पद = स्थैर्ये भ्वा० पर० सक० सेट्। पदति अपादीत् अपदीत् अपादीत्। पपाद पेदतुः।

पद = गतौ दि० आ० सक० अनिट्। पद्यते अपादि पेदे पन्नः आ + विपत्तौ आपत्तौ च णिच् आपादन व्यापकाभावेन व्याप्याभावकल्पने प्राप्तौ च। उद् + उत्पत्तौ उद्भवे जनने अक०। प्रति + उद् झटित्युद्भवे अक०। वि + उद्–शब्दस्यावयवार्थबोधने व्युत्पत्तिः। उप + युक्तियोगे उपपद्यते उपपत्तिः। अभि + उपसान्त्वने। कुमा० ४ श्लोकः निस् + निष्पत्तौ अवस्थान्तरप्राप्तौ अक०। प्र + प्राप्तौ सक०। प्रपन्नः प्रति + खीकारे अङ्गीकारे सक० प्रतिपत्तिः प्रतिपन्नः। वि + प्रति + संशये सक० विप्रतिपन्नः। वि + मरने नाशे अक०। विपद्यते विपन्नः विपद्। सम् + सम्यग् वृद्धौ अक० सम्पद्यते सम्पद्।

पद = गतौ अद० चु० आत्म० सक० सेट्। पदयते अपपदत।

पद = पु० पद्यते गच्छत्यनेन करणे क्विप्। पादे “पदादयः पृथक् शब्दा इत्येके “पदङ्घ्रिश्चरणोऽस्त्रियाम्” अमरः।

पद = न० पद–अच्। १ व्यवसाये २ त्राणे ३ स्थाने ४ चिह्ने ५ पादे ६ वस्तुनि च अमरः। ७ विभक्त्यन्तशब्दभेदे “सुप्तिङन्तं पदम्” पा०। ८ वाक्यैकदेशे च “वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः” सा० द०। ९ श्लोसचरणे १० किरणे पु० मेदि० ११ अर्थबोधकशक्तिविशिष्टे नैयायिकाः “वृत्तिमत्त्वं पदत्वमिति” तल्लक्षणात्।

पदक = त्रि० पदं वेत्ति क्रमा० वुन्। १ वेदमन्त्रपदविभाजकग्रन्थस्याध्येतरि २ तद्वेत्तरि च ३ गोत्रप्रवर्त्तकर्षिभेदे पु० ततः अपत्ये इञ् पादकि तदपत्ये पुंस्त्री०। यस्का० बहुत्वे लुक्। पदकास्तद्गोत्रापत्येषु।

पदकार = पु० पदं पदविभागं करोति कृ–अण् उप० स०। वेदानां मन्त्वपदविभाजकग्रन्थकर्त्तरि

पदक्रम = पु० ६ त०। वेदमन्त्राणां पदविभाजकक्रमे। तमधीते वेत्ति वा उक्था० ठक्। पादक्रमिक तद्ग्रन्थाध्येतरि तद्वेत्तरि च त्रि०।

पदक्रमक = न० पदं क्रमश्च तौ वेत्त्यधीते वा वुन्। १ पदक्रमयोर्वेत्तरि २ तद्ग्रन्थाध्येतरि च।

पदग = त्रि० पादेन गच्छति गम–ड पादस्य पद इत्यादेशः। पदातिके अमरः।

पदगोत्र = न० ६ त०। “भारद्वाजमाख्यातं भार्गवं नाम, वासिष्ठ उपसर्गः, निपातः काश्यपः” इत्येषु यजु० प्रातिशाख्योक्तेषु भारद्वाजादिषु पदानां गोत्रेषु। “चत्वायिपदजातानि आख्यातगामनिपातोसर्गाः” इति निरुक्तोक्तानां च तेषाम् चतुर्णां भारद्वाजादिगोत्रत्वम्।

पदजात = न० ६ त०। आख्यातनामनिपातोपसंसर्गरूपे शब्दसमूहे निरुक्त०।

पदञ्जल = पु० ऋषिभेदे ततः उपका० गोत्रप्रत्ययस्य बहुत्वेलुक्।

पददेवता = स्त्री पदानां आख्यातादीनां देवता। आख्यादीनां सोमादिषु देवतासु “सौम्यमाख्यातं नाम वायव्यमाग्नेय उपसर्गः निपातोवारुणः” वाजपोयिप्रतिशाख्यम्। ६। ६१

पदनिधन = न० पदमधिकृत्य निधनम्। सामभेदे लाद्यायनश्रौ सू० ६। १ १। १

पदन्यास = पु० ६ त०। १ चरणार्पणे। पदस्येव न्यासोऽऽत्र। २ गोक्षुरवृक्षे शब्दच० तन्त्रोक्ते अन्नपूर्णामन्त्रस्थ पदानां तत्तद्दङ्गेषु ३ न्यासे च यथाह तन्त्रसा० ज्ञानार्णवे “एकमेकं पुनश्चैकं पुनरेकं द्वयं ततः। चतुश्चतुस्तथा द्वाभ्यां पदान्येतानि पार्वति!। पदान्येतानि देवेशि। नवद्वारेषु विन्यसेत्। मूर्द्धादिगुह्यपर्य्यन्तं पुनस्तेषु वरानने!। गुह्यादिषह्मरन्ध्रान्तं पदानां नवकं न्यसेत्”। तदुक्तं तत्रैव “ब्रह्मरन्ध्रास्यहृदयमूलाधारेष्वनुक्रमात्। चतुर्वीजानि विम्यस्य परेष्वन्यांश्च विन्यसेत्। भ्र्मध्यनासिका कण्ठनाभिलिङ्गेषु पञ्चसु। पूर्ववत् क्रमतो देवि! नमःप्रभृतिकं न्यसेत्”।

पदपाठ = पु० ६ त०। वेदपदविभाजकग्रन्थभेदे “उद्गीथरम्य पाठवताञ्च साम्नाम्” देवीमा०।

पदभञ्जन = न० पदानि भज्यन्त्येऽनेन भन्ज–करणे ल्युट्। १ निरुक्तरूपे ग्रन्थे ३ गूढार्थव्याख्याने च

पदभञ्जिका = स्त्री पदानि भञ्जति भन्ज–ण्वुल्। टीप्पन्याम् हेमच०।

पदमञ्जरी = स्त्री पदानां मञ्जरीव। न्यासापरनामके हरदत्तप्रणीते व्याकरणग्रन्थभेदे।

पदमाला = स्त्री ६ त०। १ पदश्रेणौ २ मोहननामविद्यायाम् देवीपु० ९ अ०।

पदवि(वी) = स्त्री पद–अवि वा ङीप्। १ पथि। अमरः २ धर्माचारे च।

पदविग्रह = पु० पदेन विग्रहो यत्र। समासे हरिवं २०३ अ०।

पदव्याख्यान = न० ६ त०। वेदमन्त्रस्य विभाजकग्रन्थभेदे तस्य व्याख्यानो ग्रन्थः तत्र भवो वा ऋगयना० अण्। पादव्याख्यान तस्य व्याख्याने तत्रभवे च त्रि०।

पदष्ठीव = न० पादौ च अष्ठीवन्तौ च द्वन्द्वस० नि०। पादजानुनोः समाहारे।

पदस्तोभ = पु० पदस्थितः स्तोभः। पदमध्यपठिते निरर्थके शब्दभेदे गानशब्दे २५७२ पृ० दृश्यम्।

पदाङ्गी = स्त्री पदं हंसपदमिवाङ्गं यस्याः ङीष्। हंसपदीलितायां राजनि०।

पदाजि = पु० पादेन अजति गच्छति अज–इण्। “पादस्य पदाज्यतीति” निर्देशात् व्यभावः पादस्य पद इत्यादेशः। पादेन गन्तरि पदातौ अमरः।

पदात = त्रि० पादेनातति अत–अच्। पदातौ शब्दरत्ना०।

पदाति = पु० पादेन अतति गच्छति उपपदि अत–इण् पदादेशः। पादेन ग तरि (पेयादा) अमरः। स्वार्थे क। पदातिक तत्रार्थे शब्दर०।

पदाद्यविद् = पु० पदादिं न वेत्ति विद–क्विप् ६ त०। पदाद्युच्चारणानभिज्ञे छात्रगण्डे अपकृष्टवछात्रे हारा०।

पदानुशासन = न० पदान्यनुशिष्यन्तेऽनेन अनु + शस–करणे ल्युट्। शब्दानुशासने व्याकरणे मेदि०।

पदानुस्वार = पु० सामभदे लाट्यायन० ६९३

पदान्त = पु० ६ त०। पदावसाने

पदान्तर = न० अन्यत् पदम् मयू० स०। एकपदभिन्ने अन्यस्मिन्। १ पदे २ स्थानान्तरे च।

पदार = पु० पदात् ऋच्छति ऋ–अच् ५ त०। १ पादधूलौ २ पदालिकेच मेदि०।

पदार्थ = पु० ६ त०। शब्दाभिधेये द्रव्यादौ। पदार्थाश्च दर्शनभेदेन नानाविधाः तत्तद्दर्शनमतप्रदर्शने उक्ता यथा वैशेषिकाणां द्रव्यादयः षट्, सप्त वा, नैयायिकमते प्रमाणादयः षोडश, सांख्यानां प्रकृत्यादयः पञ्चविंशतिः, पातञ्जलानां सेश्वराः प्रकृत्यादयः षडविंशतिः। वेदान्तिनाम् चिदचिटात्मकौ द्वावित्येवं वोध्यम्।

पदालिक = पु० पदस्य चरणस्यालिकसिव। चरणोपरिभागे

पदासन = ६ त०। पादपीठे हेमच०।

पदि = पु० पद्यते पद–कर्मणि इन्। गन्तव्ये निरु० “पदिर्गन्तुर्भवति यत् पद्यते” निरु० ५ १८ “पदिमुत्सिनाति” ऋ० १ १२५ २।

पदिक = त्रि० पादेन चरति पर्पा० ष्ठन् पदादेशश्च। पादचारिणि स्त्रियां षित्त्वात् ङीप्।

पदिन्याय = पु० जैमि० १। १। १८ सूत्रोक्ते न्यायभेदे।

पदिहोम = पु० पदि पादस्थाने होमः अलुक्स०। पदि जुहोति वर्त्मनि जुहोतीतिश्रुतिविहितहोमभेदे तत्र पादश्च हस्तिनएव ग्राह्यः “सर्वे पदो हस्तिपदे निमग्नाः इत्युक्तेः।

पदोपहत = त्रि० पादेन उपहतः पादस्य पद इत्यादेशः। पादेनोपहते।

पद्ग = त्रि० पद्भ्यां गच्छति गम–ड ३ त०। पद्भ्यां गन्तरि पदातौ अमरः। पादशब्देन समासे तु अदन्तपदादेशेपदग इत्येव।

पद्घोष = पु० ६ त० वा पदादेशः। पादशब्दे। एवं शब्दमिश्रयोरपि वा पदादेशे पच्छब्दपन्मिश्रशब्दौ पादशब्दाद्यर्थे पक्षे पादघोष पादशब्द पादमिश्र तत्तदर्थे।

पद्धति(ती) = स्त्री पादेन हन्यते गम्यते हन–गतौ आधारे क्तिन् पदादेशः वा ङीप्। १ पथि २ पङ्क्तौ च मेदि०। ३ ग्रन्थस्य निष्कृष्टार्थबोधके ग्रन्थभेदे हेमच०। ४ उपनामभेदे स च शूद्रस्य यसुघोषादिः। “शूद्राणां नामकरणे वसुथोषमित्रादिरूपपद्धतियुक्तनामत्वम्” उद्वा० रघु०।

पद्धिम = न० पादस्य हिमं पदादेशः। पादशीतस्पर्शे।

पद्म = न० पद–मन्। १ कमले २ गजमुखादिस्थे विन्दसमुदाये कमलाकारेण सैन्यादेरभिनिवेशनरूपे ३ व्यूहभेदे ४ निधिभेदे “अर्वुदमब्ज” मिति पद्मपर्य्यायाब्जनाम्नोक्तायां ५ दशार्वुदसंख्यायां ६ तत्संख्यातेषु ७ पुष्करमूले ८ सीसके धातौ ९ शरोरस्थे नाडीचक्रभेदे च मेदि० १० पद्मकाष्ठोषधौ धरणिः। देहस्थपद्मानि च चक्रत्वेन प्रसिद्धानि तानि च चक्रशब्दे २८०८ पृ० दर्शितानि। कमले पु० न० अमरे स्थितं तत्रास्य पुंस्त्वमप्रयुक्तदोषयुक्तमित्यालङ्कारिकाः। ११ दाशरथौ १२नागभेदे पु० धरणिः। १३ जिनचक्रवर्त्तिभेदे पु० हेम० १४ रतिवन्धभेदे पु० “हस्ताभ्याञ्च समालिङ्ग्य नारी पद्मासनोपरि। रमेदुगाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः” रतिम०।

पद्मक = न० पद्ममिव कायति कै–क। १ गजमुखादिस्थे पुष्पाकारे विन्दुसमूहे अमरः। २ पद्मकाष्ठे मेदि०। ३ कुष्ठोषधौ राजनि० स्वार्थे क। ४ पद्मशब्दार्थ च पद्मकाष्ठगुणाः भावप्र० उक्ता यथा “पद्मकं तुवरं तिक्तं शीतलं बातलं लघु। वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तहृत्। गर्भसंस्थपिनं रुच्यं वमिब्रणवृषाप्रणुत्”

पद्मकर = पु० पद्मं करेऽस्य। पद्महस्ते विष्णो पद्महस्तादयोऽप्यत्र।

पद्मकन्द = पु० ६ त०। कमलकन्दे शालूके “शालुकं शीतलं वृष्यं षित्तदाहास्रनुद् गुरु। दुर्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम्। संग्राहि मधुरं रूक्षं गिष्माण्डमपि तद्गुणम्” भावप्र०।

पद्मकाद्यघृत = न० “पद्मकामृतनिम्बानां धान्यचन्दनयोः पचेत्। कल्के क्वाथे च हविषः प्रस्थं छर्दिनिवारणम्। तृष्णारुचि शमनं दाहज्वरहरं परम्” चक्रदत्तीक्ते पक्वघृतगेदे

पद्मकाष्ठ = न० पद्ममिव सुगन्धि काष्ठमस्य। ओषधिभेदे राजनि०

पद्मकिन् = पु० पद्मकं विन्दुजालमस्त्यस्य त्वचि इनि। १ भूर्जवृक्षे शब्दमा०। २ हस्तिनि

पद्मकीट = पु० पद्ममिव कीटः। कीटभेदे सुश्रुतः कीटशब्दे २०५८ पृ० दृश्यम्।

पद्मकेतन = पु० १ गरुडात्मजभेदे भा० उ० १०० अ०। ६ त० ३ पद्मनिवासे न०

पद्मकेशर = पु० न० ६ त०। किञ्जल्के राजनि०।

पद्मगन्ध(न्धि) = त्रि० पद्मस्येव गन्धीऽस्य वा इत् समा०। १ पद्मतुल्यगन्धयुक्ते। इदन्तः। २ पद्मकाष्ठे न० भावप्र०।

पद्मगर्भ = पु० पद्मं विष्णुनाभिकमलं गर्म इव उत्पत्तिस्थानमस्य। चतुरानने व्रह्मणि शब्दर० तस्य तथोत्पत्तिर्यथा “परावरेषां भूतानामात्मा यः पुरुषः परः। स एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन। तस्य नाभेः समभवत् पद्मकोशो हिरण्मयः। तस्मिन्नब्जे महाराज! स्ययम्भूश्चतुराननः” भाग० ९। १। ३। पद्मस्य हृदयपुण्डरीकस्य गर्भोमध्य उपासनास्थानतयाऽस्य। २ परमेश्वरे “पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्” विष्णुस०। ६ त०। ३ कमलमध्ये च।

पद्मगुणा = स्त्री पद्मं गुणयति आसनत्वेन गुण–क। १ लक्ष्म्या भा० आ० ६६ अ०। २ लवङ्गे च

पद्मचारिणी = स्त्री पद्ममिव चरति चर–णिनि। उत्तरापथप्रसिद्धे स्वनामख्याते लताभेदे अमरः।

पद्मज = पु० पद्मात् विष्णुनाभिकमलात् जायते जन–ड। ब्रह्मणि चतुर्मुखे पद्मगर्भशब्दे दृश्यम्। पद्मजातादयोऽप्यत्र।

पद्मतन्तु = पु० ६ त०। मृणाले राजनि०।

पद्मदर्शन = त्रि० पद्मस्येव दर्शनमस्व। १ पद्मतुल्यदर्शने (नोवा) इति ख्याते २ वृक्षे पु० शब्दच०।

पद्मनाभ = पु० पद्मं नाभौ यस्य संज्ञायाम् अच्स०। १ विष्णौ। “पद्मनाभोऽरविन्दाक्षः” विष्णुसं० भाष्ये तु पद्मस्य नामौ स्थित इत्येवं उक्तम्। तत्र अर्श आद्यच् इतिमेदः। २ धृतराष्ट्रपुत्रमेदे भा० आ० ६७ अ०। ३ नागभेदे पु० शा० ३५७ अ०।

पद्मनाभि = पु० संज्ञात्वेऽपि समासान्तविधेरनित्यत्वात् न अच् समा०। विष्णौ द्विरूपकोषः।

पद्मनाल = न० स्त्री ६ त०। मृणाले

पद्मनेत्र = त्रि० पद्ममिव नेत्रमस्य। १ पद्मतुल्यनेत्रयुक्ते २ बुद्धभेदे पु० हेम०।

पद्मपत्र = न० पद्मस्य पत्रमिव। १ पुष्करमूले अमरः ६ त०। २ कमलदले च पद्मपर्णादयोऽप्यत्र न०।

पद्मपाणि = पु० पद्मं पाणौ यस्य। व्रह्मणि १ चतुर्मुखे २ वुद्धे त्रिका०। ३ कमलहस्तके त्रि०।

पद्मपुराण = न० व्यासप्रणीते महापुराणभेदे तत्प्रतिपाद्यादि नारदीयपु० उक्तं यथा प्रथमे सृष्टिखण्डे “पुलस्त्येन तु भीष्माय सृष्ट्यादिक्रमतो द्विज!। नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मविस्तरः। पुष्करस्य च माहात्म्यं विस्तरेण प्रकीर्त्तितम्। ब्रह्मयज्ञविधानञ्च वेदपाठादिलक्षणम्। दानानां कीर्त्तनं यत्र वृत्तानाञ्च पृथक् पृथक्। विवाहः शैलजायाश्च तारकाख्यानकं महत्। माहात्म्यञ्च गवादीनां कीर्त्तितं सर्वपुण्यदम्। कालकेयादिदैत्यानां बधो यत्र पृथक् पृथक्। ग्रहाणामर्च्चनं दानं यत्र प्रोक्तं द्विजोत्तम!। तत् सूष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना” द्वितीये भूमिखण्डे “पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरः। सुव्रतस्य कथा पश्चात् वृत्रस्य च बधस्तथा। पृथीर्वेणस्य चाख्यानं धर्माख्यानं ततः परम्। पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः। ययाति–चरितञ्चैव गुरुतीर्थनिरूपणम्। राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथायुतः। कथा ह्यशोकसुन्दर्य्या हुण्डदैत्यबधाचिता। कामोदाख्यानकं तत्र विहुण्डबवसंयुतम्। कुः, लस्य च सवादश्च्यवनेन महात्मना। सिद्धाख्यान ततः प्रोक्तं ण्ढण्डस्यास्य फलोहनम्। सूतशौनकसंवादं भूमिखण्डमिद स्मृतम्”। तृतीये स्वर्गखण्डे “ब्रह्माण्डोत्पत्तिरुदिता यत्रर्षिभ्यश्च सौतिना। सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम्। नर्मदोत्पत्तिकथनं तत्तीर्थानां कथा पृथक्। कुरुक्षेत्रादितीर्थानां कथाः पुण्याः प्रकीर्त्तिताः। कालिन्दीपुण्यकथनं काशीमाहात्म्यवर्णनम्। गयायाश्चैव माहात्म्य प्रयागस्य च पुण्यकम्। वर्णाश्रमानुरोधेन कर्मयोगनिरूपणम्। व्यासजैमिनिसंवादः पुण्यकर्मकथाचितः। समुद्रमथनाख्यानं व्रताख्यानं ततः परम्। ऊर्ज्जपञ्चाह माहात्म्यं स्तोत्रं सर्वापराधनुत्। एतत् स्वर्गाभिधं विप्र! सर्वपातकनाशनम्”। चतुर्थे पातालखण्डे “रामाश्वमेधे प्रथमं रामराज्याभिषेचनम्। अगस्त्याद्यागमश्चैव पौलस्त्यान्वयकीर्त्तनम्। अश्वमेघोपदेशश्च हयचर्य्या ततःपरम्। नाना राजकथाः पुण्या जगन्नाथानुवर्णनम्। वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम्। नित्यलीलानुकथनं यत्र कृष्णावतारिणः। माधवस्नानमाहात्म्ये स्नानदानार्च्चने फलम्। धरावराहसंवादो यमब्राह्मणयोः कथा। संवादो राज- दूतानां कृष्णस्तोत्रनिरूपणम्। शिवशम्भुसमायोगो दधीच्याख्यानकन्ततः। भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम्। देवरातसुताख्यानं पुराणाञ्च प्रशंसनम्। गौतमाख्यानकञ्चैव शिवगीता ततः स्मृता। कल्पान्तरी रामकथा भारद्वाजाश्रमस्थितौ। पातालखण्डमेतद्धि शृण्वतां ज्ञानिनां सदा। सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम्”। पञ्चमे उत्तरखण्डे “पर्वताख्यानकं पूर्वंगौर्य्यै प्रोक्तं शिवेन वै। जालन्धरकथा पश्चात् श्रीशैलाद्यनुकीर्त्तनम्। सागरस्य कथा पुण्या ततःपरमुदीरिता। गङ्गाप्रयागकाशीनां गयायाश्चाधिपुण्यकम्। आम्रादिदानमाहात्म्यं तन्महाद्वादशीव्रतम्। चतुर्विंशैकादशीनां माहात्म्यं पृथगीरितम्। विष्णुधर्भसमाख्यानं विष्णुनामसहस्रकम्। कार्त्तिकव्रतमाहात्म्यं माघस्नानफलन्ततः। जम्बुद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम्। साधुमत्याश्च माहात्म्यं नृसिंहोत्पत्तिवर्णनम्। देवशर्मादिकाख्यानं गीतामाहात्म्यवर्णने। भक्त्याख्यानञ्च माहात्म्यं श्रीमद्भागवतस्य ह। इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथाचितम्। मन्त्ररत्नाभिधानञ्च त्रिपाद्भूत्यनुवर्णनम्। अवतारकथा पुण्या मत्स्यादीनामतःपरम्। रामनामशतं दिष्यं तन्माहात्म्यञ्च बाडव!। परीक्षणञ्च भृगुणा श्रीविष्ण्योर्वैभवस्य च। इत्येतदुतरं खण्डं पञ्चमं सर्वपुण्यदम्” तत्फलश्रुतिः “पञ्चखण्डयुतं पाद्मं यः शृणोति नरोत्तमः। स लभेद्वैष्णवं धाम भुक्त्वा भोभानिहेप्सितान्। एतद्वै पञ्चपञ्चाशत्सहस्रं पद्मसंज्ञकम्। पुराणं लेखयित्वा वै ज्यैष्ठ्यां स्वर्णाज्यसंबुतम्। यः प्रदद्यात् सुमतये पुराणज्ञाय मानदः। स याति वैष्णवं धाम सर्वदेवनमस्कृतः। पद्मानुक्रमणीमेतां यः पठेत् शृणुयात् तथा। सोऽपि पद्मपुराणस्य लभेत् श्रवणजं फलम्”।

पद्मपुष्प = पु० पद्ममिव पुष्प मस्य। १ कर्णिकारवृक्षे २ पिकाङ्गपक्षिभेदे पुंस्त्री० शब्दच० स्त्रियां ङीष्।

पद्मप्रभ = त्रि० पद्मस्येव प्रभा यस्य। १ कमलसदृशप्रभान्विते २ जैनभेदे पु० हेमच०।

पद्मप्रिया = स्त्री पद्मं प्रियं यस्याः। जरुत्कारुमुनिपत्न्यां मनसादेव्यां शब्द च०।

पद्मबन्ध = पु० चित्तालङ्कारभेदे अलङ्कारशब्दे २९० पृ० दृश्यम्।

पद्मबन्धु = पु० ६ त०। १ सूर्य्ये शब्दरत्ना० २ अर्कवृक्षे च ३ भ्र मरे शब्दच०।

पद्मभू = पु० पद्मात् विष्णुनाभिकमलात् भवति भू–क्विप्। चतुर्मुखे ब्रह्मणि हला०। पद्मगर्भशब्दे दृश्यम्।

पद्ममुख = त्रि० पद्ममिव मुखमस्य। १ कमलसदृशमुखयुते स्त्रियां वा ङीष्। सा च २ दूर्वालतायां शब्दच०।

पद्ममुद्रा = स्त्री “हस्तौ तु सम्मुखौ कृत्वा तदधःप्रोथिताङ्गुली। तलान्तर्मिलिताङ्कुष्ठौ कृत्वैषा पद्ममुद्रिका” तन्त्रसारोक्ते मुद्राभेदे

पद्मयोनि = पु० पद्म विष्णुनाभिकमलं योनिरस्य। ब्रह्मणि चतुर्मुखे अमरः।

पद्मराग = न० पद्मस्येव रागोऽस्य। रक्तवर्णमणिभेदे तल्लक्षणादि वृ० सं० ४० उक्तं यथा “सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः। सौगन्धिकजा भ्रमराञ्जनाब्जजम्बुरसद्युतयः। कुरुविन्दुभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः। स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च। स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः। अन्तःप्रभाऽतिरागा मणिरत्नगुणाः समस्तानाम्। कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः। दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः। भ्रमरशिखिकण्टवर्णो दीपशिखासमप्रभो भुजङ्गानाम्। भवति मणिः किल मूर्धनि योऽनर्घो वै स विज्ञेयः। यस्तं बिभर्त्ति मनुजाधिपतिर्न तस्य दोषा भवन्ति विषरोगकृताः कदाचित्। राष्ट्रे च नित्यमभिवर्षति तस्य देवः शत्रूंश्च नाशयति तस्य मणेः प्रभावात्। षड्विंशतिः सहस्राण्येकस्य मणेः पलप्रभाणस्य। कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य। अर्द्वपलस्य द्वादश कर्षस्यैकस्य षट् सहस्राणि। यच्चाष्टमाषैतं तस्य स हस्त्रत्रयं मूल्यम्। माषकचतुष्टयं दशशतक्रयं द्वौ तु पञ्चशतमूल्यौ। परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम्। वर्णमूलस्यार्धं तेजोहीनस्य मूल्यमष्टांशः। अल्पगुणो बहुदोषो मूल्यात्। प्राप्नोति विंशांशम्। आधूम्रं व्रणवहुलं स्वल्पगुणं चाप्नुयादुद्विंशभागम्। इति पद्मरागभूल्यं पूर्वाचार्य्यैः समुद्दिष्टम्”। युक्तिकल्पतरौ चात्रविशेषो यथा “सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम्। पीतं काण पुरोद्भूतं कुरुविन्दमिति स्मृतम्। अशोकपल्लवच्छायममुं सौगन्धिकं विदुः। तुम्बुरे छायया नीलं नीलगन्धि प्रकीर्त्तितम्। उत्तमं सिंहलोद्भूतं निकृष्टं तुम्बुरोद्भवम्। मध्यमं मध्यजं ज्ञेयं माणिक्यं क्षेत्रभेदतः” तथा “बन्धूकगुञ्जाशकलेन्द्रगापजवासनासृक् समवर्णशोभाः। भ्राजिष्णवो दाडिमवीजवर्णास्तथा परे किंशुकपुष्पभासः। सिन्दूरपद्मोत्पलकुङ्कुमानां लाक्षारसस्यापि समानवर्णाः। सान्द्रेऽतिरागे प्रभया स्वयैव भान्ति स्वलक्ष्या स्पुटमध्यशोभाः। भानोश्च भासा मनुवेधयोगमासाद्य रश्मिप्रकरेण दूरम्। पार्श्वानि सर्वाण्यनुरम्लयन्ति गुणोपपन्नाः स्फटिकप्रसूताः। कुसुम्भनीलीव्यतिमिश्ररागप्रत्यग्ररक्ताम्बरतुल्यभासः। तथा परेऽरुष्करकण्टकारीपुष्पत्विषो हिङ्गुलकत्विषोऽन्ये। चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित्। अन्ये पुनर्नातिविपुष्पितानां तुल्यत्विषः कोकनदोदराणाम्। प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फटिकोद्भदानाम्। आनीलरक्तोत्पलचारुभासः सौगन्धिकाख्या मणयो मवन्ति। यो मन्दराभः कुरुविन्दजेषु स एव जातः स्फटिकोद्भवेषु। निरर्चिषोऽन्तर्बहुलीभवन्ति प्रभाववन्तीऽषि न तत्समानाः। ये तु रावण गङ्गायां जायन्ते कुरुविन्दकाः। पद्मरागा घनं रागं बिभ्राणाः स्वस्फुटार्च्चिषः। वर्णानुयायिनस्तेषामन्ध्रदेशे तथाऽपरे। न जायन्ते तु ते केचित् मूल्यलेशमवाप्नुयुः। तथैव स्फटिकोत्थानां देशे तुम्बुरसंज्ञके। सधर्माणः प्रजायन्ते स्वल्पमूल्या हि ते स्मृताः”। जात्यादि “माणिक्यस्य प्रवक्ष्यामि यथा जातिचतुष्टयम्। व्रह्मक्षत्रियवैश्याश्च शूद्रश्चाथ यथाक्रमम्। रक्तश्वेतो भवेद्विप्रस्त्वतिरक्तस्तु क्षत्रियः। रक्तपीती भवेद्वैश्यो रक्तनीलस्तथाऽन्त्यजः। पद्मरागो भवेद्विप्रः कुरुविन्दस्तु बाहुजः। सौगन्धिको भवेद्वैश्यो मांसखण्डस्तथान्त्यजः। शोणपद्मसमाकारः खदिराङ्गारसप्रभः। पद्मरागो द्विजः प्रोक्तश्छायाभेदेन सर्वदा। गुञ्जासिन्दूरबन्धूकनागरङ्गसमप्रभः। दाडिमीकुसुमाभासः कुरुविन्दस्तु बाहुजः। हिङ्गुलाभाशोकपुष्पाभमोषत्पीतलोहितम्। जवालाक्षारसप्रायं वैश्यं सौगन्धिकं विदुः। आरक्तः कान्तिहीनश्च चिक्वणश्च विशेषतः”। मांसखण्डसमाभासो ह्यन्त्वजः पापनाशनः”। तद्दोषादि “माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरेः। द्विच्छायञ्च द्विरूपञ्च सम्भेदः कर्करन्तथा। अशोभनं कोकिलञ्च जलं धूम्राभिघञ्च वै। गुणाश्चत्वार आख्याताश्छायाः षोडश कीर्त्तिताः”। छायास्तु पूर्वोक्ता एव “छाया द्वितयसम्बन्धाद् द्विच्छायं बन्धुनाशनम्। द्विरूपं द्विपदं तेन माणिक्येन पराभवः। सम्भेदी भिन्नमित्युक्तः शस्त्रवातविधाथकः। कर्करं कर्करायुक्तं पशुबन्धु विनाशकृत्। दुग्धेनेव समालिप्तं मणेः पुटकमुच्यते। अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत्। मधुविन्दुसमच्छायं कोकिलं परिकीर्त्तितम्। आयुर्लक्ष्मीर्यशो हन्ति सदोषं तन्न धारयेत्। रागहीनं जलं प्रोक्तं धनधान्यापवादकृत्। धूम्रं धूमसमाकारं वैद्युतं भयमावहेत्”। तथा “शोभाद्वितयवन्तो ये मणयः क्षतिकारकाः। उभयत्र पदं येषां तेन च स्वात् पराभवः। भिन्नेन युद्धे मृत्युः स्यात् कर्करं धननाशकृत्। दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत्। दुःखकृत् स समाख्यातो न नृपैरक्षणीयकः। मधुविन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता। तेषां च बहुभेदाः स्युर्न ते धार्य्या कदाचन”। अथ गुणाः “गुरु त्वं स्निग्धता चैव वैमल्यमतिरक्तता। वर्णाधिकं गुरुत्वञ्च स्निग्धता समताऽच्छता। अर्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः”। फलम् “ये कर्कराश्छिद्रमलोपदिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः। न ते प्रशस्तामणयो भवन्ति समानतो जातिगुणैः समस्तैः। दोषोपसृष्टं मणिमप्रबोधाद्विभर्त्ति यः कश्चन कञ्चिदेकम्। तं बन्धुदुःखायसबन्धवित्तनाशादयो दोषगुणाः भजन्ते। सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपि वर्त्तमानम्। न पद्मरागस्य महागुणस्य भर्त्तारमापत् समुपैति काचित्। दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं समभिद्रवन्ति। गुणैः स मुख्यैः सकलैरुपेतो यः पद्मरागं प्रयतो बिभर्त्ति”। परीक्षा यथा “बालार्ककरसंस्पर्शात् यः शिखां लोहितां वमेत्। रञ्जयेदाश्रयं वापि स महागुण उच्यते। दुग्धे शतगुणे क्षिप्तो रञ्जयेद्यः समन्ततः। वमेच्छिखां लोहितां वा पद्मरागः स उत्तमः। अन्धकारे महाघोरे यो न्यस्तः सन्महामणिः। प्रकाशयति सूर्य्याभः सु ग्नेष्ठः पद्मरागकः। पद्मकोषे तु यन्न्यस्तं विकाशयति तत्क्षणात्। पद्मरागवरो ह्येष देवानामपि दुर्लभः। सर्वारिष्टप्रशमनाः सर्वसम्पत्तिदायकाः। चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम्। यो मणिर्दृश्यते दूराज्ज्वलदग्निसमच्छविः। वंशकान्वितः स विज्ञेयः सर्वसम्पत्तिकारकः। पञ्चसप्तनवविंशतिरागः क्षिप्त एव सकलः खलु वस्त्रे। वर्जयेद्वमति वा करजालमुत्तरोत्तरमहागुणिनस्ते। नीलं रसं दुग्धरसं जलं वा ये रञ्जयन्ति द्विशतप्रमाणम्। ते ते यथापूर्वसतिप्रशस्ताः सौभाम्यसम्पत्तिविधानदाश्च”। परि- माणम् “गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान्। पद्मरागस्तुलयति यथापूर्वं महागुणः। क्रोष्टुकोल फलाकारो द्वादशाष्टाब्धिगुञ्जकान्। पद्मरागस्तुलयति यथापूर्वं महागुणः। यदरीफलतुल्यो यः स्वरदिग्वसुमाषकः। तथा धात्रीफलत्रिंशद्विंशतिद्व्यष्टमाषकः। तथाक्षफलतुल्यो यो वह्निपक्षैकमाषकः। ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः। विम्बीफलसमाकारो बसुषड्दशतोलकः। अतःपरं प्रमाणेन मानेन च न लभ्यते। यदि लभ्येत पुण्येन तदा सिद्धिमवाप्नुयात्। केचिच्चारुतराः सन्ति जातीनां प्रतिरूपकाः। विजातयः प्रयत्नेन विद्वांस्तानुपलक्षयेत्। कलसपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तमालीयाः। श्रीपर्णिकायाः सदृशा विजातयः पद्मरागाणाम्। तुषोपसर्गात् कलसाभिधानमाताम्रभावादपि तुम्बुरोत्थम्। कार्ष्ण्यात्तथा सिंहलदेशजातं मुक्तामिधानं नभसः स्वभावात्। श्रीपर्णकं दीप्तिनिराकृतित्वाद्विजातिलिङ्गाश्रय एष भेदः”। तथा “स्नेहप्रदेहो मृदुता लघुत्वं विजातिलिङ्गं खलु सर्वजन्यम्। यः श्यामिकां पुष्यति पद्मरागो यो वा तुषाणाभिव चूर्णमध्यः। स्नेहपदिग्धो न च यो विभाति यो वा प्रमृष्टः प्रजहाति दीप्तिम्। आक्रान्वमूर्द्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतां बिभर्त्ति। सम्प्राप्य चोत्क्षेपपथानुवृत्तिं विभर्त्ति यः सर्वगुणानतीव। तुल्यप्रमाणस्य च तुल्यजाते यो वा गुरुत्वेन भवेन्न तुल्यः। प्राप्यापि रत्नाकरजां स्वजातिं लक्षेत् गुरुत्वेन गुणेन विद्वान्। अप्रणश्यति सन्देहे शिलायां परिथर्षयेत्। घृष्टो योऽत्यन्तशोभावान् परिमाणं न मुञ्चति। स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः। स्वजातकसमुत्थेन विलिखेद्वा परस्परम्। वज्रं वा कुरुविन्दं वा विमुच्यान्योन्यकेन चेत्। न शक्यं सेखनं कर्तुं पद्मरागेन्द्रनीलयोः। जात्यस्य सर्वेऽपि मणेर्न जातु विजातयः कान्तिसमानवर्णाः। तथापि नानाकरणार्थमेवं भेदप्रकारः परयोः प्रदिष्टः। गुणोपयन्नेन सहावबद्धो मणिस्तु धार्य्यो विगुणेन जात्यः। न कौस्तुभेनापि सहावबद्धं विद्वान् विजातिं बिभृयात् कदाचित्। चण्डाल एकोऽपि यथा द्विजातीन् समेत्य भूरीनपहन्त्ययत्नात्। तथा गणीन् भूरिगुणोपपन्नान् शक्नोति विद्रावयितुं विजातः”। तस्य मूल्यम् “वालार्कामिमुखं कृत्वा दर्पणे धारयेन्मणिम्। तत्र कान्ति- विभागेन छायाभागं विनिर्दिशेत्। वन्रस्य यत्तण्डुलसंख्ययोक्तं मूल्यं समुन्मेपितगौरवस्य। तत् पद्मरागस्य गुणान्वितस्य स्यान्माषकाख्यातुलितस्य मूल्यम्। यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम्। तावन्मूल्यं तथा शुद्धे कुरुविन्दे विधीयते। सगुणे कुरुविन्दे च याबन्मूल्यं प्रकीर्त्तितम्। तावन्मूल्यं चतुर्थांशहीनं स्याद्वै सुगन्धिके। यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः। तावन्मूल्यं चतुर्थांशात् हीयते शूद्रजन्मनि। पद्मरागः पलं यस्तु धत्ते लाक्षारसप्रभः। कार्षापणसहस्राणि त्रिंशन्मूल्यं लभेत सः। इन्द्रतीलकसङ्काशः कर्षत्रय धृतो मणिः। द्वाविंशतिसहस्रार्णा तस्य मूल्यं विनिर्दिशेत्। एको नोनूयते यस्तु जवाकुसुमसन्निभः। कार्षापणसहस्राणि तस्य मूल्यं चतुर्दश। बालादित्य द्युतिनिभः कर्षं यस्तु प्रतुल्यते। कार्षापणशतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम्। यस्तु दाडिमपुष्पाभः कर्षार्द्धेन तु सम्मितः। कार्मापणशतानान्तु विंशतिं मूल्यमादिशेत्। चत्बारो माषका यस्तु रक्तोत्पलदलप्रभः। मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम्। द्विमाषको यस्तु गुणैः सर्वैरेव समन्वितः। तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः। माषकैकमितो यस्तु पद्मरागो गुणान्वितः। शतकसम्मितं वाच्यं मूल्यं रत्मविचक्षणैः। अतो न्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः स्वर्णद्विगुणमूल्येन मूल्यं तैषां प्रकल्पयेत्। कार्षापणः समाख्यातः पुराणद्वयसम्प्रितः। अन्ये कुसुम्भपानीयमञ्जिष्ठोदकसन्निभाः। कार्षाया इति विख्याताः स्फटिकप्रभवाश्च ते। तेषां दोषान् गुणान् वापि पद्मरागवदादिशेत्। मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा। ब्रह्मक्षत्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः। चतुर्विधैर्नृपतिभिर्धार्य्या सम्पत्तिहेतवे। अतोऽन्यथा धृतः कुर्य्याद्रोगशोकभयक्षयम्” अत्र तस्य क्लीवत्वमप्युक्तम्।

पद्मरेखा = स्त्री पद्माकारा रेखा शा० त०। हस्तस्थितपद्माकाररेखायाम्।

पद्मलाञ्छन = पु० द्मं विष्णुकमलं वा लाञ्छनमस्य। १ व्रह्मणि २ सूर्य्ये ३ कुवेरे ४ नृपे च मेदि० ५ तारायां ६ लक्ष्म्यां ७ सरस्वत्यां च स्त्री मेदि० ८ पद्मरेखायुक्ते त्रि०।

पद्मवर्णक = त्रि० पद्मस्ये व वर्णेऽस्य कप्। १ कमलतुल्यवर्णयुक्ते। पद्मं वर्णो वर्ण्यं यस्य कप्। २ पुष्करमूले जटा०।

पद्मवासा = स्त्री पद्मं वासोऽस्याः। १ पद्मालयायां २ लक्ष्म्यां हेमच० पद्मस्य वासः सौरभम् ६ त०। ३ कमलसौरभे पु०।

पद्मवृक्ष = पु० पद्मतुल्यो वृक्षः। पद्मकाष्ठे राजनि०।

पद्म(बी)वीज = न० ६ त०। कमलवी(बी)जे पद्माक्षे राजनि० “पद्म(बी)वीजं हिमं स्वादु कषायं तिक्तकं गुरु। विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम्” भावप्र०।

पद्मवी(बी)जाभ = न० पद्मवी(बी)जमिवाभाति आ + भा–क। (माखना) ख्याते मखान्ने राजनि०।

पद्मा = स्त्री पद्मनाधारत्वेनास्त्यस्याः अच्। १ लक्ष्म्यां २ लवङ्गे ३ पद्मचारिण्यां लतायां च अमरः। ४ मनसादेव्यां पन्नग्यां ५ फञ्जिकावृक्षे च मेदि० ६ अर्हन्मातृभेदे हेमच० ७ कुमुम्भपुष्पे रत्नमाला। वृहद्रथराजदुहितरि ८ कल् किदेवपत्न्याञ्च कल्किपु०।

पद्माकर = पु० ६ त०। १ जलाशयमात्रे अमरः सपद्मेऽगाधजलाशये २ तद्योग्ये निष्पद्मेतदर्थे जलाशयोत्सर्गशब्ददर्शिते ३ तडागरूपे जलाधारे च।

पद्माक्ष = न० पद्मस्याक्षीव षच्समा०। १ पद्मवी(बी)जे हारा० “पद्माक्षैर्निर्मिता माला शत्रूणां नाणिनी मता” तन्त्रसारः। पद्ममिवाक्षि यस्य षच्सम०। २ पद्मतुल्यनेत्रे त्रि० स्त्रियां षित्त्वात् ङीष्।

पद्माट = पु० पद्ममिवाटति अट–अच्। चक्रमर्दवृक्षे (दादमर्दन) राजनि०।

पद्मालया = स्त्री पद्ममालयो यस्याः। १ लक्ष्म्यां २ लवङ्गे च अमरः ६ त०। ३ पद्मानां स्थाने पु०।

पद्मावती = पु० पद्म + अस्त्यर्थे मतुप् मस्य वः संज्ञायां दीर्घश्च। (पद्मा) १ नदीभेदे २ मनसादेव्यां शब्दच० ३ पद्मचारिणीलतायां जटाध०। ४ कुमारानुचरमातृभेदे भा० ग० ४७ अ०। ५ शृगालनृपमहिषीभेदे हरिवं० १०१ अ०। असंज्ञायां तु न दीर्घः। पद्मवत् पद्मयुक्ते त्रि० स्त्रियां ङीप्।

पद्मावतीप्रिय = पु० ६ त०। १ जरत्कारुमुनौ २ कल्किदेवे ३ शृगालनृपे च त्रि०

पद्मासन = “ऊरुमूले वामपादं पुनस्तु दक्षिणं पदम्। वामोरौ स्थापयित्वा तु पद्मासनमिति स्मृतम्” जामलोक्ते आसनमेदे अस्यैव प्रकारभेदः तन्त्रसारे योगाङ्गतया उक्तः तच्च ८८६ पृ० दर्शितम् एवमन्यदपि तल्लक्षणं योगाङ्गतया ध्येयं बद्बपद्मासनमहापद्मसनेति च तस्यैव प्रकारभेदः। देवपूजार्थे पद्माकारे ३ आसनभेदे पद्ममासनं यस्य। ३ कमलासने ब्रह्मणि पु०।

पद्माह्वा = स्त्री पद्म तदुगन्धमाह्वयते स्पर्द्धते स्वगन्धेन अ + ह्व–क। १ पद्मचाचिण्यां लतायां राजनि० २ लवङ्घे न०

पद्मिनी = स्त्री पद्मं विद्यतेऽस्याः पुष्करा० इनि अभिधानात् स्त्रीत्वम्। १ पद्मयुक्तदेशे २ पद्मधारिणि विष्णौ पु० “पद्मी पद्मनिभेक्षणः” विष्णुसं० तस्य शङ्खचक्रगदापद्मधारित्वात् तथात्वम्। ३ पद्मधारिमात्रे त्रि० स्त्रियां ङीप्। ४ हस्तिनि पु० अमरः पद्मानां समूहः इनि। ६ पद्मसमूहे ७ पद्मलतायाञ्च अमरः “सूननालदलोत्फुल्लफलैः सा लतिका पुनः। पद्मिनीत्युच्यते प्राज्ञैर्विसिन्यादिश्च सा स्मृता। पद्मिनी मधुरा तिक्ता कषाया शिशिरा सरा। पित्तकृमिशोषवान्तिभ्रान्तिसन्तापदोषहृत्” राजनि० “भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुचयुग्मा दीर्घकेशी कृशाङ्गी। मृदुचरणसुशीला गीतनृत्यानुरक्ता सकलतनुसुवेशा पद्मिनी पद्मगन्धा” रतिमञ्जर्य्युक्तलक्षणयुक्ते ९ स्त्रीभेदे “पद्मिती शशके तुष्टा” इति च तन्त्रोक्तम्। १० सरोवरे ११ पद्मे च विश्वः १२ मृणाले शब्द माला।

पद्मिनीकण्टक = पु० कमलिन्याः कण्टकाकारे सुश्रुतोक्ते क्षुद्ररोगगेदे २३८२ पृ० दृश्यम्।

पद्मिनीकान्त = पु० ६ त०। १ सूर्य्ये जटाघ०। २ अर्कवृक्षे च पद्मिनीवल्लभादयोऽप्यत्र।

पद्मेशय = पु० पद्मे शेते शी–अच् अलुक्स०। विष्णौ हेमच०। मा० शा० २४० अ० उदा०।

पद्मोत्तर = पु० पद्मादुत्तरः उत्कृष्टो वर्णेन। कुसुम्भे राजनि०।

पद्मोत्तरात्मज = पु० जिनचक्रवर्त्तिभेदे हेमच०

पद्मोद्भव = पु० पद्मसुद्भवोऽस्य। कमलयोनौ १ ब्रह्मणि २ मनसादेव्यां स्त्री

पद्य = न० पदं चरणमर्हति पद + यत्। कविकृते चतुश्चरणात्मके “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा” इत्युक्ते १ वाक्यभेदे २ पदव्यां स्त्री। पद्भ्यां जातः यत्। ४ शूद्रे पु० “पद्भ्यां शूद्रो अजायत” यजु० ३१। ११ पदं विध्यति यत्। ५ शर्करायां स्त्री। पदमस्मिन् दृश्यते यत्। ५ नातिशुष्के कर्दमे सि० कौ०। ६ स्तुतौ विश्वः ७ पथि स्त्री अमरः।

पद्र = पु० पद्यत् गच्छत्यत्र पद–आधारे रक्। ग्रामे उज्ज्वल०

पद्रथ = पु० पद् रथ इव यस्य। पद्गामिनि भाग० ३। १८। १२

पद्व = पु० पद–स्थैर्य्ये आधारे करणे वा वन्। १ भूलोके २ रथे च संक्षिप्तसारः।

पद्वन् = पु० पद–करणे वनिप्। पथि उज्ज्वलद०।

पन = स्तुतौ भ्वा० आत्म० सक० सेट स्वार्थे आय वा तत्र आत्म०। पनायते पनायति आर्द्धधातुके वा आय। अपनायीते अपनायिष्ट अपनिष्ट। पनायां–बमूय आस चक्रे पेने इत्यादि।

पनस = पु० पन्यते स्तूयतेऽसौ वृक्षेषु उत्तमफलत्वात् वृहत्फ लत्वाद्वा पन–कर्मणि असच्। (वा~टाल) वृक्षभेदे फलादौ न० “पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम्। तर्पणं वृंहणं स्वादु मांसलं श्लेष्मलं भृशम्। बल्यं शुक्रपदं हन्ति रक्तपित्तक्षतक्षयान्। आमन्तदेव विष्टम्भि वातलं तुवरं गुरु। दाहकृन्मधुरं बल्यं कफमेदोविमर्दनम्। पनसोद्भूतवीजानि वृष्याणि मधुराणि च। गुरूणि बद्धवर्चांसि सृष्टमूत्राणि संवदेत्” अन्यच्च “मज्जा पनसजो वृष्यो वातपित्तकफापहः। विशेषात् पनसं वर्ज्यं गुल्मिभिर्मन्दवह्निभिः। अलं पनसपाकाय फलं कदलसम्भवम्” भावप्र० “कण्टाफलं सुमधुरं वृंहणं स्निग्धशीतलम्। दुर्जरं वातपित्तध्नं श्लेष्मशुक्रवलप्रदम्। तदेव सर्पिषा युक्तं स्निग्धं हृद्यं बलप्रदम्। छर्दिघ्नं न च चक्षुष्यं वृष्यञ्च वातपित्तनुत्। कण्टाफलमपक्वन्तु कषायं स्वादु वातलम्। रक्तपित्तहरं स्वादु तत्फलास्थ्यापि तद्गुणम्” राजवल्लभः।

पनसतालिका = स्त्री पनसं स्तुत्यं तालं तत्तुल्यफलं विद्यतेऽस्याः टन्। पनसे शब्दमा० पनतालिकेति तत्र पाठान्तरं तत्रार्थे।

पनसिका = स्त्री पनसः तदाकारोऽस्त्यस्याः ठन्। सुश्रुतोक्ते क्षुद्ररोगरोगभेदे २३८२ पृ० दृश्यम्।

पनस्य = नामथा० षनं स्तुतिमिच्छति क्यच् सुगागमः स्तोत्रेच्छायां पर० अक० सेट्। पनस्यति अपनस्यीत् ऋ० १। ५५। २ उदा० तत्र तङ् आर्षः। निघण्टो तु पनस्यधातुः अर्चतिकर्मसु पठितः तेन पूजायामपि।

पनस्यु = त्रि० पनस्य नामधातुः उ। आत्मनः स्तोत्रेच्छौ ऋ० १। ३८। ५

पनिष्टम = त्रि० पन–कर्मणि इसुन् अतिशयेन पगिः तमप्। स्तुत्यतमे साम० १ ३२। ४

पनिष्ठ = त्रि० अतिशयेन पनिता इष्टन् तृणोलोपः। स्तोवृतमे ऋ० ६। ५९। २ ईयसुन्। पनीयस् तत्रार्थे स्त्रियां ङीप्

पनिस्पद = त्रि० स्पन्द–यङ्लुक् अच् अभ्यासे निगागमः। भृशं स्पन्दमाने अथ० ५ ३० १६

पनु = स्त्री पन–उ। स्तुंतौ ऋ० १। ६५। २

पन्थक = त्रि० पथि जातः “पथः पन्थ ध” पा० कन्। पथिजाते सि० कौ०।

पन्न = त्रि० पद–क्त। १ च्युते २ गलिते च अमरः। ३ गते पद–तन्। ४ नीचगमने न० उज्ज्वल०।

पन्नग = पु० पन्नगथोमुखं यथा तथा गच्छति, पद्भ्यां न गच्छति वा गम + ड। १ सर्पे अमरः जातौ ङीप् सर्फाम्। २ पद्मकाष्ठे मेदि० ३ सीसके ग०

पन्नगकेशर = पु० पन्नग इव केशरोऽस्य। गागकेतरे राजनि० तस्य सर्पफणातुल्यकेशरत्वात् तथात्वम्।

पन्नगारि = पु० ६ त०। गरुडे

पन्नगाशन = पु० पन्नगः अशनमस्य। गरुडे अमरः षन्नगभोजनादवोऽप्यत्र। तस्य तद्भोक्तृत्वकथा भा० आ० अमृताहरणप० दृश्यम्।

पन्नद्धा = स्त्री पदि नद्धा। चर्मपादुकायां हेमच०।

पन्नद्ध्री = स्त्री पदः नद्ध्रीव नह–ष्ट्रन्–ङीष् वा ६ त०। चर्ममयपादुकायां त्रिका०।

पन्नागार = प्राच्ये गोत्रप्रवर्त्तकर्षिभेदे तस्यापत्यम् इञ्। पान्नागारि तदपत्ये पुंस्त्री०। बहुत्वे इञोलुक्। पन्नागारा इत्येव।

पन्निष्क = पुंन० पांदो निष्कस्य एकदेशिस० वा पदादेशः। निष्कस्य चतुर्थभागे पदादेशाभावे पादनिष्कोऽप्यत्र।

पन्य = त्रि० पन–स्तुतौ अघ्न्यादि० यत्। स्तुत्ये ऋ० ३। ३६। ३

पन्यस् = त्रि० पन–असुन् युगागमः। १ स्तोतरि ऋव्० ९ ९ २ उदा०। २ स्तुत्ये च ६ १८ ९ उदा०।

पपि = पु० पा–कि द्वित्वम्। १ चन्द्रे २ पानकर्त्तरि च त्रि०।

पपी = पु० पा–ईक् द्वित्वम्। १ चन्द्रे २ सूर्य्ये च उज्ज्वल०।

पपु = त्रि० पा–कु द्वित्वम्। पालके उज्ज्वल०।

पपुरि = त्रि० पॄ–कि द्वित्वम्। प्रीणनशीले। ऋ० १। १५। ४

पपुक्षेण्य = त्रि० सम्पर्कार्हे। ऋ०। ५। ३३। ६ भाष्ये स्थितम्।

पप्रि = त्रि० प्रा० पूरणे कि द्वित्वम्। पूरणशीले यजु० १८।

पफक = पु० गोत्रर्षिभेदे ततः तिका० गोत्रे फिञ्। पाफकायनि तद्गोत्रापत्ये। बहुत्रे निरवकेन सह फिञोलुक्। कफकनिरवका इत्येव

पमरा = स्त्री (सल्लकी) ख्याते गन्धद्रव्यभेदे राजवल्लभः।

पम्पस् = दुःखे कृच्छ्रीभावे कण्ड्वा० प० अक० सेट्। पम्पस्यति अपम्पस्यीत्।

पम्पा = स्त्री १ दक्षिणस्थनदीभेदे भा० अनु० १। ६। ऋष्यमूकशैलसमीपस्थे २ सरोभेदे च “एषा पम्पा शिवजला बहुतोया तडागिनी” भा० व० २७६ अ०। ततः वरणादि० चातुरर्थिकस्य लुक्। पम्पानामटूरभवं नगरं पम्पा इत्येव।

पम्ब = गतौ भ्वा० प० सक० सेट्। पम्बति अपम्बीत् पपम्ब।

पय = गतौ भ्वा० आत्म० सक० सेट्। पयते अपयिष्ठ।

पयःकन्दा = स्त्री पयः दुग्धमिव स्वादुत्वात् कन्दोऽस्याः। क्षीरविदार्य्याम् राजनि०।

पयःपयोष्णी = स्त्री पयःप्रचुरा पवोष्णी शा० त०। नदीभेदे भा० व० १२० अ०।

पयःफेनी = स्त्री पयः दुग्धमिव फेनमस्याः गौरा० ङीप्। दुग्धफेन्यां राजनि०।

पयश्चय = पु० ६ त० जलपूरे जटा०।

पयस् = न० पा–पाने कर्मणि असुन् इकारश्चान्तादेशः। १ दुग्धे २ जले च मेदि० ३ अन्ने ४ रात्रौ च निघण्टुः।

पयस्य = प्रसृतौ (परिमाणविशेषे) कण्ड्वा० अक० सेट्। पयस्यति अपयस्यीत्।

पयस्य = त्रि० पयसो दुग्धस्य विकारः तत्र हितं वा यत्। १ दुग्धविकारे दध्यादौ अमरः। २ दुग्धहिते त्रि० ३ विडाले पु० शब्दच०। ४ दुग्धिकायां ५ क्षीरकाकोल्यां ६ स्वर्णक्षीरिकायां च स्त्री मेदि०। ७ अर्कपुष्पिकायां रत्नमाला ८ कुटुम्बिनीक्षुपे राजनि०। ९ आमिक्षायाम् हेमच०।

पयस्वत् = त्रि० पयस् + अस्त्यर्थे मतुप् मस्य वः सान्तत्वान् न पदकार्य्यम्। १ जलविशिष्टे स्त्रियां ङीप्। २ नद्यां स्त्री ब० व० निचण्ठुः।

पयस्वल = त्रि० पयोऽस्त्यस्य वलच् सान्तत्वात् न पदकार्यम्। १ जलयुक्ते। २ छागे पुंस्त्री राजनि० स्त्रियां जातित्वात् ङीष्।

पयस्विन् = त्रि० पयोऽस्त्यस्य विनि न पदकार्यम्। १ पयोविशिष्टेस्त्रियां ङीप्। २ नद्यां ३ धेन्वां ४ रात्रौ च मेदि०। ५ काकोल्यां ६ क्षीरकाकोल्यां ७ दुग्धफेन्यां ८ क्षीरविदार्य्यां ९ छाग्यां रालनि०। १० जीवन्यां भावप्र०।

पयाय = आत्मनः पय इच्छति क्यङ् नामधातुः आ० अक० सेट् वा सलोपः। पयायते पयस्यते।

पयोगल = पु० पयो यलति यस्मात् गल–अपादाने क। १ चनोपले (करका) २ द्वीपे च शब्दमा०।

पयोग्रह = पु० पयसो दुग्धस्व ग्रहः ग्रह आधारे अच्। यज्ञिये पात्रमेदे। कात्या० श्रौ० १०। २। १३।

पयोघन = पु० पयसा घनो निविडः। वर्षोपले हारा०।

पयोजन्मन् = पु० पयश्ची जन्म यस्मात्। १ मेघे शब्दमा०। २ सुस्तके च।

पयोद = पु० पयो ददाति दा–क। १ जलदे मेघे २ सुस्तके च ३ बदुनृपपुत्रभेदे हरिवं० ३० अ० ४ कुमारानुचरमातृभेदे स्त्री भा० श० ४७ अ०।

पयोधर = पु० पयो दुग्धं जलं वा धरति घृ–अण् ६ त०। १ मेघे २ स्तने अमरः ३ सुस्तके च ४ कोषकारे ५ नारिकेले ६ कशेरुके च मेदि०।

पयोधस् = पु० पयो दधाति धा–असुन्। १ ससुद्रे २ जजाघारे त्रि० उणा०।

पयोधारा = स्त्री ६ त०। १ जसानां धारायाम्। पयसां धारां यत्र। ३ नदीभेदे हरिवं० २३३ अ०।

पयोधि = पु० पयो धीयतेऽसिन् धा–आधारे कि उप० स०। समुद्रे राजनि०।

पयोधिक = न० पयधौ तदुपरि कायति कै–क। समुद्रफेने राजनि०।

पयोनिधि = पु० पयांसि निधीयन्ते यत्र नि + धा–आधारे कि उप० स०। समुद्रे।

पयोमुच् = पु० पयोमुञ्चति मुच–क्विप्। १ जलमुचि मेघे २ मुस्तके च।

पयोर = पु० पयोजलं सेवने मुखनिस्रवजलं राति रा–क। १ स्वदिरे शब्दार्ण०। २ जलदायिनि त्रि०।

पयोलता = स्त्री पयःप्रधाना लता। क्षीरविदार्य्यां राजनि०

पयोवाह = पु० पयो जलं वहति वह–अण् उप० स०। १ मेषे २ मुस्तके च।

पयोव्रत = न० पयः तत्पानमात्रं व्रतम्। १ दुग्धपानमात्रे व्रतभेदे तच्च त्रिरात्रादिसाध्यं मत्स्यपु० उक्तं यथा “पुण्यां तिथिं समासाद्य युगमन्तरादिकम्। पयोव्रतस्त्रिरात्रं स्यादेकरात्रमथापि वा” ५२ अ० तद्द्विविघं प्रायश्चित्तात्मकं काम्यञ्च मनुः ११। १४४। द्वादशाहसाध्यं त विष्णुव्रतभेदः माग० ८। १६। पयस्तत्पानं व्रतमस्य। २ यज्ञ दीक्षितव्रतभेदे शत० ब्रा० ९। ५। १। १

पयोष्णिजाता = स्त्री। पयोष्णी जाता यस्याः पृषो०। सरस्वत्यां नद्यां राजनि०।

पयोष्णी = स्त्री विन्ध्याचलदक्षिणस्थे नदीभेदे “पयोष्णी सलिलं रुच्यं पवित्रं पापनाशनम्। सर्वामवहरं सौख्यबलक्रान्तिप्रदं लघुं राजनि०। “एष विन्ध्यो महाशैलः पयोष्णीयं समुद्रमा। आश्नमाश्च महर्षीणां बहुमूलफलान्विताः। एष पन्था विदर्भाणामसौ ण्च्छति कोसलाम्। अतः परश्च देशोऽयं दक्षिणे दक्षिष्णापथः” भा० व० ६१ अ०।

***