पा = पाने भ्वा० पर० सक० अनिट्। शिति पिवादेशः पिवति अपात् पपौ पेयात् पीयते पीत्वा पीतः पायः पेयं प्रपा। णिच् पाययति णौचङि अपीप्यत्। पिपासति पेपीयते।
पा = रक्षणे अदा० पर० सक० सेट्। पाति अपासीत् पपौ। पायात् णिच् पालयति अपीपलत्। पालनम् पालकः
पांश(स)न = त्रि० पसि–ल्यु बा० दीर्घः पृषो वा। दूपके त्रिक
पांश(स)व = पु० पां (सोः) शोर्विकारः अण्। (पाङ्गा) लवणभेदे पां(सु)शुजादयोऽप्यत्र राजनि०।
पांशु(सु) = पु० पसि–नाशने अर्जिदशिकम्यमपसिवाधामृजि पसिवाधामृजिपशितुक्धुग्दीर्थहाश्च” उणा० उ दीर्घश्च। १ धूलौ २ शस्यार्थचिरसञ्चितगोमये च विश्वः उणादिसूत्रे दन्त्यान्त्य पसिधातोरेव उप्रत्ययदोर्घयोर्विधानात् विश्वप्रकाशे तालव्यान्ते कीर्त्तनाच्च पृषो दन्त्यस्य शः इति बोध्यम्। अतएव “तालव्या अपि दन्त्याः स्युः शंवशूकरपांशवः” शकारभेदे उक्तम्। ३ लबणभेदे न० “औद्भिदं पांशु(सु)लयणं यज्जातं भूमितः स्वयम्। क्षारं गुरु कटुस्निग्धं स्वेदनं वातनाशनम्” भावप्र०। ४ पर्पटे ५ कर्पूरभेदे पु० राजनि०। पांशु(सु)तो भबः यत्। पां(श)सव्य तत्र भवे त्रि०। रुद्रभेदे पु० यजु० १६। २५
पांशु(सु)कासीस = न० कासीसे राजनि०।
पां(शु)सुकुली = पांशून् कोलति कुल–संहतौ क गौरा० ङीष्। राजभार्गे हारा०।
पांशुकूल = न० ६ त०। निरूपपदशासनभदे “शासनं धर्म्मकीलः स्यात् मुकुतिः शूदशासनम्। पट्टोलिका कॢप्तकीला पांशुकूलं न कस्यचित्” त्रिका०।
पांशु(सु)क्षार = न० पांशु(सु)रिव क्षारम्। क्षारलवणे (पाङ्गालोन) पार० निघण्टुः।
पांशु(सु)चत्वर = पु० पाशुभिश्चत्वर इव। घनोपले शब्दमा०।
पांशु(सु)चन्दन = पु० पांशुधूलिश्चन्दनमिवास्य। विभूतिभूषिते शिवे त्रिका०।
पांशु(सु)चामर = पु० पांशुश्चामर इवास्य। १ पटवासे (ता~वु) जटा०। २ दूर्वाङ्कितकटीतटे ३ बर्द्धापके ४ प्रशंसायाम् ५ पुरोटो ६ धूलिगुच्छके च मेदि०।
पांशु(सु)ज = न० पांशु(सु)तो जायते जन–ड। (पाङ्गा) लवणभेदे रत्नमा०। पांशु(सु)भवादणऽप्यत्र।
पांशु(सु)पत्र = न० पांशु(सु)भिः सञ्चितगीमयैः पत्त्रमस्य। वास्तूकशाके शब्दमा०।
पांशु(मु)मर्दन = पु० षांशुः(सुः) मृद्यतेऽत्र मृद–आधारे ल्युट्। केदारे क्षेत्रभेदे त्रिका०।
पांशु(सु)र = पु० पांशुं(सुं) राति–क। १ खञ्जे २ दंशके च (डांश) हारा०।
पांशु(सु)रागिणी = स्त्री रन्ज–घिनुण् ङीप्। पांशु(सु)भिः रामिणी ३ त०। महामेदायां राजनि०।
पांशु(सु)राष्ट्र = न० पांशु(सु)प्रधानं राष्ट्रम्। देशभेदे भा० स० ५१ अ०।
पांशु(सु)ल = त्रि० पां(सु)शुरस्त्यस्य सिध्मा० लच्। १ घूलियुक्ते तत्तुल्यपापयुक्ते २ पुंश्चले च स्त्रियां टाप्।
पाक = पु० पच–भावे घञ्। १ तण्डुलादिविक्लेदनव्यापारभेदे स च स्थूलीमार्जनाधःसन्तापनाद्योदनपरीक्षान्तोव्या- पारसमूहः। पिबति स्तनम् पा–कन् वयसि अर्भकानि० वा। २ स्तनपायिनि शिशौ ३ परिणते जरसा ४ केशादेः शोक्ल्ये अमरः। ५ पेचके ६ राष्ट्रभङ्गे ७ भीतौ शब्दरत्ना० ८ दैत्यभेदे हेमच० पाकशासनः। द्रव्यादेः पाकप्रकारभेदादिकं वाकराजेश्वरे उक्तं यथा “भर्जनं तलनं स्वेदः पचनं क्वथनं तथा। तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः”। भजनं केवलपात्रे। तलनं स्नेहद्रव्ये, स्वेदनम् अग्न्युत्तापे। पचनं जले। क्वथनं सिद्धद्रव्यरसग्रहणे। तान्दूरं द्वारवद्धतप्तयन्त्रे, पुंटपाक ऊर्द्ध्वाधोऽग्नितापे ज्ञेयः”। श्राङ्के पाकप्रकारादिः नि० सि० उक्तो यथा देवलः “तथैव यन्त्रितो दाता प्रातःस्नात्वा सहाम्बरः। आरभेत नवैः पात्रैरन्नारम्भं च बान्धवैः” अत्रात्मनेपदात् स्वयमेव पाकः कार्यः अशक्तो पत्र्या तदभावे बान्धवैः “ततस्तानि पपाचाशु सीता जनकनन्दिनी” इति पाद्मलिङ्गादिति हेमाद्रिः। श्राद्धदीपकलिकायामाश्वलायनः “समानप्रवरैर्मित्रैः सपिण्डैश्च गुणान्वितैः। कृतोपकारिभिश्चैव पाककार्यं प्रशस्यते”। व्यासः “गृहिणी चैव सुस्नाता पाकं कुर्य्यात् प्रयत्नतः। निष्पन्नेषु च पाकेषु पुनः स्नानं समाचरेत्”। पृथीचन्द्रोदये ब्राह्मे “रजस्वलां च पाषण्डं पुंश्चलीं पतितां तथा। ज्यजेच्छूद्रां तथा वन्ध्यां विधवां चान्यगोत्रजाम्। व्यङ्गकर्णीं चतुर्थाहःस्नातामपि रजस्वलाम्। वर्जयेच्छ्रान्नपाकार्थममातृपितृवंशजाम” मातृपितृवंशजभिन्नां त्यजोदत्यर्थः। ऋतिसारे “न पाकं कारयेत् पत्नीमन्यां (अन्यामन्यवर्णाम्) वाप्यन्यगोत्रजाम्। मृतवत्सां च गर्भघ्नीं गर्भिणीं चैव दुर्सुखीम्”। पाकभाण्डानि तु हेमाद्रौ नागरणण्डे “पौवर्ण्णान्यथ रौप्याणि कांस्यताम्रोद्भवानि च। मार्त्तिकान्यपि भव्यानि नूतनानि दृढानि च” तथैवादित्यपुराणे “पचदन्नानि सुस्नातः पात्रेषु शुचिषु स्वयम्। स्वर्णादिधातुजातेषु मृण्मयेष्वपि वा ट्विजः। सचिद्रेष्वविलिप्तेषु तथाचोपहतेषु च। मायसेषु न भिन्नेषु दूषितेष्वपि कर्हिचित् पूर्वं कृतोषयोगेषु मृण्मयेषु न तु क्वचित्”। वायुपुराणे “न कदाचित्पचेदन्नमयःस्थालीषु पैतृकम्। अयसो दर्शनादेव पितरोऽपद्रवन्ति हि। कालायसं विशेषेण निन्दन्ति पितृकर्मणि। फलानां चैव शाकानां छदनार्थानि यानि तु। महानसेऽपि शस्त्राणि तेषामेव हि सन्निधिः। इड्यते नेतरस्यात्र शस्यमात्रस्य दर्श- नम्। श्राद्धदेशे तु विदुषा पितॄणां तृप्तिमिच्छता। महानसेऽतियुक्तानामपि कार्यं न दर्शनम्”। तत्रैव “पचमानस्तु माण्डेषु भक्त्या ताम्रमयेषु च। समुद्धरति वै घोरात् पितॄन् दुःखमहार्णवात्। तैजसानामभावे तु पिठरे मृण्मयेऽपि च। नवे शुचौ प्रकुर्वीत पाकं पित्रर्थमादरात्”। तत्रैबादित्यपुराणे “पक्वान्नस्थापनार्थे तु शस्यन्ते दारुजान्यपि। दर्व्यादीन्यपि कार्य्याणि यज्ञियैरपि दारुभिः”। यमः “विवाहे प्रेतकाय्ये च माता पित्रोः क्षयेऽहनि। नवभाण्डानि कुर्वीत यज्ञकाले विशेषतः”। अत्र पाकाग्निमाह हेमाद्रौ प्रजापतिः “ओपासनेनान्नसिद्धिरग्नौकरणमेव च”। पृथ्वीचन्द्रोदयेऽङ्गिराः “शालाग्नौ तु पचेदन्नं लौकिके वापि नित्यशः। यस्मिन्नग्नौ पचेदन्नं तस्मात् हीमो विधीयते”। मनुः “वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि। पञ्चयज्ञविधानञ्च पक्तिं चान्वाहिकीं द्विजः”। श्राद्धस्य गृह्यत्वं चोक्तमपरार्केण, अत्र विशेषः कर्मप्रदीपे “प्रातर्होमं तु निर्बर्त्त्य समुद्धृत्य हुताशनात्। शेषं महानसे कृत्वा तत्र पाकं समाचरेत्। पाकान्तेऽग्निं तमाहुत्य गृह्याग्नौ तु पुनः क्षिपेत्। ततोऽस्मिन् वैश्वादेवादिकर्म कुर्प्यादतन्द्रितः”। तदभावे लौकिके “ततः पचेयुरन्नानि निर्वापानन्तरं शनैः। वैवाहिमेऽग्नावन्यत्र लौकिके वापिसंयतः” इति दीपकलिकायां संग्रहोक्तेः”। पाकभाण्डस्य त्याज्यत्वं यथा “नित्यं नूतनभाण्डेन कर्त्तव्यः पाक एव च। अथ वा पक्षपर्य्यन्तं ततस्त्याज्यं मनीषिभिः” इति ब्रह्मवैवर्त्तपु०। पाककाले शूद्रायाग्निदाननिषेधो यथा “शूद्रायाग्निञ्च यो दद्यात् पाककाले विशेषतः। शूद्रपक्वं भवेदन्नं ब्राह्मणः शूद्रतामियात्” कर्मलोचनम्। एकोद्दिष्टश्राद्धे तस्य नित्यत्वं यथा “एकोद्दिष्टन्तु कर्स्तव्यं पाकेनैब सदा स्वयम्। अभावे पाकपात्राणां तदहः समुपोषणम्” श्राद्भत०। शूद्रेण तत्रापि आमान्नेनैव कार्यम् “आमं शूद्रस्य पक्वान्नमित्युक्तेः आमान्नेनैव शूद्रेणेत्युक्तेश्च पाकविधिर्यथा
“पूर्वाशाभिमुखो भूत्वा उत्तराशामुखोऽथ वा। पचेदन्नञ्च मध्याह्ने सायाह्ने च विवर्जयेत्। अग्न्याशाभिमुखे पक्वममृतान्नं विजानता। पूर्वमुखो धर्मकामः शोकहानिश्च दक्षिणे। श्रीकामश्चोत्तरमुखः पतिकामश्च पश्चिमे। ऐशान्थाभिमुखे पक्त्वा दरिद्रो जायते नरः। यदा तु आयसे पात्र पक्वमश्नाति वै द्विजः। स पापि- ष्ठोऽपि मुङ्क्तेऽन्नं रौरवे परिपच्यते। ताम्रे पक्त्वा त्त्रक्षुर्हार्मानो वै लभते क्षयम्। पितृभ्यां पक्वमन्नञ्च पितृव्येण यशखिनि!। पुण्डरीकस्य यज्ञस्य लभते फलमीय्सितम्। वातुलेन तु यत्पक्वं भगिन्या च कनिष्ठया। असगोत्रेण यत्पक्वं शोणितं तदपि स्मृतम्। अभक्तेन च यत्पक्वं स्त्रिया पक्वन्तथैव च। पक्वपात्रे च यत्पक्वं तत्सर्वं निष्फलं भवेत्। उडुम्बरेण काष्ठेन कदम्बस्य दलेन च। शालेन करमर्द्देन उदरावर्त्तकेन च। पक्वान्नं नैब भुञ्जीत भुक्त्वा रात्रिमुपावसेत्। गर्हितान्नमवीरान्नं भुक्त्वा कृच्छ्रं समाचरेत्। अप्रजा या तु वनिता नाश्नीयादेव तद्गृहे। शालकाष्ठस्य पक्वाम्नं शिरीषकस्य चैव हि। कलिचण्डातकस्यैव वज्रवारुणकस्य च। एरण्डशाल्मलेर्वापि पक्वान्नं गर्हितं स्मृतम्। यदा मृण्मयपात्रे तु पक्वं वै सर्वकालिकम्। मासे पक्षे तथाष्टाहे तत्पात्रं विसृजेत् गृही। धनुःपात्रे तथा सिंहे मिथुने वा वरानने!। यः कुर्य्याद्भोजनं देवि! कृच्छ्रेणैव विशुध्यति। एकदा तु जलं दद्याद्द्विवारं न प्रदापयेत्। त्रिभागं पूरयेत् पात्रं पश्चात्तोयं न दापयेत्” मत्स्यसूक्ते ४ २ प्र०। जाठराग्निना पाकप्रकारस्तु असृछरशब्दे ५५ ८ पृ० उक्तः औषधपाकप्रकारस्तु चक्रपाणिदत्तादिग्रन्थे दृश्यः। पच्यते फलं यत्र काले आधारे घञ्। ९ फलपाकाधि करणे कालभेदे शुमाशुभसूचकग्रहोत्पातादीनां पाककालश्च वृ० सं० ९७ अ० उक्तो यथा
“पक्षाद्भानोः सोमस्य मासिकोऽङ्गारकस्य वक्रस्य। आ दर्शनाच्च पाको बुधस्य जीवस्य वर्षेण। षड्भिः सितस्य मासैर्वदेन शनेः सुरद्विषोऽव्दार्धात्। वर्षात्सूर्य्यग्रहणे सद्यः स्यात् त्वाष्ट्रकीलकयोः। त्रिभिरेव धूमके तोमांसैः श्चेतस्य सप्तरात्रान्ते। सप्ताहात परिवैषैन्द्रचापसन्ध्याभ्रसृचीनाम्। शीतोष्णविपर्य्याय फलपुय्यमकालजं दिशां दाहः। स्थिरधरयोरन्यत्व प्रसूतिवि कृतिश्च षणमासात्। अक्रियभाणककरणं मकभ्योऽनुत्सवो दुरिष्टं च। शोषणञ्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्द्गात्। स्तम्भकुद्यकाचर्नां जत्वितरुदिनप्तकस्तिस्येदाः। मासत्रयेण कलहेन्द्रचापनिर्घातपाकाश्च। कीटाखमक्षिकोरगबाहुल्यं मृगविहङ्गमरुतं च। लोष्टस्य चापस् तरणं त्रिभिरेव विपच्यते म्बतैः। पसवः शुनामरण्ये यन्यनां ग्रामसम्प्रवेशश्च। मधनिबयतोरणे न्द्रध्वजाश्च वर्षात् समधिकाद्वा। गोमायुगृध्रसङ्घा दशाहिकाः सद्य एव तूर्य्यरवः। आक्रुष्टं पक्षफलं वल् मीकविदारणं च भूपाहे। अहुताशप्रज्वलनं घृततैलवसादिवर्षणं चापि। सद्यः परिपच्यन्ते मासेऽध्यर्द्धे च जनवादः। छत्रचितियूपहुतवहवीजानां सप्तभिर्भवति पक्षैः। छत्रस्य तोरणस्य च केचिन्मासात् फलं प्राहुः। अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम्। मार्जारनकुलयोर्मूषकेण सङ्गश्च मासेन। गन्धर्वपुरं मासाद् रसवैकृत्यं हिरण्यविकृतिश्च। ध्वजवेश्मपांशुधूमाकुला दिशश्चापि मासफलाः। नवकैकाष्टदशकैकषट्त्रिकत्रिकसंख्यमासपाकानि। नक्षत्राण्यश्विपूर्वकाणि सद्यःपाकाऽश्लेषा। पित्र्यान्मासः षट् षट् त्रयोऽर्द्गमष्टौ च त्रिषडेकैकाः। मासचतुष्काषाढे सद्यःपाकाभिजित् तारा। सप्ताष्टावध्यर्द्धं त्रयस्त्रयः पञ्च चैव मासाः स्युः। श्रवणादीनां पाको नक्षत्राणां यथासंख्यम्। निगदितसमये न दृश्यते चेद् अधिकतरं द्विगुणे प्रपच्यते तत्। यदि न कनकरत्नगोप्रदानैरुपशमितं विधिवद्द्विजैश्च शान्त्या”। दशाशब्देऽन्तर्दशाशब्दे च ग्रहसूचितफलपाकभेदो दृश्यः। कर्मणि घञ्। १० परिपक्वे ऋ० ७१०४९ ११ परिणतबुद्धौ च त्रि० पाकसुत्वन्शब्देदृश्यम्। १२ अल्पे १ ३ प्रशस्ये च पाकयज्ञशब्दे दृश्यम्। पाकस्य अल्पस्य प्रशस्य वा भावः पृथ्वा० इमनिच्। पाकिम् तद्भावे पु०। पाकस्यादूरदेशादिः पक्षा० फक्। पाकायन पाकस्या दूरदेशादौ त्रि०।
पाककृष्ण = पु० पाके फलपाके कृष्णः। (पानीआमला) वृक्षभेदे शब्दमाला।
पाकज = न० पाकाज्जायते जन–ड। १ काचलवणे। २ पाकजातमात्रे त्रि०। “अनुष्णाशीत्पाकजः” भाषा। ३ परिणामशूलरोगे।
पाकत्रा = अव्य० पाकः विपक्वप्रज्ञः स्वार्थे त्रा। विपक्वप्रज्ञे ऋ० ८ १८ १५।
पाकदूर्वा = स्त्री पाकयुक्ता दूर्वा शा० त०। परिपक्वदूर्वायाम् ऋ० १०। १६। १ ३ भा०।
पाकद्विष् = पु० पाकाय दैत्वाय द्वेष्टि द्विष्–क्विप् ४ त०। पाकशासने इन्द्रे हेमच०। पाकारिप्रभृतयोऽप्यत्र।
पाकपात्र = न० पाकसाधनं पात्रम् शाक० त०। पचनसाधने पात्रे स्थाल्यादौ। तद्भेदाः पाकशब्दे दृश्याः। पाकभाजनपाकमाण्डदयोऽप्यत्र।
पाकपुटी = स्त्री पाकसाधनं पुटी शा० त०। (पोयान) कुम्भपाकार्थशालायाम् हेमच०
पाकफल = न० पाकयुक्तं फलमस्य शा० त०। (पानीयामला) फलपाके शब्दच०।
पाकमत्स्य = पु० पाकः पक्वः मत्स्यः। १ पक्वमत्स्ये व्यञ्जनभेदे शब्दच०। २ कीटभेदे सुश्रुतः कीटशब्दे २०५८ पृष्ठे दृश्यम्। सामुद्रे ३ मत्स्यभेदे सुश्रुतः निरालकशब्दे ४०८६ पृ० दृश्यम्।
पाकयज्ञ = पु० पाकसाध्यो यज्ञः शा० त०। चरुपाकेन कर्त्तव्ये यज्ञभेदे स च यज्ञः वृषोत्सर्गादिहोमः। “पाकयज्ञे तु साहसम्” ति० त० उक्तेस्तत्राग्निः साहसः। पाकः अल्पः बालकसाम्यात् प्रशस्तो वा यज्ञः। २ अल्पयज्ञे ३ प्रशस्ययज्ञे च यथाह “त्रयः पाकयज्ञः” आश्व० गृ० १। १२। सूत्रे नारायणः। “पाकयज्ञास्त्रयस्त्रिविधा इत्यर्थः। कुतः हुताः प्रहुताः ब्रह्मणि हुताः” इत्येकैकस्मिन् बहुवचननिर्देशात्। यदि हि त्रिविधत्वं न स्यात् एकवचनेन निर्देशं कुर्य्यात्। तस्मात् त्रिविधत्वमिति। पाकयज्ञाः अल्पयज्ञाः प्रशस्तयज्ञा वा। दृष्टश्चोभयत्र पाकशब्दः। योऽस्मात् पाकतरः इत्यत्राल्पत्वे पाकशब्दः। तं पाकेन मनसाऽपश्यम् इति यो मा पाकेन मनसा इति च प्रशंशायाम्। तेन आज्यहोमेष्वपि पाकयज्ञतन्त्रं सिद्धं भवति। यदि हि पाकशब्दः पक्तौ वर्तेत आज्यहोमेषु तन्त्रं न स्यात्। इष्यते च तस्मान्न तत्र वर्त्तेत। प्रशस्तयज्ञा इत्युक्तम्। कथं प्रशस्तत्वम् उच्यते यस्मादेतेषु संस्कारा उच्यन्ते। तैश्च ब्राह्मण्यमवाप्यते। के पुनस्ते संस्काराः। गर्भाधानादयः। तस्मात् सर्वेषां पाकयज्ञत्वमिति यदुक्तं तत् सम्यक्। कथं त्रिविधत्वमित्यत आह “हुता अग्नौ हूयमाना अनग्नौ प्रहुता ब्रह्मणि (ब्राह्मणभोजने) हुताः” ३ सू०।
पाकयज्ञिक = पु० पाकयज्ञस्य तत्प्रतिपादकग्रन्थस्य व्याख्यानो ग्रन्थः पाकयज्ञे मवो व्रा ठञ्। १ पाकयज्ञग्रन्थव्याख्याने ग्रन्थे २ पाकयज्ञभवे च।
पाकयज्ञिय = ब्रि० पाकयज्ञमर्हति घ। पाकयज्ञार्हे शत० ब्रा० १। ७। ४। १९
पाकरञ्जन = न० पाकं पच्यमान रञ्जयति रन्ज–णिच्–ल्यु। तेजपत्रे शब्दच०।
पाकल = न० पाकं लाति ला–क। १ कुष्टौषधौ (कुड) अमरः २ वह्नौ ३ वायौ च पु० विश्वः। ४ कर्कोट्यां स्त्री गौरा० ङीष्। शब्दमा० ५ कुञ्जरज्वरे ६ वोधनद्रव्ये च पु० मेदि०।
पाकलि = स्त्री पा–पाने सम्पदा० भावे–क्विप् तां पाकं कलयति कल–कर्त्तरि इन्। रोहिणीति ख्याते वृक्षभेदे रत्नमा०।
पाकशाला = स्त्री ६ त०। पाकस्थाने पाकगृहपाकस्थानादयोऽप्यत्र “प्राच्यां दिशि स्नानगृहमाग्नेय्यां पचनालयम्” पी० धा० धृतवाक्यम् गृहशब्दे दृश्यम्।
पाकशासन = पु० पाकं तन्नामदैत्यं शास्ति शास–ल्यु। इन्द्रे तस्य तन्नामकता यथा “पाकं जघान तीक्ष्णाग्रैर्मार्गणैः कङ्कवाससैः। तत्र नाम विभुर्लेभे शासनत्वाच्छरैर्दृढै। पाकशासनतां शक्रः सर्वामरपतिर्विभुः” वामनपु०।
पाकशासनि = पु० पाकशानस्यापत्यम् इञ्। इन्द्रपुत्रे १ वैजयन्ते अमरः २ अर्जुने ३ वालिवानरे च।
पाकशुक्ला = स्त्री पाके परिणामे शुक्ला। (खडि)ख्याते पदार्थे शब्दच०।
पाकसंस्थ = त्रि० पाकः संस्था यस्य। पाकसाध्ये यज्ञभेदे। स च गोतमेन दर्शितः “अष्टका पार्वणश्राद्धं श्रावण्याग्रहायणीचैत्राश्वयुजी चेति सप्त पाकसंस्थाः”। हारीतः “पाकयज्ञान्यजेन्नित्यं हविर्यज्ञांश्च नित्यशः। सोमांश्च विधिपूर्वेण य इच्छेद्धर्ममव्ययम्”।
पाकसुत्वत् = पु० पाकेन परिपक्वेन मनसा सुनोति सोमाभिषवं करोति सु–क्वनिप् तुक् च परिपक्वमनसा सोमाभिषव कर्त्तरि यजमाने ऋ० १० ८६ १९।
पाकारि = पु० पाकमृच्छति ऋ–इन्। १ श्वेतकाञ्चने रत्नमाला। ६ त०। २ पाकशासने इन्द्रे च।
पाकरु = त्रि० पाकेन मुखपाकेन अरुर्व्रणम् पाकस्य अन्नादिपाकस्य वा अरुः क्षतम् शक०। १ मुखपाकेन क्षते २ अन्नपाकनाशके अग्निमान्द्ये च यजु० १२९५। वेददी०।
पाकिन् = त्रि० पच–बा० घिनुण् कुत्वम्। १ पाककर्त्तरि २ पाकयुते च लघुपाकी इत्यादि सुश्व०।
पाकिम = त्रि० पाकेन निर्वृत्तः भावान्बत्वात् पाक + इमन्। पाकेन निर्वृत्ते सि० कौ०।
पाकु = त्रि० पच–लण् न्यङ्क्वा० कृत्वम्। पाचके
पाकुक = त्रि० पच–उकञ् चस्य कश्च। सूषकारे पाचके उणा०। उणादि०
पाक्य = त्रि० पच–कर्मणि ण्यत् ण्यति चस्य कश्च। १ षक्तव्ये पाकेम साध्यम् पाकस्य हितं वा ना० यत्। २ विङ्लवणे म० अमरः ३ पांशुलवणे रत्नमा० ४ यवक्षारे पु० अमरः।
पाक्षिक = त्रि० पक्षे पञ्चदशतिथ्यात्मके काले पक्षान्तरे मंशयकीटिभेदे वा भवः ठञ्। १ पक्षकालभबे २ पक्षान्तरभवे ३ संशयैककोटीभवे च “नियमापाक्षिके सति” मोमांसा।
पाखण्ड = त्रि० “पालनाच्च त्रयीधर्मः पाशब्देम निगद्यतं” इत्युक्तेः पात्रीति पा–क्विप् पाः त्रयीधर्मः तं खण्डयति खण्डि–अण् उप० स०। पाषण्डे सर्वलिङ्गिनि अमरटाकायां भानुदीक्षितः। मूर्द्धन्यषसध्यः सर्वसमम्मतः।
पागल = त्रि० पिबति सुरां सा + कर्त्तरि क्विप् पाः सुरापायीव गलति स्खलति गल–अच्। उन्मत्ते “पागलायाङ्गहीनाय चान्धाय वधिराय च। जडाय चैव मूर्खाय क्लीवतुल्याय पापिने। व्रह्महत्यां लभेत् सोऽपि यः स्वकन्यां ददाति च” ब्रह्मवै० प्रकृ० १ ४ अ०।
पाङ्क्त = त्रि० षङ्क्तौ भवादि वा उत्सा० अञ्। १ पङ्क्तिभवे २ दशाक्षरपादकछन्दोभेदयुते च। पङ्क्तिसंख्याऽस्त्यस्य अण्। ३ तत्संख्यायुतावयवयुते पशौ ४ पुरुषे च “पाङ्क्तः पुरुषः पाङ्क्ताः पशवः” ताण्ड्यव्रा० २४२। “पाङ्क्त्याख्ये छन्दसि पञ्चसंख्या विद्यते तस्य पञ्चभिः पदैरुपेतत्वात् पुरुषेऽपि द्वौ हस्तौ द्वौ पादौ शिरश्चेति पञ्चसङ्ख्या विद्यते पशुष्वपि चत्वारः पादाः पुच्छञ्चेति पञ्चसंख्यास्ति” भा० पङ्क्तिच्छन्दसः दशाक्षरपादकत्वात् चतुर्षु चरणेषु चत्वारिंशदक्षराणि सन्ति तेन अनुष्टुपा गणनया पञ्चपादत्वमिति बोध्यम्।
पाचक = त्रि० पच–ण्वुल्। १ पाककर्त्तरि तद्वृत्तियुक्ते २ सूपकारे च। ३ अग्नौ हलायु० तस्य जठराग्निरूपेण वाह्यान्नादेश्च पाचकत्वात्तथात्वम् ३ पित्ताख्ये धातौ भावप्र० “पाश्चकं रञ्जकं चापि साधकालोचके तथा। भ्राजकञ्चेति पित्तस्य नामानि स्थानभेदतः” भावप्र०। तत्कार्यभेदश्च पित्तशब्दे दृश्यः। अन्नादौ विषदानादिपरिजिहीर्षया गृपादिभिर्यथा पाचकः वैद्याद्यधिष्ठितः करणीयस्तथा सुश्रुते कल्पस्थाने दर्शितं यथा “विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः। स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया। विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः। तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः। यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम्। न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित्। कुलीनं धार्मिकं स्निग्धं सुभृतं सततोत्थितम्। अलुब्धमशठं भक्तं कृतज्ञं प्रियदर्शनम्। क्रोघपारुष्यमात्सर्य्यमदालस्यविवर्जतम्। जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम्। मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम्। पटुंपगल्भं निपुणं दक्षं मायाविवर्जितम्। पूर्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम्। महानमे पयुञ्जात वैद्यं तद्विद्यपूजितम्। प्रशस्तदिग्देशकृत शुचिभाण्डं महच्छचि। सजालकं गवाक्षाढ्यमात्मवर्गनिषेवितम्। विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम्। परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम। तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम्। शुचयो दक्षिणा दक्षा विनीताः प्रिय दर्शनाः। संविभक्ताः सुमनसी नीचकेशनखाः स्थिराः। स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः। तस्य चाज्ञाविज्ञेयाः स्युर्विविधाः परिकर्मिणः। आहारस्थितयश्चापि भवन्ति प्राणिनो यतः। तस्मान्महानसे वैद्यः प्रमादरहितो भवेत्। माहानसिकवोढारः सौपौदनिकपौपिकाः। भवेयुवैद्यवशगा ये चाप्यन्ये तु केचन। इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः। विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान्। न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च। अपार्थं बहुसङ्कीर्णं भाषते चापि मूढवत्। स्फोटयत्यङ्कुलीर्भूमिमकस्माद्विलिखेद्वसेत्। वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते। क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि। आलभेतासकृद्दीनः करेण च शिरोरुहान्। निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः। वर्त्तते विपरीतस्तु विषदाता विचेतनः। केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया। असतामषि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः। तस्मात् परीक्षणं कार्यं भृत्यानामादितो नृपैः। अन्ने षाने दन्वकाष्ठे तथाभ्यङ्गेऽवलेखने। उत्सादने कषाये च परिषेकेऽनुलेपदे। स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च। पादुकापादपीठेषु पृष्टेषु गजवाजिनाम्। विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु। लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम्”। ४ भुक्तान्नपाचकौषधादौ त्रि०।
पाचन = न० पाचयति कर्त्तरि ल्युपाच्यतेऽनेन करणे ल्युट् वा। १ पापक्षयकारके प्रायश्चित्ते मेदि० तस्य फलानुत्पादनेन पापस्य नाशनात् तयात्वम्। २ दोषपाचनसाधनद्रव्यभेदे तानि च चक्रपाणिदत्तेन रोगभेदे नानाविधान्युक्तानि तत्र दृश्यानि तत्प्रदानकालश्च “ज्वरितं षडहेऽतीते लष्वन्नमतिभोजनम्। सप्ताहात् पच्यतेऽस्तब्धे सामे ख्यात् पाचनं हितम्”। सर्वपाचनद्रव्यप्रमाणं वैद्यके उक्तं यथा “दशरत्तिकमाषेण गृहीत्वा तोलकद्वयम्। दत्त्वाम्भः षोडशगुणं ग्राह्यं पादावशेषितम्” ३ अग्नौ पु० मेदि०। ४ अम्लरसे हेमच०। ५ रक्तैरण्डे पु० राजनि० ६ ह। रितक्यां स्त्री ङीप् मेदि०। स्वार्थे क। पाचनक तत्रार्थेषु पाचन + सं ज्ञायां कन्। टङ्कने (सोहागा) हेमच०।
पाचल = न० पाचयति पच–णिच् बा० कलन्। १ पाचने हेमच० २ पाचके ३ अग्नौ ४ रन्धनद्रव्ये ५ वायौ च पु० शब्दर०।
पाची = स्त्री पाचयति पाचि–इन् गौरा० ङीष्। मरकतपत्र्यां हरितलतायां (पाच्ये) ख्याते लताभेदे राजनि०
पाच्य = त्रि० पच–आवश्यके ण्यत् आवश्यकार्थत्वात् न कुत्वम। अवश्यपचनीये।
पाजप्स् = न० पाति रक्षत्यनेन पा–असुन् जुट् च। १ बले निघण्टुः पृषो० पस्य बः। बाजस् अन्ने निघण्टुः पाजसे हितम् यत्। पाजस्य बलकरे त्रि० यजु० २५ ८।
पाञ्चकपाल = त्रि० समाहारद्विगुः तस्येदम् अण्। पञ्चकपालसम्बन्धिनि। द्विगुनिमित्तत्वाभावात् “द्विगोर्लुगनपत्ये” पा० न लुक् सि० कौ०।
पाञ्चजन्य = पु० पञ्चजनस्य दैत्यभेदस्येदम् बा० ण्य। पञ्चजनदैत्यास्थिनिमित्ते १ विष्णोः शङ्खे तत्कथा “समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान्। तिमिरूपेण तं बालं ग्रस्तवानिति भारत!। स पञ्चजन्यमासाद्य जधान पुरुषोत्तमः। न चाससाद तं वालं गुरुपुत्रं तदाऽच्युतः। स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः। स च देवमनुष्येषु पाञ्चजन्य इति श्रुतः” हरिवं० ९० अ०। पञ्चभिर्जनैर्निर्वृत्तः ष्यञ्। पञ्चजननिष्पाद्ये पञ्चवर्णे काश्यषवासिष्ठप्राणाङ्गिरसच्यवनरूपाग्निपञ्चकसाध्ये २ वह्निभेदे यथोक्तं भा० व० २१९ अ०। “काश्यपो ह्यथ वाशिष्ठः प्राणश्च प्राणपुत्रकः। अग्निराङ्गिरसश्चैव च्यवनस्त्रिसुवर्चकः। अचरत् स तपस्तीव्रं पुत्रार्थे बहुवार्षिकम्। पुत्रं लभेयं धर्सिष्ठं यशसा ब्रह्मणा समम्। महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ। जज्ञे तेजोमहार्चिष्मान् पञ्चवर्णः प्रभाबतः। समिद्वोऽग्निः शिरस्तस्य बाहू सूर्यनिर्भौ तथा। त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च मारत। पञ्चवर्णः स तपबा कृतस्तैः पञ्चभिर्जनैः। पाञ्चजन्यः श्रुतोदेवः पञ्चवंशकरस्तु सः”। पाञ्चजन्यस्यादूरदेशादि चतुरर्थ्यां० कर्णा० फिञ्। पाञ्चजन्यायनि तत्सन्निकृष्टदेशादौ त्रि०।
पाञ्चजन्यधर = पु० पाञ्चजन्यं धारयति धारि–अच् ह्रस्व। विष्णौ हारा०।
पाञ्चदश = त्रि० पञ्चदश्यां भवः कालत्वेऽपि सन्धिवेला० अण्। प्रञ्चदश्यां भवे
पाञ्चदश्य = पु० पञ्चदशभिः सामधेनीमन्त्रैः प्रकाश्यः ण्यः। पञ्चदशभिः सामधेनीमन्त्रैः प्रकाश्ये अलौकिके वह्नौ भाग० ६। १। २३।
पाञ्चभौतिक = त्रि० पञ्चभ्यो भूतेभ्य आगतः ठक् द्विपदवृद्धिः। आकाशादिभूतपञ्चकारब्धे देहादौ “पाञ्चभौतिको देह” “चातुर्मौतकमित्येके” “ऐकभौतिकमित्यपरे” सा० सू०। “ऐकभौतिकमैकैकिकभौतिकमित्यर्थः तत्र मनुष्यादिशरीरे पार्थिवाधिक्येन पार्थिवता एवं मूर्य्यादिलोकेषु तैजसाधिक्येन तैजसादिता शरीराणां सुवर्णार्दानामिव” भा०। इत्यनेकेषां मतमुक्त्वा ५ अ० स्वयं निर्णयस्तत्रोक्तो यथा “न पाञ्चभौतिकं शरीरं बहूनामुपादानायोमात्” सा० सू० “बहूनां भिन्नजातीयानां चोपादानत्वं घटपटादिस्थले न दृष्टमिति सजातीयमेवोपादानम्। इतरच्च भूतचतुष्टयमुपष्टम्भकमित्याशयेन पाञ्चभौतिकत्वव्यवहारः। एकोपादानकत्वेऽपि पृथिव्येवोपादानं सर्वशरीरस्य शरीरस्यैकमात्रभूतोपादानकत्वं पूर्वोक्तमनेनैव प्रसङ्गेन विशिष्याह” भा० “सर्वेषु पृथिव्युपादानमसाधारण्यात् तद्व्यपदेशः पूर्ववत्” सां० सू० सर्वेषु शरीरेषु पृथिव्ये वोपादानम् असाधारण्यात् आधिक्यादिभिरुत्कर्षात्। अत्राप्रि शरीरे पाञ्चचतुरादिभौतिकत्वव्यपदेशः पूर्ववत् इन्द्रियाणां भौतिकत्वबदुपष्टम्भकत्वमात्रेणेत्यर्थः” भा०। अयञ्च सांख्यपक्षः। वेदान्तिमते तु त्र्यात्मकता कायस्य तच्च कायशब्दे १९२४ पृष्ठादौ दर्शितं तत्र दृश्यम्।
पाञ्चालिका = स्त्री पञ्चाली स्वार्थ अण् ततः स्वार्थे क कापि अतैत्त्वम्। वस्त्रादिनिर्मितपुत्तलिकाबाम् द्विरूप०।
पाञ्चवर्षिक = त्रि० पञ्च वर्षाः प्रमाणमस्य ठञ् तस्य वा न लुक्। पञ्चवर्षवयस्के त्रिका०।
पाञ्चशब्दिक = त्रि० पञ्चभिः शब्दैर्निर्वृत्तं ठक्। पञ्चभिः शब्दैर्निष्पादिते वाद्यभेदे। पञ्चशब्दाश्च वाद्यभेदाः वथा “अङ्गजं कर्मजं चैव तन्त्रजं कांस्यजं तथा। फुत्कृतं चेति मुनिभिः कथितं पाञ्चशब्दिकम्” स्कन्दे रेवाख०।
पाञ्चार्थिक = पु० षञ्च अर्था कृत्यानि पाशाःवा यत्र सन्वि ठन् बा० वृद्धिः। १ पशुपतिशब्ददर्शितकृत्यपञ्चकान्विते २ तत्रोक्तवाशपञ्चकयुते च पाशुपतागमे त्रिका०।
पाञ्चाल = त्रि० पञ्चालदेशे भवः स्वार्थे वा अण्। १ पञ्चालदेशभवे स्त्रियां ङीप्। पाञ्चाली। २ पञ्चालदेशे च पञ्चानां विषयाणामन्यतोऽनवगतानां प्रकाशनायालमिति पृषो०। ३ शास्त्रे “प्रवृत्तं च निवृत्तं च शास्त्र” पाञ्चालसंज्ञकम्” माग० ४। २५। व्याख्यायां श्रीधरधृतवाक्यम्।
पाट् = अव्य० पाट–णिच् क्विप्। सम्बोधने मेदि०।
पाटक = त्रि० पट–ल्युल्। १ छेदके २ महाकिष्कौ ३ कटकान्तरे ४ वाद्ये ५ अक्षादिचालने ६ मूलद्रव्यापचये ७ रोधे मेदि० ८ ग्नामैकदेशे हेमच०।
पाटच्चर = पु० पटच्चर एव स्वार्थे प्रज्ञादित्वादण्। चौरे अमरः
पाटन = न० चु० पट–भावे ल्युट्। छेदने
पाटल = पु० पाटयति पट–णिच्–कलच्। १ श्वेतरक्तवर्णे। २ तद्वति त्रि० (पारुल) ख्याते ३ वृक्षे स्त्री० अमरः। ४ तत्पुष्पे ५ आशुधान्ये च न० “अत्युष्णं पाटलं बद्धनिष्यन्दि च त्रिदोषकृत्” राजनि०। ६ रक्तलोध्रे स्त्री शब्दच०। पाटलोत्पत्तिर्यथा। “प्रदह्यमानौ चरणौ दृष्ट्वाऽसौ कुसुमायुधः। उत्ससर्ज धनुः श्रेष्ठं तज्जमामाथ षञ्चधा। यदासीन्मुष्टिबन्धन्तु रुक्मपृष्ठं महाप्रभम्। स चम्पकतरुर्जातः स्रग्गन्धाद्यो गुणाकृतिः। नाहस्थानं शुभाकारं यदासीद् वज्रभूषितम्। तत् जातं केशराढ्यं च बकुलो नामतो नगः। या च कोटी शुभाह्यासीदिन्द्रनीलविभूषिता। जाता सा पाटला रम्या भृङ्गराजिविभूषिता” वामनपु० ६ अ०। पाटलवर्णत्वात् ७ दुर्गायाम् स्त्री तन्त्रसा०। पाटलावतोशब्दे दृश्यम्। पाटलानां समूह पाशा० य। पाटल्या तत्समूहे स्त्री।
पाटलद्रुम = पु० नित्यकर्म्म०। पुन्नागवृक्षे राजनि०।
पाटलापुष्पसन्निभ = न० पाटलापुष्पेण तुल्यम् नित्यम०। पद्मकाष्ठे राजनि०।
पाटलावती = स्त्री १ नदीभेदे भा० भी० ९ अ०। २ दुर्गायाञ्च। “अपर्णानेकपर्णा च पाटला पाटलावती” तन्त्रसा०।
पाटलि = स्त्री पट–णिच् अलि। (पारुल) ख्याते १ वृक्षे “पाटलिसंसर्गसुरभिवनवाताः” इति शकुन्तला २ घण्टापाटलौ च अमरः वा ङीप्। ङीप्। ङीवन्तः ३ कटभीवृक्षे ४ सुष्ककचवृक्षे च राजनि०।
पाटलिक = पु० पाटि–अलि संज्ञायां कन्। अन्यधर्म्मज्ञे हारा०।
पाटलिपुत्र = न० (पाटना) ख्याते नगरभेदे कुसुमपुरे हेमच०
पाटलोपल = पु० नित्यक०। श्वेतरक्तवर्णयुक्ते मणिभेदे
पाटव = न० पटोर्भावः पृथ्वा० इमनिचोऽभावपक्षे अण्। १ दक्षत्वे २ आरोग्ये च राजनि०। पटोश्छात्राः अण्। पाटवाः तच्छात्रे ब० व०।
पाटविक = त्रि० पाटवमस्त्यस्य ठन्। १ पटौ दक्षे २ धूर्त्तेच त्रिका०।
पाटहिका = स्त्री पटहस्येदम् पाटहं तदाकारमस्यास्ति ठन्। १ गुञ्जायां हारा० पटहे तद्वाद्ये प्रसृतः ठक्। २ पटहवाद्यवादके त्रि०।
पाटा = स्त्री पाठा + पृषो०। पाठायाम् अथ० २। २७। ४
पाटित = त्रि० चुरा० पट–क्त। विदारिते हेमच०।
पाटी = स्त्री पट–इन् वा ङीप्। १ बालावृक्षे राजनि० २ परिपाट्याम् गुणनादीनां ३ स्पष्टक्रमे च “अस्ति त्रैराशिकं बीजं पाटी च विमला मतिः” लीला०।
पाटीगणित = न० पाट्या परिपाट्या गणितम्। लीलावत्याद्यङ्कशास्त्ररूपे गणितशास्त्रे। “पाटी नाम सङ्कलितव्यवकलितगुणनभजनादीनां क्रमः तया युक्तं गणितं पाटीगणितम्” लीलावती टीका।
पाटीर = पु० पटीर + स्वार्थे अण्। पटीरे चन्दने विश्वः।
पाटुपट = त्रि० “पाठेर्णिलुल् चोक् चाभ्यासस्य” वार्त्ति० पाटि– अच् नि० णिलुक् द्वित्वममभ्यासस्य उक् च। पाटके। सि० कौ०। पक्षे पाठ तत्रार्थे।
पाट्य = त्रि० चु० पट–कर्मणि यत्। १ छेद्ये २ पट्टशाके न० राजनि०। “पाट्यशाकन्तु मधुरं दुर्जरं गुरुषाकि च” राजनि०।
पाठ = पु० पठ–भावे घञ्। १ शास्त्रादेरभ्यासे पौनःपुन्येन उच्चारणे। णिच्–भावे अच्। २ अध्यापने शिष्येभ्यः प्रतिपादने च पाठस्वाष्टादश दोषा यथा “शङ्कितं भीतमुद्घुष्टमव्यक्तमनुनासिकम्। विस्वरं विरसञ्चैव विश्लिष्टं विसमाहतम्। काकस्वरं निरसितं तथा स्थानविवर्जितम्। व्याकुलं तालहीनञ्च पाठदोषाः चतुर्दश। संगीतं शिरसः कम्पमल्पकण्ठमनर्थकम्” मार्क० पु०। अध्ययनक्रमो यथा “आचस्य प्रयतो नित्यमधीयीत उदङ्मुखः। उपसगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम्” अध्यापनक्रमो यथा “अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाचमेत्। प्राक् कूलात् पर्यु पासीनः पवित्रैश्चैव पावितः। प्राणायामैस्त्रिभिः पूतस्तत आ~कारमर्हति। ब्राह्मणः प्रणवं कुर्य्यादन्ते च विधिवद्द्विजाः!। कुर्य्यादध्यापनं नित्यं स ब्रह्मादीनि पूर्वतः। सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः। अधीयीताध्ययन्नित्यं ब्राह्मण्याद्वीयतेऽन्यथा” इति कौर्मे उपरिभागे १ ३ अ०।
पाठक = त्रि० पठ–ण्वुल्। १ षठनकर्त्तरि णिच्–ण्वुल्। पाठके २ अध्यापके ३ पुराणादिवाचके च। तल्लक्षणादिकमुक्तं ति० त० यथा
“भविष्यपुराणम् “इतिहासपुराणानि श्रुत्वा भक्त्या विशांपते!। मुच्यते सक्यापेभ्यो ब्रह्महत्यादिभिर्विभी!। ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात्। श्रुत्वान्यवर्ण- जाद्राजन् ! वाचकान्नरकं व्रजेत्” तथा “देवार्चामग्रतः कृत्वा व्राह्मणानां विशेषतः। ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन!। पुनर्वध्नीत तत्सूत्रं न मुक्त्वा धारयेत् क्वचित्। हिरण्यं रजतं गाश्च तथा कांस्योपदोहनाः। दत्त्बा तु वाचकायेह श्रुतस्याप्नोति तत्फलम्”। कांस्योपदोहनाः कांस्यक्रोडाः। “वाचकः पूजितोयेन प्रसन्नास्तस्य देवताः”। तथा “ज्ञात्वा पर्वसमाप्तिं च पूजयेत् वाचकं बुधः। आत्मानमपि विक्रीय, य इच्छेत् सफलं कृतम्”। तथा “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा। कलस्वरसमायुक्तं रसभावसमन्वितम्। बुध्यमानः स्वयं शुद्धो ग्रन्थार्थं कृत्स्नशो नृप!। ब्राह्मणादिषु सर्वेषु ग्रन्थार्थं चार्पयन्नृप!। य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते”। “सप्तस्वरसमायुक्तं काले काले विशाम्पते!। प्रदर्शयन् रसान् सर्वान् वाचयेद्वाचको नृप!”।
पाठच्छेद = पु० ६ त०। १ पाठस्य विच्छेदे २ यतौ च त्रिका०।
पाठन = न० पाठ–णिच्–भावे ल्युट्। १ अध्यापने युच् पाठना तत्रार्थे स्त्री। २ कर्त्तरि ल्यु। २ पाठके त्रि० स्त्रियां गौरा० ङीष्।
पाठभू = स्त्री ६ त०। पाठस्थाने त्रिका० पाठशालादयीऽप्यत्र।
पाठमञ्जरी = स्त्री पाठस्याभ्यासस्य मञ्जरीव। शारिकायास् शब्दमाला।
पाठशालिनी = स्त्री पाठेन शलते शल–णिनि ङीप्। १ शारिकायाम् शब्दमा० २ पाठयुक्ते त्रि०।
पाठा = स्त्री पठ–कर्मणि घञ् टाप्। विद्धकर्ण्याम् (आकनादि) अमरः। “पाठोष्णा कटुका तीक्ष्णा वात्रश्लेष्महरी लघुः। हन्ति शूलज्वरच्छर्दि कुष्ठातीसारहृद्रुजः। दाह कण्डूविषश्वासकृमिगुल्मगलव्रणान्” भावप्र०। स्वार्थे क काबि अतैत्त्वम्। पाठिका तत्रार्थे भावप्र०। पाठकर्त्त्र्यां स्त्रियां च।
पाठाड्यचूर्ण = न० “पाटा विल्वानलव्योषजम्बूदाडिमधातकी। कटुकातिविषामुस्तदार्वीभूनिम्बवत्सकैः। सर्वैरेतैः सभं चूर्णं कौटजतण्डुलाम्बुना। सक्षौद्रञ्च पिबेच्छर्द्दि ज्वरातीसारशूलवान्। तृड्दाहग्रहणीदोषारोचकानलसादजित्” चक्र० उक्ते चूर्णभेदे।
पाठि = पु० पाठ–इन्। पृष्ठे पाठीनशब्दे दृश्यम्।
पाठिन् = त्रि० पठ–णिनि। १ पाठके स्त्रियां ङीप्। पाठेषाकारेऽस्त्यस्य इनि। २ चित्रकवृक्षे अमरः।
पाठीकुट = पु० पाटेव कुटति कुट–क पृषो०। चित्रकवृक्षे राजनि०।
पाठीन = पुंस्त्री० पाठिं पृष्ठं नमयति नम–ड दीर्घः। १ मत्स्य- भेदे (वोयाल) अमरः स्त्रियां ङीष्। “पाठीनरोहितावाद्यौ” मनुः। “पाठीनः श्लेष्मलः स्निग्धो मधुरश्च कषायकः। बल्यो वृष्यः कटुः पाके रोचनो वातपित्तनुत्” राजव० पठ–ईनन्। २ गुग्गुलुवृक्षे ३ पाठके त्रि० मेदि०।
पाठेय = त्रि० पाठायां भवः नद्या० ढक्। पाठाभवे
पाण = पु० पण–भावे घञ्। १ व्यवहारे २ पणने ३ समये च भा० व० ६० ४८ श्लो०। ४ पाणौ शब्दच०।
पाणि = पु० पण–इण् आयाभावः। १ करे २ कुलिके वृक्षे च (कुलेखाडा) अमरः ३ पण्यवीथ्यां ४ हट्टे च स्त्री० उणा०। करश्च मणिबन्धावध्यङ्गुलिपर्य्यन्तः।
पाणिक = त्रि० पणेन क्रीतं निष्का० ठक्। १ पणेन क्रीते २ कुमारानुचरमातृभेदे भा० व० ५५ अ०।
पाणिकच्छपिका = स्त्री पाणिभ्यां कृता कच्छपिका कच्छपस्तदाकारोऽस्त्यस्याः ठन्। कूर्ममुद्रायाम् “पाणिकच्छपिकां कुर्य्यात् कूर्ममन्त्रेण साधकः” काकिकापु० ५६ अ०
पाणिकर्म्मन् = पु० पाणिभ्यां वादनरूपं कर्म्मास्य। १ महादेवे भा० शा० २८६। २ पाणिभ्यां वादके त्रि०।
पाणिकूर्च्चा = स्त्री कुमारानुचरमातृभेदे भा० श० ४६ अ०।
पाणिखात = न० तीर्थभेदे भा० व० ८ ३ अ०।
पाणिगृहीती = स्त्री पाणिर्गृहीतो यस्याः ङीप्। पाणि ग्रहणेन कृतसंस्कारायां सवर्णायां स्त्रियाम् अमरः। “पाणिग्रहणसंस्काराः सवर्णासूपदिश्यते” मनुना सवर्णायामेव पाणिग्रहणविधानात् तथात्वम्।
पाणिग्रह = पु० पाणिर्गृह्यतेऽत्र ग्रह–आधारे अप्। विवाहे “हस्तास्वातिषु षष्ठतौलिमिथुनेषूद्यत्सु पाणिग्रहः” वृ० स० १०० अ०।
पाणिग्रहण = न० पाणिर्गृह्यते अत्र ग्रह–आधारे ल्युट्। विवाहे हेमच०। पाणिग्रहणप्रकारः आश्व० गृ० सू० १ ७ ३ यथा “पश्चादग्मेर्दृषदमश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुदकुम्भं समन्वारवब्धायां हुत्वा तिष्ठन् प्रत्यङ्सुखः प्राङ्मुख्या आसीनाया गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयाद्यदि कामयीत पुमांस एव मे पुत्रा जायेरन्निति” सू०। “दक्षिणतः पत्न्युपविशेत् उत्तरतः पतिरिति शास्त्रान्तरे दृष्टम्। “उत्तानेनोत्तानं पाणिं गृह्णीयात्” नारा०।
“अङ्गुलीष्वेव स्त्रीकामः” सू० “एवकारोऽङ्गुष्ठनिवृत्त्यर्थः। स्त्रीकामो धितृकाभ इत्यर्थः” नारा० “हस्त साङ्गुष्ठनुभयकामः” सू०। “उभयकामः पुत्रदुहितृकामः अङ्गुष्ठमङ्गुलीभिः” सह गृह्णीयादित्यनुषङ्गः नारा०।
पाणिग्रहणिक = त्रि० पाणिग्रहणं प्रयोजनमस्य ठक्। विवाहाङ्गे मन्त्रे “पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः” “पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्। तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे” सनुः ते च मन्त्राः “अर्य्यम्णं तु देवं कन्या अग्निमयक्षतेत्यादयः” आश्व० गृ० १। ७ १ ७ सूत्रादौ १९ सूत्रान्ते पठिता बोध्याः।
पाणिग्रहीतृ = पु० पाणिं गृह्णाति ग्रह–वृच् ६ त०। वेढरि पत्यौ भा० अनु० २ ४० ३ श्लोकः।
पाणिग्राह = पु० पाणिं गृह्णाति ग्रह–अण् उप० स०। वोढरि मनुः ५। १ ४८।
पाणिघ = त्रि० पाणिं पाणिना वा हन्ति “पाणिघताडघौ शिल्पिनि” पा० हन–ट नि०। १ पाणिताडके पाणिना २ मृदङ्गादिपादके च शिल्पिभेदे।
पाणिघात = पु० पाणिं हन्ति–अशिल्पित्वात् अण् उप० स०। १ पाणिताडकमात्रे सि० कौ०। हन–मावे घञ्। २ पाणिहनने पु०।
पाणिघ्न = त्रि० पाणो हन्ति हन–टक् वेदे शिल्पिनि नि०। हस्ततालवादके यजु० ३५। २०।
पाणिज = पु० पाणौ जायते जन–ड ७ त०। नखे हेमच०।
पाणितल = न० ६ त०। १ करस्याधोभागे पाणिरेव तलम्। करतले। तन्मितद्रव्ये २ तोलके कर्षशब्दे दृश्यम्।
पाणिधर्म्म = पु० पाणिग्रहणाख्यो धर्म्मः शा० त०। षाणिग्रहणरूपे धर्म्मे “पाणिधर्मो नाहुषायं नपुंभिः सेवितः षुरा” भा० अ० ८१ आ०।
पाणिन = पु० पणिनो मुनेरपत्यम् अण् गाथीत्यादिना पकृत्या न टिलोपः। पाणिनौ मुनौ त्रिका०।
पाणिनि = पु० पणिनो यून्यपत्यम् अण् ततः यूनि इञ् न टिलोपः। पाणिनिनामके मुनौ “येनाक्षरसंमास्नायमधिगम्य महेश्वरात्। कृत्स्नं व्याकरणं चक्रे तस्मै पाणिनये नमः” शेखरः। स च अष्टाध्यायीरूपसूत्रपाठं गणपाठं घातुपाठं लिङ्गानुशासनं शिक्षारूपं च ग्रन्थपञ्चकं चकार। पाणिनिमतञ्च सर्वदर्शनसंग्रहे दर्शितं ततो दिङ्मात्रं प्रदर्श्यते ते। “भवति च च्याकरणशास्त्रस्य शब्दानुशासनं प्रयोजनं (तस्य तदुद्देशेन प्रवृत्तेः तत्प्रयोजनत्वम्) यथा स्वर्गोद्देशेन प्रवृत्तस्य यागस्य स्वर्गः प्रयोजनं तस्मात् शब्दानुशिष्टिः संस्कारपदवदनीया शब्दानुशासनस्य प्रयोजनम्। नन्वेवमप्याभमतं प्रयोजनं न लभ्यते तदपायाभावात्। अथ प्रति- पदपाठ एवाभ्युपाय इति मन्येथाः तर्हि स ह्यनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठो भवेत् शब्दापशब्दभेदेनानन्त्याच्छब्दानाम् एवं हि समाम्नायते “वृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदपाठविहितानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम” वृहस्पतिश्च प्रवक्ता इन्द्रोऽध्येता दिव्यं वर्षसहस्रमध्ययनकालः न च पारावाप्तिरभूत् किमुताद्य यश्चिरं न जीवति अधीतबोधाचरणप्रचारणैश्चतुर्भिरुपायैर्विद्योपयुक्ता भवति। तत्राध्ययनकालेनैव सर्वमायुरुपयुक्तं स्यात्तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठ इति प्रयोजनं न सिद्ध्येदिति चेन्मैवं शब्दप्रतिपत्तेः प्रतिपदपाठसाध्यत्वानङ्गीकारात् प्रकृत्यादिविभागकल्पनावत्सु लक्ष्येषु सामान्यविशेषरूपाणां लक्षणानां पर्जन्यवत् सकृदेय प्रवृत्तौ बहूनां शब्दानामनुशासनोपलम्भाच्च तथाहि कर्मण्यण्, इत्येकेन सामान्यरूपेण लक्षणेन कर्मोपपदाद्धातुमात्रादण्प्रत्यये कृते कुम्भकारः काण्डलाव इत्यादीनां बहूनां शब्दानामनुशासनमुपलभ्यते एवमातोऽनुपसर्गेक इति। प्रतिपदपाठस्याशक्यत्वप्रतिपादनपरोऽर्थवादः। नन्वन्येष्वप्यङ्गेषु सत्सु किमित्येतदेवाद्रियते। उच्यते प्रधानञ्च षट्स्वङ्गेषु व्याकरणम्। प्रधाने च कृतो यत्नः फलवान् भवति। तदुक्तम् “आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः। प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः” इति। तस्मात् व्याकरणशास्त्रस्य शब्दानुशासनं भवति साक्षात् प्रयोजनं पारम्पर्य्येण तु वेदरक्षादीनि। अतएवोक्तं भगवता भाष्यकारेण “रक्षोहागमलघ्वसन्देहाः प्रयोजनमिति” साधुशब्दप्रयोगवशादभ्युदयोऽपि भवति तथाच कथितं कात्यायनेन “शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देनेति”। अन्यैरप्युक्तम् “एकः शब्दः सम्यग्ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीति”। तथा “नाकमिष्टसुखं यान्ति सुयुक्तैर्बद्धवाग्रथैः। अथ पत्काषिणो यान्ति ये चोत्क्रमणाभाषिणः”। “नन्वचेतनस्य शब्दस्य कथमीदृशं सामर्थ्यमुपपद्यत इति चेन्मैवं मम्येथाः महता देवेन साम्यश्रवणात् तदाह श्रुतिः “चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो सोरवीति महो देवो मत्या~ आविवेश”। व्याचकार च भाष्यकारः “चत्वारि शृङ्गाणि चत्वारि पदलातानि नामाख्यातोपसर्गनिपाताः, त्रयो अस्य पादाः लडादिविषयाः त्रिधा भूतभविष्य- द्वर्त्तमानकालाः। द्वे शोर्षे द्वौ नित्यानित्यात्मानौ नित्यः कार्यश्च व्यङ्ग्यव्यञ्जकभेदात्, सप्तहस्तासो अस्य तिडा सह सप्त सुब्विभक्तयः, त्रिधा बद्धः त्रिषु स्थानेषु उरसि कण्ठे शिरसि च वद्ध, वृषभ इति प्रसिद्धवृषभत्वेन रूपणं क्रियते वर्षणाद्वर्षणञ्च ज्ञानपूर्वकानुष्ठानेन फलप्रदत्वं, रोरवीति शब्दं करोति रौतिः शब्दकर्म्मा। इह शब्दशब्देन प्रपञ्चो विवक्षितः। महौ देवो मर्त्या~ आविवेश महादेवः शब्दः मर्त्या मरणधर्म्माणो मनुष्यास्तानाविवेशेति महता देवेन परेण ब्रह्मणा साम्यमुक्तं स्यादिति” जगन्निदानं स्फोटाख्यो निरवयवो नित्यः शब्दो ब्रह्मैवेति हरिणाभाणि ब्रह्मकाण्डे “अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्। विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः” इति। ननु नामाख्यातभेदेन पदद्वैविध्यप्रतीतेः कथं चातर्विध्यमुक्तमिति चेन्मैवं प्रकारान्तरस्य प्रसिद्धत्वात्। तदुक्तं प्रकीर्णके “द्विधा कैश्चित् पदं भिन्नं चतुर्द्धा पञ्चधापि वा। अपोद्धृत्यैव वाक्येभ्यः प्रकृतिपत्ययादिवदिति”। “कर्भप्रवचनीयेन वै पञ्चमेन सह पदस्य पञ्चविधत्वमिति” हेलाराजो व्याख्यातवान्। कर्मप्रवचनोयास्तु क्रियाविशेषीपजनितसम्बन्धावच्छेदहेतव इति सम्बन्धविशेषद्योतनद्वारेण क्रियाविशेषद्योतनादुपसर्गेष्वेवान्तर्भवतीत्यभिसन्धाय षढचातुर्विव्यं भाष्यकारेणोक्तं युक्तमिति विवेक्तव्यम्। ननु भवता स्फोटात्मा नित्यः शब्द इति निजागद्यते तन्न मृष्यामहे तत्र प्रमाणाभावादिति केचित् अत्रोच्यते प्रत्यक्षमेवात्र प्रमाणं गोरित्येकं पदमिति नानावर्णातिरिक्तैकपदावगतेः सर्वजनीनत्वान्न ह्यसति बाधके पदानुभवः शक्यो मिथ्येति वक्तुं पदार्थप्रतीतेरन्यथानुपपत्त्यापि स्फाटोऽभ्युपगन्तव्यः। न च वर्णेभ्य एव तत्प्रत्ययः प्रादुर्भवतोति परीक्षाक्षमं विकल्पासहत्वात् किं समस्ता व्यस्ता वा अर्थप्रत्ययं जनयन्ति? नाद्यः वर्णानां क्षणिकानां समूहासम्भवात् नान्त्यः व्यस्तवर्णभ्योऽर्थप्रत्ययासम्भवात्। न च व्याससमासाभ्यामन्यः प्रकारः समस्तीति तस्माद्वर्णानां वाचकत्वानुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोट इति वर्णातिरिक्तो वर्णाभिव्यङ्गोऽर्थप्रत्यायकी नित्यः शब्दः स्फोट इति तद्विदो वदन्ति। अतएव स्फुट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः स्फुटीमनत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थसुभयथा निराहुः। तथाचोक्तं भगवता पतञ्जलिना महाभाष्ये “अथ गौरित्यत्र कः शब्दो? येनोच्चरितेन सास्नालाङ्गूलककुदखुरविषाणानां सम्प्रत्ययो भवति स शब्दद इत्युच्यते” इति। विवृतञ्च कैयटेन “वैयाकरणा वर्णव्यतिरिक्तस्य पदस्य वाचकत्वमिच्छन्ति वर्णानां वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यपसङ्गादित्यादिना तद्व्यतिरिक्तः स्फोटो नादाभिव्यङ्ग्यो वाचको विस्तरेण वाक्यपटीये व्यवस्थापित” इत्यन्तेन प्रबन्धेन। ननु स्फोटस्याप्यर्थप्रत्यायकत्वं न घटते विकल्पासहत्वात् किमभिव्यक्तः स्फोटोऽर्थं प्रत्याययति अनभिव्यक्तो वा न चरमः सर्वदा अर्थप्रत्ययलक्षणकार्य्योत्पादप्रसङ्गात् स्फोटस्य नित्यत्वाभ्युपगमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्य्यस्य विलम्बायोगात्। अथैतद्दोषपरिजिहीर्षया अभिव्यक्तः स्फोटोऽर्थं पत्यायतीति कक्षीक्रियते तथाभिव्यञ्जयन्तो वर्णाः किं प्रत्येकमभिव्यञ्जयन्ति सुम्भूय वा पक्षद्वयेऽपि वर्णानां वाचकत्वपक्षे भवता ये दोषा भाषितास्त एव स्फोटाभिव्यञ्जकत्वपक्षे आवर्त्तनीयाः। तदुक्तं भट्टाचार्य्यैर्मीमांसाश्लोकवार्त्तिके “यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः। सोऽपि पर्य्यनुयोगेन नैकेनापि विमुच्यते” इति। “विभक्त्यन्वं पदम्” विभक्त्यन्तेष्वेव वर्णेषु पाणिनिना “ते विभक्त्यन्ताः पदमिति” गौतमेव च पदसंज्ञायाविहितत्वात् सङ्केतग्रहणेनानुग्रहबशाद्वर्णेष्वेव पदबुद्धिर्भविष्यति। तर्हि सर इत्येतस्मिन् पदे यावन्तो वर्णास्तावन्त एव रस इत्यत्रापि वनं नवं नदी दीनी रामो मारो राजा जारेत्यादिष्यर्थभेदप्रतीतिर्न स्यादिति चेन्न क्रमभेदेन भेदसम्भवात् तदुक्तं तौतातिकैः “यावन्तो यादृशा ये च यदर्थप्रतिपादने। वर्णाः प्रज्ञातसामर्थ्यास्त्रे तथैवावबोधकाः” इति। तस्माद्यश्चोभयोः समो दोषो न तेनैकश्चोद्यो भवतीति न्यायात् वर्णानामेव वाचकत्वोपपत्तौ नातिरिक्तस्फोटकल्पनाऽवकल्पते इति चेत् तदेतत् काशकुशावलम्बनकल्पं विकल्पानुपपत्तेः किंवर्णमात्रे पदप्रत्ययावलम्बनं वर्णसमूहे वा? नाद्यः परस्परविलक्षणवर्णानामभिन्नं निमित्तं पूष्पेषु विना सूत्रं मालाप्रत्ययवदित्येकं पदमिति प्रतिपत्तेरनुपपत्तेः नापि द्वितीयः उच्चरितप्रध्वस्तानां वर्णानां समूहभावासम्भवात्। तत्र हि समूहव्यपदेशः ये पदार्था एकस्मिन् प्रदेशे सहावस्थिततया वहवोऽनुभूयन्ते यथा एकस्विन् प्रदेशे सहावस्थिततयानुभूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशः यथा वा गजगरतुरगादिषु, न च ते वर्णास्तथानुभूयन्ते उत्- पन्नप्रध्वस्तत्वात्। अभिव्यक्तिपक्षेऽपि क्रमेणैवाभिव्यक्तौ समूहासम्भवात् नापि वर्णेषु काल्पनिकः समूहः कल्पनीयः परस्पराश्रयप्रसङ्गात्। एकार्थप्रत्यायकत्वसिद्धौ तदुपाधिना वर्णेषु पदत्वप्रतीतिः तत्सिद्धावेकार्थप्रत्यायकत्वसिद्धिरिति। तस्माद्वर्णानां वाचकत्वासम्भवात् स्फोटोऽभ्युपगन्तव्यः। ननु स्फोटवाचकतापक्षेऽपि प्रागुक्तविकल्प प्रसरेण घट्टकुटीप्रभातायितमिति चेत् तदेतन्मनोराज्यविजृम्भणं वैषम्यसम्भवात्। तथाहि अभिव्यञ्जकोऽपि प्रथमो ध्वनिः स्थोटमस्फोटमभिव्यनक्ति उत्तरोत्तराभिव्यञ्जकक्रमेण स्फुटं स्फुटतरं स्फुटतमं, यथा स्वाध्यायः सकृत् पठ्यमानो नावधाय्यते अभ्यासेन तु स्फुटाध्यवसायः यथा वा रत्नतत्त्वं प्रथमप्रतीतौ स्फुटं न चकास्ति चरमे चेतसि यथावदभिव्यज्यते “नादैराहितवीजायामन्त्येन ध्वनिना सह। आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यतं” इति प्रामाणिकोक्तेः। तस्मादस्माच्छब्दादर्थं प्रतिपद्यामहे इति व्यवहारवशाद्वर्णानाम् अर्थवाचकत्वानुपपत्तेः प्रथमे काण्डे तत्रभवद्भिर्भर्तृहरिभिरभिहितत्वात् निरवयवमर्थप्रत्यायकं शब्दतत्त्वं स्फोटाह्वयवमभ्युपगन्तव्यमित्येतत् सर्वम् “परमार्थसंविल्लक्षणसत्ता जातिरेव सर्वेषां शब्दानामर्थ इति प्रतिपादनपरे जातिसमुद्देशे प्रतिषादितम्। यदि सत्तैवार्थः सर्वेषां शब्दानां पर्य्यायता स्यात् तथा च क्वचिदपि युगपत्त्रिचतुरपदप्रयोगायोग इति महच्चातुर्य्यमायुष्मतः। तदुक्तम् “पर्य्यायाणां प्रयोगो हि यौगपद्येन नेष्यते। पर्य्यायेणैवः ते यस्माद्वदन्त्यर्थं न संहताः” इति। तस्मादयं पक्षो न क्षोदक्षम इति चेत् तदेतद्गगनरोमन्थकल्पं नीललोहितपीताद्युपरञ्जकद्रव्यभेदेन स्फटिकमणेरिव सम्बन्धिभेदात् सत्तायास्तदात्मना भेदेन प्रतिपतिसिद्धौ गोसत्तादिरूपगोत्वादिभेदनिबन्धनव्यवहारवैलक्षण्योपपत्तेः तथाचाप्तवाक्यम् “स्फटिकं विमलं द्रव्यं यथा युक्तं पृथक् पृथक्। नीललोहितपीताद्यैस्तद्वर्णमुपलभ्यते” इति। तथा हरिणाप्युक्तम् “सम्वन्धिभेदात् सत्तैव भिद्यमाना गवादिषु। जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः। तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते। सा सत्ता सा महानात्मा तामाहुस्त्वतलादयः” इति। आश्रयभूतैः सम्बन्धिभिर्भिद्यमाना कल्पितभेदा गवाश्वादिषु सत्तैव महासामान्यमेव जातिः गोत्वादिकमपटं सामान्य परभार्थतस्ततो भिन्नं न भवति गोसत्तैव गोत्वं नापरमन्वयि प्रतिभासते एवमश्वसत्ता अश्वत्वमित्यादि वाच्यम्। एवञ्च तस्यामेव गवादिभिन्नायां सत्तायां जातौ गोशब्दादयो वाचकत्वेन व्यवम्थिताः प्रातिपदिकार्थञ्च सत्तामाहुः। भाववचनो धातुरिति पक्षे भावः सत्तैवेति धात्वर्थः सत्ता भवत्येव क्रियावचनो धातु रिति पक्षेऽपि “जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्त्तिनीमिति” जातिपदार्थनयानुसारेणानेकव्यक्तिक्रियासमुद्देशे क्रियाया जातिरूपत्वप्रतिपादनात् धात्वर्थः सत्ता भवत्येव तस्य भावस्त्वतलाविति भावार्थे त्वतलादीनां विधानात् सत्तावाचित्वं युक्तं सा च सत्ता उदयव्ययवैधुर्य्यान्नित्या सर्वस्य प्रपञ्चस्य तद्विवर्त्ततया देशतः कालतो वस्तुतश्च परिच्छेदराहित्यात् सा सत्ता महानात्मेति व्यपदिश्यत इति कारिकाद्वयार्थः। द्रव्यपदार्थसंविल्लक्षणं तत्त्वमेव सर्वशब्दार्थ इति सम्बन्धसमुद्देशे समर्थितम् “सत्यं वस्तु तदाकारैरसत्यैरवधार्य्यते। असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते। अध्रुवेण निमित्तेन देवदत्तगृहं यथा। गृहीतगृहशब्देन शुद्धमेवाभिधीयते” इति। भाष्यकारेणापि “सिद्धे शब्दार्थसम्बन्धे” इत्येतद्वार्त्तिकव्याख्यानावसरे द्रव्यं हि नित्यमित्यनेन ग्रन्थेन अश्वत्थोपाध्यवच्छिन्नं ब्रह्मतत्त्रं द्रव्यशब्दवाच्यं सर्वशब्दार्थः” इति निरूपितम्। जातिशब्दार्थवाचिनो वाजप्यायनस्य मते गवादवः शब्ढाः भिन्नद्रव्यसमवेतां जातिमभिदवति तस्यामवगाह्यमानायां तत्सम्बन्धात् द्रव्यमवगम्यते, शुक्लादयः शब्दा गुणसमवेतां जातिमाचक्षते गुणे तत्सम्बन्धात् प्रत्ययः द्रव्यसम्बन्धिसम्बन्धात् संज्ञाशब्दानामुत्पत्तिप्रभृत्याविनाशात् शैशवकौमारयौवनाद्यवस्थादिभेदेऽपि स एवायमित्यभिप्रत्ययबलात् सिद्धा देवदत्तत्वादिजातिरभ्युपगन्तव्या। क्रियास्वपि जातिरालक्ष्यते सैव धातुवाच्या पचतीत्यादावनुवृत्तप्रत्ययस्य प्रादुर्भावात्। द्रव्यपदार्थवादिव्याडिनये शब्दस्य व्यक्तिरेवाभिधेयतया प्रतिभासते जातिस्तूपलक्षणतयेति नानन्त्यादिदोषावकाशः। पाणिन्याचार्य्यस्योभयं सम्मतं यती जातिपदार्थमभ्युपगम्य “जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्” इत्यादिव्यवहारः, द्रव्यपदार्थमङ्गीकृत्य “सरूपाणामेकशेष एकविभक्तौ” इत्यादिः। व्याकरणस्य सर्वपार्षदत्वान्मतद्वयाभ्युपगमे न कश्चिद् विरोधः। तस्मात् अद्वयं सत्यं परं ब्रह्मतत्त्वं सर्वशब्दार्थ इति स्थितम्। तदुक्तम् “तस्माच्छक्तिविभागेन सत्यः सर्वः सदात्मकः। १ कोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते” इति। सत्यस्वरूपमपि हरिणोक्तं सम्बन्धसमुद्देशे “यत्र द्रष्टा च दृश्यञ्च दर्शनञ्चाविकल्पितम्। तस्यैवार्थस्य सत्यत्वमाहुस्त्रय्यन्तवेदिनः” इति। द्रव्यसमुद्देशेऽपि “विकारोपगमे सत्यं सुवर्णं कुण्डले यथा। विकारापगमो यत्र तामाहुः प्रकृतिं पराम्” इति। अभ्युपगताद्वितीयत्वनिर्वाहाय वाच्यवाचकयोरविभागः प्रदर्शितः “वाच्या सा सर्वशब्दानां शब्दाच्च न पृथक् ततः। अपृथक्त्वेऽपि सम्बन्धस्तयोर्नानात्मनोरिव” इति तत्तदुपाधिपरिकल्पितभेदबहुलतया व्यवहारस्याविद्यामात्रकल्पितत्वेन प्रतिनियताकारोपधीयमानरूपभेदं ब्रह्मतत्त्वं सर्वशब्दविषयः अभेदे च पारमार्थिके संवृतिवशाद्व्यवहारदशायां स्वप्नावस्थावदुच्चावचः प्रपञ्ची विवर्त्तत इति कारिकार्थः। तदाहुर्वेदान्तवादनिपुणाः। “यथा स्वप्नप्रपञ्चोऽयं मयि मायाविजृम्भितः। एवं जाग्रत्प्रपञ्चोऽपि मयि मायाविजृम्भितः” इति। तदित्थं कूटस्थे परस्मिन् ब्रह्मणि सच्चिदानन्दरूपे प्रत्यगभिन्नेऽवगते अनाद्यविद्यानिवृत्तौ तादृग्ब्रह्मात्मनावस्थानलक्षणं निःश्रेयसं सेत्स्यति। “शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति” इत्यभियुक्तोक्तेः। तथाच शब्दानुशासनशास्त्रस्य निःश्रेयससाधनत्वं सिद्धम्। तदुक्तम् “तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्। पवित्रं सर्वविद्यानामधिविद्यं प्रचक्षते” इति। तथा “इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्। इयं सा मोक्षमार्गाणा गजिह्मा राजपद्धतिरिति”। तस्पाद्व्याकरणाशास्त्रं परमपुरुषार्थसाधनतयाध्येतव्यमिति”। पाणिनिप्रोक्ताष्टाध्यायीरूपस्य व्याकरणत्वम्। तत्तात्पर्यञ्च वाक्यपदीये हरिणा ब्रह्मकाण्डे विस्तरत उक्तं दृश्यम्।
पाणिनीय = त्रि० पाणिनौ भक्तिरस्य छ। १ पाणिनिभक्तियुक्ते तेन ज्ञातमुपज्ञातं वा छ। २ पाणिनिना ज्ञाते ३ तेनीपज्ञाते च। पाणिनिना प्रोक्तम् अण्। ४ पाणिना प्रोक्ते त्रि० “अकृतव्यूहाः पाणिनीयाः” व्या० परिभाषा।
पाणिन्धम(य) = पाणिं धमति ध्मा–धयति वा धे–वा खश्। १ पाणिबादके यान्तः २ पाणितापके सुग्धबो० तन्मूलं सृग्यम्
पाणिपाद = न० पाणी च पादौ च समाहृतौ समा० द्व०। पाण्योः पादयोश्च समाहारे ततः अस्त्यर्थे प्राण्यङ्गत्वात् मतुबेव न ठन्। पाणिपादवत् तद्युते सि० कौ०।
पाणिपीडन = न० पाणिः पीड्यते अत्र पीड–आधारे ल्युट्। १ विवाहे अमरः। ६ त०। २ अन्योन्यं पाण्योर्मर्दने च।
पाणिबन्ध = पु० पाणिर्बध्यतेऽत्र बन्ध–आधारे घञ्। विवाहे भा० शा० २६७ अ०।
पाणिभुज् = पु० पाणिरिव भुज्यते मोट्यते भुज–मोटने क्विप्। १ उदुम्बरवृक्षे। पाणिना भुङ्क्ते भुज–क्विप्। २ हस्तेन भोजके त्रि० शब्दच०।
पाणिमर्द्द = पु० पाणिं मृद्नाति मृद–अण् उप० स०। १ करमर्द्दे राजनि०। २ करमर्दकमात्रे त्रि०।
पाणिमुक्त = न० पाणिम्यां मुक्तम्। हस्तक्षिप्यमाणे आयुधे अस्त्रे हला०।
पाणिमुख = पु० पाणिर्ठिप्रपाणिर्मुखमिय होमस्थानं यस्य। पितरि। “अग्निमुखा वै देवाः पाणिमुखाः पितरः हि ब्राह्मणम्” आश्व० श्रौ० ४। ८। ६ “देवानामग्निमुखत्वादग्नौ होमः पितॄणां पाणिमुखत्वात् पाणौ होमः” नारा०। होमश्चात्राग्नौकरणाङ्गहोमः पाणिहोमशब्दे दृश्यः।
पाणिरुह = पु० पाणौ रोहति रुह–क। नखे राजनि०
पाणिवाद = पु० पाणिं पाणिना मृदङ्गादिकं वा वादयति वद–णिच्–अच्। १ हस्तताडके २ हस्तेन मृदङ्गादिवादके च अमरः ण्वुल्। पाणिवादक तत्रार्थे त्रि० हेमच०।
पाणिसर्ग्या = स्त्री पाणिभ्यां सृज्यतेऽसौ सृज–कर्मणि ण्यत् कुत्वम्। रज्ज्वाम् सि० कौ०।
पाणिस्वानक = त्रि० पाणिस्वनः प्रयोजनमस्य ठक्। हस्ततालदायके पाणिवादके भा० द्रो० ८३ अ०।
पाणीतक = पु० कुमारानुचरमातृभेदे भा० श० ४६ अ०।
पाणिहोम = पु० ७ त०। पात्रव्रह्मणानां पाणौ कर्त्तव्येहोमे “उद्धृत्य घृताक्तमन्नमनुज्ञाषयत्यग्नौ करिष्ये करवै करवाणीति” इत्युपक्रमे “अभ्यनुज्ञायां पाणिष्वेव वा” आश्व० गृ० ४ ८ ५ सू० “अभ्यनुज्ञायामिति यदि ब्राह्मणाः पाणिषु होममभ्यनुजानन्ति अग्निकार्यकरणं यदि पाणिषु स्वेषामभ्युपगच्छन्तीत्यर्थः। तथा सति पाणिषु जुहोति। ताभ्यामेव मन्त्राभ्यां पाणिषु जुहुयात्। ब्राह्मणाः पित्रादित्रयार्थम् उपविष्टास्तेषां सर्वेषां पाणिषु जुहोतीति वचनात्, मन्त्रौ च द्वौ तत्रार्थादेकैकाम् आहुतिं विगृह्य विगृह्य सर्वेषां दक्षिणपाणिषु जुहोति” नारा०। कुशब्राह्मणपक्षे जले एव स होमो विधेयः “अग्न्यभावे तु विप्रस्य पाणावेव जलेऽपि वा” मत्स्यपु० वाक्यात् एतयोः पक्षयोरपि अनूहेनैव अग्नौ करिष्ये” करुष्व इत्येवानुज्ञापश्रौ श्रा० त० रघु०।
पाणौकरण = न० पाणौ क्रियतेऽनेन कृ–आधारे ल्युट् अलुक्स०। विवाहे जटाध०।
पाण्ड = त्रि० पण्डएव स्वार्थे अण्। पण्डे स्त्रियां गौरा० पाठात् ङीपं बाधित्वा ङीष् स्वरे भेदः।
पाण्डर = पु० पडि–अर दीर्घश्च। १ मरुवकवृक्षे २ श्वेतवर्णे च ३ तद्वति त्रि० अमरः। ४ कुन्दपुष्पे ५ गैरिके च न० शब्दच०
पाण्डरपुष्पिका = स्त्री पाण्डरं पुष्पमस्याः कप् कापि अतैत्त्वम्। शीतलावृक्षे शब्द०।
पाण्डव = पु० पाण्डोरपत्यम् ओरञ्। पाण्डुनृपस्य क्षेत्रजे धर्मादिभ्योजाते युधिष्ठिरादौ “यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः। कामभोगान् परित्यज्य शतशृङ्गमितो गतः। ब्रह्मचर्य्यव्रतस्थस्य तस्य दिव्येन हेतुना। साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः। तथैवं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः। मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम्। पुरुहुतादयं जज्ञे कुन्त्यामेव धनञ्जयः। यस्य कीर्त्तिर्महेष्वासान् सर्वानभिभविष्यति। यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ। चश्विभ्यां पुरुषव्याघ्राविमौ तावपि पश्यत” भा० आ० १२६ अ०।
पाण्डवाभील = पु० अभीः अभयं ता लाति ला–क। पाण्डवः अभीलोयतः। श्रीकृष्णे त्रिका०।
पाण्डवायन = पु० पाण्डावानामयनं रक्षणादिकं यतः। श्रीकृष्णे ६ त०। तत्रार्थे न०।
पाण्डवीय = त्रि० पाण्डवस्येदम् “वृद्धाच्छः” पा० छ। पाण्डव सम्बन्घिनि।
पाण्डवेय = पु० पाण्डोरियम् अञ् ङीप् पाण्डवी कुन्ती माद्री च तयोरपत्यम् ढक्। पाण्डुपत्नीपुत्रेषु युधिष्ठिरादिषु भा० आ० १ अ०। तेषां क्षेत्रजत्वात् मातृद्वारेण कीर्त्तनम्।
पाण्डार = पु० स्त्री० पण्डस्यापत्यम् आरक्। पण्डस्यापत्ये सि० कौ०।
पाण्डित्य = न० पण्डितस्य भावः कर्म वा दृढादि० पक्षे ष्यञ्। १ पण्डितभावे २ तत्कर्मणि च न०।
पाण्डु = पु० पडि–कु नि० दीर्घः। “सितपीतसमायुक्तः पाण्डुवर्वणः प्रकीर्त्तितः” १ सुभूत्युक्ते “पाण्डुस्तु पीतभागार्द्धः केतकीधूलिसन्निभः” इत्युक्ते च २ वर्णमेदे ३ तद्वति त्रि०। स्त्रियामुदन्तगुणवचनत्वेऽपि न ङीप् पाण्डुशब्दपर्युदासात्। ४ सितवर्णे शब्दरत्ना० ५ तद्वति त्रि० सान्तनुपुत्रविचित्रवीर्य्यस्य क्षेत्रे व्यासेनोत्पादिते ६ नृपभेदे ७ नागभेदे ८ श्वेतगजे ९ रोगभेदे च शब्दर०। १० पाण्डुरफलीक्षुपे ११ पटोले च राजनि०। १२ देशभेदे पु० पाण्डुनृपोत्पत्तिकथा भा० आ० १०६ अ० तन्नामताकारणञ्च उक्तं यथा ततस्तेनैव विधिना महर्षिस्तामविन्दत। अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम्। विवर्णा पाण्डुसङ्काशा समपद्यत मारत!” इत्युपक्रमे “यस्मात् पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह। तणादेष सुतस्ते वै पाण्डुरेव भविष्यति। नाम तस्य तदेवेह भविष्यदि शुभानने”। तस्य दिग्विजयादिकथा तदुत्तराध्यायेषु दृश्या। पाण्डुरोगभेदे निदानादिकं भावप्र० उक्तं यथा “पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः। चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः” पञ्चमो भक्षणात् मृद इति ननु मृत्तिकापि दूषितवातादिदोषद्वारेणैव पाण्डुरोगं जनयतोति मृद्भक्षणजः पाण्डुरोगोदोषजादभिन्न एव कथं पञ्चम इति उच्यते अपरकारणकुपिता वातादयोऽन्यानपि रोगान् कर्वन्ति। मृत्तिकाभक्ष्णात् कुपितास्तु वातादयो विशेषतः पाण्डुरोगमेव जनयन्त्येवेति विशेषात् चिकित्साविशेषाच्च पञ्चमः चरकेणोक्तः। तच्चिकित्सापरकारणकुपितदोषजनितपाण्डुरोगचिकित्सा भवतीति सुश्रुतेन मृत्तिकाजः पृथक् न पठितः। अथ विप्रकृष्टनिदानपूर्विकां सम्प्राप्तिमाह “व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्। निषेवमाणस्य विदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति” तीक्ष्णं राजिकादि। अथ पूर्वरूपमाह “त्वक्स्फोटनिष्ठीवनगात्रसादमृद्भक्षणप्रेक्षणकूटशोथाः। विण्मूत्रषीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि” प्रेक्षणकूटशोथः इति अक्षिगोलकशोथः। अथ वातिकस्य पाण्डुरोगस्य लक्षणमाह “त्वङ्मूत्रनयनादीनां रूक्षकृष्णारुणामता। वातपाण्ड्वामये कम्पस्तोदामाहभ्रमादयः”। कृष्णारुणामता पाण्डुत्वं नातिक्रामति। अतएव सुश्रुते “सर्वेषु चैतेष्वपि पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः” इति। भ्रमादय इत्यादिशब्दात् मेदशूलादयः। अथ षैत्तिकस्य लक्षणमाह “पीतत्वङ्नखविण्भूत्रदाहतृष्णाज्वरान्वितः। भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामये नरः”। भिन्नविट्कः सद्रवमलः। अथ श्लैष्मिकस्य लक्षणमाह “कफप्रसेकः श्वयथुः तन्द्रालस्यातिगौरवैः। पाण्डुरोगी कफात् शुक्लैस्त्वङ्मूत्रनयनाननैः”। अत्रोपलक्षणे तृतीया। सान्निपातिकस्य लक्षणमाह “सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्। त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम्”। अथ मृज्जस्य सम्प्राप्तिमाह “मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः। कमाया मारुतं, पित्त मूषरा, मधुरा कफम्। कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तञ्च रूक्षयेत्। पूरयत्यविपक्वैश्च स्रोतांसि निरुणद्ध्यपि। इन्द्रियाणां बलं हत्वा तेजो वीर्य्यौजसी तथा। पाण्डुरोगं करोत्याशु समवर्णाग्निनाशनम्”। स्रोतांसि शिरामुखानि। तेजो दीप्तिः ओजः सर्वधातुरसः। अथ मृज्जस्य लक्षणमाह “मृद्भक्षणाद्भवेत्पाण्डु स्तन्द्रालस्यनिपीडितः। सकासश्वासशूलार्त्तः सदाऽरुचि समन्वितः। शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः। कृमिकोष्ठोऽतिसार्य्येत मलं सासृक्कफान्वितम्”। क्रिमिकोष्ठः उदराभ्यन्तरस्थकृमिर्भवेदित्यनेन सम्बध्यते अतिसार्य्येत मलमिति कर्मकर्तृ तत्कर्मवत् मन्तव्यम्। तस्मिन् कर्मण्यर्थेऽत्र यक्प्रत्ययः। अथासाध्यस्य लक्षणमाह “ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः। पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः। पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति। कालप्रकर्षात् शूनाङ्गो यो वा पीतानि पश्यति” खरीभूतः अतिरूक्षितः सर्वधातुः “बद्धाल्पविट् सहरितं सकफं योऽतिसार्य्यते। पीतस्वेदातिदिग्धाङ्गः छर्दिमूर्छातृषान्वितः। पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत्। पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति”। पाण्डुसङ्घातदर्शीं पीबवर्णस्य राशिं पश्यति। “अन्तेषु शूनं परिहीनमध्यं म्लानं तथान्तेषु च मध्यशूनम्। गुदे मुखे शेफसि मुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम्”। “उरभ्रे निहते चैव पाण्डुरोगः प्रजायते” शाता० मेषबधकर्मणोबिपाक स्तद्रोग उक्तः। १ ३ माषपर्ण्याम् (माषाणी) स्त्री राजनि०। पाण्डोरपत्यम् “ओरञ्” पा० अञ्। पाण्डव पाण्डोरपत्ये युधिष्ठिरादौ। पाण्डोः जनपदभेदस्य राजा “पाण्डोर्ड्यन्” वार्त्ति० ड्यन्। पाण्डुदेशनृपे रघु४। ९ २। स्वार्थे क पाण्डुक तत्रार्थे ततः अस्त्यर्थे इनि पाण्डुकिन् तद्रोगयुते त्रि०। संज्ञायां कन्। पाण्डुक धानाभेदे सुश्रुतः। तत्र पृषो० दीर्घमध्यः पाण्डूक तत्रार्थे पङ्गुकशब्दे २ ४९ २ पृ० सुश्रुतवाक्यं दृश्यम्। पाण्डुकस्य वृद्धिः क्षीरिकावृद्ध्या भवतोत्युक्तं वृं० स० २९ अ०।
पाण्डुकण्टक = पु० पाण्डुवर्णानि कण्टकानि यस्य। अपामार्गे राजनि० पाण्डुरोगस्य नाशकत्वाहा तस्य तथात्वम्।
पाण्डुकम्बल = पु० पाण्डुवर्णः कम्बलः नित्यक०। १ राजास्तरणे कम्बलभेदे (शाल) सि० कौ०। २ प्रस्तरभेदे मेदि० ततः “पाण्डुकम्बलादिनिः” पा० अस्त्यर्थे इनि। पाण्डुकम्बलिन् तद्युक्ते। तत्र इनिग्रहणमणोनिवृत्त्यर्थमिति सि० कौ०।
पाण्डुकर्म्मन् = न० ६ त०। शुक्लवर्णसम्पादने सुश्रुतोक्ते व्रणस्य उपक्रमणे चिकित्साभेदे। पाण्डुकरणमप्यत्र कृष्णकर्मशुक्लकर्मणी तु सप्रकारे तत्रोक्ते यथा “भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्रभावितान्। ततो द्विधा छेदयित्वा लौहे कुम्भे निधापयेत्। कुम्भेऽन्यस्मिन्निखान्येत तं कुम्भमथ योजयेत्। मुखं मुखेन सन्धाय गोमयैर्दाहयेत्ततः। यः स्नेहश्च्यवते तस्माद्ग्राहयेत्तं शनैर्भिषक्। ग्राम्यानूपशफान्दग्धान् सूक्ष्मचूर्णानि कारयेत्। तेलेनानेन ससृष्टं शुक्लमालेपयेद्व्रणम्। भल्लातकविधानेन सारस्नेहांस्तु कारयेत्। ये च केचित्फल स्नेहविधानं तेषु कीर्त्तितम्। दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत्। सप्तरात्रं स्थितं क्षिरे छागले रोहिणीफलम्। तेनैव पिष्टं सुश्लक्ष्णं सवर्णकरणं हितम्”।
पाण्डुतरु = पु० कर्म०। धववृक्षे राजनि०।
पाण्डुतीर्थ = न० तीर्थभेदे शिवपुराणम्।
पाण्डुनाग = पु० नाग इव पाण्डुः राजद०। १ पुन्नागवृक्षे २ श्वेतहस्तिनि ३ श्वेतसर्पे च शब्दरत्ना०।
पाण्डुपत्री = स्त्री पाण्डु पत्रं यस्याः जातित्वात् ङीप्। रेणुकानामद्रव्ये राजनिः।
पाण्डुपृष्ठ = त्रि० पाण्डुपृष्ठं यस्य। दुर्लक्षणरूपश्वेतपृष्ठयुक्ते त्रिका०।
पाण्डुफल = पु० पाण्डूनि फलान्यस्य। १ पटोले २ चिर्भट्यां स्त्री राजनि०।
पाण्डुभूम = त्रि० पाण्डुः भूमिरत्र अच्समा०। १ पाण्डुवर्णभूभियुक्ते कर्मधारये अच्समा० नेष्यते। २ श्वेतमृक्षिकायां ३ खटिकायाम् च स्त्री हेमच० “पाण्डूदक्कृष्णतो भूतिः पाण्डूदक्कृष्णमृत्तिकाः” हेमचन्द्रोक्तेः। अन्येतु तत्रापि अचसमा०। सा च तत्रार्थे स्त्रीति भेदः।
पाण्डुमृत्तिका = स्त्री नित्यक०। खटिकायाम् हेमच०। पाण्डुमृदादयोऽप्यत्र स्त्री।
पाण्डुर = पु० पाण्डुर्वर्णोऽस्यास्ति र। १ श्वेतपीतमिश्रिते वर्णे अमरः २ तद्वति त्रि०। पडि–उर पृषो० वृद्धिः। ३ श्वेतवर्णे ४ तद्वति च हला०। ५ कामलाख्ये रोगे ६ श्वित्ररोगे न० शब्दरत्ना०। ७ माषपर्ण्यां स्त्री टाप् राजनि०।
पाण्डुरङ्ग = पु० पाण्डुरमङ्गमस्य शक०। (पाटराङ्गा) शाके “पाण्डुरङ्गः कृमिश्लेष्मपित्तजित् लघुतिक्तकः” राजवल्लभः
पाण्डुरद्रुम = पु० नित्यक०। कुटजवृक्षे (कुडची) त्रिका०।
पाण्डुरपृष्ठ = त्रि० पाण्डुरं पृष्ठमस्य। दुर्लक्षणरूपपाण्डुरपृष्ठयुते हेमच०।
पाण्डुरफली = स्त्री पाण्डुरं फलमस्या रः ङीप्। क्षुद्रक्षुप भेदे। “कृच्छ्रास्रदोषपित्तानां मूत्रघातस्य नाशिनी। बल्या वृष्या च पाण्डुरफली तु शिशिरा तथा” राजनि०
पाण्डुराग = पु० पाण्डूरागोऽस्य। दमनकवृक्षे राजनि०।
पाण्डुरेक्षु = पु० नित्यकर्म्म०। श्वेतेक्षौ राजनि०।
पाण्डुलेख = पु० (मुसविदा) ख्याते पूर्वपक्षादिलेश्चनभेदे पाण्डुलेख्यादयोऽप्यत्र। तत्प्रकारादि वीरमि० उक्तो यथा “अयञ्च पक्षः प्राक्पाण्डुलेख्यं भूमिफलकादौ कारयित्वा शोधितः पश्चात्पत्रे लेखनीयः तथा च वृहस्पतिः “अधिका~ञ्छातयेदर्थान् न्यूनांश्च परिपूरयेत्। भूमौ निवेशयेत्तावद्यावदर्थो विनिश्चितः” शातयेदुद्वपेत् भूमाविति पाण्डुलेख्ययोग्याधारोपलक्षणम्। अतएवाह स एव “पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत्। पाण्डुलेखेन फलके ततः पत्रे विशोधितम्” इति। स्वभावोक्तन्न भयाद्युपाधिनोक्तम्। व्यासोऽपि “पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत्। ऊनाधिकन्तु संशोध्य पश्चात्पत्रे निवेशयेत्”। शोधनञ्चोत्तरयोग्यावधि विधेयम् न ततःपरमनवस्थापत्तेरदृष्टार्थतापाच्च। तथा च नारदः “शोधयेत्पूर्ववादन्तु यावन्नोत्तरदर्शनम्। अवष्टब्धस्यीत्तरेण निवृत्तं शोधनम्भवेत्” अवष्टब्धस्योत्तरयोग्यस्य। यस्त्वर्य्यप्रगलभत्वात् पक्षदोषगुणहानादानाभ्यां शोधयितुमशक्तस्तस्य वक्तव्यार्थं निर्धार्य्य सभ्यैरेव संशोधनीयः। यथाह वृहस्पतिः “अभियोक्ताऽप्रगल्भत्वाद्वक्तुन्नोत्सहते यदा। सभ्यैस्तु शोधनन्तस्य कार्य्यमर्थानुरूपतः” इति। यदि भाषामशोधयित्वैवोत्तरन्दापयन्ति सभ्यास्तदा रागाल्लोभाद्भयाद्वापीत्याद्युक्तदण्डेन सभ्यान् दण्डयित्वा पुनः पतिज्ञालेखनपूर्वकं व्यवहारः प्रबर्त्तनीयो राज्ञेति तात्पर्य्यम्। यदा त्वर्थिप्रत्यर्थिनोर्लोखनापाटवाद्राजकीयलेखकद्वारा तौ भाषोत्तरे लेखयतः। स चान्यतरपक्षपातेनान्यथा लिखत्यन्यत् त राज्ञा चौरवद्दण्ड्य इत्याह कात्यायनः “अन्यदुक्तं लिखेदन्यद्योऽर्थिप्रत्यर्थिना वचः। चौरवत्त्रासयेत्तन्तु धार्मिणः पृथिवीपतिः” इति।
पाण्डुलोमशा = स्त्री पाण्डूनि लोमानीवाङ्गानि सन्ति यस्याः श। १ माषपर्ण्याम्। २ श्वेतलोमवति त्रि० रत्नमा०। पाण्डुलोमाऽप्यत्र जटा०।
पाण्डुशर्करा = स्त्री पाण्डुवर्णा शर्करा। सितानामकप्रमेहरोगे गरुडपु० १८२ अ०।
पाण्डुशर्म्मिला = स्त्री द्रौपद्यां त्रिका०।
पाण्डुसोपाक = पु० संकीर्णजातिभेदे “चाण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान्। आहिण्डको निषादेन वैदेह्यामेव जायते” मनुः। त्वक्सारः वेणुः।
पाण्ड्य = पु० पाण्डुः देशोऽभिजनोऽस्य तस्य राजा वा ड्यन्। १ तद्देशवासिनि २ पाण्डुदेशनृपे च। स च देशः वृ० स० १ ४ अ० मध्यमे भागे उक्तः। दक्षिणदिक्स्थश्च। “दिशि मन्दायतेतेजः दक्षिणस्यां रवेरपि। तस्यामेव रघोः पाण्ड्याः पतापं न विषेहिरे” रघुः।
पाण्ड्यवाट = पु० पाण्डुदेशस्थे मुक्तानामाकरभेदे वृ० स० ८१ अ०। मुक्ताशब्दे दृश्यम्।
***