परि = अव्य० षॄ–इन्। १ समन्ततोभावे २ व्याप्तौ ३ दोषकथने ४ भूषणे ५ आश्लेषे ६ पूजने ७ वर्जने ८ मर्य्यादायाम् ९ आच्छादने गणरत्नटी०। तत्र च क्रमेणोदाहृतं यथा “१ परिभ्रमति २ परिणतः ३ परिवादः ४ परिष्करोति। ५ परिष्वजते ६ परिचरति ७ परि त्रिगर्त्तात् ८ परिच्छिद्यते वासः ९ परिदेवनम्” १० व्याधौ ११ शेषे च मेदि०। १२ उपरमे १३ शोके हेमच० १४ सन्तोषभाषणे शव्दरत्ना अस्य उपसर्गत्वमर्थभेदे कर्मप्रवचनीयत्वञ्च पा० उक्तं यथा “लक्षणे त्थम्भूताख्यानभागवीप्सासु प्रतिपर्य्यनवः” पा० “एष्वर्थेषु विषयभूतेषु प्रत्यादयः कर्मप्रवनीयसंज्ञाः स्युः। लक्षणे वृक्षम्प्रति पर्य्यनु वा विद्योतते विद्युत्। इत्थ म्भूताख्याने भक्तो विष्णुम्प्रति पर्य्यनु वा। भामे लक्ष्मो र्हरिम्प्रति पर्य्यनु वा हरेर्भाग इत्यर्थः। वीप्सायाम् वृक्षं वृक्षं प्रति पर्य्यतु वा सिञ्चति। अत्रोपसर्गत्वा भावान्न षत्वम्। एषु किम् परिषिञ्चति” सि० कौ० “अधिपरी अनर्थकौ” पा० “उक्तसंज्ञौ स्तः। कुताऽध्यागच्छति। कुतः पर्य्यागच्छति। गतिसंज्ञाबाधाद् गतिर्गताविति निघातो न” सि० कौ०। “अपपरी वर्जने” पा० एतौ वर्जने मर्मप्रवचनीयौ स्तः “पञ्चम्यपाङ्परिभिः” पा० एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात्। अप हरेः परि हरे। संसारः। परिरत्र वर्जने लक्षणादौ तु बितीया हरिफगि। सपरमे परिसान्वः शोके परिदेपमम्। “अक्षशलाकासंख्याः परिणा” पा० द्यूते व्यवहारे पराजये च अक्षादीनां परिणा समासः। न पूर्वनिपातः द्यूते अक्षं विपरीतं वृत्तम् अक्षपरि। एवं शलाकापरि एकपरि इत्यादि। सन्तोषे परितोषः। “परेश्च घाङ्कयोः” पा० रस्य वा लः। परिघः पलिघः पल्यङ्कः पर्य्यङ्कः।

परिंश = पु० लेशे ऋ० १। १८७। ८ भाष्यम्।

परिकथा = स्त्री परितः कथा। कथाभेदे “अथ वाङ्मयभेदाः स्युश्चम्पूः खण्डकथा कथा। आख्यायिका परिकथा कलाषकविशेषकौ” त्रिका०।

परिकम्प = पु० परिकम्पते अनेन परि + कम्प–करणे घञ्। १ भवे। भावे वञ्। २ परितः कम्पे च

परिकर = पु० परि + कॄ–अप्। १ पर्य्यङ्के २ परिवारे ३ समारम्भे च अमरः ४ समूहे ५ पगाढगात्रबन्धे हेमच० ६ विवेके मेदि० ७ सहकारिणि च विश्वः।

परिकर्त्तृ = पु० अनूढक्येष्ठे कनिष्ठस्य विवाहसंस्कारकर्त्तरि याजके सरिवेत्तृशब्दे दृश्यम्।

परिकर्मन् = न० परि + कृ–मनिन्। १ कुङ्कुमादिनाऽङ्गादेः २ संस्कारे अङ्कानां गुणभाबादौ च। योगवियोगगुणभाग वर्गवर्गमूलघनघगमूलात्मतं परिकर्माष्टकं तथाविधं भिन्नपरिकर्माष्टकं च लीचा० उक्तं दृश्यम्। योगशास्त्रप्रसिद्धे चित्तस्य प्रसादनोपाये ३ मैत्र्यादौ उपेक्षाशब्दे दृश्यम् परितः कर्माऽस्य। ४ परिचारके त्रि० रत्नमा० परिकर्म कार्य्यतयाऽस्त्यस्य ब्रीह्या० इनि। परिकर्मिन् परिकर्म्मकारके आश्व० श्रौ० २ ४

परिकर्ष = पु० परि + कृष–भावे घञ्। समाकर्षणे कर्षस्य वर्ज्रनम् अव्ययी० कर्षवर्जने अव्य० निरुदका० तस्यान्तोदात्तता

परिकलित = न० परि + कल–भावे क्त। आकलने तत्कृतमनेन इष्टादि० इनि परिकतितिन् तस्य कर्त्तार। स्त्रियां ङीप्।

परिकाङ्क्षित = पु० परित्यक्तं काङ्क्षितं स्रक्चन्दनाद्यभिलाषो येन प्रा० य०। तपस्विनि शयदच०

परिकूट = न० परिभूषितं कूटम् शा० त०। पुरद्वारकूटके हस्तिनखेहेमच०।

परिकूल = न० परितः कूलम्। उभयत्रस्थितकूले निरुद० अस्यान्तोदात्तता।

परिकेश = अव्य० केशस्योपरि। केशोपरिभागे निरुद० अन्तोदात्तताऽस्य। परिहस्तेऽपि तथास्वरः।

परिक्रम = पु० परि + क्रम–भावे घञ् न वृद्धिः। १ समन्तात् भ्रमणे २ प्रदचिणोकरणे ३ क्रीडार्थं पद्ध्यां गमने च। तत्र पयिव्याः परिकपे फलादिकसत्र वराहप्र० “शृणु मद्रे! महापुण्यं पृथिव्यां सर्वतो दिशम्। परिक्रम्य यथाध्वानं प्रमाणगणितं शुभम्। भूम्याः परिक्रमे सम्यक् प्रमाणं योजनानि च। षष्टिकोटिसहस्राणि षष्टिकोटीशतानि च। तीर्थान्येत नि देवाश्च तारकाश्च नभस्तले। गणितानि समस्तानि वायुना जगदायुषा। ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण च। जाम्बवता सपुत्रेण रावणेन हनूमाता। एतैरनेकधा देवैः ससागरवना मही। क्रमिता वालिना चैव बाह्यमण्डलरेखया। अन्तरे भ्रमणेनैव सुग्रीवेण महात्मना। तथा च पूर्वदेवैन्द्रैः पञ्चभिः पाण्डुनन्दनैः। योगसिद्धैस्तथा कैश्चिन्मार्कण्डेयमुखैरपि। क्रमिता न क्रमिष्यन्ति न पूर्वे नापरे जनाः। अल्पसत्बबलोपेतैः प्राणिभिश्चाल्पबुद्धिभिः। मबसापि न शक्यन्ते गमनस्य च का कथा। सप्तद्वीपे तु तीर्थानि भ्रमणाद्यत् फलं भवेत्। प्राप्यते चाधिकं तस्मान् मथुरायाः परिक्रमे। मथुरां समनु प्राप्य यस्तु कुर्य्यात् प्रदक्षिणम्। प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा। तस्मात् सर्वप्रयत्नेन सवैकामानभीप्सुभिः। कर्त्तव्या मथुरां प्राप्य नरैः सम्यक् प्रदक्षिणा”। ल्युट्। परिक्रमणं तत्रार्थे न०।

परिक्रमसह = पुंस्त्री परिक्रमं सहते सह–अच्। छागे त्रि० स्त्रियां जातित्वात् ङीष्।

परिक्रय = पु० परि + क्री–अच्। १ विनिमये तुल्यरूपदानेन क्रयणे “कोषान् रक्षार्द्धकोषेण मर्वकोषेण वा पुन्। शेष प्रकृतिरक्षार्थं परिक्रय उदाहृतः” कामन्द०। नियतकालं नृत्या ३ स्वीकरणे सि० कौ० तत्रार्थे करणस्य वा सम्प्रदानता शतेन शताय वा परिक्रीतः। ल्युट्। परिक्रय तत्रार्थे न० “परिक्रयणे सम्प्रदानमम्यतरस्याम्” पा०

परिक्रिया = स्त्री परितः क्रिया। १ परिखादिना वेष्टने अमरः २ एकाहयागभेदे “सद्यस्क्रिया अनुक्रिया परिक्रिया वा स्वर्गकामः” आश्व० श्रौ० ९५१२ परिक्रियाप्येकाहा भवति एषामन्यतमेन स्वर्गकामो यजेतेति” नारा०।

परिक्वणन = पु० परि + क्वण–कर्त्तरि ल्य। मेघे निरु० ६१

परिक्षय = पु० परि + क्षि–भावे अच्। नाशे मनुः ९ ५९

परिक्षाण = न० परि + क्षै–भावे ल्युट्। परीक्षायां “यानि परिक्षाणान्यासंस्ते कृष्णाः पशवोऽभवन्” ऐत० ब्रा० ३३४

परिक्षित् = पु० परिक्षीणे क्षयति वर्द्धते क्षि–क्विप्। १ अभिमन्युपुत्रे नृपभेदे तन्नामनिरुक्तिः भा० सी० १६ अ० “विराटस्य सुनां पूर्वं स्नुषां गाण्डीवधन्वनः। उपप्लवगतां दृद्धा सत्यवाक् ब्राह्मणोऽब्रवीत्। परिक्षीणेषु करुषु पुत्रस्तव भविष्यति। एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति। तस्य तद्ववचनं साधोः सत्यमेतद् भविष्यति। परिक्षिद् भयिता ह्येषां पुनर्वंशकरः सुतः”। क्विपि उपसर्गदीर्थे परीक्षित् अप्यत्र। कर्त्तरि क्त परिक्षितोऽप्यत्र पब्दर०। २ कुवेरपुत्रभेदे पु० हरिवं० ३ २ अ०। “द्वावृक्षौ तव वंश्येऽस्मिन् द्वावेव च परिक्षितौ” तत्रैवाध्याये। ३ अविचतः पुत्रे नृपभेदे च “अविक्षितः परिक्षित्तु शबलाश्वश्च वीर्य्यवान्” भा० आ० ९४ अ०।

परिक्षेप = पु० परितः क्षिप्यते विषयवासनया जीवात्मा येन परि + क्षिप–करणे घञ्। १ इन्द्रिये “एकादशपरिक्षेपं मनोव्याकरणात्मकम्” भा आश्व० ३६ अ० भावे घञ्। २ परितश्चालने च।

परिक्षेपक = त्रि० परि + क्षिप–ताच्छील्ये वुञ्। परितश्चलनशीले

परिक्षेपिन् = त्रि० परि + क्षिप–ताच्छीले घिनुण्। परितः क्षेपणशीले स्त्रियां ङीप्।

परिखा = स्त्री परितः खन्थते खन–हृ। पुरादौ रिपुप्रभृतीनां दुष्प्रवेशतासिद्धये गर्त्तरूपायां जलाधारस्थाने वेष्टनाकारभूमौ अमरः। परिखामानञ्च ब्रह्मवै पु० जन्मख० २०२ अ० उक्तं यथा “प्रस्ये च परिखामानं शतहस्तं प्रशस्तकम्। परितः शिविराणाञ्च गम्भीरदशहस्तकम्। सङ्केतपूर्वकञ्चैव परिखाद्वारमीप्सितम्। शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च”। ततः भवाद्यर्थे पलाद्या० अण्। पारिख तद्भवादौ त्रि०। तत्र गणे परिखात इति पाठान्तरे पारिखात इत्यपि तत्रार्थे

परिखात = न० परितः खातम्। १ परिखायाम्। २ परिखन कर्मणि त्रि०।

परिगणन = न० परि + गण–मावे ल्युट्। १ सर्वतोभावेन गणने २ विधिनिषेधशास्त्रयोः विशेषतः कीर्त्तने च

परिगणित = त्रि० परि + गण–क्त। १ विधिनिषेधयों विशेषरूपेण कीर्त्तिते च। २ संख्याते च

परिगत = त्रि० परि + गम–क्त। १ व्याप्ते २ स्मृते ३ ज्ञाते ४ चेष्टिते च मेदि०। ५ गते हेमच० ६ वेष्टिते च। कर्त्तरि क्त। ७ परितो गन्तरि त्रि०।

परिगदित = न० परि + गद–क्त। परिकथने तत्कतमनेन इष्टा० इनि परिनदितिन् तत्कर्त्तरि रित्रयां ङीप्।

परिगहन = न० परि + गह–माये व्युट् क्षुभ्रा० न णत्वम्। अत्यन्वनहने

परिगूढ = त्रि० परि + गुह क्त। अत्यन्वगुप्ते ततः चतुरर्थ्यां ऋश्यादि० क। परिगूढक तस्यादूरदेशादौ त्रि०।

परिगृहीत = त्रि० परि + ग्रह–कर्मणि क्त। स्वीकृते आचिता० नास्यान्तोदात्तता।

परिगृहीति = स्त्री परि + ग्रह–क्तिन् इट्–इटो दीर्घः। परिग्रहे ऐत० ब्रा० २। १५।

परिगृह्या = स्त्री परि + ग्रह–कर्मणि क्यप्। पाणिगृहीतायां स्त्रियां शब्दच०।

परिग्रह = पु० परि + ग्रह–अप्। १ स्वीकारे। कर्मणि थ। २ सैन्यपश्चाद्भागे ३ भार्य्यायां परिजने च। करणे घ। ४ मूले ५ शपथे च अमरः। परितोः ग्रहः। ६ राहुणा सूर्येन्घोर्ग्रहणे ७ विष्णौ पु० “परमेष्ठी परिग्रहः” विष्णुसं० “शरणार्थिभिः परितो गृह्यते सर्वगतत्वात् परितो ज्ञायते इति वा पत्रपुष्पादिकं भक्तैरर्पितं गृह्णातीति वा परिग्रहः” भा०।

परिग्राम = अव्य० ग्रामस्याभिमुखम्। ग्रामस्यामुख्ये ततः भवाद्यर्थे ठञ्। पारिग्रामिक तद्भवादौ त्रि०।

परिग्राह = पु० परि + ग्रह–“परौ यज्ञे” पा० घञ्। यज्ञार्थे स्फ्येन वेदेः स्वीकारे सि० कौ०।

परि(लि)घ = पु० परिहन्यतेऽनेन “परौ घः” पा० परौ हन्तेरप् घश्चान्तादेशः रस्य वा लः। १ लोहबद्धलगुडे २ लोहमयलगुडे च अमरः। विस्कम्भादिषु ३ उनविंशे योगे ४ अर्गले द्वारावरोधिकाष्ठे मेदि०। ५ मुद्गरे ६ शूले अजयः। ७ गृहे ८ कुम्भे ९ काचघटे शब्दरत्ना०। १० कुमारानुचरगणभेदे भा० शल्य० ५६ अ०। ११ चण्डालभेदे भा० शा० १ ३८ अ०।

परिघट्टन = न० परि + घट्टा–भावे ल्युट्। परितश्चालने “मासर्त्तुदर्वीपरिघट्टनेन” भा० व० यक्षप्रश्ने।

परिघर्म = पु० परि + घृ–मन्। यज्ञाङ्गमहावीरपात्रपतितफेनादेः क्षरणे परिघर्मस्येदम् यत्। परिघर्म्य महावीराङ्गघर्मसम्बन्धिपात्ने “परिघर्म्यमौदुम्बरम्” कात्या० श्रौ० २६। २। ६ “परिघर्म्यं घर्मसम्बन्धि यत् पात्रजातं काष्ठमयमुखादि तदौदुम्बरम्” देवनाथः।

परिघात = पु० परिहन्यतेऽनेन घञ्। परिघातास्त्रे

परिघातन = पु० परिथातयति परि + हन–खार्थे णिच् कर्त्तरिल्यु। १ परिघातास्त्रे अमरः। २ सर्वतोहननकर्त्तरि भावे ल्युट्। २ परितीहनने च धरणिः।

परिघृ(पृ)ष्टिक = पु० परितः घृ(पृ)ष्टं ग्राह्यत्वेनास्त्यस्य ठन्। १ वानप्रस्थभेदे भा० आश्व० ९२ अ०। नीलकण्ठेन तत्र “परिपृष्टिका वैधसिका इति पठित्वा “परिपृष्टमेव गृह्णन्ति नान्यथेति व्याख्यातम्”। तेन तत्र परिपृष्टिका इत्थेव पाठः तत्र परिपृच्छिका इति पाठान्तरमुक्तं तेन तस्या प्येतदर्थकता “परिघृष्टिका वैद्यसिका” इति “मुद्रितपुस्तके पाठः” अनाकारः परिपृच्छया गृह्णातीति वाच्यम्।

परिचक्षा = स्त्री परि + चक्ष–भावे श सार्वधातुकत्वात् न ख्यादेशः। १ निन्दायां शत० ब्रा० १ ३ ५ १४ भाष्ये दृश्यम् परि + वर्जने अ। २ वर्जने स्त्री।

परिचक्ष्य = त्रि० परि + वर्जने चक्ष–ण्यत् वर्जनार्थत्वात् न ख्यादेशः। वर्जनीये

परिचतुर्दश = त्रि० परिहीन श्चतुर्दश यतः प्रा० व० ड समा० एकाधिकचतुर्दशरूपपञ्चदशसंख्यान्विते आर्षे तु समासा न्तविधेरनित्यत्वात् न ड। “इन्द्रसेनादयश्चैव भृत्या परिचतुर्दश” भा० व० १ अ०।

परिचय = पु० परि + चि–अच्। १ ज्ञातस्य पौनःपुन्येन ज्ञाने संस्तवे २ पणये च अमरः। ३ सर्वतश्चयने माघः २। ७५।

परिचर = त्रि० परितः चरति चर–ट। १ भृत्ये २ परप्रहारात् रथरक्षके पु० अमरः। ३ प्रजासामन्तादिव्यवस्थापनकारिणि ४ राजभृत्यभेदे च।

परिचर्य्या = स्त्री परि + चर–क्यप्। सेवायाम् अमरः।

परिचाय्य = पु० परिचीयते संस्क्रियतेऽसौ परि + चि–ण्यत्। यज्ञाग्नौ अमरः “परिचाय्यं चिन्वीत ग्रामकामः” शत० ब्रा० ५। ४। ११। ३

परिचार = पु० परि + चर–भावे घञ्। सेवायां भा० ब० ९७ अ० परिचारे प्रसृतः ठन्। परिचारिक दासे भा० अनु० ७ ८१०

परिचारक = त्रि० नि० परि + चर–ण्वुल्। मेवक अमरः।

परिचित् = त्रि० परितश्चीयते चि–कर्मणि क्विप्। १ परितः स्थापिते यजु० १२। ४६ कर्त्तरि क्विप्। २ परिचयकर्त्तरि त्रि०।

परिचित = त्रि० परि + चि–कर्मणि क्त। १ परिचययुक्ते २ तत्कर्मणि।

परिच्छद् = त्रि० परिच्छादयति परि + छद + णिच्–क्विप् ह्रस्वः। परिच्छदशब्दार्थे “सेनापरिच्छदस्तस्य” रघुः।

परिच्छद = पु० परि + छद–णिच्–घ ह्रस्वः। १ उपकरणे ३ ह स्त्यश्वरथपादाते ३ वस्त्रादिभूषणे ४ परिवारे च हेमच०। ५ आच्छादने च।

परिच्छित्ति = स्त्री परि + छिद–मावे क्तिन्। १ अवधारणे “द्वयोरेकतरप्य वाप्यसान्नकृष्टार्थपरिच्छित्तिः पग्रा सां० सू “अर्थस्य वस्तुनः परिच्छित्तिरवषारणं प्रना” भा २ पारच्छेदशब्दार्थे०।

परिच्छेद = पु० परि + छिद–भावे करणादौ च घञ्। १ अबधौ २ सीमायां ३ अवधारणे ग्रन्थस्य ४ सन्धिभेदे। स च त्रिका० दर्शितो यथा “सर्गवर्ग परिच्छेदोद्धोताध्यायाङ्कसंग्रहाः। उच्छ्वासः परिवर्त्तश्च पटलं काण्डमस्त्रियाम्। स्यानं प्रकरणं पर्वाह्णिकञ्च ग्रन्धसन्धयः”। तत्र काव्ये सर्गः, कोषे वर्गः, अलङ्कारे परिच्छेदोच्छ्वासौ कथयामुद्धातः नाटके अङ्कः, संहितापुराणादौ अध्यायः, तन्त्रे पटलं, ब्राह्मणे काण्डम्, इतिहासे पर्व, माणे आह्निकम्। एवमन्येऽपि ग्रन्यसन्धयः ग्रन्थभेदे ज्ञेयाः यथा पादलम्बुकतरङ्गस्तवकप्रपाठकादयोऽपि यथावथमूह्याः। ४ परिमाणे।

परिच्छेद्य = त्रि० परि + छिद–कर्मणि ण्यत्। १ परिमेये २ अवथार्य्ये च।

परिजन = पु० परिगतो जनः। १ परिवारे २ प्रतिपाल्ये जने अमरः।

परिजय्य = त्रि० परि + जि–शक्यार्थे वत् नि० यान्तादेशः। परितो जेतुंशक्ये।

परिजल्पित = न० “प्रभोर्निर्दयताशाठ्यचापलाद्युपपादनात्। स्वविचक्षणताव्यक्तिर्भङ्ग्य स्यात् परिजल्पितम्” उज्ज्वलमण्युक्ते कथनभेदे।

परिज्ञान = न० परि + ज्ञा ल्युट्। सूक्ष्पज्ञाने सू० सि० ९। १ रङ्गनाथः।

परिज्रि = त्रि० परि + जृ–कि। परितोगन्तरि ऋ० १। ६४। ५ भा०

परिज्वन् = पु० परि + जु–सौत्रधातुः कमिन्। १ चन्द्रे २ अग्नौ च उज्ज्वलदत्तः। अत्र परिजवन् इति परिजन्मन् इति शब्दद्वयकल्पनं प्रामादिकं “श्वन्नुक्षन्नित्यादिके उणादिसूत्रे परिज्वन् इत्यस्यैव पाठात्।

परिडीन = न० परि + डी–भावे क्त। सगगतिभेदे स्तगतिशब्दे २४१४ पृ० दृश्यम्।

परिणत = त्रि० परि + णम–क्त। १ परिपक्वे अमरः। २ परिणामयुक्ते “तिर्य्ग्दन्तप्रहारश्च गजः परिणतोमतः” हलायुधोक्ते ३गजभेदे माघः ४।२९ ११।३५ सर्वतोनते च ५ शेषयुते च।

परिणति = स्त्री परि + नम–क्तिन्। १ शेषे २ अवसाने। ३ परिणामे ४ परिपाके च माधः १। ११।

परिणय = पु० परि + वी–भावे अच्। १ विवाहे अमरः भावे ल्युट्। २ परिणयन तत्रार्थे न०। परिणयतेर्विवाहार्थत्वात् परिणीता इत्यादौ कृतविवाहाद्यर्थावगमः।

परिणाम = पु० परि + नम घञ्। १ प्रकृतेरन्यथाभावे विकारे २ शेषे “परिणामेऽमृतोपमम्” गीता। ३ अर्थालङ्कारभेदे च। अन्यथाभावश्च प्रकृत्युच्छेदेन प्रकृतेर्युणान्तराधानेन वा यया नृदादेर्षटादिरूपेण, काष्ठादेर्भस्यादिना। “प- रिणामतापतापसंस्कारदुःखैः” पात० सू० “परिणामतः सलिलवत्” सां० का० “यथा हि वारिदविमुक्तमुदकमेकरसमपि तत्तद्भूमिविकारानासाद्य नारिकेलतालीविल्वचिरविल्वतिन्दुकामलकप्राचीनामलककपित्थफलरसतया परिणामान्मधुराम्लतिक्तकटुकषायतया विकल्प्यते एवमेकैकगुणसमुद्भवात् प्रधानं गुणमाश्रित्याप्रधानगुणाः परिणामभेदान् प्रवर्त्तयन्ति” सांत० कौ०। ४ परिपाके “भुक्तस्य परिणामहेतुरोदर्य्यः (वह्निः) तर्कसंग्रहः।

परिणामदशिन् = त्रि० परिणाम शेषं पश्यति दृश–णिनि ६ त०। शेषद्रष्टरि यत्कर्मकरणे पत्कलं तस्य द्रष्टरि।

परिणामशूल = न० परिणामे शूलम्। शूलरोगभेदे “स्वैर्निदानैः प्रकुपितो वायुः सन्निहितो यदा। कफपित्ते समावृत्य शूलकारी भवेद्बली”। तस्य लक्षणं यथा “भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम्। तस्य लक्षणमप्येतत् समासेनाभिधीयते” वातिकस्य तस्य सक्षणं यथा “आध्मानाटोपबिण्मूत्रविवन्धाऽरतिवेपनैः। स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक्” पैत्तिकस्य तस्य लक्षणं यथा “तृष्णादाहारतिस्वेदकष्ट्वम्लवणोत्तरम्। श्लं शीतशमप्रायं पैत्तिकं लक्षयेद्भिषक्” श्लैष्मिकस्य तस्य लक्षणं यथा “छर्दिहृल्लाससम्मोहं स्वल्वरुग्दीर्घ सन्तति। कटुतिक्तोपशान्तौ च तद्बिज्ञेयं कफात्मकम्” त्रिदोषजस्य तस्य लक्षणं यथा “संसृष्टलक्षणं बुड्घा द्विदोषं परिकल्पयेत्। त्रिदोगजमसाध्यन्तु क्षीणमांसबलानलम्” माधबकरः।

परिणामिन् = त्रि० परि + नम–णिनि। परिणामयुक्ते परिणामिकारणत्वञ्च प्रधानस्यैव न पुरुषस्येति निर्णीतं सां० सू० “पूर्वभावित्वे द्वयोरेकतरस्य हानेऽन्यतरयोगः” सू० “द्वयोरेव पुम्प्रकृत्योरखिलकार्य्यपूर्वमावित्वेऽप्येकतरस्य पुरुषस्यापरिणामित्वेन कारणताहान्थान्यतरस्य प्रकृतेः लारणत्वौचित्यमित्यर्थः। पुरुषस्याषरिणामित्वे चेदं वीजम्। पुरुषस्य संहत्यकारित्वे परार्थत्वापत्त्यागवस्था असंहत्यकारित्वे सर्वदा महदादिकार्य्यप्रसङ्गः। प्रकृतिद्वारा परिणामकल्पने च लाघवात् तस्या एव परिणामोऽस्तु पुरुषे तु स्वामित्वेन स्रष्टृत्वोपचारो यथा योधेषु वर्त्तमानौ जयपराजयौ राजन्युपचर्य्येते तत्फलसुणदुःखभोक्तृत्वेन तत्स्वामित्वादिति। किञ्च धर्मिग्राहकमानेन कारणतयैव प्रकृतेः सिद्धौ नान्यकारणाकाङ्क्षास्ति। यथा धर्मिग्राहकप्रमाणेन द्रष्टृतया पुरुषसिद्धौ नान्यद्रष्ट्राकाङ्क्षेति। अपि च पुरुषस्य परिणामित्वे कदाचिच्चक्षुर्मनआदिवदन्घत्वमपि स्यात्। तथा च विद्यमानमपि सुखदुःखादिकं न ज्ञायेत ततश्चाहं सुखी न वेत्यादिसंशयापत्तिः। अतः सदा प्रकाशस्वरूपत्वानपायेन पुरुषस्यापरिणामित्वं सिद्ध्यति। तदुक्तं योगसूत्रेण “सदा ज्ञाताश्चित्तस्य वृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वादिति” तद्भाप्येण च “सदाज्ञानविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयतीति” भा० उक्तम् संयोगश्च न परिणामः सामान्यगुणातिरिक्तधर्मोपृत्त्यैव परिणामित्वव्यवहारात्” सा० प्र० भा०। तेन पुरुषस्य संयोगवत्त्वेऽपि विकारहेतुसंयोगाभावात् न परिणामित्वम्। स्त्रियां ङीप्। “सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी” हरिका०।

परि(री)णाय = पु० न० परि + नी–द्यूते विषये घञ् उपसर्गस्य वा दीर्घः। शरीणां वामदक्षिणतो नयने अमरः घञन्तत्वेऽपि अभिधानात् अस्त्री।

परि(री)णाह = पु० परि + नह–घञ् वा दीर्घः। विस्तारे (ओसार) “धनुः शतं परीणाहो ग्रामात् क्षेत्रान्तरं भवेत्” याज्ञ०।

परिणाहवत् = त्रि० परिणाह + बला० वा मतुप्। विस्तारयुते स्त्रियां ङीप् पक्षे एकाक्षरकृदन्तत्वेऽपि बला० इनि। परिणाहिन् तत्रार्थे त्रि० स्त्रियां ङीप्।

परिणेतृ = पु० परि + नी–तृच्। १ विवाहकर्त्तरि भर्त्तरि राजनि० २ परितो नेतरि च।

परिणेय = त्रि० परि + नी–यत्। १ परितोनयनीये आश्व० श्रौ० ४। ६। १५। विवाहयोम्यायां २ कन्यायां स्त्री।

परितक्मन् = न० तक–हसने भावे मनिन्। परितोगमने तदर्हति यत्। परितक्म्य परितो गन्तव्ये ऋ० १। ३ १। ६७ भा० दृश्यम्। “परित एनां रात्रिं तक्म” निरुक्तोक्तायां रात्रौ च रात्रेरुभयत उष्णतोपलम्भात् तथात्वम्।

परितस् = अव्य० परि + तसिल्। सर्वतोभावे इत्यर्थे। एतद्योगे सम्बन्धार्थे द्वितीया परितः कृष्णं भक्ताः।

परिताप = पु० परितप्यतेऽत्र परि + तप–आघारे घञ्। १ नरके करणे घञ्। २ दुःखे मेदि०। ३ शोके शब्दच० ४ भये ५ कम्पे विश्वः ६ अत्युष्णतायाञ्च “ते ह्रादपरिताप फलाः पुण्यापुण्यहेतुत्वात्” पात० सू० “ते जन्मायुर्भोगा पुण्यहेतुका सुखफलाः अपुण्यहेतुकादुःखफलाः” भा०।

परितोष = पु० परि + तुष–भावे घञ्। सलोषे आतन्दभेदे

परित्याग = पु० परि + त्यज–भावे घञ्। सर्वतो भावेन वर्जने

परित्राण = न० परि + त्रै–ल्युट्। १ रक्षणे अनिष्टे प्रवृत्तस्य २ निवारणे च “परित्राणाय साधूनाम्” गोता।

परिदंशित = त्रि० परिदंशो जातोऽस्य तार० इतच्। कृतसन्नाहे भा० आ० १ ३६ अ०।

परिदान = न० परि + दा–भावे ल्युट्। प्रतिरूवदाने विनिमये अमरः।

परिदाय = पु० परि + दा घञ्। आमोददायिनि सुगन्धौ हरिवं० २१८ अ०।

परिदायिन् = परिवर्ज्य शास्त्रदोषं ददाति दा–णिनि। अकृतविवाहस्य ज्येष्ठस्य कनिष्ठाय कन्यादातरि परिवेत्तृशब्दे हारीतवाक्यं दृश्यम्।

परिदेबन = न० परि + दिव–ल्युट्। १ अनुशोचने कृतस्य कर्मणोऽनुचितत्वधियानुतापे २ विलापे च। णिच्–युच्। परिदेवनाप्यत्र स्त्री। “तत्र का परिदेवना” गीता २। ३८

परिदेविन् = त्रि० परि + दिव–ताच्छील्ये इनि। परदेवनशीले स्त्रियां ङीप्।

परिद्वीप = पु० गरुडपुत्रभेदे भा० आ० १०० अ०।

परिधान = न० परिधीयते परि + धा–कर्मणि ल्युट्। १ परिहितवस्त्रे नाभेरधोधृतवसने अमरः भावे ल्युट्। २ वस्त्रादेर्देहाद्वौ धारणे च।

परिधानीया = स्त्री परि + धा–कर्मणि अनीयर्। १ शस्त्रादिस्थायासुत्तमायामृचि “सर्वत्रोत्तमां परिधानीयेति विद्यान् आश्व० श्रौ० २१६। ८ “स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीया स्यात्” छान्दो०। २ परिधेयवस्त्रादौ त्रि०।

परिधाय = पु० परि + धा–कर्मणि धञ्। १ परिच्छेदे आधारे घञ्। २ नितम्वदेशे ३ जलस्थाने च मेदि० भावे घञ्। परिधाने।

परिधि = पु० परि + धा कि। चन्द्रसूर्य्यसमीपस्ये मेधादिसन्निकर्षात् जायमाने वेष्टनाकारे १ मण्डले (सूर्य्यसभा) (चन्द्रसभा) परिवेशशब्दे दृश्यम्। यज्ञियपशुबन्धनार्थं निस्वातायां यज्ञियतरोः पलाशादेः २ शाख्यायाम् ३ गोलमण्डलस्य परितो वेष्टनसूत्रमाने क्षेत्रशब्दे २४०० पृ० दर्शितम्। यज्ञियपरिधिमानं च इष्मशब्दे ९२८ पृ० दृश्यम्। तच्चान्यतशाखिविषयम् कर्मप्रदीपोक्तमानन्तु छन्दोगविषयम् यथा “बाहुमात्राः परिधय ऋजवः सत्वचोऽव्रणाः। त्रयो भवन्ति शीर्णाग्रा एकेषान्तु चतुर्दिशम्। प्रागग्रावभितः पश्चादुदगग्रमथापरम्। न्यसेत् परिधिमन्यञ्चेदुदग्रः स च पूर्वतः”।

परिधिस्थ = त्रि० परिधौ तिष्ठति स्था–क। १ परिचारके युद्धादौ रथिनो रक्षार्थं परितः स्थिते २ सैन्यादौ च।

परिधिपतिखेचर = पु० महादेवे भा० अनु० ६७ अ०।

परिधूमन = सुश्रुतोक्ते तृषार्दितस्य उद्गारभेदरूपे उपद्रवभेदे (चो या ढेकुर तोला)।

परिधूमायन = न० सुश्रुतोक्ते उद्गारभेदे (चो~याढेकुरतोला)

परिधेय = त्रि० परितो घेयः। परिधिमवे १ विश्वदेवादौ यजु३। १८। परि–धा यत्। २ परिधातव्ये वस्त्रादौ त्रि०।

परिनन्दन = त्रि० परि + नन्द–णिच्–ल्यु क्षुभ्रा० न णत्वम्। १ सन्तोषकारके भावे ल्युट्। २ सन्तोषकरणे न०।

परिनिष्ठा = परि + नि + स्था–भावे अ। पर्य्यवसाने “पारम्पर्येऽप्येकत्र परिनिष्ठा” सां० सू०।

परिपक्व = त्रि० परि + षच–क्त। १ परिपाकयुक्ते २ परिणते च

परिपन(ण) = न० परिपन्य(ण्य)ते व्यवह्रियतेऽतेन पन(ण)घञ्। मूलधने अमरः।

परिपति = त्रि० परि + पत–इन्। १ सर्वव्यापिनि यजु० ५। ५। २ अधिपतौ पु० निरु० १२। १८ अ०।

परिपन्थ = पु० पन्थानं वर्जयित्वा व्याप्य बा तिष्ठति पथिअच्। १ पथिवर्जके २ पथिव्यापके च “परिपन्थं गच्छति” पा० ठक्। पारिपन्थिक चौरे सि० कौ०।

परिपन्थक = पु० परिपन्थयति दोषाख्यानं गच्छति परि + पन्थ–ण्वुल् पन्थानं वर्जयित्वा गच्छति वा कन् पन्थादेशः। शत्रौ यजु० ४। ३ ४। हेमच०।

परिपन्थिन् = पु० परि + पन्थि–नि। १ शत्रौ २ विपरीताचारिणि त्रि० स्त्रियां ङीप्। “छन्दसि परिपन्थिपरिपरिणौ पर्य्यवस्थातरि” पा० वेदे एवास्य प्रयोगः। लोके तूपचारात्।

परिपरिन् = पु० परिपन्थिन्शब्दोक्ते पा० नि०। शत्रौ वेदे एवास्य योनः। यजु० ४। २ ४।

परिपवन = पु० परिपूयतेऽनेन परि + पू–करणे ल्युट्। चालन्यां निरु० ४। ९।

परिपशव्य = त्रि० व्याप्तौ परिः पशोरिदं यत् प्रा० स०। सर्वंपशुसम्बन्धिनि कात्या० श्रौ० ८। ८। ३

परिपाक = परि + पच घञ्। १ उत्कृष्टपाके २ प्ररिणामे। ३ नैपुण्ये च।

परिपाकिन् = स्त्री परिपाकोऽस्त्यस्याः एकाक्षरकृदन्तत्वेऽपि संज्ञात्वात् इनि ङीप्। त्रिवृतायां शब्दच०।

परिपाटि(टी) = स्त्री परि + चु० पट–इन्। अनुक्रमे आनुपर्व्याम् अमरः बा ङीप्।

परिपाद = अव्य० पादं वर्जयित्वा। पादवर्जने निरुदका० अन्तोदान्तताऽस्य।

परिपिष्टक = न० परि + पिष–क्त संज्ञायां कन्। सीसके राजनि०।

परिपुटन = न० परि + कुटा० पुट–भावे ल्युट् १ भेदने २ सम्पुटोकरणे च

परिपुष्करा = स्त्री परितः पुष्करं मुखं यस्याः। (गोमुक) गोडुम्बायाम् शब्दच०।

परिपूत = त्रि० परि + पू–क्त। १ अत्यन्तशुद्धे माघः २। १६। शूर्पादिवातेन तुषनिःसारणयुते २ धान्यादौ च। “परिपूतेषु धान्येषु” मनुः।

परिपूर्ण = त्रि० परि पूर–क्त नि०। आभोगयुते तस्य भावः तल्। परिपूर्णता आभोगे स्त्री अमरः।

परिपेल = न० परि + पेल–अच्। कैवर्त्तीमुस्तके शैवलमध्ये जायमाने मुस्ताकारे पदार्थे शब्दमाला।

परिपेलव = न० परितः पेलवं मृदुता यस्य। १ कैवर्त्तीमुस्तके अमरः। २ अत्यन्तमृदौ त्रि० वृ० सं० ९४ अ०।

परिपोट = पु० सुश्रुतोक्ते कर्णपालीरोगभेदे “परिपोटस्तथोत्पात उन्मन्थो दुःखवर्द्धनः। पञ्चमः परिलेही च कर्णपाल्या गदाः स्मृताः” इत्युपक्रमे सौकामार्य्याच्चिरोत्सृष्टसहसाभिप्रवर्द्धिते। कर्णशोफो भवेत् पाल्यां सरुजः परिपोटनात्। कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः”। परिपोटक इत्यप्यत्र पु०।

परिपोटन = न० प + पुट–भेदने ल्युट्। भेदने सुश्रुतः।

परिप्रश्न = पु० परितः प्रश्नः। युक्तायुक्तत्वप्रश्ने गीता ४। ३४ अ०

परिप्लव = पु० परि + प्लु–अच्। १ चञ्चले अमरः। भावे अप्। २ जलादेरुपरितरणे च।

परिप्लुत = स्त्री परि + प्लु–क्त। १ जलादिभिरार्द्रीभूते। २ पदिरायां स्त्री हेमच०। मैथुनवेदनायुक्ते ३ नार्य्यङ्गभेदे स्त्री “परिप्लुतायां योनौ तु ग्राम्यधर्मे रुजा भृशम्” माधवकरः

परिव(ब)र्ह = पु० परि + वर्ह–घञ्। नृपयोग्ये हस्त्यश्वरथादि परिच्छदे अमरः। अन्त्यस्थव मध्य एव न्याय्यः।

परिभ(भा)व = पु० परि + भू–अप् घञ् वा। १ अनादरे २ तिरस्कारे अमरः।

परिभविन् = त्रि० परि + भू–ताच्छील्ये इनि। परिभवनशीले स्त्रियां ङीप्।

परिभाविन् = त्रि० परि + भू–ग्रहा० भूतेऽर्थे णिनि। सर्वतोभावेन भवनयुक्ते स्त्रियां ङीप्।

परिभाषण = न० परि + भाष–ल्युट्। १ निन्दया दुष्टवचने आलापे २ नियमे च मेदि०।

परिभाषा = स्त्री परि + भाष–अ। शास्त्रकृतां १ कृत्तिमसंज्ञायाम् अवयवार्थमनादृत्य समुदायार्थे २ विशिष्टसंज्ञायाम्। संज्ञापरिभाषयोस्तु अवान्तरभेदः परिभाषेन्दुशेणरे “यथोद्देशं संज्ञापरिभाषम् “यथाकालं संज्ञापरिभाषम्” अनयोर्व्याख्याने दृश्यः। “कश्चिदेकदेशस्थः सर्वशास्त्रमभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयतीति “बष्ठी स्थाने” इति सूत्रे भाष्ये उक्तम्। “अधिकारशब्देन पारार्य्यात् परिभाषाप्युच्यते। कश्चित् परिभाषारूप इति” कैयढः। दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्। स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम्। ४ आधुनिकसङ्केते पारिभाषिकशब्दे दृश्यम्।

परिभूत = त्रि० परि + भू–क्त। १ तिरस्कते २ अनादृते च हेमच०

परिभ्रमण = न० परितो भ्रमणम्। १ सर्वतोभ्रमणे २ पर्य्यटने च

परिमण्डल = त्रि० परिगतो मण्डलम्। १ वर्त्तुलाकारे हेमच० २ अणुपरिषाणयुक्ते च परिमाणशब्दे दृश्यम्।

परिमर = पु० परिम्रियन्ते अस्विन् परि + मृ–आधारे अप्। वायौ “तद्ब्रह्मणः परिमर इत्युपासीत” तैत्ति० उ० ३। १०। ४ “ब्रह्मणः परिमरः परिम्रियन्तेऽस्मिन् पञ्च देवताः विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरित्येताः। अतो” वायुः परिमरः श्रुत्यन्तरप्रसिद्धेः। “स एवायं वायुराकाशेनानग्य” इत्याकाशो ब्रह्मणः परिमरस्तमाकाशं वाय्वात्मानं ब्रह्मणः परिमर इत्युपासीत” भा०।

परिमर्द्द = पु० परि + मृद–भावे घञ्। १ घर्षणे २ नाशने ३ हिंसने च भा० शा० २१८५ श्लो०। ल्युट्। परिमर्द्दन तत्रार्थे

परिमल = पु० परि + मल–अच्। १ कुङ्कुमचन्दनादिमर्दने मर्दनोद्भूते २ सुगन्धौ अमरः। ३ परितः सम्बन्धे च “सतां परिमप्रोद्भूतबद्धोत्सबः” इत्युदयनः ४ पण्डितसमूहे शब्दर०

परिमाण = न० परिमीयतेऽनेन परि + मा–ल्युट्। यवाङ्गलप्रस्थादिभिर्गुञ्जादिभिश्च द्रव्यव्यस्य परिच्छेदे (माप) गुञ्जादिपरिमाणभेदविशेषाश्च कर्षशब्दे १७७५ पृ० उक्ता दृश्याः। अङ्गुलादिपरिमाणञ्च वैशेषिकमते द्रव्यगुणभेदस्तच्चातुर्विध्यं चोक्तं यथा “अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते।” कणा० सू० “तदेवं स्थूलो नीलः कलस इति प्रात्यक्षिकप्रत्यये यथा नीलं रूपं विषयस्तथा परिमाणमपि तेन च परिमाणेन परमाणुपर्य्यन्तं परिमाणमुन्नीयते प्रत्यक्षत्वात् द्रव्यप्रत्यक्षहेतुत्वाच्च। द्रव्यप्रत्यक्षतायां रूपवत् परिमाणमपि कारणं नहि महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं मवति तथा च द्रव्यप्रत्यक्षकारणत्वेन स्वयञ्च प्रत्यक्षतया परिमाणं गुणोऽस्तीति निश्चीयते। यदि हि चटादिस्वरूषं परिमाणं स्यात् तदा महदानयेत्युक्ते घटमात्रमानयेत् तथाच प्रैषसंप्रतिपक्षी विरुध्येयाताम्, एवं वटपदात् परिमाणं प्रतीयेत परिमाणपदाद्वा घट इति। आबधवहारासाबारणकारणत्वं द्रव्यसाणात्कारकारचगिष्ठसामान्यगुणत्वं वा महत्त्वम्। मानव्यवहारोहस्तवितस्त्यादिव्यवहारो नतु पणसङ्ख्यादिव्यवहारः। तश्च परिमाणञ्चतुर्विधं महत्वमणुत्वं दीर्घत्वं ह्रस्वत्वञ्च, तत्र परममहत्त्वपरमदीर्त्तत्वे विभुचतुष्टयवर्त्तिनी परमाणुत्वपरमह्रस्वत्वे परमाणुवर्त्तिनी अवान्तराणुत्वावान्तरह्रस्वत्वे द्व्यणुकवर्त्तिनी त्रसरेणुमारभ्य महावयविपर्य्यन्तं महत्त्वदीर्घत्वे। एवञ्च सर्वाण्यपि द्रव्याणि परिमाणद्वयबन्ति। विल्वामलकादावणुत्वव्यवहारः समिदिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारोभाक्तः, भक्तिश्चात्र प्रकर्षभावाभावः, आमसके यः प्रकर्षभावस्तस्याभावः कुवले। विण्वे यः प्रकर्षभावस्तस्याभाव आमलके, स च गौणमुख्योभयभागित्वाद्भक्तिपदवाच्यः। दीर्धह्रस्वत्वे नित्ये न वर्त्तेते इत्येके, परिमाण एव ते न भवत इत्यपरे, महत्सु दीर्घमानीयतामितिवत् महत्सु वर्त्तुलं त्रिकोणञ्चानीयतामिति निर्धारणबलाद्वर्त्तुलत्वादीनामप्यापत्तेरिति तेषामाशयात्। इदानीं परिमाणकारणानि परिसञ्चष्टे। उप० वृ० “कारणबहुत्वाच्च” कणा० सू० “चकारोमहत्त्वप्रचयौ समुच्चिनोति, परिमाणमुत्पद्यते इति सूत्रशेषः, तत्र कारणबहुत्वं केवलं त्र्यणुके महत्त्रदीर्थत्वे जनयति महत्त्वप्रचचयोस्तत्कारणेऽभावात् तच्च बहुत्वमीश्वरापेक्षाबुद्धिजन्यं तद्बुद्धेरनेकविषयत्वेऽप्यदृष्टविशेषोपग्रहो नियामकः, एवं परमाणुद्वयगतं द्वित्वं द्व्यणुके परिमाणोत्पादकं वक्ष्यते द्वाभ्यां तन्तुभ्यामप्रचिताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायिकारणं बहुत्वप्रचययोस्तत्राभावात्। यत्र च द्वाभ्यां तूलकपिञ्जाभ्यां तूलकपिञ्जारभस्तत्र परिभाणोत्कर्षदर्शनात् प्रचयः कारणं बहुत्वस्याभावात् महत्त्वस्य सत्त्वेऽपि परिमाणोत्कर्षं प्रत्यप्रयोजकत्वात्। एवञ्च सतियदि महत्त्वं तत्र कारणं तदा न दोषः तदुक्तं “द्वाभ्यामेकेन सर्वैर्वा” इति। प्रचयश्च आरम्भकसंयोगः, स च स्वामिमुखकिञ्चिदवयवासंयुक्तत्वे सति स्वाभिसुखकिञ्चिदवयवसंयोगलक्षणः, सचावयवसंयोगः स्वावयवप्रशिथिलसयोगापेक्षः परिमाणजनकः “गुणकर्म्मारम्भे सापेक्ष” इति वचनात् उ० वृ०। “अतो विपरीतमणु” क० सू० “महत्त्वदीर्घत्वे व्युत्पाद्याणुत्वं व्युत्पादयति। अतः प्रव्यक्षसिद्धान्महतः परिमाणाद्यद्विपरीतं तदणु परिमा णमित्यर्थः। वैपरीत्यञ्चाप्रत्यक्षत्वात् कारणवैपरीत्याच्च, महत्त्वे हि महत्त्वबहुत्वप्रचयानां कारणत्वम्, एतेन दीर्घत्वबियरीतं ह्रस्वत्वमित्यपि द्रष्टन्यम्, वैपरीत्यञ्चात्रापि पूर्वयत्” उ० वृ० “इदानीं कुवलासकादावणुत्वव्यवहारोभाक्त इति दर्शयति। “अणु महदिति तस्मिन् विशेषभावात् विशेषाभाबाच्च” क० सू० “इतिशब्दो व्यवहारपरतां दर्शयति, तेन विल्वापेक्षया कुवलमणु, कुबलाग्रेक्षयामलकं महत्, आमलकापेक्षया विल्वं महदिति तावद्व्यावहारीऽस्ति, तत्र महदिति तेषु व्यवहारो मुख्यः, कुत एवमत आह विशेषभावात् महत्त्वविशेषस्यैव तरतमादिभावेन भावात्। अणुव्यवहारस्तु तेषु भाक्तः, कुत एवमत आह विशेषाभावात् अणुत्वविशेषस्य तत्राभावात्, अणुत्यं हि कार्य्यं द्व्यणुकमात्रवृत्ति, नित्यं परमाणुवृत्ति, कुवलादौ तदभावात्। यद्वा विशेषस्य महत्वकारणस्यैवावयवबहुत्वमहत्त्वप्रचयानां कुवलाद्यवयवेषु भावात् सद्भावात्। विशेषाभावात् विशेषस्य अणुत्वकारणस्य महत्त्वासमानाधिकरणद्वित्वस्य कुवलाद्यवयवेष्वभावादसद्भावादित्यर्थः” उप० वृ०। “अणुत्वव्यवहारो भाक्त इत्यत्र हेतुमाह। “एककालत्वात्” कणा० सू० “महत्त्वमणुत्वञ्च द्वयमप्येकणिन् कालेऽनुभूयते, ते च महत्त्वाणुत्वे परस्परविरोधिनी नैकत्राश्रये सह सम्भवतः, अतो महत्त्वकारणसद्भावान्महत्त्वप्रत्ययस्तत्र मुख्यीऽणुत्वप्रत्ययप्रयोगौ च भाक्तावित्यर्थः” उप० वृ० “महत्त्वप्रत्ययस्य मुख्यत्वे हेतुमाह “दृष्टान्ताच्च” कणा० सू० “दृश्यते था वस्तुगत्या महत्स्वेव कुवलामलकविल्वेषु स्थूलस्थूलतरस्थूलतमव्यवहारेण भवितव्यमित्यर्थः यथा वस्तुगत्या शुक्लेष्वेव पटशङ्खस्फटिकादिषु शुक्लशुक्लतरशुक्लतमव्यवहारः” उप० वृ०। नन्वणु महत्परिमाणमितिव्यवहारबलान्महत्त्वेऽपि परिमाणे महत्त्वमणुत्वेऽप्यणुत्वमस्तीति ज्ञायते तत् कथं द्रव्यमात्रवृत्तित्वमनयोः कथं वा गुणे गुणवृत्तित्वविरोधा नापद्यत इत्यत आह। “अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः” कणा० सू०। “यथा गुणकर्मणी नाणुत्वमहत्त्ववती तथाऽणुत्वमहत्त्वे अपि नाणुत्वमहत्त्ववती इत्यर्थः प्रयोगश्च भाक्तो द्रष्टव्यः” उप० वृ०। “ननु यथा गुणा गुणवन्तः कथमन्यथा महान् शब्दः द्वौ शब्दौ एच्चः शब्दः चतुर्सिंशतिर्गुणा इत्यादिव्यवहारः, कर्माण्यपि च कर्मवन्ति प्रतीयन्ते कथमन्यथा शीघ्रं गच्छति द्रुतं गच्छतीति व्यवहारः तथाचाणुत्वमहत्त्वे अपि तद्वनी स्यातामित्यत आह। “कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः” कणा० सू०। “कर्मभिः कर्माणि न तद्बन्ति गुणैश्च गुणा न तद्वन्तस्तश्राऽणुत्वमहत्त्वे अपि न तद्वती व्यवहारस्तु सर्वत्र भाक्त इत्यर्थः” उप० वृ०। ननु महान्ति कर्माणि अणूनि कर्माणि महान्तो गुणाः अणवो गुणा इत्यादिव्यवहारादणुत्वमहत्त्ववन्ति कर्माणि तदुमयवन्तश्च गुणाः प्रसक्ता इत्यत आह। “अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः” कणा० सू०। “यथाऽणुत्वमहत्त्वे नाणुत्वमहत्त्ववती तथा न कर्माणि तदुभयवन्ति न वा गुणास्तदुभयवन्त इत्यर्थः, प्रयोगस्तु पूर्ववद्भाक्त इति भावः” उप० वृ०। “अणुत्वमहत्त्वप्रक्रियां दीर्घत्वह्रस्वत्वयोरतिदिशति। “एतेन दोर्घत्वह्रस्वत्वे व्याख्याते” क० सू०। “ह्रस्वत्वदीर्थत्वे अपि न ह्रस्वत्वदीर्घत्ववती महोत्त्वोत्पादकमेव ह्रस्वत्वीत्पादकम्, कारणैक्यात् कथं कायेभेद इति चेन्न प्रागभावभेदेन पाकजवदुपपत्तेः यत्रैव महत्त्वं तत्र दीर्घत्वं यत्राणुत्वं तत्र ह्रस्वत्वं यत्र नित्यमणुत्वं तत्र नित्यं ह्रस्वत्वमित्याद्यतिदेशार्थः” उप० वृ०। “इदानीं विनाशकमाह “अनित्येऽनित्यम्” क० सू० “एतच्चतुर्विधमपि परिमाणं विनाशिनि द्रव्ये वर्त्तमानमाश्रयनाशादेव नश्यति न तु विरोधिगुणान्तरात्। घटे सत्यपि तत्परिमाणं विनश्यति कथमन्यथा कम्बुभङ्गेऽपि स एवायं घट इति प्रत्यभिज्ञेति चेन्न आश्रयनाशेन तत्र धटनाशावश्यकत्वात् न हि परमाणुद्वयसंयोगनाशाद् द्व्यणुके नष्टे तदाश्रितस्य त्रसरेणीस्तदाश्रितस्य चूर्णशर्करादेरविनाश इति युक्तिरभ्युपगमो वा, कथं तर्हि प्रत्यभिज्ञेति सैवेयं दीपकलिकेति प्रत्यभिज्ञामवद्भ्रान्तित्वात्। प्रदीपप्रत्यभिज्ञाऽपि प्रमैव ह्रस्वत्वदीर्थत्वे परमुत्पादविनाशशालिनी इति चेन्न तद्विनाशस्याश्रयविनाशमन्तरेणानुग्रपत्तेरुक्तत्वात्” उप० वृ०। “नित्ये नित्यम्” कणा० सू०। “तत् किं पार्थिवपरमाणुरूपादिवत् परमाणुगतमणुत्वं शब्दबुद्ध्यादिवदाकाशादिगतं महत्त्वमपि नश्यतीत्यत आह। नित्येष्वाकाशादिषु परमाणुषु च यत् परिमाणं तन्नित्यं विनाशकाभावात्” उप० वृ०। परमाणुपरिमाणस्य वैशेषिकसिद्धां संज्ञामाह “नित्यं परिमण्डलम्” कणा० सू० परिमण्डलमेव परिमाण्डल्यम् (स्वार्थे ष्यज्) उप० वृ०। “परिमितिव्यवहारासाधारणं कारणं परिमाणमित्यर्थः” सि० मुक्ता० “अणु दीर्थं महद्ध्रस्वमिति तद्भेद ईरितः। अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्। संख्यातः परिमाणाच्च प्रचयादपि जायते। अनित्यं द्व्यणुकादौ तु संख्याजन्यमुदाहृतम्। परिमाणं घटादौ तु परिमाणजमुच्यते। प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते” भाषा० “तच्चतुर्विधम् अणु महद् दीर्घं ह्रस्वञ्च। तत्परिमाणम्। नित्यमित्यत्र परिमाणमित्यनुषज्यते। जायत इत्यत्रापि परिमाणमित्यनुवर्त्तते। अनित्यमिति पूर्वेणान्वितम्। तथा चानित्यं परिमाणं सङ्ख्याजन्यं परिमाणजन्यं प्रचयजन्यं चेत्यर्थः। तत्र सङ्ख्याजन्यमुदाहरति। द्व्यणुकादाविति। द्व्यणुकस्य त्रसरेणोश्च परिमाणं प्रति परमाणुपरिमाणं द्व्यणुकादिपरिमाणं वा न कारणम् परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वात्। द्व्यणुकादिपरिमाणन्तु परमाणुत्वापेक्षया नोत्कृष्टम्। त्रसरेणुपरिमाणन्तु न सजातीयम्। अतः परमाणौ द्वित्वसङ्ख्या द्व्यणुकपरिमाणस्य द्व्यणुके, त्रित्वसङ्ख्या च त्रसरेणुपरिमाण स्यासमवायिकारणमित्यर्थः। परिमाणजन्यमुदाहरति। परिमाणं घटादाविति। परिमाणजं कपालादिपरिमाणजन्यम्। प्रचयजन्यमुदाहर्तुं प्रचयं निर्वक्ति प्रचय इति” सि० मुक्ता० “परिमाणं तूलकादौ नाशस्त्वाश्रवनाशतः” भाषा० “नाश इति अर्थात् परिमाणस्य। न चावयवनाशः कथं परिमाणनाशकः सत्यप्यवयविनि त्रिचतुरपरमाणुविश्लेषे तदुपचये चावयविनः प्रत्यभिज्ञानेऽपि परिमाणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाच्यम् परमाणुविश्लेषे द्व्यणुकस्य नाशोऽवश्यमम्युपेयस्तन्नाशे च त्रसरेणुनाशः एवं क्रमेण महावयविनो नाशस्यावकाशत्वात् सति च नाशकेऽनभ्युपगममात्रेण नाशस्यापवदितुमशक्यत्वात्। शरीरादाववयवापचयेऽसमवायिकारणनाशस्यावस्यकत्वादवयविनाश आवश्यकः। न च पदाविनाशेऽपि तत्त्वन्तरसंयोगात् परिमाणाधिक्यं स्यादिति वाच्यम् तत्रापि वेमाद्यमिघातेन समवायिकारणतन्तुसंयोगनाशात् पटनाशस्यावश्यकत्वात्। किञ्च तस्त्वन्तरस्य तत्पटावयवत्वे पूर्वं तत्पद एव न स्यात् तत्त- न्तुरूपकारणाभावात् तत्तन्तोरवयवत्वाभाबे च न तेन परिमाणाधिक्यं संयुक्तद्रव्यान्तरवत्। तणात् तत्र तन्त्वन्तरसंयोगे सति पूर्वपटनाशस्ततः पटान्तरोत्पत्तिरित्यवश्यं स्वीकार्य्यम्। अबयविनः प्रत्यभिज्ञानन्तु साजात्येन दीपकलिकादिवत्। न च पूर्वतन्तव एव तन्त्वन्तरसहकारात् पूर्वपटे सत्येव पटान्तरमारभन्तामिति वाच्यम् मूर्त्तयोः समानदेशताविरोधात्। एकदा नानाद्रव्यस्य तवानुपलम्भवाधितत्वाच्च पूर्वद्रव्यस्य प्रतिबन्धकस्य विनाशे द्रव्यन्तारोत्पत्तिरित्यवश्यमभ्युपेयत्वात्” सि० मुक्ता०।

वेदान्तिमते अणुमहदित्येव परिमाणद्वैबिध्यम्। तच्च आरम्भवादशब्दे दर्शितम्। एवं सांख्यमतेऽपि परिमाणद्वैविध्यम्। “न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात्” सा० सू०।

परिमार्जन = न० परि + मृज–भावे ल्युट् वृद्धिः। १ जलगोमयादिना भूम्यादेः शोधने मधुमस्तकरूपे २ भक्ष्यद्रव्यभेदे च “मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्चये। मधुमस्तकमुदिष्टं तस्याख्या परिमाजंनम्” शब्दच०।

परिमित = त्रि० परि + मा–क्त। १ कृतपरिमाणे २ यधार्हपरिमाणे च त्रिका०।

परिमिति = स्त्री परि + मा–क्तिन्। परिमाणे भाषापरिच्छेदः

परिमुख = अव्य० मुखस्य वर्जनम् अव्ययी० पूर्वनि०। समुस्त्रवर्जने “परिमुखञ्च” पा० तत्र वर्त्तते ठक्। पारिमुखिक सेवके परिमुखं भवम् “अव्ययीभावाच्च” पा० षरिमुखादिभ्य एवेष्यते इत्युक्तेः ञ्य। पारिमुख्य तत्र भवे त्रि०।

परिमुखादि = ञ्यप्रत्ययनिमित्ते शब्दगणे स च गणः “परिमुख परिहनु पर्य्योष्ट पर्य्युलूखल परिसीर उपसीर उपाहूण उपकलाप अनुपथ अनुपद अनुगङ्ग अनुतिल अनुशीत अनुसाय अनुसीर अनुमाष अनुयव अनुयूप अनुवंश प्रतिशाख”।

परिमोक्ष = पु० परितो मोक्षः। १ सम्यग्मुक्तौ ३ निर्वाणमोक्षे माग० २। ६१० श्लोके श्रीधरः। २ मोचने च

परिमोषिन् = त्रि० परि + मुष–ताच्छील्ये इनि। परिमोषणशीले चौरे स्त्रियां ङीप्।

परियज्ञ = पु० परित उमयती विहिती यज्ञोऽस्य। उभयतो विहितयज्ञे वृहस्पतिसवादौ कात्या० १ ४। १९। संग्र०

परि(री)योग = पु० परि + युज–भावे घञ् वा दीर्घः। परितोयोगे

परिरथ्या = स्त्री परितो रथ्या। चतुष्पथादौ

परि(री)रम्भ = पु० परि + रभ–घञ् मुम् च वा दीर्घः। आलिङ्गने।

परिराटक = त्रि० परि + रढ–ताच्छील्ये बुञ्। समन्ताद्रटनशीले।

परिराटिन् = त्रि० परि + रट–ताच्छील्ये घिनुण्। समन्ताद् रटनशीले स्त्रियां ङीप्।

परिल = त्रि० परितो लाति ला–क। परितो ग्राहके ततः शिवा० अपत्ये अण्। पारिल तदपत्ये पुंस्त्री०।

परिलेख = त्रि० परिलिखत्यनेन परि + लिख–करणे घञ्। परितो लेखनसाधने द्रव्ये। उपरागशब्दे १३०३ पृ० दर्शिते पदार्थे च।

परिलेखन = परि + लिख–भावे ल्युट्। यज्ञस्थानेषु परितो रेखादिकरणे।

परिवत्सर = पु० संवत्सरपञ्चकान्तर्गते वत्सरभेदे “शकाव्दात् पञ्चमिः शेषात् समाद्यादीषुवत्सराः। सम्परीदानुपूर्वाश्च तथोदापूर्वकामताः” मलमा० त०। “परिपूर्वे तथा दानं यवानां च द्विजोत्तमा!” विष्णुध०।

परिवर्जन = न० परिवर्ज्यतेऽसुभिरनेन वृज–णिच्–ल्युट्। १ मारणे। वृज–भावे ल्थुट्। २ त्यागे अमरः। पतितादीनां शय्यासनादौ परिवर्जनमुक्तं यथा

“एकशय्यासनं पङ्क्तिभाण्डपक्वान्नमिश्रणम्। याजनाध्ययने योनिस्तथैव सह भोजनम्। सहाध्यायस्तु दशमः सहयाजनमेव च। एकादश तमुद्दिष्टा दोषाः साङ्कर्य्यसंज्ञिताः। समीपे चाप्यवस्थानात् पापं संक्रमते नृणाम्। गस्मात् सर्वप्रयत्नेन साङ्कर्य्यं परिवर्जयेत्” इति कौर्मे उपरिभागे १५ अ०। देशभेदावर्जनीया यथा “यरियन्देशे न सम्मानी न प्रीतिर्न च बान्धवाः। न च विद्यागमः कश्चित्तं देशं परिवर्जयेत्” चाणक्यः। वर्ज्यमनुव्यादयो यथा “ब्राह्मणं वालिशं जत्रमयोद्धारं विशं जडम्। शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत्। कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम। कुबन्धुञ्च कुदेशञ्च यकतः परिवर्जयेत्” तरुडपु०

परि(री)वर्त्त = परि + वृत–मावे घञ् वा दीर्थः। १ विनिमये। आधारे घञ्। २ युगान्तकाले हेमच० ३ ग्रन्यविच्छेदे अध्यायादौ जटा० कर्त्तरि अच्। ४ कूर्म्मराजे। ५ मृत्युपुत्रदुःसाध्यपुत्रभेदे मार्कण्डे० पु० ५१ अ०। तन्नामनिरुक्तिस्तत्रैव “अन्यगर्भे परान् गर्भान् सदैव परिवर्त्तयन्। इतिमाज्ञोति वाक्यञ्च बिवक्षोरन्यदेव हि। परिवर्त्तन संज्ञीऽयम्”। तस्य सुतौ च विरूपविकृतौ तयोः कर्म च तत्रोक्तं यथा “परिवर्त्तसुतौ द्वौ तु विरूपविकृतौ द्विज!। तौ तु वृक्षाग्रपरिखाप्राकाराम्भोधिसंश्रयौ। गुर्विण्याः परिवर्त्तं तौ कुरुतः पादपादिषु। क्रौष्टुके परिवर्तन्त्या गर्भस्यान्योदरात्ततः। न वृक्षं चैव नैवाट्टं न प्राकारं महोदधिम्। परिखां वा समाक्रामेदवला गर्भधारिणी”। ६ आवृत्तौ “युगानां परिवर्त्तेन” सू० सि०। यत् स्थानमारम्य ग्रहश्चलितः स चेत् पुनस्तत्स्थानमायाति तादृशे राशिचक्रस्य ७ परिवर्त्ते च “तेषान्तु परिवर्त्तेन पोष्णान्ते भगणः स्मृतः” सू० सि०। परिवर्त्तते परि + वृत–अच्। ८ परिवृत्तियुक्ते धनादौ ताण्ड्य० माष्यम्।

परिवर्त्तन = न० परि + वृत–भावे ल्युट्। १ विनिमये मेदि०। परि + वृत–णिच्–ल्यु। २ दुःसाध्यपुत्रभेदे परिवर्त्तशब्दे दृश्यम्।

परिवर्त्तिका = स्त्री मेढ्रगतरोगभेदे “मर्दनात् पीडनाच्चापि तथैवात्यभिथाततः। मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन्। तदा वातोपसृष्टन्तु चर्म प्रतिनिवर्त्तते। मणेरधस्तात् कोषश्च ग्रन्थिरूपेण लम्बते। सवेदनं सदाहञ्च पाकञ्च व्रजति क्वचित्। मारुतागन्तुसम्भूतां विद्यान्तां परिवर्त्तिकाम्। सकण्डूः कठिना चैव तथाश्लेष्मससुत्थिता” सुश्रु०।

परिवर्त्तिन् = स्त्री परि + वृत णिनि। १ पुनः पुनरावृत्तियुक्ते स्त्रियां ङीप्। सा च त्रिवृत्स्तोमस्य २ विष्टुतौ। “तिसृभ्यो हिङ्करोति स पराचीभिः” (एवं त्रिरुक्त्वा) “परिवर्त्तिनी त्रिवृत्विष्ठुतिः” ताण्ड्यब्रा० २। २। १। “परिवर्त्तिनी आवर्त्तिनी” मा०।

परिवर्ह = पु० परि + वर्ह घञ्। १ परिच्छदे राजचिह्नचामरसितच्छत्रादौ अमरः।

परिवसथ = पु० परि + वस–आथारे अथच्। ग्रामे हेमच०।

परिवह = पु० परि + वह–अच्। सप्तवायुमध्यपातिनि वायुभेदे अनिलशब्दे दृश्यम्।

परि(री)वाद = पु० परि + वद–घञ् वा दीर्घः। १ अपवादे “गुरोर्यत्र परीवादः” इति मनुः। करणे घञ्। २ वीणावादनसाधने च मेदि०।

परिवादिन् = त्रि० परि + वद–“संपृचेत्यादि” पा० ताच्छील्ये घिनुण्। १ परिवदनशीले स्त्रियां ङीप् सा च २ सप्ततन्त्रीयुते वीणाभेदे अमरः।

परि(री)वाप = पु० परि + वष–घञ् वा दीर्घः। ३ वपने। वपणिच्–घञ्। २ मुण्डने ३ जलस्थाने ४ परिच्छदे च। ततः चतुरर्थ्यां कुमुदा० ष्ठक्। पारिवापिक तस्यादूरदेशादौ त्रि०। रित्रयां षित्त्वात् ङीष्। प्रेक्ष्यादि० तदर्थे इनि। षरिवापिन् तस्यादूरदेशादौ त्रि० स्त्रियां ङीप्। ल्युट्। परिवापणमप्यत्र।

परिवापित = त्रि० परिवापे नियुक्तः। परिवापने नियोजिते अमरः। परि + वप–णिच्–क्त। ३ मुण्डिते त्रि०।

परि(री)वार = पु० परिव्रियतेऽसौ अनेन वा परि + वृ–घञ् वा दीर्घः। १ परिजने कुटुम्बादौ रघुः ६। १०२ खड्गकोषे (णाप) मेदि० भावे घञ्। परिवरणे च।

परिवासन = न० परिवास्यतेऽनेन। यज्ञियवेदाच्छादनुकुलविशेषे “शुल्वात् प्रादेशे परिवास्य वेदपरिवासनानि निदधाति” आपस्तम्बसूत्रम्। तानि च वेदाग्राणि कार्य्याणीति चूर्त्त स्वामी।

परि(री)वाह = पु० परि + वह–घञ् वा दीर्घः। जलोच्छ्वामे अमरः। परितः समन्ताज्जसानामुच्छ्वलनात् पात्रवर्जनेन वा वहनात्तथात्वम् रघुः ८। ७३ उदा०

परिवित्त = पु० परि + विद–क्त न दस्य नः। अकृतदाराग्न्याधाने पूर्वं कृतविवाहाग्न्याधानस्य कनिष्ठस्य ज्येष्ठे भ्रातरि बजु० ३०। ९

परिवित्ति = पु० परि + विद–क्तिच्। अकृतविवाहाग्न्याधाने पूर्वं कृतविषाहाग्न्याधानस्य कनिष्ठस्य ज्येष्ठे भ्रातरि परिबेत्तृशब्दे दृश्यम्।

परिविद्ध = त्रि० परि + ल्यध–क्त। १ परितो विद्धे २ कुवेरे पु० हेमच०।

परिविन्दत् = पु० धरित्यज्य भ्रतिक्रम्य ज्येसं विन्दति भार्य्यामग्न्याधानं वा विद–लाभे शतृ। अकृतदाराग्न्याधानस्य ज्येष्ठस्य पूर्वं कृतदाराग्न्याधाने कनिष्ठे भ्रातरि अत्र परिवेदने दोषः परिवेत्तृशब्दे हारीतोक्तौ दृश्यः। तत्र प्रतिप्रसवादिकं उद्वा० निणीतं यथा

छन्दोमपरिशिष्टम् “देशान्तरस्यक्लीवैकवृषणानसहोदरान्। वेश्याभिषक्तपतितशूद्रतुल्यातिरीगिणः। जडमूकान्धबधिरकुब्जकुण्ठकवामनान्। अतिवृद्भावभार्य्यांश्च लषिसक्तान् नृषस्य च। धनवृद्धिप्रमक्तांश्च कामतः करिणस्तथा। कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति। धनवार्युषिकं राज कर्षकं तथा प्रोषितञ्च प्रतीक्षेत वर्षत्रयमपि त्वरन्। प्रोथितं तद्यशृण्वानमद्दादतिसमाचरेत्”। जडो बिकलान्वाकरणः हिताहितावधारणाक्षम इति यास दिति सिताक्षरा। कुण्ठः सर्वक्रियालसः “कुण्डो अन्दः क्रियासु यः” इत्यमरोक्तेः अभार्य्यान् शास्त्रनिविद्धभार्य्यासम्बन्यान् नैष्ठिकब्रह्मचारिवानप्रस्थभिक्षुरूपान्। नृपस्य चेति चकारेण सक्तानित्यसुकृष्यते। कामतः कारिणः श्रौतस्मार्त्तनिरपेक्षखच्छन्दव्यवहारिणः। कुलटः कुलान्यटतीति परकुलाटनशील इति नारावणमहामहोपाध्यायाः तैषामयमाशवः कुलं परकुलम् अटति नच्छति व्राप्नोति यो दतकः स कुलटः इति। चौरानित्यन पौरानिति पाठे पुरजनप्रैष्यान्। धनबार्धुषिकादित्रयं देशान्तरस्थितञ्च ज्येष्ठं त्वरन्नपि तर्षत्रयं प्रतीक्षेत। ततश्च पूर्ववचने एतान् परिविन्दन्न दुष्यति इत्युक्तम् अत्र परेर्लक्षणार्थत्वाद्द्वितीया। तत्र देशान्तरस्थकृषिसक्तनृपसक्तधनवृधिप्रसक्तान् प्रति वर्षत्रयादूर्द्ध्वमिति बोद्धव्यम्। अत्रापि पोषिते यत् त्र्यव्दप्रतीक्षणं तद्विद्याधर्मधनेतरार्थप्रोषितपरं वक्ष्यमाणवशिष्ठगोतमवचनात् अशृण्वानं प्रत्ययव्यत्ययेन अश्रूयमाणमिति परिशिष्टप्रकाशकारः। अशृण्वन् स इति पाठस्तु रत्नाकरे प्रोषितस्य कल्याणवार्त्तामशृण्वन् वर्षैं प्रतीक्ष्य परिणयनं करोति। तत्र समागते ज्येष्ठे कनिष्ठः परिबेदनशुद्धये परिवेदनप्रायश्चित्तस्य कृच्छ्रपादं चरेत् एवमन्यत्रापि प्रायश्चित्तसङ्कलनाऽम्बेष्या। वज्ञिष्ठः “अष्टौ दश द्वादश वर्षाणि ज्येष्ठं भ्रातरमनिर्विष्टमप्रताक्षमाणः प्रायश्चित्ती भवतीति तत्र श्लोकौ “द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर्गतः। न्याय्यः प्रतीक्षितुं भ्राता श्रूयमाणः पुनःपुनः। उन्मत्तः किल्वषी कुष्ठी पतितः क्लीव एव वा। राजयक्ष्यामयावो च न न्यान्यः स्यात् प्रतीक्षितुम्”। गोतमश्च “द्वादश वर्षाणि प्रतीक्षणं ब्राह्मणस्य विद्यासम्बन्धे भ्रातरि चैवं ज्यायसि यवीतान् कन्याग्न्युपयमेषु षडित्येके इति विद्यार्थं प्रोषितस्य ब्राह्मणस्य दारा अपत्योत्पादनार्थं तदभिगमने द्वादशवर्षाणि प्रतीक्षेरन्नित्युक्त्वा। भ्रातरि चैवमित्यमेन सर्वमतिदिष्टम् एतेनैतदवसीयते विद्याधवधर्मार्थं नतानां ब्राह्मणक्षत्रियवैश्यशूद्राणां क्रमशो दादशदशाष्टषड्वर्षाणां प्रतीक्षणमिति प्रायश्चित्तविवेकः। रत्नाकरकद्भिणु श्रूयमाणेऽभिमुखगमनं प्रव्रजिते गमनस्य निवृत्तिप्रसङ्गादि त्यधिकं गौतमीयं विलिख्य प्रोषिते भ्रातरि ज्येष्ठे विवाहाग्न्याधाने तं कारयितुमभिमुखगमनं यवीयसा कर्त्तव्यं कृतसन्न्यासे च ततो निवृत्तिरिति व्याख्यातम्। शानागपः “क्लीवे देशान्वरगते पतिते मिक्षुकेऽपि वा”। योगशास्त्राभियुक्ते विषयात्यन्तविरक्ते इति रत्नाकरः। अत एव दक्षः “दृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि। एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते”। तेन विषयानासक्तमनसा जीवपरमात्रनोरभेदचिन्तनविशेषी योम इति। छन्दोगपरिशिष्टम् “नाम्बवः परि- विन्दन्ति न यज्ञा न तपांसि च। न च श्राद्धं कनिष्ठस्य या च कन्या विरूपिका”। “विकला या च कन्यकेति” पाठः शातातपीये। नाग्नयः परिविन्दन्तीति ज्येष्ठाननुमत्या यथाह उशनाः “ज्येष्ठभ्राता यदा तिष्ठेदाधानं नैव कारयेत्। अनुज्ञातस्तु कुर्वीत शङ्गस्य वचनं यथा”। वशिष्ठः “अग्रजोऽस्य यदानग्निरधिकार्य्यनुजः कथम्। अग्रजानुमतः कुर्य्यादग्निहोत्रं यथाविधि”। एतेन विवाहस्त्वनुमत्यापि दोषायेति प्रायश्चित्तविवेकः”।

परिविन्न = पु० परि + विद–क्त तस्य दस्य च नः। नकारेण व्यवहारात् न णत्वम् मूर्द्धन्यपाठः प्रामादिकः “कृत्यचः” पा० अचः परत्वाभावात् नकारेण व्यवधामाच्च अप्राप्ते निर्विणस्योपसंख्यानात् णत्वम्। विषण्णस्य तु उपसर्गस्थनिमित्तत्वाभावात् नास्य प्रवृत्तिः। पूर्वं कृतविवाहाग्न्याधानस्य कनिष्ठस्य ज्येष्ठे भ्रातरि परिवेत्तृशब्दे दृश्यम्। २ तादृशस्त्रियां स्त्री परिवेदनदोषकमत्वात् तयोः परिवेदनकर्मत्वम्।

परिविष्टि = स्त्री परि + विश० विष–वा क्तिच्। १ परिचर्य्यायां २ व्याप्त्वौ च ऋ० ४। ३३। ३ भा०।

परिवी = स्त्री परि + व्ये–क्विप् संप्रसारणे दीर्घः। १ परिवारिते २ परितः स्यूते च यजु० ६। ४

परिवीत = त्रि० परि + व्येञ्–क्त सम्प्र० दीर्घः। परिवेष्टिमे ऋ० १०५। ४१

परिवृंहण = न० परि + वृन्ह–णिच्–ल्यु। बहुलीकरणे मनुः १२। १०९

परिवृंहित = त्रि० परितो वृंहितम्। १ सर्वतोभावेन वर्ङ्गिते २ वहुलीकृते च। भावेक्त। ३ करिध्वनिभेदे न०।

परिवृक्ण = त्रि० परि + व्रश्च–क्त। १ छिन्ने २ छिन्नहस्तपादे च छा० उ०

परिवृक्त = त्रि० परि + वृज–क्त। परित्यक्ते ऋ० १० १०२ भा०

परिवृढ = त्रि० परि + वृन्ह–क्त नि०। १ अधिपे प्रभौ। ततः भावे दृढा० इमनिच् ऋतोरः। परिव्रढिमन् आधिपत्ये पु० पक्षे ष्यञ्। पारिवार्ढ्य तदर्थे न०।

परिवृत = त्रि० परितो वृतः। परितो वेष्टिते “सभ्यैः परिवृतोऽन्वहम्” कात्या० स्मृतिः।

परिवृत्त = त्रि० परि + वृत–क्त। परितोवृत्ते। ततः चतुरर्थ्यां कुमुदा० कृश्यादि०च क। परिवृत्तक तददूरदेशादौ त्रि०

परिवृत्ति = स्त्री परि + वृत–क्तिन्। १ परिवर्त्ते २ अर्थालङ्कार भेदे अर्थालङ्कारशब्दे ३८८ पृ० दृश्यम्।

परिवृत्तिसह = त्रि० परिवृत्तिं परावृत्तिंसहते सह–अच्। यौगिके शब्दभेदे स च पूर्वोत्तरपदयोः परावृत्त्यायोग- लभ्यार्थं बोधयतीति तस्य तथात्वम्। तत्र केचित् पूर्वपदपरावृत्त्यायोगलभ्यार्थबोधकाः केचिदुत्तरपदपरावृत्तत्त्या। केचित्तु नोभयिपदपरावृत्तिसहा यथाह हेमच०

“स्वस्वामित्वादिसम्बन्धं तत्राहुर्न्नामतद्वताम्। स्वात् पालधनभुग्नेतृपतिमत्वर्थकादयः। भूपालो भूधनो भूभुग्भूनेता भूपतिस्तथा। भूमांश्चेतिकवेरूद्याज्ञेयोदाहरणावली। जन्यात् कृत्कर्तृसृट्स्रष्टृविधातृकरसूसमाः। जनकाद्योनिजरुहजन्मभूसूत्यणादयः। धार्य्याद्ध्वजास्त्रपाण्यङ्कमौलिभूषणभृन्निभाः। शालिशेखरमत्वर्थभागिभर्तृधरा अपि। भोज्याद्भुगन्धोव्रतलिट्पायिप्राशाशनादयः। पत्युःकान्तप्रियतमाबधूप्रणयिनीनिभाः। कलत्राद्वररमणप्रणयीशप्रियादयः। सख्युः सखिसमा बाह्याद्गामियानासनादयः। जनेः खसृदुहित्रात्मजाग्रजावरजादयः। आश्रयात्सद्मपर्यायशयबासिसदादयः। बध्याद्भिद्द्वेषिजिद्घातिध्रुग्रिपुध्वंसिशासनाः। अप्यन्तकारिदमनदर्पच्छिन्मथनादयः। विवक्षितो हि सम्बन्ध एकतोऽपि पदात्ततः। प्राक्प्रदर्शितसम्बन्धिशब्दा योज्या यथोचितम्। दृश्यते खलु वाह्यत्वे वृषस्य वृषवा हनः। स्वत्वे पुनर्वृषपतिर्द्धार्य्यत्वे वृषलाञ्छनः। अंशोर्द्धाय्यत्वेऽंशुमाली स्वत्वेऽंशुपतिरंशुमान्। बध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुगपि। चिह्नैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः। तथा ह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते। अयुग्विषमशब्दौ त्रिपञ्चसप्तादिवाचकौ। त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत्। गुणशब्दो विरोध्यर्वं नञादिरितरोत्तरः। अभिधत्ते यथाकृष्णः स्यादसितः सितेतरः। वार्द्ध्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे। द्वयेऽपि भूभृदाद्येषु पर्य्यायपरिवर्त्तनम्। एवं परावृत्तिसहायोगाः स्युरिति यौगिकाः। मिश्राः पुनः परावृत्त्यसहागीर्वाणसन्निभाः”।

परिवेत्तृ = पु० परि + विद–तृच्। अकृतदाराग्न्याधानस्य ज्येष्ठस्य पूर्वं कृतदाराग्न्याधाने कनिष्ठे “ज्येष्ठे अनिर्विष्टे कनीयान् निर्विशम् परिबेत्ता भवति परिविन्नो ज्येष्ठः परिवेदनीया कन्या परिदायी दाता परिकर्त्ता याजकः ते सर्वे पतिताः” उद्वा० त० हारीतः।

परिवेदन = न० परि + विद–लाभे स्थुट्। अदृतदाराग्न्याधाने ज्येष्ठे कनिष्ठस्य पूर्वं १ विवात्ते २ श्रग्न्याधाने च परिवेचृशब्दे दृश्यम्। विद–ज्ञाने विद–सत्तायां भावे ल्युट्। ३ सर्वतो ज्ञाने ४ सर्वतो वृत्तौ सर्वत्र स्थितौ च।

परिवेदनीया = स्त्री पंरि + विद कर्मणि अनीयर्। परिवेत्तुर्भार्य्यायां परिवेत्तृशब्दे दृश्यम्।

परिवेदिनी = स्त्री परियेदः अस्त्यस्याम् इनि ङीप्। परिवेत्तुर्भार्य्यायां परिवेदनीयायां स्त्रियाम् हेमच०।

परिवेश(ष) = पु० परि + विश–(ष–)घञ्। १ परिधौ २ वेष्टने सूर्य्यचन्द्रमण्डलयोर्वेष्टनाकारे ३ उपसूर्य्यकमण्डले तल्लक्षणादिकेवृ० सं० उक्तं यथा “सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः। नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषाः। ते रक्तनीलपाण्डुरकापोताभ्राभशबलहरिशुक्लाः। इन्द्रयमवरुणनिरृतिश्वसनधनेशपितामहाग्निकृताः। धनदः करोति मेचकमन्योऽन्यगुणाश्रयेण चाप्यन्यः। प्रविलीयते मुहुर्मुहुरल्पफलः सोऽपि वायुकृतः। चाषशिखिरजततैलक्षीरजलाभः स्वकालतम्भूतः। अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः। सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः। असकलशकटशरासनशृङ्गाटकवत् स्थितः पापः। शिखिगलसमेऽतिवर्षं बहुवर्णे नृपबधो, भयं धूम्रे। हरिचापनिभे युद्धान्यशोककसुमप्रभे चापि। वर्णेलैकेन यदा बहुलः स्निग्धः शुराभ्रकाकीर्णः। खर्तौ सद्योवर्षं करीति पीतश्च दीप्तार्कः। दीप्तविहङ्गमृगरुतः कलुषः सन्ध्यात्रयोत्थितोऽतिमहान्। भयकृत्तडिदुल्काद्यैर्हतो नृपं हन्ति शस्त्रेण। प्रतिदिनमर्कहिमांश्वोरहर्निश रक्तयोर्नरेन्द्रबधः। परिविष्टयोरभीक्ष्मं लग्नास्तनभः, स्थयोस्तद्वत्। सेनापतेर्भयकरो द्विमण्डलो नातिशस्त्रकोपकरः। त्रिप्रभृति शस्तकोपं युवराजभयं नगर रोधम्। वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे। होराजन्माधिपयोर्जन्मर्क्षे वाशुभो राज्ञः। परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः। जनयति च वातवृष्टिं स्थावरक्वषिकृन्निहन्ता च। भौमे कुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम्। जीवे परिवेषगते पुरोहितामात्यनृपपीडा। मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च। शुक्रे यायिक्षत्रियराज्ञां पीडाऽप्रियं चान्नम्। क्षुदनलमृत्युनराधिपशस्त्रेम्यी जायते भयं केतौ। परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च। युद्धानि विजानीयात् परिवेषाभ्यन्वरे द्वयोर्ग्र हेयोः। दिवसकृतः शशिनो वा क्षुदवृष्टिभयं त्रिषु प्रोक्तम्। याति षतुर्षुनरेन्द्रः सामात्यपुरोहितो वशं मृत्योः। प्रलयमिव विद्गि जगतः पञ्चादिषु मण्डलस्थेषु। ताराग्रहस्य कुर्य्यात् पृथगेव समुत्थितो नरेन्द्रवधम्। नक्षत्राणामथ वा यदि केतोर्नोदयो भवति। विप्रक्षत्रियबिट्छूद्रहा भवेत् प्रतिपदादिषु क्रमशः। श्रेणीपुरकोशानां पजम्यादिष्वशुभकारी। युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः। पुररोधो द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम्। नरपतिपत्नीपोडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम्। कुर्य्यात् तु पञ्चदश्यां पीडां मनुजाधिपम्यैव। नागरकाणामभ्यन्तरस्थिता यायिनां च बाह्यस्था। परियेषमध्यरेखा विज्ञेयाक्रन्दसाराणाम्। रक्तः श्यामो रूक्षश्च भवति येषां पराजयस्तेषाम्। स्निग्धः श्वेतो द्युतिमान् येषां भागो जयस्तेषाम्।”

परिवेषण = न० परि + विष ल्युट्। १ परितो वेष्टने णिच्ल्युट्। २ भोजनार्द्यं परितो भक्ष्यादेरर्पणे य। तत्र श्राद्धे परिवेषणप्रकारादि श्रा० त० उक्तं यथा मनुः “पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्द्धितम्। विप्रान्तिके पितॄन्ध्यायन् शनकैरुपनिःक्षिशेत्”। अन्नस्येत्रि चष्ठी तृतीयार्थे वर्द्धितं पूरियं पात्रमिति शेषः। उपनिःक्षिपेत् परिवेषणार्थं समीपे धारयेत् तत्रा च पाकस्थाल्या आकृष्य प्रथमं भोजनपात्रे न देयं किन्तु स्याल्यादिकं पाणिभ्यां पात्रसमीपे भूमौ संस्थाप्य बसादुभाभ्यां पाणिभ्यां पात्रान्तरिताभ्यां आद्धे परिवेषणं कुर्य्यात्। “उभाभ्यामपि पाणिभ्यामाहृत्य परिवेषयेत्” इति मत्स्यपुराणात्। यत्तु श्राद्धे परिवेषणञ्च दक्षिणपाणिमात्रेणैवान्यानभिधानादिति मैथिलोक्तं तन्न “एकेन पाणिना दत्तं शूद्दत्तं न भक्षयेत्” इत्यादिपुराणीयेनैकपाणिदत्तशूद्रदत्तभक्षणनिषेधेन तन्मात्रपरिवेषणस्यापि निषिद्धत्वात्। पाणिभ्यामपि पात्रान्तरितं कृत्वा देयम्। “हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च। दातारं नोपतिष्ठन्ते मोक्ता भुङ्क्ते तु किल्विषम्। तस्मादन्तरितं देयं पर्णेनाथ तृणेन वा। प्रदद्यात् न तु हस्तेन नायसेन कदाचन” इति वशिष्ठेन सामान्यतोऽभिधानात् पितृभक्तितरङ्गिण्यामप्येवम्। मनुः “गुणांश्च सूपशाकाद्यान् पयोदधि वृतं मधु। विन्यसेत् यत्नतः सम्यक् भूमावेव समाहितः। भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च मद्यानि चैव मांसानि पानानि सुरभीणि च। उपनीय तु तत्सर्वं शनकैः सुसमाहितः। आमिषं पानपात्रञ्च भोक्तुर्दक्षिणतो न्यसेत्। परिवेषथेच्च प्रयतो गुणान् सर्वान् प्रचोदयन्”। गुणान् उपकरणानि। भूमावेव न तु व्यञ्जनादिपात्राद्यन्नपात्रोपरि निःक्षिपेत् पात्रा सत्त्वे भोजनपात्रेऽपि”।

परिव्याध = परि + अध कर्त्तरि ण। १ अम्बुवेतसे ३ द्रुमोत्पले च मेदि० ३ परितो वेधनकारके त्रि०।

परिव्रज्या = स्त्री परि + व्रज–भावे क्यप्। तपस्यायां हेमच०।

परिव्राज् = पु० परिवर्ज्य पुत्रादिकं व्रजति परि + व्रज–क्विप् दीर्घः। पुत्रदारादिकं सर्वकर्माणि च परित्यज्य आअमान्तरगामिणि भिक्षौ यतौ अमरः। तल्लक्षणं यथा“सर्वारम्भपरित्यागी भैक्ष्याश्यं ब्रह्ममूलता। निष्परिग्रहताऽद्रोहसमता सर्वजन्तुषु। प्रियाप्रियपरिष्वङ्गे सुखदुःखाविकारिता। सबाह्याभ्यन्तरं शौचं सुखदुःखा विकारिता। सर्वेन्द्रिवसमाहारो धारणाध्यानानित्यता। भावसंशुद्धिरित्येष परिव्राड्वर्य्य उच्यते”।

परिव्राज = पु० परित्यज्य पुत्रादीन् ब्रजति परि + व्रज–संज्ञायां कर्त्तरि घञ्। परिव्राजि भिचौ

परिव्राजक = पु० परित्यव्य पुत्रादीन् सर्वकमांणि च व्रजति वज–घञ् स्वार्थे क ण्वुल वा। चतुर्थाश्रमिणि यतौ।

परिव्राजि = स्त्री परि + व्रज–णिच्–इन्। श्रावण्यां (थुलकुडि) क्षुपे राजनि०।

परिशिष्ट = त्रि० परि + शिष–क्त। १ अवशेषे। ततः अस्त्वर्थे अच्। २ तत्प्रकाशकग्रन्थभेदे न० तेमय० यथा नृह्यपरिशिष्टं छन्दोगपरिशिष्टम् इत्यादि।

परिशुष्क = त्रि० परि + शुष–क्त तस्य कः। १ षरितः शोषयुते २ नीरसे “मांसं बहुघृतैर्भृष्टं सिक्तञ्चेदम्बुना मुहुः। जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते” शब्दच० उक्ते ३ प्ररिपक्वमांसभेदे न०।

परिशेष = पु० परि + शिष–घञ्। अषशेषे

परिशोध = पु० परि + भावे घञ्। १ ऋणादेः शोधने। णिच् अच। २ परितः शुद्धिसम्पादने च। ल्युट्। परिशोधन तत्रार्थे न०।

परिश्रम = पु० परि + अम–घञ न वृद्धिः। १ व्यानामे क्लेशआरके आयासे हेमच०। आर्षे तु क्वचित् वृद्धिः। परिश्राम तत्रार्थे भाग० २। ९। २०

परिश्रय = पु० परि + श्रि–आधारे अच्। १ आश्रवे २ सभायां च मेदि०।

परिश्रित् = स्त्री परिश्रयत्यनया परि + श्रि–करणे क्विप्। सूक्ष्मपाषाणे शत० ब्रा० ७। १। १२ भाष्यम्। २ यज्ञियेष्टकासमसंख्यके पाषाणखण्डे च कात्या० श्रौ० १८। ६। १ ३

परिश्रित = त्रि० परि + श्रि + क्त। १ समाश्रिते भावे क्त। २ आश्रये न०। ३ परितोवेष्टने ४ वृष्ट्यादिपरिहारके तिरस्करण्यादिभिर्वेष्टने शत० ब्रा० ३। १। २। ८ भा०। आश्व० श्रौ० २। ४। १ नारा०।

परिषद् = स्त्री परिषीदत्यस्यां परि + सद–आधारे क्विप्। सभायां धर्मनिर्णयार्थं विद्वद्भेदयुक्तायां २ सभायाञ्च यथोक्तं मनुना “अनाम्नातेषु धर्मेषु कथे स्यादिति चेद्भवेत्। यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादसंशयः”

प्रायश्चित्तनिर्णयार्थं परिषदुपस्थानप्रकारः परिषद्विशेषव्यवस्थादिक प्रा० वि० उक्तं यथा “अथ प्रायश्चित्तिनः परिषदुपस्थानम्। तत्राङ्गिराः “कृते निःसंशये पापे न भुञ्जीतानुपस्थितः। भुञ्जानो वर्द्धयेत् पापमसत्यं संसदि ब्रुवन्। सचेलं बाग्मतः स्तात्वा क्लिन्नवासाः समाहितः। उपस्थाय ततः शोघ्रमार्त्तिमान् धरणीं गतः। गात्रैश्च शिरसा चैव न च किञ्चिदुदाहरेत्”। उपस्थानञ्च वस्त्रादिना ब्राह्मणान् तोषयित्वा कार्य्यम् “तोषयित्वा द्विजोत्तमानिति” देवलवचनात्। महत्सु पापेषु राज्ञाप्युपस्थितिः कार्य्येत्याह देवलः “स्वयं वा ब्राह्मणैः कृच्छ्रमल्पदोषे विधीयते। राज्ञा च ब्राह्मणैश्चैव महत्सु परिचक्षतं”। परिषदमाह अद्भिराः “एकविंशतिसंख्यातैर्मीमासान्यायन्यायपारगैः। वेदाङ्गकुशलैश्चैव परिषत्त्वं प्रकल्पयेत्। चातुर्वेद्यः प्रकल्पी च अङ्गबिङ्गर्मपाठकः। त्रयश्चाश्रमिणो वृद्गाः परिषत् स्याद्दशावरा”। परि षच्छब्दोऽत्र सभार्हपरः। चातुर्वैद्यः चतुर्येदपारगः। विकल्पी सर्वधर्मपमाणज्ञः धर्मपाठकः धर्मशास्त्रज्ञः। मनुः “त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः। त्रयश्चाश्रमिणो वृद्गाः परिषत् स्याद्दशावरा”। अङ्गिराः “एषा तु लथुकार्य्येषु मध्यमेषु तु मध्यमाः। महापातकशोध्येषु शतशो भूय एव वा” प्रदर्शनार्थमिदं यावद्भिरेव निरूपणं भवति तावद्भिरेव परिषत् दृष्टार्थत्वादस्याः। तथाच यमः “एको द्वौ वा त्रयो वापि यद्ब्रूबुर्धर्मपाठकाः। स धर्म इति विज्ञेयो नेतरेषां सहस्रशः। यद् वदन्ति तमोमूढा मूर्खा धर्मपतद्विदः। तत्पापं शतधा भूत्वा तद्वक्तॄ ननुगच्छति”। वृद्धशाता- तपः “अबुद्ध्वा धर्मशास्त्राणि प्रायश्चित्तं वदन्ति ये। प्रायश्चित्ती भवेत् पूतस्तत् पापं तेषु गच्छति”। अङ्गिराः “श्रार्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः। जानन्तो न प्रयच्छन्ति तेऽपि तद्दोषमागिनः। अनर्च्चितैरनाहूतैरपृष्टैश्चैव संसदि। प्रायश्चित्तं न वक्तव्यं जानद्भिरपि जल्पतः”। तघा न्यायतो मार्गमाणस्य क्षत्रियादेः प्रणामिनः। श्रन्तरा ब्राह्मणं कृत्वा व्रतमेतत् समादिशेत्”।

परिषद = त्रि० परितः सीदति परि + सद–अच्। अनुचरे द्विरूपकोषः।

परिषद्य = त्रि० परिषदमर्हति यत्। सभार्हे द्विरूप०। स्तोतुं समेतानामृत्विजां सभायोग्ये पवमाने अग्निभेदे यजु० ५। ३२ वेददीपः।

परिषद्वल = त्रि० परिषद् + अस्त्यर्थे यलच्। सभासदे तत्र आश्रयत्वेन परिषदः सत्त्वात् तथात्वम्।

परिषीवण = न० परि + सिव–भावे ल्युट् षत्वं वा दीर्घः नि०। ग्रन्थिकरणे (गा~टदेओया) माघः ८। ६। १२ पक्षे परिषेवणमप्यत्र।

परिषूति = स्त्री परि + मू–प्रेरणे भावे क्तिन्। १ प्रेरणे। कर्त्तरि क्तिच्। २ प्रेरके त्रि० ऋ० १। १९। ६

परिषेचक = परि + सिच–ण्वुल्। परितः सेचके अकान्तत्वेऽपि याजका० समर्थषष्ट्या समासः। अन्तोदात्तता चास्य।

परिष्कण्ण = त्रि० परि + स्कन्द–क्त तस्य दस्य च न वा षत्वे णत्वम्। परपुष्टे षत्वाभावे णत्वाभावात् परिस्कन्न तत्रार्थे।

परिष्क(स्क)न्द = त्रि० परिष्कद्यते पूर्य्यते परि + स्कन्द घञ् वा षत्वम्। १ परपुष्टे अमरः २ परितः स्थायिनि रथगोपके भा० म० ४३ अ०।

परिष्कर = पु० परि + कृ–भावे–वा० अप् सुट् षत्वम्। रथस्य रक्षादौ भा० क० ३४ अ० “सप्तर्षिमण्डलं ज्ञेयं रथस्यासीत् परिष्करः”।

परिष्कार = पु० परि + कृ–थञ् सुट् षत्वम्। १ भूषणे विद्यमानवस्तुनो गुणान्तरस्य २ आधानादौ ३ संस्कारे च अमरः ४ शुद्धौ।

परिष्कृत = त त्रि० परि + कृ–क्त सुट् षत्वम्। १ भूषिते २ चेष्टिते ३ कृतमार्जनादिसंस्कारे च अमरः यज्ञार्थं पशुबन्धनाययज्ञापात्रासदनाय च कृतसंस्कारायां ४ भूमौ स्त्री अमरः।

परिष्टि = स्त्री परि + इष–क्तिन् वेदे शक०। अन्वेषणे ऋ० १। ६५। लोके तु परीष्टिरित्येव

परिष्टुभ् = त्रि० परि + स्तुभ–क्विप् षत्वम्। १ परितः निरर्थकशब्दरूपस्तोभयुक्ते ऋ० ११६६। ११ भा०। २ परितः श्रोतव्ये ऋ० ९६२२४ भा०।

परि(ष्टो)स्तोम = पु० परितः स्तूयते उत्तमवर्णयुक्तत्वात् षत्वम्। परिगतः स्तोमम् प्रा० स० तत्र परेः स्तीतिं प्रत्यनुपसर्गत्वात् न षत्वमिति भेदः इति स्वामी। गजपृष्ठास्तरणकम्बले (झुल) अमरः।

परिष्ठल = न० परितः स्थलम् “विकुशमिपरिभ्यः स्थलम्” पा० षत्वम्। परितः स्थले।

परिष्ठा = त्रि० परि + स्था–क्विप् षत्वम्। परावृत्त्याम् ऋ० ६।

परि(ष्प)स्पन्द = त्रि० परि + स्पन्द–घञ्। “परिस्पन्दः प्राच्यभरतेषु” पा० प्राच्याद्यर्थे न षत्वम् अन्यत्र वा षत्वम्। १ परितः स्पन्दनयुक्ते २ कुसुमादेः पत्रावल्यादिरचनायाम् अमरः। ३ परिष्कारे ४ परिवारे च हेमच०।

परिष्वङ्ग = पु० परि + खन्ज–घञ्। आलिङ्गने अमरः

परिसंवत्सर = अव्य० ऊर्द्ध्वं संवत्सरात् अव्ययी०। वत्सरादूर्द्धे “परिसंवत्सरात् पुनः” मनु० पञ्चम्या अलुक्। २ परिवत्सरे पु०

परिसंख्या = स्त्री परि + सम्–ख्या–भावे अङ्। १ परिगणिते २ विधिभेदे नियमशब्दे ४०७८ पृ० ऋतुकालशब्दे च १४ ३७ पृ० दृश्यम्।

परिसंख्यात = त्रि० परि + सम्–ख्या–कर्मणि क्त। परिगणिते

परिसञ्चर = पु० सृष्टिकालादूर्द्धं सञ्चरति परि + सम्–हरअच्। प्रतिसञ्चरकाले सृष्टिप्रलयकाले “त्रिविधः सर्वभूतानां कीर्त्त्यते परिसञ्चरः। अनावृष्टिर्भास्कराश्च घोरः संवर्त्तकोऽनलः। मेघो ह्येकार्ण्णवोवायुस्तथा रात्रिर्महात्मनः” वराहपु०।

परिसमूहन = परि + सम्–ऊह मावे ल्युट्। यज्ञादौ अनलोपरि १ तुष्णीं समिदाधाने परितः पतिततृष्णादेः प्रच्छिद्य अग्निमध्ये २ प्रक्षेपरूपव्यापारभेदे च कात्या० श्रौ० ४ १२। १९। ३ अग्नेः समन्तात् मार्जने च।

परिसर = पु० परि + स–अप्। १ नदीनगरपवतादेः पर्य्यन्तभूमौ अमरः २ मृत्यौ ३ विधाने मेदि०।

परिसर्प = पु० परि + सृप–भावे घञ्। १ परितो जलादिना वेष्टने २ समन्ताद् गमने च हेम०। ३ सारस्वतयागमेदे न० आश्व० १२ ६ २२

परिसर्य्या = स्त्री परि + सृ–भावे क्यप्। सर्वतो गमने अमरः।

परिसारक = ति० परि + सृ–ण्वुल्। १ परिती गन्तरि। ततः सत्वर्थे अण्। पारिसारक तच्छब्दयुक्ते अध्याये अमुवाके च पु।

परिस्य(ष्य)न्द = पु० परि + स्यन्द–भावे घञ् अप्राणिकर्तृकत्वे वा षत्वम्। घृतादेः क्षरणे प्राणिकर्तृके हस्यादेर्मदक्षरणे तु न षत्वम्।

परिस्रव = परि + स्नु–भावे अप्। परितः क्षरणे

परिस्रव = पु० पति + स्रु–णिच्-अच्। सुश्रुतोक्ते परिस्नवजनके १ उपद्रवभेदे “क्रूरकोष्ठस्यातिप्रभूतदोषस्यामृद्वौषधमवचारितं ममुद्क्लिश्य दोषान्नमिःशेषानपहरति ततस्ते दोषाः परिस्नावमाषादयन्ति तत्र दौर्बल्योदरविष्टम्भारुचि गातसदनानि भवन्ति सवेदनौ चास्य पित्तश्लेष्माणौ परिसवतस्तं परिस्नावमित्यासक्षते। परि + सु मावे बा० घञ्। २ परिक्षरणे च

परिस्राविन् = त्रि० परि + स्रु–णिनि। १ क्षरणयुक्ते सुश्रुमोक्ते पञ्चविधभगन्दरमध्ये २ तद्भेदे च “श्लेष्मा तु प्रकुपितः समीरणेनाधःप्रेरितः पूर्ववदवस्थितः शुक्लावभासां स्थिरां कण्डूमतीं पिडसां जनयति सास्य कण्ड्वादीन्वेदनाविशेषाञ्जनयत्यप्रतिक्रियमाणा च पारमुपैति व्रणश्च कठिनः संरम्भी कण्डूप्रायः विच्छिलमजस्रमास्नावं स्रवत्युपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजति तं भगन्दरं परिस्राविणमित्याचक्षते” तत्र तल्लक्षणमुक्तम्।

परिस्रुत् = स्त्री परि + स्नु–क्विप्। १ सुरायाम् अमरः। २ परितः क्षरणयुक्ते त्रि० “अन्नात् परिस्नुतो रसम्” यजु० १९ ७५ भावे सम्प० क्विप्। ३ अरणे स्त्री।

परिस्रुत = त्रि० परि + स्नु–क्त। १ पुष्पादिभ्यो निःसृतसाररूपे पदार्थे “ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्नुतम्” यजु० २ ३४ “परिस्रुतं वहन्तीः पुष्पेभ्यो निःसृतं सारं वहन्त्यः। तश्च सारं त्रिविधम् ऊर्जशब्देन घृतशब्देन पयःशब्देन चाभिधेयम्। तत्रोर्जशब्दोऽन्नगतं स्वादुत्वमभिधत्ते। घृतपयसी प्रसिद्धे” वेददी०। २ अदिरायां स्त्री मेदि०।

परिहनु = अव्य० हन्धोरुपरि श्रव्ययी०। हग्नोरुपरि ततः परिमुखा० भवार्थे ण्य। पारिहनव्य तत्र भवे त्रि०

परिहस्त = अव्य० परिर्वर्जने अव्ययी०। हस्तस्य वर्जने तस्य निरुदकादित्वात् अन्तोदात्तता।

परि(री)हार = पु० परि + हृ० घञ् वा दीर्घः। १अवज्ञायां अनादरे शब्दरत्ना०। २ दोषाद्युद्धारणे

परिहार्य्य = त्रि परि + ह–कर्मणि ण्यत्। १ परिहर्त्तव्ये २ त्यक्तव्ये द्विरूपकोषः। २ उद्गाव्ये च

परि(री)हास = पु परि + हस–घञ् वा दीर्घः। नर्मणि लिका०

परिहृत् = त्रि० परि + हृ–क्विप्। परिहृत्य गन्तरि ऋ ६। ४५

***