परीक्षक = त्रि० परि + ईक्ष–ण्वुल्। १ तर्केण प्रमाणैरनिर्द्धार्यनिर्द्धारणाय शास्त्रपरिशीलनेन प्राप्तबुद्धिप्रकर्षे दृष्टान्तशब्दे २६७३ पृ० दृश्यम्। २ व्यवदृआरादौ दिव्यभेदपरीक्षाकारके च।
परीक्षण = न० परि + ईक्ष–भावे ल्युट्। राज्ञा अमात्यादेः आरादेश्च १ दुष्टादुष्टात्वनिरूपणे तर्कप्रमाणाभ्यां २ वस्तुतत्त्वावधारणे च “भेदोपजापाबुपधाधर्माद्यैर्यत् परीक्षणम्” अमरः।
परीक्षा = स्वी परि + ईक्ष–भावे अ। दिव्यशब्दे २५८९ पृष्ठादौ दर्शिते १ दिव्यशब्दार्थे तर्कप्रमाणादिना २ वस्तुतत्त्वावधारणे च।
परीक्षिन् = त्रि० परि + ईक्ष–णिनि। युक्तिप्रमाणैर्वस्तुस्वरूपाद्यवघारके।
परीणस् = त्रि० परि + नस–कौटिल्ये धातूनामनेकार्थत्वात् व्याप्ता क्विप् दीर्घः। १ व्यापके ऋ० ५। १०। १ भा। परि + नह बा० डसुन् दोघः। २ परितोनद्धे च्य ऋ० ११२९९
परीणसा = अव्य० परि + नस–व्याप्तौ बा० आत् दीर्षः। बहुपदार्थे निघण्टुः ऋ० ९९७९ उदा०।
परीणह् = त्रि० परितः नह्यते बध्यते नह–क्विप् दीर्घः। १ परितो बन्धने २ तत्कर्मणि ज। झलि पदान्ते हस्य घः।
परीत = त्रि० परि + इ–क्त। परितो गते
परीप्सा = स्त्री परि + आप्–सनू–भागे अ। प्राप्तुमिच्छायाम् भा० उ० ११० ख
परीर = न० पूर्व्यतेऽनेन पॄ–श्च्युतौ ईरन्। फले उज्वत्व०।
परीरण = पु० परि + रण–अच् दीर्षः। १ कमठे २ दण्ठे ३ पट्टशाटके च भेदि०।
परीरम्भ = पु० परि + रम्भ–घञ् वा दीर्घः। आसिङ्गने अमरः
परीष्टि = स्त्री परि + इष–क्तिन्। १ अन्येषणायाम् २ परिचर्य्यायाञ्च हेमच०।
परीसार = पु० परि + सृ–घञ् दीर्घः। सर्वतोगमने हेमच०।
परु = पु० पृ–उन्। १ समुद्रे २ स्वर्गे ३ ग्रन्थौ ४ पर्वते च संक्षिप्त०
परुच्छेप = पु० परुषि शेफोऽस्य पृवो०। ऋषिभेदे निरु० १०। ४२
परुत् = अव्य० परस्मिन् वर्षे नि०। परवर्षे इत्यर्थे अमरः। तत्र भवः त्न। परुत्त्न परवर्षभवे त्रि०।
परुद्वार = स्त्री परुः समुद्रो पर्वतो वा द्वारमस्य। षोटके शब्दमाला स्त्रियां जातित्वात् ङीष्।
परुष = न० पॄ–उषन्। १ निष्ठुरवचने २ नीसीझिण्ट्याम् अमरः ३ फलभेदे परूषके मावप्र०।
परुषोक्ति = स्त्री कर्म०। १ निष्ठुरोक्तौ। बहु। २ कटुवाक्यकथके त्रि०।
परुस् = न० पॄ–उसि। ग्रन्थौ (गा~ट) पर्वणि अमरः।
परूष = न० पॄ–जषन्। फत्वभ्दे (फलसा) “परूषकं कषायास्त्रमानं पित्तकरं लघु। तत् पक्वं मधुर पाके शीतं विष्टम्मि वृंहणम्। हृड्यं तृट्पित्तदाहास्रज्वरक्षयसमीरहुत्” मावप्र०।
परेत = त्रि० परा + इ–क्त। सृते अमरः।
परेतराज्(ज) = पु० ६ त० टच्समा० परेतेषु राजते राजकिष् वा। यमे अमरः।
परेतवास = पु० ६ त०। श्मशागे।
परेद्यवि = अव्य० सरस्पिन् अह्नि नि०। परदिने इत्यर्थे
परेद्युस् = अव्य० परस्पिन् अहि पर + एद्युस्। परदिने इत्यर्थे
परेष्टुका = स्ती परैरिष्यते इष–तु स्तार्थे क। बहुप्रसवायां गवि ग्रषरः।
परैधित = त्रि० परैरेधितः एध + णिच्–क्त ३ त०। अन्यपासिते कौदासीन्येनापरवर्द्गिते ग्रमरः।
परोक्ष = अव्य० अणः परम् अव्यथी० सुट् नि० पूर्वनिपातः। १ अप्रत्यक्षज्ञाने “परोक्षज्ञानमनाहार्व्यं निश्चयश्चेति सिद्धान्तः” इत्युक्तेस्तज्ज्ञानस्यानाहार्यत्वम् निश्चयरूपत्वञ्च बोध्यम्। अर्श शाद्यच्। २ तद्विषये त्रि०। ३ तपणिनि शब्दमाला।
परोढा = स्त्री परेलोठा ३ त०। परेण कृतविवाहायां स्त्रियाम्।
परोपकार = पु० ६ त०। परस्य हितादिसम्पादनव्यापारे
परोबाहु = पु० परोबाहुर्बन्धोऽस्य नि० सुट्। परमवन्धयुक्ते शत ब्रा० ६। ५। ३। १०
परोरजस् = त्रि० रजसः परः सुट् नि०। १ रागाभावे २ विसुक्ते शत० ब्रा० १४। ८। १५। १
परोलघ = न० लजात् परः सुट् नि०। १ ललसंख्यातोऽधिकसंख्यायाम् २ तदन्विते च।
परोवरीण = त्रि० “परांसापरांसानुभवति ख अवरस्योत्त्वं निपात्यते। श्रेष्ठाश्रेष्ठयुक्ते।
परोवरीयस् = परण वरीया~ण नि० पूर्वपदे सुट्। अत्यन्तश्रेष्ठे परमात्मनि “परोवरीयसोह लोकान् जयति” छा० उ०।
परोष्णी = स्त्री परा + उष्णा–कर्म० गौरा० ङीष्। तैलपायिकायाम् अमरः।
पर्कटि(टी) = स्त्री पृच–अटि न्यङ्का० कुत्वम्। (पाकुड) प्लक्षवृक्षे अमरः।
पर्कटिन् = पु० पृच–अटिनि न्यड्का० कुत्मम्। प्लक्षवृक्षे (पाकुड) “पर्कटी कटुकः प्रोक्तः शिशिरश्च कषायकः। रक्तदोषहरोमूर्च्छांप्रलापभ्रमनाशनः” राजनि० तद्गुणा उक्ताः।
पर्जनी = स्त्री पृज–करणे ल्युट् ङीप्। दारुहरिद्रायाम् अमरः।
पर्जन्य = पुं० पृधु–सेचने अन्थ जान्तादेशः। १ द्रन्द्रे २ मेघे मेदि० “यज्ञाद्भवति पर्जन्यः” इति मनुः। ३ मेषशब्दे विश्वः पर्जन्य “इव सर्वान् कामादभिवर्षति। ४ विष्णौ पु०। “कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनीऽनिलः” विष्णुस५ दांरुहरिद्रायां स्त्री राजनि०।
पर्ज्जन्यपत्नी = स्त्री पर्जन्यः पतिरिवास्वाः सपूर्वकत्वाद् पत्युर्न ङीप्। वशायां “वशा पर्जन्यपत्नी देवा अप्येति जाह्मणा ऊधस्त्रे भद्रे! पर्जन्यो विद्युतस्ते स्वना वशे!” अथ १०। १०। ६। ६ त०। २ इन्द्रपत्न्यां शप्याञ्च।
पर्ण = हरितीकरणे अ० चु० उभ० सक० सेट्। पर्णयति–ते अप पर्णत्–त। वसन्तः पर्णयति धम्पकम्।
पर्ण = न० पॄ–न, पर्ण–अच् वा। १ पत्त्रे १ पक्षे च “सुपणो गरुडो मतः” इति। ३ पलाशवृसे पु० ४ ताम्बूले न ५ पत्त्रयुक्ते त्रि० अमरः। “पर्णभूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः। जीर्णं पर्णं हरेदायुः सिरा बुद्भिप्रणाशिनी” आड्गि० त०। तन्मूलादिसेवननिबेधः। “अनिधाय भुखे पर्ण्णं पगद्भादयते परम्। मतिभ्रंशातु दरिद्रः स्यादन्ते न स्परते हरिम्”। अत्र परमित्युक्तेः धन्याकादियोमे न दोषः। पर्णस्येदम् शिवा० अण्। पार्ण्ण तत्सम्बन्धिनि त्रि०। अस्यर्थे नडा० स कक् च। पर्णकीय तद्युक्तदेशे त्रि०। तस्यादूरनगरादि वरणा० अण् पार्ण तस्याद्रदेशादौ लिन बह्रत्रे तस्य लुक् पर्णाः इत्येव। तत्र भवः “कृकणपर्णात् भरद्वाजे” पा० भवादौ छ। पर्णीय भरद्वाजदेशभवे अन्यत्र अणेव पार्ण ततार्थे त्रि०। क्षुद्रं पर्णम् ङीष्। २ ह्युद्रपर्णे स्त्री सास्तपण्यं कृशरादि० ठन्। पर्णिक तद्विक्रेतरि स्त्रियां षित्त्वात् ङीष्।
पर्णक = पु० ऋषिभेदे तस्य गोलापत्वम् इञ् पार्णकि तद्वोत्रापत्ये बहये तु उपका० तस्य वा लुक्।
पर्णकार = पुं स्त्री० पर्णं करोति उत्पादयति अण् उप० त०। (वारुइ) ख्याते जातिभेदे ताम्यूलजीविनि स्त्रियां जातित्वात् डीष्।
पर्णकुटी = स्त्री पर्णनिर्मिता कुटी था० ता०। पत्रमात्रेण रचिते क्षुद्रगृहे (पातेरलु~डे)।
पर्णकूर्च = पु० पर्ण्णकृच्छेक्तद्रव्याणां त्रिरात्रोपवासाते विघेषतो भोजननिष्पादितन्नतभेदे यथाह मिता०। “यदा तु पर्णादीनामेकीकृतानां क्वायस्विरात्रान्ते पीयते तहा पर्णकूर्चः यथाह यमः “एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः। क्वाथयित्वा पिवेदद्भिः पर्णकूर्चोऽभिधीयते” इति। एतानि पर्णकृच्छ्रोक्तद्रव्याणि।
पर्णकृच्छ्र = पु० पञ्चाहसाध्ये व्रतभेदे “पर्णोदुम्बरराजीव विल्वपत्रकुशोदकैः। प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः” याज्ञ० “पलाशोदुम्बरारविन्दश्रीवृक्षपर्णानामेकैकेन काथितसुदकं प्रत्यहं पिबेत्। कुशोदकञ्चैकस्पिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः” मिता।
पर्णखण्ड = पु० पर्णमेव स्वण्डः खण्ड्यते यस्य पुष्पहीनत्वात्। १ पुष्पहीगे बनस्पतौ वृक्षे शब्दब०। समूहे खण्डच्। २ पर्णसमूहे न०।
पर्णचीरपट = पु० महादेये मा० शा० २८ ६ अ०।
पर्णचोरक = पु० पर्णं चोरबति चुर–खुल्। चोरनामगन्धदप्ये राजनि०।
पर्णनर = पु पर्णनिर्मितः नर इव। अख्यलाभे मृतस्य दाहार्थं पर्णनिमिते नराज्जतौ पुत्तलिकाभेदे तद्विधानं शु० त० उक्तं यथा
“अथास्थ्यलाभे पर्णनरदाहः। तत्राश्वलायनमृह्यपरिशिष्टम् “अस्थिनाशे पलाशानां त्रीणि षष्टिशतानि च। पुरुशप्रतिकृतिं कृत्वा दहेत मन्त्रपूर्वकम्। अशीत्यर्ङ्गन्तु शिरसि ग्रीवायां दश योजयेत्। उरति त्रिं पतं दद्याद्विंशतिं जठरे तथा। बाहुभ्याञ्च यतं दद्यात् दद्यादष्ट्वलिभिर्दश। द्वादशार्द्धं वृषणवोरष्टार्द्धं शिश्र एव च। ऊरूभ्याञ्च शतं दद्यात्त्रिंशतं जासुजङ्घयोः। पादाङ्गसिषु च दश एतत् प्रेतस्य लक्षणम्। जर्णास्तत्रेण संबेष्ट्य यवपिष्टेन लेपयेत्”। आदिपुराणम् “तदलाभे पलाशोत्यैः पत्नैः कार्य्य १ पुमानपि। शतैस्त्रिभिस्तश्रा षष्ट्या शरपत्रैर्विधानतः”। तदलाभेऽस्थ्यलाभे। अत्र षलाशपत्रशरपत्रयोस्तुल्यत्वेनोपादानात् आश्चलायनगृह्येऽपि प्रतिकृतौ शरपत्रस्र लामः। अत्राचाराद्योग्यत्वाच्च शरपत्रैः पुत्तलकं कुत्वा शिरःप्रभृतिषु पलाशपत्राणि देयानि ततो वेष्टनमूर्णासूत्रेण, लेपनं बवपिष्टेनेति। अत्राशौचाभ्यन्तरे दाहे शेषाहेन शुद्धिः तदुत्तरपर्णनरदाहे तु त्रिरात्रम्। “एवं वर्णनरं दग्धा त्रिरात्रमशुचिर्भवेत्” इत्यादिपुरणात्। यज्ञपार्श्वा “पुत्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन। तदलामे पत्वाक्षस्य सम्भवे हि पुनःक्रिया”। हि वस्पातदलाभेऽस्थ्यसंप्राप्तौ पलाशस्य तत्कृतपुत्तलकस्य दा- हक्रिया पुनरपि सम्भवे जाभेऽस्यिदाहक्रिया विहिता तस्माद्यदि पुनरस्थीनि प्राप्यन्ते तदा पुनर्दाहे त्रिरात्रा थौचे कर्तव्ये न पुनः पिण्डादिदानं वक्ष्यमाणयुक्तेः। “अशौ चानन्तरं चेत् स्याद्दाहः पर्णनरस्य च। त्र्यहाच्छुद्ध्यन्ति च तथा सन्निकृष्टाः सगोत्रजाः। दर्शे दहेत् “पर्णनरं दहेन्नैव विना दर्शं कथञ्चन। अस्थ्यलाभे तु दर्शेऽपि ततः पर्णनरं दहेत्” इति दीपकलिकायां सुमन्तुवचनात्। दर्शे इत्यत्राष्टम्यामिति कचित् पाठः। श्रष्टमी कृष्णा सन्देहे पितृकर्मणि कृष्णपक्षप्राधान्थे नोक्तेः। “नरं पर्णं दहेत्वैव प्राक् त्रिपक्षात् कवञ्चन। त्रिपक्षे तु न वै दह्यात् दर्शे प्राप्ते ह्यनग्निकः”। इत्यशौचव्यपगमे बोध्यम्। यथाह शुद्धिरत्नाकरे यमः “अशौचमध्ये यत्नेन दाहयेदुक्तया वृता। कृणपक्षे पञ्चदश्यामष्टम्यां वा समाहितः। एकादस्यां विशेषेण ततः प्रभृति सूतकम्। त्रिरात्रं सर्ववर्ष्णनामेप धर्मो व्यवस्थितः।” कृष्णपक्ष इत्यत्राशौचव्यपगमे वोध्यम्। वायुपुराणे “पर्णनरं दहेन्नैव प्राक् त्रिपक्षात् कथञ्चन। पितृहा मातृहाष्टम्यान्नैव दर्शे दहेत् यदि।” विष्णुपु० “त्रिपक्षे तु गते पर्णनरं दद्यादनग्निकः। त्रिपक्षाभ्यन्तरे राजन्! नैव पर्णनरं दहेत्। तदूर्द्ध्वनष्टमीं प्राप्य दर्शं वापि विचक्षणः।” दहेदिति ज्ञेयः। “श्रशौचाभ्यन्तरे यदि दाहं न कुर्य्यात् तदा मरणदिनावधि त्रिपक्षानन्तरं दाहः कार्य्य इत्यर्थः” इति हरिदासकर्काचार्य्याः। “पर्श्यं नरं दहेग्नैन विना दर्शं कदाचन। अस्थ्नामलाभे दर्शे तु ततः पर्णनरं दहेत्” इति दीपकसिकायां सुमन्तुवचनाहर्थे दाहः। शत्राहमीति क्वचित् पाठः। यमः “त्रिपद्वाभ्यन्तरे राजन्। नैव पर्णनरं दहेत्। तदूर्द्ध्वमष्टनीं प्राध दर्शं वापि विचक्षणः”। अष्टमीत्यत्र कृष्टाष्टमीत्यर्थः। पितृकर्मणि कृष्णपक्षप्राधान्येनोक्तेः इति हरिदासतकाचार्य्यलिखनात्। एतच्चाशौचव्यतिरिक्तविषयम्”। अत्र नक्षत्रादिकालभेदः स० घि० पी० उक्तो यथा
“शुक्रारार्किषु दर्शभूतमदने नन्दा सुतीक्ष्णोग्रभे पौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने। याम्येऽवदात् परतश्च पातपरिघे देवेज्यशुक्रास्तके भद्रावैष्टतयोः शवप्रतिक्वतेर्दाहो न पक्षे सिते। जन्मप्रत्यरितारयोर्मृतिसुखान्येऽब्जे च कर्तुर्न सन् मध्यो मैत्रभगादितिध्रुवविशाखाद्व्यङ्घ्रिभे क्षेऽपि च। श्रेष्ठो-ऽर्केज्यविधोर्दिने श्रुतिकरस्वात्यश्विपुष्ये तथा त्वाशौचात्परतो विचार्य्यमखिलं मध्ये यथासम्मवम्” मु० चि०। “एवंविधे दिने शवस्य मृतस्य प्रतिकृतिः शरपत्रादिना सावयवत्वकल्पनं तस्य दाहो न कार्यः कुतः यती द्विविधः प्रेतसंस्कारः प्रत्यक्षशरीरस्यैकः प्रतिकृतेरन्यः तत्र प्रत्यक्षशरीरसंस्कृतौ शुभाशुभदिनविचाराभावः यदाह गार्ग्यः “प्रत्यक्षशवसंस्कारे दिनं नैव अविशोधयेदिति” प्रतिकृतिसंस्कारस्य हि कासत्रयम् अशौचमध्ये वर्षमध्ये वर्षानन्तरं चेति अत्राशौचमध्ये यदि प्रतिकृतिसंस्कारश्चिकीर्षितस्तदा यथासम्भवं दिनशुद्धिर्विचार्य्या वर्षमध्ये वर्षानन्तरं वा प्रतिकृतिसंस्कारे अवश्यं कालशुङ्गिर्विचार्या एतदप्याह गार्ग्य एव “आशौचमध्ये क्रियते पुनः संस्कारकर्म चेत्। शोधनीयं दिनं तत्र यथासम्भवमेवमेव तु। आशौचविनिवृत्ता चेत् पुनः संस्क्रियते मृतः। संशोध्यैव दिनं ग्राह्यमूर्ध्वं संवत्सराद्यदि”। प्रेतकार्य्याणि कुर्वीतेति शेषः अतएवोक्तम् “आशौयात्परतो विचार्यमखिलं मध्ये यथासम्भवमिति”। एतद्वाक्यमत्रैव स्पष्टं व्याख्यास्यते तत्र दिनशुद्धिरुच्यते शुक्रारेत्यादिना शुक्रः प्रसिङ्गः आरो मङ्गलः आर्किः शनिः एषां वारे प्रतिकृतेर्दाहो नेति प्रत्येकं सम्बन्धः। तथा दर्शोऽमावस्या भूतचतुर्दशी मदनस्त्रयोदशी नन्दाः प्रतिपत्षष्ट्येकादश्यः आसु तिथिषु दाही न कार्यः यदाह मरीचिः “नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे। पितृश्राद्धं न कुर्वीत गृहो पुत्रधनक्षयात्। एकादश्यां तु नन्दायां तिनी वाल्यां भृगोर्दिने। नभस्ये च चतुर्दश्यां कृत्तिकासु त्रिपुष्करे”। द्वितीयवाक्यमतिदुष्टताकथनार्थं सिनी बाल्याममावास्यायां भृगोर्दिने शुक्रयारे इति सुम्बन्धो व्याख्येयः अत्र श्राद्धं न कुर्वीतेत्यनुषङ्गः श्राद्भशब्देनात्र प्रेतक्रिया विवक्षिता। तथा तीक्ष्णोग्रभे मूलज्येष्ठार्दाश्लेषालीक्ष्यानि उग्राणि पूर्वात्रयभरणीषषाः पोष्णे रेवत्यां बारुणे शातभे त्रिपुष्करदिने भद्रातिथयः सूर्य्यभौमशनिवाराः कृत्तिकापुनर्वसूत्तराफाल्गुनी विशाखोत्तराषाढापूर्वभाद्रपदाः एतत्त्रितयसंहतिरूपे दिने प्रतिवृतेर्दाहो न कार्य इति केचिद्व्याकुर्वते तत्र पूर्वपद्येनैव निषेधसत्त्वात् मनु प्रत्यक्षमृतौ स निषेधो न तु प्रतिकृतिदाहे एवं तर्हि सम्मतिवाक्याभावान्नायमर्थ इति ब्रूमः। यदुक्तं ज्योतिःपराशरेण “साघारणध्रुवोग्रे मैत्रे नो शस्यते मसुध्याणाम्। प्रेतक्रिया कथ- ञ्चित् त्रिपुष्करे यमलधिष्ण्येवेति” अत तिर्पुव्करशब्देन बिशिष्टयोगो विवक्षित इति चेत् अत्र ब्रूमः त्रिचरणनक्षत्राण्येव त्रिपुष्करपदेनोच्यन्तेऽतो हेमाद्रिणापि कृत्तिकादीन्येव तिचरणानि मानि त्रिपुष्करशब्देन व्याख्यातानि अतएवाह कश्यपः “भरण्याद्रा मथा श्लेषा मूलं त्रिचरणानि च। प्रेतक्रियासु दुष्टानि घनिष्ठाद्यं च पञ्चकम्” इति पराशरवाक्ये वहूनि प्रेतकृत्ये सामान्यतो निषिडानि कश्यपवाक्येऽन्यानतिदुष्टान्युक्तानि इटमेवाभिप्रेत्य ग्रन्यकृतोक्तानि तत्र धनिष्ठाया अग्रहणं मध्यमेषु वक्ष्यमाणत्वात्। अथ न्यूनाधिमासे क्षयमासे अधिमासे च शवप्रतिकृतिदाहो न कार्यः। उक्तञ्च ज्योतिर्निबन्धे गरुडपुराणे “न कुर्य्यात् गुरुशुक्रास्ते पौषै खापे मलिम्लुबे। विसम्बितं प्रेतकार्यं गयां गीदावरीं विनेति” मेधातिथिः “अस्तं गते गुरी शुक्रे पौषाषाढाधिमासके। प्रेतकार्यं न कुर्वीत गयां गोदावरीं विनेति” अधिमासस्योपलक्षणत्वात् क्षयमासेऽपि न कार्यं प्रेतकार्यमित्यर्थः। अतएव मूले न्यूनमासनि षेधः। अथाव्देकणाद्वर्षात्परतः ऊर्ध्वं याम्येऽयने दक्षिणायने कर्कादिषड्राशिस्थिते सूर्य्ये न दाहः कार्यः अर्थादुत्तरायणं सम्यक्, उपलक्षणणत्वादवमदिनमपि निषिद्धम् उक्तञ्च गार्ग्येण “ऊर्ध्वं संवत्सराद्यदि” प्रेतकार्याणि कुर्वीत श्रेष्ठं तत्रोत्तरायणम्। वृष्णपक्षश्च तत्रापि वर्जयेत्तु दिनहूयम्”। इति गारुडपुराणेऽपि “न कुर्य्याद्गुरुशुक्रास्ते पौषे स्वापे मलिम्लुचे। विलम्बितं प्रेतकार्यं गयां गोदावरीं विनेति”। अत्र वाक्ये पौषस्वापयोर्निषिङ्गत्वान्मार्गशीर्षस्य मध्यमत्वं प्रतीयते तदावश्यकविषयं प्रथमवर्षे तु दक्षिणायनमपि शुभमेव। पातपरिथे व्यतिपाताख्ये योगे गणितागते व्यतीपाताख्ये महापात इत्यपि केचित् परिघाख्ये योगे तथा देबेज्यशुक्रास्तके गुरुशुक्रयोरस्ते अत्र स्वार्थे कः। तथा भद्रावैधृतयोः भद्रावैधृतौ प्रसिङ्गौ गणितसाध्ये वैधृताख्ये महापाते इत्यपि केचित्। तथा सिते पक्षे शुक्लपक्षे शवप्रतिकृतेर्दाहो न कार्यः। यदुक्तं नारदेन श्राद्गलक्षणाध्याये “चतुर्दशीं तिथिं नन्दां शुक्रारावार्किवासरम्। सितेज्ययोरस्तमयं द्व्यङ्घ्रिभं विषमाघ्रिभम्। शुकुपक्षं च सन्त्यव्य पुनर्दहनमुच्यते” इति अन्यत्रापि “नन्दा षदनभूतायां पातवैघृतविष्टिषु। शुक्रार्किभौमपरिथध्रुवमिश्रो ग्रमूलभे। कर्तुश्चन्द्रेऽष्टवेदान्त्ये ब्जन्मप्रत्यरितारके। त्रिपादभे सिते पक्षेऽयने याम्येऽव्दतः परम्। शवप्रति त्रतेदांहः शुक्रेऽस्तेऽधिकमासके। नेष्टो मध्यो द्विपान्मैत्रद्वीशादितिभगध्रुवे” इति तथा कर्तुः प्रेतश्राद्धाद्यधिकारिणो जन्मप्रत्यरितारयोः जन्मतारा उत्पत्तिनक्षत्रं दशममेकोनविंशं चेति प्रत्यरितारा जन्मभात् पञ्चमं चतुर्दशं त्रयोविंशं चेति। कथा कर्तुर्मृतिमुखान्त्येऽब्जे स्वजन्मराशेरष्टमचतुर्थद्वादशस्थे चन्द्रे सति दाहो न सन् न प्रशस्तः”।
वराहपुराणे “चतुर्थाष्टमगे चन्द्रे द्वादशे च विवर्जयेत्। प्रेतकृत्यं व्यतीपाते वैधृतौ परिघे तथा। करणे विष्टिसंज्ञे च शनैश्चरदिने तथा”। विष्टिसंज्ञं करणं भद्रा। महाभारते “नक्षत्रेण न कुर्वीत यस्मिन् जातो भवेन्नरः। न प्रोष्ठपदयोः कार्यं तथाग्नेयेऽपि भारत!। दारुणेषु च सर्वेषु प्रत्यरे च विवर्जयेत्” इति प्रोष्ठपदयोः पूर्वाभाद्रपदोत्तराभाद्रपदयोः आग्नेये कृत्तिकायाम्। कालविशेषादिकं नारदेनोक्तम् “दिनोत्तरार्द्धे तत्कर्तुचन्द्रताराबलान्विते। पापग्रहे बलयुते शुक्र लग्नांशवर्जनम्। तत्पुनर्दहनं प्रोक्तमिति “अथ शवप्रतिकृतिदाहे मध्यनक्षत्राण्युच्यन्ते मैत्रमनुराघा भगः पूर्वाफाल्गुनी अदितिध्रुवविशाखाः प्रसिद्भाः द्व्यङ्घ्रिभं मृगचित्रा धनिष्ठा। ज्ञेऽपि बुधवारेऽपि शवप्रतिकृतिदाही मध्यमः न शुभफलदो नाप्यनिष्टफलद इत्यर्थः उक्तञ्च कश्यपेन “फल्गुनीद्वितयं रोहिण्यनुराधा पुनर्वसुः। द्वे आषाढे विशाखा च भानि द्विचरणानि च। एतानि किञ्चिद्दुष्टानि वर्जयेत् सति सम्भवे” इति। “नेष्टो मध्यो द्विपान्मैत्रद्वीशादितिभगध्रुवः” इति चेत्युक्तेर्बुधे सम्मत्यभावः। अथार्केज्यविधोरर्केज्याभ्यां सहितो विधुरिति मध्यमपदलोपी समासः। सूर्यगुरुचन्द्राणां दिने वारे दाहः श्रेष्ठस्तथा तेन करणेन श्रुतिकरस्वात्यश्विपुष्ये एषु निषिद्धनक्षत्रगणाद्बहिर्भूतेषु पञ्चसु भेषु शवप्रतिकृतेर्दाहः श्रेष्ठोऽनुष्ठीयमानः शुभफलद इत्यर्थः। आशौचात्परत इत्यादिव्याख्यातार्थं ननु प्रतिकृतिसंस्कारः किंनिमित्तम् उच्यते। दैवान्मानुषाद्वाऽपराधान्मृतस्य विधिवद्दाहो नाभूत् किन्तु काष्ठवद्दाहो जातीऽथ वा परदेशगतस्य चौरदंष्ट्र्यादिहतस्य तद्भीतेरेव केनचित् काष्ठवद्दाहोऽपि न कृतोऽथ वैकाकित्वान्न जातस्तदा प्रतिकृतिदाहो विघेयः उक्तञ्च ब्रह्मपुराणे “अनाहिताग्नेर्देहस्तु दाह्यो गृह्याग्निना द्विजैः। तदभावे पलाशोत्थैः पत्रैः कार्यः पुमानपि। सुषिष्टैर्जलसंमिश्रैर्दग्धव्यश्च तथ ग्निना। असौ स्वर्गाय लीकाय स्वाहेत्युक्त्वा सबान्धवैः। एवं पर्णशवं दग्ध्वा त्रिरात्रमशुचिर्भवेत्” इति। तदभावे देहाभावे तथाग्निना गृह्याग्निना अपिशब्दात् स्त्रीमरणे तद्देहाभावे स्त्र्यपि पलाशोत्थैः पत्रैः कार्य्येत्यर्थः। आहिताग्नेस्तु श्रौतसूत्रे विधिमाहापस्तम्बः “यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत स यां दिशमभिप्रस्थितस्तां दिशमस्याग्निभिः कक्षं दहेयुरपि वाजसनेयिनामिति त्रीणि षष्टिशतानि पलाशवृन्तानि तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरिति वा”। अत्र पक्षद्वयं यथाप्रवासगतो यदि न प्रज्ञायेत प्रमीत इति यतो मृत इत्येव निर्णये स यां दिशं प्रस्थितो भवेत्तां दिशं प्रति यः कक्षोऽकृष्टोभूमिप्रदेशस्तृणवांस्तं देशमस्य मृतस्य श्रौत्राग्निभिस्तूष्णीं दहेयुर्बान्धवाः पितृमेधविधिना। अयमेकः पक्षः। अपि वा अथवा। त्रीणि षष्ठ्युत्तराणि शतानि २६० पलाशवृन्तानि पलाशानि पर्णानि यत्र तिष्ठन्ति तादृशानि वृन्तानि संपाद्य तैर्वृन्तैः पलाशवृक्षीयैस्त्रिपत्रैर्वृन्तैः कृष्णाजिने पुरुषा कृतिं कृत्वा तामाकृतिमस्याग्निभिः पितृमेधविधिना दहेयुरिति वाजसनेयिनां मतमिति द्वितीयः पक्षः। पराशरेण तु कुशैः प्रतिकृतिः कार्येत्युक्तम्। “कृष्णाजिने समास्तीयं कुशैस्तु पुरुषाकृतिमिति” कुर्य्यादिति शेषः। अत्र पलाशवृन्तकुशविध्योरन्यतरेणानुष्ठानं व्रीहियववत्तुल्यबलत्वात्। शवप्रतिकृतिदाहानुष्ठानविधिस्तु शौनकाद्युक्त दिशा ज्ञेयः नात्राप्रस्तुतत्वाल्लिख्यते अयं च पलाशवृन्तादिभिः प्रतिकृतिविधिरस्थ्यलाभे यदा तु मृतास्थ्रां लाभस्तदा तैरेव प्रतिकृतिः कार्य्या। यदुक्तं छन्दोगसूत्रे “अथातः पुनर्दाहविधिं व्याख्यास्यामो यदि शरीरं नश्येदस्थीन्यादायास्थीनि क्षीरोदकेन प्रक्षाल्यास्थिभिः कृष्णाजिने पुरुषाकृतिं कृत्वा पूर्बवद्दहेत्तेषामलाभे पलाशवृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा चत्वारिंशता णिरो दशभिर्ग्रीवां विंशत्योरस्त्रिंशतोदरं पञ्चाशता पञ्चाशता बाहूतयोरेव पञ्चभिरङ्गुलीन् सप्तत्या सप्तत्या पादौ तथैवाङ्गु” लीरष्टाभिः शिश्नं द्वादशभिर्वृषणं तां कुशैर्वेष्टयित्वा तस्मिन्नेव पूर्ववद्दहेदिति। अस्यार्थः चत्वारिंशता पलाशवृन्तैः शिरः संपाद्य दशभिर्ग्रीवां विंशत्योरस्त्रि शता जठरं पञ्चाशतैकबाहुं तथैव पञ्चाशताऽपरम् पञ्चभिः पञ्चभिरङ्गनीन् तथा सप्तत्या सप्तत्या पादद्वय तत एव पञ्चभिरङ्गुलीन् एवं पञ्च पञ्च षष्ठ्यैकः पादः सम्पन्नः अष्टाभिः शिश्नं द्वादशभिर्वृषणद्वयं एवं च षष्ट्यधिकत्रिशत्या पलाशवृन्तैरवयवकल्पना भवति तां प्रतिकृतिं तस्मिन्नेव कृष्णाजिने पूर्ववदिति पितृमेधविधिना दहेदित्यर्थः एतादृशे विषये कालनियमः शुक्रारार्किष्वित्यादिनोक्तः यतः “अथातः संप्रवक्ष्यामि यत् पुनर्दहनं नृणाम्” इत्यादिना पद्यसमुदायेन कालशुद्धिमुक्त्वा “अतीतविषये काम्ये न्यूने श्राद्धे महालये। एतत् सर्वं विचिन्त्याशु कुर्याच्छ्राद्धमतन्द्रितः” इति कश्यपेन कालातीतविषयत्वेनाभिधानात्”।
आशौचमध्ये क्रियते चेत्तदा भद्रा भरणी धनिष्ठा पञ्चकादिदोषराहित्यमपेक्षितं, नैव बहुकालव्यापिशुक्रास्तादिदोषापेक्षा कार्येति गर्गवाक्ये यथासम्भवपदस्यार्थः सर्वथा त्वाशौ चदिनेष दुष्टेषु दोषतारतम्येन महादोषत्यागोऽल्पदोषाङ्गीकारी यथा लोकप्रसिद्ध्रिः तादृशे दिने शवप्रतिकृतिदाहो विधेयः सर्वथा दोषरहिते दिने तूत्तम एव सः। अथ यदि मरणश्रवणानन्तराशौचदिनानां राजिकदैविकब्राह्मणाद्यलाभरूपप्रतिवन्धादतिक्रसणमभूचदाशौचमस्ति न वेति विचारः राजिकदैविकसम्भावनायां सत्यां सद्य एव शौचं स्यान्नत्वाशौचं यदाह पराशरः “दुर्मिक्षे राष्ट्रसन्वापे आपदां च समुद्भवे। उपसर्ममृते चेव सद्यः शौचं बिधीयते” इति। यमवृहस्पती “दैवे भये समुत्पन्ने प्रधानांशे विनाशिते। सद्यः शौचं समाख्यातं कान्तारापदि सम्प्रतीति”। पैठीनसिरपि “विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि। न तत्र सूतकं तद्वत् कर्म यज्ञादि कारयेत्” इति। कालान्तरालभ्यायाङ्गयादियात्रायां तादृशे एव तीर्थकर्मणि तीर्थस्नानदानादिकर्माण तादृशे विषये आशौचग्रहाभावादेव शवप्रतिकृतिदाहाभावः यदा तु ब्राह्मणाद्यलाभस्तदाशौचपरिग्रहः स्यादेव परत्वाशौचदिनानन्तरं वर्षमध्ये दिनशुद्धिमपेक्ष्यैव शवप्रतिकृतिदाही विधेयः “आशौचस्य निवृत्तौ चेत् पुनः संस्क्रियते मृतः। संशोध्यैव दिनं ग्राह्यमिति” गर्गेणैवकारसहितदिनपदोक्तेः अयमर्थः अत्रापि भद्राभरणीपञ्चकादिर्दोषः कतिपयदिनव्यापी त्याज्य एव न तु शुक्रास्तादिकबहुकालव्यापि दोषप्रतीक्षा। तदुक्तं ज्योतिर्निबन्धे पितृखण्डे “शुक्रस्यास्तमने चैव देवेज्यस्य तथैव च। प्रेतकार्यं प्रदुष्येत प्रथमं वत्प्ररं विनेति”। अथ यदि वर्षमध्ये राजिक- दैविकाद्युपद्रवः सम्पन्नस्तदा वर्षोत्तरं निषिद्गदक्षिणायनशुक्रास्तादिमहादोषरहिते भद्राभरणीपञ्चकादिदोष रहिते च काले शवप्रतिकृतिदाहः कायः उक्तञ्च गार्ग्येण “ऊर्ध्वं संवत्सराद्यदि। प्रेतकार्याणि कुर्वीतश्रेष्ठं तत्रोत्तरायणम्” इत्यादीनि मूलवाक्यानि प्रागभिहितानि। अतएव मूलपद्येऽप्यव्दात्परतो याम्येऽयने तथा देवेज्य शुक्रास्तके शवप्रतिकृतिदाहो न कार्य इति व्याख्येयम्। प्रथमे वर्षे तु नायं दोषः सर्बत्रापि गयागोदावर्य्योस्तीर्थयोः प्राप्तयोः सतीरयं शुक्रेज्यास्तदक्षिणायनादिमहादोषविचारः कोऽपि नास्ति तदुक्तं ज्योतिर्निबन्धे प्रेतमञ्जर्य्याम्। “प्रेतकार्य्याणि सर्वाणि व्रतस्नानजपादिकम्। वर्ज्यं शुक्रेज्ययोरस्ते गयां गोदावरीं विनेति” पी० धा०। अत्र दर्शे विध्रिनिषेधौ देशाचारभेदात् व्यवस्थाप्यौ पर्णशवपर्णपुत्तलिकादयोऽप्यत्रार्थे।
पर्णभेदिनी = स्त्री पर्ण्णानि भिनत्ति भिद–णिनि ङीप्। १ प्रियङ्गुवृक्षे राजनि०। २ पत्रभेदकमात्रे त्रि०।
पर्णभोजन = पु० स्त्री० पर्णं भुङ्क्ते भुज–ल्यु ६ त। १ छागले त्रिका० स्त्रियां जातित्वात् ङीष्। २ पत्रभक्षकमात्रे लि० भावे ल्युट्। २ पत्रस्य भक्षणे न०।
पर्णमणि = पु० पर्ण्णवर्णो मणिः शा० त०। हरिन्मणौ अथ० ३५१
पर्णमय = त्रि० पर्णस्य विकारः “ह्यचश्चन्दसि” पा० विकारे मयट्। पर्णस्य विकारे “शरमयं बर्हिः” श्रुतिः स्तियां ङीप्। “यस्य पर्ण्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति” श्रुतिः।
पर्णमाचाल = पु० पर्णमाचालयति आ + चल + णिच्–अण् बा मुम्। कारवेल्लवृक्षे (उच्चा) शब्दमाला।
पर्ण्णमुच् = त्रि० पर्ण्णानि मुञ्चत्यत्र मुच–आधारे–क्विप् ६ त। वृक्षाणां पत्रमोचनाधारे शिशिरकाले।
पर्णमृग = पु० पर्णचरो मृगः पशुः। पशुभेदे “वनौका वृक्षमार्जारो वृक्षमर्कटिकादयः। एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः”। वनौका वानरः वृक्षमार्जारो वृक्षविडालः। वृक्षमर्कटिका (रूपी) इति लोके “स्मृताः पर्णमृगाः वृष्याश्चक्षूष्याः शोषिणे हिताः। श्वासार्शःकासशमनाः सृष्टमूत्रपुरीषकाः” भावप्र
पर्णरुह् = पु० पर्ण रोहत्यत्र रुह–आधारे क्विप्। पर्णजननाधारे वसन्तकाले।
पर्णल = त्रि० पर्ण + अस्त्यर्थे सिघ्मा० लच्। पत्रयुक्ते
पर्णलता = स्त्री पर्णप्रधाना लता शा० त०। ताम्बूलीलतायाम् राजनि०।
पर्णवल्क = पु० ऋषिभेदे ततः गर्गा० गोत्रापत्ये यञ् पार्णवल्क्य तद्गोत्रापत्ये पुंस्त्री० स्त्रियां यलोपः ङीष्। पार्णवल्की
पर्णवल्ली = स्त्री पर्णप्रधाना वल्ली शा० त०। पलाशीलतायाम् राजनि०।
पर्णवी = त्रि० पर्णसिव अजति–अज–क्विप् वीभावः। खगे ऋ० ९। ३। १ भा०।
पर्णवीटिका = स्त्री पर्णस्य वीटिका। (पानेर विडा) स्तवकी कृतताम्बूले।
पर्णशद = पु० पर्णानि शद्यन्ते शीर्य्यन्ते शात्यन्ते यत्र शद–संज्ञायां आधारे घ। १ पतितपर्णस्थितिदेशे २ तदूपे रुद्रभेदे च यजु० १६। ४६ वेददीपः।
पर्णशय्या = स्त्री पर्ण्णरचिता शय्या शा० त०। पत्ररचितशय्यायाम्।
पर्णशवर = पुं स्त्री० पर्ण्णभक्षणकरः शवरो यत्र। देशभेदे मार्कण्डपु० ५८ अ०।
पर्णशाला = स्त्री पर्णरचिता शाला शा० त०। १ पत्ररचित कुटीरे उटजे असरः। पर्णमिव शाला यत्र। २ ग्रामभेदे “मध्यदेशे महान् ग्रामो ब्राह्मणानां बभूव ह। गङ्गाययुनयोर्मध्ये य मनस्य गिरेरधः। पर्णशालेति विख्यातो रमणीयो नराधिप!” हरिवं० ६८ अ०
पर्णशालाग्र = पु० भद्राश्ववर्षस्पे कुलाचलभेदे तदुपक्रमे “श्वेतपर्णश्च नीलश्च शैवालश्चतिलोत्तमाः। कौरञ्जः पर्णशालाग्नः पञ्चेते तु कुलाचलाः” मार्कण्डपु०।
पर्णशुष् = पु० पर्णं शुष्यत्यत्र शुष–आधारे क्विप्। वृक्षाणां पत्रशोषाधारे शीतकाले।
पर्णस = त्रि० पर्णस्यादूरदेशादि तृणा० चतुरर्य्यां स। पत्रस्यादूरदेशादौ त्रि०।
पर्णसि = पु० पॄ–पूरणे असि–नुक् च। १ जलमध्यस्थगृहे (जलटुङ्गो) उज्ज्वल०। २ पद्मे उणादिकोषः। ३ शाके ४ आभरणक्रियायाम् संक्षिप्तसारः।
पर्णाढक = पु० ऋ षभेदे तस्य गोत्रापत्यम् इञ् पार्णाढकि तद्गोत्रापत्ये बहुत्वेऽस्त्रियां तस्य लुक्। पर्णाढकाः स्त्रियान्तु पार्णाढक्य इत्येव।
पर्णाद = त्रि० पर्णमत्ति व्रतार्थम् अद–अण् उप० स०। १ व्रतार्थं षत्रभक्षके २ ऋषिभेदे पु० भा० स० ४ अ०।
पर्णाशन = पु० पर्णनि अश्नानि अश–ल्यु। १ मेघे तस्य पत्रभक्षणकाते गलल्लालयाभ्रसम्भवप्रसिद्भिः। २ पत्रभोजिमात्रे त्रि०।
पर्णास(सि) = पु० पर्णानि अस्यति अम–अच्–इन् वा। तुलस्याम् अमरः।
पर्णिन् = पु० पर्ण + अस्त्यर्थे इनि। १ वृक्षे नच २ माषपर्ण्यां स्त्री ङीप् शब्दमाला। ३ अप्सरोभेदे स्त्री हरिवं० २ २६ अ०। पर्णतुल्यवर्णत्वात्तस्यास्तथात्वम्।
पर्णिल = त्रि० पर्ण + अस्त्यर्थे पिच्छा० इलच् उज्ज्वल०। पर्णविशिष्टे पिच्छादिगणसूत्रे तु नास्य पाठा दृश्यते।
पर्णोटज = न० पर्णनिर्मितमुटजम् शा० त०। पर्णशालायाम् हारा०।
पर्द्द = अपानवायुक्रियायां भ्वा० आत्म० अक० सेट्। पर्द्दते अपर्द्दिष्ट पपर्द्दे।
पर्द्द = पु० पृ–बा० द। १ केशसमूहे उणा०। पर्द्द–भावे घञ् २ अपानवायुशब्दे (प्राद)। ल्युट्। पर्दन तत्रार्थे न० हेमच०
पर्प = गतौ स्वा पर० सक० सेट्। पर्पति अपपीत् पपर्प।
पर्प = न० पृ–प। १ गृहे २ नवतृणे उणादिकोषः २ खञ्जवाहनसाधने पीठादौ सि० कौ०। तेन चरति पर्पा० ष्ठन्। पार्पिक पर्पेण गतियक्ते खञ्जे। स्त्रियां षित्त्वात् ङीष्।
पर्पट = पु० पर्प + शका० अटन्। (क्षेतपापडा) १ वृक्षभेदे “पर्पटो वरतिक्तघ स्मृतः पर्पटकश्च सः। कथितः पांशुपर्य्यायस्तथा कवचनामकः। पर्पटी हन्ति पित्तास्रभ्रम तृष्णाकफज्वरान्। संग्राही शीतलस्तिक्तो दाहनुद्वातलो लथुः” भावप्र० (पा~पर) ख्याते २ पिष्टकभेदे पु कृतान्नशब्दे २१८२ पृ० दृश्यम्। मेदिन्यां अत्रार्थे क्लीवत्वेन पठितः। ३ औषधभेदे पु० मेदि० स्वर्णपर्पट इत्यादि स्वार्थे क। पिष्टकभेदे भावप्र।
पर्पटद्रुम = पर्पट इव द्रुमः। कुम्भीवृक्षे राजनि०।
पर्पटी = स्त्री पर्प–अटन् गौरा० ङीष्। १ मौराष्ट्रमृत्तिकायाम् रत्नमाला। २ पिष्टकभेदे (पा~पर) उणादिकोषः। ३ उत्तरदेशपसिद्धस्नुगन्धिद्रव्ये भावप्र०। “पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः। विषव्रणकण्डुकफपित्तास्रकुष्ठनाशिनी” भावप्र०।
पर्परीक = पु० पृ–ईकन् द्वित्वमभ्यासस्य रुक् च। १ मूर्य्ये उज् ज्वलद० २ वह्रौ त्रिका०। ३ जलाशये संक्षिप्रसारः
पर्परीण = पु० पॄ–यङ्लुक् वा० ईनन्। १ पर्णस्य सिरायां २ द्यू तकम्बले च मेदि०।
पर्पादि = तेन चरतीत्यर्थे ष्ठन् प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “पर्प अश्व अश्वत्थ रथ जान्यास व्याल (पादः पच्च) पर्पिक इत्यादि।
पर्फरीक = न० स्फुर–ईकन् “पर्फरीकादयश्च” उणा० नि० किसलये नवपलवे उज्ज्वद०।
पर्ब = गतौ भ्वा० पर० स सेट्। पर्तति अपर्वीत् पपर्ब।
पर्य्य(ल्य)ङ्क = पु० परिगतोऽङ्कम् प्रा० समा० “परेश्च अङ्कयोः वा रस्य लः। १ खट्वायाम् (पालङ्क) अमरः। २ वीरासनाङ्के अङ्गस्थापितकरतले यथाह योगसारे वसिष्ठः “एकं पादमथैकस्मिन् विन्यस्योरौ तु संस्थितम्। इतरस्मिन् तथैवोर्द्ध्वं वीरासनमिदं स्मृतम्। उत्तानिते करतले करमुत्तानितं परम्। आधायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम्”। ३ अवसिक्थकायाम् हेमच०। ४ योगपट्टे च।
पर्य्यङ्कपादिका = स्त्री पर्य्यङ्कस्येव पादोऽस्त्यस्याः ठन् बहु० कप् वा कापि अतैत्त्वम्। कोलशिम्ब्याम् राजनि०।
पर्य्यङ्कबन्ध = पु० पर्य्यङ्कस्य योगपट्टस्य बन्धः बन्ध–घञ्। योगपट्टवस्त्रादिना पृष्ठजानुजङ्घाबन्धने “पर्य्यङ्कबन्धं निविडं बिभेदेति” कुमारः। ल्युट्। पर्य्यङ्कबन्धन अत्रैव न०।
पर्य्यग्निकृत = त्रि० अग्नेः परितः कृतः। “समन्तादग्निवेष्टनेन कृतसंस्कारे “तान् वर्व्य ग्निकृतानुत्सृजति” ताण्ड्य० ब्रा०।
पर्य्यङ्क्य = पु० अश्वमेधीये प्रथमयूपे बन्धनीयेषु पञ्चदशसंख्याकेषु पशुभेदेषु ते च यजु० २४१ मन्त्रे उक्ताः। “ते वात्र ते पञ्चदश षर्य्यङ्क्याः पशवो भवन्ति” शत० ब्रा० १३२२१। “पर्य्यङ्क्यानश्वे” कात्या० श्रौ २०। ५। ४। “कृष्णग्रीवादयः वामनानाताः पञ्चदश पर्य्यङ्क्यसंज्ञा इत्यर्थः” कर्कः।
पर्य्यटन = न० परितोऽटनम्। पुनःपुनर्भ्रमणे हेमच०।
पर्य्यनुयोग = पु० परितोऽनुयोगः प्रश्नः। दूषणार्थं जिज्ञासायाम् हलायु० “एतेनास्यापि पर्य्यनुयोगस्यानवकाशः” इति दायभागः।
पर्य्यनुयोज्य = त्रि० परि + अनु–युज–कर्मणि ण्यत्। निग्र होपपत्त्या चोदनीये (निग्रहस्थानं प्राप्तोऽसि) इव्येवमनुयोज्ये न्यायभाष्यम्।
पर्य्यनुयोज्योपेक्षण = न० गौतमोक्ते निग्रहस्थानभेदे निग्रहस्थानप्रप्प्तस्योपेक्षणे। “अनिग्रहः पर्य्यनुयोज्योपेक्षणम्” गौ० सू०। पर्य्यनुयोज्योपेक्षणं लक्षयति। निग्रहस्थानं प्राप्तवतोऽनिग्रहः निग्रहस्थानानुद्भावनमित्यर्थः यत्र त्वनेकनिग्रहस्थानपाते एकतरोद्भावनं तत्र न पर्य्यनुयोज्योपेक्षणम् अवमरे निग्रहस्थानोद्भावनत्वावच्छिन्नाभावस्येव तत्त्वात् ननु वादिना कथमिदमुद्भाव्यं स्वकौलीनविवरणस्यायुक्तत्वादिति चेत् सत्यं मध्यस्थेनैवसद्भाव्यं वादे च स्वयमुद्भावनेऽप्यदोषः” वृत्तिः।
पर्य्यन्त = पु० परिगतोऽन्तम् प्रा० स०। शेषसीमाप्राप्ते।
पर्य्यन्तभू = स्त्री “पर्य्यन्तस्य शेषसीमाया भः। ग्रामादेः शेषसोमास्थाने परिसरे अमरः।
पर्य्यन्तिका = स्त्री परितोऽन्तिका। गुणनाशे हारा०।
पर्य्यन्य = पु० पर्जन्यः + पृषो०। पर्जन्यशब्दार्थे उणा०।
पर्य्यय = पु० परित्यज्य शास्त्रलौकिकमर्य्यादाम् अयः इण–भावे अच्। शास्त्रलोकव्यवहारातिक्रान्ते आचारे अमरः।
पर्य्यवसान = न० परि + अव + सो–भावे ल्युट्। १ तत्तदर्थावधारणे २ शेषावथौ च।
पर्य्यवसित = त्रि० परि + अव + सो–कर्मणि क्त। १ पूर्वापरालोचनेन अवधारितेऽर्थे २ निष्कृष्टार्थे च।
पर्य्यवस्था = स्त्री परि + अव + स्था–अङ्। १ विरोधे २ प्रतिपक्षवादे च। ल्युट्। पर्य्यवस्थान तत्रैव न०। तृच् पर्य्यवस्थातृ तत्कर्त्तरि त्रि०। “परितः विश्वं व्याप्य स्थितः। षर्य्यवस्थित विष्णौ पु० “जीवनः पर्य्यवस्थितः” विष्णुस०।
पर्य्यसन = न० परि + अस–क्षेपे–भावे ल्युट्। १ अपसारणे २ दूरीकरणे परितः ३ क्षेपणे च।
पर्य्यस्त = त्रि० परि + अस्–क्षेपे कर्मणि क्त। १ परितः क्षिप्ते २ पतिते च मेदि०।
पर्य्यस्ति = स्त्री पर्य्यस्यते शरीरं यत्र परि + अस–क्षेपे आधारे भावे वा क्तिन्। १ पल्यङ्के (पालङ्ग) त्रिका० तत्रार्थे २ दूरीकरणे च स्वार्थे क। पर्य्यस्तिका हेमच०।
पर्य्याचान्त = न० परित आचान्तम्। एकपङ्क्तिस्थान् भुञ्जानानन्यानवमत्य यत्रान्येनान्ने भुज्यमाने अन्येनाचमनं कृतं तादृशे अन्ने तच्चान्नमभक्ष्यम् “उग्रान्नं सूतिकान्नञ्च पर्याचान्तमनिर्दशम्” मनुव्याख्यायां कुल्लूकभट्टः। “उदक्यास्पृष्टसंघुष्टं पर्य्याचान्तञ्च वर्जयेत्” याज्ञ०। मुद्रितपुस्तके पर्य्यायान्नमिति पाठः प्रामादिकः मनुनैकवाक्यत्वात् तथा पाठस्य युक्तत्वात्।
पर्य्याचित = त्रि० परि + आ + चि–क्त। आचिते आचिता० नास्यान्तोदात्तता।
पर्य्याण = न० परि + या–ल्युट् पृषो०। १ अश्वसज्जायां २ पल्ययने (जिन्) इण–ल्युट्। पर्यायणमप्यत्र।
पर्य्याणहन = न० सोमोऽनसि स्थितः समन्तादानह्यतेऽनेग परि + आ + नह–करणे ल्युट्। सोमशकटोपरिगत पटकुटीरूपे तद्बन्धनोपाये पदार्थे कात्या० श्रौ० ७। ७। १३०
पर्य्याप्त = न० परि + आप–भावे–क्त। १ यथेष्टे २ तृप्तौ ३ सामथ्ये ४ निवारणे ५ योग्यत्वे च। कर्त्तरि क्त। ६ समर्थे ७ प्राप्ते च त्रि० मेदि०। ८ षर्य्याप्तिमम्बन्धयुक्ते त्रि०।
पर्य्याप्ति = स्त्री परि + आप–भावे क्तिन्। १ सम्यक् प्राप्तौ न्यायमतसिद्धे २ स्वरूपसम्वन्धभेदे तथाहि “द्वित्वादिकं पर्याप्तिसम्बन्धेन दित्रादिष्वेव वर्त्तते न प्रत्येकम। समवायेन तु प्रत्येकवृत्ति। “प्रत्येकावृत्तेः समुदायावृत्तित्वनियममस्तु समवायादिनैव न पर्य्याप्तिसम्बन्धेनेति भेदः। स च सवेषामेव पदार्थाना विशिष्टबुद्धिनियामकः। पदार्थभेदेन नाना यथा “पर्य्याप्तिश्चायमेको घट इमौ द्वौ इत्यादि प्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः” इति दीघितिः। समवायेन गुणे गुणस्यासत्त्वेऽपि चत्वारो गुणा इत्यादिप्रतीत्या गुणादिषु संख्यादिसत्त्वनियामकोऽपि तादृशः सम्बन्धः” इति सामान्यभावे जगदीशः द्वितीयवुत्पतिवादे गदाधरभट्टाचार्यश्च। पर्याप्तिर्द्विविधा अर्धपर्य्याप्तिः पूर्णपर्य्याप्तिश्च। तत्र प्रथमा यत्राधिकस्य निरासार्था या पर्य्याप्तिर्निवेश्यते सार्धपर्य्याप्निः यथा पर्वतो वह्निमान् धूमादित्यादौ साध्यतावच्छेदककह्नित्वनिष्टा पर्य्याप्तिः। द्वितीया। यत्र न्यूनवारणाय या पर्य्याप्तिर्निवेश्यते सा पूर्णपर्य्याप्तिः। यथा पर्वतो न महानसीयवह्निमानित्यादौ साध्यतावच्छेदकीभूतमहानसीवत्वविशिष्टवह्नित्वनिष्ठा पर्याप्तिः”।
पर्य्याप्लाव = पु० परि + आ–प्लु थञ्। १ अभिप्लवशब्द र्थे तैत्ति० स्र० ७ ५ ७ २। २ परित आप्लाव (छयलापि)।
पर्याय = पु० परि + इण–घञ्। १ अनुक्रमे २ प्रकारे ३ अवसरे मेदिनिः ४ निर्माणे ५ द्रव्यधर्मभेदे ६ समानार्थबोधके शब्दे च हेमच०।
पर्य्यायशयन = न० पर्य्यायेण क्रमेण शयनम्। यामिकभटानां क्रमेण शयने अमरः।
पर्य्यायोक्त = न० अर्थालङ्कारभेदे अलङ्कारशब्दे दृश्यस।
पर्य्यारिणी = स्त्री परि + ऋ–णिनि ङीप्। १ परित आर्त्तिमत्यां व्याधिग्रस्तायां गवि “तस्य दक्षिण्णा कृष्णा गौः परिमर्णी पर्य्यारिणो” शत० ब्रा० ५। ३। १। १३। २ परित आर्त्तियुक्ते त्रि०।
पर्य्याली = अव्य० परि + आ–अल ई ऊर्य्यादि०। हिंसायाम् गणरत्नटी० पर्य्यालीकृत्य हिंसित्वेत्यर्थः।
पर्य्यालोचन = न० परि + आ + लोच–भावे ल्युट्। सम्यग्विवेचने
पर्य्यावर्त्तन = न० परि + आ–वृत–ल्युट्। सूर्य्यस्य पश्चिमवर्त्तिन्याः छायायाः पूर्वदिग्बर्त्तित्वेन परिवृत्तौ “सन्धिश्चेत् सङ्कवादूर्द्धं प्राक् पर्य्यावर्त्तनाद्रवेः” कर्मप्रदीपः।
पर्य्यास = पु० परि + अस–क्षेप घञ्। १ परिवर्त्ते “पर्य्यासं च परिमाणञ्च गतिं चन्दार्कयोरपि” मार्कण्डपु०। २ पतने ३ हनने च। वहिष्पवमानगतानां त्रयाणां तृचानां मध्ये ४ अन्तिमे तृचे। “स्तोत्रीयानुरूपौ तृचौ भवतो घृषण्वन्तस्तृन्ना मवन्ति उत्तमः पर्य्यासः” सा० सं० भा० ध्रता श्रुतिः।
पर्युक्षण = न० परित उक्षणम्। जलादेः मन्त्रवर्जं तुष्णीं जलादेः परितः सेचने। “उदक्संस्थन्तूष्णीं पर्युक्षणम्” आश्व० गृ० १। ३। १ “तुष्णीं ग्रहणं मन्त्रवर्जमन्ये धर्मा अग्निहोत्रदृष्टा भवन्तीत्येवमर्थम्। त्रिस्त्रिरेकैकं पुनःपुनरुदकमादायादायान्ते च कर्मणां पर्युक्षणम्” नारा० एतच्च ऋग्वेदिविषयम् सामगानां तु तत्र गीभिलेनमन्त्रभेदा उक्ता यथा “अग्निमुपसमाधाय पसिसमुह्य दक्षिण जान्वक्तो दक्षिणेनाग्निम् “अदितेऽनुमन्यस्वेति” पश्चात् “स्वरस्वत्यनुमन्धस्वेति” उत्तरतः, “देवसवितः प्रमुबेति” प्रदक्षिणमग्निं पर्युक्षेत् सकृत्तिर्वा”।
पर्युदञ्चन = न० पर्युदञ्च्यते उदयते परि + उद्–अन्च कर्मणि ल्युट्। १ऋणे अमरः भावे ल्युट्। २ उङ्गरे च।
पर्युदय = अव्य० उदयस्य सामीप्यम् सामीप्ये अव्ययी०। उदयसामीप्ये सूर्य्योदयसमीपे कात्या० श्रौ०। ४। ७। २५
पर्युदस्त = त्रि० परि + उद् + अस–क्त। १ निवारिते २ फलप्रत्यवायशून्यतया कोर्विते नञा भेदप्रतियोगिनि “यथा रात्रौ श्राड्गं न कुर्वीत” इति अत्र हि रात्रौ श्राद्धे न फलं न वा प्रत्यवायः इति रात्रिः पर्युदस्ता तद्भिन्नामावस्या नञा बोध्यते। ३ परित उत्क्षिप्ते च।
पर्युदास = पु० परि + उद् + अस–घञ्। १ निवारणे फलप्रत्यवायशून्यतया “प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्रधा नता। चर्युदासः स विशेयो यत्रीत्तरपदेन नञ्” इत्युक्तलक्षणे भेदरूपे नञर्थे। नञ्शब्दे मतभेदेन विस्तरो दृश्यः।
पर्युपवेशन = न० परित्यज्य कर्मान्तरमुपवेशनम्। सोमाभिषवादिकर्मपरिहारेण उपवेणनमात्रे क्यत्या० श्रौ० ९। ४। १ व्याख्यायां दृश्यम्।
पर्युप्ति = स्त्री परि + वप–भावे क्तिन्। परितो वपने मेदि०
पर्युषित = त्रि० परिहृस स्वकालमतिक्रम्य उषितम् वम–क्त। (वासि) कालातिक्रान्ते गतरातिकालके द्रव्ये। देवेभ्यः पर्युषितपुष्पदानं निषिन्नं यथा नारसिंहे “अपर्युषितनिश्छिद्रेः प्रोक्षितैर्जन्तुवर्जितैः। स्त्रीयारामोद्भवैर्वापि पुष्यैः संपूजयेल्लरिम्” योगिनीतन्त्रे तत्प्रसवः “विल्वपत्रञ्च माध्यञ्च तमालामलकीदलम्। कह्णारतुलसी चैव षद्मञ्च मुनिपुष्पकम्। एतत् पर्युषितं न स्यात् यच्चान्यत् कलिकात्मकम्”। पर्युषितान्ना- दिभक्षणनिषेधो यथा “शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम्। उदक्यास्पृष्टसंथुष्टं पर्य्याचान्तञ्च वर्जयेत्” गरुडपु० “यातयामं गतरसं पूति पर्युषितञ्च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्” गीता। “शुक्तं पर्युषितञ्चैव शूद्रोच्छिष्टन्तथैव च” मनुः। अत्र प्रतिप्रसवः पर्युषितं रात्र्यान्तरितं तत्तु स्नेहाक्तं भक्ष्यमाह सनुः “यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यभोज्यमगर्हितम्। तत् पर्युषितमप्याद्यं हविःशेषञ्च यद्भवेत्” विशेषमाह सएव “चिरसंस्थितमप्याद्यं सुस्नेहाक्तमपि द्विजैः” श्राद्धत० “मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप!। अन्यत्र फलशाकेभ्यः शुष्कशाकालिकात्ततः। तद्वद्वदरिकाभ्यस गुडपक्वेभ्य एव” आह्नित० “ग्रहे पर्युषितञ्च यत्” स्मृत्युक्तनिषेधविषये प्रतिप्र सवः उपरागशब्दे दृश्यः।
पर्यूहण = न० परि + ऊह–भाषे ल्मुट। परिसमूहने अग्नेः समन्तान्मार्जने कात्या० श्रौ० ८। ५ ३५
पर्य्येषणा = स्वी परितस्तर्कादिना एषणा परीक्षा। १ तर्कादिना षदार्थपरीक्षायाम् २ अन्वेषणायाञ्च अमरः। परि + एषि–भावे ल्युट्। पर्य्येषणन० तत्राथे। क्तिन्। पर्य्येष्टि स्त्री तत्रार्थे।
पर्य्येहि = त्रि० परि + आ + ईह–इन्। समन्ताच्चेष्टाकारके स्त्रियां शाङ्गरवा० ङीन्। कृदिकारान्तत्वेन ङीपः प्राप्तावपि नित्स्वरार्थं ङीनोविधानम्।
पर्व = पूर्त्तौ भ्वा० पर० सक० सेट्। पर्वति अपर्वीत्। पपर्व।
पर्वक = न० पर्वणा कायति कै–क। ऊरुसन्धौ (आ~टु) शब्दच०
पर्वका(र)रिन् = त्रि० अपर्व पर्व तत्तुल्यक्रियं करोति कृ–अण् णिनि वा। धनलोभादिना अपर्वदिने पर्वोक्तकर्मकारिणि
पर्वगामिन् = पु० पर्वसु गच्छति स्त्रियं गम + णिनि। पर्वकाले स्त्रीगमनकारिणि पर्वशब्दे तत्र स्त्रीगमननिषेधो दृश्यः
पर्वण = पु० १ राक्षसभेदे भा० व० २ ३ ४ अ०। पर्व पूत्तौ करणे ल्युट्। २ पूर्त्तिकरणे स्त्रियां ङीप् सा च ३ पौर्णमास्याम्। “चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पतिः” हरिब० १५ ३ अ०। पर्वणि सन्धौ जाता अण् संज्ञापूर्वकत्वात् न वृद्धिः ङीप्। सुश्रुतोक्ते ४ सन्धिगतरोगभेदे स्त्री “ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा”।
पर्व(णी)णिका = स्त्री पर्वणी + स्वार्थे क। पर्वगतरोगभेदे सुश्रुतः।
पर्वत = पु० पर्व–अतच् पर्वाणि मागाः सुन्त्यस्प त वा। १ गिरौ अमरः दानार्थं कल्पिते पर्वताकारे २ धान्यादिर्शलदशके ३ मुनिभेदे कश्यपात् नारदश्चैव पर्वतोऽरुन्धती तथा” तस्य नारदसोदरत्वमुक्तम्। मा० शा० ३० अ० तु तस्य नारदभागिनेयत्वमुक्तम् तच्च कपिवक्त्रशब्दे १ ६ ७ ६ पृ० दर्शितम्। कृल्पभेदादविरोधः। ४ मत्स्यभेदे (पावदा) ५ वृक्षे ६ शाकभेदे च मेदिनिः। ७ गन्धर्वभेदे भा० आ० १८७ अ०। धर्मस्य पुत्रं साध्यायां जाते ८ देवभेदे मत्स्यपु० २० ४ अ०।
सुमेरोः पूर्वे पर्वता यथा “शीताक्तश्चक्रमुञ्जश्च कुलीरोऽश्वश्च कङ्गवान्। मणिशैलोऽथ वृषवान् महानीलो भवाचलः। सुविन्दुः मन्दस्ये वेणुः सुमेषो निमिपस्तथा। देवशैलस्य पूर्वेण मन्दरश्च महावलाः सुमेरोः दक्षिणे पर्वता यथा “त्रिकूटः शिखराद्रिश्च कलिङ्गोऽथ सतर्कुकः। रुचकः सानुमांश्चैव ताम्रकोऽथ विशाखवान्। श्वेतोदरः समलयो बसधारश्च रत्रवान्। एकशृङ्गो महाशैलो गजशैलः पिशाचकः। पञ्चशैलोऽथ कलासो हिमवांश्चान्नलोत्तमः। इत्येते दक्षिणे पार्श्वे मेरोः प्रोक्ता महानलाः”। सुमेरोः पश्चिमे पर्वता यथा “मुचक्षुः शिशिरश्चैव वैदूर्य्यः पिङ्गलस्तथा। पिञ्जरोऽथ तथा भद्रः सुरसः कपिलो मधुः। अञ्जनः कुक्कुटः कृष्णः पाण्डुरश्चाचलोत्तमः। महस्रशिस्वरश्चाद्रिः पारिपात्रः सशृङ्गवान्। पश्चिमेन तथा मेरोर्विष्कम्भात् पश्चिमाद्वहिः। एतेऽचलाः समाख्याताः शृणुष्वातस्तथोत्तरान्”। सुमेरोरुत्तरे पर्वता यथा “शङ्ककूटोऽथ ऋषभो हंसनाभौ तथाचलौ। कपिलेन्द्रस्तथा शैलः सानुमान्नील एव च। शतशृङ्गः स्वर्णशृङ्गः पुन्नाको मेघपर्वतः। विराजाख्यो वराहाद्रिर्मयूरी रुचिरस्तथा। इत्येते कथिता ब्रह्मन्मेरोरुत्तरतो नगाः” मार्कण्डेय पु०।
श्रेष्ठपर्वता विंशतिर्यथा “हिमवाम् हेमकूटश्च निषधो नीलपर्वतः। श्वेतश्च शृङ्गबान् मेरूर्माल्यवान् गन्घमादनः। महेन्द्रो मलयः सह्यः शुक्तिमानृक्षमानपि। बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा। लोकालोको महांस्तेषु तथैवोत्तरमानसः। एते विंशतिर्विख्याताः पर्वतास्तस्थषांवराः”। गिरीणां सपक्षत्व तच्छेदनकथा यथा “ततोऽद्रयो जातपक्षा विष्णोश्चैव तु मायया। प्रस्थिता मेदिनीं त्यक्त्वा यथापूर्व” नियेथिताः। तत्स्थानममुराष्णान्तु धात्रादिष्ट जला- र्णवे। प्रतीच्यां पर्वताः सषे निममज्जुर्यथा गजाः।
तत्रामुरेभ्यः शंसुस्ते आधिपत्य सुराश्रयम्। तच्छ्रुचैव सुराः सर्वे चक्रुरुद्योगमुत्तमम्” इत्युपक्रमे तेषां युद्गमुक्त्वा युद्गजयानन्तरं तेषां पक्षच्छे दौक्ती यथा
“धरण्यान्तु गिरीन् स्थाप्य स्वेषु स्थानेषु गोपतिः। ग्रिच्छेद पविना ग्रक्षान् सर्वेषां भुविचारिणाम्। एकः पपक्षो मैनाकः सुरैस्तत्समये कृतः” अग्निपु०। पर्वतानां स्थावरजङ्गमरूपे द्वे रूषे यथा “नद्यश्च पर्वताः सर्वे द्विरूपाश्च स्वभावतः। तोयं नदीनां रूपन्तु शरीरमपरन्तथा। स्थावरं पर्वतानान्तु रूपं कायस्तथाऽपरः। शुक्तीनामथ कम्यूना तथैवान्तर्गता तनुः। बहिरस्थिस्नरूपन्तु सर्वदैव प्रवर्त्तते। एवं जलं स्थाबरश्च नदीपर्बतयोर्यथा। अन्तर्वसति कायस्तु सततंनोपलभ्यते। आप्याय्यते स्थावरेण शरीरं पर्वतस्य तु। तथा नदीनां कायस्तु तोयेनाप्याय्यते सदा। नदीनां कामरूपित्वं पर्वतानां तथैव च। जगत्स्थित्यै पुरा विष्णुः कत्पयामास यत्नतः। तोयहानौ नदीदुःस्वं जायते सततं द्विजाः १। विशीर्शो स्थावरे दुःखं जायते गिरिकायगम्” कालिकापु० २ २ पु०।
पर्वतकाक = पुंस्त्री० पर्वते भवः काकः। द्रोणकाके हेमय० स्त्रियां जातित्वात् ङीष्।
पर्वतज = त्रि० पर्वताज्जायते जन–ड ५ त०। १ गिरिजातमात्रे २नद्यां स्वी हेमच०।
पर्वततृण = न० पर्वतभवं तृणं शा० त०। (सण्ड) गिरि तृणभेदे राजनि०।
पर्वतपति = पु० ६ त०। हिमालये पर्वतनाथादयोऽप्यत्र।
पर्वतमोचा = स्त्री पर्वतोड्गवा मोचा शा० त०। गिरिकदल्यां राजनि०।
पर्वतराज् = पु० पर्वतेषु राजते राज–क्विप्। हिमालये
पर्वतराज = पु० ६ त० टच्समा०। हिमालये “आरभ्य तस्यां दशमीञ्च यात् प्रपूजयेत् पर्वतराजपुत्रीम्” ति० त०।
पर्वतवासिन = त्रि० पर्वते वसति वस–णिनि ७ त०। १ गिरिवासिनि स्त्रियां ङीप्। सा च २ आकाशमांआंस्यां राजनि०
पर्वतात्मजा = स्त्री ६ त०। हैमवत्यां दुर्गाया हरिवं० १७६ अ० २ मनाके पु० पर्वतसुतादयोऽप्यत्र।
पर्वताधारा = स्त्री पर्वत आधारो यस्याः। पृथिव्यां नगानां भूधरत्वेन तस्यास्तथात्वम्
पर्वतारि = पु० ६ त०। इन्द्रे शब्दरत्ना०। तस्य तत्पक्षच्छेत्तृत्वात् तथात्वम् पर्वतशब्द दृश्यम्।
पर्वताशय = पु० पर्वते आशेते आ + शौ–अच्। मेघे शब्दच०।
पर्वताश्रय = त्रि० पर्वत आश्रयो यस्य। १ पर्वतवासिनि २ शरभे पुंस्त्री० राजनि० स्त्रियां जातित्वेऽपि योपधत्वात् टाप्।
पर्वतासन = न० रुद्रयामलोक्ते आसनमेदे यथा “अथ वक्ष्ये महादेव! पर्वतासनमङ्गलम्। यत् कृत्वा स्थिररूपिण्याः षट्द्यक्रादिविलोडनम्। योन्यासनं पर्वतेन योगं योगबलाबलम्। तत्कालं च फलं तावत् स्वेचरो यावदेव हि। पादगेष्णेन चाक्रम्य लिङ्गाग्रं यो नियोजयेत्। अन्यत् पदमूरौ दत्त्वा तत्र योन्यासनं भुवि। एतन्मध्ये महेशान! पर्वतासनमुच्यते”।
पर्वतीय = पु० पर्वते भवः छ। (पाहाडीया) जातिभेदे
पर्वतेष्ठा = त्रि० पर्वते स्था–क्विप् अत्वम् अलुक्समा०। १ पर्वतस्थायिनि ऋ० ६ २२। २ लोके तु न षत्वम्।
पर्वधि = पु० पर्वणि दधाति किरणवृद्धिं धा–कि। चन्द्रे त्रिका०
पर्वन् = न० पॄ–वनिप्। १ उत्सवे २ ग्रन्थौ (गा~ट) ३ लक्षणभेदे ४ प्रस्तावे ५ ग्रन्थविच्छेदस्थागे मेदि। “चतुर्दश्यष्टमी चैव अमावस्या च पूर्णिमा। पर्वाण्येतानि राजेन्द्र! रविसंक्रान्तिरेव च” इति स्मृत्युक्तेषु पञ्चसु ६ कालभेदेषु च “स्त्रीतैलमांससंमोगी पर्वस्वेतेषु वै पुमान्। विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः” विष्णुपु०। तत्र कर्त्तव्यमाह “नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः चन्द्रार्कयोर्ग्रसुणयोर्व्यतिपातेषु पर्वसु। अहोरात्रोषितः स्वानं श्राद्गं दानं तथा जपम्। यः करोति पवित्रात्मा तस्य स्यादक्षयं फलम्” ब्रह्मपु० “अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः। न मर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत्” कूर्मपु। ७ दर्शान्तपूर्णिमान्तरूपकाले “गतैष्य पर्वनाडीनाम्” सू० सि० “पर्वनाड्यः दर्शान्तपूर्णिमान्त नाड्यस्तासाम्” रङ्ग। ९ अंशे भागे “विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि” पात० सू० “अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः” विष्णुपु० “त्रिंशकद्वादशांशस्य चतुर्विंशतिपर्वणः” भा० व० १३३ अ०। राशिचक्रे स्वस्व गत्या गच्छतोः सूर्य्यचन्द्रयोर्यदात्यन्तं विप्रकर्षस्तदा पौर्णमासी यदाऽत्यन्तं सन्निकर्षस्तदा दर्शः ते द्वे पर्वणी एवं चतुर्बिंशत्या पर्वभिश्चतुष्पञ्चादधिकेन शतत्रयेण चान्द्रो वर्षः” नील०। “पर्वणोऽंशे चतुर्थे च कर्त्तव्येष्टिर्द्विजोत्तमैः” कालमाधवधृतस्मृतिः। राशिचक्रे अयनसंक्रान्तेर्बिषुवद्वयस्य अ सन्धितुष्यत्वात् पर्वत्वमुन्नेयम्। चातुर्मास्ययागे वेश्वदेववरुणप्रघासशाकमेधसुनासीरीयाख्येषु १० चतुर्षु यागेषु तेषाञ्चोतसबरूपत्वात्तथात्वमि- त्थन्ये कात्या० श्रौ० ५। १। १ सूत्रत्थाख्याने दृश्यम्। “द्वयोः प्रणीयन्तीत्यधिकरणे पर्वचतुष्टयविहिताया उत्तरवेदेर्ग पर्वद्वये प्रतिषेध उपपद्यते तत्र पर्वद्वये विकल्पसापेक्षं बिधानं पर्वद्वये च निरपेक्षमिति” दायभा० “पर्वचतुष्टयेति चातुर्मास्ययागपसङ्गे वैश्वदेववरुणप्रघासशाकमेधसुनासीरीयाख्याश्चत्वारो यागाः चातुर्माससाध्या उक्ताः तत्र च “उपात्र वपन्ति न वैश्वदेवे न सुनासीरीये उरू वा एतौ यज्ञस्य यद्वरुणप्रघासः शाकमेधश्चेति द्वयोः प्रणयन्तीति” श्रुतिरस्ति। अस्यार्थः अत्र पर्वसंज्ञके यागचतुष्के उत्तरवेदिम् उपवपन्ति निर्षपन्ति सम्पादयन्तीत्यर्थः इति उत्तरवेदिः अग्निप्रणयनपात्रम्” श्रीकृष्णः। एतच्च श्रौतकर्मानभिज्ञानादुक्तम् “उत्तरवेदिं निवपत्युत्तरस्याम्” कात्या० श्रौ ३। ३। १९ सूत्रादौ स्थण्डिलभेदस्यैव उत्तरवेदिनामता उक्ता यथा “वक्ष्यमाणेन प्रकारेण उत्तरस्यां वेदौ उत्तरवेदिं निर्वपति उत्तरवेदिरिति वक्ष्यमाणसंस्कारसंस्वृतस्य चात्वासमृदा कृतस्य स्थण्डिलस्य नामधेयम्” कर्कः। तदुत्तरत्र सूत्रेषु तन्निर्माणप्रकार उक्तः चात्वालशब्दे च शत० ब्रा० भाष्यवाक्यं दृश्यम्। ११ चन्द्रसूर्य्ययोरुपरागे च पर्वेशशब्दे दृश्यम्। १२ प्रतिपत्पञ्चदश्योरन्तराले काले पर्वसन्धिशब्दे दृश्यम्। पर्वणि विहितः तत्र भवो वा अण्। पार्वण अमावास्यादिविहिते श्राद्धे पर्वभवे त्रि०
पर्वमूला = स्त्री पर्वणि पर्वणि मूलं यस्याः मूलान्तत्वात् जातित्वेऽपि टाप्। श्वेतदूर्वायां राजनि०।
पर्वयोनि = पु० पर्व ग्रन्थिर्योनिरुत्पत्तिसाधनमस्य। इक्ष्वादौ हेमच०। तस्य ग्रन्थितएवोत्पत्तेस्तथात्वम्।
पर्वरीण = पु० पर्परीण + पृषो०। १ पत्रवृन्तरसे २ गर्वे ३ मारुते ४ पर्णसिरायां ५ मृतके ६ द्यूतकम्बले ७ पत्रचूर्णरसे च ८ पर्वणि न० शब्दरत्ना०।
पर्वरुह् = पु० पर्वणि रोहति रुह–क्विप्। दाडिमे त्रिका०
पर्ववल्ली = स्त्री पर्व प्रधाना ग्रन्थिश्रेष्ठा वल्ली। मालादूर्वायाम् (गाटदूर्वा) राजनि०।
पर्वसन्धि = पु० पर्वणोः सन्धिः। पर्वणोः पञ्चदशीप्रतिपदोरन्तादिदण्डचतुष्टयात्मकाले अमरः “सैंहियो यदा राहुर्ग्रसते पर्वसन्धिषु” यमः। दण्डचतुष्टयोक्तिः प्रायिकी सू० सि० ग्रहणेष्टकालस्य अन्यथा दर्शितत्वात्। तच्च उषरागशब्दे दृश्यम्।
पर्वावधि = पु० ६ त०। परग्रन्था हारा०।
पर्वास्फोट = पु० ६ त०। अङ्गुलिपर्वण आस्फोटने कामन्दकी
पर्वित = पु० स्त्री० पर्व–क्त। (पावदा) पर्वतमत्स्ये शब्दच०।
पर्वेश = पु० ६ त०। ग्रहणकालभेदानामधिपभेदे स च वृ० सं० ५ अ० उक्तो यथा “षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः। व्रह्मशशीन्द्रकुवेरा वरुणाग्नियमाश्च विज्ञेयाः। १ ब्राह्मे द्विज पशुवृद्धिक्षेमारोग्याणि शस्यसम्पच्च। तद्वत् २ सौम्ये पीडा विदुषामवृष्टिश्च। ३ ऐन्द्रे भूपविरोधः शारदसस्यक्षयो न च क्षेमम्। ४ कौवेरेऽर्थपतीनामर्थविनाशः सुभिक्षं च। ५ वारुणमवनीशाशुभमन्येषां क्षेमसस्यवृद्धिकरम्। ६ आग्नेयं मित्राख्यं सस्यारोग्याभयाम्बुकरम्। ७ याम्यं करोत्यवृष्टिं दुर्भिक्षं सङ्क्षयं च सस्यानाम्। यदतःपरं तदशुमं क्षुन्मारावृष्टिदं पर्व”।
पर्शान = न० पार्श्वस्थानम् पृषो०। १ पार्श्वस्थाने ऋ ७। ४। ५ भा० २ पीड्यमाने त्रि० ऋ० ८ ३४ भा० ३ विमर्षयोग्ये ऋ० ८ ४५ ४१ ४ मेघे पु० निघण्टुः पाठान्तरम्।
पर्शु = पु० “स्पृशेः श्वण्शुनौ पृ च” उणा० स्पृश–शुन् धातोः पु० आदेशः। १ आयुधे २ परश्वधे हेमच०। ३ आयुधजीविसंघभेदे ततः पर्श्वा० स्वार्थे अण्। पार्श्व तत्रार्थे।
पर्शुका = स्त्री पर्शुरिव कायति कै–क। पार्श्चास्थि अमरः।
पर्शुपाणि = पु० पर्शुः पाणावस्य। १ गणेशे हेमच० २ परशुरामे च।
पर्शुराम = पु० पर्शुसहितो जातो रामः शा० त०। जामदग्ने शब्दच०। परशुरामशब्दे दृश्यम्।
पर्शुल = त्रि० पर्शुः तदाकारमस्थि ततः सिध्मा० लच्। अस्थियुक्ते
पर्श्वध = पु० परश्वध + पृषो०। परश्वधे कुठारे जटाध०
पर्श्वादि = पु० “पर्श्वादियौधेयादिभ्योऽणञौ” पा० स्वार्थे अण् प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “पर्शु असुर रक्षस् बाह्लीक वयस् वसु मरुत् सत्त्वत् दशार्ह पिशाच अशनि कार्षापण”
पर्ष = स्नेहे भ्वा० आत्म० सक० सेट्। पर्षते अपर्षिष्ठ पप
पर्षद् = स्त्री पृष–अदि। १ सभायाम् २ धर्मोपदेशकपिण्डतसमाजे च। ततः अस्त्यर्थे वलच्। पर्षद्वल सभासदे त्रि हेमच०।
पर्षिक = त्रि० पर्षः पूरणम् अस्त्यर्थे ठन्। पूरयितव्ययुक्ते पुरोहिता० भावादौ यक्। पार्षिक्य तद्भावे न०
पर्ष्वन् = त्रि० पृष–वनिष्। पूरयितव्ये ऋ० १०। १२६। ३०
***