पट = गतौ भ्वा० पर० सक० सेट्। पटति। अपाटीत् अपटीत्। पपाट पेटतुः। उद् + णिच्। उन्मूलने उत्पाटयति।
पट = दीप्तौ चु० उभ० अक० सेट्। पाटयति ते अपीपटत् त। अव–छेदने सक०। अवपाटयति छिनत्तीत्यर्थः।
पट = वेष्टने अद० चु० उभ० सक० सेट्। पटयति ते अपपटत् त
पट = पु० पट वेष्टने करणे घञर्थे क। १ वस्त्रे अमरः स्त्रीत्वमपि अपटीक्षेपेणेत्युदाहरणदर्शनात्। २ चित्रपटे मेदि० चित्रलेखनपटस्वरूपादि देवीपु० उक्तं यथा “पटस्य लक्षणं वक्ष्ये यथा सिध्यन्ति साधकाः। ग्रन्थिकेशविहीने तु अजीर्णे समतन्तुके। अस्फुटिते चाच्छिद्रे स्थलेनैव समालिखेत्। योगिनीरूपिणी कार्य्या जयाद्यै” परिवारिता। वृद्धेनच भवेद्वृद्धोव्याधिते व्याधितो भवेत्। कुरूपेण कुरुपस्तु सूक्ष्मेण सूक्ष्मतामियात्। लेखकस्य तु यद्रूपं चित्रे भवति तादृशम्”। षटस्यांशभेदच्छेदनादिषु फलं तद्धारणनक्षत्रादिफलं च वृ० सं० ७१ अ० उक्तं यथा
“वस्त्रस्य कोणेष वसन्ति देवा नराश्च पार्श्वान्वदशान्तमध्ये। शेषास्त्रेयश्चात्र निशाचरांशास्तथैव शय्यासनपादुकासु। लिप्ते मसीगोमयकदमाद्यैश्छिन्ने प्रदग्घे स्कुटिते च विद्यात्। पुष्टं नवेऽल्पाल्पतरं च भुक्ते पापं शुभं वाऽधिकमुत्तरीये। रुग्राक्षसाशेष्वथ वासि मृत्युः पुञ्जन्म तेजश्च मनुष्यभागे। भागेऽमरणामथ भोगवृद्धिः प्राल्पेषु सर्वत्र वटन्त्यनिष्टम्। कङ्कप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः। छेदाकृतिर्दैघतभागगापि पुंसां भयं मृत्युसर्म करोति। छत्रध्वजस्वस्तिकवर्द्धमानश्रीवृक्षकुम्भाम्बुजतोरणाद्यैः। छेदाकृति र्नैरृतभागगापि पुंसां विधत्ते नचिरेण लक्ष्मीम्। प्रभूतवस्त्रदाऽश्विनी भरण्यथापहारिणी। प्रदह्यतेऽग्निदैवते ३ प्रजेश्वरे ४ऽर्थसिद्धयः। मृगे तु मूषकाद्भयं व्यसुत्वमेव शाङ्करे ६। पुनर्वसौ शुभागमस्तदग्रभे ८ धनैर्युतिः। भुजङ्गमे ९ विलुप्यते मघासु मृत्युमादिशेत्। भगाह्वये ११ नृपाद्भयं धनागमाय चोत्तरा १२। करेण १३ कर्मसिद्धयः शुभागमस्तु चित्रया। शुभं च भोज्यमानिले १५ द्विदैवते १६ जनप्रियः। सुहृवातिश्च मित्रभे १७ पुरन्दरे १८ऽम्बरक्षयः। जलप्लुतिश्च नैरृते १९ रुजो जलाधिदैवते २०। मिष्टमन्नमथ विश्वदैवते २१ वैष्णवे २२ भवति नेत्रशेमिता। चान्यलब्धिमपि वातवे २३ विदु- र्वारुणे २४ विषकृतं महद्भयम्। भाद्रपदासु भयं सलिलोत्थं तत्परत्र २६ च भवेत्सुतलब्धिः। रत्नयुतिं कथयन्ति च पौष्णे २७ योऽभिनवाम्बरमिच्छति भोक्तुम्। विप्रमतादथ भूपतिदत्तं यच्च विवाहविधावपि लब्धम्। तेषु गुणैः रहितेष्वपि भोक्तुं नूतनमम्बरमिष्टफलं स्यात्। भोक्तुं नवाम्बरं शस्तमृक्षेऽपि गुणवर्जिते। विवाहे राजसम्माने ब्राह्मणानां च सम्मते”। ३ पियालवृक्षे पु० मेदि० ४ पुरस्कृते त्रि० विश्वः। ५ छदिषि (चाल) भरतः
पट् = न० पटवेष्टने–क्विप्। पादबन्धने षड्वीशशब्दे दृश्यम्।
पटक = न० पट–बा० वुन्। शिविते शब्दमाला।
पटकार = त्रि० पटं करोति कृ–अण्। तन्तुवाये
पटकुटी = स्त्री पटनिर्मिता कुटी शा० त०। पटमये गृहे (ता~वु) हेमच०। पटगृहादयोऽप्यत्र
पटच्चर = न० पट्यते आवेष्ट्यते पट–अति, भूतपूर्वं पटत् पटत् + चरट्। १ जीर्णवस्त्रे। पटदिव वेष्टित इव चरति चर– अच्। २ चौरे पु० अमरः।
पटत् = अव्य०। १ अव्यक्तानुकरणशब्दभेदे ततः डाचि टिलोपे द्वित्वे पटपटाकरोति। इति शब्दसत्त्वे तु न डाच् पटदिति करोतीत्येव। २ पटे पटच्चरशब्दे दृश्यम्।
पटत्क = पु० पटदिव वेष्टित इव कायति कै–क। चौरे तस्य कन्धा त० नपुंसकता चिहणा० अस्य आद्युदात्तता।
पटमण्डप = पु० पटनिर्मितो मण्डपः (ता~वु) ख्याते वस्त्रगृहे
पटमय = न० पट + प्राचुर्य्ये मयट्। १ प्रचुरपटनिर्मिते गृहे (ता~वु) २ शाट्यां त्रिका०।
पटर = त्रि० पट–बा० अरन् पटं राति रा–क वा। १ गति शीले २ वस्त्रदायके च ततः गौरा० स्त्रियां ङीष्।
पटरक = पु० पटर + संज्ञायां कन्। गुन्द्रवृक्षे राजनि०
पटल = न० पट–वेष्टने कलच्। १ छदिषि (चाल) अमरः २ नेत्ररोगभेदे च ३ पिटके ४ परिच्छदे ५ तिलके ६ समूहे च मेदि०। ७ दृष्टेरावरके (चक्षेरपाता)। नेत्ररोगभेदश्च अक्षिपटलशब्दे ४३ पृ० उक्तः “तेजो जलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम्। मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम्। पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते”। ८ तन्त्रांशभेदे च। छदिषि अस्य स्त्रीत्वमपि गौरा० ङीष्। हेमच० ९ वृक्षे (वृन्ते) च शब्दरत्ना०।
पटलप्रान्त = पु० ६ त०। गृहच्छदिषोऽन्तभागे (छा~चि) इति प्रसिद्धे नीध्रे अमरः।
पटवाप = पु० पट उप्यतेऽत्र वप–आधारे घञ्। वस्त्रमयगृहे त्रिका०।
पटवास = पु० पटनिर्मितः वासः। १ वस्त्रमयगृहे (ता~वु) २ शाट्याञ्च शब्दरत्ना०। पटं वासयति सुरभीकरोति वासि– अण् उप० स०। ३ वस्त्रसुरभीकारके द्रव्यभेदे। तद्विधानं वृ० सं० १२० अ० यथा “त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः। पटवासः प्रवरोऽयं मृगकर्पूरप्रवन्धेन”। स्वार्थे क वासि–ण्षुल् वा। पटवासकोऽप्यत्र अमरः।
पटषेश्मन् = न० पटनिर्मितं वेश्म। पटमण्डपे (ता~वु)
पटह = पु० षु० अर्द्धर्चा०। पटेन हन्यते हन–ड, पट इत्येवं शब्दं जहाति वा हा–वा ड। १ डक्कायाद्ये अमरः २ समारम्भे पु० पट–बा० अह। ३ हिंसने शब्दरत्ना०
पटाक = पुंस्त्री० पट–आक। १ खगे उज्ज्वलद० स्त्रियां जातित्वात् ङीष्। २ पताकायां स्त्री शब्दर०।
पटालुका = स्त्री पट इवालति अल–बा० उक। जलौकायां त्रिका०।
पटि(टी) = स्त्री पट–इन् वा ङीप्। १ पटभेदे २ कुम्भिकावृक्षे च ३ वागुलौ मेदि० स्वार्थे क। पटिका तत्रार्थे यवयिकायां (पर्दा) त्रिका०।
पटिमन् = पु० पटोर्भावः पृथ्वा० इमनिच् डिद्वद्भावः। पटुत्वे दशत्वे।
पटिष्ठ = त्रि० अतिशयेन पटुः इष्टन्। अतिशयेन पटौ ईयसुन् पटीयस् तत्रार्थे त्रि० स्त्रियां ङीप्।
पटीर = न० पट–ईरन्। १ चालन्याम् २ मूलके ३ केदारे मेदि० ५ वंशसारे ६ खदिरे ७ उदरे ८ कन्दर्पे ९ अन्दने च “परिपीतपटीररसैरलसः” सा० द० टी० १० उच्चे ११ रमणीये च्य त्रि० शब्दरत्ना०।
पटु = न० पट–उन्। १ छत्रायां २ लबणे च मेदि० ३ पांशुलबणे रत्नमा०। ४ पटोले पु० अमरः ५ पटोलपत्रे न० विश्वः। ६ काण्डीरलतायां ७ कारवेल्ले ८ चोरके पु० राजनि०। ९ दक्षे १० नीरोगे ११ चतुरे त्रि० मेदि०। १२ तीक्ष्णे १२ स्फुटे त्रि० हेमच० १४ निष्ठुरे त्रि० जटा०। १५ धूर्त्ते त्रिका०। गुणवचनत्वात् स्त्रियां ङीप्। ततः भावे अण् पादव न० त्व पटुत्व तल् पटुता स्त्री दक्षतायाम्।
पटुक = पु० पटु–संज्ञायां कन्। पटोले शब्दरत्ना०।
पटुकल्प = त्रि० ईषदूनः पटुः पटु + कल्पप्। ईषदूने पटौ
पटुजातीय = त्रि० पटुप्रकारः पटु + प्रकारे जातीयर्। पटुप्रकारे।
पटुतृणक = न० पटु लबणं तदिव तृणसस्य कप्। लबणाढ्यतृणयुक्ते तृणद्रुमभेदे राजनि०।
पटुत्रिका = स्त्री पटु पत्रमस्याः कप् अतैत्त्वम्। क्षुद्रचञ्चुक्षुपे राजनि०।
पटुपर्णी = स्त्री पटूनि पर्णान्यस्याः जातित्वात् ङीष्। स्वर्ण- क्षीरिणीवृक्षे अमरः कप् कापि अतैत्त्वम्। पटुपर्णिकाप्यत्र क्षीरिणीवृक्षे
पटुरूप = त्रि० प्रशस्तः पटुः पटु + पाशस्त्ये ख्यप्। अतिशयदक्षे राजनि०।
पटुश = पु० राक्षसभेदे मा० व० २८४ अ०।
पटुस = पु० राजभेदे हरिवं० ११७ अ०।
पटोटज = न० पट इव उटात् मूलात् जायते जन–ड। छत्राके शब्दरत्ना० तस्य मूलतएव वस्त्रतुल्यत्वात्तथात्वम्।
पटोल = पु० पट–ओलच्। स्वनामख्याते १ लताभेदे ३ वस्त्रभेदे न० मेदि०। तल्लताया मूलादिगुणाः “पटोलस्य भवेन्मूलं विरेचनकरं सुखात्। नालं श्लेष्महरं, पत्रं पित्तहारि फलं पुनः। दोषत्रयहरं प्रोक्तं तद्वत्तिक्ता पटोलिका भावप्र० उक्ताः। “पटोलपत्रं पित्तघ्नं दीपनं पाचनं लघु। स्निग्धं वृष्यं तथोष्णञ्च ज्वरकासकृमिप्रणुत्। पटोलं कफपित्तासृग्ज्वरकुष्ठव्रणापहम्। विसर्पनयनव्याधित्रिदोषगरनाशनम्। पटोलफलकञ्चेति किञ्चिद्गुणान्तरा वुभौ” राजवल्लभः।
पटोलक = पु० पटोलमिव कायति कै–क। शुक्तौ शब्दमाला तस्याः पटोलफलाकारत्वात् तथात्वम्।
पटोलादि = पु० चक्रदत्तोक्ते कषायभेदे “पटोलं चन्दनं मूर्वा तिक्ता पाठामृतागणः। पित्तश्लेष्मारुधिच्छर्दि ज्वरकण्डूविन्नापहः”।
पटोलाद्यघृत = पु० चक्रदत्तोक्ते घृतभेदे यथा “पटोलं कटुकां दार्वीं निम्बं वासां फलत्रिकम्। दुरालभां पर्पटकं त्रायन्तीञ्च पलोन्मिताम्। प्रस्थमामलकानाञ्च क्वाथयेल्लल्वनेऽम्भसि। पादशेषे रसे तस्मिन् घृतप्रस्थं विपाचयेत्। कल्कैर्भूनिम्बकुटजमुस्तयष्ट्याह्वचन्दनैः। सपिप्पलीकैस्तत्सिद्धं चक्षुषोः शुक्लयोर्हितम्। घ्राणकर्णाक्षिवर्त्मत्वग्सुखरोगव्रणापहम्। कामलाज्वरवीसर्पगण्डमालाहरं परम्”।
पटोली = स्त्री अपकृष्टः पटोलः ङीष् (झिङ्गा) ख्यातायां सतायाम् स्वार्थे क। तत्रैवार्थे मेदि० पटोलशब्दे तद्गुणादि दृश्यम्।
पट्ट = न० पट–क्त नेट् ट वा तस्य नेत्त्वम्। १ नगरे २ चतुष्पथे ३ भूम्यादिकरग्रहणलेख्यपत्रे (पाट्टा) ४ पीठे ५ फलके (ढल) ६ राजसिंहासने ७ उत्तरीयवस्त्रे ८ कौषेये (रेशम) ९ पेषणपाषाणे पु० मेदि० १० व्रणादीनां प्रतिकारार्थतन्धनवस्त्रे (पटी) स्वार्थे क। पट्टक तत्रार्थे सिंहासनरूपपट्टलक्षणं वृ० सं० ४९ अ० उक्तं यथा “विस्तरशो निर्दिष्टं पट्टानां लक्षणं यदाचार्येः। तत्सङ्क्षेपः क्रियते मयात्र सकलार्थसम्पन्नः। पट्टः शुभदो राज्ञां मध्येऽष्टावङ्गलानि विस्तीर्णः। सप्त नरेन्द्रमहिष्याः षड् युवराजस्य निर्दिष्टः। चतुरङ्गुलविस्तारः पट्टः सैनापतेर्भबति मध्ये। द्वे च प्रसादपट्टः पञ्चैते कीर्त्तिताः पट्टाः। सर्वे द्विगुणायामा मध्यादर्धेन पार्श्वविस्तीर्णाः। सर्वे च शुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्ध्यै। पञ्चशिखी भूमिपतेस्त्रिशिखो युवराजपार्थिवमहिष्योः। एकशिखः सैन्यपतेः प्रसादपट्टी विना शिखया। क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य। वृद्धिजयौ भूमिपतेस्तथा प्रजानां च सुखसम्पत्। जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः। मध्ये स्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः। अशुभनिमित्तोत्पत्तौ शास्त्रज्ञः शान्तिमादिशेद्राज्ञः। शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति”। अस्य पुंस्त्वमपि
पट्टज = न० पट्टात् जायते जन–ड। (रेशमी) कौषेयवस्त्रेजटा०
पट्टदेवी = स्त्री पट्टे सिंहासने स्थिता तदर्हा बा देवी। (पाटराणी) सिंहासनयोग्यायां कृताभिषेकायां राजपत्न्यां राजनि० पट्टराज्ञीत्यप्यत्र।
पट्ट(त्त)न = न० पट(त)न्ति जना यत्र पट–पत, वा तनन् नेट्। प्रधाननगरे।
पट्टरङ्ग = न० पट्टं रज्यतेऽनेन रन्ज–करणे घञ्। (वकम्) इति ख्याते पदार्थे ल्युट्। पट्टरञ्जनमप्यत्र राजनि०।
पट्टशाक = पु० कर्म०। (नालिता) १ शाकभेदे (पाटशाक) इति ख्याते २ शाकभेदे च “पट्टशाकस्तु नाडीको नाडीशाकश्च सः स्मृतः। नाडीको रक्तपित्तघ्नो विष्टम्भी वातकोपनः” भावप्र० तद्गुणा उक्ताः।
पट्टार = पु० पट्टमृच्छति ऋ–अण् उप० स०। देशभेदे ततो धूमा० भवेऽर्थे वुन्। पट्टारक तद्देशभवे त्रि०।
पट्टार्हा = स्त्री पट्टे राजसिंहासने अर्हा वासार्हा। पट्टदेव्यां राजनि०।
पट्टिका = स्त्री क्षुद्रं पट्टं पट्टी ह्रस्वार्थे कन् कापि अतैत्त्वम् पट्टीव कायति कै–क वा। लोघ्रभेदे वाचस्पतिः।
पट्टिकाख्य = पु० पट्टिकामाख्याति स्वरूपेण आ + ख्या–अच्। रक्तलोध्रे (पाटियालालोध) अमरः।
पट्टिकालोध्र = पु० कर्म०। रक्तलोध्रे भावप्र०
पट्टिल = पु० पट्ट + अस्त्यर्थे इलच्। पूतिकरजे जटा०।
पट्टिश(स) = पु० अस्त्रभेदे अमरः। तल्लक्षणं हेमा०परिउशनमोक्तं यथा
उक्तं नालसूर्यकं पट्टिसविधिर्वक्ष्यते। वत्स! निबोध त्रिहस्तः सार्द्धत्रिहस्तश्चतुर्हस्तश्चेति श्रेष्ठमध्यमाधमानां दण्डस्त्रिविधः। कर्तृयोग्यमुखो ग्राह्यानाहो भवेत्। दण्डश्चाष्टाविंशतिपलो निकृष्टो मध्यमश्चतुस्त्रिंशत्पलः श्रेष्ठश्चत्वारिंशत्पलः। यथा कुन्तप्रमाणेनोपयोग स्तथास्यापि द्रष्टव्यः। तथा सूर्यचन्द्रसदृशाकारं षोडशाङ्गुलविस्तारं तीक्ष्णधारान्वितं द्वात्रिंशत्पलं पत्रं भवति। तस्यारा वडङ्गुलाः। कोशः सप्ताङ्गुलः तस्य पञ्चपलं तस्यानुयोगतः संप्रश्लिष्यकीलाभ्यामेव कोशो भवेत् तदारया दृढसमन्वितया। अग्रकल्पः सुदृढः सतैदृश्यमत्स्यादारामूलमानाद्द्व्यगुलोन्नतः दण्डः कार्यः। एकाङ्गुलास्या स्यादारा षडङ्गुलानाहा दण्डमूले चार्पिता सफलास्यासमुच्छ्रयात्। फलविस्तारोमध्ये भयेत्। समश्च भवेत् पाशधारणस्त्रिपलगौरवो द्व्यङ्गुलश्च कोशो मूलपार्श्वो दृढारास्यात्। धाराया वितानार्थं मुनेरपि बलार्थं च मूलं रक्षेच्च सुदृढार्थमाराबलेन युक्तं कोश मध्ये सुविद्धजारायां यथा दृष्टं कुण्डलाग्रं यथायोगं ग्र नागपाशधारकं मुनिदेशादुपरि वन्धाधानमुखसमन्वितं भवेत्। आरागतं सम्यक्पञ्चाङ्गुलायतं सुमृष्टं दृडापाङ्गं च स्यात्। तथैव चाष्टपलसमन्वितं छेदाङ्गकल्पकरणमूल कल्पं विद्यात् भवति चात्र श्लोकाः। प्राधान्यं पट्टिसानां स्याच्छेद्ययोगविधानतः। मध्यमं चैव लक्ष्येषु नीचं चैवाधमेषु च। मिश्रयोगेन मिश्रं म्याद्दण्डश्चोक्तायतःस्मृतः। विज्ञायैव यथेष्टानि शस्त्राणीह प्रयोजयेत्”
पट्टीश(म) = पर्ट्टी श्यति स्यति वा शो–तनूकरणे षो–अन्तकर्मणि वा क। पट्टिशास्त्रे हरिवं० १८ ४ अ० उदा०।
पट्टोलिका = स्त्री पट्टालिका + पृषो०। (पाट्टा) ख्याते भूमिकरग्रहणव्यवस्थापके पत्रभेदे त्रिका०।
पठ = लिखिताक्षरवाचने भ्वा० पर० सक० सेट्। पठति अपाठीत् अपठीत् पपाठ पेठतः। पठितव्यं पाठ्यं पाठः पठनम्
पठमञ्जरी = स्त्री श्रीरागस्य चतुर्थरागिण्याम्। “वियोगिनी कान्तवितीर्णपुष्पां स्रजं वहन्तीं वपुषाऽतिमुग्धा। आश्वास्यमाना प्रियया च सख्या विधूसराङ्गी पठमञ्जरीयम्” सङ्गी० दा० तदभिमानिनी स्वरूपमुक्तम्।
पठसमञ्जरी = स्त्री रागिणीभेदे हला०।
पठि = स्त्री पठ–इन्। १ पठने पाठे धातुनिर्देशे इक्। २ पठधातौ पु०।
पड = गतौ भ्वा० आ० सक० सेट् इदित्। पण्डते अपण्डिष्ट पपण्डे पण्डा। पण्डितः।
पड = संहती (राशीकरणे) चु० उभ० सक० सेट्। पण्डयति ते अपिपण्डत्–त। इदित् पण्ड्यते।
पड्गृभि = पु० असुरभेदे ऋ० १०। ४९। ५ भाष्ये तथार्थ ता दृश्या
पड्वीश = न० १ पादवन्धने २ तद्योम्यदामनि च ऋ० ११६२। १४ भा० दृश्यम्।
पण = व्यवहारे (क्रयविक्रयादौ)स्तुतौ च भ्वा० आ० सक० सेट्। देवने अक० अर्चने निषण्टुः। स्मार्थे आय वा स्तुतौ पर० पणायति ते पणते व्यवहारे तु षणायति इत्येक। आर्द्धधातुके अस्मात् वा आय। अपणायीत् अपणायिष्ट अपणिष्ट। क्रयविक्रयार्थे च अस्य कर्मणि शेषत्वेन विवक्षिते षष्ठो तस्याश्च न समासः शतस्य षणायते “व्यवहृपणोः समर्थयोः” पा० द्यूते० क्रयविक्रयव्यवहारे चानयोस्तुल्यात्रर्थता शतस्य पणनम्। स्तुतौ तु समासः बाह्मणपणम्” सि० कौ० प्रत्ययान्तत्वात् भावे अ पणाया।
पण = पु० पण–कर्मणि “नित्यं पणः परिमाणे” पा० अप्। १ कर्षमितताम्रे “ताम्रिकः कार्षिकः पणः” याज्ञ० “अशीतिभिर्वराटकैः पण इत्यभिधीयते” भविष्यत्पु० उक्तेवु २ अशीतिवणटकेषु “वराटकानां दशकद्वयं० यत् सा काकिणी त्यश्च पणश्चतस्रः” लीला०। भावे अप् ३ निर्वेशे ४ भृवौ ५ द्यूते ग्लहे (वाजि) ६ मूल्ये ७ धने च ८ कार्षापणे ९ क्रय्यशालायाम् १० व्यवहारे मेदि० कर्त्तरि अच्। ११ क्रयविक्रयादिकारके त्रि० १२ शौण्डिके पु० जटा० आधारे अप्। १२ गृहे शब्दमाला १४ विष्णौ पु० “प्राणदः प्रणवः पणः” विष्णुस० “पणतिर्व्यवहारार्थः तत्कुर्वन् पणः “सर्वाणि रूपाणि विचिन्त्य धीरोनामानि कृत्वाभिवदन् य आस्ते” इति श्रुतेः पुण्यानि कर्माणि सगृह्याधिकारिभ्यस्तत्फलं प्रयच्छन् लक्षणया वा पणः” भा०।
पणग्रन्थि = पु० पणस्य क्रयविक्रयादेर्ग्रन्थिः सम्बन्धोऽत्र। हट्टे हारा०।
पणन = न० पण–भावे ल्युट्। १ विक्रये शब्दरत्ना०। २ क्रयादौ
पणफर = न० “पणफरं द्वितीयाष्ट पञ्चमैकादशं स्मृतम्” ज्यो० त० उक्ते लग्नात् द्वितीयपञ्चमाष्टमैकादशस्थाने
पणबन्ध = पु० ६ त०। ग्लहे (हुड) राजनि० नियमविशेष बन्धने। यदि भवानिदं कुर्य्यात् तर्हि इदमहं भवते दास्यामीतिसमयकरणं पणबन्धः” मनोरमा
पणव = पुंस्त्री० पणं स्तुतिं वाति वा–क। पटहे द्विरूपकोषः
पणस = पु० पण–कर्मणि असच्। क्रेयद्रव्ये उणादिकोषः
पण(न)स्य = अर्चने निघ० भ्वा० पर० सेट्। पण(न)स्यति अपण(न)स्यीत्।
पणाङ्गना = स्त्री पण–कर्मणि अप् कर्म०। पण्याङ्गनायां वेश्यायां हेमच० पणस्त्रीप्रभृतयोऽप्यत्र स्त्री।
पणाया = स्त्री पण–आय–भावे अ। १ क्रयविक्रयव्यवहृतौ २ स्तुतौ ३ द्यूते च जटाध०।
पणायित = त्रि० पण–खार्थे आय–क्त। १ स्तुते आयाभावपक्षे पणितमप्यत्र अमरः २ क्रीते ३ विक्रीते ४ व्यवहृते च
पणादि = न० ६ त०। वराटके कपर्दके त्रिका०।
पणि = स्त्री पण–आधारे इन्। १ विषणौ पण्यवीथिकायाम् उज्ज्वलदत्तः। धातुनिर्देशे इक्। २ पणधातौ पु०
पणिन् = त्रि० व्यवहारो द्यूतं स्तुतिर्वा पणः अस्त्यर्थे इनि। १ क्रयादिव्यवहारयुक्ते २ स्तुतियुक्ते च ३ ऋषिभेदे पु०। तस्यापत्यम् अण् “गाथिविदथीत्यादि” पा० न टिकोपः। पाणिन तस्यापत्ये यूनि ततः इञ् पाणिनिः।
पण्ड = पु० न०। पण–ड तस्य नेत्त्वम्। १ क्लीवे २ निष्फले त्रि विश्वः ३ वेदोज्ज्वलायां बुद्धौ स्त्री भागुरिः तस्याः स्तुत्यत्वात् तथात्वम्।
पण्डक = पु० सावर्णिमनोः पुत्रमेदे हरिवं० ७ अ०।
पण्डापूर्व = न० पण्डं फलासाधनमपूर्वम्। वस्तुतः कलसाधनायोग्ये फलानुपहिते १ धर्माधर्मात्मकेऽदृष्टे यथा सन्ध्यायन्दनादेरभावे दुरदृष्टं जायते सन्ध्यादेर्वन्दने तु तस्यानुत्पत्त्या फलानुपहितं दुरदृष्टं नश्यतीति तत्पण्डापूर्वमिति प्रीमांसामतसिद्धम् २ फलानापादके अदृष्टभेदे। गुरुभिः कार्यत्वेनापूर्वे एव विधेः शक्तिः स्वीकृता न कलञ्जं भक्षवेदित्यादिनिषेधे कलञ्जभक्षणाभावविषयकं कार्य्य मित्यन्वयवोधश्च स्वीकृतः। तच्चापूर्वं न किञ्चित् फलजनकमिति स्थितम्। न्यायनये तु पण्डापूर्वं नाङ्गीक्रियते सिध्यर्थस्तु इष्टसाधनताज्ञानाघीनकृतिसाध्यत्वमेव इत्यञ्च विश्वजिता यजेत इत्यादौ यत्र फलं न श्रूयते तत्रापि स्वर्गः फलं कल्प्यते यथोक्तं सि० मुक्ता० “नन्वहरहः सन्ध्यामुमासीतेत्यादौ इष्टानुत्पत्तेः प्रवृत्तिः कथम् न चार्थवादिकं ब्रह्मलोकादि प्रत्यवायाभावी वा फलमिति वाच्यम् तथा सति काम्यत्वे नित्यत्वहान्यापत्तेः कामनाभावेऽकरणपत्तेश्च इत्थञ्च फलश्रुतिस्तत्रार्थवादमात्रमिति चेन्न ग्रहणश्राद्धादौ नित्यत्वकाम्यत्वयोरप्यविरोधात्। न च कामनाभावेऽकरणापत्तिः त्रिकालस्तवपाठादाविव कामनासडावस्यैव कल्पनात्। ननु बेदबोधकार्थ्यताज्ञानात् प्रवृत्तिः सम्भवतीति चेन्न इष्टसाधनताज्ञानं विना तादृशकार्य्यताज्ञानसहस्रेणापि प्रवृत्तेरसम्भवात्। यदपि पण्डापूर्वं फलमिति तदपि न कामनाभावेऽकरणापत्तेस्तौल्यात्। कामनाकल्पने त्वार्थवादिकफलमेव रात्रिसत्रन्यायात् कल्प्यतामन्यथा प्रवृत्त्यनुपपत्तेः। तेन “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते। अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते”। एवम् “सन्ध्यामुपासते ये तु सततं शंसितव्रताः। विधूतपापास्ते यान्ति व्रह्मलोकमनामयम्” एवम् “दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन्” इत्यादिकमेव फलमस्तु। न च पितृप्रीतिः कथं फलं व्यधिकरणत्वादिति वाच्यम्। गयाश्राद्धादाविव उद्देश्यत्वसम्बन्धेनैव फलजनकत्वस्य क्वचित् कल्पनात्। अतएवोक्तं “शास्त्रदर्शितफलमनुष्ठातरीत्युत्सर्नः” इति। पितॄणां मुक्तत्वे तु स्वस्य स्वर्गफलं यावन्नित्यनैमित्तिकानुष्ठानस्य सामान्यतः स्वर्गफलकल्षनात्। पण्डापूर्वार्थप्रवृत्तिश्च न सम्भवति। म हि तत्सुखदुःखाभाववत् स्वतः पुरुषार्थः, न वा तत्साधनम्। प्रत्यवायानुत्पत्तौ कथं प्रवृत्तिरिति चेत्। इत्थम् यथा हि नित्यकृते प्रत्यवायाभावस्तिष्ठति तदभावे तदभावः। एवं प्रत्यवायाभावस्य सत्त्वे दुःसामावसत्त्वं तदभावे तदभाव इति योगक्षेमसाधारणणरणतया दुःखप्रागभावं प्रत्यपि सुवचत्वात्”।
पण्डित = पु० पण्डा वेदोज्ज्वला बुद्धिर्जातास्य तार० इतच्। शास्त्रतापय्यज्ञे १ बिदुषि। तस्य बुद्धेरुज्ज्वलत्वञ्च कार्यभेदादनुमातव्यं तदेव तस्य लक्षणं यथा “पठका पाटकाश्चैव ये चान्ये शास्त्रचिन्तकाः। सर्वे व्यमनिनी मूर्स्वा यः क्रियावान् स पण्डितः” मा० व० “विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनिश्चैव श्वपाके च पण्डिताः समदर्शिनः” गीता २ सिह्लके पु० मेदि०।
पण्डितक = पु० १ धृतराष्ट्रपुत्रभेदे भा० आ० ६ अ०। पण्डित + स्वार्थे क। २ पण्डितशब्दार्थे च।
पण्डितिमन् = पु० पण्डिततस्य भावः दृढा० इमनिच्। पाण्डित्ये
पण्ड्रक = पु० वातरोनयुते पङ्गौ “विधर्माणश्च पूर्वाह्णे सन्ध्याकाले च पण्ड्रकाः” मार्क० ३१ अ०। सायंकाले स्त्रीनमने पुत्रस्य पण्ड्रकता भवतीत्थुक्तम्।
पण्य = त्रि० पण–कर्मणि यत्। १ व्यवहर्त्तव्ये २ विक्रेये ब अमरः० “स्तुत्यर्हेतु न यत्। किन्तु ण्यदेव पाण्यम्” सि० कौ०। कम्बलेन समासेऽस्य आद्युदात्तता।
पण्ययोषित् = स्त्री कर्म०। बेश्यायाम् त्रिका०
पण्यविक्नयशाला = स्त्री ६ त०। (हाटचाला) हट्टशालायां हला०।
पण्यवीथि = स्त्री ६ त०। १ विक्रेयद्रव्यविक्रयशालायां (हाटचाला) २ हट्टे च। स्वार्थे क। षण्यवीथिका तत्रार्थे अमरः।
पण्यशाला = स्त्री ६ त०। (हाटचाला) हट्टशालायाम् हेमच०।
पण्या = स्त्री पिण्या + पृषो०। पिण्यायां द्विरूपकोषः।
पण्याङ्गना = स्त्री वेश्यायाम् हेमच० पण्यस्त्रादयोऽप्यत्र।
पण्याजिर = न० पण्यस्याजिरमिव। पण्यस्याङ्गनतुल्यस्थाने हट्टे।
पण्याजीव = त्रि० पण्यमाजीवति आ + जीव–अण् उप० स०। क्रयविक्रयोपजीबके बणिग्जने अमरः।
पण्याजीवक = न० पण्याजीवेन बणिजा कायति कै–क, आ + जीव–ण्वुल् ६ त० वा। १ हट्टे २ वणिजि च त्रिका०।
पण्यान्ध = स्त्री पण्यमन्धयति अच्। तृणभेदे राजनि०
पत = गतौ अद० चु० उम० सक०, ऐश्ये अक० सेट्। पतयति–ते अपपतत्–त।
पत = ऐश्ये दि० आ० अक० सेट्। पत्यते अपतिष्ट। पेते
पत = गतौ भ्वा० पर० सक०, ऐश्ये अक० ज्वला० सेट्। पतअपप्तत्। पपात पेततुः। ज्बला० पतः पातः। पतितः पतयति पातयति। सनि पित्सति पापत्वते। अधःस्यन्दने अक० अधःसंयोगानुकूले सफ० नरकं पतित इत्यादि
पत = न० पत–अच्। १ पुष्टे जटाधरः। २ पतनकर्त्तरि त्रि०
पतग = पुंस्त्री० पतन् उत्प्लवन् सन् गच्छति गम–ड नि०। खगे अमरः स्त्रियां जातित्वात् ङीष्।
पतङ्ग = पुंस्त्री पतन् उत्प्लवन् गच्छति ड नि०। १ खगे अमरः स्त्रियां जातित्वात् ङीष्। २ सूर्य्ये पु० ३ शलभे (फडिङ्ग) कीटभेदे ४ शालिभेदे पु० मेदि० ५ जलमधूकवृक्षे राजनि०। ६ पारदे न० मेदि० ७ चन्दनभेदे न० शब्दच०। प्लक्षद्वीपस्थे क्षत्रियस्थानीये ८ वर्णभेदे पु० “हंसपतङ्गोर्द्धायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः” भाग० ५। २। ०७ श्लो०। उत्प्लवनेन १० पतने च पतङ्गरशब्दे दृश्यम्।
पतङ्गम = पुंस्त्री० पतन् उत्प्लवन् सन् गच्छति गम–खच् नि०। णगे स्त्रियां जातित्वात् ङीष्।
पतङ्गर = पु० पतङ्गं पतनेनोत्प्लवनेन गमनम् पतङ्गं ततः अस्त्यर्थे र। उत्प्लवनेन गतियुक्ते ऋ० ६। ४। २ भा०।
पतङ्गा = पु० अश्वे निणण्टुः।
पतङ्गिका = स्त्री पतङ्ग + सज्ञायां कन् कापि सतैत्त्वम्। सधुमक्षिकाभेदे अमरः।
पतङ्गिन् = पु० पतङ्ग–उत्प्लवनेन गमननमस्त्यस्य इति। खगे स्त्रियां नान्तत्वात् ङीप्। हरिवं० २० अ० उदाहरणम्।
पतञ्चिका = स्त्री धनुर्ज्यायां शब्दच०।
पतञ्चल = पु० गोत्रप्रवर्त्तकर्षिभेदे स च काप्यः। “ते पतञ्चलस्य काप्यस्य” शत० ब्रा० १४। ६। ३ पतञ्जल इति तत्र पाठान्तरम्। बहुत्वे उपका० द्वन्द्वे अद्वन्द्वे पतञ्जला इत्येव।
पतञ्जलि = पु० पतन् अञ्जलिर्नमस्यतया यस्मिन्। १ योगसूत्रकारके ऋषिभेदे गोनर्द्दतीरे तपस्यतः कस्यचिदृषेरञ्जलितः पतिते पाणिनिसूत्रस्य २ भाष्यकारे तस्य तथोत्पत्त्रिकथा शकन्ध्वा० वार्त्ति० शेखरादौ दृश्या। अय च योगशास्त्रकारकात् भिन्न इति सरलायामस्माभिः। समर्थितम्। अनयोरभेद इति पाश्चात्त्यवैयाकरणाः। भेदाभेदयोर्युक्तत्वायुक्तत्वे च सुधीर्विर्भाव्ये। यीगमतञ्च सर्वदर्शनसंग्रहे प्रदर्शितं यथा “सांख्यप्रवचनापरनामधेयं मनुवर्त्तमानानां मतसुपन्यस्यते। तच्च योगशास्त्रं पतञ्जलिप्रणीतं पादचतुष्टयात्मकम्। तत्र प्रथमे पादे “अथ योगानुशासनमिति” योगशास्त्रारम्भप्रतिज्ञां विधाव “योगश्चित्तवृत्तिनिरोधः” इत्यादिना योगलक्षणमभिधाय समाधिं सप्रपञ्चं निरदिक्षत् भगवान् पतञ्जलिः। द्वितीये “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” इत्यादिना व्युत्यितचित्तस्य क्रियायोमं यमादीनि पञ्च बहिरङ्गानि साधनानि। तृतीये “देशबन्धसित्तस्य धारणा” इत्यादिना धारणाध्याबसमाधित्रयमन्तरङ्गं संयमपदवाच्यं तत्रावान्तरफलं विभूतिजातञ्च। चतुर्थे “जन्मौषध्रिमन्त्रतपःसमाधिजाःसिद्धयः” इत्यादिना सिद्धिपञ्चकप्रपञ्चनपुरःसरं परं प्रयोजनं कैवल्यम्। प्रधानादीनि पञ्चविंशतितत्त्वानि प्राचीनान्येव सम्भतानि षड्विंशस्तु परमेश्वरः क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसम्प्रदायप्रवर्त्तकः संसाराङ्गारे तप्यमानानां प्राणभृतामनुग्राहकश्च। ननु पुष्करपलाशवन्निर्लेपस्य तस्य (पुरुषस्य) तापः कथमुपपद्यते येन परमेश्वरोग्याऽनुग्राहकतया कक्षीक्रियते इति चेदुच्यते तापकस्य रजसः सत्वमेव तप्यं बुद्ध्यात्मना परिणमते इति सत्वे परितप्यमाने तमोवशेन तदभेदावगाही पुरुषोऽपि तप्यत इत्युच्यते। तदुक्तमाचार्य्यैः “सत्वं तप्यं बुद्धिभावेग वृत्तं भावास्ते वा राजसास्तापकास्ते। तप्पाभेदग्राहिणी तामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मेति”। तद्भाष्ये व्यासेनाप्युक्तम् “अपरिणामिनी हि मोक्तृशक्तिरप्रतिसंक्रमा च पूरि- णामिन्यर्थे प्रतिसंक्रान्ते च तद्वृत्तिमनुमवतीति”। भोक्तृशक्तिरिति चिच्छक्तिरुच्यते सा चात्मेव परिणामिन्यर्थे बुद्धिसत्वे प्रतिसंक्रान्ते च प्रतिविम्बिते तद्वृत्तिमनुभवतीति बुद्धौ प्रतिविम्बिता सा चिच्छक्तिर्बुद्धिच्छायापत्त्या बुद्धिवृत्त्यनुकारवतीति” भावः। तथा शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यंन्नतदात्मापि तदात्मक इव प्रतिभासत इति। इत्थं तप्यमानस्य पुरुषस्यादरनैरन्तर्य्यदोर्धकालानुबन्धियमनियमाद्यष्टाङ्गयोगानुष्ठानेन परमेश्वरप्रणिधानेन च सत्वपुरुषान्यताख्यातावनुपप्लवायां जातायामविद्यादयः पञ्च क्लेशाः समूलकाषं कषिता मवन्ति कुशलाकुशखाश्च कर्म्माशयाः समूलथातं हता भवन्ति। ततश्च पुरुषस्य निर्लेपस्य कैवण्येनावस्थानं कैवल्यमिति सिद्धम्। तत्र “अथ योगानुशासससिति” प्रथमसूत्रेण प्रेक्षावत्प्रवृत्त्यङ्गं विषयप्रयोजनसम्बन्धाधिकारिरूपमनुबन्धचतुष्टयं प्रतिपाद्यते। अत्राथशब्दोऽधिकारार्थः स्वीक्रियते (इतःपरं तस्यारम्मार्थकता महता प्रबन्धेन समर्षिता तत्र दृश्या) तदमाषि व्यासभाष्ये “अथेत्ययमधिकारार्थः प्रयुज्यते” इति योगसूत्रविवरणे च तद्व्यात्वख्यौ वाचस्मतिः “तस्मादयमथशवदोऽधिकारद्योतको मङ्गलार्थश्चेति सिद्धमिति”। बदित्थमसुस्याथशब्दस्याधिकारार्थस्वपक्षे शास्त्रेण प्रस्तूयमानस्य योगस्योपवर्णनात् समस्तशास्त्रतात्पर्य्यव्याख्यानेन शास्त्रस्य सुखतोबोधप्रवृत्तिरास्तामित्युपपन्नम्। मनु “हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः” इति याज्ञवल्क्यस्मृतेः पतञ्जलिः कथं योगस्य शासितेति चेदद्धा अतएव तत्र तत्र पुराणादौ विशिष्य योगस्य विप्रकीर्णतया दुर्ग्राह्यार्थत्वं मन्यमानेन भगवता कृपासिन्धुना फणिपतिना सारं सञ्जिघृणुणा अनुशासनमारब्धं न तु साक्षाच्छासनम्। यदायमथशब्दोऽधिकारार्थः तदैवं वाक्यार्थः सम्पद्यते योगानुशासनं शास्त्रगधिकृतं वेदितव्यमिति। तत्र शास्त्रे व्युत्पाद्यमानतया योगः ससाधनः सफलो विषयः तद्व्युत्पादनमवान्तरफलं व्युत्पादितस्य योगस्य कैवल्यं परमप्रयोजनम्। शास्त्रयोगयोः प्रतिपाद्यप्रतिपादकभावसक्षणः सम्बन्धः, योगस्य कैवल्यस्य च साध्यसाधनभावसक्षणः सम्बन्धः स च श्रुत्यादिप्रसिद्ध इति प्रागेवावादिषम्। मोक्षमपेक्षमाणाः श्रवणाधिकारिण इत्यर्थसिद्धस्। न चाथाती बह्मजिज्ञासेत्यादाविवाधिकारिणो-ऽर्थतः सिद्धिराशङ्कनीया तत्राथशब्देनानन्तर्य्याभिधाने प्रण्णाडिकया अधिकारिसमर्पणसिद्धावार्थिकत्वशङ्गानुदयात्। अतएवोक्तं “न श्रुतिप्राप्ते प्रकरणादोनामवकाशः” इति। अस्यार्थः यत्र हि श्रुत्या अर्थो न लभ्यते तत्रैव प्रकरणादयोऽर्थं समर्पयन्ति नेतरत्र। यत्र तु शब्दादेवार्थस्योपलम्भः तत्र नेतरस्य सम्भवः शीघ्रबोधिन्या श्रुत्या बोधितेऽर्थे तद्विरुद्धार्थं प्रकरणादि समर्पयति अयिरुद्धं वा। न प्रथमः विरुद्धार्थबोधकस्य तस्य बाधितत्वात्। न चरमः वैयर्थ्यात्तदाह “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादिति” “वाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा। मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया” इति च तस्माद्विषयादिसत्त्वाद्ब्रह्मविचारकशास्त्रवद्योगानुशासनं शास्त्रमारम्भणीयमिति स्थितम्। ननु व्युत्पाद्यमानतया योग एवात्र प्रस्तुतो न शास्त्रमिति चेत् सत्यं प्रतिपाद्यतया योगः प्राधान्येन प्रस्तुतः स च तद्विषयेण शास्त्रेण प्रतिपाद्यत इति तत्प्रतिपादने करणं शास्त्रं करणगोचरश्च कर्तृव्यापारो न कर्मगोचरतामाचरति। यथा छेत्तुर्देवदत्तस्य व्यापारभूतमुद्यमननिपातनादि कर्म करणभूतपरशुगोचरं न कर्मभूतवृक्षादिगोचरं तथा च वक्तुः पतञ्जलेः प्रवचनव्यापारापेक्षया योगविपयस्याधिकृतता करणस्य शास्त्रस्य, अभिघानव्यापारापेक्षया तु योगस्यैवेति विभागः। ततश्व यागशास्त्रस्यारम्भः सम्भावनां भजते अत्र चामुशासनीयो योगश्चित्तवृत्तिनिरोध इत्युच्यते। ननु युजिर्योग इति संयोगार्थतया परिपठितात् युजे र्निष्पन्नो योगशब्दः संयोगवचनएव स्यान्न तु निरोधवचनः। अतएवोक्तं याज्ञवल्क्येन “संयोगो योग इत्युक्तो जीबात्मपरमात्मनोः” इति तदेतद्वार्त्तं जीवपरयोः संयोगे कारणस्यान्यतरकर्मादेरसम्भवादजसंयोगस्य कणभक्षाक्षचरणादिभिः प्रतिक्षेपाच्च। मीमांसकमतानुसारेण तदङ्गीकारेऽपि नित्यसिद्धस्य तस्य साध्यत्वाभावेन शास्त्रवैफल्यापत्तेश्च धातूनामनेकार्थत्वेन युजेः समाध्यर्थत्वोपपत्तेश्च। तदुक्तम् “निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनमिति” अतएव केचन युजिं समाघावपि पठन्ति (युज समाधाविति)। नापि याज्ञवल्क्यवचनव्याकोपः तत्रस्थस्यापि योगशब्दस्य समाध्यर्थत्वात्। “समाधिः समतावस्था जीवात्मपरमात्मनोः। ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः” इति तेनैवोक्तत्वाच्च। तदुक्तं भगवता व्यासेन “योगः समाधिरिति”। यद्येवमष्टाङ्गयोगे चरमस्याङ्गस्य समाधित्वमुक्तं पतञ्जलिना यमनियमासनप्राणायामपत्याहारध्यानधारणासमाधयोऽष्टाङ्गानि योगस्येति। न चाङ्ग्येवाङ्गतां गन्तुसुत्सहते उपकार्य्योपकारकभावस्य दर्शपूर्णमासप्रयाजादौ भिन्नायतनत्वेनात्यन्तभेदादतः समाधिरपि न योगशब्दार्थो युज्यत इति चेत्तन्न युज्यते व्युत्पत्तिमात्राभिधित्सया तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिरिति निरूपितच रमाङ्गवाचकेन समाधिशब्देनाङ्गिनो योगस्याभेदविवक्षया व्यपदेशोपपत्तेः। न च व्युत्पत्तिबलादेव सर्वत्र शब्दः प्रवर्त्तते तथात्वे गच्छतीति गौ रिति व्युत्पत्तेः तिष्ठन् गौर्न स्यात् नच्छतो देवदत्तस्यौ स्यात् प्रवृत्तिनिमित्तञ्च प्रागुक्तमेव चित्तवृत्तिनिरोध इति तदुक्तम् “योगश्चित्तवृत्तिनिरोधः” इति। ननु वृत्तीनां निरोधश्चेद्योगोऽभिमतस्तासां ज्ञानत्वेनात्माश्रयतया तन्निरोधोऽपि प्रध्वंसपदवेदनीयस्तदाश्रयो भवेत् प्रागभावप्रध्वंसयोः प्रतियोगिसमानाश्रयत्वनियमात् ततश्च “उपयन्नपयन् धर्म्मो विकरोति हि धर्मिणमिति” न्यायेनात्मनः कौटस्थ्यं विहन्येतेति चेत्तदपि न घटते निरोध्यानां प्रमाणविपर्य्ययविकल्पनिद्रास्मृतिस्वरूपाणां वृत्तीनामन्तःकरणाद्यपरपर्य्यायचित्तवर्मत्वाङ्गीकारात् कूटस्वनित्या चिच्छक्तिरपरिणामिनी विज्ञानधर्म्माश्रयो भवितुं नार्हत्येव। न च चितिशक्तेरपरिणामित्वमसिद्धमिति मन्तव्यं चितिशक्तिरपरिणामिनी सदा ज्ञातृत्वात् न यदेवं न तदेवं यथा चित्तादि इत्याद्यनुमानसम्भवात् तथा यद्यसौ पुरुषः परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वात्तासां चित्तवृत्तीनां सदाज्ञातृत्वं नोपपद्येत चिद्रूपस्य सदैवाधिष्ठातृत्वेनावस्थितस्य यदन्तरङ्गनिर्मलं सत्वं तस्यापि सदैव स्थितत्वात् येन येनार्थेनोपरक्तं भवति तस्य दृश्यस्य सदैव चिच्छायापत्त्या भानोपपत्त्या पुरुषस्य निःसङ्गत्वं सम्भवति। ततश्च सिद्धं तस्य सद्वा ज्ञातृत्वमिति न काचित् परिणामित्वाशङ्कावतरति। चित्तं पुनर्येन विषयेणोपरक्तं भवति स विषयो ज्ञातः यदुपरक्तं न भवति तदज्ञातमिति वस्तुतोऽयस्कान्तमणिकल्पस्य ज्ञानाज्ञानकारणभूतोपरागानुपरागधर्मित्वादयःसधर्मकं चित्तं परिणामि इत्युच्यते। ननु चित्तस्येन्द्रियाणां चाहङ्कारिकाणां सर्वगतत्वात् सर्वविषयैरस्ति सदा सम्बन्धः तथाच सर्वेषां सर्वदा सर्वत्व ज्ञानं प्रसज्येत सर्वगतत्वेऽपि चित्तं यत्र शरीरे वृत्तिमत् तेन शरीरेण सह सम्बन्धो येषां विषयाणां तेष्वेवास्य ज्ञानं भवति नेतरेष्वित्यतिप्रसङ्गाभावादतएवायस्कान्तमणिकल्पा विषयाः अयःसधर्मकं चित्तमिन्द्रियप्रणालिकयाभिसम्बध्योपरञ्जयन्ति। तस्माच्चित्तस्य धर्मा वृत्तयो नात्मनः तथाच श्रुतिः “कानः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा घृतिरधृतिरित्येतत्सर्वं मन एवेति”। चिच्छक्तेरपरिणामित्वं पञ्चशिखाचार्य्यैराख्यायि “अपरिणामिनी भोक्तृशक्तिरिति” पतञ्जलिनापि “सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वादिति”। चित्तपरिणामित्वेऽनुमानमुच्यते चित्तं परिणामि ज्ञाताज्ञातविषयत्वात् श्रोत्रादिवदिति। परिणामश्च त्रिविधः प्रसिद्धः धर्मलक्षणावस्थाभेदात् धर्मिण श्चित्तस्य नीलाद्यालोचनं धर्मपरिणामः यथा कनकस्य कटकमुकुटकेयूरादि। धर्मस्य वर्त्तमानत्वादिर्लक्षणपरिणामः नीलाद्यालोचनस्य स्फुटत्वादिरवस्थापरिणामः कनकादेस्तु नवपुराणत्वादिरवस्थापरिणामः। एवमन्यत्रापि यथासम्भवं परिणामत्रितयमूहनीयं तथाच प्रमाणादिवृत्तीनां चित्तधर्मत्वात् तन्निरोधोऽपि तदाश्रय एवेति न किञ्चिदनुपपन्नम्। ननु वृत्तिनिरोधो योग इत्यङ्गीकारे सुषुप्त्यादौ विक्षिप्तमूढादिचित्तवृत्तीनां निरोधसम्भवाद्योगत्वप्रसङ्गः न चैतद्युज्यते क्षिप्ताद्यवस्थासु क्लेशप्रहाणादेरसम्भवान्निःश्रेयसपरिपन्थित्वाच्च। तथा हि क्षिप्तं तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं चित्तमुच्यते। तमःसमुद्रे मग्नं निद्रावृत्तिमच्चित्तं मूढमिति गीयते। क्षिप्ताद्विशिष्टं चित्तं विक्षिप्तमिति गीयते विशेषो नाम चञ्चलं हि मनः कृष्ण! प्रमाथि वलवद्दृढमिति” न्यायेनास्थिरस्यापि मनसः कादाचित्कसमुद्भूतविषयस्थैर्य्यसम्भवेन स्थैर्य्यम्। अस्थिरत्वञ्च स्वाभाविकं ष्याध्याद्यनुशयजनितं वा तदाह “व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः” इति। तत्र दोषत्रयवैषम्यनिमित्तो ज्वरादिर्व्याधिः, चित्तस्याकर्मण्यत्वं स्त्यानं, विरुद्धकोटिद्वयावगाहि ज्ञानं संशयः समाधिसाधनानाममावनं प्रमादः, शरीरवाक्चित्तगुरुत्वादप्रवृत्तिरालस्यं, विषयाभिलाषोऽविरतिः, अतस्मिंस्तद्बुद्धिर्भ्रान्तिदर्शनं कुतश्चिन्निमित्तात् समाधिभूमेरलाभोऽलब्धभूमिकत्वं, लब्धायामपि तस्यां चित्तस्याप्रतिष्ठा अनवस्थितत्वमित्यर्थः। तत्पान्न वृत्तिनिरोधो योगपक्षनिक्षेपमर्हति इति चेन्मैवं वोचः हेयमूतक्षिप्ताद्यवस्थात्रये वृत्तिनिरोधस्य हेयत्वसम्भवेऽप्युपादेययोरेकाग्रनिरुद्धावस्थयोर्वृत्तिनिरोवस्य योगत्वसम्भवात्। एकतानं चित्तमेकाग्रसुच्यते निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धमिति मन्यते। स च समाधिर्द्विविधः सम्प्रज्ञातासम्प्रज्ञातभेदात् तत्रैकाग्रचेतसि यः प्रमाणादिवृत्तीनां बाह्यविषयाणां निरोधः स सम्प्रज्ञातसमाघिः सम्यक् प्रज्ञायतेऽस्मिन् प्रकृतेर्विविक्ततया चित्तमिति व्युत्पत्तेः। स चतुर्विधः सवितर्कादिभेदात् समाधिर्नाम भावना सा च भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनं, भाव्यञ्च द्विविघम् ईश्वरस्तत्त्वानि च। ताम्यपि द्विविधानि जडाजडभेदात् जडानि प्रकृतिमहदङ्कारादीनि चतुविंशतिः अजडः पुरुषः। तत्र यदा पृथिव्यादीनि स्थूलानि विषयत्वेनादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेख्यसम्भेदेन च भावना प्रवर्त्तते स समाधिः सवितर्कः। यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्त्तते तद सविचारः। यदा रजस्तमीलेशानुमिद्धं चित्तं भाव्यते तदा सुखप्रकाशमयस्य सत्वस्योद्रेकात् सानन्दः। यदा रजस्तमोलेशानभिभूतं शुद्धं सत्थमालम्बनीकृत्य या प्रवर्त्तते भावना तदा तस्यां सत्वस्य न्यग्भावाच्चितिशक्तेरुद्रेकाच्च सत्वमात्रावशेषत्वेन सास्मितः सकाधिः। वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः इति। सर्ववृत्तिनिरोधे त्वसम्रज्ञातः समाथिः। ननु सर्ववृत्तिनिरोधोयोग इत्युक्ते सम्प्रज्ञाते व्याप्तिर्न स्यात् तत्र सत्वप्रधानायाः सत्यपुरुषान्यतास्थातिलक्षणाया वृत्तेरनिरोधादिति चेत्तदेतद्वार्त्तं क्लेशकर्मविपाकाशयपरिपन्विचित्तवृत्तिनिरोध योग इत्यङ्गीकारात्। क्लेशाः पुनः पञ्चधा प्रसिञ्चा अविद्यास्मितारागद्वेषाभिनिवेशाः। नन्वविद्येत्यत्र किमाश्रीयते पूर्वपदार्थप्राधान्यम् अमक्षिकं वर्त्तत इतिवत् उत्तरपदार्थप्राधान्यं वा राजपुरुष इतिवत् अन्यपदार्थप्राधान्यं वा अमक्षिको देश इतिवत् तत्र न पूर्वः, पूर्वपदार्थप्रधानत्वे विद्यायाः प्रसज्यप्रतिषेधोपपत्तौ क्लेशादिकारलत्वानुपपत्तेः अविद्याशब्दस्य स्त्रीलिङ्गत्वाभावापत्तेय। न द्वितीयः, कस्यचिदभावेन विशिष्टाया विद्यायाः क्लेशादिपरिपन्वित्वेन तद्वीजत्वानुपपत्तेः। न तृतीयः “नब्जोऽस्त्यर्थानां बहूव्रीहिर्वा चोत्तरपदलोपः” इति वृत्तिकारवचनासुसारेण अविद्यमाना विद्या यस्याः सा अविद्या बुडिरिति समाधिसिद्धौ तस्या अविद्यायाः क्लेशादिवीजत्वानुपपत्तेः विवेकख्यातिपूर्वकसर्ववृत्तिसम्पन्नायास्तस्यास्तथात्वाप्रसङ्गाच्च उक्तञ्च अस्मितादीनां क्लेशानामविद्यानिदानत्वम्। “अविद्याक्षेत्रत्वमुत्तरेषां प्रसुप्रतनुविच्छिन्नोदाराणामिति”। तत्र प्रसुप्तत्वं प्रबोधसहकार्यभाबेनानभिव्यक्तिः, तनुत्वं प्रतिपक्षभावनया शिथिलीकरणं, विच्छिन्नत्वं बलवता क्लेशेनाभिमवः, उदारत्वं सहकारिसन्निधिवशात् कार्यकारित्वम्। तदुक्तं वाचस्पतिमिश्रेण व्यासभाष्यव्याख्यायाम् “प्रसुप्तास्तत्त्वलीनानां तनुदग्धाश्च योगिमाम्। विच्छिन्नोदाररूपाश्च क्लेशा विषयसङ्गिनाम्” इति द्वन्द्ववत् स्वतन्त्रपदार्थद्वयामवगमादुभयषदार्थप्रधानत्वं नाशङ्कितम्। तस्मात् पक्षत्रयेऽपि क्लेशादिनिदानत्वमविद्यायाः प्रसिद्धं हीयेतेति चेत् तदपि न शोभनं विभाति पर्युदासशक्तिमाश्रित्याविद्याशब्देन विद्याविरुद्धस्य विपर्य्ययज्ञानस्याभिधानमिति वृद्धैरङ्गीकारात्। तदाह “नामधात्वर्थयीने तु नैव नञ् प्रतिषेधकः। वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनाविति। वृद्धप्रयोगमस्या हि शब्दार्थाः सर्व एव नः तेन यत्र प्रयुक्तो यो न तस्मादपनीयते” इति वाचस्पतिमिश्रैरप्युक्तं “लोकाधीनावधारणो हि शब्दार्थयोः सम्बन्धः लोके चोत्तरपदार्थप्रधानस्यापि नञ उत्तरपदाभिधेयोपमर्दकस्य तद्विद्धतया तत्र तत्रोपलब्धेरिहापि तद्विरुद्धे प्रवृत्तिरिति”। एतदेवाभिप्रेत्योक्तम् “अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्येति”। अतस्मिंस्तद्बद्धिर्विपर्य्ययः इत्युक्तं भवति तद्यथा अनित्ये घदादौ नित्यत्वामिमानः, अशुचौ कायादौ शुचित्वप्रत्ययः। “स्थानाद्वीजादवष्टम्भान्निष्यन्दान्निधनादपि। कायमाधेयशौश्रत्वात् पण्डिता ह्यशुचिं विदुः” इति “परिणामतापसंस्कारैर्गुणवृत्तिनिरोधाच्च दुःखमेव सर्वं वियेकिन इति” न्यायेन दुःखे स्रक्चन्दनवनितादौ सुखत्वारोपः अनात्मनि देहाबात्मबुद्धिः। तदुक्तम् “अनात्मनि च देहादावात्मबुद्धिस्तु देहिनाम्। अबिद्या तत्कृती बन्धस्तन्नाशे मोक्ष उच्यते” इति एवमियमविद्या चतुष्प्रकारा भवति। तन्वेतेष्वविद्याविशेषेषु किञ्चिदनुगतं सामान्यलक्षणं वर्णनीयम् अन्यथा विशेषस्यासिद्धेः। तथाचोक्तं भट्टाचार्य्यैः “सामान्यलक्षणं त्यक्त्वा विशेषस्यैव मृजणम्। न शक्यं केवलं वक्तुमतोऽप्यस्य–न वाच्यता” इति तदपि न वाच्यमतस्विंस्तदुरिति सामान्यलक्षणाभि- धानेन दत्तोत्तरत्वात्। सत्वपुरुषयोरहमस्मीत्येकताभिमानोऽस्मिता तदप्युक्तं “दृक्दर्शनशक्त्योरेकात्मत्वाभिमानोऽस्मितेति”। सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्द्धो रागः। दुःखज्ञस्य तदनुस्मृतिपुरःसरन्तत्साधनेषु निन्दा द्वेषः तदुक्तं “सुखानुशयी रागः दुःखानुशयो द्वेषः” इति। किमत्रानुशयिशब्दे ताच्छील्यार्थे णिनिरिनिर्वा मत्वर्थीयोऽभिमतः नाद्यः “सुप्यजातौ णिनिस्ताच्छील्ये इत्यत्र सुषीति वर्त्तमाने पुनःसृव्ग्रहणस्य उषसर्गनिवृत्त्यर्थत्वेन सोपसर्गाद्धातोर्णिनेरनुत्पत्तेः यथा कथञ्चिदङ्गीकारेऽपि “अचोञ्णितीति” वृद्धिप्रसक्तावतिशाय्यादिपदवदनुशायिपदस्य प्रयोगप्रसङ्गात्। न द्वितीयः “एकाक्षरात् कृतोजातेः सप्तम्याञ्च न तौ (इनिठनौ) स्मृताविति” तत्प्रतिषेधादत चानुशयशब्दस्याजन्तत्वेन कृदन्तत्वात्। तस्मादनुशयिशब्दो दुरुपपाद इति चेत् नैतद्भद्रं भावानवबोधात् प्रायिकाभिप्रायमिदं वचनम्। अतएवोक्तं वृत्तिकारेण “इतिकरणो विवक्षार्थः सर्वत्राभिसम्वध्यते” इति तेन कचिद्भवति कार्य्यी कार्य्यिकस्तण्डुली तण्डुलिक इति तथा च कृदन्तात् जातेश्च प्रतिषेधस्य प्रायिकत्वम् अनुशयशब्दस्य कृदन्ततया इनेरुपपत्तिरिति सिद्धम्। पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलात् सर्वस्य प्राणभृन्मात्रस्याकृमेरा च विदुषः सञ्जायमानः शरीरविषयादेर्मम वियोगी मा भ्दिति प्रत्यहं निमित्तं विना प्रवर्त्तमानोभयरूपोऽभिनिवेशः पञ्चमः क्लेशः मा च भूवं हि भूयासमिति प्रार्थनायाः प्रत्यात्ममनुभवसिद्धत्वात् तदाह “स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः” इति। ते चाविद्यादयः पञ्च सांसारिकविविधदुःखोपहारहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः प्रसिद्धाः। कर्माणि विहितप्रतिषिद्धरूपाणि ज्योतिष्टोमब्रह्महत्यादीनि विपाकाः कर्मफलानि जात्यायुर्भोगाः, आफलविपाकाच्चित्तभूमौ शेरते इत्याशयाः धर्माधर्मसंस्काराः। तत्परिपन्थिचित्तवृत्तिनिरोधी योगः। निरोधो, नाभावमात्रमभिमतं तस्य तुच्छत्वेन भावरूपसंस्कारजननक्षमत्वासम्भवात् किन्तु तदाश्रयो मधुमतीमधुप्रतीकाविशोकासंस्कारशेषताव्यपदेश्यः घ्नित्तस्यावस्थाविशेषः निरुध्यन्तेऽस्मिन् प्रमाणाद्याश्चित्तवृत्तय इति व्युत्पत्तेरुपपत्तेः। अभ्यासवैरान्याभ्यां वृत्तिनिरोधः। तत्र स्थितौ भूयान् यत्रोऽभ्यासः। प्रकाशप्रवृत्तिरूपवृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणामविशेषः स्थितिः। तन्निमित्तीकृत्य यत्नः पुनः पुनस्तथात्वेन चेतसि निवेशनमभ्यासः। चर्मणि द्वीपिनं हन्तीतिबन्निमित्तार्थेयं सप्तमीत्युक्तं भवति “दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्”। ऐहिकपारत्रिकविषयादौ दोषदर्शनान्निरभिलाषस्य ममैते विषया वश्याः नाहमेतेषां वश्य इति विमर्शो वैराग्यमित्युक्तं भवति। समाधिप्ररिपन्थिक्लेशतनूकरणार्थं समाधिलाभार्थं च प्रथमं क्रियायोगविधानपरेण योगिना मवितव्यं क्रियायोगसम्वादने अभ्यासवैराग्ययोः सम्भवात् तदुक्तं भगवता “आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते” इति। क्रियायोगश्चोपदिष्टः पतञ्जलिना “तपःस्वाध्यायेश्वरप्रणिधानागि क्रियायोगः” इति। तपःस्वरूपं निरूपितं याज्ञवल्क्येन “विषिनोक्तेन मार्गेण कृच्छ्चान्द्रायणादिभिः। शरीरशोषणं पाहुस्तपसां तप उत्तमम्” इति। प्रणवगायित्रीमन्त्रप्रभृतोनामध्ययनं स्वाध्याय इति। तत्र मन्त्रा द्विविधाः वैदिकास्तान्त्रिकाश्च। वैदिकाश्च द्विविधाः प्रगीता अप्रगीताश्च। तत्र प्रगीताः सामानि अप्रगीतार द्विविधाः छन्दोबद्धास्तद्बिलक्षणाश्च। तत्र प्रथमा ऋचोद्वितीया यजूंषि तदुक्तं जैमिनिना “तेषामृग् यत्रार्थवशेन पाद व्यवस्था गीतिषु सामाख्या शेषे यजुःशब्द” इति। तन्त्रेषु कामिककारणप्रपञ्चाद्यागमेषु ये ये वर्णितास्ते तान्तिकाः। ते पुनर्मन्त्रास्त्रिविधाः स्त्रीपुञ्चपुंसकभेदात्तदाह “स्त्रोपुंनसकत्वेन त्रिविधा मन्त्रजातयः। स्त्रीमन्त्रा वह्निजायान्ताः नमोऽन्ताः स्युर्नपुंसकाः। शेषाः पुमांसस्ते शस्ताः सिद्धा वश्यादिकर्मणि” इति। स्नापनादिसंस्काराभावेऽपि निरस्तसमस्तदोषत्वेन सिद्ध्हिहेतुत्वात् सिद्धत्वम्। स च संस्कारो दशविधः मथितः शारदातिलके “मन्त्राणां दश कथ्यन्ते संख्यारा सिद्धिदायिनः। निर्दोषतां प्रयान्त्याशु ते मन्त्राः साधु संस्कृताः। जननं जीवनञ्चैव ताडनं बोधनं तथा। अभिषेकोऽथ बिमलीकरणाप्यायने पुनः। तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः। मन्त्राणां मातृकावर्णादुद्धारो जननं स्मृतम्। प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः। मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते। मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा। प्रत्येकं वायुवीजेन ताडनं तदुदाहृतम्। वितिख्य षन्त्रवर्णांस्तु प्रसूनैः करवीरजैः। मन्त्राक्षरेण संख्यातैर्हन्यात्तद्बोधनं मतम्। स्यतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसङ्क्यया। अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धये। संचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत्। मन्त्रे मलत्रयं मन्त्री विमलीकरणं हि तत्। तारव्योमाग्निमनुयुक् ज्योतिर्मन्त्र उदाहृतः। कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः। वारिवीजेन विधिवदेतदाप्यायनं मतम्। मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं स्मृतम्। तारमायारमायोगो मनोर्दीपनमुच्यते। जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशजम्। संस्कारा दश मन्त्राणां सर्वतन्त्रेषु गोपिताः। यत्कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमश्नुते। रुद्धकीलितविच्छिन्नसुप्तशप्तादयोऽपि च। मन्त्रदोषाः प्रणश्यन्ति संस्कारैरेभिरुत्तमैः” इति। तदलमकाण्डताण्डवकल्पेन मन्त्रशास्त्ररहस्योद्घोषणेन। ईश्वरप्रणिधानं नामाभिसंहितानामनभिसंहितानाञ्च सर्वासां क्रियाणां परमेश्वरे परमगुरौ फलानपेक्षया समर्पणम्। अत्रेदमुक्तम् “कामतोऽकामतो वापि यत्ककरोमि शुभाशुभम्। तत्सर्वं त्वयि विन्यस्तं त्वत्प्रयुक्तः करोम्यहम्” इति। क्रियाफलसन्न्यासोऽपि भक्तिविशेषापरपर्य्यायं प्रणिधानमेव फलानभिसन्धानेन कर्मकरणात् तथा च गीयते गीतासु भगवता “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्म फलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि” इति फलाभिसन्धेरुपघातकत्वमभिहितं भगवद्भिर्नीलकण्ठभारतीश्रीचरणैः “अपि प्रयत्र सम्पन्नं कामेनोपहतं तपः। न तुष्टये महेशस्य श्वलीढमिव पायसम्” इति णा च तपःस्वाध्यायेश्वरप्रणिधानात्मिका क्रिया योगसाधनत्वाद्योग इति। शुद्धसारोपलक्षणावृत्त्याश्रयणेन निरूप्यते यथायुर्घृतमिति। शुद्धसारोपलक्षणा नाम लक्षणाप्रमेदः। मुख्यार्थबाधतद्योगाभ्यामर्थान्तरप्रतिपादनं लक्षणा सा द्विविधा रूढिमूला प्रयोजनमूला च तदुक्तं काव्यप्रकाशे “मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्। अन्योऽर्थी लक्ष्यते यत् सा लक्षणाऽऽरोपिता क्रिया” इति। यच्छब्देन लक्ष्यत इत्याख्याते गुयीभूतं प्रतिपादनमात्रं परामृश्यते। सा लक्षणेति प्रतिनिर्दिश्यमानापेक्षया तच्छब्दस्य स्त्रीलिङ्गत्वोपपत्तिः। तदुक्तं कैयटैः “निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमायादयन्ति सर्वनामानि पर्य्यायेण तत्तल्लिङ्गमुपाददते” इति तत्र कर्मणि कुशस इत्यादि रूढिलक्षणाया उदाहरणं कुशान् लातीति व्युत्पत्या दर्भादानकर्त्तरि यौगिकं कुशलपदं विवेचकत्वसारूप्यात् प्रवीणे प्रवर्त्तमानम् अनादिवृद्धव्यवहारपरम्परानुपातित्वेनाभिधानबत् प्रयोजनमनपेक्ष्य प्रवर्त्तते। तदाह “निरूढा लक्षणाः काश्चित् सामर्थ्यादभिधानवत्” इति। तस्मात् रूढिलक्षणायाः प्रयोजनापेक्षा नास्ति। यद्यपि प्रयुक्तः शब्दः प्रथमं मुख्यार्थं प्रतिपादयति तेनार्थेनार्थान्तरं लक्ष्यते इति अर्थधर्मो लक्षणा तथापि तत्प्रतिपादके शब्दे समारोपितः सन् शब्दव्यापार इति व्यपदिश्यते” इति। स च योगी यमादिभेदवशादष्टाङ्ग इति निर्दिष्टः। तत्र यमा अहिंसादयः। तदाह पतञ्जलिः “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः” इति। नियमाः शौचादयः। तदप्याह “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः” इति। एते च यमनियमा विष्णुपुराणे दर्शिताः “ब्रह्मचर्य्यमहिंसां च सत्यास्तेयापरिग्रहान्। सेवेत यागी निष्कामो योग्यतां स्वं मनो नयन्। स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान्। कुर्वीत ब्रह्मणि परं परस्मिन् प्रवणं मनः। एते यमाः सनियमाः पञ्च पञ्च प्रकीर्त्तिताः। विशिष्टफलदाः कामे निष्कामाणां विमुक्तिदाः” इति। स्थिरसुखमासनं पद्मासनभद्रासनवीरासनस्वस्तिकासनदण्डकासनसीपाश्रयपर्य्यङ्कक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थानभेदाद्दशविधम् “पादाङ्गुष्ठौ निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु। ऊर्वोरुपरि विप्रेन्द्र! कृत्वा पादतले उभे। पद्मासनं भवेदेतत् सर्वेषामभिपूजितम्” इत्यादिना याज्ञवल्क्यः पद्मासनादिस्वरूपं निरूपितवान् तत्सर्वं ततएवावगन्तव्यम्। तस्मिन्नासनस्थैर्य्ये सति प्राणायामः प्रतिष्ठितो भवति। स च श्वासप्रश्वासयोर्गतिविच्छेदस्वरूपः तत्र श्वासो नाम बाह्यस्य वायोरन्तरानयनम्। प्रश्वासः पुनः कौष्ठ्यस्य बहिर्निःसारणम्। तयोरुभयोरपि सञ्चरणाभावः प्राणायामः। ननु नेदं प्राणायामसामान्यलक्षणं तद्विशेषेषु रेचकपूरककुम्भकप्रकारेषु तदनुगतेरयोगादिति चेन्नैष दोषः सर्वत्रापि श्वासप्रश्वासगतिविच्छेदसम्भवात् तथा हि कौष्ठ्यस्य वायोर्बहिर्निःसरणं रेचकः प्राणायामः प्रश्वासत्वेन प्रागुक्तः। बाह्यवायोरन्तर्धारणं पूरकः यः श्वासरूपः। अन्तस्तम्भवृत्तिः कुम्भकः यस्मिन् जलमिव कुम्भे निश्चलतया प्राणाख्यो वायुरवस्थाप्यते। तत्र सर्वत्र श्वासप्रश्वासद्वयगतिविच्छेदोऽस्त्येवेति नास्ति शङ्कावकाशः। तदुक्तं “तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” इति। स च वायुः सूर्य्योदयमारभ्य सार्द्धघटिकाद्वयं धटीयन्त्रस्थितषटभ्रमणम्यायेन एकैकस्यां नाड्यां भवति एवं सत्यहर्निशं श्वासप्रश्वासयोः षट्शताघिकैकविंशतिसहस्नाणि जायन्ते। अतएवोक्तं मन्त्रसमर्पणरहस्यबेदिभिरजपामन्त्रसमर्पणे “षट्शतानि गणेशाय षट्सहश्रं स्वयम्भुवे। विष्णवे षट्सहस्रञ्च षट्सहस्रं पिनाकिने। स हस्रमेकं गुरवे सहस्नं परमात्मने। सहस्रमात्मने चैवमर्पयानि कृतं जपम्” इति तथा नाडीसञ्चरणदशायां वायोः सञ्चरणे पृथिव्यादीनि तत्त्वानि वर्णविशेषवशात् पुरुषार्थाभिलाषुकैः पुरुषैरवगन्तव्यानि। तदुक्तपमियुक्तैः “सार्द्धं घटीद्वयं नाडी रेकैकार्कोदयात् वहेत्। अरथट्टधटीभ्रान्तिन्यायो नाड्योः पुनः पुनः। शतानि तस्य जायन्ते निश्वासोच्छ्वासयोर्नव। स्वस्वषट्कुद्विकैः २१६०० सङ्ख्याहोरात्रे सकले पुनः। षट्त्रिंशद्गुरुवर्णानां या वेला भणने भवेत्। सा वेला मरुतो नाड्यन्तरे सञ्चरत्रो भवेत्। प्रत्येकं पञ्च तत्त्वानि लाड्योश्च बहमानयोः। वहन्त्यहर्निशं तानि ज्ञातव्याबियतात्मभिः। ऊर्द्ध्वं वह्निरघस्तोयं तिरश्चीनः समीरणः। भूमिरर्द्धपुटे व्योम सर्वगं प्रवहेत् पुनः। वायोर्वह्नेरपां पृथ्व्या व्योम्नस्तत्त्वं वहेत् क्रमात्। वहन्त्योरुभयोर्नाढ्योर्ज्ञातव्योऽयं यथाक्रमम्। पृथ्व्याः पलानि पञ्चाशच्चत्वारिंशत्तथाम्भसः। अग्नेस्त्रिंशत् पुनर्वायोर्विंशतिर्नभसी दश। प्रवाहकालसंख्येयं हेतुर्विह्वलयोरथ। पृथ्वी पञ्चगुणा तोयं चतुर्गुणमथानलः। त्रिगुणोद्विगुणो वायुर्वियदेकगुणं भवेत्। गुणं प्रति दश पणान्युर्व्यां पञ्चाशदित्यतः। एकैकहानिस्तोयादेस्तथा पञ्चगुणाः क्षितेः। तत्त्वाभ्यां भूजलाभ्यां स्यात् शान्तिकार्य्ये फलोन्नतिः। दीप्तास्थिरादिके कृत्ये तेजोवाष्वम्बरेषु च। पृथ्व्यप्तेजोमरुद्व्योमतत्त्वानां चिह्नसुच्यते। आद्ये स्थैर्य्यं स्वचित्तस्य, शैत्ये कामोद्भवो भव्रेत्। तृतीये कोपसन्तापौ चतुर्थे अञ्चलात्मता। पञ्चमे शून्यतैव स्यादथ वा धर्मवासना। श्रुत्योरङ्गुष्ठकौ मध्याङ्गुल्यौ नासापुटद्वये। स्मृक्वणोः प्रान्त्यकोपान्त्याङ्गुली शेषे दृगन्तयोः। न्यस्यान्तर्भूपृथिव्यादितत्त्वज्ञानं भवेत् क्रमात्। पीतश्वेतारुणश्यामैर्विन्दुभिर्निरुपाधि स्वम्” इत्यादिना। यथावद्वायुतत्त्वमवगस्थ तन्नियमने विधीयमाने विवेकज्ञानावरणकर्मक्षयो भवति। “तपो न परं प्लाणायामादिति”। “दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः। पाणायामैस्तु दह्यन्ते तद्वदिन्द्रियपन्नगाः” इति च। तदेवं यमादिभिः संस्कृतमनस्कस्य योगिनः संयमप्रत्याहारः कर्त्तव्यः चक्षुरादीनामिन्द्रियाणां प्रतिनियतरञ्जनीयकोपनीयसोहनीयप्रवणत्वप्रहाणेनाविकृतस्वरूपप्रवणचित्तानुकारः प्रत्याहारः इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति व्युत्पत्तेः। ननु तदा चित्तमभिनिविशते नेन्द्रियाणि तेषां बाह्यविषयत्वेन तत्र सामार्थ्याभावादतः कथं चित्तानुकारः? अद्धा अतएव वस्तुतस्तस्यासम्भवमभिसन्धाय सादृश्यार्थमिव शब्दञ्चकार सूत्रकारः “स्वविषयासम्प्रयोगे चिचस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः” इति। सादृश्यञ्च चित्तानुकारनिमित्तं विषयासम्प्रयोगः यदा चित्तं निरुध्यते तदा चक्षुरादीनां निरोधे प्रयत्नान्तरं नापेक्षणीयं यथा मधुकरराजं मधुमक्षिका अनुवर्त्तन्ते तथेन्द्रियाणि चित्तमिति। तदुक्तं विष्णुपुराणे “शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगविंत्। कुर्य्याच्चित्तानुकारीणि प्रत्याहारपरायणः” इति। “वश्यता परमा तेन ज्ञायतेऽतिचलात्मनः। इन्द्रियाणामवश्यैस्तैर्योगी योगस्य साधकः” इति। नाभिचक्रहृदयपुण्डरीकनाड्यग्रादावाध्यात्मिके हिरण्यगर्भप्रजापतिप्रभृतिके बाह्ये वा देशे चित्तस्य विपयान्तरपरिहारेण स्थिरीकरणं धारणा। तदाह “देशबन्धाश्चित्तस्य धारणेति”। पौराणिकाश्च “प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम्। वशीकृत्य ततः कुर्य्याच्चित्तस्थानं शुभाश्रयम्” इति। तस्मिन् देशे ध्येयावलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्रहाणेन प्रवाहीध्यानं तदुक्तं “तत्र प्रत्ययैकतानता भ्यानमिति”। अग्यैरप्युक्तं “तदूपप्रत्ययैकाग्र्या सन्ततिश्रान्यनिस्पृहा। तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते तथा” इति। प्रसङ्गाच्चरममङ्गं प्रागेव प्रत्यपीपदाम। तदनेन योगाङ्गानुष्ठानेनादरनैरन्तर्य्यदीर्घकालसेवितेन समाघिप्रतिपक्षक्लेशप्रक्षयेऽभ्यासवैराग्यवशान्मधुमत्यादिसमाधिलाभो भवति। अथ किमेवमकस्मादस्मानतिविकटाभिरत्यन्ताप्रसिद्धाभिः कर्णाटगौडलाटभाषाभिर्भीषयते भवान्, न हि वयं भवन्तं भीषयामहे किन्तु मधुमत्यादिपदार्यव्युत्पादनेन तोषयामः ततश्चाकुतोभयेन भवता श्रूयतामवधानेन। तत्र मधुमती नामाभ्यासवैराग्यादिवशादपास्तरजस्तमीलेशसुखप्रकाशमयसत्वभावनयाऽनवद्यवैशारद्यविद्योतनरूपा श्रतम्भरप्रज्ञाख्या समाधिसिद्धिः। तदुक्तं “ऋतम्भरा तत्र प्रज्ञेति”। ऋतं सत्यं बिमर्त्ति कदाचिदपि न विपर्य्ययेणाच्छाद्यते तत्र स्थितौ दाद्ये सति द्वितीयस्य योगिनः सा प्रज्ञा भवतीत्यर्थः। चत्वारः खलु योगिनः प्रसिद्धाः प्रथमकल्पिको मधुमूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति। तत्राभ्यासे प्रवृत्तिमात्रज्योतिः प्रथमः न त्वनेन प्रचित्तादिगोचरज्ञानरूपं ज्योतिर्वशीकृतमित्युक्तं मवति। ऋतम्भरप्रज्ञो द्वितीयः, भूतेन्द्रियजयी तृतीयः परवैराग्यसम्पन्नश्चतुर्थः। मनोजवित्वादयो मधुप्रतीकसिद्धयः। तदुक्तं “मनोजवित्वं विकरणाभावः प्रधानजयश्चेति”। मनोजवित्वं नाम कायस्य मनोवदुत्तमो गतिलाभः विकरणाभावः कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्षवृत्तिलाभः, प्रधानजयः प्रकृतिविकारेषु सर्वेषु वशित्वम्। एताश्च सिद्धयः करणपञ्चकस्वरूपजयात् तृतीयस्य योगिनः प्रादुर्भवन्ति यथा मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः स्वदन्त इति मधुप्रतीकाः। सर्वभावाद्यधिष्ठातृत्वादिरूपाविशोका सिद्धिः। तदाह “सत्वपुरुषाम्यताख्यातिमात्रप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञत्वं चेति”। सर्वेषां व्ययसायाव्यषसायात्मकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्षमावाधिष्ठातृत्वं तेषामेव शान्तोदिताव्यवदेश्यथर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञातृत्वम्। तदुक्तं “विशोका वा ज्योतिष्मतीति”। सर्ववृत्तिप्रत्यस्तमये परं वैराग्बमाश्रितस्य जात्यादिवीजानां क्लेशानां निरीवसमर्थो निर्वीजः समाधिः असम्प्रज्ञातपदवेदनीयः संस्कारशेषताव्यपदेश्यः चित्तस्यावस्थाविशेषः। तदुक्तं “विरामः प्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यऽ इति। एवञ्च सर्वतो बिरज्रमानस्व तस्य पुरूषधौरेयस्म क्वेशवीजानि च निर्दग्धशासिवीजकल्पानि प्रसवसामर्थ्यविधुराणि मनसा सार्द्धं प्रत्यस्तं गच्छन्ति। तदेतेषु प्रलीनेषु निरुषप्लवविवेकख्यातिपरिपाकवशात् लार्यकारणात्मकानां प्रधानेकमः चितिशक्तिस्वरूपप्रतिष्ठा पुनर्बुद्धिसत्वामिश्चम्यन्धविचुरा कैवल्यं लभते इति। सिद्धिद्वयी च मुक्तिरुक्ता पतञ्जलिना “पुरुषार्थशून्यानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति”। न चासिन् सत्यपि कस्मान्न जायते जन्तुरिति वदितव्यं कारणाभावात् कार्य्याभाव इति प्रमाणसिद्धार्थे नियोगानुयोगयोरयोगात्। अपरथा कारणाभावेऽपि कार्यसम्भवे जणिवेधादयोऽन्धदिभ्यो भवेयुः। तथा चानुपपन्नार्थतायामामाणको लौकिक उपपन्नार्थो मवेत्। तथा च श्रूयते “अन्धो मणिमविध्यत्तमनङ्गुलिरथावयत् (ग्रथितवान्)। अग्रीवस्त्रं प्रत्यमुञ्चत् (पिनद्धवान्) तमजिह्वोऽप्यभ्यपूजयत्” (स्तुतवातिति) यावत्। एवञ्च चिकित्साथास्त्रवद्योनशास्त्रं चतुर्व्यूहं यथा चिकित्साशास्त्रं रोगो रोगहेतुरारोग्यं भेषजमिति तथेदमपि संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति। तत्र दुःखमयः संसारो हेयः, वधानपुरुषयोः संयोनो हेयभोनहेतुः, तस्यात्यन्तिकी निवृत्तिर्हानं तदुपायः सम्यन्दर्शनम्। एवमन्यदपि शास्त्रं यथासम्भवं चतुर्व्यूहमूहनीयमिति सर्वग्रवदातम्”।
पतत् = त्रि० पत–शतृ बा० अति वा। १ पतनकर्त्तरि २ पक्षिणि पु० अमरः।
पतत्र = न० पत–करणे अत्रन्। वाहने उज्ज्वलदत्तः।
पतत्रि = पु० पत–अत्रिन्। खगे उज्ज्वक० पतत्त्री पतत्त्रयः।
पतत्त्र = पु० पतन्तं त्रायते त्रै–क। पक्षिणां पक्षे (पाका) अमरः।
पतत्त्रिकेतन = पु० पतत्त्री केतनं यस्य। गरुडध्वजे विष्णौ हरिवं० ३८४२ श्लो०।
पतत्त्रिन् = पु० पतत्त्र + अस्त्यर्थे इनि। खगे अमरः।
पतद्ग्रह = पु० पतत् मुखादिभ्यः स्वत् ब्जलादि गृह्णाति ग्रह–अच्। (पिकदानी) पात्रमेदे अजरः। अण् उप० स०। पतद्ग्राह तत्रार्थे हेमच०।
पतद्भीरु = पु० पतन् पक्षी भीरुर्यस्मात्। श्येने स्वननेदे शब्दरत्ना-
पतन = न० पत–भावे ल्युट्। १ अधःसंयोगानुकूलस्पन्दने ३ पातित्ये च “द्विजातिकर्मभ्योहानिः पतनम्। परत्र चासिद्धिस्तमेके नरकम्” गौतमः। पतितशब्दे दृष्यम् “विहितस्याननुष्ठानात् निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” याज्ञ०।
पतनीय = त्रि० पत–अनीयर् पतनमर्हति छ वा। १ पात्ये २ पतनार्हे च त्रि०। बा० करणे अनीयर्। २ पातके न०
पतम = पु० पतत्यस्मात् कर्मक्षये पत–अम। चन्दे अणादिवृत्तिः क्षीणपुण्यानां चन्द्रलोकदेव पतनं शास्त्रे श्रूयते इति तस्य तथात्वम्।
पतयालु = त्रि० पति–आलु–तत्पर्युदासेन न णिलोपः। पतनशीले।
पतयिष्णु = पति–बा० इष्णुच् न णिलोपः। पतनशीले ऋ० १। १६३। ११। उदा०।
पतर = त्रि० पत–वा० अरन्। गन्तरि ऋ० ३। २। ४। उदा०
पतरु = त्रि० अत–बा० अरु। पतमशीले ऋ० १। १८। ७ उदा०
पतस = त्रि० पत–असच्। १ कगे २ चन्द्रे ३ पतङ्गे च उणादि०
***