पर = त्रि० पॄ–भावे अप्, कर्त्तरि अच् वा। १ अन्यस्मिन् भिन्ने २ उत्तरे ३ दूरे ४ सीमापरिच्छिन्ने ५ श्लेष्ठे च ६ मोक्षे ७ केवले ब्रह्मणि च न “द्वे ब्रह्मणी वेदितव्ये परञ्चापरमिति” श्रुतिः। ८ शत्रौ पु०। अस्य व्यवस्थायां सर्वनामता ङिङस्योर्जसि च वा परस्मात् परात्। षरे पराः वा। शत्रुपरत्वेऽपि व्यवस्थाबोधनात् सर्वनामता। ९ ब्रह्मरप आयुःकाले च पु० “कालश्चख्यां समासेन पूर्वा“द्वयकल्पिताम्। सएव स्यात् परः कालदन्ते परिपूर्य्यते। निजेन तस्थ मागेन चायर्वर्षशतं स्मृतम्। तत्पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते”। “त्रीणि कल्पशतानि स्युस्तथा षष्टिर्द्वि जोत्तमाः। व्रह्मणः कथितं वर्षं पराख्यं तच्च यत्पदम्” कौर्मे ५ अ०। न्यायमते १० व्याषकसामान्धे “सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च” भाषा० ११ तथाजातौ स्त्री “व्यापकत्वात् गराषि स्यात् व्याप्यत्वादपराऽपि च”। ववस्था च दिम्देशकालैरवधिनियमभेदरूपा। १२ वक्ष्यमाणदैशिककालिकपरत्वरूपगुणाश्रये त्रि०। तस्य दिशि दृष्टत्वेन तद्योगे पञ्चमी। अयमस्मात् पर इत्यादिप्रयोगात्। परस्येदम् गहा० छ कुकच्। परकीय परसम्बन्धिनि त्रि०। सर्वनामत्बादस्य वृत्तौ पुंवत्। परस्याः धनं परधनम् परस्यामित्यर्थे परत्र इत्यादि। १ ३ बोधेच्छवा उच्चरिते “यत्परः शब्दः स शब्दार्थ इति न्यायः तात्पर्य्यम्।

परःकृष्ण = त्रि० परः कृष्णात् पारस्करा० सुट्। कृष्णात् परे छान्दोम्यो० १। ६। ५ उदा०।

परःपुमस् = पु० परः सन्यः पुंसः पारस्करा० सुट्। स्वपुरुषादन्यस्मिन् पुरुषे “यत् परपुंसा वा पत्नी स्यात्” शत० ब्रा० १। ३। १। ३१

परःशत = न० परे शातात् पारस्करा० सुट्। १ यताधिकसंख्यायां २ तत्सङ्ख्यातेषु च अमरः।

परःश्वस् = अव्य० श्वः परं दिनं नि० पारस्करा० सुट्। आगामिपरदिवसात् परस्मिन् दिने अमरः पृषो०। परश्व इत्यप्यत्र।

परःषष्टि = स्त्री परःषष्टेः निपा० सुट्। १ षष्टेरघिकसङ्ख्यायां २ तत्संख्यातेषु च शत० ब्रा० १०। २। ६। ८

परःसहस्र = न० सहस्नात् परे नि० सुट्। १ सहसाधिकसंख्यायां २ तत्संख्यान्वितेषु च अमरः।

परौर्वी = स्त्री परौर्व्याः नि० पारस्करा० सुट्। १ उपसद्भेदे “उपर्य्युपरि एकद्रव्यादिवृद्ध्या ब्रतवृद्धिर्यास्वस्ति ताः परौर्व्यीरुपसदस्ताः केचनानुतिष्ठन्ति” शत० ब्रा० २। ४। ४ २६ भाष्यम्।

परकीय = त्रि० परसेदम् गहादि० छ “कुक जनस्य परस्य च” बार्त्ति० कुक्। १ परसम्बन्धिनि। २ नाविकाभेदे स्त्री रसनञ्जर्य्यां तद्भेदादिकसुक्त्रं यथा “अप्रकटितपरपुरुषानुरागा परकीया। सा च द्विविधा परोढा कन्यका चेति कन्घायाः पित्राद्यधीनत्वात् परकीयत्वम्। अस्या गुप्ता एव सर्वाः चेष्टाः। गुप्ता (रक्षिता) विदग्धाकुकटानुशयानासुदिताप्रभृतीनां वरकीयायामेबान्तर्भावः। विदग्मा द्विविधा वान्तिदग्धा क्रियावि- दग्धा। अनुशयाना वृत्त्रस्थागविघटनेन भाविस्थानाभावशङ्कया स्वानधिष्ठितसङ्कतस्थाने भर्त्तुर्गमनानुमानेन चानुशयाना भवति”। एतदुदाहरणानि तत्र द्वश्यानि।

परक्रान्तिज्या = स्त्री सू० सि० उक्तायां “परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः” १३९७ योजनात्मिकायां ज्यायाम्। “क्रान्त्योर्ज्ये त्रिज्ययाभ्यस्ता परक्रान्तिज्ययोद्धृते” सू० सि०। “त्र्यूनं चतुर्दशशतं परमक्रान्तिज्येति रङ्गनाथः”।

परक्षेत्र = न० ६ त०। परकीये क्षेत्रे १ कलत्रे २ मूम्यादौ च। “अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः”। “आददानः परक्षेत्रान्न दण्डं दातुमर्हति” इति च मनुः।

परगामिन् = त्रि० परं वाच्यं गच्छति लिङ्गेन समत्वात्। वाच्यलिङ्गे शब्दे “गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः” अमरः।

परग्रन्थि = पु० परेण ग्रन्थिरत्र। अङ्गुलिपर्वणि हारा०।

परचक्र = न० परस्य शत्रोश्चक्रम्। १ शत्रोः राष्ट्रादौ भा० आ० १६ अ०। वृ० सं० ३ अ०। २ तज्जे ईतिभेदे

परच्छन्द = त्रि० परस्य छन्दो यत्र। १ पराधीने ६ त०। २ पराभिलाषे च।

परच्छिद्र = न० ६ त०। परस्य दोषादिच्छिद्रे

परजात = त्रि० परेण जातः। औदासीन्ये न परैघिते १ परपुष्टे अमरः। २ अन्येनोत्पन्ने कृण्डगोलकादौ जनड। परजादयोऽप्यत्र।

परजित = त्रि० परेण जितः। १ परपुष्टे असरः २ पराजिते त्रि०

परञ्ज = न० परञ्जयति जि–बा० ड सुस् च। १ तैलयन्त्रे २ छुरिकाफले च मेदि०।

परञ्जन = पु० परां पश्चिमां दिशं जनयति स्वामित्वात् जनअच् सर्वनाम्नो वृत्तौ पुंवत् सुस्। वरुणे हेमच०।

परञ्जय = पु० परां पश्चिमां दिशं जयति स्वामित्वात् जि–बा० अश् सुम् पुंवद्भावः। १ वरुणे त्रिका० २ शत्रुजेतरि त्रि०

परतङ्गण = पु० देशभेदे भा० स० ५१ अ०।

परतन्त्र = त्रि० परस्य तन्त्रमधीनता यत्र। पराधीने अमरः।

परतर्कुक = त्रि० परः शत्रुस्तर्कुरिवास्य कप्। शत्रुभययुते “कुनस्वविवर्णैः परतर्कुकाश्च ताम्रैश्च पुरुषभूपतयः” वृ० सं० ६१ अ० नरलक्षणोक्तौ।

परतस् = अव्य० पर + विभक्त्यर्थे तसिल्। १ परस्पादित्याद्यर्थे २ पराधीने च। ततोभावेत्वपरतस्त्व पराधीनत्वे परतोग्राह्यशब्दे दृश्यम्।

परतापन = न० गरुत्वतः १ पुत्रभेदे हरिवं० २०३ अ०। २ परतापके च।

परतोग्राह्म = अव्य० परस्यात् ग्राह्मः। स्वभिल्लसामग्रीतो बोर्ध्ये प्रमाणस्याप्रमाणत्वादौ तयोः कस्य स्वतोग्राह्यता कस्य वा परतो ग्राह्यता तदेतन्मतभेदेन सर्वदर्शनसंग्रहे दर्शितम्

“प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः। नैयायिकास्ते परतः, सौगताश्चरमं स्वतः। प्रथमं परतः प्राहुः प्रमाण्यं, वेदवादिनः। प्रमाणत्वं स्वतः प्राहुः, परतश्चाप्रमाणताम्” इति। “वादिविवाददर्शनात् कखङ्कारं वेदानां धर्मे स्वतःप्रामाण्यमिति सिद्धवत्कृत्य स्वीक्रियते। किञ्च किमिदं स्वतः प्रामाण्यं नाम? किं स्वत एव प्रामाण्यस्य जन्म? आहोस्वित् स्वाश्रयज्ञागजन्यत्वम्? किमुत स्वाश्रयज्ञानसामग्रीजन्यत्वम्? उताहो ज्ञानसामग्रीजन्यज्ञानविशेषाश्रितत्वम्? किं वा ज्ञानसामग्रीमात्रजन्यज्ञानविशेषाश्रितत्वम्? तत्राद्यः सावद्यःकार्प्यकारणभावस्य भेटसमानाधिकरणत्वेनैकस्मिन्नसम्भवात्, नापि द्वितीयः गुणस्य सुतो ज्ञानस्य प्रामाण्यं प्रति समवायिकारणतया द्रव्यत्वापातात्। नापि तृवीयः प्रामाण्यस्योवाधित्वे जातित्वे वा जन्मायोगात्, स्मृतित्वानधिकरणस्यज्ञानस्य बाधात्यन्ताभावः प्रामाण्यीपाधिः न च तस्वोत्पत्तिसम्भवः अत्यन्ताभावस्य नित्यत्वाभ्युपगमादत एव न जातेरपि जनिर्युज्यते। नापि चतुर्थः ज्ञानविशेषो ह्यप्रमा विशेषसामग्र्याञ्च सामान्यसामग्री अनुपविशति शंशपासामग्र्यामिव वृक्षसामग्री, अपरथा तस्याकस्मिकत्वं पसजेत् तस्मात् परतस्त्वेन स्वीकृतं पामाण्यं विज्ञानसामग्रीजन्याश्रितमित्यतिव्याप्तिरापद्येत। पञ्चमविकल्पं विकल्पयामः किं दोषाभावसहकृतज्ञानश्चामपीजन्यत्वमेव ज्ञानसामग्रीमात्रजन्यत्वं, किं दोषाभावासहकृतज्ञानसामग्रीजन्यत्वं, नाद्यः दोषाभावसहकृतज्ञानसामग्रीजन्यत्वमेव परतः प्रामाण्यमिति परतः पामाण्यवादि भरुररीकरणात् नापि द्वितीयः, दोषाभावमहकृतत्वेन सामग्र्यां सहकृतत्वे सिद्धे अनन्यथासिद्धान्वयव्यतिरेकसिद्धतया दोषाभावस्य कारणताया वज्रलेपायमानत्वात्। अभावः कारणमेव न भवतीति चेत् तदा वक्तव्यम् अभावत्वे कार्य्यत्वमस्ति न वा यदि नास्ति तदा पटप्रध्वंसानुपपत्त्या नित्यताप्रसङ्गः। अथास्ति किग्रपराद्धं कारणत्वेनेति सेयमुभयतःपाशा रज्ज्वुः। तदुदितमुदयनेन “भावो यथा तथाऽभावः कारणं कार्य्य वन्मतम्” इति। तथाच प्रयोगः विमता प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्य्यत्वे सति तद्विशेषत्वात् अप्रमावत् प्रामाण्यं च परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवत्। तस्मादुत्पत्तौ ज्ञप्तौ च परतस्त्वे प्रमाणसम्भवात् स्वतः सिद्धं प्रामाण्यमित्येतत् पूतिकुष्माण्डायत इति चेत् तदेतदाकाशमुष्टिहननायते। विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्रमायाः स्वतस्त्वमिति निरुक्तिसम्भवात् अस्ति चात्रानुमानं विमता प्रमा विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तजन्या न भवति अप्रमात्वानधिकरणत्वात् थटादिवत् न चौदयनमनुमानं परतस्त्वसाधकमिति शङ्कनीयं प्रमा दोषव्यतिरिक्तज्ञानहेत्वतिरिक्तजन्या न भयति ज्ञानत्वादप्रमावदिति प्रतिसाधनग्रहग्रस्तत्वात् ज्ञानसामग्रीमात्रादेव प्रमोत्पत्तिसम्भवे तदतिरिक्तस्य गुणस्य दोषाभावस्य वा कारणत्वकल्पनायां कल्पनागौ रवप्रसङ्गाच्च। ननु दोषस्याप्रमाहेतुत्वेन तदभावस्य प्रमां प्रति हेतुत्व दुर्निवारमिति चेत् न दोषाभावस्याप्रमाप्रतिबन्धकत्वेनान्यथासिद्धत्वात्। “तस्माद्गुणेभ्यो दोषाणामभावस्तदभावतः। अप्रमाण्यद्वयासत्त्वं तेनोत्सर्गो नयोदितः” इति। तथा प्रमाज्ञप्तिरपि ज्ञानज्ञापकसामग्रीत एव जायते। न च संशयानुदयप्रसङ्गो बाधक इति युक्तं वक्तुं सत्य प प्रतिभासपुष्कलकारणे प्रतिबन्धकदोषादिसमवधानात् तदुपपत्तेः। किञ्च तावकमनुमानं स्वतः प्रमाणं न वा आद्ये अनैकान्तिकता द्वितीये तस्यापि परतः प्रामाण्यमेवं तस्य तस्यापीत्यनवस्था दुरवस्था स्यात्। यदत्र कुसुमाञ्जलावुदयनेन झटिति प्रचुरप्रवृत्तेः प्रामाण्यनिश्चयाधीनत्वाभावमापादयता प्रण्ययादि प्रवृत्तिर्हीश्चामपेक्षते तत्प्राचुर्य्ये चेच्छाप्राचुर्य्यम् इच्छा चेष्टसाधनताज्ञानं तच्चेष्टजातीयत्वलिङ्गानुभवं सोऽपीन्द्रियार्थसन्निकर्षं प्रामाण्यग्रहस्तु न क्वचिदुपयुज्यत इति तदपि तस्करस्य पुरस्तात् कक्षे सुवर्णमुपेत्य सर्वाङ्गोद्घाटनमिव पतिभाति। अतः समीहितसाधनज्ञानमेव प्रमाणतयावगम्यमानमिच्छां जनयतीत्यत्रैव स्फुट एव प्रामाण्यग्रहणस्योपयोगः। किञ्च क्वचिदपि चेन्निर्विचिकित्सा प्रवृत्तिः संशयादुपपद्येत तर्हि सर्वत्र तथामावसम्भवात् प्रामाण्यनिश्चयो निरर्थकः स्यात्। अनिश्चितस्य सत्त्वमेव दुर्लभमिति प्रामाण्यं दत्तजलाञ्जलिकं भवेत्”।

परत्र = अव्य० परस्मिन् काले पर + त्रल्। पस्काले स्वर्पादिलोके।

परत्रभीरु = त्रि० परलोकभीरौ धर्सिष्ठे कात्या० स्मृतिः।

परत्व = न० परस्य भावः। वैशेषिकोक्तौ दव्याश्रिते गुणभेदे तच्च द्विविधं दैशिकं कालिकञ्च तदेतत् कणादसूत्रोप- स्करवृत्त्योर्निर्णीतं यथा “एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च” सू०। “इदानीमुद्देशक्रमप्राप्ते परत्वापरत्वे परस्परानुबद्धव्यवहारकारणतया शिष्यबुद्धिवैशद्यार्थं संक्षेपार्थञ्चैकग्रन्थेनाह परमपरञ्चेति भावप्रधानो निर्देशः, उत्पद्यत इति शेषः, यद्वा परमपरञ्चेति व्यवहार इति शेषः, इतिरध्याहार्यः। एका दिग् ययोस्तावेकदिकौ ताभ्यामेकदिक्काभ्यां पिण्डाभ्यामित्यर्थः तुल्यदेशावप्येकदिक्कौ भवतः न तु ताभ्यां परत्वापरत्वे उत्पद्येते व्यवह्रियेते वेत्यत उक्तं सन्निकृष्टविप्रकृष्टाभ्यामिति, सन्निकर्षः संयुक्तसंयोगाल्पत्वम्, विप्रकर्षस्तद्भूयस्त्वं, तद्वद्भ्यामित्यर्थः। एतेन समवायिकारणमुक्तं, दिक्पिण्डसंयोगस्त्वसमवायिकारणं, तथा हि प्राङ्मुखस्य पुरुषस्य प्राच्यवस्थितयोः पिण्डयोरेकस्मिन् संयुक्तसंयोगभूयस्त्वमपरस्मिन् संयुक्तसंयोगाल्पतरत्वञ्चापेक्ष्य परत्वमपरत्वञ्चोत्षद्यते, असमवायिकारणमुक्तम्, सन्निकृष्टविप्रकृष्टाभ्यामिति विषयेण विषयिणं प्रत्ययमुपलक्षयति तथा चापेक्षाबुद्धेर्निमित्तकारणत्वमुक्तम्, एकदिगवस्थितयोरेव परत्वापरत्वे उत्पद्येते इति न सर्वत्रोत्पत्तिः, एकस्यैव द्रष्टुरपेक्षावुद्धिः समुत्पद्यते इति न सर्वथोत्पत्तिः, अपेक्षाबुद्धिनियमान्न सर्वदोत्पत्तिः कारणशक्तेरुत्पन्नयोः प्रत्यक्षसिद्धत्वान्न परस्पराश्रयत्वम्, अन्यथा हि नोत्पद्येयातां न वा प्रतीयेयातां परस्परापेक्षायां हि द्वयोरनुत्पत्तिरप्रतीतिश्च स्यात् प्रतीयेते च परत्वापरत्वे, प्रतीतिश्च तयोर्नोत्पत्तिमन्तरेणेति। एककालाभ्यामिति कालिकपरत्वापरत्वे अभिप्रेत्य तत्रैककालाभ्यामिति एको वर्त्तमानः कालोययीर्युवस्थविरपिण्डयोः तावेककालौ ताभ्यामेककालाभ्यामित्यर्थः। सम्निकर्षोऽल्पतरतपनपरिस्पन्दान्तरितजन्मत्वं, विप्रकर्षश्च बहुतरतपनपरिस्पन्दान्तरितजन्मत्वम्, अत्रापि विषयेण विषयिणीं बुद्धिमुपलक्षयति तेन युवस्थविरपिण्डौ समवायिकारणे, कालविण्डसंयोगश्चासमवायिकारणम्, अल्पतरतपनपरिस्पन्दान्तरितजन्मत्वबुद्धिरपरत्वे बहुतरतपनपरिस्पन्दान्तरितजन्मत्वबुद्धिः परत्वे निमित्तकारणम्। एते च परत्वापरत्वे अनियतदिग्देशयोरपि पिण्डयीरुत्पद्येते, तत्र दैशिकपरत्वापरत्वयोः सप्तधा विनाशः उत्पादस्तु युगपदेव द्वयोरन्यथाऽन्योन्याश्रयः स्यात्, अपेक्षाबुद्धिनाशात्, १ संयोगस्यासमवायिकारणस्य नाशात्, २ द्रव्यस्य च समवायिकारणस्य नाशात्, ३ निमि- त्तसमवायिकारणयोर्नाशात्, ४ समवाय्यसमवायिकारणयोर्नाशात्५ निमित्तासमवायिकारणयीर्नाशात्, ६ निमित्तनाशासमवायिकारणनाशसमवायिकारणनाशेभ्यः ७। तत्रापेक्षाबुद्धिनाशात् १ तावत्, परत्वोत्पत्तिः परत्वसामान्यज्ञानं ततोऽपेक्षाबुद्धिविनाशस्तद्विनाशात् परत्वविशिष्टद्रव्यज्ञानकाले परत्वनाशः, द्वित्वनाशवदेव सर्वमूहनीयम्। असमवायिकारणनाशादपि ३ तद्यथा यदैवापेक्षाबुद्धिस्तदैव परत्वाधारे पिण्डे कर्म्म ततो यदैव परत्वोत्पत्तिस्तदैव दिक्पिण्डविभागस्ततो यदा परत्वसामान्यज्ञानं तदा दिक्पिण्डसंयोगनाशः ततः सामान्यज्ञानादपेक्षाबुद्धिनाशस्तदैव दिक्पिण्डसंयोगनाशत् परत्वापरत्वयोर्नाशः, तत्र चापेक्षाबुद्धिनाशस्य परत्वनाशसमकालत्वान्न तन्नाशकत्वम्। नन्वसमवायिकारणनाशादपि गुणनाशे आत्ममनःसंयोगनाशादपि संस्कारादृष्टादोनां विनाशे बहु व्याकुलं स्यादिति चेन्न विप्रकृष्टत्वेन परत्वस्य व्यापनात् परत्वाधारस्यान्यत्र गमने विप्रकर्षाभावात् परत्वनिवृत्तिरावश्यकी न च तदा नाशकान्तरनस्तीत्यन्यथाऽनुपपत्त्या संयोगनाश एव नाशकः कल्प्यते, संस्कारादृष्टादेः कार्य्यस्य स्मृतिसुखादेश्चिरेणापि दर्शनान्न तन्नाशकल्पना। उपलक्षणञ्चैतत् अवधेर्द्रष्टुश्च तत्तद्देशसंयोगनाशादपि परत्वापरत्वे विनश्यतः युक्तेस्तुल्यत्वात्। समवायिकारणनाशादपि क्वचित् परत्वनाशः ३ तथा हि यदा पिण्डावयवे समुत्पन्नेन कर्मणाऽवयवान्तराद्विभागस्तदैवापेक्षाबुद्धिः, विभागात् पिण्डारम्भकसंयोगनाशः परत्वोत्पत्तिः, अग्रिमक्षणे संयोगनाशाद्द्रव्यनाशः परत्वसामान्यज्ञानं, द्रव्यनाशात् परत्वनाशीऽपेक्षाबुद्धिनाशश्च सामान्यज्ञानात्, तथाच यौगपद्यान्नापेक्षाबुद्धिनाशात् परत्वनाश इति, क्वचिद्द्रव्यनाशापेक्षाबुद्धिवाशाभ्यां परत्वनाशः ४ तद्यथा पिण्डावयवे कर्मापेक्षाबुद्धेरुत्पादस्ततोऽवयवान्तरविभागः परत्वोत्पत्तिः तत आरम्भकसंयोगनाशसामाम्यज्ञाने ततो द्रव्यनाशापेक्षाबुद्धिनाशौ ततश्च परत्वनाशः। क्वचिद्द्रव्यस्य संयोगस्य च नाशाभ्यां परत्वनाशः ५ तद्यथा यदा द्रव्यावयवविभागस्तदैव पिण्डकर्मापेक्षाबुद्ध्योरुत्पादस्तदनन्तरमवयवसंयोगवाशदिक्पिण्ड विभागपरत्वोत्पत्तयः ततो द्रव्यनाशदिक्पिण्डसंयोगवाशपरत्वसामान्यबुद्धयः ततो द्रव्यनाशदिकपिण्डसंयोगनाशाभ्यां परत्वनाशः सामान्यबुद्धेरपेक्षाबुद्धिनाश इति। क्वचित् संयोगनाशापेक्षाबुद्धिनाशाभ्यां परत्वनाश ६ तदु यथा परत्वोत्पत्तिपिण्डकर्मणी सामान्यज्ञानविमागौ अपेक्षाबुद्धिनाशदिक्पिण्डसंयोगनाशौ ततः परत्वनाशः। कचित् समवाय्यसमवायिनिमित्तनाशेभ्यः ७ तद्यथा परत्वोत्पत्तिपिण्डावयवविभागपिण्डकर्माणि युगपत्, तदनन्तरं परत्वसामान्यज्ञानावयवसंयोगनाशदिक्पिण्डविमागाः तदनन्तरसपेक्षाबुद्धिनाशद्रव्यनाशदिक्पिण्डसंयोगनाशेभ्यो युगपदुत्पन्नेभ्यः परत्वस्यापरत्वस्य वा दैशिकस्य नाशः। कालकृतयोस्तु परत्वापरत्वयोरसमवायिकारणनाशाधीनो नाशो नास्ति दैशिकयोर्दिक्पिण्डसंयोगनाशे सन्निकर्षविप्रकर्षनाशो यथा न तथा कालिकयोरिति तयोः समवायिकारणनाशात्१ अपेक्षाबुद्धिनाशात्२ द्वाभ्याञ्चेति ३ त्रयः पक्षाः पूर्ववदूहनीयाः”।

परदार = पु० ब० व० ६ त०। परस्त्रियां मनुः ३। १७४ “परदाररताश्चैव परद्रव्यहरा च ये। अधीधो नरकं यान्ति पीड्यन्ते यमकिङ्करैः” कर्मलोचनम्। परयोषिदादयोऽप्यत्र “ब्राह्मणैः क्षत्रियो वैश्यो यो रतः परयोषिति” मनुः परदारान् गच्छति ठक्। पारदारिक तद्गन्तरि।

परदेश = पु० कर्म०। स्वाधिष्ठितदेशात् भिन्नदेशे वृ० सं० ३। १ ३

परद्वेषिन् = त्रि० परेभ्यः द्वेष्टि द्विष–णिनि। परदूषके खले शब्दमाला।

परधर्म्म = पु० ६ त०। स्वोचितवर्णाश्रमादिधर्मभिन्ने धर्मे गीता २ अ० मनुः १०। ९७। कर्म०। उत्कृष्टधर्मे च

परध्यान = कर्म०। ध्यानभेदे “ध्येये मनोनिश्चलतां याति ध्येयं विचिन्तयत्। यत्तत् ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः” गरुडपु०।

परनिपात = पु० परत्र निपातः उच्चाचरणम्। योग्यतया विग्रहवाक्ये पूर्वश्रुतस्यापि शब्दस्य समासे परत्रोच्चारणे यथा राजदन्तादिषु दन्तानां राजा इति विग्रहवाक्ये पूर्वश्रुतस्यापि दन्तशब्दस्य परत्रोच्चारणम्। एवं पूर्वं भूत इति वाक्ये भूतपूर्व इत्यादौ।

परन्तप = त्रि० परान् शत्रून् तापयति “द्विषत्परयोस्तापेः” पा० खच् “खचि ह्रस्वः” पा० ह्रस्वः मुस्। १ शत्रुतापके तामसमनोः २ पुत्रमेदे हरिवं ७ अ०।

परपद = न० कर्म०। १ उत्कृष्टस्थाने “तद्विष्णोः परं पदम्” ऋ० वैष्णवीगायत्री। २ मोक्षे च ६ त०। ३ परस्य स्थाने च

परपाकनिवृत्त = पु० परार्थात् पाकान्निवृत्तः। परोद्देश्यक पाकान्निवृत्ते पद्घयज्ञानतष्ठातरि “गृहीत्वाग्निं समारोप्य यञ्चयज्ञाम्न निर्वपेत्। परपान्नमिवृत्तोऽसौ सगिभिः परि- कीर्त्तितः” मिता० स्मृतिः। तदन्नभोजननिषेधः पतपाकरतशब्दे दृश्यः।

परपाकरत = त्रि० परस्य पाके रतः। परपाकरुचौ “पञ्च यज्ञान् खयं कृत्वा परान्नमुपजीवति। सततं प्रातरुत्थाय परपाकरतस्तु सः” मिता० स्मृतिः। “परपाकनिवृत्तस्य परपाकरतस्य च। अपचस्य च मुक्त्वान्नं द्विजश्चान्द्रायणं चरेत्” मिता० स्मृतिः।

परपिण्डाद = परस्य पिण्डमन्नमत्ति अद–अण् उप० स०। परान्नोपजीविनि अमरः।

परपुरुष = पु० कर्म०। १ उत्कृष्टपुरुषे पुरुषोत्तमे विष्णौ त्रिका० पुरुषोत्तमशब्दे दृश्यम् स्वभर्तृभिन्ने पुरुषे २ उपनायके च।

परपुष्ट = पु० परया काक्या पुष्टः सुष–क्त सर्बनाम्नः पुर्वत्। १ कोकिले। कोकिलया हि डिम्बस्फोटनादक्षया काकनी० डस्थं काकडिम्बमपसार्य्य स्वडिम्बे तत्र स्थापिते काक्या स्वडिम्बबुद्ध्याऽसौ पुव्यते इति लोकप्रसिद्धिः। परभृतादयोऽप्यत्र माघे १२। ११६। २ अन्यपालिते त्रि०। ३ वेश्यायाम् स्त्री मेदि०।

परपुष्टमहोत्सव = पु० षरपुष्टानां महोत्सवो यत्र। आम्रे तस्य स्वपुष्पोद्गमद्वारा कोकिलानां महोत्सवजननात्तथात्वम्।

परपूर्वा = स्त्री पर इतरः पूर्वो यस्याः। “पतिं हित्वापकृष्टं खसुत्कृष्टं या निषेवते। निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते” मनूक्तायां पुनर्भुवि स्त्रियाम्। तद्भेदश्च नारदेव दर्शितः “परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम्। पुनर्भूस्त्रिविधा तासां स्वैरिणी च चतुर्विधा” अन्यपूर्वाशब्दे २१५ पृ० विवृतिः।

परपौरवतन्तव = पु० विश्वामित्रपुत्रभेदे भा० अनु० ४ अ०।

परप्रतिनप्तृ = पु० प्रतिनप्तुः परः अनन्तरः बा० परनि०। वृद्धप्रपौत्रे हेमच०।

परप्रपौत्र = पु० प्रपौत्रात् परः अनन्तरः वा० परनिपातः। वृद्गप्रपौत्रे हेमच०।

परप्रेष्य = स्त्री ६ त०। १ दासे २ दास्यां स्त्री काशीख० ३७ अ०।

परब्रह्मन् = न० कर्म०। निर्गुणे निरुपाधिके १ ब्रह्मणि तत्प्रतिपादके २ उपनिषद्भेदे च।

परभाग = पु० परस्य उत्कृष्टस्य भागः भावः। १ गुणोत्कर्षे कर्म०। २ पश्चिमभागे च हेमच०। उभयत्र माघः १०। ८६ श्लोके उदा०। ३ सुसम्पादि त्रिका० ६ त०। ४ अन्यस्यांशे

परभाषा = स्त्री कर्म०। संस्कतमिन्नायां भाषायामपशब्दे हारा०

परभुक्त = त्रि० २ त०। १ अन्येन भुक्ते ३ परभोगयुक्तायां स्त्रियां स्त्री “परभुक्तां च कान्तां च यो भुङ्क्ते स नराधमः। स पच्यते कालसूत्रे यावच्चन्द्रदिवाकरौ” इत्यादिना तत्स्त्रीगमने दोषाः ब्रह्मवै० पु० जन्मख० १८ अ० उक्ताः।

परभृत् = पु० परं स्वपुत्रबुद्ध्या कोकिलपुत्रं बिभर्त्ति भृ–क्विप् ६ त०। १ काके अमरः २ स्वेतरषोषकमात्रे त्रि०।

परभृत = पुंस्त्री० परेण खजनकभिन्नेन काकेन भृतः। १ कोकिले अमरः स्त्रियां जातित्वात् ङीष्। २ अन्यपुष्टमात्रे त्रि०।

परम् = अव्य० पृ–अमि। १ नियोगे २ क्षेपे ३ केबले च मेदि०। ४ पश्चादर्थे च।

परम = त्रि० परं परत्वं माति–क। १ उत्कृष्टे २ प्रधाने ३ आद्ये मेदिनिः ४ प्रणवे च विश्वः।

परमक्रान्ति = स्त्री सू० सि० उक्तायां सूर्य्यस्य शेषक्रान्तौ।

परमक्रोधिन् = पु० १ विश्वदेवभेदे मा० अनु० ९१ अ०। २ अत्यन्त० क्रोधान्विते त्रि०।

परमपु(पू)रुष = पु० कर्म०। पुरुषोत्तमे विष्णौ

परमम् = अव्य० पर + मा डमि। १ अनुज्ञायाम् २ स्वीकारे च मेदिनिः।

परममहत् = त्रि० परमं सर्वोत्कृष्टं महत्। सर्वापेक्षया उत्कृष्टमहत्त्वगुणयुक्ते आकाशादौ “कालखात्मदिशां सर्व गतत्वं परमं महत्” भाषा०। भावप्रधानः निर्देशः परममहत्त्वमित्यर्थः। तस्य भावः परममहत्त्व सर्वोत्कृष्टमहत्त्वे “परमाणुषरममहत्त्वान्तोऽस्य वशीकारः” पात० सू० “सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति स्थूले निविशमानस्य परममहत्वान्तं स्थितिपदं चित्तस्य एवं तामुभयीं कोटिमनुधावतो योऽस्याप्रतिघातः स परो वशीकारः तद्वशीकारात् परिपूर्णं योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षते” भा०।

परमर्षि = पु० कर्म०। वेदव्यासादिषु ऋषिषु तन्नामविरुक्तिः मत्स्यपु० १२० अ० यथा “ऋषिर्हिंसागतौ धातुर्विद्यासत्यतपश्रुतैः। एष सन्निचयो यस्मात् ब्राह्मणश्च ततस्त्वृषिः। विवृत्तिसमकालन्त बुद्ध्या व्यक्तिमृषिस्त्वयम्। ऋषते परमं यस्मात परमर्षिस्ततः स्मृतः। गत्यर्थादृषतेर्धातोर्नामानि वृत्तिकारणम्। यस्मादेष स्वयंभूतस्तस्माच्च ऋषिता मता”।

परमहंस = परमः हंस आत्मा यस्य सन्न्यासिभेदे “कुटीचको बहूदकः हेसश्चैव तृत्रीवकः। चतर्थः परमो हंसो योय पश्चात् स उत्तमः” हारीतः। परहंसोऽप्यत्र “परहंस स्त्रिदण्डं च रज्वुं, गोबालनिर्मिताम। शिखां यज्ञोपवीतं च नित्यं कर्मं परित्यजेत्” स्कन्दपु०। “सशिखं वपनं कुर्य्यात् हंसश्च परहंसकः। पौर्णमास्यामृतुष्वेषां वपनं परिकीर्त्तितम्” पुराणसमुच्चये तद्धर्माः स्थिताः। दण्डधारणञ्चाविदुष एव विदूषस्तु तन्नास्ति “न दण्डं न शिखां नाच्छादनं न भैक्षं चरति परमहंसः” महोपनिषदुक्तेः “ज्ञानमेवास्य दण्डः” इति तत्रत्यवाक्यशेषाच्च। अन्येऽपि तद्धर्मा मिता० नि० सि० च उक्ता दृश्याः। कर्म०। २ परमात्मनि ३ तत्प्रतिपादके उपनिषद्भेदे।

परमाणु = पु० कर्म०। सर्वापकृष्टे परिमाणयुक्ते वैशेषिकमतप्रसिद्धे क्षित्यप्तेजोमरुतां १ सूक्ष्मांशभेदे तस्य च नित्यत्वं तैरङ्गीकृतम् तन्नाशकाभावात्। ततो महाभूतारम्भप्रकारस्तु उत्पत्तिशब्दे ११ १५ पृ० कणादभाष्यन्यायकन्दल्योरुक्तो दर्शितः। “दोधूयमानास्तिष्ठन्ति प्रलये पवमाणवः” इत्युक्तिस्तु सर्जनोन्मुखवायुपरमाणुवि षया उत्पत्तिशब्ददर्शिते कणादभाष्यवाक्ये वायवीयपरमाणूनां प्रथमं क्रियोत्पत्त्यैव दोधूयमानत्वोक्तेः अन्येषां च तत्प्रेरणेनैव ततः परं क्रियोत्पत्तेः सम्भवात्। अन्यथा वायवीयपरमाणौ दोधूयमानत्वविशेषणासम्भव इति विवेच्यम्। २ परमाण्ववच्छिन्ने कालभेदे “स कालः परमाणुर्वै यो भुङ्क्ते षरमाणुताम्। सतो विशेषभुग्यस्तु कालः स परमो महान्” भाग० ३। ११। ५ “सतः प्रपञ्चस्य परमाणुतां परमाण्ववस्थां यो भुङ्क्ते स कालः परमाणुः तस्यैव विशेषं साकल्यं यो भुङ्क्ते स परमोमहान्। अयमर्थः “ग्रहर्क्षताराचक्रस्थ” इत्यादिना यत् सूर्य्यपर्य्यटनं वक्ष्यति तत्र सूर्य्यो यावता परमाणुदेशमतिक्रामति तावान् कालः परमाणुः। यावता च द्वादशराश्यात्मकं सर्वं भुवनकोषमतिक्रामति स परमो महान् संवत्सरात्मकः तस्यैवावृत्त्या युगमन्वन्तरादिक्रमेण द्विपरार्द्धान्तत्वमिति” श्रीधरस्वामी।

परमाण्वङ्गक = पु० परमाणुरङ्गं यस्य। १ ईश्वरे विष्णौ शब्दमाला। कत्तुः शरीरावश्यकत्वाङ्गीकारे सर्वकर्त्तुरीश्वरस्य परमाणूनां तस्याङ्गत्वेनाङ्गीकारेण सामञ्जस्यमिति न्यायमते स्थितम्।

परमात्मन् = पु० कर्म०। परमेश्वरे “स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः। यदपास्तिमसावत्र षरमात्मा निरूप्यते” कुसुमा०। “परमात्मा परं ब्रह्म निर्गुणं प्रकृतेः परः। कारणं कारणानाञ्च श्रीकृष्णो भगवान् खयम्” ब्रह्मवे० पु० प्रकृति० २३ अ० गोता १५ अ०।

परमाद्वैत = पु० परसमद्वैतं यत्र। सर्वभेदरहिते परमात्मबि विष्णौ

परमानन्द = पु० परमः सर्वोत्कृष्ट आनन्दः। सकलानन्दोत्कृष्टानन्दात्मके परमात्मनि “परमानन्दमाधवम्” श्रीधरः। “एतस्यैव मात्रामुपजीवन्ति” इति श्रुतेः तैत्ति० उ० ब्रह्मानन्दवल्ल्यां ८ अनुवाके “सैषानन्दस्य मीमांसा” इत्युपक्रमे मानुषानन्दादिभ्यः प्रजापत्यानन्दान्तेभ्य ब्रह्मणः शतगुणानन्दत्वोक्तेश्च तथात्वम्। आनन्दशब्दे ७१८ पृ० तद्वाक्यान्युक्तानि। २ तथानन्दयुक्ते परमात्मनि इति नैयायिकाः। तत्रानन्दशब्दस्य दुःखाभावपरत्वम्। इदन्त्वत्र बोध्यम् “स एको ब्रह्मण आनन्द इत्यत्र अभेदे षष्ठी भेदषष्ठीग्रहणे आनन्दशब्दस्य दुःखाभावपरत्वकल्पने च अभावस्य निर्विशेषत्वात् श्रुत्युक्तस्य प्रजापत्यानन्दापेक्षया शतगुणत्वस्यासम्भवात् ब्रह्मण आनन्दे प्रजापतिशतगुणत्वोक्तिर्विरुध्यते।

परमान्न = न० कर्म०। पायसे दुग्धपक्वेऽन्ने अमरः देवपितृप्रियत्वात् परमत्वमस्य। कृतान्नशब्दे २१८१५ तत्पाकप्रकारगुणाद्युक्तं दृश्यम्।

परमापक्रमज्या = स्त्री सू० सि० उक्तायां परमक्रान्तिज्यायां परक्रान्तिशब्दे दृश्यम्।

परमापूर्व = न० कर्म्म०। कलिकापूर्वजन्ये स्वर्गादिफलसाधने अपूर्वभेदे कलिकापूर्वशब्दे १८०८ पृ० दृश्यम्।

परमामुद्रा = स्त्री त्रिपुरायाः पूजाङ्गे मुद्राभेदे “मध्यमे कुटिले कृत्वा तर्जन्युपरिसंस्थिते। अनामिके मध्यगते तथैव हि कनिष्ठिके। सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिताः। एषा तु परमामुद्रा योनिमुद्रेयमीरिता। एतामुद्रा महेशानि। त्रिपुराया मयोदिताः। पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः” तन्त्रसारः।

परमायुष = पु० परममार्युर्यस्य पृषो० बा० अच्स०। असनवृक्षे शब्दच०।

परमायुस् = न० कर्म०। यस्य यावत्कालं जीवनकालः शास्त्रोक्तः तस्य तत्कालपर्य्यन्तजीवनकाले आयुर्दायशब्दे ७ ७३ पृ० तदानयनाद्युक्त दृश्यम्। शब्दमालायां प्राणिभेदे परमजीवनकालभेदाश्च उक्ता यथा

“शतं वर्षाणि विंशत्या निशाभिः पञ्चभिः सह। परमायुरिदं प्रोक्तं नराणां करिणामिह। अव्दा द्वात्रिंशदश्वानां शुनां द्वादश वत्सराः। पञ्चविंशतिवर्षाणि खरस्य करभस्य च। चतुर्विंशतिरव्दानां वृषस्य महिषस्य च। मृगशूकरवस्तादिपशूनां षड्दशान्विताः” अधिकमायुस्शब्दे ७८५ पृ० दृश्यम्।

परमार्थ = पु० कर्म०। १ उत्कृष्टवस्तुनि २ यथार्थे च माण्डुक्य वार्त्तिकं तत्र अर्थस्य अबाधितत्वात् परमत्वम्।

परमार्हत = पु० परम अर्हन् उपास्यतया अस्त्यस्य अच्, अर्हन् देवताऽस्य अण् कर्म० वा। जैनराजर्षिभेदे हेमचन्द्रः।

परमीकरणमुद्रा = स्त्री देवताह्वानाङ्गे मुद्राभेदे “अन्योन्यग्रथिताङ्गुष्ठप्रसारितकराङ्गुली। महामुद्रेयसुदिता परमीकरणे बुधैः। प्रयोजयेदिमा मुद्रा देवाताह्वानकर्मणि” तन्त्रसा०। इमाः आवाहन्यादिपरमीकरणान्ता इत्यर्थः। परमीकरणञ्च अस्या मुद्राया देवदर्शनपथे भ्रामणम्।

परमृत्यु = पु० परस्मात् मृत्युरस्य। काके त्रिका० तस्य रोगादिना स्वती मृत्योरभावेन परहेतुकमृत्युत्वात्तथात्वम्।

परमेश = पु० कर्म०। परमेश्वरे

परमेश्वर = पु० कर्म०। जगत्सृष्ट्यादिकारके सगुणे त्रिमूर्त्तिके १ ब्रह्मणि २ चक्रवर्त्तिनि नृपे च। ३ शिवे हला० ४ विष्णौ च।

परमेष्ठ = पु० परमे चिदाकाशे सत्यलोके वा तिष्ठति स्था–क अलुक्समा० अम्बाम्बेति षत्वम्। चतुर्मुखे ब्रह्मणि। क्विप्। परमेष्ठा अप्यत्र यजु० १ ४। ३१ तत्र “स्थास्थिन् स्थूणामिति” षत्वम्।

परमेष्ठिन् = पु० परमे व्योमनि चिदाकाशे ब्रह्मणि सत्यलोके वा तिष्ठति “परमे किच्च” उणा० इनि अलुक्स० “स्थास्थिन्स्थूणाम्” षत्वम्। चतुर्मुखे ब्रह्मणि अमरः २ आजमीढ नृपपुत्रभेदे भा० आ० ९४ अ०। ३ जिने पु० हेमच० ४ महादेवे भा० व० ३७ अ० ४ शालग्राममूर्त्तिभेदे “परमेष्ठी च शुक्लस्तु पद्मचक्रसमन्वितः। चित्राकृतिस्तथा पृष्ठे शुषिरं चातिपुष्कलम्” पुराणसमुच्चये। ६ गुरुभेदे “मन्त्रदाता गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः। परात्परो गुरुस्त्वं हि परमेष्ठी गुरुस्त्वहम्” तन्त्रम् परापरेति पाठान्तरम्। ७ व्राह्म्यां (वामनहाटि) स्त्री राजनि० ङीप् तस्येदं यत् टिलोपे। पारमेष्ट्य तत्सम्बन्धिनि त्रि०।

परम्परा = स्त्री परम् अतिशयेन पृणाति पिपूर्त्ति वा पृपॄ–वा अच्। १ वंशे २ सन्ततौ अविच्छिन्नधारायाम् हेमच० “एवं परम्पराप्राप्तो योगः प्रोक्तोमयाऽनघ!” गीता ३ बधे ४ अनुक्रमे च ५ मृगभेदे मेदि० प्रपौत्रादौ ६ अन्वते ७ प्रपौत्रसुते पु० शब्दच०।

परम्पराक = न० परम् अतिशयेन परा श्रेष्ठा परम्प्ररा तया धारया आकोहिंसनं यत्र अक–कुटिलगतौ घञ् प्रशस्ता परम्परा हिंसा अनिष्टाजनकत्वात् कन् बा, अषुसकत्यं कोपात्। १ यज्ञार्थे पशुहनने अमरः “या वेदविहिता हिंसा नियतास्मिंश्चराचरे। अहिंसामेव तां विद्यात्” इति मनूक्तेस्तस्या अहिंसात्वेन हि प्राशस्त्यम्।

परम्परीण = त्रि० परम्परया धारया आगतः ख। अविच्छेदसन्तत्यागते भट्टिः ५ सर्गः।

परयुग = न० कर्म०। उत्तरवर्त्तियुगे तत्र साधुः खञ्। पारयुगीन तत्र साधौ त्रि०।

पररु = पु० पृ–बा० अरु। केशराजे त्रिका०।

पररूप = त्रि० परस्य रूपमिव रूपमस्य। स्वोत्तरवर्त्तिपरस्येव रूपवति “एङि पररूपम्” पा०।

परलोक = पु० कर्म०। लोकान्तरे स्वर्गादौ। तत्र स्थितादि ठञ् अनुशतिका० द्विपदवृद्धिः। पारलौकिक तत्र स्थितादौ त्रि०

परलोकगम = पु० परलोकं लोकान्तरं गमयति गम–णिचच्। मृत्यौ हेमच०।

परवत् = त्रि० परः नियोजकतयाऽस्त्यस्य मतुप् मस्य वः। पराधीने हेमच० स्त्रियां ङीप्।

परवश = त्रि० परस्य वश आयत्तता यत्र। पराधीने हेमच०।

परवाणि = पु० परं वाणयति वण–णिच्–इन्। १ धर्माध्यक्षे २ वत्सरे मेदि०। ३ कुमारवाहने मयूरे शब्दमा०।

परवाद = पु० ६ त०। १ परस्यापवादे कर्म०। २ उत्तरवादे च।

परवादिन् = पु० कर्म०। प्रत्यर्थिनि उत्तरवादिनि स्त्रियां ङीप्।

परव्रत = पु० परं व्रतमस्य। धृतराष्ट्रे शब्दमाला।

परश = पु० स्पर्श + पृषो०। स्पर्शमणौ यस्य स्पर्शात् इतरस्य धातोः स्वर्णता तादृशे रत्नभेदे ब्रह्मवै० जन्मख० ४ अ०।

परशव्य = त्रि० परशौ हितं यत्। परशुहिते

परशु = पु० परं शृणाति शृ–कु डिच्च। १ परश्वधे (टाङ्गी) अस्त्रभेदे। स्पृश–अशुन् पृ आदेशः। पर्शुरप्यत्र २ अस्त्रमात्रे च। परशुलक्षणञ्च हेमा० औशनसनीतिशास्त्रोक्तं कुठारशब्दे २०७ ४ पृ० दर्शितम्।

परशुराम = पु० परशुधारी रामः शा० त०। जमदग्निजे भगवदवतारभेदे येन परशुना त्रिःसप्तकृत्वो भूमिर्निःक्षत्रिया कृता। अस्योत्पत्त्यादिकं यथा “अथ काले व्यतीते तु धमदग्निर्महातपाः। विदर्भराजस्य सुतां प्रयत्रेन जितां स्तयम्। भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम्। सा तत्वात् सुसुवे पुत्रान् चतुरो वेदसम्मतान्। रुषस्त्वन्तं सुषेणञ्च विश्वं विश्वावसुन्तथा। पश्चात्तस्यां स्वयं जज्ञे भगवान् मधुसूदनः। कार्त्तवीर्य्यबधायाशु शक्राद्यः सकलैः सुरैः। याचितः पञ्चमः सोऽमूत्तेषां रामाहयस्तु यः। भारावतरणार्शाब लाता परशुना सह। सहजः परशुस्तस्य तं जहाति कदाच न अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात्। ब्राह्मणः क्षत्रियाचारो रामोऽभूत् क्रूरकर्मकृत्। स वेदानखिलान् ज्ञात्वा धनुर्वेदांश्च सर्वशः। स्वतातात् कृत कृत्योऽभूद्वेदविद्याविशारदः” कालिकापु० ८५ अ०।

परशुधर = पु० परशुं धरति धृ–अच्। १ गणेशे हलाय०। २ परश्वधधारिमात्रे त्रि० ३ जामदग्न्ये परशुरामे पु०।

परशुमुद्रा = स्त्री मुद्राभेदे “तर्जनीमध्यमानामाकनिष्ठाङ्गुष्ठमुष्टिका। अधोमुखी दीर्घरूपा मध्यमा विघमुद्रिका। परशुमुद्रा कथिता सिद्धिदा लड्डुमुद्रिका” तन्त्रसारः।

परशुवन = न० परशुवत्पत्रयुक्तं वनम् शा० त०। नरकभेदे भा० व० ३ २ ३ अ०।

परश्व(स्व)ध = पु० श्वि–ड श्वो वृद्धिः परस्य श्वं धयति, परस्य स्वं काष्ठं धयति वा धै–क। कुठारे अस्त्रभेदे अमरः।

परश्वस् = अव्य० परःश्वस् + पृषो०। आगामिदिनात् परदिने अमरटीका।

परस् = अव्य० परस्मात् परस्मिन् परो वा पर + पञ्चम्याद्यर्थे बा० असि। पञ्चम्याद्यर्थवृत्तौ परशब्दार्थे यजु० ५। ४ २

परसंज्ञक = पु० परः संज्ञाऽस्य कप्। देहादिभ्यः परस्मिन् आत्मनि शब्दच०।

परसवर्ण = पु० समानवर्णः सवर्णः ३ त०। परेण उत्तरवर्त्तिना वर्णेन समानवर्णे पा० ८४ भा०।

परस्तर = त्रि० तरस्तरणीयः परः सातिशयमुत्कृष्टं तरः पारस्करा०। अतिशयेन तरणीये ऋ० १० १५५ ३

परस्तात् = अव्य० पर + पञ्चम्याद्यर्थे अस्ताति। पञ्चम्याद्यर्थवृत्तौ परशब्दार्थे परस्तात् ग्रामः ग्रामात् ग्रामे वा।

परस्त्री = स्त्री ६ त०। परकीयायां स्त्रियां तत्र भवादि अण् ननागमः अनुशतिका० द्विपदवृद्धिः। पारस्त्रैण परस्त्रियां भवादौ त्रि०

परस्पर = त्रि० “सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्” वार्त्ति० “समासवद्भावे पूर्वपदस्य सुर्वक्तव्यः” वार्त्ति० सुः। इतरेतरशब्दार्थे अत्र स्त्रीक्लीवयोस्तु “स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वक्तव्यः” वार्त्ति० आम् परस्परामित्येव। भट्टिः २ सर्गे उदा०।

परस्मैपद = न० परस्मै परोद्देशार्थफलकं पदम “वैयाकरणाख्यायां चतुर्थ्याः” अलुक्समा०। पाणिनिपरिभाषितेषु लकारादेशानामष्टानां मध्ये प्रथमेषु तिप्तस्झीत्यादिषु नवसु। “शेषात् कर्त्तरि परस्मैपदम्” पा० “आत्मनेपदनिमित्तहीनात् धातोः परस्मैपदं स्यात्” सि० कौ० आत्मनेपदनिमित्तं च “कर्त्त्रभिप्राये क्रियाफले” इत्युक्तं कर्तृगामिक्रियाफलत्वं तच्छून्यत्वेन परगामिक्रियाफलबोधयोग्यत्वादस्य परस्मैपदत्वसंज्ञेति बोध्यम्। एवं परस्मैभाषाऽप्यत्र।

परा = अव्य० पृ–आ। १ प्रातिलोम्ये २ प्राधान्ये ३ घर्षणे ४ आभिमुख्ये ५ त्याने ६ विक्रमे ७ भृशार्थे ८ गतौ ९ भङ्गे १० अनादरे ११ तिरस्कारे १२ प्रत्यावृत्तौ च मेदि० “परा बधगतिदर्शनविक्रमाभिमुखभृशाधीनमोक्षणप्रातिलोम्येषु” गणरत्नटीकोक्तार्थभेदे क्रमादुदाहृतं यथा पराहतः परागतः परादृष्टः पराक्रान्तः परावृत्तः पराजितः पराधीनः पराकृतः पराङ्मुखः”। १३ बन्ध्याकर्कोट्यां “परा वागनपायिनी” इत्युक्ते १ ४ मूलाधारस्थे शब्दभेदे “सा परा ययाऽक्षरमधिगम्यते” इति श्रुत्युक्तायां १५ ब्रह्मविद्यायाञ्च स्त्री।

पराक = पु० प्रायश्चित्तरूपे व्रतभेदे यथाह प्राय० वि० “यदात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्। पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः” मनुः। “जपहोमरतः कुर्य्याद्द्वादशाहमभोजनम्। पराक एष विख्यातः सर्वपापप्रणाशनः” वृहस्पतिः। “पराके पञ्च धेनवः” इत्युक्तेः पराकस्य पञ्चधेनुतुल्यत्वम्। यथाह अङ्गिराः “षड्भिर्वर्षैः कृच्छचारी ब्रह्महा तु विशुध्यति। मासि मासि पराकेण त्रिभिर्बर्षैर्व्यपोहति”। अत्र षड्भिर्वर्षैः साशीतिशतप्राजापत्यानि पूर्वमुक्तानि तथा प्रतिमास्येकैकपराकेण वर्षे द्वादश पराकाः वर्षत्रये षट्त्रिंशत्पराकाः। ततश्च षट्त्रिंशत्पराकाशीत्युत्तरप्राजापत्यशतयोः प्रत्येकं ब्रह्मबधपापक्षयैककार्य्यकरत्वात् तुल्यत्वम्। षट् त्रिंशतश्च पञ्चगुणमशीत्युत्तरशतं भवतीति” प्रा० त०।

पराके = अव्य० परा + अक बा० डे। दूरे निघण्दुः।

पराकाश = पु० वाचा प्रतिज्ञातस्यार्थस्य कर्मणाऽकृतस्य परीक्षायाम् शत०ब्रा० १४९४११ भाष्यम्।

पराक्पुष्पी = स्त्री पराक् पुष्पं यस्याः ङीप्। अपामार्गे राजनि०।

पराक्रम = पु० परा + क्रम–करणे घञ् न वृद्धिः। बले देहसामर्थ्ये अमरः।

पराग = पु० परागच्छति परा + गम–ड। १ धूलिमात्रे २ पुष्परजसि माघः ६। १ ३ स्नानीयद्रव्ये कुङ्कुमचूर्णादौ अमरः। ४ उपरागे ५ चन्दने च मेदि० ६ स्वच्छन्दगतौ शब्दच०।

पराङ्ग = न० ६ त०। १ अन्यस्याङ्गे “पराङ्गवत् स्वरे” पा० २ श्रेष्ठाङ्गे।

पराङ्गद = पु० परमङ्गदमस्य उत्कृष्टाङ्गेन दायति दै–क वा। १ शिवे २ उत्कृष्टाङ्गयुक्तं त्रि०।

पराङ्गव = पु० पराङ्गम् उत्कृष्टाङ्गं जलवृद्ध्या वाति याति वा–क। समुद्रे त्रिका०।

पराङ्मुख = त्रि० पराक् मुखमस्य। १ विमुखे २ क्रियादौ प्रतीपाचारिणि स्त्रियां ङीप्। ३ निवृत्तकृत्ये “कामवीज्रं मुखे माया शिरस्यङ्कुशमेव च। असौ पराङ्मुखः प्रोक्तो मध्ये तु विन्दुलाञ्छितः” तन्त्रसारोक्ते ४ मन्त्रभेदे पु०

पराच् = त्रि० परा–अञ्चति–क्विप्। १ प्रतिलोमगामिनि २ ऊर्द्ध्वगामिनि च “ये चामुष्मात् पराञ्चो लोकाः” छा० उ०। ३ अप्रत्यक्षगम्ये परस्यात्मादौ पु०। पुंसि सर्वनामस्थाने पराङ् पराञ्चौ इत्यादि स्त्रियां ङीप्। पराची। पराञ्चति क्विप्। ४ परगामिति बाह्यपुदार्थबोधके ५ प्रत्यग्रू पात्मभिन्ने च “पराञ्चि खानि व्यतृणत् स्वयम्भूः, तस्मात् पराङ् पश्यति नान्तरात्मन्। कश्चिद्धीरः प्तत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठोप०। “पराञ्चि परागच्छन्तीति स्वोपलक्षितानि श्रोत्रादीनीन्दियाणि खानीत्युच्यन्ते। तानि पराञ्च्येव शब्दादिविषयप्रकाशनाय प्रवर्त्तन्ते। यस्मादेवं स्वाभाविकानि तानि व्यतृणद्धिंसितवान् हननं कृतबानित्यर्थः। कोऽसौ स्वयम्भूर्य्यः परमेश्वरः स्वयमेव स्वतन्त्रो मवति सर्वदा न परतन्त्र इति। तस्मात् पराङ प्रत्यग्रूपभिन्नानात्मभूतान् शब्दादीन् पश्यत्युपलभते नान्तरात्मन् नान्तरात्मानमित्यर्थः। एवं स्वभावेऽपि सति लोकस्य कश्चिन्नद्याः प्रतिस्रोतःप्रवर्त्त नमिव धीरो धीमान् विवेकी प्रत्यगात्मानं प्रत्यक् चासावात्मा चेति प्रत्यगात्मा प्रतीच्येवात्मशब्दो रूढो लोके नान्यस्मिन् व्युत्पत्ति पक्षेऽपि तत्रैवात्मशब्दो वर्त्तते “यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सन्ततो भावस्तस्मादात्मेति कीर्त्त्यते” इत्यात्मशब्दव्युत्पत्तिस्मरणात्। तं प्रत्यगात्मानं स्त्वस्वभावमैक्षद् पश्यतीत्यर्थः छन्दमि कालानियमात्। कथं पश्यतीत्युच्यते। आवृत्तचक्षुरावृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकमिन्द्रियजातमशेषविषयाद्यस्य स आवृत्तचक्षुः स एवं संस्कृतः प्रत्यगात्मानं पश्यति। न हि बाह्यविषयालोचनपरत्वं प्रत्यगात्मेक्षणञ्चैकस्य सम्भवतीति। किमिच्छन् पुनरित्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीर प्रत्यगात्मान पश्यतीत्युच्यते अमृतत्वममरणधर्मत्वं नित्यस्वभावतामिच्छन्नात्मन इत्यर्थः” भा०।

पराचित = त्रि० परेणाचितः। परपुष्टे अमरः।

पराची = स्त्री परा–अन्च–क्विप् ङीप्। अनुलोमेनानावृत्ताया मृचि “तिसृभ्यो हिङ्करोति स पराचीभिः” ताण्ड्य० ब्रा० २ परिवर्त्तिम्यां विष्टुतौ च “सैषा पराची” भा० पराचीमिरनावृत्ताभिः ऋग्भिर्गीयते यथा प्रथमे पर्य्याये अनावृत्ताभिर्गानं तथोत्तरयोरपीति” भा०।

पराचीन = त्रि० पराचि भवः स्व। १ उत्तरकालभवे २ परा० ङमुखे अमरः।

पराचैस् = अव्य० परा–चि डैसि। दूरे निघण्टुः ऋ० १। २४ ९

पराजय = पु० परा + जि–अच्। पराभवे (हारि) अमरः।

पराजित = त्रि० परा + जि–कर्मणि क्त। पराभूते कृतपराजये।

पराञ्ज = पु० परतोऽज्यते अन्ज–बा० अच्। १ तैलयन्त्रफेने २ छरिकाफले च शब्दर०। ल्युट्। पराञ्जनमप्यत्र न०।

पराण् = पु० परा + अन–विच् “अन्तः” पा० (पदान्तस्यानितेर्णत्वं स्यादुपसर्गस्थात् निमित्तात् परश्चेत्) णत्वम्। जोवनयुक्ते एवं प्राण् इत्यादावपि णत्वम्।

परात्पर = पु० परस्मात्परः अलुक्स०। १ गुरुभेदे परमेष्ठिन्शब्दे दृश्यम्। २ परमेश्वरे तस्य सर्बेभ्यः परत्वात् तथात्वम्। “इन्द्रियेभ्यः परे ह्यर्था ह्यर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः” कठवल्ली गीता च “परात्परं साम्यमुपगि दिव्यम्” श्रुतिः।

परात्प्रिय = त्रि० परेणाद्यते अद–भाबे क्विप् तत्र परस्यादने प्रियम्। (उलु) तृणभेदे शब्दच०।

परात्मन् = पु० कर्म०। १ परमात्मनि ६ त०। २ परस्यात्मनि च।

परादन = पुंस्त्री० परमुत्कृष्टमदनं यस्य। पारस्यदेशोद्भवेऽश्वे (आरवीघोडा) त्रिका०।

परादान = न० परस्मै आदानं सम्यग् दानम्। षरोपकाराय दयादिना कृपणादिभ्यः सम्यग्दाने यजु० १८। ६४ वेददीपे दृश्यम्।

पराधि = पु० ६ त०। १ अन्यस्याधौ कर्म०। २ परममानसव्यथायाम्।

पराधीन = त्रि० पर + ङि अधि इति अलौकिकवाक्ये समासे अध्युत्तरपदात् ख, परस्याधीनो वा। परायत्ते अमरः।

परान(ण)सा = स्त्री पराणित्यनया परा + अन–करणे वा० अस। चिकित्साया शब्दत०। णत्वमध्यस्तु साधुः।

परान्तक = पु० परोऽन्तकः। सर्वनाशके महादेवे काशीख० ८ अ०। “मृत्युर्यस्योपसेचनम्” इति श्रुतः तस्य मृत्योर्नाशकत्वात् परान्तकत्वम्।

परान्तकाल = पु० परः ससारोत्तरं अन्तकालः। मुमुक्षूणां संसारहानौ देहान्तकाले “ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे” मुण्ड० ३। २। ६ संसारिणा ये मरणकालास्ते अन्तकालास्तानपेक्ष्य मुमुक्षूणां संसारहानौ देहपरित्यागकालः परान्तकालः” भा०। वस्तुतः कार्य्यब्रह्मणः आयुःकालरूपपरशब्दार्थस्यान्तकालः परान्तकालः “कार्य्यात्यये तदध्यक्षेण सहातः परमाम्नानादिति” शा० सूत्रे तत्काले तेषां लयस्योक्तेः ब्रह्मलोकेषु इति विशेषणाच्च तत्रैव तेषां मोक्ष इत्येव युक्तम्।

परान्तिका = स्त्री “अस्य युग्मरचिता परान्तिका” वृ० र० उक्ते गीतिरूपमालावृत्तभेदे अपरान्तिकेति तत्र पाठे तत्रार्थे

परान्न = न० ६ त०। १ अन्यस्वामिकभक्तपिष्टकादौ। २ परकृतशस्यपाकजद्रव्यमात्रे ३ परपक्वान्ने च।

व्रतादौ परान्नस्य त्याज्यत्वं यथा “परान्नं परवासश्च नित्यं धर्मरतस्त्यजेत्” इति स्मृति। संयमदिने तस्य त्याज्यत्वं यथा “कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम्। शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम्”। पारणदिने तस्य त्याज्यत्वं यथा “अभ्यङ्गञ्च परान्नञ्च तैलं निर्माल्यलङ्घनम्। तुलसीचयनं द्यूतं पुनर्भोजनमेव च। वस्त्रपीडां तथा क्षारं द्वादश्यां वर्जयेद्बुधः” एका० त०। तद्भोक्तुर्यागादेर्विफलत्वं यथा “परपाकेण जुष्टस्य द्विजस्य गृहमेधिनः। इष्टं दत्तं तपोऽधीतं यस्यान्नं तस्य तद्भवेत्”। तद्भुक्त्वा पुत्रोत्पादने दोषो यथा “यस्यान्नेन तु भुक्तेन भार्य्यां समधिगच्छति। यस्यान्नं तस्य ते पुत्रा अन्नाद्रेतः प्रवर्त्तते” ब्राह्मणादिपरस्वामिकान्नभोजने दोषो यथा “ब्राह्मणान्नेम दारिद्र्यं क्षत्रियान्नेन प्रेष्यताम्। वैश्यान्नेन तु शूद्रत्वं शूद्रान्नैर्नरकं ब्रजेत्” इत्येकादशीत०। परान्नभोजनेन तीर्थगमने फलस्याल्पत्वं यथा “षोडशांशं स लभते यः परान्नेन गच्छति। अर्द्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति” प्राय० त०। महागुरुनिपाते तस्य व्याज्यत्वं यथा “अन्यश्राद्धं परान्नञ्च गन्धं माल्यञ्च मैथुनम्। वर्जयेद्गुरु पाते तु यावत् पूर्णो न वत्सरः” शुद्धित०। तद्भोक्तुर्मन्त्रसिद्धिहानिर्यथा “जिह्वा दरघा परान्नेन करौ दग्धौ प्रतिग्रहात्। मनो दग्धं परस्त्रीभिः कथं सिद्धिर्वरानने” तन्त्र०। तद्भोजने प्रतिप्रसवो यथा “गुर्वन्नं मातुलान्नं वा श्वशुरान्नं तथैव च। पितुः पुत्रस्य चैवान्नं न परान्नमिति स्मृतिः” एकादशीत०।

पराप = त्रि० परागता आपोयतः अच्समा० वा अतईत्त्वम्। परागतजलापादने। पक्षे ईत्त्वे परेप तत्रार्थे।

परापर = न० परमापिपर्त्ति आ + पृ–अच्। १ परूषके भावप्र० २ देवतारूपे गुरुभेदे परात्पर इत्यत्र पाठान्तरम्। परमेष्ठिन्शब्दे दृश्यम्। परञ्च अपरञ्च द्वन्द्वः। ३ परत्वापरत्वयुक्ते तस्य भावः त्व परापरत्व तद्भावे न० “परापरत्वधीहेतुरेका नित्या दिगुच्यते” भाषा०।

परापुर् = स्त्री परा स्थूलाः पूः समासान्तविधेरनित्यत्वात् न समान्तः। स्थूलदेहे यजु० २। ३०।

पराभव = पु० परा + भू–अप्। १ तिरस्कारे २ अभिमये ३ विनाशे च मेदि०। आर्षे तु ऋदोरपं बाधित्वा क्वचित् घञ्। पराभाय तत्रार्थे भा० भी० ४३ अ० उदा०।

पराभिक्ष = पु० परमाभिक्षते आ + भिक्ष–अण् उप० स०। परस्य गृहे भिक्षाया ईषत्कारके वानप्रस्थभेदे “अश्मकुट्टाशनाः केचित् पराभिक्षास्तथापरे” हरिवं० २६८ अ०।

परामर्श = पु० परा + मृश–भावे घञ्। १ युक्तौ २ विवेचने ३ न्यायोक्ते अनुमितिकारणे ज्ञानभेदे यथोक्तं “व्याप्तस्य पक्षधर्मत्वधीः परामर्श उच्यते” भाषा० “व्याप्तस्य पक्षघर्मत्वधीरिति। व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्ट्यावगाहिज्ञानमनुमितिजनकम्। तच्च व्याप्यः पक्षे इति ज्ञानम्। पक्षो व्याप्यवानिति वा। अनुमितिस्तु पक्षे व्याप्य इति ज्ञानात् पक्षे साध्यम् इत्याकारिका। पक्षो व्याप्यवानिति ज्ञानात् पक्षः साध्यवानित्याकारिका। द्विविधादपि परामर्शात् पक्षः साध्यवानित्येवानुमितिरित्यन्ये। ननु वह्निव्याप्यधूमवान् पर्वत इति ज्ञानं विनापि यत्र पर्वतो धूमवानिति प्रत्यक्षं ततो धूमो वह्निव्याप्य इति स्मरणं भवति तत्र ज्ञानद्वयादनुमितिदर्शनात् व्याप्तिविशिष्टविशिष्ट्याबगाहिज्ञान सर्वत्र न कारणं किन्तु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन कारणत्वम् आवश्यकत्वात्। विशिष्टवैशिष्ट्यज्ञानकल्पने गौरवाच्चेति चेन्न व्याप्यतावच्छेदकाज्ञानेऽपि वह्निव्याप्यवानिति ज्ञानादनुमित्युत्पत्तेः। लाघवाच्च व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेनैव कारणत्वम्। किञ्च ध्मवान् पर्वत इति ज्ञानादनुमित्यापत्तिः व्याप्यतावच्छे- दकीभूतधूमत्वप्रकारकधर्मताज्ञानस्य सत्त्वात्। न च तदानीं गृह्यमाणव्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानस्य हतुत्वमिति वाच्यम्। चैत्रस्य व्याप्तिग्रहे मैत्रस्य पक्षधर्मताज्ञानादनुमितिः स्यादिति। यदि तु तत्पुरुषीयगृह्यमाणव्याप्यतावच्छेदकप्रकारकतत्पुरुषीयपक्षधर्मताज्ञानं तत्पुरुषीयानुमितौ हेतुरुच्यते तदा अनन्तकार्यकारणभावः। मन्मते तु समवायेन व्याप्तिप्रकारकपक्षधर्मताज्ञानं समवायेनानुमितिं जनयतीत्यतो नानन्तकार्य्यकारणभावः। यदि तु व्याप्तिप्रकारकं ज्ञानं पक्षधर्मताज्ञानञ्च स्वतन्त्रं कारणमित्युच्यते तदा कार्य्यकारणभावद्वयं वह्निव्याप्यो धूम आलोकवान् पर्वत इति ज्ञानादप्यनुमितिः स्यादिति। इत्थञ्च यत्र ज्ञानद्वयं तत्रापि विशिष्टज्ञानं कल्पनीयम् फलमुखगौरवस्यादोषत्वात्” सि० मुक्ता०। परामर्शस्तु अनुमितौ करणं व्याप्तिज्ञानरूपकरणजन्यत्वात् अनुमितिहेतुत्वाच्च यथोक्तं “व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत्” भाषा० “अनुमायाम् अनुमितौ व्याप्तिज्ञानं करणम् परामर्शो व्यापारः। तथा हि येन पुरुषेण महानसादौ धूमे वह्नेर्व्याप्तिर्गृहीता पश्चात् स एव पुरुषः क्वचित् पर्वतादौ अविच्छिन्नमूलां धूमलेखां पश्यति तदनन्तरं धूमो वह्निव्याप्य इत्येवं रूपं व्याप्तिस्मरणं भवति। तस्माच्च वह्निव्याप्यधूमवानयमिति ज्ञानं मवति स एव परामर्श इत्यच्यते। तदनन्तरं पर्वतोऽयं वह्निमानिति ज्ञानं जायते। तदेवानुमितिः” सि० मुक्ता०। तत्र विवेचनं च युक्त्या श्रुतार्थावधारणम् “नोपदेशश्रवणेपि कृतकृत्यता परामर्शादृते विरोचनवत्” सा० सू० “परामर्शो गुरुवाक्यतात्पर्य्यनिर्णायको विचारः” भा०।

परामृत = न० परममृतं यस्मात्। मेघादिवर्षणे त्रिका०।

परामृष्ट = त्रि० परा + मृश–क्त। १ संबद्धे “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” पात० सू०। २ कृतपरापर्शे यस्य वाक्यस्य तात्पर्य्यायधारणं कृतम् तस्मिन् वाक्ये। साध्यव्याप्यतया हेतुमत्त्वेन ज्ञात ३ पक्षे च।

परायण = न० परमयनं णत्वम्। १ अत्यन्तासक्ता २ उत्तमाश्रये च ६ ब०। ३ अत्यासक्ते यथा घमेपरायणः धम अत्यन्तासक्तः। ४ तत्परे ५ अभीष्टे च त्रि० मेदि० परममुत्कृष्टं पुनर्वृत्तिरहितं स्थानमस्य। ६ विष्णौ पु० “निष्ठा शान्तिः परायणः” विष्णुसं०।

परायति = स्त्री परा + अय–गतौ बा० अति। प्रत्यग्गन्तरि ऋ० ९ ७१७ भाष्ये दृश्यम्। आ + यम–क्तिन परस्यायतिः आयत्तता अत्र। २ षराधीने त्रि० कर्म्म०। ३ उत्कृष्टायामायतौ उत्तरकाले स्त्री। पहु० ४ तद्युते त्रि०।

परायत्त = त्रि०। पराधीने हेमच०।

परारि = अव्य० पूर्वतरे वर्षे पूर्वतर + अरि नि० परादेशः। १ पूर्वतरवत्सरे गततृतीयवत्सरे। अस्य च सप्तम्यर्थमात्रवृत्तित्यम्। ततः भवार्थे त्न। परारित्र तत्र भवे त्रि०। परोऽरिः। ३ अत्यन्तशत्रौ पु०

परारु = पु० परार्च्छति परा + ऋ–उण्। कारवेल्लवृक्षे (उच्छा) हारा०।

परारुक = पु० परा + ऋ–उक। प्रस्तरे त्रिका०

परार्थ = त्रि० परस्मै इदम् “अर्थेन सह नित्यसमासोबिशेष्य निघ्नता च” वार्त्ति० अर्थेन सह नित्यं चतुर्थीत०। १ परनिमित्तके। परः अर्थो उद्देश्यो यस्य वा तत्रार्थे ६ त०। २ परप्रयोजनादौ पु।

परार्द्ध = न० ऋध–अच कर्म०। १ चरमसंख्यायां “पारे परार्द्धं गणितं यदि स्यात्” नैषधम्। “जलधिश्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तराः संख्याः” लीला० तस्य सर्वशेषतया उक्तेस्तथात्वम्। परस्य ब्रह्मणः आयुषोर्द्धं विग्रहे। ब्राह्मण आयुषो २ द्वितीयार्द्धे।

परार्द्ध्य = त्रि० परार्द्धं चरमसंख्यामुपचारात् श्रेष्ठत्वमर्हति यत्। श्रेष्ठे “परार्द्ध्यवर्णास्तरणेति” रथुः

परावत् = अव्य० परा + अव–वा० अति। १ दूरदेशे निघण्टुः २ प्रकृष्टतमे च ऋ० १। ३५। ३। “पराः परावतोऽयमस्ति” छा० उ० भाष्ये तथा व्याख्यानात्।

परावत = न० परा + अव–बा० अत्रच्। परूषके राजनि०।

परावरा = स्त्री परं चावरञ्च विषयत्वेनास्त्यस्या अच्। १ विद्याभेदे “भारद्वाजोऽङ्गिरसे परावराम्” मुण्ड० “परावराम् परस्मात् परस्मादवर्ण प्राप्तेति परावराम् परावरसर्वविद्याविषयव्याप्तेर्वा तां परावरामङ्गिरसे प्राहेत्यनुषङ्गः” भा०। परस्मादप्यवरः। ३ श्रेष्ठतमे त्रि०।

परावर्त्त = पु० परा + वृत–घञ्। १ परीवर्त्ते २ विनिमये हेमच० ३ प्रत्यावृत्तौ च।

परावसु = पु० परागतं यज्ञाख्यं वसु धनं यस्मात् प्रा० ब०। असुराणां होतृभेदे “निरस्तः परावसुरिति परावसुर्ह वै नामासुराणां होता स तमेवैतद्धोतृसदनान्निरस्यति” शत० ब्रा० १। ५। ३३। २ रैभ्यसुनिपुत्रभेदे भा० व० १३५ अ०। ३ गन्धर्वभेदे भाग० ८। ११। २४

परावह = पु० परावहति परा + वह–अच्। सप्तवायमध्ये परिवहवायोरूर्द्ध्वस्थे वायुभेदे अनिलशब्दे १६ ४ पृ० आवहशब्दे ८ २९ पृ० च दृश्यम्।

पराविद्ध = पु० परा + व्यध–क्त। १ कुवेरे शब्दमा० ३ प्रत्याविद्धमात्रे त्रि०।

परावृज् = पु० परावृनक्ति तपसा पापं वर्जयति परा + वृजी वर्जने क्विप्। ऋषिभेदे ऋ० १। ११२। ८

परावृत्ति = स्त्री परा + आ + वृत–क्तिन्। १ प्रत्यावृत्तौ येन पथागतिस्तत्पथेन पुनरावृत्तौ हरिवं ५६ अ०। २ परिवर्त्ते च परिवर्त्तिन्शब्दे दृश्यम्।

परावेदी = स्त्री परमुत्कर्समाविन्दति विद–लाभे अण् उप० स०। वृहत्याम् शब्दकल्पद्रु०।

पराशर = पु० परान् आ + शृणाति आ + शॄ हिंसायां अच। १ नागभेदे भा० आ० ५७ अ०। २ इन्द्रे यातूनां पराशरणात् तथात्वं “इन्द्रो यातूनामभवत् पराशरः” ऋ० ७ १० ४ २१ इति श्रुतेः। “पराशरः पराशीर्णस्य स्थविरस्य वशिष्ठस्य (कुले) जज्ञे” निरुक्तोक्तेः पराशीर्णस्य स्थविरवसिष्ठस्य कुले जातत्वात् वसिष्ठपुत्रशक्तिपुत्रे अदृश्यन्तीगर्भजाते ३ऋषिभेदे तज्जन्मकथा भा० आ० १७८ अ०। तन्नामनिरुक्तौ तत्राध्याये “परासुः स यतस्तेन वसिष्ठः स्थापितो मुनिः। गर्भस्थेन ततो लोके पराशर इति स्मृतिः” “परासोराशासन मवस्थानं येन स पराशरः। आङ्पूर्य्याच्छासतेः डरन् नीलकण्ठः” पृषो० सुलोपः। तालव्यमध्यत्व” वाग्य स च कृष्णद्वैपायनस्य पिता द्वैपायनशब्दे दृश्यम्। तेन च कलिकर्त्तव्यधर्मसंहितां चक्रे सा च द्वादशाध्यायात्मिका तत्र १ अ० युगभेदे धर्मभेदसहिताभेदादिकथनम्। २ अ० कलौ गृहस्थधर्मः। ३ अ० अशौचम् आत्महरणादिदोषाः। ४ अ० प्रायश्चित्तविशेषान्त्येष्टिकर्त्तव्यतोक्तिः। ६ अ० प्राणिहत्याप्रायश्चित्तादि। ७ अ० द्रव्यशुद्ध्यादि। ८ अ० गोबधादिप्रायश्चित्तम्। ९ अ० गोबधापवादादि। १० अ० अगम्यागमनादि प्रायश्चित्तम्। ११ अ० अमेध्यादिभक्षणप्रायश्चित्तम्। १२ अ० प्रायश्चित्ताङ्गस्नानभेदादि। पराशरेण प्रोक्तम् अण्। पाराशर पराशरप्रोक्ते त्रि० चक्रदत्तप्रदर्शिते घृतभेदे न० “यष्टी वला गुडूच्यल्पपञ्चमूली तुलां पचेत्। शूर्पेऽपामष्टभागस्थे तत्र पात्रे पचेद् घृतम्। धात्रीविदारीक्षुरसे त्रिपात्रे पयसोर्मले। सुपिष्टैर्जीवनीयैश्च पाराशरमिद घृतम्। स शैत्यं राजयक्ष्माणमुन्मूलयति शीलितम्”। स्त्रियां ङीप्। “कलौ पारशरी स्मृतिः” पराशरः।

प(पा)राशरिन् = ब० व० पराशरस्यापत्यम् गर्गा० यत् पाराशर्य्येण प्यासेन प्रोक्तं भिक्षुसूत्रं शरीरकसूत्रमधीयते “पाराशर्य्यशिलालिभ्यां भिक्षु नटसूत्रयोः” पा० बहुत्वे णिनेर्वा लोपः। भिक्षुसूत्राध्येतृषु पृषो० ह्रस्वः इति भरतः तन्मूलम् मृग्यम्। तथाऽमरे एकवचनत्वोक्तिर्निर्मूला बहुत्वे एव तद्विधानात्।

पराश्रय = त्रि० पर आश्रयो यस्य। १ अन्याश्रिते वृक्षोपरिजातायां लतायां २ वन्दायां स्त्री शब्दच०।

परासन = त्रि० परा–अस–क्षेपे भावे ल्युट्। मारणे बधे अमरः।

परासु = त्रि० परागता असवोऽस्य। मृते गतप्राणे अमरः।

परास्कन्दिन् = त्रि० परमास्कन्दति आ + स्कन्द–णिनि। चौरभेदे (डाकाइत) अमरः।

पराह = पु० परमुत्तरवर्त्ति अहः टच्समा०। “अह्नान्ताः पुंसि” पा० पुंस्त्वम्। परस्मिन् दिने।

पराह्ण = पु० परः परभागोह्नः एकदेशिस० टच् अह्नादेशः णत्वञ्च। दिनस्य परभागे अपराह्णे।

***