पताका = स्त्री पत्यते ज्ञायते योधोऽनया पत–नि० आक। त्रिकोणाकारे १ पटादिनिर्मिते वस्त्रखण्डभेदे। मण्डपे देयपताकालक्षणं हेमा० दा० गरुडपु० उक्तं यथा “सप्तहस्ताः पताकाः स्युर्विंशत्यङ्गुलविस्तृताः। दशहस्ताः पताकानां दण्डाः पञ्चांशवेशिताः। सिन्दूरा कर्वूरा धूम्रा घूसरा मेघसन्निभा। हरिता पाण्डुवर्णा च शुभ्रा पूर्वादितः क्रमात्। एवं वर्णाः शुभाः कार्य्याः षताकाः पाकशासन!”। “लोकेशवर्णास्त्रयुताः पताकाः शैलेन्दुर्दर्घ्यायतिकाश्च मध्ये। चित्रं ध्वजं दिक्करदैर्घ्यवंशं त्रिदीस्ततप्रान्तगकिङ्किणीकम्। श्वेताञ्च नवमीं पूर्वेशानयोर्मध्यती बुधः। विन्यसेत्तु पताकाञ्च ध्वाजांस्ता अपि पूर्वतः” कुण्डोद्घोतः। “लोकेशानां लोकपालानां ये वर्णाः पीतादयः पूर्वश्लोकोक्ताः, गैरिकादिलिखतवज्रशक्तिदण्डखड्गपाशाङ्कुशगदात्रिशूलानि (तेषामस्त्राणि) तैर्युताः सप्तहस्तदीर्घा एकहस्तविस्तृताः पताका दशहस्तवंशशीर्षगाः चित्रं ध्वजं त्रिहस्तविस्तृतं प्रान्ते वर्त्तमानकिङ्किणीकं शीर्षे सचामरं दशहस्तदैर्घ्यवंशञ्च तादृशं तं मध्ये विन्यसेत् पूर्वादितः पताकाश्च विन्यसेदित्युत्तरश्लोकेनान्वयः नवमीं पताकां पूर्वेशानयोर्मध्ये श्वेतां तादृशीमेवाचार्यकुण्डे विन्यसेत् ध्वजांस्ता अपि पताकाश्च पूर्वादिक्रमेण भूमौ पञ्चांशरोपणेन विन्यसेदिति”। अस्याः “त्रिकोणा वै पताकाः स्युश्चतुष्कोणाध्वजाः स्मृताः” विधा० उक्तेः त्रिकोणाकारता वीध्या। २ सौभाग्ये ३ नाटकाङ्गभेदे पताकास्थानकशब्दे दृश्यम् पिङ्गलोक्ते वक्ष्यमाणमेरुपङ्क्तिस्थतत्तत्कोष्ठस्थाङ्कनिर्धारितस्वरूपभेदानां प्रथमत्वद्वितीयत्वादिना ४ प्रातिस्विकरूपनिर्द्धारणे ५ निर्द्धारणाङ्कसमूहे वा यथोक्तं पिङ्गलतट्टीकयोः

“अमुकवर्णमात्रापस्तारयोरेतावद्गुरुलघुयुक्तो भेद एतावत्संख्याक इति मेरुपङ्क्तिवर्त्तितत्तत्कोष्ठस्थाङ्कनिर्द्धारितस्वरूपसंख्यानां भेदानां प्रथमत्वद्वितीयत्वादिप्रातिस्विकरूपस्य निर्द्धारणं निर्द्धारकाङ्कसमूहो वा पताका सा च द्विधा वर्णमात्राभेदात्। तत्र प्रथमं वर्णपताकानिर्माणप्रकारमाह उद्दिट्टेति” टी०। “उद्दिट्टा सरि अङ्का दिज्जसु पुब्बङ्के प्रर भरण कविज्जसु। पाओण अङ्क पडिहल पत्थरसक्ख प्रताआ करिज्जसु” पि० मू० “उद्दिष्टसद्बशानङ्कान् देहि पूर्वाङ्कस्य परस्मिन् भरणं कुरुष्व। प्रथमप्राप्तमङ्कं परित्यज प्रस्तारसंख्यं पताकां कुर्विति” संस्कृतम्। “उद्दिष्टाङ्कसदृशानङ्कान् देहीत्यर्थः षू० र्वमेकमङ्कं दत्त्वा उत्तरोत्तरं द्विगुणितान् द्विचतुरष्टादिकानङ्कान् यथाप्रस्तारसख्यं स्थापयेत्यर्थः। ततः पूर्वाङ्कस्य परस्मिन्युत्तरवर्त्तिन्यङ्के प्रस्तारसंख्यं प्रस्तारस्य संख्या यस्यां क्रियायां तद्यथा स्यात्तथा भरणं योजनं कुरुष्वेत्यर्थः। प्रस्तारसंख्यमित्यस्य योजनकरणविशेषणत्वेन यदि कुत्रचित् पूर्वाङ्कस्य पराङ्कयोजने प्रस्तारसंख्यातोऽधिका संख्या भवेत् तत्र तन्न ग्राह्यमित्यायातम्। एवं कृते प्रथमप्राप्तमङ्कं परित्यज तेन यत्र प्रथमप्राप्ताङ्क एव कुत्रचित् पूर्वाङ्कस्य योजननिष्पन्नाङ्कस्तत्र स न ग्राह्य इत्यप्यायातम्। एवं प्रकारेण वर्णानां पताकां कुरुष्वेत्यर्थः। अत्र यः पूर्वाङ्कः यत्र पराङ्के प्रथमं योज्यते तेन योजननिष्पन्ना अङ्काः तत्पराङ्कादयीऽधोधःस्थाप्या इति नियमो गुरूपदेशतो बोध्यः। पूर्वपरशब्दादेरपेक्षाबोधजनकत्वात् क्रमशोऽपेक्षाकृतं पूर्वापरस्त्रं भवतीत्यपि। एतद्दर्शनं वक्ष्यमाणमेरुप्रस्तारे चतुरक्षरवृत्तस्य प्रथमकोष्ठस्यितिकाङ्कसूचितः चतुर्गुरुक एको भेदो द्वितीयकोष्ठस्थितचतुरङ्कसूचितः त्रिगुरुकाश्चत्वारो भेदास्तृतीयकोष्ठस्थषडङ्कसूचिता द्विगुरुकाः षड्भेदाश्चतुर्थकोष्ठस्थचतुरङ्कसूचिता एकगुरुकाश्चत्वारो भेदाः पञ्चमकोष्ठस्थाकाङ्कसूचितः सर्वलघुक एको भेदः। पञ्चकोष्ठस्थाङ्कयोजननिष्पन्नाङ्को वृत्तसंख्या इति। तत्र तत्तत्संख्यपुरुलघुकाः भेदा यथानिर्दिष्टप्रस्तारकरणे कतमे कतमे इति प्रश्ने प्रथमम् एर्क कोष्ठं कर्त्तव्यं ततस्तत्संलग्नमेकं कोष्ठं कृत्वा तदधःकोष्ठत्रयं कार्य्यं ततो द्वितीयपङ्क्तिवत् तृतीयपङ्क्तौ कोष्ठचतुष्टयं कृत्वा तदधः कोष्ठद्वयं ततस्तृतीयपङ्क्तिस्थितकोष्ठषट्कमध्यादुत्सारितकोष्ठचतुष्टयसंलग्नं कोष्ठचतुष्टयं कार्य्यं ततः चतुर्थपङ्क्तिस्थितकोष्ठचतुष्टयमध्योपरितनैकसंलग्नमेकं कोष्ठं कार्य्यमेवं षोडश कोष्ठानि सम्पद्यन्ते चतुरक्षरवृत्ते तेषामेवापेक्षणात् ननु कथमेतैनैव क्रमेण कर्त्तव्यम् अन्यक्रमस्यापि सम्भवादिति चेन्न मेरुस्थितानां चतुरक्षरवृत्ते पञ्चानां कोष्ठानां कीष्ठस्थाङ्कसूचितानाम् एकचतुःषट् चतुरेककोष्ठानां क्रमशः पङ्क्तिरूपेण विहित्वेन तथास्थापनौ चित्यात् ततः प्रथमकोष्ठादिक्रसेण एकद्विचतुरष्टषोडशाङ्कान् स्थापयेत्। ततः प्रथमकोष्ठस्यैकाङ्कस्य सर्वेभ्यः पूर्ववर्त्तित्वात् तेन सह तदुत्तरवर्त्तिद्व्यङ्के- न योजितस्त्र्यङ्को द्व्यङ्कस्याधः स्थाप्यः ततः तेन सह चतुरष्टाङ्कयोजननिष्पन्नपञ्चाङ्कनवाङ्कौ त्र्यङ्कादधोऽधःस्थाप्यौ। तेन सह षोडशाङ्कस्य योजने प्रस्तारसंख्याधिक्यान्न तत्कर्त्तव्यम्। तथा च तेन सह कस्यचित् पराङ्कस्य योजने प्रथमप्राप्ताङ्क एवायातीति प्रथमकोष्ठस्थमङ्कं त्यक्त्वा द्वितीयकोष्ठस्थं द्व्यङ्कं तदानीं सर्वेभ्यः पूर्वत्वेन गृह्णीयात्। तथाच तेन पूर्वाङ्केन द्व्यङ्केन तदुत्तरवर्त्तितृतीयकोष्ठस्थचतुरङ्कस्य योजननिष्पन्नषडङ्कश्चतुरङ्कादधो बिन्यास्यः ततो द्वितीयकोष्ठपङ्क्तिस्थद्व्यङ्काधःस्थितत्र्यङ्केन पूर्वेण चतुरङ्कस्य योजननिष्पन्नः सप्ताङ्कः तृतीयकोष्ठस्थषडङ्कादधः स्थाप्यस्ततः द्वितीयपङ्क्तितृतीयकोष्ठस्थपञ्चाङ्केन सह चतुरङ्कस्य योजने पूर्वप्राप्रनवाङ्कलाभात् तत्परित्यागेन तदधोनिष्ठनवाङ्केन चतुरङ्कस्य योजननिष्पन्नस्त्रयोदशाङ्कस्तृतीयपङ्क्तारधःकोष्ठे स्थाप्यः। ततो द्वितीयपङ्क्तिस्थकोष्ठचतुष्टयस्थद्व्यादिनवान्तचतुरङ्कानामन्यतमेन सह चतुरङ्कस्य योजने कृते पूर्वप्राप्ताङ्कलाभापत्तेस्तत्त्यागः। ततः तृतीयपङ्क्तित उत्तरवर्त्तिचतुर्थपङ्क्तिप्रथमकोष्ठस्थाष्टाङ्कस्य योजननिष्पन्नो दशाङ्कः तृतीयपङ्क्तौ पञ्चमकोष्ठे स्थाप्यः द्वितीयपङ्क्तिद्वितीयकोष्ठस्थत्र्यङ्केनाष्टाङ्कस्य योजननिष्पन्नैकादशाङ्कस्तृतीयपङ्क्तौ षष्ठकोष्ठे स्थाप्यः। प्रथमप्राप्ताङ्कलाभापत्त्या द्वितीयपङ्क्तित्यागः। ततस्तृतीयपङ्क्तिस्थ चतुःषट् सप्ताङ्कैरुत्तरवर्त्त्यष्टाङ्कस्य क्रमशः योजननिष्पन्नद्वादशचतुर्दशपञ्चदशाङ्काः क्रमशश्चतुर्थपङ्क्तिद्वितीयादिकोष्ठेष्वधोऽधोलेख्याः”। चतुरक्षरप्रस्तारे अस्याः स्वरूपदर्शनम्। चतुर्गुरुः १३ गुरुः ४२ गुरुः ६१ गुरुः ४ चतुर्लघुः १ १ २ ४ ८ १ ६ तत्रत्य प्रस्तारः ३ ६ १ २ऽऽऽऽ १ मः ५ ७ १ ४।ऽऽऽ २ यः ९ १ ३ १ ५ऽ।ऽऽ ३ यः १०।।ऽऽ ४ र्थ ११ऽऽ।ऽ ५ मः अत्रत्याङ्कास्तत्सूचित।ऽ।ऽ ६ ष्ठः संख्यापुरणार्थाःऽ।।ऽ ७ मः अस्याश्च पताकाकारत्वात्।।।ऽ ८ मः पताकासंज्ञकत्वमेवं मात्राऽऽऽ। ९ मः पताकाया अपि।।ऽऽ। १० मःऽ।ऽ। ११ शः।।ऽ। १२ शःऽऽ।। १३ शः।ऽ।। १४ शःऽ।।। १५ शः।।।। १६ शः मात्रापताका तु तत्रैवोक्ता यथा “वक्ष्यमाणमात्रामेरुस्यतत्तत्संख्याकभेदानां प्रथमत्वद्वितीयत्वादिनिर्णयाय मात्रापताकानिर्माणमाह उद्दिट्टेति” टी०। “उद्दिट्ट सरि अङ्का ठापअ वामाबत्तेण परहु णैअ लोपहु। एकलोपे एकगुरु जाणह दुइतिणलोपे दुइतिणगुरु जाणह। मत्तापताआं पिङ्गलो गाअदि जो पडमं पापै स परं बोधऐ” मू० “उद्दिष्टसदृशानङ्कान् स्थापय वामावर्त्तेन परस्मिन्नीत्वा लोपय। एकलोपे एकगुरुंजानीत द्वित्रिलोषे द्वित्रान् गुरून् जानीत”। “मात्रापताकां पिङ्गलो गायति यः प्रथमं प्राप्नोति स परं बोधयतीति” सस्क०। “उद्दिष्टाङ्कसदृशान् उक्तषकारोद्दिष्टपूर्वाङ्कयुगलयुतपराङ्कान् प्रस्तारसंख्यं तत्सदृशान् एकद्वित्रिपञ्चाष्टत्रयोदशैकविंशचतुस्त्रिंशदित्येवंरूपान् स्थापय उत्तरोत्तरमिति शेषः। वामावर्त्तेन प्रतिलोमविधिना सर्वान्तिमाङ्काव्यवहितपूर्वाङ्कमारभ्येति यावत् नीत्वा गृहीत्वा परस्मिन् सर्वान्तिमाङ्के लोपय तन्यूनतां नयत सर्वान्तिमाङ्के तदव्यहितपूर्वाङ्कमारभ्य पूर्वपूर्वाङ्काः क्रमेण लोप्या इत्यर्थः। एकलोपे एकाङ्कलोपे एकगुरुं जानीत द्वित्रिलोपे द्वित्रान् गुरून् जानीत। एकैकपूर्वाङ्कलोपे येऽङ्का अवशिष्यन्ते ते एकगुरुयुक्तभेदज्ञापकाः पूर्वाङ्कद्वयलोपे येऽवशिष्यन्ते ते गुरुद्वययुक्तभेदज्ञापकाः पूर्वाङ्कत्रयलोपे येऽवशिष्यन्ते ते गुरुत्रययुक्तभेदज्ञापका इत्यर्थः। एवंप्रकारेण मात्रापताकां पिङ्गलो गायति कथयति यः प्रथमं प्राप्नोति गुरूपदेशाज्जानाति स परं बोधयतीत्यर्थः। अत्र च एकत्वद्वित्वसंख्याविशिष्टः प्रथमं सर्वान्तिमे लोप्यते तदव्यवहितपूर्वाङ्कमारभ्यावशिष्टाङ्काःक्रमेणाधोधः स्थाप्या इति यदङ्कद्वयलोपे शून्यमवशिष्यते पूर्वप्राप्ताङ्को वा लभ्यते तदङ्कटयलोपो न कार्य्य इति नियमत्रयं गुरूपदेशाद्बोध्यम्। अथ तन्निर्माणं षट्कलपताकास्वरूपम् वामदक्षिणयोरङ्गुलपञ्चकपरिमाणमूर्द्ध्वाधोरेखाद्वयमृजु अर्द्धाङ्गुलान्तरितं कर्त्तव्यं तत ऋजुरेखया पार्श्वयोर्मेलन” विधेयमेवमेकं दीर्घकोष्ठं तत्रैकाङ्गुलपरिमितमन्तरं त्थक्त्वोर्द्धरेखामारभ्याऽन्यरेस्यापर्य्यन्तं ऋजुरेखाः क्रमेण दत्त्वा कोष्ठषट्कमुत्तरोत्तरपरस्परसंश्लिष्टं विधेयं तत्रोद्दिष्टाङ्कसदृशाः षट्कलप्रस्तारे एकद्वित्रिपञ्चाष्टत्रयोदशेति पूर्वोक्ताः पूर्वयुगलैक्यक्रियानिष्पन्नोत्तरोत्तराः षडङ्काः क्रमेण स्याप्यास्तदधः षट्कलमेरुस्थितकोष्ठचतुष्टयमुत्तरोत्तरसंश्लिष्टं कार्य्यं ततो मेरुद्वितीयकोष्ठस्थित षडङ्कसूचितष्ड्मेदानां द्वितीयकोष्ठमेकं तदघ ऊर्द्ध्वाधः संश्लिष्टं कोष्ठपञ्चकमिति कोष्ठषट्कमेवं मेरुतृतीयकोष्ठे पञ्चाङ्कसत्वात् तृतीयकोष्ठमेकं तदधः ऊर्द्धाधः संश्लिष्टकोष्ठचतुष्टयमितिकोष्ठपञ्चकमवशिष्टकोष्ठद्वयस्याधो मेरौ एकाङ्कसद्भावात् न कोष्ठान्तरं कार्य्यम्। ततः सर्वान्तिमस्यीद्दिष्टशेषाङ्कस्यान्तिमकोष्ठे स्यापनं ततः सर्वान्तिमत्रयोदशाङ्कमध्ये तदव्यवहिताष्टाङ्कलोपे उर्वरितं पञ्चाङ्कं वामावर्त्तेनोपान्तिमोपरिकोष्ठे स्थापयेत् ततोऽष्टाङ्कलोपे पूर्वप्राप्ताङ्कलाभापातान्न लोपः कार्य्यः। किन्तु अष्टाङ्कपूर्वस्थितपञ्चाङ्कस्य त्रयोदशाङ्के लोपं कृत्वा उपान्तिमकोष्ठोपरितनकोष्ठाधःकोष्ठे उर्वरितमष्टाङ्कं स्थापयेत् ततस्त्र्यङ्कस्य त्रयोदशाङ्के लोपं कृत्वा उर्वरितं दशाङ्कं तदधःकोष्ठे स्थापयेत् ततो द्व्यङ्कलोपे उर्वरितमेकादशाङ्कं तदधःकोष्ठे संस्थाप्य एकाङ्कलोपे उर्वरित द्वादशाङ्कं तदधःस्थापयेत् ततस्त्रयोदशाङ्के लोपकरणे पूर्वाङ्कलाभापातात् न तत् कार्य्यम्। ततः अष्टपञ्चेत्यङ्कद्वयलोपे शून्यावशेयात् न तत्कार्य्यम्। अष्ट त्रीत्यङ्कद्वयलोपे उर्परितं द्व्यङ्कं द्वितीयकोष्ठोपरितनकोष्ठे स्थापयेत् ततो द्व्यष्टेत्यङ्कद्वयलोमे उर्वरितत्र्यङ्कस्तदधःस्थाप्यस्तत एकाष्टेत्यङ्कद्वयलोपे उर्वरितचतुरङ्कस्तदधःकोष्ठे स्थाप्यः। ततः अष्टाङ्कघटितद्व्यङ्कलोपासम्भवात् पञ्चाङ्कधटितद्व्यङ्कलोपः कार्य्यस्तत्र पञ्चत्रीत्यङ्कद्वयलोपे पूर्वप्राप्तपञ्चाङ्क एवोर्वरितः स्यात् अतः द्विपञ्चेति द्व्यङ्कलोपे उर्वरित षडङ्ल तदधःकोष्ठे स्थापयेत्। एकपञ्चेत्यङ्कद्वयलोपे उर्वरित सप्ताङ्कस्तदधःकोष्ठे स्थाप्यस्ततः पञ्चाङ्कघटितद्व्यङ्कलोपे पूर्वप्राप्ताङ्कापातात् न तत्कार्य्यं किन्तु त्रिघटिमाङ्कद्वयलोपस्तत्र त्रिद्वीति द्व्यङ्क लोपे पूर्वप्राप्ताङ्कापातात् न तत्कार्य्यं तत एकत्रीत्यङ्क द्वयलोपे उर्वरितनवाङ्कं तदधःकोष्ठे स्थापयेत्। ततः कोष्ठाभावात् एकद्वीत्यङ्कद्वयलोपे उर्वरितदशाङ्कस्व प्राप्तत्वाच्च न द्व्यङ्कलोपः। तत एकत्र्यष्टेत्यङ्कत्रयलोपे उर्वरितमेकाङ्कं प्रथमे कोष्ठे स्थापयेदिति। तत्र मेरु- प्रथमकोष्ठस्यैकाङ्कसृचितषट् कलसर्वगुरुकभेदस्यात्रत्यप्रथमकोष्ठस्यैकाङ्के न प्रथमत्वं सूचितं त्र्यङ्कलोपे त्रिगुरुकत्वाभिधानात्। एवं मेरुद्वितीयकोष्ठस्थषडङ्कसूचितानां षट्कक्षप्रस्तारस्य द्विगुरुकभेदानां षणां द्वितीयतृतीयत्वादिनिर्णयपताकाद्वितीयकोष्ठस्थाङ्कषकेन सूचितद्व्यङ्कलोपे द्विगुरुकत्वामिधानात्। एवं मेरुपञ्चाङ्खसूचितानां पञ्चानां षट् कलैकगुरुकभेदानां पताकांतृतीयकोष्ठस्थाङ्कपञ्चकेन पञ्चमत्वाष्टमत्वेत्थादि निर्णीतम् एकाङ्कलोपे एकगुरुकत्वाभिधानात्। सर्वान्तिमे त्रयोदशाङ्के अङ्कलोपपूर्वकयोजनासम्भवात् मेरुशेषकोस्थैकाङ्कसूचितषट् कलस्यैकस्य सर्वसथुकभेदस्य पताकान्त्यसप्तमकोष्ठस्थत्रयोदशाङ्केन त्रयोदशत्वं निर्णीतमेवमन्यत्रापि। षट्कलप्रस्तारे तत्स्वरूपदर्शनम्। १ २ ३ ५ ८ १३ षट्कलप्रस्तारः त्रिगुरुः १ द्विगुरुः ६ एकगुरुः ५ सर्वलघुः १ऽऽऽ१ मः १ २ ५ १३।।ऽऽ २ यः ३ ८।ऽ।ऽ ३ यः ४ १०ऽ।।ऽ ४ र्थः ६ ११।।।।ऽ ५ मः ७ १३।ऽऽ। ६ ष्ठः ९ऽ।ऽ। ७ मः अत्रत्याङ्कास्तत्सूचित।।।ऽ। ८ मः संख्यापूरणार्थाः।ऽऽ।। ९ मः।।ऽ।। १० मः।ऽ।।। ११ शःऽ।।।। १२ शः।।।।।। १२ शः

पताकास्थानक = न० सा० द० उक्ते वाटकाश्चभेदे तल्लक्षणभेदादिकं तत्रोक्तं यथा “यत्रार्थे चिन्तितेऽन्यस्मिन् तल्लिङ्गोऽन्यः प्रयुज्यते। आनन्तुकेन भावेन पताकास्यानकन्तु तत्” तद्भेदानाह सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः। पताकास्थानकमिदं प्र थमं परिकीर्त्तितम्” यथा रत्नावल्वां “वासव दत्तेयमिति” राजा यदा तत्कण्ठषाशं मोचयति तदा तदुक्त्या “सागरिकेयमिति” प्रत्यभिज्ञाय “कथं पिया मे सागरिका णलमकमतिमात्रमित्यादि। फलरूपार्थसम्पत्तिः पूर्वापेक्षया उपचारातिशयादु गुणवती उत्कृष्टा। “वचः सातिशयश्लिष्टं मामाबन्धसमाश्रयम्। पताकास्थानकसिदं द्वितीयं परिकीर्तितम्”। यथा वेण्यां मीमः। “रक्तप्रसाधितमुवः क्षतविग्रहाश्च सुस्था भवन्तु कुरुराजसुताः सभृत्याः”। अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन वीजार्थप्रतिपादनात् नेतुरमङ्गसप्रतिपत्तौ सत्यां द्वितीयं पताकास्थानकम्। “अर्थोपक्षेपकं यत्तुलीनं सविनयं भवेत्। श्लिष्टप्रत्थुत्तरोपेतं तृतीयमिदमुच्यते”। लीनमव्यक्तार्थं श्लिष्टेन सम्बन्धयोग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोपेतं सविनयं विशेषनिश्चयप्राप्त्या सहितं सम्पद्यते यत् तत् तृतीयं पताकास्थानकम्। यथा वेण्यां द्वितीयेऽङ्के। कञ्चुकी। देव! भग्नं भग्नम्। राजा। केन। कञ्चु। भीमेन। राजा। कस्य। कञ्चु। भवतः। राजा। आः किं प्रलपसि। कञ्चु। सभयं देव! ननु व्रवीमि भग्नं भोमेन भवतः। राजा। धिक् वृद्धापसद! कोऽयमद्य ते व्यामोहः। कञ्चु। देव न व्यामोहः सत्यमेव। “मग्नं भीमेन भवतो मरुता रथकेतनम्। पातितं किङ्किणीजालबद्धाक्रन्दमिव क्षितौ”। अत्र दुर्य्योधनोरुभङ्करूपप्रस्तुतसंक्रान्तमर्थोपक्षेपणम्। “द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः। प्रधानार्थान्तराक्षेपी पताकास्थानकं परम्”। यथा रत्नावल्याम् “उद्दामोत्कलिकां विपाण्डुररुचिं प्रारब्धजृम्भां क्षणादायामं श्वसनोद्यमैरविरलैरातन्वतीमात्मनः। अद्योद्यानलतामिमां समदनां नारीमिवान्यां घ्रुवं षश्यन् कोपविपाटलद्युतिमुखं देव्याः करिव्याम्यहम्”। अत्र भाव्यर्थः सूचितः। एतानि चत्वारि पताकास्थानकानि क्वचिन्मङ्गसार्थं कचिदमङ्गलार्थमपि सर्वसन्धिषु भवन्ति। काव्यकर्तुरिच्छावशाद् भूयोऽपि भवन्ति”।

पताकिक = त्रि० पताका अस्त्यस्य ब्रीह्या० वा ठन्। पताकायुक्ते।

पताकिन् = त्रि० पताका + अस्त्यर्थे ब्रीह्यानं वा इनि। पताकायुक्ते जन्मलग्ने ग्रहविशेषवेथवशात् तदीयदण्डपलादिजन्मतः फलविशेषसूचके चक्रभेदे तत्स्वरूपादिकं ज्यो० त० उक्तं यथा

“तिर्य्यगूर्द्ध्वगता रेखास्तिस्रोदेयाः पताकया। युताः कार्य्या वेधविदा सर्वसङ्गतरेखया। दक्षस्थोद्गतरेखातो वामं मेषादिराशयः। पञ्चाष्टयुग्मविंशाश्च षड्दशेन्द्राग्निसागराः। कर्कटान्नीनपर्य्यन्तमङ्का देया यथाक्रमम्। वाकस्य जन्मकासीनग्रहलग्नमजादिषु। विन्यस्य चिन्तयेत् प्राज्ञः शुभाशुभं यथाक्रभम्। शुभदण्डयोगवेधैर्लग्नाद्यालस्य शोभनम्। पापदण्डयोगवेधैराश्यङ्काद्रिष्टिकालवित्। बलाधिके दिनं, मध्ये मासो, हीने च हायनम्। कर्कोमीनधनुर्भ्याञ्च हरिः कीटघटेन च। स्त्रियास्तौलिमृगाभ्याञ्च घटे मीनेन कन्थया। धनुषो मृगकर्किभ्यां मकरे धनुषा स्त्रिया। मीने कर्कितुलामृद्भ्यां मीनस्त्रीधनुधा त्वजे। तुलाकर्किमृगैर्द्वन्द्वे कीटकुम्भवृषेषु च। सिंहवद्बेध एतेषु वामदक्षिणसम्मुखे। राहुकेत्वर्कसौरारैः पापैर्बिद्धो युतोऽशुभः। तदन्यैर्युतविद्धस्तु लग्नराशिः शुभप्रदः। एकोनविंशतिः कर्के सिंहे सप्तदशैव तु। षट् त्रिंशदबलायाञ्च षड्विंशतिस्तुलाधरे। वृश्चिके सिंहवज्ज्ञेयमूनत्रिंशच्छरासने। षड्विंशं मकरे ज्ञेयं, कुम्भे सप्तदश स्मृताः। नवयुन्मे तथा मीने मेषे षड्दशभिस्तथा। वृषभे च यथा सिंहे युम्मेऽङ्कहरलोचने। त्रिनयाङ्कादियं संख्या दिनमासाव्दनिर्णये। एकाङ्कात् द्विगृहाङ्काद्वा क्वचिद्रिष्टेश्च सम्मवः। वारेशादर्द्धयामेषु रात्र्यह्नोः पञ्चषट्क्रमात्। अधिपाः स्युर्ग्रहास्तत्र यथार्काहे भवन्ति हि। रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि। रविशुक्रज्ञरात्रीशशनीज्यकुजभास्कराः। दिने, तूह्याः परेष्वेवं तथा रात्रावपि ग्रहाः। पापदण्डे भवेदिष्टिः शुभदण्डे शुभं मवेत्। शुभग्रहस्य दण्डे तु कर्मारम्भाच्छुभं भवेत्। आरम्भात् पापदण्डे तु कर्म निष्कलतां व्रर्जत्। यस्यार्द्धयामस्तस्यैव प्राग्दण्डः समुदाहृतः। षट्षटपरीत्य दण्डाश्च त्रयो रात्रौ मतास्तथा। आदित्ये मृगुजो बुधोऽपि च शशी, सोमे शनीज्यौ कुजो, भौमेऽर्कः सितसोमभजौ, च शशिज्रे सोमः शनिर्वाक्पतिः। जीवेऽङ्गाररवी भृगुर्भृगुसुते सौम्येन्दुमार्त्तण्डजाः। काले जीवमहीजतिग्मकिरणा रात्रौ च दण्डाधिपाः। यामार्द्धाघिपसंख्यातो द्वितीयस्तु तदर्द्धतः। तदर्द्धात् तु तृतीयः स्यात्तदर्द्धात् तु तुरीयकः। अङ्काभावे तु राहुः स्यात्तदङ्को वसुसंख्यकः। भग्नाङ्कस्य परित्यागाद्दिवा दण्डाधिपा यथा। रविदनुजबुधग्लौश्चन्द्रसूरासुरज्ञाः कुजरविदनुजज्ञाः ज्ञेन्दुसूराञ्चुराश्च। गुरुशशिरविदैत्याः शुक्रभौमार्कदैत्याः शनिकुजरविदैत्या दण्डपाह्यर्द्धयामे”। दनुजो राहुः। अर्द्धयामे दिनार्द्धप्रहरे। शुभदण्डमाह। “शेषावर्कस्य दण्डौ सततशुभकरावादिशेषौ तथेन्दोः, शेषो दण्डः कुजस्याप्यथ गुरुबुधयोराद्यमाद्यं प्रशस्तम्। आदिर्दण्डस्तथैको भृगुकुलनृपतेः सर्वकार्य्ये हि शस्तो दण्डाश्चत्वार एव क्वचिदपि समये नैव सौरेः प्रशस्ताः। प्रतिदण्डं पलान्येषां ज्ञात्वा वाच्यं क्वचिच्छुभम्। रवौ च वेदा, वसवः सुधांशौ, कुजे च बाणाः शशिजे तथाङ्काः। शनावृतु, र्दिक् च वृहस्पतौ स्याद्राहौ तुरङ्गा भृगुजे च रुद्राः। अशुभे दण्डसंयोगे सर्वत्र पुण्यवर्जिते। बालस्य मरणं शीघ्रं यदि पापैः समन्वितम्। अशुभग्रहदण्डे तु सर्वत्र पापवर्जिते। बालस्य कुशलं सर्वं शुभैर्यदि समन्वितम्। अशुभो दण्डनाथो हि वेधश्चेत्तेन लभ्यते। मरणं तत्र वक्तव्यं वालस्य नान्यथा भवेत्। पापस्य दण्डमात्रे तु तद्योगवेधवर्जिते। वालस्य कशलं तत्र शुभैर्यदि समन्वितम्”। वर्षपताकी तु केतुपताकाशब्दे २२३६ पृ० उक्तः तत्र दृश्यः

पतापत = त्रि० पत–यङ्लुक्–अच् नि०। अतिशयपतनयुक्ते

पति = पु० पा–डति। १ भर्त्तरि ३ स्वामिनि च तत्स्त्रियां “पत्युर्नो यज्ञसम्बन्घे” पा० न ङीप् च पत्नी। पतिकृतयज्ञफलभागिन्याम् स्त्रियां “विभाषा सपूर्वस्य” पा० गृहस्य पतिः गृहपतिः गृहपत्नी वा। बहुब्रीहावपि शूद्रः पतिर्यस्याः शूद्रपत्नी शूद्रपतिः। पतिशब्दस्य समास एव घिसंज्ञा श्रीपतये श्रीपतेः इत्यादि असमासे तु न घिसंज्ञा पत्या पत्ये इत्यादि आर्षे क्वचित् असमासेऽपि घित्वम् “क्लीवे वा पतीते पतौ” पराशरः “सीतायाः पतये नमः” इत्यादि पतिसेवनप्रकारादिकं यथा “व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी। तपश्चानशनञ्चैब व्रतं दानादिकञ्च यत्। भर्तुरपियकारिण्याः सर्वं मवति निष्फलम्। यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया। पतिव्रताव्रतार्थञ्च पतिरूपी हरिः स्वयम्। सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम्। सर्वं व्रत तपः सर्वमुपवासादिकञ्च यत्। सर्वधर्मश्च सत्यञ्च सर्वदेवप्रपूजनम्। तत्सर्वं स्वामिसेवायाः कलां नार्हन्ति षोडशीम्। सुपुण्ये भारते वर्षे पतिसेवां करोति या। वैकुण्ठं स्वामिना स्वार्द्धं सा याति ब्रह्मणः शतम्। विप्रियं कुरुते मर्त्तुर्विप्रियं वदति प्रियम्। असत्कुल प्रयाता या तत्फलं श्रूयतां सति!। कुम्भीपाकं व्रजेत् सा च यावच्चन्द्रदिवाकरौ। ततो भवति चाण्डाली पतिपुत्रविवर्जिता” ब्रह्म० वै० प्र० ४३ अ०। पतिसेवाप्रकारस्तु भा० व० २३२ अ० द्रौपद्या सत्यभामां प्रति उक्तस्तत्र दृश्यः। अघिकम् उक्तं पतिव्रताशब्देदृश्यम्।

पतिंवरा = स्त्री पतिं वृणोति वृ–खच् मुम्। १ स्वय पतिवसणकारिकायां कन्यायाम् स्वयंवरायाम्। २ कृष्णजीरके शब्दच ०।

पतिघातिनी = स्त्री पतिं हन्ति हन–णिनि ६ त०। पतिनाशिकायां स्त्रियां तत्सूचकयोगश्च कर्कटे लग्ने कर्कटे चन्द्रे वा सौरत्रिंशांशजन्मेति वृ० जा० उक्तं यथा “स्वच्छन्दा पतिघातिनी वहुगुणा शिल्पिन्यसाध्वीन्दुभे” मू० “इन्दुभे कर्कटे लग्ने तद्गते वा चन्द्रे भौमत्रिंशांशकजाता स्वच्छन्दा स्वैरिणी यटेष्टव्यवहारिणी भवति सौरत्रिंशांशकजाता पतिघातिनी भवति” भट्टोत्पलः।

पतिघ्न = त्रि० पतिं हन्ति हन–“लक्षणे जायापत्योष्टक्” पा० टक्। पतिनाशसूचके लक्षणभेदे स्त्रियां ङीप्। पतिघ्नी पाणिरेस्खा। विवाहात् प्राक् क्षेत्रादिमृत्पिण्डाष्टकस्य कुमार्य्यै परीक्षार्थं दाने श्मशानजातमृत्पिण्डस्य कुमार्य्या ग्रहणे तस्याः पतिहननफलमुक्तम् आश्व० गृ० १। ५। ६ “अष्टौ पिण्डान् कृत्वा पिण्डानभिमन्त्र्य कुमारीं ब्रूयादेषामेकं गृहाणेति” इति नियोजिता कुमारी यदि श्मशानादाहृतां मृदं गृह्णाति तदा पतिघ्नीति विद्यात् तदुक्तं तत्रैव ६ क० “श्मशानात् पतिघ्नीति”।

पतित = त्रि० पत–गत्यर्थत्वात् कर्त्तरि क्त सनि वेट्कत्वेऽपि पतेः पृथग्ग्रहणात् इट् प्रतधातौ पित्सतीत्येकरूपलिखनं प्रमादात् पणे पिपतिषतीति रूपान्तरं भवतीति बोध्यम्। १ पतनकर्त्तरि २ नरकगमनसूचककर्मविशेषकारके स च कर्मविशेषः पतितलक्षणविघया प्रा० वि० निर्णीतो यथा गोतमः “व्रह्महा सुरापः गुरुतल्पगः मातृपितृयोनिसम्बद्धागस्तेननास्तिकनिन्दितकर्माभ्यासी पतितात्याम्यपतितत्यागिनश्च पतिताः पातकसंयोजकाश्च तैश्चाव्दं समाचरन्निति”। पातकसंयोजकाः सुरापानादौ परान् प्तयोजयन्ति। इत्युपक्रमे सामान्यशक्तस्यापि विशेषशक्ति र्भ्रविष्यति मृपादिपदस्येव पशौ, हारीतेन विशेषगणने पाठात्। तथा च्यवनः “अथ पातकोपपातकमहापातकानि व्याख्यास्यामः इति। तथा च पठन्ति “महापातकतुल्यानि पापान्युक्तानि यानि च। तानि पातकसंज्ञानि तदूनमुपपातकम्”। अतो महापातकतुल्यपापविशेषेऽप्यस्य शक्तिः। पतनशब्दार्थमाह गोतमः “द्विजातिकर्मभ्यो हानिः पतनं परत्र चासिद्धिस्तमेके नर- कम्”। द्विजातिकर्म श्रौतमग्निहोत्रादि स्मार्त्तमष्टकादि प्रायश्चित्ततदङ्गजपादिव्यतिरिक्तं तेभ्यो हानिरनधिकारः इति द्विजातिग्रहणं प्राधान्यार्थं शूद्रस्यापि वाक्यान्तरेण पातित्याभिधानात्। इह लोके तावत् पातित्यलक्षणमनिष्टं परलोके चासिद्धिः पातककर्मपतिबन्धात् उपात्तसुकृतफलानिष्पत्तिः नरकं वा सूतकादिव्यावृत्त्यर्थमिदम्। द्विजातिकर्मानधिकारश्च महापातके श्रूयते यथा देवलः “पञ्चैतानि महापातकानि कृत्वा ब्राह्मणः सद्भिर्नानुभाष्यो नानुग्राह्योऽभिशस्तः सर्वकर्मवर्जितः पतिततमो भवति”। महापाबक्यधिकारे मनुः “असम्भाष्याह्यसंभोज्या अविवाह्या ह्यपाठिनः। धरेयुः पृथिवीं दीनाः सर्वधर्मवहिष्कृताः”। अतो महापातकेषु द्विजातिकर्मानधिकारः तद्विहितद्वादशवार्षिकप्रायश्चित्तापनेयत्वादतिपातकानुषातकयीरपि। अतो द्वादशवार्षिकप्रायश्चित्तापनेयार्हं ग्रापं पतनम्। अर्हता च सामान्यबोधितत्वं तच्च स्त्रीत्वा दिनाऽसम्पूर्णानुष्ठानेऽप्यस्त्येव कृष्णले इवावघातस्य। अथ वा द्विजातिकर्मानधिकारापादकं पाग्रं पतनम् अनधिकारश्च महापातके श्रुतएव अनुपातकेऽपि तत्समत्वात् उपपातकादौ च क्वचित् पततीति श्रुतेः अतिपातके ततो गुरुत्वात् लभ्यते। यद्वा महापातकानपकृष्टं पापं पतनम् अनुपातकस्य तत्समत्वात् उपपातकादेः कचित् पततीत्यभिधानात् अनपकर्षएव, अस्वजनब्राह्मणीगमने पतनपाताद्युत्पत्तिश्रवणादनपकर्षएव। अतएव “सद्यः पतति मांसेनेति” शूद्रावेदी पतत्यत्रे” रित्यादिमनुवचनं निन्दार्थम्। ३ स्वधर्मच्युते “स्वधर्मं यः परित्यज्य परधर्मं समाश्रयेत्। अनापदि स विद्वद्भिः पतितः परिकीर्त्तितः” मार्क० पु० चाण्डालान्त्यादिस्त्रीगमनादिकमभ्यासकृतं पातित्यकारणम् “चाण्डालान्त्यस्त्रियो गत्वा भक्त्वा च प्रतिगृह्य च। पतत्यज्ञानतो विंप्रो ज्ञानात्साम्यं तु गच्छति” मत्स्यपु०। अन्यान्यपि कतिचित् कर्माणि पतितानामिव दाहनिषेधप्रयीजकान्युक्तानि शु० त० ब्रह्मपु० “गराग्निविषदात्तैव पाषण्डाः क्रूरबुद्धयः। क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम्। गिरिवृक्ष प्रपातञ्च ये कुर्वन्ति नराधमाः कुशिल्पजीविनश्चैव सूनालङ्कारकारिणः” तथा “ब्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः। महापातकिनो ये च पतितास्ते प्रकी र्त्तिताः। पतितानां न दाहः। स्यान्नान्त्येष्टिर्नास्थिस० ञ्चयः। न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं न्नचित्” शु० त० ब्रह्मपु०। तेषां संसर्गनिषेधो यथा “आसनाच्छशयनाच्चैकभोजनात् कथनादिषु। संवत्सरेण पतति पतितेन सहाचरन्” वराहपु० “पतितैः संप्रयुक्तानामिमां शृणुत निष्कृतिम्। संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद्यौनाद्यान पानाशनासनात। यो येन पतितेनैव संसर्गं याति मानवः। स तस्यैव व्रतं कुर्य्यात् संसर्गस्य विशुद्धये” तत्र पादोनं प्रायश्चित्तमिति तत्र स्थितम्। “पतितस्योदकं कार्य्यं सपिण्डैर्ब्राह्मणैः सह। निन्दितेऽहनि सायाह्ने ज्ञातिभिर्गुरुसन्निधौ। दासी घटमपां पूर्णं पर्य्यस्येत् प्रेतवत् सदा। अहोरात्रमुपासीनं नाशौचं ब्राह्मणैः सह। निवर्त्तयेरंस्तस्मात्तु सम्भाषणसहासनम्” मात्स्ये २०१ अ०। “पतिता गुरवस्ताज्या न तु माता कदाचन। गर्भधारणपोषाभ्यां तेन माता गरीयसी” मत्स्यपु०।

पतित्वन = न० यौवने ऋ० १०। ४०९ भाष्ये दृश्यम्।

पतिदेबता = स्त्री पतिरेव देवता यस्याः। पतिव्रतायाम् पतिदैवताऽप्यत्र।

पतिद्विष् = स्त्री पत्ये द्वेष्टि द्विष–क्विप् ४ त०। पत्ये द्वेषकारिण्याम्।

पतिमती = स्त्री पति + अस्त्यर्थे मतुप् ङीप्। स्वामियुक्तायां भूम्यादौ।

पतिलोक = पु० पतिभोग्यो लोकः स्वर्गादिः शा० त०। पत्या० सहघर्माचरणेन प्राप्ये स्वर्गादिलोके मनुः ५ १५६

पतिवत्नी = स्त्री पति + अस्त्यर्थे मतुप् नि० सधवायां मस्य वः नुक् च। सभर्तृकायां स्त्रियाम् अमरः। तद्भिन्नायान्तु पतिमतीत्येव सि० कौ०।

पतिवेदन = पु० पतिं वेदयति विद–लाभे णिच्–ल्यु। पतिप्रापके महादेवे “त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम्” यजु० ३। ६०

पतिव्रता = स्त्री पतिर्व्रतमिव नियतोपास्यत्वात् यस्याः। साध्व्यां स्त्रियाम् अमरः तद्धर्माश्च काशी० ख० ४ अ० उक्ता यथा

“पतिब्रतेयं कल्याणी लोपामुद्रा सधर्मिणी। तवाङ्गच्छायया तुल्या यत्कथा पुण्यकारिणी। पतिव्रतास्वरुन्धत्या सावित्र्याप्यनुसूयया। शाण्डिल्यया च सत्या च लक्ष्म्या च शतरूपया। मेनया च सुनीत्या च मंज्ञया स्वाहया तथा। तथैमा वर्ण्यते श्रेष्ठा न तथान्येति निश्चितम्। भुङ्क्ते भुक्ते त्वयि मुने! तिष्ठति त्वयि तिष्ठति। विनिद्रिते च निद्राति प्रथमं प्रतिबुध्यते। अनलङ्कृतमात्मानं तव नो दर्शयेत् कचित्। कार्य्यार्थं प्रोषिते क्वापि सर्वमण्डनवर्जिता। न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये। पुरुषान्तरनामापि न गृह्णाति कदाचन। आक्रुष्टाषि नचाक्रोशेत् ताडिताषि प्रसीदति। इदं कुरु कृतं स्वामिन्! मन्यतामिति वक्ति च। आहूता गृहकर्मणि त्यक्त्वा गच्छति सत्वरम्। किमर्थं व्याहृता नाथ! सप्रसादोऽभिधोयताम्। न चिरं तिष्ठते द्वारि न द्वारमुपसेवते। अदापितं त्वया किञ्चित् कस्मैचिन्न ददात्यपि। पूजोपकरणं सर्वमनुक्ता साधयेत् स्वयम्। नियमोदकबर्हींषि पत्रपुष्याक्षतादिकम्। प्रतीणामाणावसरं यथाकालोचितं हि यत्। तदुपस्थापयेत् सर्वमनुद्विग्नाति हृष्टवत्। सेवते भर्तुरुच्छिष्टमिष्टमन्नकलादिकम्। महाप्रसाद इत्युक्त्वा पतिदत्तं प्रतीच्छति। अविभज्य न चाश्रीयात् देवपित्रतिथिष्वपि। परिचारकवर्गेषु नोषु भिक्षुकुलेषु च। संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी। कुर्य्यात् त्वयाऽननुज्ञाता नीषवास व्रतादिकम्। दूरतो वर्जयेदेषा ममाजोत्सवदर्शनम्। न गच्छेत् तोर्थयात्रादिविवाहप्रेक्षणादिषु। सुखसुप्तं सुखासीनं वसन्तञ्च यदृच्छया। आन्तरेष्वपि कार्य्येषु पतिं नोत्थापयेत् क्वचित्। स्त्रीधर्मिणी त्रिरानन्तु स्वमुखं नैव दर्शयेत्। स्ववाक्यं श्रावयेन्नापि यावत् स्नाता न शुध्यति। सुस्नाता भर्तृवदनमीक्षतेऽन्यख न क्वचित्। अथ वा मनसि ध्यात्वा पतिं भानुं विलोकयेत्। हरिद्रां कुङ्कुमञ्चैव सिन्दूरं कज्जलं तथा। कूर्पासकञ्च ताम्बूलं माङ्गल्याभरणं तथा। केशसंस्कार कवरीकरकर्णविभूषणम्। भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता। न रजक्या न हैतुक्या तथा श्रमणया न च। न च दुर्भगया क्वापि सणित्वं कुरुते सती। भर्तृविद्वेषिणीं नारीं नैषा सम्भाषते क्वचित्। नैकाकिनी क्वचिद्भूयान्न लग्ना स्न्याति च क्वचित्। नोदूखले न नुषले न वर्द्धन्यां दृषद्यपि। न यन्त्रके न देहल्यां सती चीपविशेत् क्वचित्। विना व्यवायसमयं प्रागल्भ्यं न क्वचिच्चरेत्। यत्र यत्र रुचिर्भर्तुस्तत्र प्रेमबती सदा। इदमेव व्रतं स्त्रीणामयमेको वृषः परः। इयमेका देवपूजा भर्तुर्वाक्यं न लङ्वयेत्। क्लीवं वा दुरवस्थं वा व्याधितं वृद्धमेव वा। सुस्थितं दुस्थितं वापि पतिमेकं न लङ्घयेत्। हृष्टा हृष्टे विषण्णास्या विषण्णास्ये प्रिये सदा। एकरूपा भवेत् पुण्या सम्पत्सु च विपत्सु च। सर्पिर्लवणतैलादिक्षयेऽपि च पतिब्रता। पतिं नास्तीति न ब्रूयादायासेषू न योजयेत्। तीर्थस्नानार्थिनी नारी पतिपादोदकं पिवेत्। शङ्करादपि विष्णोर्वा पतिरेकोऽधिकः स्त्रियाः। व्रतोपवासनियमं पतिमुल्लङ्य नाचरेत्। आयुष्यं हरते भर्तुर्मृता निरयमृच्छति। भर्तुः प्रत्युत्तरं दद्यान्नारी या क्रोधतत्परा। कुक्कुरी जायते ग्रामे शृगालो निर्जने वने। स्त्रीणां हि परमश्चैको नियमः समुदाहृतः। कभ्यर्च्य चरणौ भर्तुर्भोक्तव्यं कृतनिश्चयम्। उच्चासनं न सेवेत न ब्रजेत् परवेश्मसु। न त्रपाकरवाक्यानि वक्तव्यानि कदाचन। अपवादो न वक्तव्यः कलहं दूरतस्त्यजेत्। गुरूणां सन्निधौ चापि नोच्चैर्ब्रूयान्न वा हसेत्। या भर्त्तारं परित्यज्य रहञ्चरति दुर्मतिः। उलूकी जायते क्रूरा वृक्षकोटरशायिवी। ताडिता ताडितुं येच्छेत् सा नारी वृषदंशिका। कटाक्षयति याऽन्यंवै केकराक्षी तु सा भवेत्। या भर्त्तारं परित्यज्य मिष्टमश्नाति केवलम्। ग्रामे सा शूकरी भूयाद्बहिर्वा तुषविड्भुजा। बा हुङ्कृत्य प्रियं ब्रूते सा मूका जायते खलु। या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनः पुनः। वृष्टिं विलुप्य भर्त्तुर्या कञ्चिदम्यं समीक्षते। काणा वा विमुखी वावि कुरूपापि च जायते। वाह्यादायान्तमालोक्य त्वरिता च जलासनैः। ताम्बूलैर्व्यजनैश्चैव पादमंवाहनादिभिः। तथैव चाटुवचनैः खेदसंनोदनैः परैः। या पियं प्रीणयेत् प्रीता त्रिलोकी प्रीणिता तया। मितं ददाति हि पिता मितं भ्राता मितं सुनः। अमितस्य हि दातारं मर्तारं षूजयेत् सदा। भर्त्ता देवो गुरुर्भर्त्ता धर्मतीर्थव्रतानि च। तस्मात् सर्वं परित्यज्य पतिमेकं समर्च्चयेत्। जीवहीनो यथा देहः क्षणादशुचितां व्रजेत्। गर्तृहीना तथा योषा सुस्नाताप्यशुचिः सदा। अमङ्गलेभ्यः सर्वेभ्यो बिधवाह्यत्यमङ्गला। विधवादर्शनात् सिद्धिर्जातु यातुर्न जायते। विहाय मातरं चैकां सर्वामङ्गलवर्जिताम्। तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम्। कन्यां विवाहसमये वाचयेयुरिति द्विजाः। पत्युः सहचरी भूया जीवतोऽजीवतः सदा। भर्त्ता सदानुयातव्यो देहवत् छायया स्त्रिया। चन्द्रमा ज्योत्स्नया यद्वद्विद्युत्वान् विद्युता यथा। अनुव्रजन्ती भर्त्तारं गृहात् पितृवनं मुदा। पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम्। व्यालग्राही यथा व्यालं बलादुद्धरते बिलात्। एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं नयेत् सती। यमदूताः पलायन्ते सतीमालोक्य दूरतः। अपि दुष्कृतकर्माणं समुत्सृज्य च तत्पतिम्। न तथा विभिमो वह्नेर्न तथा विद्युतो यथा। आपतन्तीं समालोक्य वयं दूताः पतिव्रताम्। तपनस्तप्यतेऽत्यन्तं दहनोऽपि च दह्यते। कम्पन्ते सर्वतेजांसि दृष्ट्वा पातिव्रतं महः। यावत् स्वलोमसंख्यास्ति तावत् कोट्ययुतानि च। भर्ता स्वर्गसुखं भुङ्क्ते रममाणा पतिव्रता। धन्या सा जननी लोके धन्योऽसौ जनकः पुनः। धन्यः स च पतिः श्रीमान् येषां गेहे पतिव्रता। पितृवंश्या मातृबंश्याः पतिवंश्यास्त्रयस्त्रयः। पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुञ्जते। शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम्। पितुर्मातुस्तथा पत्युरिहामुत्र च दुःखिता। पतिव्रतायाश्चरणी यत्र यत्र स्पृशेद् भुवम्। तत्रेति भूमिर्मन्येत नात्र भारोऽस्ति पावनी। बिभ्यत् पतिब्रतास्पर्शं कुरुते भानुमानपि। सोमो गन्धवहश्चापि स्वपवित्राय नान्यथा। आपः पतिव्रतास्पशंमभिलिप्सन्ति सर्वदा। अद्य जाड्यविनाशो नो जातास्त्वद्यापि पावनाः। गृहे गृहे न किं नार्य्यो रूपलाबण्यगर्विताः। परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता। भार्य्या मूलं गृहस्यस्य भार्य्या मूलं सुखस्य च। भार्य्या धर्मफलावाप्त्यै भार्य्या सन्तानवृद्धये। परलोकस्त्वयं लोको जीयते भार्य्यया द्वयम्। देवपित्रतिथीज्यादि नाभार्य्यः कर्म चार्हति। गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता। ग्रस्यतेऽन्यः पतिपदं राक्षस्या जरयाऽथ वा। यथा गङ्गावगाहेन शरीरं पावनं भवेत्। तथा पतिव्रतादृष्ट्या शुभया पायनं मवेत्”। “आर्त्तार्त्ते मुदिते हृष्टा प्रोषिते मलिना कृशा। मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता” शु० त०।

पतिष्ठ = त्रि० अतिशयेन पतिता इष्ठन् तृणो लोषः अतिशशयेन पतितरि ऋ० १०। १६५। ५ उदा०। ईयसन् पतीयस् तत्रार्थे त्रि० पञ्चमीष्म ब्रा० ५। १। १२ उदा० स्त्रियां ङीप्।

पतेर = पुंस्त्री पत–एर। १ खगे उज्ज्वल० स्त्रियां जातित्वात् ङीष्। २ गन्तरि त्रि० ३ आढके ४ गर्त्ते च पु० संक्षिप्तसा०

पत्काषिन् = त्रि० पादेन कषति गच्छति कष–णिनि षदादेशः ३ त०। पादेन गन्तरि। मट्टिः ३। ४ उदाहरणं द्रष्टव्यम्।

पत्तङ्ग = न० पत्राङ्ग + पृषो०। रक्तचन्दने (वकम) वृक्षभेदे शब्दर०। “पत्तङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत्। हरिचन्दनवज्ज्ञेयं विशेषाद्दाहनाशनम्” मावप्र०।

पत्त = पु० पतत्यनेन पत–बा० करणे तक् नेट्। पादे “निशीर्षतो निपत्ततः” अथ० ६। १३१। १

पत्तन = न० पतत्यत्र बा० आघारे तन। १ नगरे महापुर्य्याम् अमरः २ मृदङ्गे हारा०।

पत्तनाधिपति = पु० ६ त०। राजभेदे भा० अ० १८६ अ०।

पत्तरङ्ग = पु० पट्टरङ्ग + पृषो०। (वकम्) वृक्षे

पत्ति = पु० पद–तिन्। १ सेनायाम्। २ वीरे विश्वः क्तिन्। ३ गतौ (१ रथः २ गजः ३ अश्वाः ५ सेनाः) एतत् संख्यान्विते ४ सेनाभेदे च स्त्री। “एको रथो गजश्चैको नराः पञ्च पदातयः। त्रयश्च तुरशास्तज्ज्ञैः पत्तिरित्यभिधीयते” भा० आ० १ अ०। ५ पञ्चपञ्चाशदात्मकनरसैन्ये “नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते” भा० उ० १५४ अ०।

पत्तिगणक = त्रि० पत्तिं गणयति गण–अक अकान्तत्वेऽपि याज्रका० ६ त० स०। पत्तीनां गणयितरि। ततः उद्गात्रा० भावे अञ्। पात्तिगणक तद्भावे।

पत्तिन् = त्रि० पद्भ्यां तेलति तिल–गतौ वा० डिन्। पद्भ्या गन्तरि। “पत्रिनो भुवि चैकस्य गोपस्याल्पबलीयसः” हरिवं० १०० अ०।

पत्तिसंहति = स्त्री ६ त०। पादाते सेनावृन्दे अमरः।

पत्तूर = पु० पत–बा० ऊर वल्लूरा० निपा०। १ शालिञ्चशाके त्रिका० २ पत्तङ्गे रक्तचन्दने न० शब्दच०।

पत्त्र(त्र) = न० पत–ष्ट्रन् “झरोझरि सवर्णे” पा० वा तलोपः। १ वाहनमात्रे २ पर्णे ३ पक्षिणां पक्षे अमरः। ४ लेखनाधारे(पात्) इति ख्याते पदार्थे ५ धातुमयपत्त्राकारे द्रव्ये च “सुवर्णपत्राभरणा च कार्य्या सुलोहपार्श्वद्वयशृङ्खलाभिः” ६ लिप्यां स्त्री ङीप्। ७ तेजपत्रे राजनि० “पत्रकं मधुरं किञ्चित्तीक्ष्णोष्णं पिच्छिलं लघु। निहन्ति कफवातार्शोहृल्लासारुचिपीनसान्” भावप्र०। तत्र लिखनाधारपत्रे “षाण्मासिके तु सम्प्राप्ते भ्रान्तिः संजायते यतः। वात्राक्षराणि सूष्टानि पत्रारूढान्यतः पुरा” ज्यो० त०। तस्य रञ्जनं यथा “सुवर्णरूप्यरङ्गाद्यै रञ्जयेत् पत्रमुत्तमम्। सामान्योत्तममध्यानां पत्ररञ्जनमीरितम्” तत्प्रमाणम् “षडङ्गलाधिकं हस्त” पत्रमुत्तममीरितम्। मध्यम हस्तमात्रं स्यात् सामान्यं मुष्टिहस्तकम्” पत्रभङ्गप्रकारः “पत्रन्तु त्रिगुणीकृत्य ऊर्द्ध्वे तु द्विगुणं त्यजेत्। शेषभागे लिखेद्वर्णान् गद्य पद्यादिसंयुतान्” पत्रस्य रचनाक्रमः “राजलेखक माहूय नृपो ब्रूयात् प्रयत्नतः। पत्रं कुरु यथायोग्यं गद्यपद्यादिसंयुतम्। पण्डितद्वयमानीय लेखको रहसि स्थितः। यथायोग्यानुसारेण पत्रं कुर्य्यान्मनोरमम्। दिनद्वयं त्रयं वापि विचार्य्य पण्डितेन वै। स्वभ्रान्तेर्दूषणं ज्ञात्वा विलिखेत् पत्रपुस्तके। सामान्यपत्रे संलिख्य रहसि श्रावयेन्नृपम्। नृपाज्ञया शुभे पत्रे विलिखेद्राजलेखकः” लेखनप्रकारः “अङ्कुशं प्रथमं दद्यान्मङ्गलार्थं विचक्षणः। मध्ये विन्दु समायुक्तमधः सप्ताङ्कसंयुतम्। तदधः स्वस्ति विन्यस्य ततो गद्यं सुशोभनम्। ततः श्रीशब्दरूपाणि पदन्यासक्रमं लिखेत्। भाषया संस्कृतेनापि कुशलं विलिखेत् सुधीः। ततः शुभाशुभां वार्त्तां संस्कृतैः प्राकृतैस्तथा। ततः प्रमाणसन्देशं ततो वार्त्तां नियोजयेत्। कीर्त्तिप्रोतियुतं पद्यं ततः किमधिकादिकम्। पत्रपेषणश्लोकञ्च अव्दमासादिसंयुतम्। सर्वेषामेव पत्रेषु लिखनं चैवमीरितम्। सर्वेषामेब पत्राणां विधिं ज्ञात्वा लिखेत्तु यः। स्वदेशे कीर्त्तिमाप्नोति तथा देशान्तरेष्वपि। एवं शास्त्रक्रमं ज्ञात्वा यो लिखेद्राजपत्रकम्। स राजमन्त्रिभिः सार्द्धं यशः प्राप्नोत्यनुत्तमम्। शास्त्रसन्दर्भमज्ञात्वा यो लिखेद्राजपत्रकम्। स राजमन्त्रिभिः सार्द्धं दुर्यशो महदाप्नुयात्”। पत्रनयनक्रमः। “राजपत्रं नयेन्मूर्द्ध्रि ललाटे पात्रमन्त्रिणाम्। गुरुपत्रं नयेन्मूर्ध्नि ब्राह्मणानां तथैव च। यतिसन्न्यासिनाञ्चैव स्वामिनश्च तथैव च। सादरेणैव यत्नेन तथा मूर्द्धनि धारयेत्। मार्य्यापुत्रस्य मित्रस्य हृदये धारयेत् सुधीः। प्रवोराणां कण्ठदेशे पत्रधारणमीरितम्। एतेषाञ्चैव पत्राणामुक्तधारणलक्षणम्। अन्येषामपि षत्राणां नियमो नात्र दर्शितः”। पत्रपठनप्रकारः “पत्रं घृत्वा नमस्कृत्य पूर्वाग्रं स्याप्रयेत् सुधी। दक्षिणाग्रं तु सदसि नृपाग्रे राजलेखकः। पत्रं वितत्य सदसि द्विवारं मनसा पठेत्। स्फुटं पश्चात् प्रवक्तव्यमक्षीभी राजलेखकः। रहसि श्रावयेत् पत्रं शुभं वा यदि वाऽशुभम्। पत्रं श्रुत्वा विदित्वार्थं सभायां श्रावयेत्ततः। रहस्यपत्रं रहसि नृपाग्रे श्रावयेद्द्विजः। अशुभं नैव सदसि शुभं पत्रं नृपाज्ञया। एवं क्रमेण पत्रार्थं श्रावयित्वा द्विजो- त्तमः। नृपतेः सन्निधौ स्थित्वा नृपाज्ञामनुवर्त्तते”। पत्रचिह्नानि “ऊर्द्ध्वे षडङ्गुलं त्यक्त्वा वर्तुलं चन्द्रविम्बवत्। कस्तूरीकुङ्कुमैः कुर्य्याद्राजपत्रं सुचिह्नितम्। मन्त्रिणां कुङ्कुमेनैव पण्डितस्यैव चन्दनैः। गुरूणां चन्दनेनैव सिन्दूरेणैव स्वामिनः। भार्य्यायाश्चाप्यलक्तेन चन्दनैः पितृपुत्रयोः। सन्न्यासिनां चन्दनेन यतीनां कुङ्कुगेन च। रक्तचन्दनपङ्केन भृत्यस्य समुदीरितम्। शोणितेनैव शत्रूणां पत्रचिह्नं प्रकल्पयेत्। एतेषाञ्चैव सर्वेषां यथायोग्यानुसारतः। पत्रस्योर्द्ध्वे तु मतिमान् कुर्य्यात् चिह्नं सुवर्तुलम्”। राजपत्रस्य कोणच्छेदनप्रकारः “दक्षिणे पत्रकोणस्य अधस्तात् छेदयेत् सुधीः। एकाङ्गुलप्रमाणेन राजपत्रस्य चैव हि”। राजपत्रादेः पदन्यासः “महाराजाधिराजञ्च दानशौण्डं तथैव च। तथा सच्चरितं योज्यं कल्पवृक्षादिकं न्यसेत्। यथायोग्यानुसारेण तथैव गुणभेदतः। राजपत्रेषु सर्वेषु पदन्यासक्रमं विदुः”। मन्त्रिपत्रस्य “प्रवरं गुणभेदेन तथा सच्चरितादिकम्। विन्यस्य विलिखेत् प्राज्ञो मन्त्रिपत्रे पदक्रमम्”। पण्डितस्य “संख्यावद्वन्दितपदं शास्त्रार्थनिपुणादिकम्। पण्डितानाञ्च पत्रेषु विलिखेद्वै पदक्रमम्”। गुरुपत्रस्य “सांख्यसिद्धान्तनिपुणं सनमस्कारकं पदम्। विन्यस्य विलिखेत् प्राज्ञो गुरुपत्रे पदक्रमम्”। स्वामिपत्रस्य “प्रवर्य्यं सनमस्कारं प्राणप्रियादिकं पदम्। विन्यस्य विलिखेद्धीमान् स्वामिपत्रे पदक्रमम्”। मार्य्यायाः “प्राणप्रियापदं साध्वीपदं सच्चरितादिकम्। भार्य्यापत्रे लिखेद्विद्वान् पदक्रममनुत्तमम्”। पुत्रस्य “प्राणतुल्यपदं तद्वत्तथा सच्चरितादिकम्। आशीर्वचनसंयुक्तं पुत्रपत्रे पदक्रमम्”। पितृपत्रस्य “प्रभुवर्य्यं नमस्कारं तथा सच्चरितादिकम्। विन्यस्य विलिखेत् पुत्रः पितृपत्रे पदक्रमम्”। सन्न्यासिपत्रस्य “सर्बवाञ्छाविनिर्मुक्तं सर्वशास्त्रार्थपारगम्। सन्न्यासियतिपत्रेषु विलिखेच्च पदक्रमम्”। सामान्यस्य “सामान्यभृत्यशत्रूणां विनियोज्यामुकं प्रंति। शस्त्रावशेषितपदं छागतुल्यादिकं तथा। एतेषामेव पत्रेषु यथायोम्यानुसारतः। विन्यस्यः विलिखेत् प्राज्ञः पदक्रममनुत्तमम्”। श्रीशब्दविन्याससंख्या यथा “षड्गुरोः स्वामिनः पञ्च द्वे भृत्ये चतुरो रिपौ। श्रीशब्दानां तयं मिले एकैकं पुत्रमार्य्ययोः” पत्रकौ०। देवभेदे दलरूपपत्रविशेषाणां प्रीतिकरत्वमुक्तं यथा “पत्राण्यपि सपुष्पाणि हरेः प्रीतिकराणि च। प्रवक्ष्यामि नृपश्नेष्ठ! शृणुष्व गदतो मम। अपामार्गकं प्रथमं तस्माद् भृङ्गारकं परम्। तस्मात्तु खादिरं श्रेष्ठं ततश्च शमीपत्रकम्। दुर्वापत्रं ततः श्रेष्ठं ततोऽपि कुशपत्रकम्। पत्रं तस्माद्दमनकं ततो विल्वस्य पत्रकम्। विल्वपत्रादपि हरेस्तुलसीपत्रमुत्तमम्। एतेषां च यथा लब्धैः पत्रैर्वा योऽर्च्चयेद्धरिम्। सर्वपापविनिर्मुक्तो विष्णुलोके महीयते” नरसिंहपु० ५३ अ०। देवीप्रीतिकरपत्राणि यथा “अपामार्गस्य पत्रन्तु ततो भृङ्गारपत्रकम्। ततोऽपि गन्धिनीपत्रं वलाहकमतः परम्। तस्मात् खदिरपत्रं तु वञ्जुलस्तवकस्तथा। आम्रन्तु वकगुच्छस्तु जम्बूपत्नं ततः परम्। वीजपूरस्य पत्रं तु ततोऽपि कुशपत्रकम्। दूर्वाङ्कुरं ततः प्रोक्तं शमीधत्रमतः परम्। पत्रमामलकं तस्माद्दामपत्रमतःपरम्। सर्वतो विल्वपत्रन्तु देव्याः प्रीतिकरं मतम्” कालिकापु०।

पत्त्रक = न० पत्त्र + स्वार्थे क तदिव कायति कै–क वा। १ वृक्षस्य पर्णे २ पत्रावल्यां शब्दर०। ३ तेजपत्रे राजनि० ४ शालिञ्चशाके पु० रत्नमाला। ५ पत्त्रभङ्गे न० शब्दच०।

पत्त्रकाहला = स्त्री १ पिञ्जलायां २ पत्त्रशब्दे च हारा०।

पत्त्रगुप्त = पु० पत्त्रं गुप्तमस्य परनि०। (तेकाटा सिजु) त्रिकण्टे शब्दच०।

पत्त्रघना = ६ त० ३ त०। सातलावृक्षे राजनि०।

पत्त्रङ्ग = न० पत्त्रमज्यते अनेन अन्ज–करणे घञ् शक०। रक्तचन्दनाकारे (वकम) पृक्षे शब्दच०।

पत्त्रझङ्कार = पु० पत्त्रे झङ्कारोऽस्य। पुरोटिवृक्षे (रायभटी) त्रिका०।

पत्त्रणा = स्त्री पत्त्रं नम्यतेऽत्र नम–बा० ड संज्ञात्वात् णत्वम्। पत्ररचनायाम् हारा०।

पत्त्रतण्डुली = स्त्री पत्त्रे तण्डुलाः सन्त्यस्याः अच् गौरा० ङीष्। यवतिक्तायाम् राजनि०।

पत्त्रतरु = पु० पत्त्रप्रधानस्तरुः शा० त०। दुष्खदिरे राजनि०

पत्त्रदारक = पु० पत्त्रमिव दारयति दारि–ण्वुल्। क्रकचे (करात) त्रिका०।

पत्त्रनाडिका = स्त्री ६ त०। पर्णसिरायाम् जटा०।

पत्त्रपरशु = पु० पत्त्रे धातुमयपत्त्रे परशुरिव। (छेनी) ख्याते स्वर्णकारयन्त्रभेदे। पत्त्रपर्शुरप्यत्र शब्दर०।

पत्त्रपाल = पुं असिसुतायां छुरिकायां हेमच०।

पत्त्रपाली = स्त्री पत्राकारा पालिरग्रं यस्याः वा ङीप्। (का~चि) कर्त्तर्य्यां हलायु० तस्याः पर्णतुल्याग्रत्वात्तथात्वम्।

पत्त्रपाश्या = स्त्री पत्रमिव पाश्या। स्वर्णादिरचितललाटालङ्कारभेदे (टीका) अमरः।

पत्त्रपिशाचिका = स्त्री पत्त्रेण पिशाचीव इवार्थे कन्। जलवारणसाधने यन्त्रभेदे (टीका) त्रिका०।

पत्त्रपुष्प = पु० पत्त्रं पुष्पमिवास्य। १ रक्ततुलस्यां शब्द० २ तुलस्यां स्त्री टाप् शब्दमाला। क्षुद्रपत्त्रतुलस्याम् स्त्री रत्नमाला ङीप्। कप्। पत्त्रपुष्पक भुर्जपत्रे शब्दमा०।

पत्त्रबन्ध = पु० पत्त्राकारः बन्धः। पुष्परचनाभेदे शब्दरत्ना०।

पत्त्रभङ्ग = पु० पत्राकारः भङ्गः रचना। स्तनकपोलादौ कस्तूरकादिरचितपत्रश्रेण्यां तिलकभेदे हेम० पत्रभङ्गि, पत्त्रभङ्गीत्यपि तत्र स्त्री शब्दर०।

पत्त्रमञ्जरी = स्त्री ६ त०। १ पर्णस्याग्रभागे २ पत्राकारमञ्जरीयुते तिलकभेदे हेमच०।

पत्त्रमाल = पु० पत्त्राणां माला यत्र। १ वेतमे नैघण्टु० ६ त०। २ तत्समुदाये स्त्री।

पत्त्रमूल = पु० ६ त०। पर्णस्य मूले ततः प्रकारे स्थूला० कन्। पत्रमूलक तत्प्रकारे न०। तत्र गणे पत्रमूलेति व्यस्तं समस्तञ्च तेन पत्रक मूलक तत्तत्प्रकारे न०

पत्त्रयौवन = न० पत्रस्य यौवनमत्र। नवपल्लवे जटाध०

पत्त्ररथ = स्त्री पत्त्रं पक्षो रथ इव यस्य। खगे अमरः जातित्वात् स्त्रियां ङीष्।

पत्त्र(रे)लेखा = स्त्री पत्त्राकारा(रे)लेखा। पत्त्रभङ्गे तिललभेदे हेमच०।

पत्त्रल = न० पत्त्रमिवाकारोऽस्त्यस्य सिध्मा० लच्। द्रप्से (पातालादै) हेमच०।

पत्त्रलता = स्त्री पत्त्राकारा लता यत्र। पत्त्राकारे १ तिलकभेदे हेमच० शा० त०। २ पत्त्रप्रधानलतायाम्।

पत्त्रलबण = न० पत्रविशेषेण पक्वं लबणम् शा० त०। सुश्रुतोक्ते लबणभेदे “गन्धर्वहस्तकमुष्ककनक्तमालाटरूषकपूतीकारग्बधचित्रकादीनां पत्राण्यार्द्राणि लवर्णेन सहोद्रखलेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्द्दाहयेदेतत् पत्रलबणमुपदिशन्ति वातरोगेषु”।

पत्त्रवल्लरी = स्त्री पत्त्रयुक्ता वल्लरीव। तिलकभेदे पत्त्रमङ्गे हेमच० पत्त्रवल्लीत्यप्यत्र।

पत्त्रवाह = पु० पत्त्रं पक्षं लिपिं वा वहति वह–अण् उप० स०। १ पक्षवाहे खगे २ शरे जटा० ३ लिपिवाहके त्रि०।

पत्त्रविशेषक = न० पत्त्रमिव विशेषो यत्र कप्। तिलकभेदे

पत्त्रवृश्चिक = पु० पत्त्रमिव वृश्चिकः। पत्त्राकारे वृपिकभेदे सुश्रु० कीटशब्दे दृश्यम्।

पत्त्रवेष्ट = पु० पत्त्रमिव वेष्ट्यते वेष्ट–कर्मणि घञ्। ताडङ्के रघुः १६। १७ श्लो०।

पत्त्रशाक = पत्त्रात्मकं शाकम्। “पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा। शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम्” भावप्र० उक्ते शाकवर्गमध्ये पत्रात्मकशाके। पत्रशाकानि च वास्तूकादीनि शर्षपान्तानि, पुष्पशाके कदलीपुष्पशाल्मलीपुष्पे, फलशाकानि कुष्माण्डादिकण्टकारीफलान्तानि, नालशाकं सर्षपनालम्। कन्दशाकानि सूरणादिशालूकान्तानि, संस्वेदजशाकं शिलीन्ध्रादि” तत्र दृश्यम्।

पत्त्र(शि)सिरा = स्त्री ६ त०। १ पत्त्रनाड्यां २ पत्त्रभङ्गे हारा०

पत्त्रशृङ्गी = स्त्री पत्त्रं शृङ्गमिवास्याः ङीष्। द्रवन्तीलतायाम् राजनि०।

पत्त्रश्रेणी = स्त्री पत्त्राणां श्रेणीव। १ द्रवन्तीलतायां राजनि० ६ त०। २ पर्णानां पङ्क्तौ च।

पत्त्रश्रेष्ठ = पु० पत्त्रं श्रेष्ठं यस्य। विल्ववृक्षे राजनि०।

पत्त्रसुन्दर = पु० पत्त्रं सुन्दरमस्य। स्वनामख्याते वृक्षभेदे मेदि०।

पत्त्रसूचि = स्त्री न० पत्त्राणां सूचिरिव। कण्टके त्रिका० वा ङीप्।

पत्त्रहिम = न० पत्त्रेषु हिमं यतः। हिमदुर्द्दिने त्रिका०

पत्त्राख्य = न० पत्त्रेति आख्या यत्र। १ तेजशत्रे शब्दच० २ तालीशपत्रे राजनि०।

पत्त्राङ्ग = न० पत्त्रमिबाङ्गमस्य। १ रक्तचन्द्रनाकारे काष्ठभेदे (वकम) अमर। २ भूर्जपत्रवृक्षे ३ पद्मके च मेदि०।

पत्त्राङ्गुलि = स्त्री पत्रमिवाङ्गुलयो यत्र। पत्त्रभङ्गे तिलकभेदे अमरः।

पत्त्राञ्जन = न० पत्त्रमज्यतेऽनेन अन्ज–करणे ल्युट्। मस्याम्। शब्दर०।

पत्त्राढ्य = त्रि० पत्त्रैराढ्यम्। १ बहुपत्त्रयुक्ते २ पिष्पलीमूले ३ पर्वततृणे च न० राजनि०।

पत्त्रान्य = न० पत्राङ्ग + पृषो०। (वकम) काष्ठभेदे राजनि०।

पत्त्राम्ला = स्त्री पत्त्रेणाम्ला। (चुकोपालङ्ग) शाकभेदे नैधण्टु०

पत्त्रालु = पु० पत्त्र + अस्त्यर्थे आलु। १ कासालौ २ इक्षुदर्भे च राजनि०।

पत्त्रावलि = न० पत्त्राणामावलयो यस्मात्। १ गैरिके शब्दाच० ६ त०। २ पत्त्रपङ्क्तौ च।

पत्त्रावली = स्त्री पत्त्राणामावलीव। १ पत्त्रभङ्गे तिसकभेदे शब्दच० ६ त०। २ पत्त्रश्रेणौ च

पत्त्रिका = स्त्री पत्री + स्वार्थे क कापि ह्रस्वः। १ लिप्याम्। पत्रं विद्यतेऽस्याः ठन्। २ प्रशस्तपत्रयुक्तासु नवसु कदल्यादिषु विपत्रिकाशब्दे ३९९० पृ० उदा० दृश्यम्। ३ पत्त्रि- काख्ये क्र्पूरभेदे (पातकपुर) त्रिकाण्डशेषः।

पत्त्रिकाख्य = पत्त्रिका आख्या यस्य। कर्पूरभेदे राजनि०।

पत्त्रिन् = त्रि० पत्त्र + अस्त्यर्थे इनि। १ पर्णयुक्ते २ शरे पु० ३ खगे अमरः ४ श्येनखगे ५ वृक्षे च पु० राजनि० ५ पर्वते पु० मेदि० ६ ताले ७ श्वेतकिणिहीवृक्षे ८ गङ्गपत्त्र्यां ९ पाठायाञ्च राजनि० १० पल्लवे स्त्री शब्दच० ङीप्।

पत्त्री = स्त्री पत–ष्ट्रन् ङीष्। लिपौ

पत्त्रोपस्कर = पु० पत्त्रेणोपस्करोऽस्य। कासमर्दे हारा०

पत्त्योर्ण = न० पत्त्रजाता ऊर्णा साधनत्वेनास्त्यस्य अच्। धौतकौषेये पट्टसूत्रमयवस्त्रे अमरः वदरादिपर्णजातकृमिजातीर्णाजातत्वात्तस्य तथात्वम्।

पत्त्र्य = त्रि० पत्त्रस्य हितं यत्। श्योनाके वृक्षे पु० अमरः

पत्नी = स्त्री पति + “पत्युर्नो यज्ञसम्बन्धे” पा० नः, ङीप् च। १ पतिकृतयज्ञफलभोक्त्र्यां विवाहितायां स्त्रियाम् अमरः “पत्नीमूलं गृहं पुंसां यदि छन्दोऽनुवर्त्तिनी। गृहाश्रम समं नास्ति यदि भार्य्या वशानुगा। तया धर्मार्थकामानां त्रिवर्गफलमश्नुते। प्राकाम्ये वर्त्तमाना तु स्नेहान्न तु निवारिता। अवश्या सा भवेत् पश्चाद् यथा व्याघिरुपेक्षितः। अनुकूला न वाग्दष्टा दक्षा साध्वी प्रियंवदा। आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी। अनुकूलकलत्रो यस्यस्य स्वर्ब इहैव हि। प्रतिकूत्र कलत्रस्य नरको नात्र संशयः। स्वर्गोऽपि दुर्लभं ह्येतदनुरागः परस्परम्। रक्त एको विरक्तोऽन्यस्तस्मात् कष्टतरं नु किम्?। गृहवासः सुखार्थाय पत्नीमूलं गृहे सुखम्। सा पत्नी या विनीता स्याच्चितज्ञा वशवर्त्तिनी। दुःखदाऽन्या सदा खिन्ना चित्तभेदात् परस्परम्। प्रति कूलकलत्रस्य द्विदारस्य विशेषतः। योषित् सर्वा जलौकेव भूषणाच्छादनाशनैः। सुभूत्यापि कृता नित्यं पुरुषं ह्यपकर्षति। जलौका रक्तमादत्ते केवलं सा तपस्विनी। इतरा तु धनं वित्तं मांसं वीर्य्यं बलं सुखम्। सशङ्का बालभावे तु यौवने विसुखी भवेत्। तृणवन्मन्थते पश्चाद्वृद्धभावे स्वकं पतिम्। अनुकूला न श्राग्दुष्टा दक्षा साध्वी पतिव्रता। एभिरेव गुणैर्युक्ता श्रीरेव स्त्री न संशयः। या हृष्टमनसा नित्यं स्थानमान विचक्षणा। भर्तुः प्रीतिकरी नित्यं सा भार्य्या हीतरा ज्वरा” दक्षसं०।

पत्नीशाला(ल) = न० स्त्री ६ त० वा क्लीवत्वम्। पत्न्यधिष्ठितशालायाम्।

पत्नीसंनहन = न० ६ त०। मेखलया योक्त्रेणं व्रा प्रतिप्रस्थातृ- यज्ञदीक्षार्थे यजमानपत्न्या बन्धनभेदे कात्या० श्रौ० ७। ४। ६ सू० ८। १। ७ सूत्रे च दृश्यम्।

पत्नीसंयाज = पु० वैदिके कर्मभेदे स च कात्या० श्रौ० ३। ७। ७ सूत्रादौ उक्तस्तत्रैव दृश्यः। पत्नीसंयाजनमप्यत्र न०। “जाथन्या पत्नीसंयाजनम्” कात्या० श्रौ० ६। ९। १४

पत्न्याट = पु० पत्नी अटत्यत्र अट–आधारे घञ्। पत्न्यगारे त्रिका०।

पत्मन् = पु० पत–भावे मनिन्। १ पतने करणे मनिन्। २ पतनसाधने यजु० ८ ४८ ऋ० ५। ७। ७

पत्वन् = पु० पतत्यत्र + पत–आधारे वनिप्। मार्गे यजु० २२। २९ उज्ज्वलदत्तेन उणादिसूत्रे पदीति पठित्वा पद्वन् इत्युदाहृतम् वेददीपकारस्तु तत्र पतिं मत्वा तन्मन्त्रव्याख्याने पतेः वनिपमाह।

पत्सल = पु० पतत्यत्र पत–आधारे सरन् रस्य लश्च। मार्गे उज्ज्वद०।

पथ = गतौ भ्वा० पर० सक० सेट्। पथति एदित् अपथीत्। ज्वला० पथः पाथः प(पा)थयति। पपाथ पेथतुः।

पथ = गतौ वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। पन्थयति ते पन्थति। अपपन्थत् त। अपन्थीत् इदित् पन्थ्यते

पथ = पु० पथत्यत्र पथ–घञर्ये आधारे क। मार्गे त्रिका०।

पथक = त्रि० पथे कुशवः कन्। १ मार्गकुशले २ कपिलद्राक्षायां स्त्री

पथिक = त्रि० पन्थानं गच्छति पथिन् + कन्। देशान्तरयानाय गृहान्निःसृत्य पथिगन्तरि राजनि०।

पथिकसंहति = पु० ६ त०। पान्थसमूहे हारा०। पथिकसंघातादयोऽप्यत्र।

पथिकार = त्रि० पन्थानं करीति कृ–अण् उप० स०। मार्गकारके, ततः कुर्वा० ण्य। पाथिकार्य्य तदपत्ये पुंस्त्री०।

पथिदेय = न० पथि नार्गे देयम् अलुक्स०। राज्ञे देये करभेदे हारा०।

पथिद्रुम = पु० पथ–इन् कर्म्म०। १ खदिरवृक्षे जटाध० २ श्वेतखदिरे राजनि०।

पथिन् = पु० पथ–आधारे इनि। १ मार्गे तद्भेदलक्षणादिकं यथा “त्रि शद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः। विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु। धनूंषि दशविस्तीर्णः श्रीमान् राजपथः स्मृतः। नृवाजिरथनागानामसम्बाधः सुसञ्चरः। धनूंषि चैव चत्वारि शाखा रथ्यास्तु निर्मिताः। त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यिका। जङ्घापथश्चतुष्पादस्त्रिपादस्तु गृहान्तरम्। वृतीपादस्त्वर्द्वपादः प्राग्वंशः पादकः स्मृतः। अवकरः परीवाहः पादमात्रः समन्ततः” देवीपु०। पथिगमनगुणाः “अध्वा मेदःकफस्थौल्यसौकुमार्य्यादिनाशनः। यत्तु चंक्रमणं नातिदेहपोडाकरं भवेत्। तदायुर्बलमेधाग्निप्रदमिन्द्रियशोधनम्” राजवल्लभः। ३ धर्माचारे च “महाजनोयेन गतः स पन्थाः” मा० व० यक्षप्रश्ने।

पथिरक्षस् = पु० पन्थानं रक्षति रक्ष–असुन् ६ त०। १ रुद्रभेवृ यजु० १६८६ २ मार्गरक्षके त्रि०। णिनि। पथिरक्षिन् तत्रार्थे ऋ० १०। १४। ११।

पथिल = पु० पथे–गतौ इलच्। पथिके उज्ज्वल०।

पथिवाहक = त्रि० पन्थानं वाहयति प्रापयति वाहि–ण्वुल्। १ मार्गवाहके २ शाकुनिके ३ निष्ठुरे च शन्दमाला।

पथीन = नामधातुः पन्था इवाचरति पथिन्–क्विप् दीर्पः मार्गस्येवाचरणे अक० सेट्। पथीनति अपथीनीत्। एवं सथीन ऋभुक्षीण नामधातुः तत्तत्तुल्याचरणे।

पथेष्ठा = त्रि० पथे मार्गे तिष्ठति स्था–क्विप् अलुक्स० वेदे षत्वस्। मार्गे वर्त्तमाने ऋ० ५। ५०। ३। लोके तु पथस्थ इत्येक।

पथ्य = त्रि० पथि साधु दिगा० यत् इनो लोपः। १ मार्गसाघौ पथोऽनपेतः यत्। २ हिते चिकित्सादौ ३ हितकारकारकभोज्यद्रव्यभेदे। पथ्यञ्च अपय्यशब्दे २६६ पृ० सुश्रुतोक्त हिताहितीध्याये दर्शितम्। रोगभेदे पथ्यापश्ह्यङ्ग वैद्यके प्रसिद्धं विस्तरभयान्नोक्तम्। ४ हरितकीवृक्षे पु० शब्दमाला अमरे स्त्री। ५ मृगेर्वारौ ६ चिर्भिटायां ७ बन्द्याकर्कट्याञ्च स्त्री राजनि०। ८ मात्रावृत्तभेदे स्त्री “त्रिष्वंशकेषु दलयोराद्येषु दृश्यते यस्याः। पथ्येति नाम तस्याः प्रकीर्त्तितं नागराजेन” वृ० र०।

पथ्यशाक = पु० पथ्यं शाकमस्य। तण्डुलीयशाके राजनि०।

पथ्यादिगुग्गुलु = पु० औषधिविशेषे यथा “पथ्या विभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम्। प्रस्थेन युक्तञ्च पलंक्रमेण द्रोणे जले संस्थितमेकरात्रम्। अर्द्धावशेषं क्वथितं कषायं भाण्डे पचेत्तत् पुतरेव लोहे। अमूनि वह्नेरवतार्य्य दद्यात् द्रव्याणि संचूर्ण्य पलार्द्धकानि। विडङ्गदन्तीत्रिफलागुडूचीकृष्णात्रिवृन्नागरकोषणानि। यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाष्वपानानि च गोजनानि। निषेव्यमाणी विनिहन्ति रोगान् सगृध्रसीं नूतनखञ्जताञ्च। प्लीहानमुग्रं जौरार्त्तिगुल्मं पाण्डुत्वकण्डुत्वविवातरक्तम्। पथ्यादिको गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रमावः। बलेन नागेन समं मनुष्यं जवेन कुर्य्यात्तुरगेण तुल्यम्। आयुःप्रकर्षं विदधाति चक्षुर्बलं तथापुष्टिकरो विषघ्नः। क्षतम्य सन्धानकरो विशेषाद्रोगेषु शस्तः सकलेवु तजज्ञैः” मावप्र०।

पथ्यावक्त्र = न० “युजोर्जेन सरिद्भर्त्तः पथ्यावक्त्रं प्रकीर्त्तितम्” वृ० र० उक्तलक्षणे मात्रावृत्तभेदे।

***