयोभूयोऽनेकवारम् प्रजायते। प्रत्येकं क्रान्तिसाम्यकाल उत्पन्नो भवतीत्यर्थः” रङ्गना०। उपयमशब्दे १२६५ पृ० तद्भेदादिकं दृश्यम् भावे घञ्। सि० शि० टी० उक्ते ४ प्रतिमण्डलविमण्डलयोः संपाते मेलने च “पातो नाम प्रतिमण्डलविमण्डलयोः संपातः। थस्मादारभ्य विक्षेपप्रवृत्तिः। इह सुसरलवंशशलाकया कक्षामण्डलं तत्प्रतिमण्डलं च छेद्यकोक्तविधिना विरचय्य तत्र शीघ्रप्रतिमण्डले मेषादेः प्रतिलोभं पातस्थानं च चिह्नयित्वा तत्र विमण्डलं निवेश्यम्। पातचिह्नाद्राशिषट्कान्तरे विमण्डलप्रतिमण्डलयोरन्यं संपातं कृत्वा पातात् पूर्वतस्त्रिभेऽन्तरे पठितविक्षेपप्रमाणेन प्रतिमण्डलादुत्तरतो विमण्डलं केनचिदाधारेण स्थिरं कृत्वा मेषादेरनुलोमं मन्दस्फुटं ग्रहं प्रतिमण्डले विमण्डले च दत्त्वा विक्षेपोपपत्तिं दर्शयेत्। तत्र तयोर्ग्रहयोर्यावान् विप्रकर्षस्तावांस्तत्र प्रदेशे विक्षेपः। अथ तस्यानयनम्। पातस्थाने हि विक्षेपाभावः। ततस्त्रिभेऽन्तरे परमी विक्षेपः। अन्तरेऽनुपातेन। अतः पातग्रहचिह्नयोरन्तरं तावज्ज्ञेयम्। तच्च तयोर्योगे कृतेभवति। यतो मेषादेरनुलोमं ग्रहो दत्तः। पातस्तु प्रतिलोमम्”। गणितागतपातकाले कृत्याकृत्ये “पातस्थितिकालान्तर्मङ्गलकृत्यं न शस्यते तज्ज्ञैः। स्नानजपहोमदानादिकमत्रोपैति खलु वृद्धिम्” सि० शि० उक्ते। पत–घञ् भावे ५ पतने। दृष्टिपातः सूत्रपात इत्यादि। पत–ज्वला० कर्त्तरि ण। ६ पतनकर्त्तरि त्रि०। पारक्षणे कर्म्मणि घञ्। ७ त्राते त्रि० मेदि०।

पातक = त्रि० पातयति पाति–ण्वुल्। १ पतनकारके नरकरूपापकृष्टस्थानप्रापके नवविधे पापभेदे २ अनुपातके च यथोक्तं प्रा० वि० “पातकपदमनुपातकपर्य्यायः, ननु नवस्वेव पापेषु पातकशब्दो दृश्यते यथा पैठीनसिः, “स्त्रीगोवृषलवैश्यक्षत्रियघाती सोमविक्रयी शूद्रेण सहभोजी कन्यादूषी अगारदाही वृषलीपतिरग्नुत्सादी चेति पातकिनः”। नवविधं पापमभिधायाह विष्णुः “एवं पातकिनः पापमनुभूय सुदुःखिताः। तिर्य्यग्योनौ घ्रवर्त्तन्ते दुःखानि विव्रिधानि च”। याज्ञवल्क्यः “नीचाभिगमनं गर्बपातनं भर्तृहिंसनम्। विशेषपतनीयानि स्त्रीणामेतान्यपि ध्रुवम्”। पतनीयानि पातकानीत्यर्थः। “कृत्यल्युटो वहुलमिति” करणेऽनीयर्। “महापातकतुल्यानि पापान्युक्तानि यानि च। तानि पातकसंज्ञानि तदूनमुपपातकम्”। अतो महापातकतुल्यपापविशेषेऽप्यस्य शक्तिः। “बवविधपातकञ्च बिष्णुसं “तेनायभाक्रान्वोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्त्तते। जातिभ्रंशकरणेषू सङ्करीकरणेष्वपात्रीकरणेषु च। मलावहेषु प्रकीर्णकेषु च” उक्तम्। ततः अस्त्यर्थे इनि। पातकिन् तद्युक्ते त्रि० स्त्रियां ङीप्।

पातङ्गि = पु० पतङ्गस्य सूर्य्यस्यापत्यम् इञ्। १ शनैश्चरे २ यमे च ३ कर्णे ४ वैवस्वतमुनौ ५ सुग्रीवे च।

पातञ्जल = न० पतञ्जलिना प्रोक्तम् अण्। १ पाणिनिसूत्रवा र्त्तिकव्याख्यानरूपे “अथ शब्दानुशासनम्” इत्यादिके नहाभाष्ये, “पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः” शेखरः। “अथ योगानुशासनम्” इत्यादिके २ योगशास्त्रे च। पतञ्जलिशब्दे दृश्यम्।

पातत्त्रिन् = पु० पतत्त्री तच्छब्दोऽस्त्यत्राध्याये अनुवाके वा विमुक्ता० अण्। पतत्त्रिशब्दयुक्ते १ अध्याये २ अनुवाके च।

पातन = त्रि० पातयति पाति–ल्यु। १ पतनकारके स्त्रियां गौरा० ङीष्। भावे ल्युट्। २ अधोनयने न०।

पातन्य = त्रि० पत–बा० अन्यण्। पतनशीले ऋ० ३। ५ ३। १७ भा०

पाताल = न० पतत्यस्मिन्नधर्मेण पत–आलञ्। १ भुवनस्याधोभागे २ सर्वाधोभागस्थे स्थानभेदे। तानि च सप्तैव यथा

“पातालानि च सप्तैव मुनयः संप्रचक्षते। अतलं वित लञ्चैव सुतलञ्च तलातलम्। महातलञ्च विख्यातं ततो ज्ञेयं रसातलम्”। “ततः पातालमित्येवं सप्त पातालसंज्ञकाः। एते स्वर्गाधिकसुखा! बिलस्वर्गाः प्रकीर्त्तिताः। समृद्धभवनीद्यानविहारक्रीडचत्वराः” पाद्मे पातालखण्ड। “अतलं सुतलञ्चैव वितलञ्च गभस्तिमत्। महातलं रसातलं पातालं सप्तमं स्मृतम्। रुक्मभौमं शिलाभौयं पातालं नीलमृत्तिकम्। रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि। पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम्। शुषिरं तानि कथ्यन्ते भुवनानि चतुर्दश। अष्टाविंशतिसंख्याता स्ततो नरककोटयः। नरकाणामधस्तात्तु धूमः कालाग्निसम्भवः। तस्याधस्तादनन्ताख्यो रुद्रः सर्वमयो महान्। तदधो धर्मचक्रन्तु येनेदं धार्य्यते जगत्” अग्निपु०। ३ औषधपाकार्थयन्त्रभेदे “ऊर्द्ध्वमापस्तले वह्निर्मध्ये च रससग्रहः। पातालचक्रमेतद्धि शोधयेत् पारदादिकम्”। ४ वडबानले ५ गर्त्तमात्रे च मेदि०।

पातालकेतु = पु० दानवभेदे मार्क० पु० २१ अ०

पातालगरुडी = स्त्री छिलिहिण्डाख्ये लताभेदे राजनि०। भावप्र० अस्य पुंस्त्वमुक्तं यथा “छिलिहिण्डा महा मूलः पातालगरुडाह्वयः। छिलिहिण्डः परं वृष्यः कफघ्नः पवनापहः”।

पातालनिवास = पु० नि + वस–आधारे घञ् पातालं निवासो यस्य। दैत्ये पातालनिलयादयोऽप्यत्र हला० पातलौकस् तत्रार्थे हेमच०।

पाति = पु० पाति पा–रक्षणे अति। १ प्रभौ पत–इण्। २ अक्षिणि च उज्ज्वलद०।

पातिक = पुंस्त्री० पातः पतनं जलमज्जनं प्रयोजनमस्य पाते साघु वा ठक्। शिशुमारे जलजन्तुभेदे शब्दमाला स्त्रियांजातित्वात् ङीप्।

पातिली = स्त्री पतिः स्वामी पक्षी वा लीयते अत्र लि–बा० ड गौरा० ङीष्। १ वागुरायां २ नार्य्यां ३ मृत्पात्रभेदे (पातिल) मेदि०।

पातुक = त्रि० पत–उकञ्। १ पतनशीले २ प्रपाते ३ जलहस्तिनि च मेदि०।

पातृ = त्रि० पाति रक्षति पिबति वा पा–तृच्। १ रक्षके २ पायिनि च त्रि० स्त्रियां ङीप्। ३ गन्धपत्रे ४ तृणभेदे पु० हेमच०।

पात्तिगणक = न० पत्तिगणकस्य भावः उद्गात्रा० अञ्। सेनागणककर्मणि तद्भावे च।

पात्नीवत = पु० पत्नी विद्यतेऽस्य मतुप्। “छन्दसीरः” पा० यस्य वः तच्छब्दोऽस्त्यत्र विमुक्ता० अण्। पत्नीवच्छब्दयुक्ते १ अध्याये २ अनुवाके च। सचानुवाकः “तान् यजताम् इत्यादिवर्गः” ऋ० १। १४। ७। तस्येदम् अण्। ३ ग्रहरूपपात्रभेदे यजु० १८। २० कात्या० ९। ५। २१ शत० ब्रा० १७। ७। ३। ९।

पात्य = न० पत्युर्वावः यक्। १ पतित्वे “भरणाद्धि स्त्रिया भर्त्ता पात्याच्चैव स्त्रियाः पतिः” भा० शा० २६७ अ० पत–णिच् यत्, पत–ण्यत् वा। २ पातनीये ३ पतनीये च त्रि०।

पात्र = पु० न० अर्द्धर्च्चा० प्राति रक्षत्याधेयं पिबत्यनेन वा पाष्ट्रन्। १ जलाद्याधारे भोजनयोग्ये २ अमत्रे अमरः। अस्य स्त्रीत्वमपि षित्त्वात् ङीष्। विद्यादियुक्ते दानयोग्ये ३ ब्राह्मणे न० “ब्राह्मणं पात्रमाहुः” इति स्मृतिः। ४ यज्ञिये स्रुवादौ, तीरद्वयमध्यवर्त्तिनि ५ जलाधारस्थाने ६ राजामात्ये च मेदि०। नाटकेऽभिनेये ७ नायकादौ च न० हेमच० ८ मानभेदे वैद्यकम्। यज्ञियहोमादिसाधनपात्रलक्षणम् कात्या० श्रौ० भाष्ये। “अथ पात्राणां लक्षणमुच्यते खादिरः स्रुवोऽङ्गुष्ठपर्ववृत्त पुष्करो नासिकावत् पर्वार्द्धखातो भवति। स्प्यश्च खादिरः खडगाकृतिररत्निमात्रः। खुचो बाहुमात्र्यो मूलदण्डास्त्वग्विला हंसमुखसदृशैकप्रणालिकायुक्ताः। पाणिमात्रपुष्कराधस्तात्खातयुक्ताश्च कार्य्याः। पालाशी जुहूः, उपभृदाश्वत्थी, वैकङ्कतीध्रुवा “एतेषां वृक्षाणामेकस्य वा सर्वाः स्रुचः कारयेत्, बाहुमात्र्योऽरत्रिमात्र्यी वाग्राग्रास्त्वक्तोविला हंसमुख्यः” इत्यापस्तम्बः। अग्निहोत्रहवणी वैकङ्कती, अग्निहोत्रस्रुवो वैकङ्कतः। यैः पात्रैर्होमी न क्रियते तानि सर्वाणि वारणानि भवन्ति तानि चोलूखलमूषलकूर्चेडापात्रीपिष्टपात्रीपुरोडाशपात्रीशम्याशृतावदानाभ्यूपवेषान्तर्द्धानकटप्राशित्रहरणषड्यत्तब्रह्मासनादीनि। तत्रोत्रूखलादीनि वा- र्क्षाणि। कूर्चो बाहुमात्रः पीठाकारः। इडापात्री पिष्टपात्रयौ अरत्निमात्र्यौ मध्यसंगृहीते। पुरोडाश पात्री प्रादेशमात्री समचतुरस्रा षडङ्गुलवृत्तखातवती। शम्या प्रादेशद्वादशाङ्गुला प्राशित्रहरणं वृत्तमादर्शाकारं चतुरस्रं चमसाकारं वा तथैव द्वितीयमपिधानपात्रम् षडवत्तं चोभयत्र खातवत्। आसनानि चारत्निमात्र दीर्थाणि प्रादेशमात्रविपुलानि सर्वेषु पात्रेषु मूलाभिज्ञानार्थं वृन्तानि कार्य्याणि अनादेशे होमसाधनभूतानि पात्राणि वैकङ्कतानि भवन्ति यथा सोमयागे ग्रहचमसद्रीणकलशादीनि तत्रापि हविर्धानाधिषवणफलकसम्भरणीपरिप्लवादीन्यहोमसंयुक्तानि वारणान्येव षोडशिनः पात्रं खादिरं चतुरस्नम् अंश्वदाभ्यपात्रमौदुम्बरं वचनात् बाजपेये सप्तदशानां सोमग्रहाणां पात्राणि वारणानि अहोमसंयुक्तत्वात्। सुराग्रहपात्राण्यपि वारणानि शाखान्वरान्मृण्मयानि वा इत्येवमादि सर्वमूहनीयम्। मूलं कात्या० श्रौ० १। ३। ३१ सूत्रादौ दृश्यम्। कर्मप्रदीपे च “आज्यस्थाली च कर्त्तव्या तैजसद्रव्यसम्भवा। महीमयी वा कर्त्तव्या सर्वास्वाज्याहुतीषु च। आज्यस्थाल्याः प्रमाणं तु यथाकामन्तु कारयेत्। सुदृढामव्रणां भद्रामाज्यस्थालीं प्रचक्षते। तिर्य्यगूर्द्धं समिन्मात्रा दृढा नातिवृहन्मुखी। मृण्मय्यौडम्बरी वापि चरुस्थाली प्रशस्यते। स्वशाखोक्तः प्रसुखिन्नो ह्यदग्धोऽकठिनः शुमः। न चातिशिथिलः पाच्यो न चरुश्चारसस्तथा। इध्मजातीयमिघ्मार्द्धप्रमाणं मेक्षणं भवेत्। वृत्तं चाङ्गष्ठपृथ्वग्रमवदानक्रियाक्षमम्। एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे। दर्वी द्व्यङ्गुलपृथ्वग्रा तुरीयोऽनन्तमेक्षणम्। मूषलोलूखले वार्क्षे स्वायते सुदृढे तथा। इच्छाप्रमाणे भवतः शूर्पं वैण वमेव च। दक्षिणं वामतो बाह्यमात्माभिसुखमेव च। बाहुमात्राः बरिधय ऋजवः सत्वचोऽव्रणाः। त्रयो भवन्ति शीर्णाग्रा एकेषान्तु चतुर्दिशम्। प्रागग्रावभितः पश्चादुदग्रमथवा परम्। न्यसेत् परिधिमन्यञ्चेदुदगग्रः स पूर्वतः” देवपूजाङ्गपात्रमानं देवीपु० उक्तं यथा “षट्त्रिंशदङ्गुलं पात्रञ्चोत्तम परिकीर्त्तितम्। मध्यमं तत्त्रिभागेण हीनं कन्यसमीरितम्। वस्वङ्गलप्रमाणन्तु तत्षात्रं कारयेत् क्वचित्। नानाविचित्ररूपाणि पौ ण्डरीकाकृतीनि च। शङ्खनीलोत्पलाकारपात्राणि परिकल्पयेत्। रत्नादिरचितान् कुर्य्यात् काञ्चीमूलसुञ्च- ञ्चितान्। यथाशोभं यथालाभं तथा पात्राणि कारयेत्। विना पात्रेण यः कुर्य्यात् प्रतिष्ठा याज्ञिकीं क्रियाम्। विफला भवते सर्वावाहनादिधनापहा” दानशब्दे दानपात्रलक्षणादिकं ३५२० पृ० उक्तम्। पाकपात्रलक्षणादिकं पाकशब्दे ४२८३ पृ० दृश्यम्।

पात्रट = पु० पातेव पिबन्निव अटति अट् अच्। १ कर्पटे २ कृशे शब्दच०।

पात्रटीर = पु० पातेव पिबन् रक्षन्निव वा अटति अट बा० ईरन्। १ उचितव्यापारयुते सन्त्रिणि २ लौहपात्रे ३ कांस्यपात्रे ४ रजतपात्रे ५ सिंघाने ६ पावके च मेदि०। ७ पिङ्गाशे ८ काके ९ कङ्के च पुंस्त्री० शब्दरत्ना स्त्रियां जातित्वात् ङीष्।

पात्रपाल = त्रि० पात्रं पालयति पाल–अण् उप० स०। पात्ररक्षके तुलाधटे पु० जटाध०।

पात्रसंस्कार = पु० ६ त०। पात्रशुद्धौ मृज्जलादिना पात्रमार्जने पुरोटौ शब्दच०।

पात्रासादन = न० ६ त०। यज्ञपात्राणां यथोक्तक्रमेण यज्ञनिष्पादनाय स्थापने यज्ञपात्रासादनक्रमस्तु कात्या० श्रौ० २। ३। ५ सू० तद्भाष्ये उक्तो यथा

“शूर्याग्निहोत्रहवणीस्प्यकपालं शस्थाकृष्णाजिनमुलूखलमूषलं दृषदुपलमर्थवच्च” ८ सू० “स्प्यकपालमित्येकवद्भावादिदमेकं द्वन्द्वम् तेन बहुभिरपि कपालैरेकमेव पात्रमिति द्रष्टव्यम्। कपालानि च भिन्नस्य घटादेर्ग्राह्याणि अभिन्नान्यपि रौहिणकपालवत् निर्मितानि भवन्तीत्येके इति धूर्त्तस्वामिनः। शूर्पं च नडतृणमयमिषीकानिर्मितं वेणुदलनिर्मितं वा भवति। अर्थवच्च येन येन पात्रेणात्र प्रयोजनं तेषां सर्वेषामुपयोगक्रमेणासादनम्। तथा च कात्यायनः “प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं समीपतः। तत्तथा सादयेद्द्रव्यं यद्यथा विनियुज्यते” इति तच्चैवम् “अनो वा पात्री वा व्रीहयो यवा वा ततश्चैवम् अनोव्रीहयश्चानोयवाश्च पात्रीव्रीहया पात्रीयवाश्चेति वा पवित्रच्छेदनानि पवित्रे च उपवेषः संयवनार्थमुदकं च आज्यस्थाली आज्यं च अमावस्यायां दोहन चतुष्टयम्, वेदार्थः कुशमुष्टिः, दक्षिणार्था अन्वाहार्य्य तण्डुलाश्च दर्मतणमभ्रिश्च इध्मो बर्हिश्च स्रुवो जुहूश्च उपभृद्ध्रुवा च प्राशित्रहरणे शृतावदानं च द्वे पुरोडाशपात्र्यौ इति” कर्कादयः। तदयुक्तमिति केचित्। स्वसूत्रशाखान्तरसूत्रेषु सादनप्रतापनोपस्तरणादिष्वेकखा एव दर्शनात्। यच्चेडापात्रीपिष्टपात्र्योरभेद- माहुस्तदपि अयुक्तम् शाखान्तरसूत्रेषु तयोर्भेददर्शनात् तथा च तैत्तिरीयसूत्रम् “प्राशित्रहरणं चेडापात्रं च मेक्षणं च पिष्टपात्री चेति” विकृतौ चातुर्मास्यादौ यत्र चर्वादिभिर्व्यवहिताः पुरोडाशाः तत्र भवतु पुरोडाशपात्रीभेदः। याक्त्रा यूनकुशाश्च परिधयः कुशास्तीर्णं होतृषदनं च इडापात्री षडबत्तं च अन्तर्धानकटः पूर्णपात्रं च पक्षे कर्मापवर्गा समिदप्यासाद्यते परिधीनामपि प्रथगासादनमष्टादशकाष्टकेध्मपक्षे एकबिंशतिकाष्ठकेध्मपक्षे तस्मादेवेध्मात् त्रीणि काष्ठान्यादाय विकल्पेन परिधिपरिधानविधानात्। एवमत्र पात्राणामुपादानक्रमेणासादनमुक्तम्। यस्य यस्य पात्रस्य येन क्रमेण तस्यासादनम् एवं च सुतरां दृष्टार्थता भवति लाघवं च बिनियोगक्रमेणासादने च तथा न स्यात् हविर्ग्रहणे पात्र्याः हविर्द्रव्यस्य च देशविप्रकर्षात् आज्य निर्वापे स्थाल्याज्यस्य च तस्मादुपादानक्रम एव पितृभूतियाज्ञिकसम्मतः पात्रासादने युक्तः। कर्काचार्य्यास्तु विनियोगक्रमेणासादनमाहुः”। सूत्रे अर्थवच्चेत्युक्तेर्यथा यथा यत्र यत्र यस्य यस्योपयोगस्तस्य तस्य तत्र तत्रासादनम्। तत्स्थानप्रकारौ च तदुत्तरत्र सूत्रेषु दृश्यौ

पात्रिक = त्रि० पात्रस्य वापः ष्ठन्। पात्रवापक्षेत्रादौ स्त्रिया षित्त्वात् ङीष् पात्रिको क्षेत्रभक्तिः सि० कौ०। पात्रं सम्भवति अपहरति आहरति वा ठञ्। पात्रावहारकादौ स्त्रियां ङीप्। पक्षे ख। पात्रीण तत्रार्थे स्त्रियां टाप्।

पात्रिय = त्रि० पात्रमर्हति घ। पात्रार्हे पक्षे यत्। पात्र्यतत्रार्थे।

पात्रीय = न० पात्रे साधु बा० छ। पात्रसाधौ यज्ञद्रव्ये त्रिका०।

पात्रीव(र) = पुंन० अर्द्धचादि० पात्रीं रा(वा)ति रा–(वा) क। यज्ञद्रव्ये।

पात्रेबहल = पु० ब० व०। पात्रे भोजनसमये एव बहुला० न तु कार्य्ये पात्रेसमिता० आक्षेपे गम्ये अलुक्स०। भोजनसमय एव बहुलीभूतेषु कार्य्याक्षमेषु। युक्तराह्या० अस्याद्युदात्तता।

पात्रेसमित = त्रि० पात्र भोजनकाल एव समितः सङ्गतः पात्रेसमि० अलुक्स०। १ कार्य्यकाले अक्षमेषु भोजन एव सङ्गतेषु। युक्तरोह्या० अस्याद्युदात्तताः। “स पात्रेसमितोऽन्यत्र भोजनान्मिलितो न य” त्रिका० “निधायहृदये षाप यः परं शंसति खयम्। स पात्रेसमितोऽथ स्यादिति” शब्दमा० उक्तलक्षणे पुरुषविशेषे च।

पात्रेसमितादि = पु० क्षेपे अलुक्समासादिनिमित्ते शब्दगणे स च गणः पा० सू० उक्तो यथा

“पात्रेसमिताः पात्रेबहुलाः उदुम्बरमशकः उदुम्बरकृमिः कूपेकच्छपः अवटेकच्छपः कूपमण्डूकः कुम्भमण्डूकः उदपानमण्डूकः नगरकाकः नगरवायसः मातरिपुरुषः पिण्डीशूरः पितरिशूरः गेहेशूरः गेहेनर्दी गेहेक्ष्वेडी गेहेविजिती गेहेव्याडः गेहेमेही गेहेदाही गेहेदृप्तः गेहेधृष्टः गर्भेतृप्तः आखनिकवकः गोष्ठेशूरः गोष्ठेविजिती गोष्ठेक्ष्वेडी गोष्ठेपटुः गोष्ठेपण्डितः गोष्ठेगल्भः कर्णेटिरिटिरा कर्णे चुरुचुरा”।

पात्रोपकरण = न० ६ त०। पात्राणामुपभूषर्ण “रीतिवर्गादिसञ्जातं पात्रोपकरणादिकम्। दद्यादायसवर्जन्तु भूषणं न कदाचन। घण्टाचामरकुम्भादि पात्रोपकरणादिकम्। तद्भूषणान्तरे दद्याद्यस्मात्तदुपभूषणम्” कालिकापु० ८६ अ०।

पात्त्र = न० पतति पत–क्विप् पतं पतन्तं त्रायते त्रै–क स्वार्थे प्रज्ञाद्यण्। पापित्रातरि “सर्वेषामेव पात्त्राणां परं पात्त्रं महेश्वरः। पतन्तं त्रायते यस्मादतीव नरकार्णवात्” नन्दिपु०। महेश्वर इति प्रदर्शकं हेतोरविशेषात् “पात्त्राण्याध्यात्मिका मुख्या विशुद्धाश्चाग्निहोत्रिणः। देवताश्च तथा मुख्या गोदानं ह्येतदुत्तमम्” प्रा० त०।

पाथ = न० पीयतेऽदः पा–कर्मणि थ। १ जले पाति रक्षति थ। २ अग्नौ ३ सूर्य्ये च मेदि०।

पाथस् = न० पाति रक्षति, पीयते वा पा–पाने रक्षणे बा असुन् थुक् च। १ जले २ अन्ने च उज्ज्वलद० अन्नभोजने हि देहरक्षा ३ आकाशे च मेदि०।

पाथिक = पुंस्त्री० पथिकस्यापत्यं शिवा० अण्। पथिकापत्ये स्त्रियां ङीप्।

पाथिक्य = न० पथिकस्य भावः पुरोहि० यक्। पथिकत्वे

पाथिस् = पु० पा–पाने इसिन् थुक् च। १ समुद्रे २ नेत्रे च उज्ज्वलद०।

पाथेय = त्रि० पथि तद्व्यवहारे साधु ढञ्। १ मार्गेषु आहारोपयोगिद्रव्ये २ कन्याराशौ दीपिका कौर्पशब्दे २२७८ पृ० दृश्यम्। ३ देशभेदे। ततो भवेऽर्थे धूमा० वुञ्। पाथेयक यत्र भवे त्रि०

पाथोज = न० पाथसि जायते जन–ड ७ त०। १ जलजे कमले राजनि० २ शङ्खे च पाथोजातादयोऽप्यत्र।

पाथोद = पु० पाथो ददाति दा–क। १ मेघे त्रिका० मेघनामनामके २ मुस्तके अमरः।

पाथोधर = पु० पाथो धारयति धारि–अच् ह्रस्व। जलधरे १ मेघे हला० २ मुस्तके च।

पाथोधि = पु० पाथो धीयतेऽत्र धा–आधारे कि उप० स०। जलधौ समुद्रे त्रिका०।

पाथोनिधि = पु० पाथो निधीयतेऽत्र नि + धा–कि उप० स०। जलनिधौ समुद्रे शब्दरत्ना०।

पाथ्य = त्रि० पाथसि भवः वेदे ड्यन्। पाथसि हृदयाकाशे भवे यजु० ११। १४।

पाद् = पु० पद + णिच् क्विप्। चरणे पादे जटा०

पाद = पु० पद्यते गम्यतेऽनेन करणे कर्मणि वा घञ्। १ चरणे अमरः २ श्लोकमन्त्रयोश्चतुर्थांशे “सोऽचि लोपे चेत् पादपूरणम्” पा० “पादश्चेल्लोपे सत्येव पूर्य्येत” सि० कौ०। “पादेन नाक्रमेत् पादमुच्छिष्टं नैव लङ्घयेत्। न संहताम्यां पाणिभ्यां कण्डूयेदात्मनः शिरः” इति कर्मलोचनम्। पादचालनादिनिषेधो यथा “न पादचालनं कुर्य्यात् पादेन वा कदाचन। नाग्नौ प्रध्मापयेत् पादौ न कांस्ये धावयेद्बुधः। नातिप्रसारयेद्देवब्राह्मणानामथापि वा। वाय्वग्निनृपविप्राणां सूर्य्यं वा शशिनं प्रति” कौर्मे उपरिभागे १५ अ०। सुसंख्यापूर्वकस्य अन्त्यलोपः बहु० समा०। द्विपाद् सुपाद्। उपमानात्तु वा व्याघ्रपाद्(दः)। पाच्छब्देनैकोपपत्तौ अन्त्यलोपविधानम् द्विपादः सुपादः इति प्रयोगवारणार्थम्। पादश्च इन्द्रियभेदः इन्द्रियशब्दे ९५५ पृ० दृश्यः। ३ वृक्षादैर्भूले पादपः। ४ चतुर्थभागे ५ प्रत्यन्तपर्बते महाद्रिसन्निकृष्टक्षुद्रपर्वते ६ किरणे च मेदि० ७ ग्रन्थांशमात्रे ८ अवयवमात्रे। भावे घञ्। ९ गमने तत्र कुशलः आकर्षा० कन्। पादक गमनकुशले त्रि०। पादेन चरति पर्पा० ष्ठन् पदादेशश्च पदिक पादचारिणि त्रि० स्त्रियां ङीष्। अस्य भत्थे शसादौ च परे वा पदादेशः। पादान् पदः इत्यादि। वृषा० आद्युदात्ततास्य। १० ऋषिभेदे

पादकटक = पु० पादस्य कटक इव। नूपुरे अमरः।

पादकृच्छ्र = पु० व्रतभेदे तल्लक्षणमुक्तं यथा “एकभुक्तेन नक्तेन तथैवायाचितेन च। उपवासेन चैकेन पादकृच्छ्रः प्रकीर्त्तितः” याज्ञ० “एतच्चतुरहसाध्यम्” प्रा० वि०।

पादगण्डीर = पु० पादस्य गण्डेः (गु~डि) वृक्षस्यामूलाच्छाखावधिभागस्य ईः शोगास्त्यत्र बा०। र। श्लीपदे (गोद) रोगभेदे त्रिका०।

पादगृह्य = पु० गृह्यः पादः मयूर० पूर्वनि०। गृह्ये पादे

पादग्रन्थि = पु० पादस्य ग्रन्विरिव। १ गुल्फे २ पादसन्धौ च।

पादग्रहण = न० पादौ गृह्येते यत्र ग्रह–आधार ल्युट्। १ चरणग्रहणपूर्वकप्रणामे। विप्रोष्य पादग्रहणमन्वयं

भिवादनम्” मनुः अभिवादनशब्दे २९९ पृ० दृश्यम्। तत्र शौचान्तरमाह ऋष्यशृङ्गः “यस्मिन् स्थाने कृतं शौचं वारिणा तद्विशोधयेत्”। अनभिवा द्यानाह हारीतः “धावन्तञ्च प्रमत्तञ्च मूत्रोच्चारकृतन्तथा। भुञ्जानमाचमनार्हञ्च नास्तिकं नाभिवादयेत्। जन्मप्रभृतियत् किश्चित् चेतसा धर्ममाचरेत्। सर्वं तन्निष्फल याति एकहस्ताभिवादनात्”। “समिद्वार्व्युदकुम्भपुष्पान्नहस्तो नाभिवादयेत् यच्चाप्येवं युक्तम्” इति। बौधायनः। “जपयज्ञजलस्थञ्च समित्पुष्पकुशानलान्। दन्तकाष्ठञ्च भक्ष्यञ्च वहन्तं नाभिवादयेत्” लषुहारीतः। “न पुष्पाक्षतपाणिर्नाशुचिर्न जपन् न देवपितृकार्य्यं कुर्वन्” अभिवादयेदित्यनुवृत्तौ शङ्खलिखितौ।

पादघृत = न० पादयोर्लेपनार्थं घृतं शा० त०। पादयोरभ्यञ्जनार्थे घृते भा० व० १९९ अ०।

पादचतुर = त्रि० पादे पादव्यापारे चतुरः। १ पादव्यापारदक्षे २ छागले पुंस्त्री। ३ सैकते ४ पिप्पले ५ करञ्जे ६ परदोषैकप्रवक्तृपुरुषे च मेदि०।

पादचारिन् = पु० पादेन चरति चर–णिनि ३ त०। १ पदातौ २ पद्भ्यां गन्तरि त्रि० हेमच० स्त्रियां ङीप्।

पादज = पुंस्त्री पादात् जायते जन–ड ५ त०। ब्रह्मणः पदादुत्पन्ने १ शूद्रे त्रिका० स्त्रियां जातित्वात् ङीष्। “पद्भ्यां शूद्रो अजायत” यजु० ३०। ११। श्रुतेस्तस्य तथात्वम्। २ चरणजातरोगादौ त्रि०।

पादजल = न० पादक्षालनं जलम् शा० त०। १ पादोदके। पादमितं जलं यत्र। २ चतुर्थांशमितजलयुक्ते त्रि० ३ तक्रे न० अमरः

पादजाह = न० पादस्य मूलं कर्णा० जाहच्। पादस्य मूले।

पादत्र = त्रि० पादौ त्रायते त्रै–क। १ पादरक्षके २ पादुकायाम् स्त्री।

पादत्राण = न० पादस्त्रायतेऽनेन त्रै–करणे ल्युट्। पादुकायां जटाध०। उपागच्छब्दे दृश्यम्।

पाददाह = पु० पादौ दहति–अण् उप० स०। सुश्रुतोक्ते १ वातव्याधिमेदे पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः। विशेषतश्चङ्क्रमतः पादद्राहं तमादिशेत्”।

पादप = पु० पादेन मूलेन पिवति सिक्तं जलम् पा–क। १ वृक्षे अमरः। पाद पाति रक्षति पा–क। १ पादपीठे मेदि०। ३ पादुकायां स्त्री मेदि०। पादपेन कृतम अञ्। ४ पादपकृते त्रि०। ततः समूहे खण्डच्। पादपखण्ड तत्लमूहे न०।

पादपरुहा = स्त्री पादपं रोहति रुह–क। वन्दायाम् (परगाछा)। राजनि०।

पादपाश = पु० ६ त० १ अश्वपादबन्धनदामनि हेमच० २ शृङ्खलायां ३ खट्टुकायाम् (खे~डुया) ४ लतायां स्त्री मेदि० गौरा० ङीष्।

पादपीठ = पु० न० ६ त०। पादस्थापनार्थे पीठे हेमच०। संज्ञायां कन् कापि अतैत्त्वम्। पादपीठिका० नापितादिशिल्पे स्त्री शब्दमा०।

पादप्रक्षालन = न० ६ त०। पादयोः १ क्षालने जले “पादप्रक्षालनं मेधाजनकं सुपवित्रकम्। अलक्ष्मीकलिहृच्चैव आयुपो हितकारि च” राजनि० “पादप्रक्षालनं विशेष्ठयति देवलः “प्रथमं प्राङ्मुखः स्थित्वा पादै प्रक्षालयेच्छनैः। उदङ्मुखो वा दैवत्ये पैतृके दक्षिणा मुखः” शनैरत्वरः। दैवपैतृकेतरत्रापस्तम्बः “प्रत्यक् पादावसेचनमिति”। प्रत्यक् पश्चिमाभिमुखः। क्रम माह गोभिलः “सव्यं पादमवगेनिजे इति सव्यं पाद प्रक्षालयति”। अर्हणीये तथा दर्शनात् सर्वत्र तथा कल्प्यते। पारस्करः “सव्यं प्रक्षाल्य दक्षिणं प्रक्षालय तीति” “सव्यं प्रथमं प्रक्षालयतीति” सूत्रेण प्राक् सव्यपादप्रक्षालगे सिद्धे पुव्यं प्रक्षाल्य दसिखं प्रक्षालय तीत्यत्र लव्यग्रहष्यं सामान्यार्थं तेनान्यस्मिन्नपि पादप्रक्षालने सव्यप्यैव प्राथम्यम् अन्यार्थं पूर्वचनमिति दर्शनात्”। “ब्राह्मणश्चेद्दक्षिणं प्रथममिति” सृत्रं पादौ यदि ब्राह्मणः प्रक्षालयति तदा दक्षिणं दातव्यमिति न सव्यम्। यथा प्रक्षालयतीत्यनुवृत्तावावलायनः “दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् सव्यं शूद्रायेति खयं प्रक्षालने सव्यस्यैव प्राथम्यमिति हरिशम एवञ्च दक्षिणपादप्रक्षालनानन्तरं वामपदप्रक्षालनं वा स्पतिमिश्राद्युक्तं हेयमिति” आ० त० रघुनन्दनः।

पादबन्धन = न० पादौ बध्येते अनेन करणे ल्युट् ६ त १ गोमहिपादेः पादबन्धने दामनि। भावे–ल्युट्। २ गे हिषादिपादयोर्बन्धने जटा०। घञ् पादबन्ध तत्रार्थे

पादभाग = पु० ६ त०। १ चरणाधोभागे हेमच०। १ पादमि भागः शा० त०। २ चतुर्थांशे च।

पादमूल = न० ६ त०। १ चरणस्याधोभागे २ चरणसमीपे च

पादरक्ष = त्रि० पादं रक्षति रक्ष–अण् उप० स०। १ चर रक्षके पादुकादौ २ रथचरणरूपचक्ररक्षके च भा० वि० ६५ अ०। ल्यु। पादरक्षण तत्रार्थे त्रि० भावे ल्युट्। ६ व०। ३ पादस्य रक्षणे न०।

पादरज्ज्यु = स्त्री पादबन्धनार्था रज्ज्यः पा० त०। हस्तगदे पौदबन्धनार्थे दामनि जटाध०।

पादरथी = स्त्री क्षुद्रो रथः ङीप् पादस्य रथीव। पादुकायां त्रिका०।

पादरोह = पु० पादेन मूलेन रोहति रुह–अच्। वटवृक्षे ल्यु। पादरोहण तत्रार्थे राजनि०।

पादवन्दन = न० पादयोर्वन्दनम्। पादग्रहणपूर्वकप्रणामे “कुर्य्याच्छ्वशुरयोः पादवन्दनं भर्तृतत्परा” याज्ञ० मनुना क्वचिन्निषेध उक्तः “गुरुपत्नी सु युवतिर्नाभिवाद्येह पादयोः। पूर्णषोडशवर्षेण गुणदोषौ विजानता”

पादवल्मीक = पु० पादे वल्मीक इव। श्लीपदरोगे (गोद) हेदच०

पादविक = त्रि० पदवीमनुधावति ठक्। पथिके सि० कौ०।

पादविग्रह = पु० पादस्यावयवस्य विग्रहः। अवयवग्रहणे। “ये च विष्णुमधीयन्ते बहुधा पादविग्रहैः” हरिवं० २१७ अ०। पादः चतुर्थांशमितो विग्रहो यस्य। पादमितावयवयुक्ते त्रि० “अधर्मो पादविग्रहः” १९८ अ०।

पादविरजस् = स्त्री पादो विरजाः धूलिहीनो यस्याः। १ पादुकायां हारा०। ६ ब०। २ देयेषु च तेषां विरजस्कपादत्वात्तथात्वम्।

पादशस् = अव्य० पादं पादमित्यादिकारकार्थे वीप्सायाम् शस् ऋक्पादभिन्नत्वे न पदादेशः। वीप्सायां कारकार्थवृत्तौ पादशब्दार्थे मनु १। ८२। तु ऋक्पादे तु पच्छस्

पादशाखा = स्त्री पादस्य शाखेव। पादाङ्गुलौ शब्दार्थकल्पत०

पादशैल = पु० पादात्मकः शैलः। प्रत्यन्तपर्वते शब्दरत्ना०।

पादशोथ = पु० पादजातः शोथः शा० त०। पादजाते शोथे रोगभेदे “अन्योन्योपद्रवकृतः शोथः पादसमुत्थितः। पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो ह्ययम्” माघवः।

पादशौच = न० ६ त०। पादप्रक्षालने पादप्रक्षानशब्दे दृश्यम् “योम्यास्यतः पादशौचम्” श्राद्धप्रयोगः। श्राद्धे दक्षिणामुखेनैव तस्य करणं यथोक्तं श्राद्ध० त० “प्रथमं प्राङमुखः स्थित्वा पादौ प्रक्षालयेच्छनैः। उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः” इति देवलवचनात् दक्षिणामुखः सन् कृतपादशौचस्तत्रापि वामपादादिक्रमः रघु०।

पादस्फोट = पु० ६ त०। १ विपादिकाख्ये २ क्षुद्रकुष्ठभेदे अमरः कुष्ठशब्दे २१५५ पृ० तस्य लक्षणादि दृश्यम्।

पादस्वेदन = न० ६ त०। पादयोः खेदने। ततः अक्षद्यूता० निर्वृत्तेऽर्थे ठक्। पादस्वेदनिक तन्निर्वृत्ते रोगभेदोपशमादौ त्रि०।

पादहर्ष = पु० “हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत। पादहर्षः स विज्ञेयः कफवातप्रकोपजः” सुश्रुतोक्ते वातव्याधिभेदे।

पादहारक = त्रि० पादाभ्यां हरति ह्रियते वा हृ–कर्त्तरि कर्मणि वा नि० ण्वुल्। १ पादेन हरणकर्त्तरि २ तत्कर्मणि च।

पादहीन = त्रि० ३ त०। १ त्रिपाद्यात्मके पदार्थे (तिनपोया) २ चरणशून्ये च।

पादाकुलक = “यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादै कलितम्। अनियतवृत्तपरिमाणसहितम् प्रथितं जगत्सु पादाकुलकम्” वृ० र० उक्ते मात्रावृत्तभेदे।

पादाग्र = न० ६ त०। चरणाभागे प्रपदे अमरः।

पादाङ्गद = न० पादस्य अङ्गदमिव। नूपुरे अमरः गौरा० ङीष्। तत्रार्थे स्त्री हारा०।

पादाङ्गुलीयक = न० ६ त०। (चुष्टकी) चरणाङ्गुलीयके हेमच०

पादात् = त्रि० पादाभ्यामतति अत–क्विप्। पद्भ्यां गन्तरि २ पदातौ पु० हेमच०।

पादात = न० पदातीना समूहः अण्। १ सैन्यसमुदाये अमरः पादाभ्यामतति गच्छति अत–अच्। २ पदातौ सैन्ये पु० पादातिः पादातिकोऽप्यत्र पु० हेमच०।

पादाम्बु = न० पादमितमम्बु यत्र। तक्रे (गोल) अमरः।

पादाभ्यञ्जन = न० ६ त०। पादलेपनार्थे वृतादौ काशी० ३ अ०।

पादाम्भस् = न० पादप्रक्षालनमम्भः। पादशौचजले “दूरादुच्छिष्टविण्मूत्रपादाम्मांसि समुत्सृजेत्” याज्ञ० तस्य दूरे त्यज्यतोक्ता।

पादायन = पुंस्त्री० पादस्यर्षेः गोत्रापत्यम् अश्वा० फञ्। पादर्षिगोत्राघत्ये।

पादारक = पु० पाद इव ऋच्छति ऋ–ण्वुल्। नौकावयवभेदे पोलिन्दे हेमच०।

पादालिन्दी = स्त्री पाद इवालिन्दो यस्याः गौरा० ङीष्। नौकायां हारा०

पादावर्त्त = पु० पाद इवावर्त्तते आ + वृत–अच्। कूपादितो जलोद्धारणे यन्त्रभेदे अरघट्टे हेमच०।

पादाविक = त्रि० पादातिक + पृषो०। पदातौ शब्दरत्ना०।

पादिक = त्रि० पादेन चतुर्थांशेन जीवति वेतना० ठक्। १ चतुर्थांशवृत्तियुते। पादः परिमाणमस्य निष्का० ठक्। २ पादपरिमाणे मनुः ३ १।

पादिन् = त्रि० पादश्चरणोऽस्त्यस्य पादश्चतुर्थांशो ग्रहीतृत्वेनास्त्यस्य वा इनि। १ पादयुते जलजन्तुभेदे “कुम्भीर कूर्मनक्राश्च गोधामकरशङ्कयः। घण्डिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः। पादिनोऽपि च ये ते तु कोषस्थानां गुणैः समाः” भावप्र०। २ चतुर्थांशग्राहके च “सर्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे। तृतीयिनस्तृतीयांशाश्चतुर्थांशास्तु पादिनः मल० त० अर्द्धिन्शब्दे ३७८ पृ० दृश्यम्।

पादु = स्त्री भावे उण्। गमने ऋ० १०। ३७। २४ भाष्ये दृश्यम्।

पादुक = त्रि० पद–उकञ्। १ गमनशीले पादू + स्वार्थे क “केऽणः” पा० ह्रस्वः। चर्भमयपादत्राणे स्त्री अमरः। तस्या उत्पत्तिकथा आतपत्रशब्दे ६४९ पृ० दृश्या तत्र चानुशासनिकपर्वाध्यायसंख्या ९२९३ स्थाने ९५ ९६ संख्या ज्ञेया। “वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च। शरीरत्राणकामो वै सोपानत्कः शदा व्रजेत्” ज्यो० त० “पादप्रधारणं वृष्यमोजस्यं चक्षुषो हितम्। सुखप्रचारमायुष्यं बल्यं पादरुजापहम्”। तस्या अधारणे दोषा यथा “पादाभ्याममुपानद्भ्यां नृणां च क्रमणं यदा। अनारोग्यमनायुष्यमिन्द्रियघ्नमदृष्टिकृत्” राजनि० अधिकं दिनचर्य्याशब्दे ३५९० पृ० दृश्यम्। “दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ। स्नातकाय महावाहो! संशिताय द्विजातये। सोऽपि लोकानवाप्नोति दैवतैरपि पूजितान्। गोलोके स मुदा युक्तो वसति प्रेत्य भारत!” भा० आनु० ९६ अ०। कचित्पादुकाधारणनिषेधः “वहन्नुपानहौ पद्भ्यां यस्तु मासुपसंक्रमेत्। चर्मकारस्तु जायेत वर्षाणान्तु त्रयोदश” वराहपु०। “सोपनत्कश्च यद्भुङक्ते तद्वै रक्षांसि भुञ्जते” मनुः। देवतापादुकानिर्माणप्रकारो देवीपु० यथा “मणिरत्नमयी कार्य्या हेमरूप्यमयी तथा। चन्दवेनापि कर्त्तव्या पादुका प्रतिमापि वा। श्रीपर्णा श्रीद्रुमा चापि देवदारुमयी तथा। षडङ्गुला च सा कार्य्या पादुकां पूजयेत् सदा”।

पादुकाकार = पु० पादुकां करोति कृ–अण् उप० स०। चर्मकारे पादूकृत्पादुकाकृदादयोऽप्यत्र हेमच०।

पादू = स्त्री पद्यते मुखेमानया पद–करणे “णित् कशिपद्यर्त्तेः” उणा० ऊ–णिच्च। चर्ममयपादुकायाम् अमरः।

पादोदक = न० पादप्रक्षालनमुदकम् शा० त०। पादप्रक्षालनजले हरिमूर्त्तिपादोदकपानफलं हरिभक्तिविलासादौ दृश्यम्

पादोदर = पुंस्त्री० पाद उदरे यस्य सर्पे प्रश्नोप० स्त्रियां जातित्वात् ङीष्।

पाद्धत = न० पद्धतीनां समूहः भिक्षा० अण। पद्धतिसमूहे

पाद्म = न० पद्ममधिकृत्य प्रवृत्तम् अण्। “तदधिकृत्य कृते ग्रन्थे” पा० वा अण्। पद्माधिकारेण प्रवृत्ते १ ब्रह्मदिनरूपे कल्पभेदे तदधिकारेण कृते ३ पद्मपुराणात्मके ग्रन्थे च।

पाद्य = त्रि० पादार्थं पाद–यत्। १ पादशौचार्थे जले अपसुं स्त्री तेन “पाद्याः पाद्याः पाद्याः प्रतिगृह्मन्तामिति” “दिवाहेऽर्ष्ठक्षीयप्रश्नः। पादं चतुर्थांशमर्हति यत्। २ चतुर्थां- शार्हे त्रि०। देवदेयपाद्ये द्रव्यविशेष उक्तो यथा “पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम्”। एतद्द्रव्ययुक्तं जलमिति” देवप्र० रघु०। तद्दानपात्रलक्षणं यथा “पादावसेचनजलग्रहणं पात्रमद्भुतम्। लौहजं ताम्बजातं वा हैमं राजतमेव वा” वैखानससं०। “षडङ्गुलप्रविस्तारमुत्सेधे चतुरङ्गुलम्। ओष्ठमेकाङ्गुलं कुर्य्यात् नासिकां चतुरङ्गुलाम्। पृष्ठे पादसमायुक्तं चतुरङ्गुगमानतः। पाद्यपात्रमिति ख्यातं सर्वदेवप्रपूजने” सिद्धान्तशेखरः। पाद्यप्रकारः स्थला० कन्। पाद्यक पाद्यप्रकारे त्रि०।

पान = न० पा–ल्युट्। १ द्रवद्रव्यस्य गलाधःसंयोजने २ रक्षणे च ३ निश्वासे च पु० हेमच०। निश्व सेन प्राणरक्षणात्तथात्वम्। आधारे ल्युट्। ४ पानभाजने मेदि० पीयतेऽस्मात् अपादाने ल्युट्। ५ शौण्डिके पु० जटा०। करणे ल्युट्। अस्त्राणां तीक्ष्ण ग्रतासम्पादने ६ व्यापारभेदे (पानदेओया) असिशब्दे ५५१ पृ० पायनाशब्दे च दृश्यम। पीयते कर्मणि ल्युट्। ७ भद्यादौ।

पानक = न० पानार्थं कायति कै–क। अम्लिकानिम्बुरसादिमिश्रितशर्कराजलादौ कृतान्नशब्दे २१८ पृ० दृश्यम्।

पानगोष्ठिका = स्त्री पानार्थं गोष्ठिका। १ सम्भूय मद्यादिपानार्थसभायाम् तन्त्रोक्ते २ भैरवीचक्रे च।

पानठ = त्रि० पाने कशलः बा० अठच। पानकुशले स्त्रियां गौरा० ङीष्।

पानप = त्रि० पानं पेयं मद्यादि पिबति पा–पाने क। सुरापायिणि।

पानपात्र = न० पानस्य पेयस्य सुरादेः पात्रम्। पेयसुरादेः पात्रे कंसे अमरः। पानभाजनादयोऽप्यत्र।

पानबणिज् = पु० पानस्य पेयस्य सुरादेः बणिज्। शौण्डिके हेमच०।

पानशौण्ड = त्रि० पाने शौण्डः ७ त०। सुरादिपानदक्षे पकृतिस्वरः।

पानस = न० पनसस्य तत्फलस्य विकारः तस्येदं वा अण्। पनसभवे १ मद्यभेदे “पानसं द्राक्षमाधूकम्” द्वादशमद्योक्तौ पा० वि०। २ पनससम्बन्धिनि त्रि०।

पानात्यय = पु० सुश्रुतोक्ते मद्यपानजे रोगभेदे मद्यख पानदोषादिकनिरूपणेन तल्लक्षणादिकं तत्रोक्तं यथा

“मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव। रूक्षमाशुकरञ्चैव व्यवायि च विकाशि च। औष्ण्याच्छीतोपचारं तत्तैष्ण्याद्धन्ति मनोगतिम्। विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत्। मारुतं कीपयेद्रौक्ष्यादाशुत्वादाशुकर्मकृत्। हर्षदञ्च व्यवायित्वाद्विकाशित्वाद्वि- सर्पति। तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम्। केचिञ्चवणवर्जांस्तु रसानत्रादिशन्ति हि। स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्। भवेदायुःप्रकर्षाय बलायोपचयाय च। काम्यता मनसस्तुष्टिर्द्धैर्य्यं तेजोऽतिविक्रमः। विधिवत्सेव्यमाने तु मद्ये सन्निहिता गुणाः। तदेवानन्नमज्ञेन सेव्यमानममात्रया। कायाग्निनाह्यग्निशमं समेत्य कुरुते मदम्। मदेन करणानान्तु भावान्यत्वे कृते सति। निगूढमपि भावं स्वम्प्रकाशी कुरुतेऽवशः। त्र्यवस्थश्च मदो ज्ञेयः पूर्वो भध्योऽथ पश्चिमः। पूर्वे वीर्य्यरतिप्रीतिहर्षभाष्यादिवर्द्धनम्। प्रकापो मध्यमे हर्षो युक्तायुक्तक्रियान्तथां। विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः। श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः। पानं न बाधतेऽत्यर्थं विपरीतांस्तु वाधते। निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्। उत्पादयेत् कष्टतमान्विकारानासादयेच्चापि शरीरभेदम्। क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन। व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि। अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथा बलेन। उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान्। पानात्ययं परमदम्पानाजीर्णमथापि वा। पानविभ्रममुग्रञ्च तेषां वक्ष्यामि लक्षणम् स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च। स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च। श्लेषात्मके वमथुशीतकफपसेकाः सर्वात्मके भवति सर्वविकारसम्बत्। ऊष्मा शरीरगुरुता विरसाननत्वं श्लेष्माधिकत्वमरुचिर्मलमूत्रभङ्गः। लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णारुजा शिरसि सन्धिषु चापि भेदः। आध्मानमद्गिरणमम्लरसो विदाहोऽजीर्ण्णस्य पानजनितस्य वदन्ति लिङ्गम्। ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि। हृद्गात्रतोदवमथुज्वरकण्टधूममूर्च्छाकफस्रवणमूर्द्धरुजो विदाहः। द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः। हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमतिमानहतं विजह्यात्। जिह्वौष्ठदन्तमसितं त्वथवापि नीलं पीते च यस्य नयने रुधिरप्रभे च। हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं मजन्ते”। परममदपानाजीणेपानविभ्रमा अपि तत्रोक्ते मद्यपानजे रोगमेदे तल्लक्षणमत्रैवोक्तम्।

पानिल = न० पानमाधातरयाऽस्त्यत्र इलच्। पानपात्रे शब्दच०

पानीय = त्रि० पा–पाने रक्षणे वा कर्मणि अनीयर्। १ पेये जलादौ २ रक्षणीये च ३ जले न० अमरः। तद्गुणभेदादि अम्बुशब्दे दृश्यम्।

पानीयकाकिक = पु० काकस्येवाकारेऽस्यास्ति ठन् ७ त०। (पानकौडि) पक्षिभेदे मद्गुखगे उज्ज्वलद०।

पानीयनकुल = पुंस्त्री० पानीये जले नकुल इव। (उद्विराल) जलविडाले हेमच०।

पानीयपृष्ठज = पु० पानीयपृष्ठे जलोपरि जायते जन–ड। (पाना) कुम्भ्याम् रत्नमाला।

पानीयफल = न० ६ त०। (माखना) जलकन्दफलभेदे भावप्र०

पानीयभक्तगुडिका = स्त्री चक्रदत्तोक्ते गुलिकाभेदे “रसोऽर्द्धभागिकस्तुल्याविडङ्ग्मरिचाभ्रकाः। भक्तोदकेन संमर्द्य कुर्य्याद् गुञ्जसमां गुडीम्। भक्तोदकानुपानैश्च सेव्या वह्निप्रदीपनी। वार्य्यन्नभोजनञ्चात्र प्रयोगे सात्म्यमिष्यते”।

पानीयमूलक = न० पानीयं मूलं यस्य कप्। सोमराज्याम् शब्दच०।

पानीयवर्णिका = स्त्री पानीयमिव वर्णवति वर्णि–ण्वुल्। बालुकायां राजनि०।

पानीयशालिका = स्त्री पीयतेऽस्याम् आधारे अनीयर् तादृशी शाला पानीथवितरक्षार्थं वा शाला ततः स्वार्थे क कापि अतैत्त्वम्। प्रपायाम् (जलसत्रगृहे) अमरः। तद्दानविधिः हेमाद्रि० दा० भविष्यपु० उक्तो यथा “अतीते फाल्गुने मासि प्राप्ते चैव महोत्सवे। पुण्येऽह्नि विप्रकथिते ग्रहचन्द्रबलान्विते। मण्डपं कारयेद्विद्वान् घनच्छायं सनोरमम्। पुरस्य मध्ये पथि वा चैत्यवृक्षतलेऽथ वा। सुशीतलतलं रम्य विचित्रासनसंयुतम्। तन्मध्ये स्थापयेद्भव्यान् मणिकुम्भांश्च शोभनान्। आकल्पयुक्तान् करकान् वस्त्रैरावेष्टितानमान्। ब्राह्मणे शीलसम्पन्ने भृतिं दत्त्वा यथोदिताम्। प्रपापालः प्रकर्त्तव्यो बहुपुत्रपरिच्छदः। पानोयपानादश्रान्तान् यः कारयति मानवान्। एवंविधां प्रषां कृत्वा शुभेऽह्नि विधिपूर्वकम्। यथाशक्त्या नरश्रेष्ठ! प्रारम्भे भोजयेद्द्विजान्। ततश्चोत्सर्जयेद्विद्वान्मन्त्रेणानेन मानवः। प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता। अस्याः प्रदानात् पितरस्तृष्वन्तु च प्रितामहाः। अनिवारितं तती देयं जलं मासचतुष्टयम्। त्रिपक्षं वा महाराज! जीवानां जीवनं परम्। गन्धाद्यं सुरसं शीतं शोभने राजते स्थितम्। प्रदद्यादप्रतिहतं मुखञ्चानवलोकयन्। प्रत्यहं कारयेतस्यां भोजनं शक्तितो द्विजान्। अनेन विधिना यस्तु ग्रीष्मे तापप्रणाशनम्। पानीयमुत्तमं दद्यात्तस्य पुण्यफलं शृणु। कपिलाशतदानस्य सम्यगदत्तस्य यत् फलम्। तत्पुण्यफलमाप्नोति सर्वदेवैः सुपूजितः। पूर्ण्णचन्द्रप्रतीकाशं विमानमधिरुह्य सः। याति देवेन्द्रनगरं पूज्यमानोऽप्सरोगणैः। त्रिंशत्कोट्यो हि वर्षाणां यक्षगन्धर्वसेवितम्। पुण्यक्षयादि हागत्य चतुर्वेदो द्विजो भवेत्। ततःपरं पदं याति पुन रावृत्तिदुर्लभम्”।

पानीयामलक = न० कर्म०। (पानिआमला) वृक्षभेदे “पानीयालकं दोपत्रयज्वरविनाशनम्। अम्लं स्वादु मुखशुद्धिकरं मलविशुद्धिकत्” राजवल्लभः।

पानीयालु = पु० पानीयजात आलुः शा० त०। (पानीआलु) कन्दभेदे राजनि० “पानीयालुस्त्रिदोषघ्नः सन्तर्पणकरः परम्”।

पानीयाश्ना = स्त्री पानीयं जलमश्नाति मूलेन अश–भोजने बा० श टाप्। वल्वजायां राजनि०।

पान्थ = त्रि० पन्थानं नित्यं गच्छति अण् पन्थादेशः। नित्यं पथि गन्तरि १ पथिके अमरः। २ वियोगिनि च त्रि०।

पान्थायन = त्रि० पथोऽदूरदेशादि पथिन् + पक्षा० फक् पन्थादेशः। मार्गस्यादूरदेशादौ।

पान्नागारि = पुंस्त्री० पन्नागारस्य ऋषेरपत्यं युवा इञ् “इञः प्राच्यभरतेषु” प्रा० युवप्रत्ययस्यलुक्। गोत्रप्रवर्त्तकपन्नागारर्षेः १ गोत्रापत्ये २ तदीये यून्यपत्ये च।

पाप = न० पाति रक्षति आत्मानमस्मात् पा–अपादाने प। १ नरकहेतौ दुरदृष्टे तत्साधने २ हिंसादौ ज्योतिषोक्तेषु अर्द्धोनचन्द्ररविप्रभृतिषु ग्रहेषु पापग्रहशब्दे दृश्यम्। पापलक्षणं पापसत्तायां प्रमाणञ्च प्रा० वि० उक्तं यथा मनु किं पापलक्षणम् उच्यते चोदनालक्षणोऽर्थोधर्म्म इति धर्मलक्षणं कुर्वता सूत्रकारेण जैमिनिना वेदैकप्रतिपाद्योऽनर्थोऽधर्म्भ इत्यधर्म्मलक्षणं सूचितम् अनर्थश्चा निष्टसाधनं तथा चोक्तं भाष्यकृता कोऽर्थो योऽभ्युदयाय कोऽनर्थो योऽनभ्युदयाय”। नमु पापसत्तायां किं मानं न तावत् वेदः तस्य कार्य्ये कार्य्यान्विते वा प्रामाण्यात् न च दुरितापूर्वं कार्य्यं कार्य्यान्वितं वा। न चं नित्यकर्माकरणस्य निषिद्धाघरणस्य च वेदोक्तप्रत्यवायसाधनत्वान्यथानुपपत्त्या कल्प्यं तस्य तथाविधशब्दाभा- येन असिद्धत्वेन चावगन्तुमशक्यत्वात्, उच्यते “यो व्राह्मणायावगुरेत् तं शतेन यातायात्” इति श्रुतौ लिङ्द्वयश्रुतेरवगोरणशतयातनयोः साध्यसाधनभावोऽवगम्यते “हेतु हेतुमतोर्लिङिति” पाणिनिस्मरणादिति यथोक्तं शंय्वधिकरणे, तथात्रापि क्वचित् पञ्चम्या क्वचित् तृतीयया क्वचिद्विशेषणेन तदवगम्यते। यथा याज्ञवल्क्यः “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” (अत्र पञ्चम्या) मनुः “शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः। वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्। इह दुश्चरितैः केचित् केचित् पूर्बकृतैस्तथा। प्राप्नुवन्ति दुरात्मानो नरारूपविपर्य्ययम्” (अत्र तृतीयया) विष्णुपु० “नरकं कर्म्मणां लोपादेवमाहूर्महर्षयः” यमः “सुरापो ब्रह्महा गोघ्न सुवर्णस्तेयकृन्नरः। पतितैः संप्रयुक्तश्च कृतघ्नो गुरुतल्पगः। एते पतन्ति सर्वेषु नरकेष्वनुपूर्वशः”। अत्रैते सुरापादयः पतन्तीति सुरापादीनां पतनकर्तृत्वावगतेः पतनकर्तृत्वच्च साधनत्वविशेषः। अतः सुरापानादिविशिष्टस्य पुरुषस्य पतनसम्बन्धे विशेषणस्य सुरापानादेः सति सम्भवे पतनसाधनत्वमवगम्यते। “सप्तदशप्राजापत्यान्पशूनालभेत” इति वत्। एवं “वारिदस्तृप्तिमाप्नोति” इत्यादिवच्च। नरकसाधनत्वस्य कार्य्यान्वयाभावात् कथं शब्दादवगतिरिति चेत् शंयुवत् विषयविशेषणतया इति व्रूमः। यथा यातनासाधनादवगोरणान्निवर्त्तितव्यमिति विधिः। तथा नरकसाधनात् सुरापानादेरपि निवर्त्तितव्यमिति”। यथा कालान्तरभावि स्वर्गादिसाधनत्वान्यथानुपपत्त्या यागादेर्द्वारीभूतधर्मकल्पकता एवं कालान्तरभाविनरकादिसाधनत्वान्य थानुपपत्त्या सुरापानादेर्द्वारीभूताधर्मकल्पकत्वमिति वोध्यम् पापमस्त्यस्य अर्श० अच्। ४ पापयुक्ते त्रि०। पापं च कायिकादिभेदेन दशविधं दशहराशब्दे ३४८३ पृ० दर्शितम् कायिकादिभेदेनान्यान्यपि पापान्युक्तानि यथा “प्राणाभिपातनं स्तैन्यं परदारमथापि च। त्रीणिपापानि कायेन सर्वतः परिवर्जयेत्। असत्प्रलापं पारुष्यं पैशुन्यमनृतन्तथा। चत्वारि वाचा राजेन्द्र! न जल्पेत न चिन्तयेत्। अनभिध्या परस्वेषु सर्वसत्वेषु सौहृदम्। कर्मणां फलमस्तीति त्रिविधं मनसाचरेत्” भा० शा० दानधर्मः। पापस्य पुरुषत्रयावध्यनुवर्त्तित्वं यथा “नाधर्म्मश्चरितो राजन्! सद्यः फसति गौरिव। शनै- रावर्त्तमानस्त मूलान्थपि निकृतति। यदि। नात्मनि मित्रेषु न चेत् पुत्रेषु नप्तृषु। पापमाचरितं कर्म त्रिपगमनुबर्त्तते। फलत्येवं ध्रुवं पापं गुरु भुक्तमिवोदरे” मात्स्ये २८ अ०। राष्ट्रादिकृतपापेन राजादीनां परस्परं पापित्वं यथा “राजा राष्ट्रकृतात् पापात् पापी भवति वै हरे!। तथैवराज्ञः पापेन तद्राज्यस्थास्तुये जनाः। वर्णाश्रमादय सर्वे पापिनो नात्र संशयः। भार्य्यांहोदुष्कृती स्वामी वृजिनात् स्वामिनोऽबला। तथा देशिकपापात्तु शिष्यः स्यात् पातकी सदा। शिष्याद्धि पापिनो नित्यं गुरुर्भवति दुष्कृती। पातकी यजमानः स्यात् पापिनोऽङ्ग पुरोधसः। पुरोहितस्तथा पापी यजमानांहसो ध्रुवम्” अदत्तपुण्यपापभागित्वं यथा “अदत्तानि च पुण्यानि पापानि च यथा प्रिये!। प्राप्याणि कर्मणायेन तद्यथावन्निशामय। देशग्रामकुलानि स्युर्भागभाञ्जि कृतादिषु। कलौ तु कवलं कर्त्ता फलभुक् पुण्यपापयोः। अकृतेऽपि च संसगे व्यवस्थेयमुदाहृता। संसर्गात् पुण्यपापानि यथा यान्ति निबाध तत्। एकत्र मैथुनाद्याना देकपात्रस्थभोजनात्। फलार्द्धं प्राप्नुयान्मर्त्यो यथावत् पुण्यपापयोः। स्पर्शनाद्भाषणाद्वापि परस्य स्तवनादपि। दशांश पुण्यपापानां नित्यं प्राप्नोति मानवः। दर्शनश्रवणाभ्याञ्च मनोध्यानात्तथैव। परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः। परस्य निन्दापैशुन्यं धिक्कारञ्च करोति यः। तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः। कुर्वतः पुण्यकर्माणि सेवां यः कुरुते परः। पत्रीभृत्योऽथ शिष्यो वा सजानीयोऽप्रि मानवः। तस्य मेवानुरूपेण तस्य तत्पुण्यमाग्भवेत्। एकपङ्क्तेस्ततो यस्तु लङ्घवन् परिवेशयेत्। तस्य पापशतांशन्तु लभते परिवेशकः। स्नानसन्ध्यादिकं कुर्वन् संस्पृशेद्वा प्रभाषते। स पुण्यकर्मषष्ठांशं दद्यात्तस्मै सुनिश्चितम्। धर्मोद्देशेन यो द्रव्यं परं याचयते नरम्। तत्पुण्यं कर्मजं तस्य धनं दत्त्वाप्नुयात् फलम्। अपहृत्य परद्रव्यं पुण्यकर्म करोति वः। कर्मकृत् पाप मोक्तात्र धनिनस्तद्भवेत् फलम्। नापनुद्य ऋषं यस्तु परस्य म्रियते गरः। धनी तंत्पुण्यमाप्नोति स्यधनस्यानुरूपतः। बुद्धिदस्त्यनुमन्ता च यश्चोपकरणप्रदः। बलकृच्चापि षष्ठांशं प्राप्नुयात् पुण्यपापयोः। प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमु द्धरेत्। शिष्याद्गुरुः स्त्रिया भर्त्ता पिता पुत्रात्तथैव च। स्वपतेरपि पुण्यस्य भार्य्यार्द्धं समवाप्नुयात्। पर- हस्तेन दानादि कुर्वतः पुण्यकर्मणः। विना भृत्यकशिष्याभ्यां कर्त्ता षष्ठांशमाहरेत्। आत्मनो वा परस्यापि यदि सेवां न कारयेत्” श्रीकृष्ण उवाच “इत्यं ह्यदत्तान्यपि पुण्यपापान्यायान्ति नित्यं परसञ्चितानि। शृणुष्व चास्मिन्नितिहासमग्र्यं पुराभषं पुण्यमतिप्रसिद्धम्” पाद्मोत्तरखण्डे ७१ १५७ अ०। अत्र कलौ संसर्गजपापोक्तिः महापातकिविषया संसर्गशब्दे दृश्यम्। ५ गर्ह्ये त्रि० पापयोनिः मनुः ४। १६६ पापनापित इत्यादि।

पापकृत् = त्रि० पापं कृतवान् कृ–भृते क्विप्। १ कृतपापे २ असपिण्डीकृते प्रेते च श्रा० त० रघु०।

पापग्रह = पु० कर्म०। “अर्द्धोनेन्दुः कुजो राहुः शनिस्तैर्युत इन्दुजः। रविः पापग्रहाश्चैते शुभाश्चान्ये प्रकीर्त्तिताः” ज्योतिषोक्तेषु ग्रहेषु।

पापघ्न = पु० पापं हन्ति हन–टक्। १ तिले तस्य हि दानेन पापनाशकत्वमिति तस्य तचात्वम्। २ पापनाशके त्रि० राजनि०।

पापचेली = स्त्री पुनःपुनः पचति पा–यङ्–अच् पापचीवायुस्तमीरयति ईर–अण् रस्य लः। (आकनादि) पाठालतायाम् अमरः स्वार्थे क ह्रस्वः। पापचेलिका तत्रार्थे स्त्री रत्नभाला।

पापति = त्रि० पत–यङ्लुक् इन्। पुनःपुनः पतनशील

पापनापित = पु० कर्म० “कुत्सितानि कुत्सनैः” पा० पापत्वेन (गर्ह्यत्वेन)नापितस्य कुत्स्यमानत्वात नापितस्य पूर्व निपाते प्राप्ते “पापाणके कुत्सितैः” पा० परनि०। धूर्त्तनापिते

पापनाशन = त्रि० पाप नाशयति नाशि–ल्यु। १ पापनाशके २ विष्णौ पु० “क्षितीशः पापनाशनः” विष्णुसं०। भावे ल्युट् ६ त०। ३ पापस्य नाशने च न०। करणे ल्युट्। ४ प्रायश्चित्ते न०।

पापपति = पु० पापजनकः पतिः। उपपतौ जारे त्रिका०।

पापपुरुष = पु० पापात्मकः पुरुषः पुरुषाकारः। तन्त्रोक्ते वाषकुक्षिस्थे पापात्मके ध्येये नराकारे पदार्थे तन्त्रसारे भूतशुद्धिप०। बहुपापावयवभेदयुते २ पुरुषभेदे च। पाष्मे क्रिया० २१ अ० तत्स्वरूपमुक्तं यथा “सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम्। सर्वेषां दमनार्थाय सृष्टवान् पापपुरुषम्। द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम्। सुवर्णस्तेयवदनं गुरुतल्पगति श्रुतिम्। स्त्रीहत्यानासिकञ्चैव गोहत्यादोपबाहुकम्। न्यासापहरणग्रीवं भ्रूणहत्यागलन्तथा। परस्त्रीगति- वुक्कानं सुहृल्लोकबधोदरम्। शरणापन्नहत्यादिनाभिं गर्वकथाकटिम्। गुरुनिन्दासक्थिभागं कन्याविक्रयशेफसम्। विश्वासवाक्यकथनपायुं पितृबधाङ्घ्रिकम्। उपपातकरोमाणं महाकायं भयङ्करम्। कृष्णवर्णं पिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदम्”।

पापयक्ष्मन् = पु० वास्तुमण्डलस्थे पूज्यगणभेदे वृ० सं० ५३ अ०।

पापमुक्त = त्रि० पापान् मुक्तः ५ त०। परित्यक्तपापे। पापमोचनहेतवश्च मनुना दर्शिता यथा “ख्यापनेनानुतापेन तपसाध्ययनेन च। पापकृन्मु च्यते पापात् तथा दानेन चापदि”। अन्ये च तस्य हेतवो वराहपु० दर्शिता यथा “यः समः सर्वभूतेषु जितात्मा शान्तमानसः। स पापेभ्यो विमुच्येत ज्ञानवान् स च वेदवित्। गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च। ध्याने चैवं ह्यसंमूढः स पापेभ्यः प्रमुच्यते। स्वदेहे परदेहे च सुखदुःखेन नित्यशः। विचारज्ञो भवेद्यस्तु स मुच्येतैनसो ध्रुवम्। अहिंसः सर्वभूतेषु तृष्णाक्रोधविवर्जितः। कृतन्यासः सदा यश्च स पापेभ्यः प्रमुच्यते। प्राणायामैश्च निर्दह्य अंहः, सन्धारणारतः। व्यवस्थितमना यस्तु स पापेभ्यः प्रसुच्यते। निराशीः सर्बतस्तिष्ठेदिष्टार्थेषु न लोलुपः। पवितात्मा त्यजेत् प्राणान् सर्वपापात् प्रमुच्यते। श्रद्दघानोजितक्रोपः परद्रव्य विवर्जितः। अनसूयश्च यो मर्त्यः स पापेभ्यः प्रमुच्यते। गुरुशुश्रूषया युक्तो ह्यहिंसानिरतश्च यः। क्षुद्रोऽपि क्षुद्रशीलोऽपि स पापेभ्यः प्रमुच्यते। प्रशस्तानि सदा कुर्य्यादु अप्रशस्तानि वर्जयेत्। योऽभिगच्छति तीर्थानि तिशुद्धेनान्तरात्मना। पापादुपरतो नित्यं स पापेभ्यः प्रमुच्यते। उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः। अभिगम्य प्रवत्नेन स पापेभ्यः प्रमुच्यते”। अन्येऽपि तस्य हेतवः शास्त्रान्तरेषु दृश्याः।

पापयोनि = स्त्री पापा गर्ह्या योनिः। १ तिर्य्यगयोन्यादौ। पापहतुका योनिः। २ पापहेतुके जन्मभेदे तद्भेदे कारणभेदो याज्ञ० उक्तो यथा “महापातकजान् घोरान्नरकान् प्राप्यगर्हितान्। कर्मक्षयात् प्रजायन्ते महापातकिनस्त्विह। मृगाश्वशूकरोष्ट्रणां ब्रह्महा योनिमृच्छति। स्वरपुक्कशवणानां सुरापो नात्र संशयः। कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात्। तृणगुल्मलतात्वञ्च क्रमशो गुरुतल्पगः”। “तैसहृ{??}इसपायी स्यात् पूतिवक्त्रस्तु सूचकः। परस्य योषितं हृत्वा व्रह्मस्वमपहृत्य च। अरण्ये निर्जने घोरे भवति ब्रह्मराक्षसः। हीनजातौ प्रजाययेत पररत्नापहारकः। पत्रशाकं शिखी हृत्वा गन्धांश्छुच्छुन्दरिः शुभान्। मूषिको धान्यहारी स्याद् यानमुष्ट्रं फलं कपिः। जलं प्लवः पयः काको गृहकारी ह्युपस्करम्। मधु, दंश फलं गृध्रो, गां गोधाऽग्निं वकस्तथा। शित्री वस्त्रं श्वा रसन्तु चीरी लवणहारकः। प्रदर्शनार्थमेतत्तु मयोक्तंस्तेयकर्मणि। द्रव्यपकारा हि यथा तथैव प्राणिजातयः। यथा कर्मफलं प्राप्य तिर्य्यक्त्वं कालपर्य्ययात्। जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः”। गौतमोऽपि क्वचिद्विशेषमाह “विद्याविक्रयी पुरुषमृगः वेदविक्रयी द्वीपी, बहुयाजको जलप्लवः, अयाज्ययाजको वराहः, अनिमन्त्रितभोजी वायस, मिष्टैकभोजी वानरः, यतस्ततोऽश्नन् नार्जारः, कक्षवनदहनात् खद्योतः, दारकाचार्य्यो मुखविगन्धिः, पर्युषितभोजी कृमिः, अदत्तादायी वलीवर्द्दो, मत्सरी भ्रमरः, अग्न्युत्सादी मण्डलकुष्ठी, शूद्राचार्य्यः श्वपाकः, गोहर्ता सर्पः, स्नेहापहारी क्षयी, अन्नापहार्य्यजीर्णी, ज्ञानापहारी मूर्खः, चण्डालीपुष्कसीगमनेऽजगरः, प्रव्रजितागमने मरुपिशाचः, शूद्रागमने दीर्घकीटः सवर्णाभिगानी दरिद्रः, जलहारी मत्स्यः क्षीरहारी वलाका। वार्धुसिकोऽङ्गपीनः, अविक्रेयविक्रयी गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशको गर्दभः, गोगामी मण्डूकः, अनध्यायाध्ययने शृगालः परद्रव्यापहारी परप्रेष्यः, मत्स्यबधे गर्भवासी, इत्येतेऽमूर्द्धगमना इति। स्त्रियोऽप्येतेषु निमित्तेषु पूर्वोक्तास्वेव जातिषु स्त्रीत्वमनुभवन्ति”। विष्णुस० ४४ अ० अन्येऽपि पापभेदकृतयोनिभेदा दर्शिताः। बहु०। ३ तद्युते त्रि०।

पापरोग = पु० पापविशेषकृते रोगभेदे स च विष्णुसं० उक्तो यथा “नरकानुभूतदुःखानां तिर्य्यक्त्रमुत्तीर्णानां मनुष्येषु लक्षणानि भवन्ति। कुष्ठ्यतिपातकी। ब्रह्महा यक्ष्मी। सुरापः श्यावदन्तकः। सुवर्णहारी कुनखः। गुरुतल्पगो दुश्चर्मा। पूतिनासः पिशुनः। पूतिवक्त्रः सूचकः, धान्यचौरोऽङ्गहीनः। मिश्रचौरोऽतिरिक्ताङ्गः। अन्नापहारकस्त्वामयावी। वागपहारको मूकः। वस्त्रापहारकः श्वित्री। अश्वापहारकः पङ्गुः। देवब्राह्मणक्रोशकोमूकः। लोलजिहो गरदः। उन्मत्तोऽग्निदः। गुरुप्रतिकूलोऽपस्मारी। गोघ्नन्त्वन्धः। दीपापहारकश्च काणश्च दीपनिर्वापकः। त्रपुचामरसीसकविक्रयी रजकः। एकशफविक्रयी मृगव्याधः। कुण्डाशी मगास्यः, घाण्टिकःस्तेनः। वार्धुषिको भ्रामरी। मिष्टाश्येकाकी वातगुल्मी। समयभेत्ता खल्वाटः, श्लीपद्यवकीर्णी। परवृत्तिघ्नो दरिद्रः। परपीडाकरो दीर्घरोगी। एवं कर्मविशेषेण जायन्ते लक्षणान्विताः। रोगान्वितास्तथा न्धाश्च कुब्जखञ्जैकलोचनाः। वामनावधिरामूका दुर्बलाश्च तथा परे। तस्मात् सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत्”। यद्यपि सर्वेषां रोगाणां दुःखदायकत्वेन पापहेतुकत्वं तथापि उन्मादाद्यष्टरोगाणां प्राधान्येन “महापापजत्वेन पापरोगत्वं यथोक्तं शु० त० रघुनन्दनेन “महारोगिण इति पापरोगाष्टकान्यतमरोगवतः। ते च उन्मादस्त्वगदोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरः उदरोऽश्मरी इत्यष्टौ पापरोगा नारदोक्ताः। कर्मविपाकशब्दे १७४५ पृ० विस्तरः। २ मसुरीरोगे शब्दरत्ना०।

पापरोगिन् = त्रि० पापजन्यरोगो निन्द्यत्वेनास्त्यस्य इनि। महारोगयुक्ते ३। ५। २ मनुः।

पापर्द्धि = स्त्री पापानामृद्धिरत्र। १ मृगयायां हेमच० ६ त०। २ पापवृद्धौ च।

पापल = त्रि० पापं लाति ला–क। १ पापग्राहके पातयति तुलादण्डं स्वाधिष्ठानेन अधोनयति पाति–कलच् तस्य पश्च। २ परिमाणमेदे न० उणादिकोषः।

पापशमनी = स्त्री पापं शम्यतेऽनया शम–णिच्–करणे ल्युट् ङीप्। १ शमीवृक्षे राजनि०। पापं शमयति शमिल्यु। २ पापनिवारके त्रि०।

पापसम = अव्य० पापेन तुल्यम् तिष्ठद्गु० अव्ययीभावः। पापतुल्ये।

पापहन् = त्रि० पापं हन्ति हन–क्विप्। पापनाशके मनुः ७। २५।

पापाख्या = स्त्री पापमनिष्टमाख्याति सूचयति आ + ख्याक। वृ० सं० ७ अ० उक्ते बधस्य गतिभेदे “प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः। पराशरतन्त्रे नक्षत्रैः कीर्त्तितागतयः” इत्युपक्रमे “पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति” सावित्रादिनक्षत्रे तद्गतेः संज्ञामुक्त्वा “प्राकृतगत्यामारोग्यवृष्टिशस्यप्रवृद्धयः क्षेमम्। संक्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम्” इति तस्याः अशुभफलकथनेन पापसूचकत्वात् तथात्वम्।

पापात्मन् = त्रि० पापयुक्त आत्मा अन्तःकरणं यस्य। पापान्विते जीवे “पापात्मा पापसम्भवः” इति पुराणम्। तेषां संसरणप्रकारः पाद्मे क्रियायो० २२ अ० यथा “पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम्। षडशीति सहस्राणि योजनानि दुरात्मनाम्। प्रोक्तो मार्गस्य विस्तारः सर्वदुःखान्वितस्य च। क्वचित् क्वचित् ज्वलद्वह्निः सन्तप्तः कर्दमः क्वचित्। क्वचित् क्वचित् द्विजश्रेष्ठ! सन्तप्तं ताम्रवालुकम्। क्वचित् क्वचित्तीक्ष्णशिलाः क्वचित्रप्तशिलास्तथा। क्वचित् क्वचिच्छस्त्रवृष्टिः क्वचिदङ्गारवर्षणम्। कुत्रचिद्वह्निवृष्टिश्च कुत्रचित् पङ्कवर्षणम्। उष्णाम्बुवर्षणं क्वापि क्वचित् पाषाणवर्षणम्। ज्वलदग्निरिव क्वापि सन्तप्तो वाति मारुतः। गभीरा अन्धकूपाश्च तृणावृतमुखा द्विज!। क्वापि कण्टकवृक्षाश्च नाराचसमकण्टकाः। पाषाणश्रेणयः क्वापि दुरारोहाः सपन्नगाः। क्वचिद्गाढान्धकाराश्च क्वचित् शोणित कन्दराः। क्वचिद्वीरणवृक्षाश्च क्वचित् काशाः क्वचित् शराः। क्वचित् क्वचिच्छर्कराश्च लेष्टवश्च क्वचित् क्वचित्। क्वचिदस्थ्नां राशयश्च दुर्गन्धा मांसराशयः। क्वचित्कण्टकराशिश्च शैवालानि क्वचित् क्वचित्। कीलकावलयः क्वापि क्वचिद्व्याघ्रास्तथा शिवाः। खड्गिनः करिणः क्वापि क्वचिदृक्षा भयङ्कराः। एवं बहुविधक्लेशे छाया जलविवर्जिते। तस्मिन्मार्गे द्विजश्रेष्ठ! पापिनो यान्ति दुःखिनः। नग्नाविमुक्तकेषाश्च प्रेताकारभयङ्कराः। गच्छन्ति पापिनस्तत्र शुष्ककण्ठौष्ठतालुकाः”।

पापान्त = न० पृथूदकापरनामके तीर्थभेदे वामनपु० ३८ अ०।

पापाह = पु० पापमशुद्धत्वात् गर्ह्यमहः टच्समा०। अशौचदिने

पापिन् = त्रि० पाप + अस्त्यर्थे इनि। पापयुक्ते। अतिशयेन पापी इष्ठन्। पापिष्ठ अतिशयेन पापयुक्ते। ईयसुन् पापीयस् तत्रार्थे त्रि० स्त्रियां ङीप्।

पाप्मन् = पु० आप्नोति व्याप्नोति पापिनम् आप–मनिन् नि०। पापे अमरः।

पामघ्न = पु० पाम हन्ति हन–टक्। १ गन्धके राजनि०। २ कटुकायां स्त्री जटाधरः।

पामन् = न० पा–मनिन्। विचर्चिकायां (खोस पाचडा) स्त्रीत्वमपि मनन्तात् वा ङीप् पामाप्यत्र अमरः।

पामन = त्रि० पामास्त्यस्य मत्वर्थे न। पामंरोगवति अमरः पक्षे मतुप् मस्य वः। पामवत् तत्रार्थे त्रि० स्त्रियां ङीप्

पामर = त्रि० पाति क्विष् पाः त्रयीधर्मः स म्नियनेऽनेन मृघ।। १ मूर्खे २ नीचे मेदि० २ खले हेमच०।

पामरोद्धारा = स्त्री पामरमुद्धरति उद्–हृ–अण् अजादित्वात् टाप्। गुडूच्याम् शब्दरत्ना०।

पामादि = पु० “पामादिभ्यो नः” पा० अस्त्यर्थे नप्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “पामन् वामन् वेमन् श्लेष्मन् कद्रुवलि सामन् ऊष्मन् कृमि(अङ्गात् कल्याणे) (शाकीपलालीदद्रूणां ह्रस्वत्वञ्च) (विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः) (लक्ष्मा अच्च)

पामारि = पु० ६ त०। गन्धके हेमच०। तत्सेवने हि पामरोगनाशः इति तस्य तथात्वम्।

***