पल = गतौ भ्वा० पर सक० सेट्। पलति अपालीत् पपाल पेलतुः। जित् ज्वला० पलः पाल।

पल = रक्षणे चुरा० उभ० सक० सेट्। पालयति ते अपीपलत्-

पल = न० पल–अच्। १ मांसे न० अमरः “दशगुर्वक्षरोच्चारकालः प्राणः षडात्मकैः। तैः पलं स्यात्तु तत्षष्ट्या दण्ड इत्यभिधीयते” ज्योति० उक्ते २ कालभेदे “पलं तु लौकिकैर्मानैः साष्टरत्तिद्विमाषकम्। तोलकात्रतयं ज्ञेयं ज्यातिर्ज्ञैः स्मृतिसम्मतम्” ति० त० उक्ते ३ मानभेदे “पलं कर्षचतुष्टयम्” उक्ते ४ कर्षचतुष्टये ५ पलाल तुच्छधाने पु० हेम० “खार्द्धाद्रवेया विषुवद्दिनार्द्धे नतिः पलोऽक्षश्च स एव तज्ज्ञैः” सि० शि० उक्तायां विषुवद्दिनार्द्धे अक्षनतौ पु०।

पलक्या = स्त्री पल + + खार्थे क पलकं मांसं तत्पुष्टये हितम् बा० यत्। पालङ्क्यशाके राजनि०।

पलक्ष = पु० बलक्ष + पृषो०। १ श्वेतवर्णे २ श्वेतवर्णयुक्ते त्रि० यजु० २ ४। ४ वेददी०।

पलक्षार = पु० बलस्य मांसस्य क्षार इव उत्पादकत्वात्। शोणिते त्रिका० तत्पाकेन मांसोत्पत्तेस्तस्य तथात्वम्।

पलगण्ड = पु० पलं मांसुमिव मृदादिना भित्तिं गण्डति वदनैकदेशमिव करोति गडि–वदनैकदेशे अण्। लेपके (राज) अमरः।

पलङ्कट = त्रि० पलम् कटति आविरणोति भोत्या कट–आवरणे बा० खच् मुम्। भीरौ त्रिका० भोत्या मांसस्यावरणस्येव करणात्तस्य तथात्वम्।

पलङ्कर = पु० पल करोति कृ–बा० खच् मुम्। पित्ताख्ये धातौ त्रिका०।

पलङ्कष = पुंस्त्री० पल कषति कष + वा० खच् मुम्। १ राक्षसे मेदि० स्त्रियां जातित्वात् ङीष्। २ कणगुग्गुलौ पु० राजनि० ३ लाक्षायाम् ४ रास्नायां ५ मुण्डीर्य्यां ६ किंशुके ७ गुग्लुमात्रे ८ गोक्षुरके च पु० मेदि०। ९ क्षुद्रगोक्षुरके १० महाश्रावण्यां ११ मक्षिकायाञ्च स्त्री राजनि०।

पलद = त्रि० पलं मांसं ददाति सेवनेन दा–क। १ सेवनेन मांसकारके द्रव्यभेदे २ देशभेदे ३ नगरीभेदे स्त्री। “कन्था पलदनगरग्रामह्रदोत्तरपदात्” पा० (कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छः) भवार्थे छ। दक्षिणपलदीय दक्षिणपलदमवे त्रि०। पलद्यां भवः पलद्या० अण्। पालद तत्र भवे त्रि० स्त्रियां ङीप्।

पलद्यादि = पु० “प्रस्थोत्तरपदपलद्यादिकोपवादण्” पा० अण्प्रत्ययनिमित्ते शब्दगणे स च गणः षा० ग० उक्तो यथा “पलदी परिषद् रोमक वाहीक कलकीट बहुकीट जालकीट कमलकीट कमलकोकर कमलभिदा गोष्ठी नैकती पारणा शूरसेन गोमती पटच्चर उदपान यकृल्लोन”।

पलप्रिय = पुंस्त्री० पलं प्रियमस्य। १ काके राजनि० स्त्रियां टाप्। पललप्रियादयोऽप्यत्र २ मांसप्रियमात्रे त्रि०।

पलभा = स्त्री पलस्य अक्षस्य भा। विषुवद्दिनार्द्धजायां शङ्कुच्छायायाम्। “मेषादिगे सायनसूर्यभागे दिनार्द्धर्जा भा पलभा भवेत् सा” ग्रहलाघयम्। अक्षभाविषुवद्भादयोऽप्यत्र “भुजोऽक्षभा कोटिरिनाङ्कुलो ना” सि० शि० “अक्षभा नाम पलमा” प्रमिता० “रेखा प्राच्यपरा साध्या विषुवद्भा ग्रहस्तया” सू० सि० रङ्गनाथव्याख्यायां विस्तरो दृश्यः।

पलल = न० पल–कलच्। १ मांसे २ पङ्के ३ तिलच्र्णे च “पललं तिलकल्कः स्यात् तिलचूर्णञ्च पिष्टकम्” राजनि०। पलं लाति ला–क। ४ राक्षसे पु० स्त्री मेदि० स्त्रियां जातित्वात् ङीष्। “पलल मधुरं रुच्यं पित्तास्रवलपुष्टिदम्” पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम्” वैद्यकोक्ते (तिलकुटा) ५ पिष्टकभेदे “पललं मलकृद् वृव्यं वातघ्नं कफपित्तकृत्। वृंहणं गुरु वृष्यञ्च स्निग्धं मूत्रनिवर्त्तकम्” तत्र तद्गुणा उक्ताः।

पललज्वर = पु० पललं ज्वरयति ज्वर–णिच् अच्। ह्रस्वः। पित्ते धातौ हला०।

पललाशय = पु० पलले आशेते आ + शी–अच्। गण्डरोमे ब्दच०।

पलव = पु० पल + वा० भावे अच् पलतो गतिती वाति रक्षति वा–क। जीवतां धृतमत्स्यानां गतिरोधके (पोलो) मत्स्यधारणसाधने यन्त्रभेदे त्रिका०।

पलस्ति = त्रि० पल–बा० अस्ति। १ पलिते २ दीर्धायुषि ऋ० ३। ५ ३ १६ भा०।

पलाग्नि = पु० पलस्य मांसस्य पाचकोऽग्निरिव। पित्ते धातौ हारा०।

पलाग्र = न० पलस्याग्रं सारांशः। मांससारांशे हरिवं० ८ ४६ ३ श्लो०।

पलाङ्ग = पुं स्त्री० पलप्रधानमङ्गं यस्य। शिशुमारे हारा०

पलाण्डु = पु० पलस्य मांसस्याण्डमिवाचरति अण्ड + आचारे क्विप् न्यङ्क्वा० कु। मूलकभेदे (पेयाज) “पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः। पलाण्डुलु गुणैर्ज्ञेयो रसोनसदृशैर्गुणैः। स्वादुपाकरसोऽनुष्णः कफकृन्नातिपित्तलः। हरते केवलं वातं बलवीर्य्यकरो गुरुः” भावप्र०। तद्भक्षणे दोषः “पलाण्डुं विडवराहञ्च छत्राकं ग्रामकुक्कुटम्। लशुनं गृञ्जनञ्चैव जग्ध्वा चःन्द्रायणञ्चरेत्” प्रा० वि०। एतज्ज्ञानतः सकृत्। अत्र च पुनरुपयनेमित्याह विष्णुः “लशुनपलास्तुमृञ्जनतद्ग- न्धिविड्वराहग्रामकुक्कुटनरगोमांसभक्षणे सर्वेष्वेतेषु द्विजातीनां प्रायश्चित्तान्ते भूयः संस्कारं कुर्य्यात्”।

पलाद = पुंस्त्री पलमत्ति अण् उप० स०। १ राक्षसे हेमच०। स्त्रियां जातित्वात् ङीष्। २ मांसभोजिमात्रे त्रि०

पलादन = पुंस्त्री पलमदनं यस्य। १ राक्षसे हेमच० खियां जातित्वात् ङीष्। २ मांसभोजिमात्रे त्रि०।

पलान्न = न० पलमिश्रणेन पक्वमन्नं शा० त०। (पोलाओ) ख्याते मांसादिमिश्रणेन पक्वान्नभेदे तत्र द्रव्यादिपाकराजेश्वरे उक्तानि यथा “शरावमात्रं छागमांसं तत्पादमितं घृतम् त्रिमाषकं त्वचं लवङ्गमेलाफलञ्च। शरावमितास्तण्डुलाः। मरिचं तोलकद्वयम् एकमाषकं कुङ्कुमम्। आद्रकं तोलकद्वयमात्रं षट्तोलकं लवणम्। शरावार्द्धप्रादमिता दाक्षा”। तत्पाकप्रकारो यथा “छागमांस सूक्ष्मं थोरयित्वा शुष्कप्रलेहपाककरणानन्तरं पात्रान्तरे तेजपत्रोपरि अल्पाखण्डगन्धद्रव्येण सह प्रथमं सज्जी कर्त्तव्यम्। ततस्तण्डुलं जलेनार्द्धसिद्धं कृत्वा मण्डगालनपूर्वकमल्पाखण्डगन्धद्रव्येण सह तन्मांसोपरि सज्जी कर्त्तव्यम्। एवंप्रकारेण वारंवार सज्जीकृत्य तदुपरि अबशिष्टघृतक्षेपणेन दण्डद्वयं तप्ताङ्गारोपरि रक्षेत्”।

पलाप = पु० पलमाप्यतेऽत्र बाहुल्येन आप–आघारे थञ्। १ हस्तिकपोले २ कण्ठपाशे च शब्दसाला।

पलायन = न० परा–अय–ल्युट् रस्य लः। भीत्या स्थानान्तर गतौ हेम०।

पलायित = त्रि० परा + अय–गत्यर्थत्वात् कर्त्तरि क्त रस्य लः। १ भीत्या पलायनकर्त्तरि २ अपयाते च हेमच०।

पलाल = पु० न० पल–कालन्। शस्यशून्ये धान्यकाण्डे (नाडा) (पोयाल) अमरः।

पलालदोहद = पु० पलालं दोहदं यस्य। आम्रवृक्षे शब्दमाला पलालवेष्टने हि तस्य वृद्धिरिति तस्य तथात्वम्।

पलाली = स्त्री ६ त०। मांससमूहे ततः अस्त्यर्थे पामादि० न ह्रस्वः च। पलालिन तद्युक्ते त्रि०।

पलाश = न० पल–गतौ भावे घञर्थे क पलं गतिं कम्प्रनमश्नुते अश–व्याप्तौ अण् उप० स०। १ पत्त्रे अमरः पलं मांससवर्णं ब्रह्ममांसोत्पन्नत्वेन कारणतया तद्वा अश्नुते अश–व्याप्तौ अण् उप० स०। २ स्वनामख्याते वृक्षभेदे तस्योत्पत्तिः शत० ब्रा० १ ३। ४। ४ “मांसेभ्य एवास्य पलाशः समभवत्। तस्मात्स बहुरसो लोहितरसी लोहितमिव हि मांसंतेनैवैनं तद्रूपेण समर्धयन्तरे खादिरा भवन्ति बाह्ये पालाशा अन्तराणि ह्यस्थीनि बाह्यानि मांसानि स एवैनांस्तदायतने दधाति”। म च ब्रह्ममांसजत्वात् ब्रह्मरूपः यथोक्तं शत०ब्रा० ६६। ३७ “ब्रह्म वै पलाशः” इति “अश्वत्थरूपो भगवान् विष्णुरेव न मंशयः। रुद्ररूपो वटस्तद्वत् पलाशी ब्रह्मरूपदृक्” पह्योत्त १६० अ०। तत्पर्य्यायगुणादि भावप्र० उक्तं यथा “पलाशः किंशुकः षर्णो याज्ञिको रक्तपुष्पकः। क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समिद्वरः। पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित्। भग्नसन्धानकृद्दोषग्रहण्यर्शःकिमीन् हरेत्। तत्पुष्पं स्वादु पाके तु कटुतिक्तं कषायकम्। वातलं कफपित्तास्रकृच्छ्रजिद् ग्राह शीतलम्। तृड्दाहशमनं वातरक्तकुष्ठहरं परम्। फलं लवूष्णं मेहार्शःक्रिमिवातकफापहम्। विपाके कटुकं रूक्षं कुष्ठगुल्मोदरप्रणुत्”। “नवपलाशपलाशवनम्” माघः ३ स्त्रियां ४ शट्यां च स्त्री। पलं मांसमश्नाति अश–भोजये अण् उप० स०। ५ राक्षसे पुंस्त्री० मेदि० स्त्रियां जातित्वात् ङीष्। तस्य मांसभोजित्वात्तथात्वम्। ६ हरिद्वर्णे च ७ मगधदेशे पु० शब्दरत्ना० ८ लाक्षायां स्त्री राजनि० यौरा० ङीष्।

पलाशक = पु० पलाश + संज्ञायां कन्। १ शट्यां जटाधरः। स्वार्थे क। २ पलाशवृक्षे शब्दच०।

पलाशपर्णी = स्त्री पलाशस्येव पर्णमस्याः गोरा० ङीष्। अश्वगन्धायाम्।

पलाशाख्य = पु० पलाशं तत्पुष्पगन्धमाख्याति आ + ख्या क। नाडीहिङ्गौ राजनि०।

पलाशादि = पु० “पलाशादिभ्यो वा” पा० विकारे अञ्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा “पलाश खदिर शिंशपा स्पन्दन पुलाक करीर शिरीष यवास विकङ्कत” पलाशस्य विकारः पालाश इत्यादि।

पलाशान्ता = स्त्री पलाशानामन्तो गन्धवान् यस्याः। गन्धपत्रायाम् राजनि०।

पलाशिन् = पु० पलाशं विद्यतेऽस्य इनि। १ वृक्षे अमरः २ पत्रयुक्ते त्रि० स्त्रियां ङीप्।

पलाशिल = त्रि० पलाशस्यादूरदेशाधि काशा० इल। पलाशादसन्निकृष्टदेशादौ।

पलाशीय = त्रि० पलाशमस्त्यस्य उत्करा० छ। पत्त्रयुक्ते

पलिक = त्रि० पलं मानत्वेनास्त्यस्य ठन्। पजपरिमितद्रव्ये

पलिक्नी = स्त्री पलिता वृद्धा स्त्री “छन्दसि क्न वा ङीप्” पा० क्न ङीप्। १ श्वेतकेशायां वृद्धायां स्त्रियां यजु० ३० १५ लोके तु न। पलिता इत्येव। २ वालगर्भिण्यां स्त्रीगव्याम हेमच०।

पलिघ = पु० परिघवत्। “परेश्च थाङ्कयोः” पा० रस्य लः। १ काचघटे २ प्राकारे ३ गोगृरे च मेदि०। ४ परिघशब्दार्थे च।

पलित = न० पल–भावे क्त। १ केशादौ जरया जातायां श्वेततायाम् २ मांसादेर्वलिपरीतभावे च अमरः ३ वृद्धे त्रि० रित्वयां पलिता। वेदे तु पलिक्रीत्युक्तम्। ४ तापे ५ शिलाजे ६ कर्दमे मेदि०। “फलेरितजादेश्च पः” उणा० फल–इतच फस्य पः। ७ केशपाके उज्ज्वलद० “क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः। पित्तं च केशान् पचति पलितं तेन जायते” माधवकरः। ततः अर्श० अच्। ८ तद्युते त्रि०।

पलितङ्करण = न० अपलितं पलितं क्रियतेऽनेन–च्व्यर्थे ख्वुन् मुम्। अपलितस्य पलितताकरणसाधने।

पलितम्भविष्णु = त्रि० अपलितः पलितो भवति अभूततद्भावे भू–कर्त्तरि खिष्णुच् मुम्। अपलिते पलिततया भूते तदर्थे खुकञ्। पलितम्भावुक तत्रार्थे त्रि०।

पल्य = त्रि० पल + यत्। उत्तमे वर्चसा शब्देन समासे अच्समा०। पल्यवर्च्चस उत्तमतेजसि

पल्यङ्क = पु० परिगतोऽङ्कं रस्य लः। शय्यायाम् (पालङ्ग) अमरः

पल्ययन = न० परि + अय–करणे ल्युट् रस्य लः। (घोडार जिन्) पर्य्याणे हेमच०।

पल्युल = छेदने पूतौ च अद० चुरा० उभ० सक० सेट्। पल्युलयति ते अषपल्युलत् त।

पल्यूल = छेदने पवित्रताकरणे च अद० चुरा० उभ० सक० सेट्। पल्यूतयति ते अपपल्यूलत् त।

पल्ल = गतौ भ्वा० पर० सक० सेट्। पल्लति अपल्लीत् अपल्ल।

पल्ल = पु० पदं लाति ला–क पादस्थाने पत्। (पालुइ) (मराइ) ख्याते धाम्याधारभेदे मेदि०।

पल्लव = पु० न० अर्द्ध० पल्यते सम्प० क्विप् पलु लूयते लू–अप् कर्म०। १ अभिनवे पत्त्रस्तवके २ तद्युक्तशाखायां ३ विस्तारे ४ बले ५ अलक्तकराने ६ बलये मेदि० “पर्वपत्त्रादिसंघाते शाखायाः पल्लवो मतः” इत्युक्ते ७ शाखादेः पर्वपत्त्रसमुदाये च। ८ नवपत्त्रे मधुसूदनः ९ विटपे १० शृङ्गारे ११ चापले शब्दर०।

पल्लवक = पु० पल्लव इव कायति कै–क। १ मत्स्यभेदे २ वेश्यापतौ च हला० स्वार्थे क। ४ नवकिसलये पु० न० पल्लवेन कायति कं–क। ४ अशोकवृले राजनि०।

पल्लवद्रु = पु० पल्लवप्रधानो द्रुः शा० त०। अशोकवृक्षं राजनि०। पल्लवद्रमादयोऽप्यत्र।

पल्लवाङ्कर = पु० पल्लवस्याङ्कुरो यत्र। शाखायाम् हलाध०।

पल्लवाधार = पु० ६ त०। शास्वायां शब्दच०।

पल्लविक = त्रि० पल्लवः इव अस्त्यस्य ठन्। कामुके हेमच०

पल्लवित = त्रि० पल्लवं नूतनपत्त्रं विस्तारो वा जातः अस्य तार० इतच्। १ पल्लवयुक्ते २ विस्तारयुक्ते च पल्लव + आचारे क्विप् ततः क्त। ३ लाक्षारक्ते त्रि० मेदि०।

पल्लविन् = पु० पल्लव + अस्त्यर्थे इनि। वृक्षे शब्दच०।

पल्लि(ल्ली) = स्त्री पल्ल–इन् वा ङीप्। १ क्षुद्रग्रामे २ कुट्याम् ३ गेहे च। दीर्घान्तः ४ नगरभेदे राजनि०। पल्लं गृहमाश्रयत्वेनास्त्यस्याः अच् गौरा० ङीष्। ४ गृहगोधिकायाम् स्त्री हेमच०।

पल्लिबाहु = पु० पल्लिं क्षुद्रग्रामं वाहयति निर्वाहयति बहौण् उप० स०। तृणभेदे राजनि०।

पल्वल = न० पल–वल। क्षुद्रजलालये (डोवा) “अल्पं सरः पल्वलं स्याद्यत्र चन्द्रर्क्षगे रबौ। न तिष्ठति जलं काले तत्रत्यं वारि पाल्वलम्। पाल्वलं वार्य्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत्” भावप्र०। चन्द्रर्क्षमृ मृगशिरर्क्षम्।

पव = पु० पू–भावे अप्। १ निष्पावे शूर्पवायुना धान्यादेनिर्व्यूषकरणे शाल्यादेः शोधने अमरः कर्त्तरि अच्। २ वायौ शब्दच०।

पवन = न० पू–ल्युट्। १ निष्पावे शूर्पवातेन धान्यादेः शोधने आधारे ल्युट्। २ कुम्भकारस्य आमघटादिपाकस्थाने (पोयान) मेदि०। करणे ल्युट्। ३ जले शब्दमा० कर्त्तरि ल्यु। ४ वायौ पु० अमरः पवनाश्च आवहादयः सप्त अनिलशब्दे १६ ४ पृ० दर्शिताः। वत्सरभेदे तेषां क्रमेणैकेकवत्सराधिपतित्वम् तच्च ज्योतिस्तत्त्वे उक्तं यथा “शाकः शराब्धिसंगुण्यो मुनिभिर्भाग हारितः। आवहादिक्रमेणैव सप्त वाताः प्रकीर्त्तिताः” गुण्या शाकाङ्कः। गुण्यकः ४५ भाक्तकः ७ ५ प्रयते त्रि० शब्दर०। ६ विष्णौ पु० “पवनः पावनोऽनिलः” विष्णुसं०।

पवनतनय = पु० ६ त०। १ हनूमति २ भीमे च पवनसुतादयोऽप्यत्र।

पवनविजय = पु० पवनः श्वासवायुर्विजीयतेऽनेन। वि + जिकरणे अच्। देहस्थवायोः श्वासप्रश्वासगतिभेदेन शुभाशुभसूचके ग्रन्यभेदे तत्प्रकारो गरुडपु० उक्तो यथा

“कुजे वह्नी रविः पृथ्वी शौरिरापः प्रकीर्त्तिताः। वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः। गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः। वामनाड्यास्तु मध्यस्थान् कारयेदात्मनस्तषा। यदाचार इडागुक्तस्तदा कर्म समाचरेत्। स्थानसेवां तथा ध्यानं बाणिज्यं राज दर्शनम्। अन्यानि शुभकर्माणि कारयेत प्रयत्नतः। दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैहिकः। इनश्चैव तथाप्येवं पापानामुदयो भवेत्। शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात्। देहमध्ये स्थिता नाड्यो बहुरूपाः सुबिस्तराः। नाभेरधस्ताद्यः कन्दो अङ्कुरास्तत्र निर्गताः। द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः। चक्रवच्च स्थितास्तास्तु सर्वाः प्राणहराः स्मृताः। तासां तिस्रोमता श्रेष्ठा वामदक्षिणमध्यमाः। वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा। मध्यमा च भवेदग्निरूपिणी कालरूपिणी। वामा ह्यमृतरूपा च जगदाप्यायने स्थिता। दक्षिणा रौद्रभावेन जगच्छोषयते सदा। द्वयोर्वाहे तु मृत्युः स्यात् सर्वकार्य्यविनाशिनी। निर्गमे च भवेद्वामा प्रवेशे दक्षिणा स्मृता। कारयेत् क्रूरकर्माणि प्राणे पिङ्गल संस्थिते। इडाचारे तथा सौम्यं चन्द्र सूर्यगतस्तथा। यात्रार्या सर्वकार्य्येषु विषापहरणे इडा। भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका। उच्चाटमारणाद्येषु कर्मस्वेतेषु पिङ्गला। नैथुने चैव संग्रामे मोजने सिद्धिदायिका। शोभनेषु च कार्येषु यात्रायां विषकर्मणि। शान्तिमुक्त्यर्थसिद्धौ च इडायोज्या नराधिषैः। द्वाभ्याञ्चैव प्रवाहे च क्रूरसौम्यविवर्जने। विषुवतीन्तु जानीयात् संस्मरेत्तु विचक्षणः। सौम्येषु शुभकार्येषु लाभादिजयजीविते। गमनागमने चैव वामा सर्वत्र पूजिता। युद्धादिभोजने घाते स्त्रीणाञ्चैव तु सङ्गमे। प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि। शुभाशुभानि कार्य्याणि लाभालाभौ जयाजयौ। जीवाजीवाय यत् पृच्छेन्न सिध्यति च मध्यमा। वामाचारेऽथ वा दक्षे प्रत्यये यत्र नायकः। तत्रस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः। वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि। तत्र भागे स्थितः पृच्छेत् सिद्धिर्भवति निष्कला। वामे वा दक्षिणे बापि यत्र संक्रमते सिरा। धोरे घोराणि कर्माणि सौम्ये वै मध्यमानि च। प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्ववाहिनि। तदा मृत्युं विजानीयात् योगी योगविशारदः। यत्र यत्र स्थितः पृच्छेद्वाम ष्टक्षिणसम्मुखः। तत्र तत्र समं दिश्याद्वातस्योदयनं तदा। अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा। द्वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा। जीवो जीवति जीवेन यच्छून्यं तत्स्वरी भवेत्। यत्किञ्चित् कार्य्यमुद्दिष्टं जयादि शुभलक्षणम्। तत्सर्वं पूर्णनाड्यान्तु जायते निर्विकल्पकम्। अन्यनाड्यादिपर्य्यन्तं पक्षत्रयमुदाहृतम्। यावत् षष्ठीं तु पृच्छायां पूर्णायां प्रथमं जयेत्। रिक्तायान्तु द्वितीयन्तु कथयेत्तदशङ्कितः। वामाचारः समं वायुर्जायते कर्मसिद्धिदः। प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम्। अन्यत्र वामवाहे नु नाम वै विषमाक्षरम्। तदासौ जयमाप्नोति योधः संग्राममध्यतः। दक्षवातप्रवाहे तु यदि नाम समाक्षरम्। जायते नात्र सन्देहो नाडीमध्ये तु लक्षयेत्। पिङ्गलान्तर्गते प्राणे समानीयाहवञ्जयेत्। यावन्नाड्युदयं चारस्तां दिशं यावदाजयेत्। न जातु जयते सोऽपि नात्र कार्य्या विचारणा। अथ संग्राममध्ये तु यत्र नाडी सदा वहेत्। सा दिशा जयभाप्नोति शून्ये भङ्गं विनिर्दिशेत्। जातस्वरे जयं विद्यान्मृतके मृतिमादिशेत्। जयं पराजयञ्चैव योजानाति स पण्डितः। वामे वा दक्षिने वापि यत्र सञ्चरते सिरा। कृत्वा तत् पदमादौ तु यात्रां नयति शोभनाम्। शशिसूर्यप्रवाहे नु सति युद्धं समाचरेत्। तत्रस्थः पृच्छते यस्तु स साधुर्जयते ध्रुवम्। यां दिगं वहते वायुस्तां दिशं यावदाजयेत्। जयते नात्र सन्देह इन्द्रो यदग्रतः स्थितः। मेषाद्या दश या नाड्यो दक्षिणा वामसंस्थिताः। चरस्थिरद्विमार्गे तास्तादृशे तादृशः क्रमात्। निर्गमे निर्गमं याति संग्रहे संग्रहं बिदुः। पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत्। वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे!। ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्संस्थः प्रभञ्जनः। मध्ये तु पृथिवी ज्ञेया नभः सर्वत्र सर्वदा। ऊर्द्ध्वे मृत्युरधः शान्तिस्तिर्य्यक् चोद्घाटयेत् सुधीः। मध्ये ह्यस्तं विजानीयान् मोक्षः सर्वत्र सर्वगे”।

पवनव्याधि = पु० पवनः वातरोनभेदो व्याधिरस्य। उद्धवे यादवक्षत्त्रियभेदे त्रिका०।

पवनात्मज = पु० ६ त०। १ हनुभति २ भीमे १ वह्नौ च “वायोरग्निः” इति श्रुतेस्तस्य वायुजातत्वात्तत्सुतत्वम्। षवनप्रभवादयोऽप्यत्र।

पवनाल = पु० पवनायालति पर्य्याप्नोति अल–पर्य्याप्तौं अच् ४ त०। (देधान) धान्थभेदे पवनालो हिमः स्वादुलोहितः श्लेष्मपित्तजित्। अवृष्यस्तुवरो रूक्षः क्लेदकृत कथितो लघुः” भावप्र०।

पवनाश = पुंस्त्री० पवनमश्नाति अश–अण् उप० स०। १ सर्पे स्त्रियां जातित्वात् ङीष्। २ वायुभक्षके त्रि० हला०।

पवनाशनाश = पु० पवनः अशनमस्य पवनाशनं सर्पमश्नाति अशअण्। १ गरुडे २ मयूरे हला० स्त्रियां जातित्वात् ङीष्।

पवनेश्वर = न० पवनेन स्थापित ईश्वरः ईश्वरलिङ्गम्। काशीस्थे शिवलिङ्गभेदे काशीख० १३ अ०।

पवनेष्ट = पु० पवने पवनवृद्धौ इष्टः। महानिम्बे रत्नमा०।

पवनोम्बुज = न० पवनं पवित्रमम्बुजमिव पृषो०। परूषफले शब्दच० पवनाम्बुजमित्येव तत्र पाठः साधुः।

पवमान = पु० पू–ताच्छील्ये चानश्। १ वायौ अमरः ३ गार्हपत्येऽग्नौ “अथ यः पवमानस्तु निर्मख्योऽग्निः स उच्यते। स च वै गार्हपत्योग्निः प्रथमो ब्रह्मणः सुतः” मत्स्यपु० ७८ अ०। ३ सोमे च तदधिकृत्य प्रवृत्तं सूक्तम् अण। पावमान सोमदेवताके सूक्तभेदे तानि च सूक्तानि ऋ० ९ १ सूक्तावधि षट्षटिसूक्तात्मकानि स्वादिष्ठयेत्यादि कानि हिन्वन्तीत्याद्यन्तानि।

पवमानात्मज = पु० ६ त०। वह्निभेदे “पवमानात्मजो वह्नि र्हव्यवाहन उच्यते” मत्स्यपु० ४८ अ०। तस्य “वायोरग्निः” इति श्रुतेर्वायुजत्वात्तथात्वम्।

पवष्टुरिक = पु० ऋषिभेदे तस्यापत्यम् शुभ्रा० ढक्। पावष्टुरिकेय तदपत्ये पुंस्त्री०।

पवाका = स्त्री पू–आक। वात्यायाम् उज्वलदतः।

पवि = पु० पू–शोधे इ। १ वज्रे अमरः २ वाचि स्त्री निघण्टुः।

पवित = त्रि० पूङ् शोधे “पूङश्च” पा० वा इट्। “पूङः क्त्वाच” पा० न कित्त्वम्। १ पवित्रे २ मरिचे न० राजनि०।

पवित्र = पु० न० पूयते आज्यमनेन पू–करणे इत्र। १ आज्यसंस्कारके २ कुशद्वये उत्पवनशब्दे तल्लक्षणं ११२३ पृ० दर्शितम् “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च। प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्” कर्मप्र०। २ अनामिकावेष्टने पवित्रतासाधके द्रव्ये च ३ यज्ञोपवीते त्रिका० पवित्रारोपणशब्दे दृश्यम्। ४ विष्णौ “पवित्रं मङ्गलं परम्” विष्णुसं०। ५ वर्षणे ६ ताम्रे ७ पयसि न० मेदि०। ८ वर्षणे न० विश्वः ९ अर्ध्योपकरणे हेमच०। १० घृते ११ मधुनि च राजनि०। १२ तिलवृक्षे १ ३ पुत्रजीववृक्षे पु० राजनि० १ ४ व्रतशौचादिना १५ शुद्धे त्रि० अमरः। १६ तुलस्यां स्त्री शब्दमा० १७ नदीभेदे हेमच० १८ हरिद्रायाम् १८ अश्वत्थीवृक्षे च स्त्री राजनि०।

पवित्रक = पु० पवित्रमिव कायति कै–क स्वार्थे क, संज्ञायां कन् श्चा। १ पवित्रशब्दार्थे २ अश्वत्थवृक्षे ३ उदुम्बरवृक्षे ४ कुशे ५ दमनकवृक्षे राजनि० ६ शणमूत्रनिर्मिते जाले मत्स्यधारणसाधने द्रव्यभेदे न० अमरः।

पवित्रधान्य = न० नित्यकर्म०। यवे राजनि०।

पवित्रारीप(ह)ण = न० ६ त०। विष्णुप्रभृतिदेवसम्प्रदाबवे यज्ञोपवीतदाने देवभेदेन तिथिभेदादौ तद्दानप्रकारश्च हेमा० व्र० विष्णुरहस्ये उक्तो यथा

“तस्माद्भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः। वर्षे वर्षे प्रकर्त्तव्यं परित्रारोपणं हरेः। श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे। द्वादश्यां वासुदेवस्य पवित्रारोपणं स्मृतम्। सिंहस्थे वा रवौ कार्य्यं कन्थायान्तु गतेऽथ वा। तस्यामेव तिथौ सम्यक् तुलास्थे न कथञ्चन। विष्णोरुद्रस्य सूर्य्यस्य विरिञ्चेः षण्मुखस्य च। देव्यागणाधिनाथस्य मातॄणां धनदस्य च। पवित्रारोपणं कार्य्यमन्येषाञ्च यथाविधि। अकृत्वा फलहानिः स्यात् संवत्सरकृतार्चनात्। सर्वेषान्तु महत् पुण्यं पवित्रारोपणे कृते। तिथयस्तत्त्वविन्यासाः पृथगुक्तास्तपीधन!। प्रतिपद्वनदस्योक्ता पवित्रारोपणे तिथिः। श्रिया देव्या द्वितीया तु तिथीनामुत्तमा तिथिः। तृतीया तु भवान्यास्तु चतुर्थी तत्सुतस्य तु। पञ्चमी नागराजस्य षष्ठी प्रोक्ता गुहस्य च। सप्तमी भास्करे प्रोक्ता दुर्गायाश्चाष्टमी स्मृता। मातॄणां नवमी प्रोक्ता दशमी वासुकेः स्मृता। एकादशी ऋषीणान्तु द्वादशी चक्रपाणिनः। त्रयोदशी ह्यनङ्गस्य शिवस्योक्ता चतुर्दशी। मम देवमुनिश्रेष्ठ! पौर्णमासी तिथिः स्मृता। यथोक्ताः शुक्लपक्षे तु तिथयः श्रावणस्य च। सर्वेषामेव देवानां तथा कार्य्यं यथाविधि। प्रथमं दर्भसूत्रन्तु पद्मसूत्रं ततःपरम्। ततः क्षौमं सुपुण्यं स्यात् पट्टसूत्रं ततः परम्। शुचि कार्पाससूत्रेण निर्मितं वा शुभाशुमम्। शुचिर्भूत्वा शुचौ देशे कारयीत प्रयत्नतः। तद्विधानोपयुक्तन्तु यथोक्तफलदायकम्। कन्था कर्त्तयते सूत्रं नारी वाथ पतिव्रता। विधवा साधुशीला वा सूत्रमेतत्तु कर्त्तयेत्। केशयुक्तं क्षतं दग्धं मद्यरक्तादिदूषितम्। मलिनं नीलरक्तं वा प्रयत्नेन विवर्जयेत्। यथोक्तं सूत्रमादाय त्रिगुणं त्रिः प्रयोजयेत्। पवित्रं तेन कुर्वीत कनिष्ठोत्तममध्यमम्। कनिष्ठं तन्तुमिर्ज्ञेयं सप्तविंशतिमिः शुभम्। मर्त्त्यलोके तु तत्कीर्त्तिसुखायुर्द्धनपुत्रदम। चतुःपञ्चाशता ज्ञेयं तन्त नां मध्यमं परम्। दिव्यभोगावहं पुण्यं स्वर्गाबाससुखप्रदम्। उत्तमं चैव तन्तूनां शतमष्टोत्तरं शतम्। दत्त्वा तद्वासदेवाय विष्णुलोकं भजेन्नरः। अष्टोत्तरसहस्रं तु तन्तूनां परिसंख्यया। वनमाला स्मृता विष्णोर्दत्ता भक्तिप्रदा हि सा। कनिष्ठं नाभिमात्रं स्यादूरुमात्रन्तु मध्यमम्। पवित्रं चीत्तमं प्रोक्तं जामुमात्रं प्रमाणतः। वनमाला प्रमाणेन प्रतिमायाः प्रणीयते। नराणां जन्मससार दुःखमृत्युप्रणाशिनी। कनिष्ठे द्वादशैवोक्ता मध्यमे द्विगुणाः स्मृताः। त्रिगुणास्तूत्तमे प्रोक्ता ग्रन्थयस्तु पवित्रके। शतमष्टोत्तरं कार्य्यं ग्रन्थीनां तु विधाजतः। मुनीन्द। वनमालायां विष्ण्पूजनतत्पर!। अधिवासनसूत्रे तु ग्रन्थयो द्वादश मृताः। तत्त्वन्यास विधानं तु श्रूयतां गुह्यकोत्तम”। इत्युपक्रमे तत्त्वन्यास स्तत उक्तः “पवित्रं तेन विख्यातं ब्रह्मतेजो हि गीयते। विष्ण्वाख्यया तु विख्यातं तदा लोके निगद्यते। तदेव सूत्ररूपेण यज्ञेशः कर्मणः प्रभुः। तदेव त्रिगुणीभूतं नारायणसमाख्यया। त्रिवेदात्मा त्रिदेवात्मा त्र्यक्षरः प्रणवः स्मृतः। ते पर्वतात्समुद्भूता वराहार्द्धाङ्गमाश्रिताः। संघातेन च तन्तूनां नवात्मा परिकीर्त्तितः। तन्तूनां प्रथमो देवो वासुदेवो जगद्गुरुः। हलायुधो द्वितीयस्तु प्रद्युम्नश्च तृतीयकः। अपरे त्वनिरुद्धस्तु ततो नारायणः प्रमुः। ब्रह्माविष्णुत्वथा नॄणां वरारोहे समाश्रिताः। अधिदैवेन रूपेण अध्यात्म्ये च निबोध मे। मनोबुद्धिरहङ्कारस्तन्मात्राणि तथैव च। जीवश्चेति नवैतच्च अध्यात्म्येसुव्यवस्थितम्। द्यौरन्तरिक्षं पृथिवी भूर्भुवःस्वस्तथैव च। अकारश्चाप्युकारश्च मकारश्चाधिभूतकम्। अग्नित्रयं तथा कर्म त्रयञ्च सदनत्रयम्। ज्ञेयं पवित्रे तद्विद्वानधिदैवमुदाहरेत्”। शिवपवित्रलक्षणम् “एकादशाथ वा सूत्रैस्त्रिंशता वाष्टयुक्तया। पञ्चशता वा कर्त्तव्यं तुल्यग्रन्थ्यन्तराजकम्। द्वादशाङ्गुलमानानि व्यायामाष्टाङ्गुलानि च। लिङ्गविस्तारमानानि चतुरङ्गष्ठिकानि वा। तथैव पिण्डिकास्पर्शे चतुर्थं सार्वदैवतम्। साङ्गावतारकं कार्य्यं पवित्रमतिसुन्दरम्”। पवित्रारोहणमप्यत्र “आषाढशुक्लपक्षस्य याष्टमी श्रावणस्य च। पवित्रारोहण कुर्य्यात् दवप्रीतिकरं परम्” कालिकापु० ५८ अ०।

पविन्द = पु० ऋषिभेदे तण गोत्रापत्यम अशा० फञ्। पाविन्दायन तद्गोत्रापत्ये पुंस्त्री०।

पवीतृ = त्रि० पू–तृच् वेदे इटो दीर्घः। शोधके म० ९४४

पवीनस = पु० गर्भोपद्रावके असुरभेदे अय० ८६२

पवीर = न० १ आयुधे “षविः शल्यी भवति तद्विपुनातिकायं तद्वत् पवीरमायुधम्” निस० १२ ३०। पवि + स्वार्थे ईर। ३ वज्रे ऋ० १० ६० ३ “पविर्धारास्यास्ति र पूर्वाणो दीर्घः। ३ फाले यजु० १२ ७१ वेददी०।

पवीरव = पु० पवे रव वेदे दीर्घः। वज्रशब्दे ऋ० ११७४४ भा०

पव्य = त्रि० पू–ण्यत्। १ शोध्ये २ यज्ञपात्रादौ च ऋ० ९८६३४ तत्र “पव्यया पात्राणि” भा० शसःस्थाने याट्।

पश(ष–स) = बाधे विहतौ भ्वा० उभ०० सक० सेट्। पश(ष)(स)ति ते अपशी(षो)(सी)त् अपाशी(षी)(सी)त् अपशि(षि)(सि)ष्ट। पपाश(ष)(स)पेशे(षे)(से)। दन्त्यान्त्यस्यैव अभ्यासस्य सम्” यङ्यङ्लुकोः सि० कौ० पम्पस्यति–पम्पसीति। तालव्यान्त्यस्य तथेत्यन्ये।

पश(ष स) = स्पर्शे, गतौ अनुपसर्गात् षन्धे वाधे च अद० चु० उभ० सक० सेट्। पश(ष)(स)यति ते अपपश(ष)(स)त् त।

पश(ष–स) = बन्धे चुरा० उभ० सक० सेट्। पाश(ष)सयति ते अपीपश(ष)(स) त।

पशव्य = त्रि० पशवे हितम् तस्येदं बा यत्। १ पशुहिते याज्ञ १। ३२० श्लो० २ पशुतस्वन्धिनि च।

पशु = पु० सर्वमविशेषेण पश्यति दृश–कु पशादेशः। मृगादौ लोमवल्लाङ्गूलवति १ जन्तुभेदे २ दर्शनार्थेऽव्ययम् अमरः। २ प्रमथे ४ देवे ५ पाणिमात्रे शब्दर० ६ छागे “अनादेशे पशुश्छागः” मीमांस०। ७ यज्ञभेदे धरणिः तस्व पशुसाधात्वात् तथात्वम्। “न तौ पशौ करोति “श्रुतौ पशुः पशुसाध्या यागः। ७ यज्ञोडुम्बरे शब्दच०। ८ तन्घोक्ते साधकानां भावभेदे तत्र जन्तुभेदानां ग्रामारण्यभेदा यथा

“गोरविरजोऽश्वोऽश्वतरो गर्दभो मनुष्यश्चेति सप्त णाम्याः पशवः। महिषवानर षाक्षसरोस्वपरुरु पृषत मृगाश्चेति सप्तारण्याः पशवः” दुर्गोत्सवत०। छागादौ पशुपदप्रयोगमाह यज्ञपार्श्वः “उष्ट्रो वा यदि वा मेषश्छागो वा यदि वा हयः। पशुस्थाने नियक्तानां पशुशब्दोऽभिधीयते”। पश्वधिष्टातृदेवताभेदा यथा “सिहे वसति दुर्गा च शरभे च प्रजापतिः। एणे च वसते वायुर्मेषे चैव च चन्द्रमाः। नक्षत्राणि च शशके कृष्णसारे हरिः स्वयम्। शतक्रतुर्गवां पृष्ठे गवये भुवनानि च। शल्लके मङ्गलान्यष्टौ गजे विष्णुर्गणेश्वरः। षश्वे तु द्वादशादित्या ब्राह्मणे सर्वदेवताः। ब्रह्मा तु चमरे चैव छागले तु तयाऽनलः। एतस्मात् कारणादेते पूज्या बद्याः प्रयत्रतः” इति मतस्पसूक्त- तन्त्रे ३९ पटले। बल्यर्थपशुचक्षणादि यथा “निवेदयेत् शोणगण्डम् मानुषं वा लुलाषकम्। वराहं वाथ छूगलं चमरं षाऽरुणन्तथ। मेषञ्चाथ वराहञ्च गोधिकाञ्च निवेदयेत्” मत्स्यसूक्ते “लुलापञ्च तथा खड्गं चमरञ्च वराहकम्। कच्छपं शल्लकीं गोधां मानुषं तदनन्तरम्। न दद्याद्ब्राह्मणो मद्यं मानुषञ्च तथा रुरुम्। त्रैपक्षिकान् विबर्णान्न मानुषान्न कपीनपि। सवत्रात् परं छागं यावत् स्यात्तु त्रिहायणम्। वराहदन्तसदृशविशाणाभ्यां सुशोभनम्। मदगन्धसमायुक्तं रोमराजिविराजितम्। कृष्णं बाऽरुणकञ्चैव तृप्तौ द्वादशवार्षिकम्”। जातिभेदे वर्णविशेषमाह तत्रैव “श्वेतञ्च छागलञ्चैव ब्राह्मणस्य विशिष्यते। रक्तं श्वेतं क्षत्रियस्य वैश्यस्य गौरमेव च। नानावर्णं हि शूद्रस्य सवषामञ्जनप्रभम्” योगिनीतन्त्रे “पशूमाञ्चैव षण्मासात् परतश्च वलिर्भवेत्। छागलः कष्णः श्वेतो वा द्विवर्षात् परतो यदि। “तथा चाश्वं मृगञ्चैव छागञ्च षार्वतीयकम्। मूषिकञ्च करालञ्च चद्रमार्जारमेव च”। सद्रयामले उत्तरख० ६ प० षशुभावलक्षणं यथा

“पशुभावस्थितां नाष! देवतां शृणु विस्तरात्। टुर्णपूजां विष्णुपूजा शिवपूजाश्च नित्यशः। अवश्यं हि यः करोति स पशुरुत्तमः स्मृतः। केवलं शिवपूजाञ्च यः करोति च स साधकः। पशूनां मध्यमः श्रीमान् शिवया सह चोत्तमः। केवलं वैष्णवो धीरः पशूला सध्यमः स्यृतः। भूतानां देवतानाञ्च सेवां कुर्वन्ति ये सदा। पशूनामधमाः प्रोक्ता नरकस्था न संशयः। त्वत्सेवां मम सेवाञ्च ब्रह्मविष्ण्वादिसेवनम्। कृत्वान्य सर्वभूतानां नायिकानां महाप्रभो!। यक्षिणीनां भूतिनीनां ततः सेवां शुभप्रदाम्। यः पशुर्ब्रह्मकृष्णादिसेवाञ्च कुरुते सदा। तथा श्रीतारकव्रह्मसेवां ये वा नरोत्तमाः। तेषामसाध्यभूतादिदेवताः सर्वकामदाः। वर्जयेत् पशुमार्गेण विष्णुपूजापरोजनः” द्वितीयपटले। “नित्यं श्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम्। देवता दर्शनं पीठदर्शनं तीर्थदर्शनम्। गुरोराज्ञापालनञ्च देवतानित्यपूजनम्। पशुभावस्थितो मर्त्त्यो महासिद्धिं लभेद्ध्रुवम्”। यज्ञियपशुलक्षणं च आ० गृ० ४ ९ १ सूत्रादौ दृश्यः। ९ शैवागमपसिद्धे जीवात्मनि पशुपतिशब्दे दृश्यम्। १० अग्नौ पतिष्टिशब्द दृश्यम्।

पशुकल्प = पु० पशोः यज्ञाङ्गपशोः कल्पोविधानम्। “अथ पशुकल्पः” आ० गृ० १ ११ १ सूत्रादौ विहिते पशूपाकरणादिसंस्कारादिकर्सणि।

पशुगायत्री = ६ त०। पशोः कर्णे जप्यमन्त्रमेदे म च “पशुपाशाय विद्महे विश्वकर्मणे धीमहि। तन्नो जीवः प्रचोद यात्” इत्येवं रूपः।

पशुचर्य्या = स्त्री पशोरिव चर्य्याचारः। पशोरिव निर्लज्जाचारे भाग० ५ २६ २३।

पशुतन्त्र = न० पशूनां तन्त्रम्। १ अनेकोद्देशेन एकजातीयैक पशुग्रहणे आश्व० श्रौ० ३ ६ १७ पशोस्तन्त्रम्। २ पश्वधीने व। कात्या० श्रौ० ५१११९। ३ पशुकल्पे च।

पशुद = त्रि० पशुं ददाति दा–क। १ पशुदातरि २ कुमारानुचरमातृभेदे स्त्री भा० श० ४७ अ०।

पशुदेवता = स्त्री पश्वधिष्ठास्त्री देवता पशुसम्प्रदानं देवता वा। १ पश्वधिष्टात्र्यां देवतायाम्। पशुभेदे देवताभेदाव पशुशब्दे दर्शिताः। २ पशुसम्प्रदाने देवताभेदे च।

पशुधर्म्म = पु० पशूनामिव यथेष्टमैथुनादिरूपो धर्मः। यथेष्टमैथुनादिसम्पादके पशुतुल्यधर्से मनुः ९ ६६ श्लो०।

पशुनाथ = पु० ६ त०। १ शिबे हेमच० ३ पशुस्वामिनि च।

पशुप = त्रि० पशून् पाति–क। १ षशुपालके २ पशूनां पत्यौ च।

पशुपति = पु० पशूनां जीवानां पतिः। १ महेश्वरे शिवे १ पशुस्वामिनि। यजुर्बेदीयकर्सकाण्डपद्धतिकारके हलायुध सहोदरे ३ पण्डितभेदे च। शिवस्य तन्नामनिरुक्तिर्यथा “अयञ्च सर्वविद्याना पतिराद्यः सनातनः। अहं वै पतितो येन पशुमध्ये (जीवमध्ये) व्यवस्थितः। अतः पशुपतिर्नाम त्वं लीके ख्यातिमेध्यसि” वराहपु०। पशुपतिनोपदिष्टम् अण्। पाशुपत शैत्रागमभेदे तत्र प्रतिपाद्यविषयाश्च सर्वदर्शनसंग्रहे नकुलीशमतप्रदर्शनानन्तरं दर्शिता यथा “तमिसं परमेश्वरः कर्सादिनिरपेक्षः कारणमिति पक्षं वैषम्यनैर्घृ ण्यदोषदूषितत्वात् प्रतिक्षिपन्तः के अन माहेश्वराः शैवागमसिद्धान्ततत्त्वं यथावदीक्षमाणाः कर्मादिसापेक्षः परमेश्वरः कारणमिति पक्षं कक्षीकुर्वाणाः प्रक्षान्तरमुपक्षिपन्ति। तत्र पशुपतिपाशभेदात् त्रयः पदार्था इति। तदुक्तं तन्त्रतत्त्वज्ञैः “त्रिपदार्थं चतुष्पादं महामन्त्रं जगद्गुरुः। सूत्रेणैकेन संक्षिप्य प्राह विस्तरतः पुनः” इति अस्यार्थः त्रयः पशुपतिपाशाः पदार्था यस्मिन् सन्ति तत्त्रिपदाथ विद्याक्रियायोगचर्य्याख्याश्चत्वारः पादा यणिन् तच्चुतुश्चरणं महामन्त्रमिति। तत्र पशूनामस्वतन्त्रत्वात पाशानामचैतन्यात् तद्विलक्षणस्य पत्युः प्रथममुद्देशः। चेतनत्वसाधर्म्यात् पशूनां तदानन्तर्य्यम्। अवशिष्टानां पाशानामन्ते विनिवेश इति क्रमनियमः। दीक्षायाः परमपुरुषार्थहेतुत्वात्तस्याश्च पशुपाशेश्वरस्वरूपनिर्णयोपाय भूतेन मन्त्रमन्त्रेश्वरादिमाहात्म्यनिश्चायकेन ज्ञानेन पिना निष्पादयितुमशक्यत्वात् तदवबोधकस्य विद्यापादस्य प्राथम्यम्। अनेकविधसाङ्गदीक्षाविधिप्रदर्शकस्य क्रियापादस्य तदनन्तर्य्यम्। योगेन विना नाभिमतप्राप्तिरिति साङ्गयोगज्ञापकस्य योगपादस्य तदुत्तरत्वम्। विहिताचरणनिषिद्धवर्जनरूपां चर्य्यां विना योगोऽपि न निर्वहतीति तत्पतिपादकस्य चर्य्यापादस्य चरमत्वमिति विवेकः। तत्र पतिपदार्थः शिवोऽभिमतः। मुक्तात्मनां विद्येश्वरादीनाञ्च यद्यपि शिवत्वमस्ति तथापि परमेश्वरपारतन्त्र्यात् स्वातन्त्र्यं नास्ति। ततश्च तदुपकरणभुवनादीनां भावानां सन्निवेशविशिष्टत्वेन कार्य्यत्वमवगम्यते। तेन च कार्य्यत्वेनैर्षा बुद्धिमत्पूर्वकत्वमनुमीयत इत्यनुमानवशात् परमेश्वरप्रसिद्धिरुपपद्यते। ननु देहस्यैव तावत्कार्यत्वमसिद्धं म हि क्वचित् केन चित् कदाचित् देहः क्रियमाणो दृष्टचरः। सत्यं तथापि न केनचित् क्रियमाणत्वं देहस्य दृष्टमिति कर्भृदर्शनापह्नवो न युज्यते तस्यानुमेयत्वेनाप्युपपत्तेः। देहादिकं कार्य्यं भवितुमर्हति सन्निवेशविशिष्टत्वात् विनश्वरत्वाद्वा घटादिवत् तेन च कार्य्यत्वेन बुद्धिमत्पूर्वकत्वमनुमातुं सुकरमेव। विमतं सकर्तृकं कार्य्यत्वात् घटवत् यदुक्तसाधनं तदुक्तसाध्यं न यदेवं न तदेवं यथात्मादि। परमेश्वरानुमानप्रामाण्यसाधनानुमानमन्यत्राकारीत्युपरम्यते “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरष्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा” इति न्यावेन प्राणिकृतकर्मापेक्षया परमेश्वरस्य कर्तृत्वोपपत्तेः। न च स्वातन्त्र्यविहतिरिति वाच्यं करणापेक्षया कर्तुः स्वातन्त्र्यविहितेरनुपलम्भात् कोषाध्यक्षापेक्षस्य राज्ञः प्रसादादिना दानवत् यथोक्तं सिद्धगुरुभिः “स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता। कर्तुः स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षया” इति। तथा च तत्तत्कर्माशयबशाद्भोगतत्साधनतदुपादानादिविशेषज्ञः। ततश्च कर्त्ता अनुमानादिसिद्ध इति सिद्धम्। तदिदमुक्तं तत्रमवद्भिर्वृहस्पतिभिः “इह भोग्यगोगसाधनतदुपादानाद्दि यो विजानाति। तमृतेमूतन्नहीदं पुंस्कर्मा शय- विपाकज्ञमिति”। अन्यत्रापि “विवादाध्यासितं सर्वं बुद्धिमत्पूर्वकर्तृकम्। कार्य्यत्वादावयोः सिद्धं कार्य्यं कुम्भादिकं यथा” इति सर्वात्मकत्वादेवास्य सर्वज्ञत्वं सिद्धम् अज्ञस्य करणासम्भवात्। उक्तञ्च श्रीमन्मृगेन्द्रैः “सर्वज्ञः सर्वकर्तृत्वात् साधनाङ्गफलैः सह। यो यज्जानाति कुरुते स तदेवेति सुस्थितम्” इति। अस्तु तर्हि स्वतन्त्र इश्वरः कर्त्ता न तु तावदशरीरः घटादिकार्य्यस्य शरीरवता कुलालादिना क्रियमाणत्वदर्शनात् शरीरवत्त्वे चास्मादादिवदीश्वरः क्लेशयुक्तीऽसर्वज्ञः परिमितशक्तिं प्राप्नुयादिति चेन्मैवं मंस्थाः अशरीरस्याप्यात्मनः स्वशरीरस्पन्दादौ कर्तृत्वदर्शनादभ्युपगम्यापि ब्रूमहे शरीरवत्त्वेऽपि भगवतो न प्रागुक्तदोषानुषङ्गः। परमेश्वरस्य हि मलकर्मादिपाशजालासम्भवेन प्राकृतं शरीरं न भवति किन्तु शाक्तं शक्तिरूपैरीशानादिभिः पञ्चभिर्मन्त्रैर्मस्तकादिकल्पनायामीशानमस्तकस्तत्पुरुषवक्त्रोऽघोरहृदयोबामदेवगुह्यः सद्योजातपादः ईश्वर इति प्रसिद्ध्या यथाक्रमानुग्रहतिरोभावादानलक्षणस्थितिलक्षणोद्भवलक्षणकृत्यपञ्चककारणं स्वेच्छानिमितं तच्छरीरं न चा{??}च्छरीरसदृशम्। तदुक्तं श्रीन्मृगेन्द्रे “मलाद्यसम्भवाच्छक्तं वपुर्नैतादृशं प्रभोः” इति। अन्थवापि “तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयो गिभिः। ईश तत्पुरुषाघोरवामाद्यैर्मस्तकादिमत्” इति। ननु पञ्चवक्त्रस्त्रिपञ्चदृगित्यादिना आगमेषु परमेश्वरस्य मुख्यत एव शरीरेन्द्रियादियोगः श्रूयत इति चेत्सत्यं निराकारे ध्यानपूजाद्यसम्भवेन भक्तानुग्रहकरणाय तत्तदा कारग्रहणाविरोधात्। तदुक्त श्रीमत्पौष्करे “साधकस्य तु रक्षार्थं तस्य रूपमिदं स्मृतम्” इति अन्थत्रापि “आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैति बुद्धिः” इति। कृत्यपञ्चकं च प्रपञ्चितं भोजराजेन “वञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावाः। तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य” इति। एतच्च कृत्यपञ्चकं शुद्धाध्वविषये साक्षाच्छिवकर्तृकं कृच्छ्राध्वविषये त्वनन्तादिद्वारेणेति विवेकः। तदुक्तं श्रीमत्करणे “शुद्धेऽध्वनि शिवः कर्त्ता प्रोक्तोऽनन्तोहितो प्रभोः” इति। एवञ्च शिवशब्देन शिवत्वयोगिनां मन्त्रेश्वरमहेश्वरमुक्तात्मशिबानां सवाचकानां शिवत्वप्राप्तिसाधनेन दोक्षादिनोपायकलापन सह षतिपदार्थेन संग्रहः कृत इति बोद्धव्यम्। तदित्यं पतिपदार्थो निरूपितः। सम्प्रति पशुपदार्थो निरूप्यते। अणुक्षेत्रज्ञादिपदवेदनीयो जीवात्मा पशुः न तु चार्वाकादिवद्देहादिरूपः “नान्यदृष्टं स्मरत्यन्यः” इति न्यायेन प्रतिसन्धानानुपपत्तेः। नापि नैयायिकादिवत् प्रकाश्यः अनवस्थाप्रसङ्गात्। तदुक्तम् “आत्मा यदि भवेन्मेयस्तस्य माता भवेत् परः। पर आत्मा तदानीं स्यात् स परो यदि दृश्यते” इति। न च जैनवदव्यापकः नापि बौद्धवत् क्षणिक देशकालाम्यामनवच्छिन्नत्वात्। तदुक्तम् “अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः। तन्नित्यं बिभु चेच्छन्तीत्यात्मनी विभुनित्यता” इति। बाप्यद्वैतवादिनामिवैकः, भोगप्रतिनियमस्य पुरुषबहुत्वज्ञापकस्य सम्भवात्। नापि साङ्ख्यानामिवाकर्त्ता पाशजालापोहने नित्यनिरतिशयदृक्क्रियादिरूपचैतन्यात्मकशिवत्वश्रवणात्। तदुक्तं “पाशान्ते शिवताश्रुतेः” इति “चैनन्य दृक्क्रियारूपं तदस्यात्मनि सर्बदा। सर्वतश्च यता मुक्तौ श्रूयते सर्वतो मुखम्” तत्त्वप्रकाशेऽपि “मुक्तात्मानोऽपि शिवाः किञ्चैते सत्प्रसादतो मुक्ताः। सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः” इति। पशुस्त्रिविधः विज्ञानाकलप्रलयाकलसकलभेदात् तत्र प्रथमो विज्ञानयोगसन्न्यासैर्भोगेन वा कर्मक्षये सति कर्मक्षयार्थस्य कलादिभोगबन्धस्याभावात् केवलमलमात्रयुक्तो विज्ञानाकल इति व्यवदिश्यते। द्वितीयस्तु प्रलयेन कलादेरुपसंहारात् मलकर्मयुक्तः प्रलयाकल इति व्यवह्रियते। तृतीयस्तु मलमायाकर्मात्मकवन्धत्रयसहितः सकल इति संलप्यते। तत्र प्रथमो द्विप्रकारो भवति समाप्ताकलुषासमाप्तकलुषभेदात्। तत्राद्यान् कालुष्यपरिपाकवतः पुरुषधीरेयान् अधिकारयोग्याननुगृह्यानन्तादिविद्येश्वराष्टपदं प्रापयति। तद्विद्येश्वराष्टकं निर्दिष्टं बहुदैवत्ये “अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः। एकनेत्रस्तथैवैकरुद्रश्चापि त्रिमूर्त्तिकः। श्रीकण्ठश्च शिखण्डी च प्रोक्ता विद्येश्वरा इमे”। अन्त्यान् सप्तकोटिसङ्ख्यातान् मन्त्राननुग्रहकरणान् विधत्ते तदुक्तं तत्त्वप्रंकाशे “पशवस्त्रिविधाः प्रोक्ता विज्ञानप्रलयाकलौ सकलः। मलयुक्तस्तत्राद्यो सलकर्मयुती द्वितीयः स्यात्। मलमायाकर्मयुतः सकलस्तेषु द्विधा भवेदाद्यः। आद्यः समाप्तकलुषोऽसमाप्तकलुषो द्वितीयः स्यात्। आद्याननुगृह्य शिवो विद्येशत्वे नियोजयत्यष्टौ। मन्त्रांश्च करोत्यपरान् ते चोक्ताः कोटयः सप्त” इति। सोमशन्भुनाप्यभिद्वितम्। “विज्ञानाकलनामैको द्वितीयः पलयाकलः। तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः। तत्राद्यो मलमात्रेण युक्तोऽन्यो मलकर्मभिः। कलादिभूमिपर्य्यन्ततत्त्वैस्तु सकली युतः” इति। पलयाकलोऽपि द्विविधः पक्वपाशद्वयः तद्विलक्षणश्च तत्र प्रथमो मोक्षं प्राप्नोति द्वितीयस्तु पुर्य्यष्टकयुतः कर्मवशान्नानाविधजन्मभाग् भवति। तदप्युक्तं तत्त्वप्रकाशे “प्रलयाकलेषु येषामपक्वमलकर्मणी व्रजन्त्येते। पुर्य्यष्टकदेहयुता योनिषु निखिलासु कर्मवशात्” इति। पुर्य्यष्टकमपि तत्रैव निर्दिष्टम् “म्यात् पुर्य्यष्टकमन्तःकरणं धीकर्म करणानि” इति विवृतं चाघोरशिवाचार्य्येण “पुर्य्यष्टकं नाम प्रतिपुरुषनियतः सर्गादारभ्य कल्पान्तं मोक्षान्तं वा स्थितः पृथिव्यादिकलापर्य्यन्तस्त्रिंशत्तत्त्वात्मकः सृक्ष्मी देहः। तथा चोक्तं तत्त्वसंग्रहे “वसुधाद्यस्तत्त्वगणः प्रतिपुन्नियतः कलान्तोऽयम्। पर्य्येति कर्मवशाद्भुवनजदेहेष्वयञ्च सर्वेषु” इति। तथा चायमर्थः सममद्यत अन्तःकरणशब्देन मनोवुद्ब्यहङ्कारचित्तवाचिना अन्यान्यपि पुंसो भोगक्रियायामन्तरङ्गाणि कलाकालनियतिविद्यारागप्रकृतिगुणाख्यानि सप्त तत्त्वानि उपलक्ष्यन्ते धीकर्मशब्देन ज्ञेयानि पञ्चभूतानि तत्कारणानि च तन्मात्राणि विवक्ष्यन्ते करणशब्देन ज्ञानकर्मेन्द्रियदशकं संगृह्यते। ननु श्रीमत्कालोत्तरे “शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम्। बुद्धिर्मनस्त्वहङ्कारः पुर्य्यष्टकमुदाहृतमिति” श्रूयते तत्कथमन्थथा कथ्यते। अद्धा अतएव च तत्रभवता रामकण्ठेन तत्सूत्रं शक्तत्वपरतया व्याख्यायीत्यलमतिप्रपञ्चेन। तथापि कथं पुनरस्य पुर्य्यष्टकत्वं भूततन्मात्रबुद्धीन्द्रियकर्मेन्द्रियान्तःकरणसज्ञैः पञ्चभिर्वर्गेस्तत्करणेन प्रधानेन कलादिपञ्चकात्मना वर्गेण चारब्धत्वादियविरोधः। तत्र पुर्य्यष्टकयुतान् विशिष्टपुण्यसम्पन्नान् कांश्चिदनुगृह्य भुवनपतित्वमात्रं महेश्वरोऽनन्तः प्रयच्छति। तदुक्तम् “कांयिदनुगृह्य वितरति भुवगपतित्वं महश्वरस्तेषामिति”। सकलोऽपि द्विविधः पककलापापक्वकलुषभेदात्। तत्राद्यः परमेश्वरस्तत्परिपाकपरिपाटश तदनुगुणशक्तिपातेन मण्डल्याद्यष्टादशोत्तरशतं मन्त्रेश्वरपद प्रापयति। तदुक्तम् “ज्ञेया भवन्ति सकलाः कलादियोगादहर्मुखे काले। शतमष्टादश तेपां करुते ख्ययमेव मन्त्रेशान्। तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाष्टवीरेशाः। श्रीण्ठशतरुद्राः शतमित्यष्टादणा- भ्यधिकम्” इति। तपरिपाकाधिक्यनिरोधेन शक्त्युपसहारेण दीक्षाकरणेन मोक्षपदो भवत्याचार्य्यमूर्त्ति मास्थाय परमेश्वरः। तदप्युक्तम् “परिपक्वमलानेता नुत्सादनशक्तिपातेन। योजयति परे तत्त्वे स दीक्षयाचार्य्यमूर्त्तिस्थः” इति। श्रीमृगेन्द्रेऽपि “पूर्वं व्यत्यासि तस्याणोः पाशजीलमपोहति” इति। व्याकृतञ्च नारायणकण्ठेन “तत्सर्वं तत एवावधार्यम् अस्माभिस्तु बिस्तरभिया न प्रस्तूयते। अपक्वकलुषान् बद्धानणून् भोगभाजो विधचे परमेश्वरः कर्मवशात्। तदप्युक्तम् “बद्धान् शेपानपरान् विनियुङ्क्ते भोगभुक्तये पुंसः। तत्कर्मणामनुगमादित्येवं कीर्त्तिताः पशवः” इति। अथ पाशपदार्थः कथ्यते। पाशश्चतुर्विधः मलकर्ममायारोधशक्तिभेदात्। ननु “शैवागमेषु मुख्यं पतिषशुपाशा इति क्रमात्त्रितयम्। तत्र पतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाशाः” इति पाशः पञ्चविधः कथ्यते तत्कथं चतुर्विध इति गण्यते। उच्यते विन्दोर्मायात्मनः शिवतत्त्वपदवेदनीयस्य शिवपदप्राप्तिलक्षणपरममुक्त्यपेक्षया पाशत्वेऽपि तद्योगस्य विद्येश्वरादिपदप्राप्तिहेतुत्वेनापरसुक्तित्वात् पाशत्वेनानुपादानमित्यबिरीधः। अतएवोक्तं तत्त्वप्रकाशे “पाशाश्चर्विधाः स्युः” इति। श्रीमन्मृगोन्द्रेऽपि “प्रावृतीशौ बलं कर्म मायाकार्य्यञ्चतुर्विधम्। पाशजालं सआसेन पर्मनाम्नैव कीर्त्तितम्” इति। अस्यार्थः प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनो वृक्क्रिये इति प्रावृतिः स्वाभाविक्यशुचिर्मलः स च ईष्टे स्वातन्त्र्येणेति टशः। तदुक्तम् “एको ह्यनेकशक्तिदृक्किययोश्छादको नलः पुंमः। तुपतुण्डुलवज् ज्ञेयास्ताम्राश्रितकालिकावद्वेनि”। बलं रोधशक्तिः अस्याः शिवशक्तेः पाशाधिष्ठानेन पुरुषनिरोधायकत्वादुपचारेण पाशत्रम् तदुक्तम् “तासामहं वरा शक्तिः सर्वानुग्राहिका शिवा। धर्मासुवर्त्तनादेव पाश इत्युपचर्य्यते” इति। क्रियते फलार्थिभिरिति कर्म धर्माधर्मात्मकं वीजाङ्कुरवत् प्रपाहरूपेणानादि। यथोक्तं श्रीमत्किरणे “यथानादिर्मलस्तस्य कर्माल्पकमनादिकम्। यद्यनादि न ससिद्धं वैचित्र्यं केन हेतुना” इति। मात्यस्यां शक्त्यात्मना प्रलये सर्वं जगत्, सृष्टौ व्यक्तिं यातीति माया। यथोक्तं श्रीमत्सौरभेये “शक्तिरूपेण कार्य्याणि तल्लीनानि महाक्षये। विकृतौ व्यक्तिआयाति सा कार्येण कलादिना” इति। यद्यप्यप्त वहु वक्तव्यमस्ति तथापि ग्रन्थभूयस्वभयादुपरम्यते। तदित्थं पतिपशुपाशपदार्थास्त्रयः प्रदर्शिताः। “पतिविद्ये तथाऽविद्या पशुः पाशश्च कारणम्। तन्निवृत्ताविति प्रोक्ताः पदार्थाः षट्समासतः” इत्यादिना प्रकारान्तरं ज्ञानरत्नावल्यादौ प्रसिद्धम्। सर्वं तत एवावगन्तव्यमिति सर्वं समञ्जसम्”। ४ ओषधौ च। प्रजापतिना रुद्रादिनामकरणप्रसङ्गे शत० ब्रा० ६ १। ३। १२ “तमव्रवीत् पशुपतिरसीति। तद्यदस्य तन्नामाकरोदोषधयस्तद्रूपमभवन्नोषधयो वै पशुपतिस्तशाद्यदा पशव ओषधीर्लभ तेऽथ पतीयन्ति”।

पशुपल्वल = न० पशूनां प्रियं पल्वलमिव। कैवर्त्तीमुस्तके शब्दच०

पशुपाल = त्रि० पशून् पालयति पालि–अण् उप० स०। १ पशूनां पालके वृत्त्यर्थतया मेषादीनां पालके। तस्याभोज्यान्नता मनुनोक्ता ३। १५ ४ श्लोके। वृ० सं० १ ४ अ० उक्ते ऐशान्यां स्थिते २ देशभेदे च तद्देशस्थानां च पशुपालनवृत्तिकत्वात् तथात्वम्। पशुपालस्य भावः ष्यञ्। पाशुपाल्य पशुपालनरूपे वैश्यवृत्तिभेदे “वैश्यानां पाशुपाल्यञ्च” स्मृतिः। ण्वुल्। पशुपालक पशुपालनकर्त्तरि त्रि०। तस्य पत्री पालकान्तत्वात् पुंयोगेऽपि न ङीष् किन्तु टाप्

पशुपाश = पु० ६ त०। पशुरूपजीवानां वन्धे पशुपतिशब्द दृश्यम्।

पशुपाशक = पु० “स्त्रियमानतपूर्वाङ्गीं स्वपादान्तःपदद्वयम्। ऊर्द्धांशेन रमेत् कामी बन्धोऽयं पशुपाशकः” रतिमञ्जर्य्युक्ते रतिवन्धभेदे।

पशुप्रेरण = न० ६ त०। गवादीनां चालने अमरः।

पशुमारम् = अव्य० पशुमिव मारयित्वा णमुल्। पशोरिव हिंसायाम् कषादित्वात् मारयतीत्यादेरनुप्रयीगे एवास्य साधुता “पशुमारममारयत्” भा० ब० ११ अ०। यज्ञे पशुमारणञ्च श्वासरोधेन गलादिनिष्पीडनेनैव, न शस्त्रादिना शमित्रा करणीयमिति श्रौतसम्प्रदायः।

पशुमोहनिका = स्त्री पशुर्मोह्यतेऽनेन मुह–णिच्–ल्युट् स्वार्थे क काप अतैत्त्वम्। १ कट्व्यां २ लतायाम् राजनि०।

पशुयाग = पु० पशुकरणको यागः ३ त० वा। पशुदव्यके पशुनामके यागभेदे स च यागः “पशौ” आश्व० श्रौ० सूत्रादौ विहितः “क्षालनं दर्भकूर्चेन सर्वत्र स्रातसा पशोः। तुष्णीमिच्छाक्रमेण स्याद्वपार्थे पार्णदारुणी। सप्त तावन्मूर्द्ध्वन्यानि तथा स्तनचतुष्टयम्। नाभिः श्रोणिर्कपानञ्च गोस्रोतांसि चतुर्दश। क्षुरो मांसावदानार्थः कृत्स्नः स्विष्टकृदावृता। वपामादाय जुहुयात्तत्र मन्त्रं मुमापयेत्। हृज्जिह्वाक्रोडमस्थीनि यकृद्वुक्वौ गुदं स्तनाः। श्रोणिस्कन्धसटापार्श्वं पश्वङ्गानि प्रचक्षते। एकादशानामङ्गानामवदनानि सङ्ख्यया। पार्श्वस्य वुक्वसक्थोश्च द्वित्वादाहुश्चतुर्दश। चरितारा श्रुतिः कार्य्या यस्मादप्यनुकल्पशः। अतोऽष्टर्च्चेन होमः स्याच्छागपक्षे चरावपि” कर्मप्र०। तत्कालः पश्विज्याशब्दे दृश्यः।

पशुरज्ज्वु = स्त्री ६ त०। पशुवन्धसाधनदामनि अमरः।

पशुराज = पु० पशूनां राजा टच्समा०। सिंहे शब्दच० स्त्रियां जातित्वात् ङीष्।

पशुवर्द्धन = न० ६ त०। पशोः संपुष्टताविधायके व्यापारभेदे यज्ञियपशुवर्द्धनप्रकारस आश्व० गृ० ४। ९९ सूत्रादौ दृश्यः।

पशुष = पु० पशुषु सीदति सद–ड वत्वम्। पशुष स्यायिनि लीरदध्यादौ ऋ० ५४११ तत्र पशुपः इत्यत शसूः सुः

पशुसनि = त्रि० पशुं सनीति ददाति सन–इन्। पशुदायके यजु० १९। ४८ मन्त्रः।

पशुहरितकी = स्त्री पशूनां हरितकीव हितकारित्वात् आम्रातकफले त्रिका०।

पश्चा = अव्य० पश्चात् + वेदे पृषो०। पश्चादित्यर्थे ऋ० १। १३३। ५ आर्षेऽपि क्वचित् अपरशब्दस्थाने पश्चभावः। “पूर्वपश्चायतावेतौ” मार्कण्डपु० ५४ अ०।

पश्चात् = अव्य० अपर + प्रथमापञ्चमीसपम्यर्थे आति पश्चादेशः। १ प्रमाद्यर्थवृत्तेरपरशब्दस्यार्थे २ चरमे ३ अधिकारे च मेदि०। ततो भवार्थे त्यक्। पाश्चात्त्य पश्चाद्भवे त्रि० स्वार्थे तातिल् पश्चात्तात् तदर्थे अव्य० ऋ० ७। ७३। ५

पश्चात्ताप = पु० पश्चात् चरमस्तापः। अनुशये कृतस्य कर्मणोऽनुचितत्वधिया अनुशोचने अमरः।

पश्चार्द्ध = पु० अपरश्चार्द्धावर्द्धश्च “अपरश्चार्द्धे पश्चभावः” वार्त्ति० पश्चादेशः। अपरार्द्धे “अर्द्धं नपुंसकम्” पा० एकदेशिसमासे तु अर्द्धपिप्ल्यादिवत् अर्द्धापरमित्येवेति भेदः।

पश्चिम = त्रि० पश्चाद्भवः डिमच्। १ पश्चाद्भवे २ प्रतीच्यां दिशि स्त्री

पश्चिमानूपक = पु० नृपभेदे “पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम!” भा० आ० ६७ अ०।

पश्चिमरात्र = पु० पश्चिमं रात्रेः एकदेशिसमा० अच्समा०। रात्रे शेषभागे “पूर्वापरोत्तरमेकदेशिमैकाधिकरणे” पा० “सर्वोऽप्येकदेशोऽह्रा समस्यते सङ्ख्यायिसायेति ज्ञाप्रकात् मध्याह्नः सायाह्नः। केचित्तु सर्वकदेशः कालेन समस्यते नत्वह्नेव ज्ञापकस्य सामान्यापेक्षत्वात्। तेन मध्यरात्रः “उपारताः पश्चिमरात्रगोचरादित्यादि सिद्ध- मित्याहुः” सि० कौ०। मल्लिनाथेन तु “उपरताः पश्चिमरात्रिगोचरादिति” पठित्वा समासान्तं निराचष्टे यथा पश्चिमा चाऽसौ रात्रिश्चेति विग्रहः अपररात्र इत्यर्थः। पूर्वा दिक् पश्चिमं नभ इत्यादिवत् एकदेशिशब्दस्यैकदेशशब्दसामानाधिकरण्यादेकदेशे पर्य्यवसानं, न तु पश्चिमं रात्रे रित्येकदेशिसमासः तद्विधायके पूर्वापरादिसूत्रे पश्चिमशब्दाग्रहणादतएव “अहः सर्वैकदेशेत्यादिना न समासान्तोऽपि तस्यापि पूर्वापरादिसूत्रोक्तसमासविषयत्वादिति। प्रकाशवर्षस्त्वेकदेशिसमासमेवाश्रित्य समासान्तमाह तन्मूलं मृग्यम्”।

पश्चिमोत्तरा = स्त्री पश्चिमाया उत्तरस्या दिशोऽन्तरला दिक् “दिङ्नामान्यन्तराले” पा० स०। वायुकोणे विदिशि।

पश्य = अव्य० दृश–बा० शः। १ प्रशंसायाम् २ विस्मये च शब्दरत्ना० ३ यथोक्तदर्शिनि विमर्षे त्रि० छा० उ०।

पश्यतोहर = त्रि० पश्यन्तमनादृत्य हरति हृ–अच् अनादरे षष्ठी “वागिदक्पश्यद्भ्यो युक्तिदण्डहरेषु” वार्त्ति० अलुक्स०। पश्यन्तमनादृत्य हरे चौरभेदे स्वर्णकारादौ “यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः” हेमच०।

पश्यन्ती = स्त्री दृश–शतृ ङीप्। १ दर्शिन्यां स्त्रियां २ वाग्विशेषे “प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति। स्थानेषु विकृते वायौ कृतर्वणपरिग्रहा। वैखरी वाक् प्रयोक्तॄणां क्रमरूपानुपातिनी। प्राणवृत्तिमनुक्रम्य मध्यमा वाक् प्रवर्त्तते। अबिभागा तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवातः परा वागनपायिनी” मञ्जूषाधृतवाक्यम् अस्यार्थः शब्दार्थरत्ने “चेतनेन ज्ञातार्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरणं मूलाधारस्थितमनलं चालयति तच्चालितश्चानलस्तत्स्थलस्थानिलचालनाय प्रभवति तच्चालितेन चानिलेन तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभिधीयते। ततो नाभिदेशपर्य्यन्तं चलितेन तेन तद्देशसंयोगादुत्पादितः शब्दः पश्यन्तीति व्यवह्रियते एतद्द्वयस्य सूक्ष्मतरसूक्ष्मतमतया ईश्वरयोगिमात्रगम्यता नास्मदीयश्रुतिगचिरता। ततस्तेनैव हृदयदेशं परिसरता हृदयसंयोगेन निष्पादितशब्दो मध्येत्युच्यत सा च स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्माकमपि समधिगम्या। ततो मुखपर्य्यन्तमागच्छता तेन कण्ठदेशं प्राप्य आहत्य मूर्द्धानं तत्प्रतिघातेन परावृत्य च मुखविवरे कण्ठ दितत्तदष्टस्थानेषु स्वाभिघातेनोत्पादितः शब्दो वैणरीत्युच्यते” “वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा। द्योतितार्थी तु पश्यन्ती सूक्ष्मा वागनपायिनी” मल्लिनाथधृतवाक्यम्।

पश्वयन = न० यागभेदे शत० ब्रा० ४ ६ ६ १

पश्वयन्त्र = त्रि० पशोरिदं बा० ड्व कर्म०। पशुनिर्गमनार्थयन्त्रभेदे ऋ० ४। १। १६ भा०।

पश्ववदान = न० पशोरङ्गविशेषस्यापदानं छेदनम्। पशोरङ्गविशेषच्छेदने पशुशब्दे कर्मप्र० वाक्यं द्वश्यम्।

पश्वाचार = पु० पशूनामधिकारिविशेषाणामाचारः। तन्त्रोक्ते आचारभेदे पशुभावे “वेदोक्तेन यजेद्देर्वीं कामसंकल्प पूर्वकम्। स एव वैदिकाचारः पश्वाचारः स उच्यते”। कुब्जिकातन्त्रे ७ प० “भावश्च ऐविधो देवि! दिव्यवीरपशुक्रमात्। विश्वञ्च देवतारूपं भावयेत् सुरसुन्दरि!। स्त्रीमयञ्च जगत्सर्वं पुरुषं शिवरूपिणम्। अभेदे चिन्तयेत् यस्तु स एव देवतात्मकः। नित्यस्नानं नित्यदानं त्रिसन्ध्यञ्च जपार्चनम्। निर्मलं वसनं देवि! परिधानं समाचरेत्। वेदशास्त्रे दृढज्ञानं गुरौ देवे तथैव च। मन्त्रे चैव दृढज्ञानं पितृदेवार्चनं तथा। बलिवैश्वं तथा श्राद्धं नित्यकार्यं शुचिस्मिते!। शत्रु मित्रसमं देवि! चिन्तयेत्तु महेश्वरि!। अन्नञ्चैव महेशानि! सर्वेषां परिवर्जयेत्। गुरोरन्नं महेशानि! भोक्तव्यं सर्वसिद्धये। कदर्य्यञ्च महेशानि! निष्ठुरं परिवर्जयेत्। देवतानिन्दकं दृष्ट्वा नालापञ्च समाचरेत्। सत्यञ्च कथयेद्देवि! न मिय्या च कदाचन” महानिर्वाणतन्त्रे “दिव्यवीरमयो भावः कलौ नास्ति कदाचन। केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम्”।

पश्विज्या = स्त्री पशुना इज्या। पशुयागभेदे तत्कर्त्तव्यकालादिः कात्या० श्रौ० ६ ४ १ मूत्रादौ दृश्यः।

पश्विष्टका = स्त्री अग्निचयनार्थे इष्टकाभेदे पशुयागे हि पञ्च इष्टका भवन्ति यथोक्तं शत० ब्रा० ६। २। १। २० “कथमस्यैषोऽग्निः पञ्चेष्टकः सर्वः पशुष्वारब्धो भवतीति पुवोडाशः कपालेषु न्वेवाप्यत इय प्रथमा मृण्मयीष्टकाथ यत् पशुमालभते तेन पश्विष्टकाप्यतेऽथ यद्वपामभितो हिरण्यशकलौ भवतस्तेन हिरण्येष्टकाप्यतेऽथ यदिध्मो यूपः परिधयस्तेन वानस्पत्येष्टकाप्यतेऽथ यदाज्यं प्रोक्षण्यः पुरोडाशस्तेनान्नं पञ्चमीष्टकाप्यत एवमुयहास्यैषोऽग्निः षञ्चेष्टकः सर्वः पशुष्वारब्धी भवति”।

पश्विष्टि = स्त्री ६ त०। पशुयागङ्गे इष्टिभेदे सा च इष्टिः “इष्टिरुभयतोऽन्यतरतो वा” आश्व० श्रौ० ३ १ २ सूत्रादौ बिहिता।

पश्वेकादशिनी = स्त्री एकादश परिमाणमस्य डिनि ङीप् पशुना एकादशिनी। शत० ब्रा० ३। ९। ३ उक्ते एकादश देवताकैकादशपशुसाध्ये यज्ञभेदे ते च पशवः “आग्नेयं प्रथमपशुमालभेत् इत्युपक्रमे १ आग्नेयः २ सारस्वतः ३ सौम्यः ४ पौष्णः ५ बार्हस्पत्यः ६ वैश्वदेवः ७ ऐन्द्रः ८ मारुतः ऐन्द्राग्नः १० सावित्रः ११ वारुण इत्येते अग्नाद्येकादशदेवताकाः उक्ताः।

पष्ठवाह् = पु० पृष्ठेन वहति पष्ठं मारं वा वहति वह–ण्वि पृषो०। पञ्चवर्षीये भारमहे बृषे तथावस्कायां स्त्रियां गवि ङीप् वाह ऊठ् षष्ठोही यजु० १४। ९ “द्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणः” आश्वा० श्रौ० ९। ४। १४। सुग्धबोधे पृष्ठौ हीत्युक्तिः लोकाभिप्रायेण वेदे तु पष्ठयाट् षष्ठौही इत्येव प्रयोगात्।

पस = नाशने चु० उभ० सक० सेट् इदित्। पंसयति ते अपपंसत् त

पसस् = न० पस–असुन्। राष्ट्रे “गर्भोराष्ट्रं पसोराष्ट्रमेव” शत० ब्रा० १ ३। २। ९। ६

पस्त्य = न० पस–भावे क्तिन् तत्र साधु यत्। गृहे निघण्टुः अस्त्यमिति पाठान्तरम् अस्तये स्थितये साधु यत्। तत्र हेमच० निधण्टौ तु पस्त्यमित्येव गृहनामसु पठितम्। पस्त्यमस्त्यस्येति मतुप् मस्य वः दीर्घः। पस्त्यावत् सदःप्राचीनबंशादिगृहवति ऋ० ११५ १२ भा०।

पस्पश = पु० शास्त्रारम्भसमर्यके उपेद्घाते सन्दभेग्रन्थभेदे स च महाभाष्यस्त्र पथसमाह्निकात्मकः शब्दविद्येवनी भाति राजनीतिरपम्पशा” माघः।

पह्नव = पु० श्मवुधारिम्लेच्छजातिभेदे काम्बोजशब्दे १९०७ पृ० दृश्यम्। स्त्रियां जातित्वात् ङीष्।

पह्निका = स्त्री अप + ह्नु + वा० ड संज्ञायां कन् कापि अतद्वत्त्वम् अपेरल्लोपः। वारिपृश्न्यां शब्दरत्ना०।

***