पञ्चचामर = न० “प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम्” वृ० र० उक्ते षोडशाक्षरेपादके छन्दोभेदे।
पञ्चचितिक = पु० पञ्च चितयः प्रस्तारा यस्मिन्। १ अग्निभेदे “पञ्जकृत्वः सादयति पञ्चचितिकोऽग्निः” शत० ब्रा० ७। १। १। ७२ “पञ्चकृत्व इति मध्ये उपधेयेष्टकाचतुष्टयस्यैकस्याः सादनायान्यासां चत्वारीति पञ्चचितयो भवन्ति” भा०।
पञ्चचीर = पु० पञ्च चीराण्यस्य। मञ्जुघोषे त्रिका०।
पञ्चचूडा = स्त्री अप्सरोभेदे भा० व० १६६ श्लोके
पञ्चजन = पु० पञ्चभिः भूतैर्जन्यते जन–घञ्, न वृद्धिः। १ मनुष्ये अमरः। २ मनुष्यसम्बन्धिनि प्राणादौ ३ मनुष्यतुल्ये देवादौ ४ मनुष्यभेदे ब्राह्मणादौ च शा० सू० भाष्यम् तथाहि “यस्मिन् पञ्च पञ्च जना अ काशश्च प्रतिष्ठितः” तद्धृतवेदमन्त्रे “प्रञ्च पञ्च शब्दशब्देन पञ्चविंशतितत्त्वान्युच्यन्ते” इति सांख्यमतनिराकरणेन पञ्चजनशब्दस्य प्राणादिपरत्वं समर्थितं दिङ्मात्रमत्रोच्यते “कथं तर्हि पञ्च पञ्चजना इति, उच्यते, “दिक्सङ्ख्ये संज्ञायामिति” पा० विशेषस्मरणात् मंज्ञायामेव पञ्चशब्दस्य जनशब्देन समासः, ततश्च रूढत्वाभिप्रायेणैव केचित् पञ्चजना नाम विवक्ष्यन्ते, न साङ्ख्यतत्त्वाभिप्रायेण, ते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते, पञ्चजना नाम केचित्, ते च पञ्चेत्यर्थः सप्तर्षयः सप्तेति यथा। के पुनस्ते पञ्चजना नामेति तदुच्यते। “प्राणादयो वाक्यशेषात्” शा० सू० “यस्मिन् पञ्च पञ्चजना इत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः “प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्चोत्रस्य श्रोत्रमन्नस्यान्नं षनसो ये मनो विदुः” इत्यत्र वाक्यशेषगताः सन्निधानात् पन्चजना विवक्ष्यन्ते। कथं पुनः प्राणादिषु पञ्चजनशब्दप्रयोगः तत्त्वेषु वा कथं जनशब्दप्रयोगः समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात् प्राणादय एव ग्रहीतव्या भवन्ति जनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्ति। जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः, “ते वा एते पञ्च ब्रह्म पुरुषाः” इति, अत्र “प्राणो ह पिता प्राणो ह माता” इत्यादि च ब्राह्मणम्। समासबलाच्च समुदायस्य रूढत्वमविरुद्धम्। कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुं शक्या, उद्भिदादिवदित्याह। प्रसिद्धार्यसन्निधानेन ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात् तद्विषयो नियम्यते यथोद्भिदा यजेतु यूपं चिनत्ति, वेदिं करोतीति। तथाऽयमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः सेज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्त्तिष्यते। कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्च जना व्याख्याताः। अन्यैश्चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः”। तत्परिग्रहेऽपीह न कश्चिद्विरोधः। आचार्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतया प्राणादयो वाक्यशेषादिति जगाद”। २ दैत्यभेदे च यस्यास्थ्ना कृष्णस्य पाञ्चजन्यः शङ्घोजातः। पाञ्चजन्यशब्दे दृश्यम्। ३ सृञ्जयनृपपुत्रे हरिवं० ३२ अ० अंशुमतः पितरि मगधनृपस्य ४ पुत्रभेदे १५० अ०। ५ प्रजापतिभेदे भाग० ६। ४। ४६ विश्वावसुदुहितरि भरतस्य ६ पत्न्यां स्त्री ङीप्। भाग० ५। ७। १
पञ्चजनीन = पञ्चसु जनेषु व्यापृतः ख। भण्डे हला०।
पञ्चजीरकगुड = पु० चक्रदत्तोक्ते जीरकादिभिः पक्वे गुडभेदे “जीरकं हवुषा धान्यं शताह्वा सुरदारु च। यमानो त्र्यष्टको हिङ्गुपत्रिका कासमर्दकम्। पिप्पली पिप्पली मूलमजुमोदाथ वाष्पिका। चित्रकञ्च पलांशानि तथान्यच्च चतुःपलम्। कशेरुकं नागरञ्च कुष्ठं दीप्यकमेव च। गुडस्य च शतं दद्यात् घृतप्रस्थं तथैव च। क्षीरद्विप्रस्थसंयुक्तं शनैर्मृद्वग्निना पचेत्। पञ्चजीरक इत्येष सूतिकानां प्रशस्यते। गर्भार्थिनीनां नारीणां वृंहणीये समारुते। विंशतिं व्यापदो योनेः कासं श्वासं ज्वरं क्षयम्। हलीसकं पाण्डुरोगं दौर्गन्ध्यं बहुमूत्रताम्। हन्ति पीनोन्नतकुचाः पद्मपत्रावतेक्षणाः। उपयोगात् स्त्रियोनिन्यमलक्ष्मीर्मलवर्जिताः”।
पञ्चज्ञान = पु० पञ्चानां पदार्थानां ज्ञानमस्य। १ बुद्धे त्रिका० २ पाशुपत्रदर्शनाभिज्ञे च मकुलीशशब्दे ४१७५ पृ० दृश्यम्।
पञ्चत् = पु० पञ्च परिमाणमस्य वर्गस्य, पञ्चन् + नि०। पञ्चसंख्यायुक्ते वर्गे
पञ्चतक्षन्(क्षी) = न० पञ्चानां तक्ष्णां समाहारः अनन्तत्वात् नलोपे वा ङीप्। पञ्चानां तक्ष्णां समाहारे पक्षे वा ङीपि स्त्री।
पञ्चतत्त्व = पु० न० पञ्चानां तत्त्वानां समाहारः। पञ्चसु भूतेषु स्वरोदयः। “मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च। पञ्चतत्त्वमिदं प्रोक्तं देवि! निर्वाणहेतवे। मकार पञ्चकं देवि! देवानामपि दुर्लभम्” “पञ्चतत्त्वविहीनानां कलौ सिद्धिर्न जायते” तन्त्रसा०। वैष्णवानान्तु “गुरुतत्त्वं मन्त्रतत्त्वं मनस्तत्त्वं सुरेश्वरि!। देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं प्रकीर्त्तितम्” निर्वाणतन्त्रे।
पञ्चतन्त्र = न० तन्त्रम्। नीतिशास्त्रभेदे।
पञ्चतन्मात्र = न० पञ्चगुणितं तन्मात्रम्। पञ्चगुणिते शब्दस्पर्शरूपरसगन्धात्मके १ तन्मात्रे २ सूक्ष्मपञ्चभूतरूपे आकाशादौ तन्मात्रशब्दे ३२२९ पृ० दृश्यम्।
पञ्चतप = पु० पञ्चभिस्तेजस्विभिः अग्निचतुष्टयसूर्य्यैस्तपति तप–अच्। पञ्चभिस्तपस्यति तपस्विभेदे “ग्रीष्मे पञ्च तपास्तथा” भा० अनु० १४२ अ० असुन्। पञ्चतपस् तत्रार्थे माघः २। ५१ श्लो०। पञ्चातप शब्दे दृश्यम्।
पञ्चतय = न० पञ्चानामवयवं पञ्च अवयवायस्य वा अवयवे तयप्। १ पञ्चसंख्यायां २ तदन्विते त्रि० स्त्रीत्वे ङीप्। “वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” पा० सू०।
पञ्चता = स्त्री पञ्चानां भूतानां भावः तद्भावापत्तिः। आरम्भक पञ्चभूतानां १ तद्भावावत्तौ उपचारात् २ मृत्यौ च।
पञ्चतिक्त = न० पञ्चगुणितं तिक्तम्। “निम्वामृता वृषपटोल निदिग्धिकाश्चेति” चक्रदत्तोक्ते पञ्चविधे तिक्तद्रव्यभेदे
पञ्चतीर्थी = स्त्री पञ्चानां तीर्थानां समाहारः ङीप्। तीर्थपञ्चके सा च तीर्थभेदे भिन्नभिन्नरूपा तत्र काशीस्था यथा “ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्चयेत्। तारकेशं ततोऽभ्यर्च्य महाकालेश्वरं ततः। ततः पुनर्दण्डपाणिरित्येषा पञ्चतीर्थिका” काशीख० १०० अ०। पुरुषोत्तमस्था यथा “मार्कण्डयवटे कृष्णे रौहिणेये महोदधौ। इन्द्रद्युम्नसरः स्नात्वा पुनर्जन्म न विद्यते” गयास्था यथा उत्तरमानसदक्षिणश्चमानसकनखलधर्मवनफल्गुतीर्थात्मिका। तत्र वायुपु० उदिच्यां प्रसिद्धमित्युक्तम् वह्निपु० “उदिच्यां मूञ्जपृष्ठस्य देवर्षिगणसेवितम्। नाम्ला धर्मवनं तीर्थं त्रिषु लोकेषु विश्रुतम्” इत्युक्तं तेन धर्मवनस्यैव तत्र ग्राह्यता तेनैव पञ्चसंख्यायाः पूरणात्। नानास्थानस्थिता वराहपु० उक्ता यथा “पृथिव्यां यानि तीर्थानि सर्वाण्येवाभिषेचनात्। तत् पञ्चतीर्थीस्नानेन समं नास्त्यत्र संशयः। एकादश्यां च विश्रान्तौ १ द्वादश्यां शौकरे २ तथा। त्रयोदग्यां नैमिषे ३ च प्रयागे ४ च चतुर्दशी। कार्त्तिक्यां पुष्करे ५ चैव कार्त्तिकस्य सितासिते। कालेष्वेषु नरः स्नात्वा सर्वं पापं व्यपोहति”।
पञ्चत्व = न० पञ्चानां गावः तद्भावापत्तिः। १ पञ्चभूतानामारम्भकसंयोगनाशात् स्वभावप्राप्तौ २ तदुपलक्षिते मरणे अमरः
पञ्चथ = त्रि० पञ्चानां पूरणः! “थट् च छन्दसि” पा० वेदे पूरणे थट्। पञ्चसङ्ख्यापूरणे लोके तु पञ्चम इत्येव
पञ्चदक = पु० देशभेदे कोकङ्कणाः पञ्चदका वमना ह्यवरास्तथा” मार्कपु० ५८ अ०। सोऽभिजनोऽस्य तस्य राजा वा अण्। पाञ्चदक पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च बहुषु तस्य लुकि। उक्तः प्रयोगः।
पञ्चदश = त्रि० पञ्चदशानां पूरणः डट्। १ पञ्चदशसंख्यापूरणीये स्त्रियां ङीप्। सा च पञ्चदशपूरणतिथिभेदे २ पौर्णमास्याम् ३ अमावास्यायाम् विद्यारण्यप्रणीते वेदान्तप्रकरणभेदे च। एवं पञ्चविंशादयोऽपि पञ्चाधिकविंशतिसंख्यापूरणे त्रि० स्त्रियां ङीप्। इयांस्तु विशेषः विंशत्यादौ पूरणे तमप् वा। पञ्चविंशतितमादयोऽपि तत्रार्थे त्रि०। “तैर्युतं शतादि “दशादेर्डोयुते शतादौ” सुग्ध० ड। तैर्युते शतादौ त्रि० स्त्रियां टाप् इति भेदः।
पञ्चदशन् = त्रि० ब० व। पञ्चाधिका दश। (पनेर) १ पञ्चाधिकदशसंख्यायां २ तत्संख्येये च।
पञ्चदशाह = पु० पञ्चदशगुणितमहः टच् समा०। अह्नान्तत्वात् पुंस्त्वम्। पञ्चदशगुणिते अह्नि। “वैश्ये पञ्चदशाहः स्यात्” मनुः।
पञ्चदशाहिक = त्रि० पञ्चदशाहः साधनकालतयाऽस्त्यस्य ठन्। पञ्चदशाहसाध्ये व्रतभेदे “पिण्याकदधिसक्तूनां प्रामश्च प्रतिवासरम्। एकैकमुपवासः स्यात् सौम्यकृच्छः प्रकीर्त्तितः। एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम्। तुलापुरुष इत्येषः ज्ञेयः पञ्चदशाहिकः” अत्रिसं०।
पञ्चदशिन् = त्रि० पञ्चदश परिमाणभस्य डिनि। पञ्चदश परिमाणयुक्ते शत० ब्रा० १३। २। ५। १ उदा० स्त्रियां ङीप्। एवं पञ्चविशत्यादि परिमाणमस्य डिनि। पञ्चर्विशिन्प्रभृतयः पञ्चविंशत्यादि परिमानयुक्ते त्रि० स्त्रियां।
पञ्चदीर्घ = त्रि० पञ्चसु अवयवेषु दीर्घः। “वाहूनेत्रद्वयं कुक्षिर्द्वेतु नासे तथैव च। स्थनयोरन्तरञ्चैव पञ्चदीर्घः प्रशस्यते” स्मृत्युक्तेषु पञ्चदीर्घत्वप्रशस्तलक्षणयुक्ते पुरुषे
पञ्चदेवता = स्त्री संज्ञात्वात् कर्म०। आदित्यं गणनाथं च देवीं रुद्रं च केशवम्। पञ्चदैवतमित्युक्तं सर्वकर्मसु पूजयेत्” इत्युक्तेषु पञ्चसु देवेषु। केचिदेषाद्विनायकादित्वमिच्छन्ति स्मार्त्तास्तु आदित्यादित्वं मन्यन्ते इति भेदः।
पञ्चन् = त्रि० पचि–कनिन्। १ पञ्चसंख्यायां २ तत्संख्यायुक्ते च पञ्चसंख्यायुक्ताश्च कतिचित् पदार्था एकादिशब्दे १४०६ पृ० दर्शिताः। पञ्चकशब्दे दृश्यम्।
पञ्चनख = पुंस्त्री० षञ्च नखा यस्य। १ गजे २ कूर्मे च हेमच०। ३ व्याघ्रे राजनि०। ४ शशकादिषु च “शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः” भक्ष्यपञ्चनखोक्तौ स्मृतिः “श्वाविधं शल्लकं गोधां खड्गिकूर्मशशांस्तथा। भक्ष्यान् पञ्चनखेष्वाहुः” मनुः।
पञ्चनद = पु० पञ्च नद्यः सन्त्यत्र अच्। (पञ्चाव) प्रसिद्धे १ देशभेदे। स च देशः अपरस्यां दिशिकूर्मविभागशब्दे २१८८ पृ० विवृतिः। “वितस्तिश्चन्द्रभागा च विपाशेरावती तथा। शतद्रुश्चेति विज्ञेयाः पञ्च नद्यः शुभावहाः”। सोऽभिज गोऽस्य तस्य राजा वा अण्। पाञ्चनद पित्रादिक्रमेण तद्वासिनि तन्नृपे च बहुषु अणो लुक्। भा० आ० ७ अ०। पञ्चानां नदीनां समाहारः। “नदीभिश्च” अव्य० अच्समा०। २ पञ्चनदीसमाहारे तच्च काशीस्थनदीपञ्चकरूपं तीर्थं “किरणाधूतपापे च तस्मिन् धर्मनदे शुभे। स्रवन्त्यौ पापसंहर्त्त्र्यौ वाराणस्यां शुभद्रवे। ततो भागीरथी प्राप्ता तेन दैलीपिना सह। भागीरथी समायाता यमुना च सरस्वती। किरणा धूतपापा च पुण्यतीर्थे सरस्वती। गङ्गा च यमुना चैव पञ्च नद्यः प्रकीर्त्तिताः। अतः पञ्चनदं नाम तीर्थं त्रैलीक्यविश्रुतम्” काशीख० ५९ अ०।
पञ्चनिम्ब = न० “पञ्चनिम्बन्तु तत्पुष्पमूलवल्कफलच्छदैरिति” शब्दच० उक्ते निम्बस्य पुष्पादिपञ्चके।
पञ्चनी = स्त्री पचि–ल्युट्। शारिशृङ्खलायाम् (पाशारछक) शब्दरत्ना०।
पञ्चपक्षिन् = पु० शिवोक्ते पक्षिपञ्चकाधिकारेण प्रश्नादिज्ञानार्थे शाकुनशास्त्रभेदे “अक्षरं पक्षिभूतञ्च दिगदैवतदिनानि च। कालं वर्णं बलं मित्रं धातुलिङ्गादिकं क्रमात्। प्रश्नादिजातिवर्णञ्च देहसङ्कल्पनादिभिः। चिन्तितान्यपि सर्वाणि वक्ष्यन्ते वर्णकौ क्रमात्। शकुनस्य क्रमागत्या द्यूते युद्धे जयादिषु। आरूढपश्न- लग्नेभ्यः प्रथमाचरतोऽपि वा। अकारादिस्वराणाञ्च पञ्चानाञ्च विचारयेत्। अस्य नामाक्षरस्यांदौ स्वरारूढं समुत्सृजेत्। प्रच्छकस्य वचः श्रुत्वा ग्राह्योवर्णः स्वरस्तथा। स्वरेण कल्पयेद्वारं वारात् पक्षी प्रजायते। पक्षिणो जायते वाक्यं वाक्याच्च फलसम्भवः। अकाराद्या ओकारान्ताः स्वराः पञ्च प्रकीर्त्तिताः। भुक्त्यर्थं कल्पयेद्रूपं स्वरास्ते पक्षिरूपिणः। अकारः श्येन आख्यात इकारः पिङ्गलस्तथा। उकारं वायसश्चैव एकारस्ताम्रशेखरः। ओकारो नीलकण्ठश्च स्वरास्ते पक्षिसंज्ञकाः। अकारः पूर्वदिग्भागे इकारश्चैव दक्षिणे। उकारः पश्चिमे ज्ञेय एकारश्चोत्तरे तथा। शेषस्थानेषु सर्वेषु ओकारः परिकीर्त्तितः। प्राक् श्येनः, पिङ्गलो याम्ये, पश्चिमे काक उच्यते। उत्तरे ताम्रचूडश्च, कलापी मध्यगो मतः” इत्यादि अस्य फलादिकं तत्र दृश्यम् विस्तरभयान्नोक्तम्।
पञ्चपञ्चिनी = स्त्री पञ्च पञ्च ऋचः परिमाणमस्याः डिनि। पञ्चदशस्तोमस्य विष्टुतिभेदे “अथ पञ्चदशस्तोमस्य तिस्रो विष्टुतयः। तत्र प्रथमं पञ्चपञ्चिन्याख्यां विष्टुतिं दर्शयति” भा०। “पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिस्म एकया, पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिः, पञ्चपञ्चिनी पञ्चपञ्चदशस्य विष्टुतिः” ताण्ड्य० ब्रा० ४। १। “चतुर्ष्वेषु स्तोत्रेष्वेकैकं तृचात्मकं सूक्तं तस्मिन् तृचे पञ्चदशसंख्या ऋचः सम्पादनीयाः। तच्च सम्पादनम् आवृत्तिमन्तरेण न सम्भवतीत्यावृत्तिप्रकार इहोपदिश्यते त्रिभिः पर्य्यायैः स्तोत्रभावर्त्तनीयम्। अग्न आयाहीत्येषा सूक्ते प्रथमा ऋक् “तन्त्वा समिद्भिरिति” द्वितीया “स नः पृथ्विति” तृतीया तासु प्रथमामृचं प्रथमे पर्य्याये त्रिरावर्त्तयेत् इतरे द्वे सकृत् सकृत्। द्वितीये पर्य्याये मध्यमां त्रिरभ्यसेत्, तृतीये पर्य्याये अन्तिमांत्रिरभ्यस्येत्। एवं सत्येकैकस्य आवृत्तिः पञ्चधा सम्पद्यते। एषा पञ्चपञ्चिनी एकैकस्मिन् पर्य्याये पञ्चर्चा भवन्तीति। पञ्चपञ्चिन्येतत्संज्ञा पञ्चदशस्तोमस्येषा विष्टुतिः”।
पञ्चपत्र = पु० पञ्च पञ्च पत्राण्यस्य। (छान्दला) वृक्षभेदे राजनि०
पञ्चपदी = स्त्री पञ्च पादा अस्याः अन्त्यलोपे ङीपि पद्भावः। १ ऋग्भेदे आश्व० गृ० १। ७। १९ उदा०। कुशद्वीपस्थे २ नदीभेदे भाग० ५। ३०। २९ उदा०।
पञ्चपर्णिका = स्त्री पञ्च पञ्च पर्णाण्यस्याः कप् कापि अतैत्त्वम्। गोक्षुरक्षुपे राजनि०।
पञ्चपर्वन् = न० संज्ञात्वात् कर्म०। “चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा। पर्वाण्येतानि राजेन्द्र! रबिसंक्रान्तिरेव च” परिभाषितेषु अष्टम्यादिषु
पञ्चपल्लव = न० पञ्चानां पल्लवानां समाहारः पात्रा०। वृक्ष विशेषपञ्चकपल्लवे तच्च गन्धकर्भणि “आम्रजम्बूकपित्थानां वीजपूरकविल्वयोः। गन्धकर्मणि सर्वत्र पत्राणि पञ्चपल्लवम्” शब्दचन्द्रिकोक्तम्। वैदिककर्मणि स्थाप्यघटे देयन्तु “अश्वत्थाडुम्बरप्लक्षचूतन्यग्रोधपल्लवाः। पञ्चपल्लवमित्युक्तं सर्वकर्मणि शोभनम्” ब्रह्मपु० उक्तं ग्राह्यम्। तान्त्रिककर्मणि तु “पनसाम्रं तथाश्वत्थं वटं बकुलमेव च। पञ्चपल्लवमुक्तं च मुनिभिस्तन्त्रबेदिभिः”। तेषां फलविशेषस्तत्र दृश्यः। कर्म०। पञ्चभङ्गादयोऽप्यत्र ब० व०।
पञ्चपात्र = न० पञ्चानां पात्राणां समाहारः पात्रा० न ङीप्। १ समाहृतेषु पञ्चसु पात्रेषु। पञ्च पात्राणि दानोद्देश्यानि यत्र। वैश्वदेवपित्रादित्रयरूपपञ्चदैवते २ श्राद्धे तच्च अमावास्याप्रेतपक्षमृतोद्देश्यकश्राद्धं सपिण्डीकरणञ्च एतेषु मातामहपक्षाभावात् पञ्चदैवतत्वम्। तथान्वष्टकाश्राद्धमपि तत्र पित्रादिस्थाने मात्रादित्रिकोद्देश्यत्वात् तथात्वम्।
पञ्चपाद् = त्रि० पञ्च पादा अस्य अन्तलोपः समा०। १ पञ्च पादयुक्ते स्त्रियां ङीषि पद्भावः। पञ्चसङ्ख्यकर्मरूपः पादोऽस्य। २ संवत्सरे संवत्सरस्य पञ्चर्तुस्वरूपत्वात् हेमन्तशिशिरयोरेकत्वाभिप्रायेण ऋतूवां पञ्चत्वम्। ऋ० १। १६४। १२ भा० दृश्यम्।
पञ्चपादी = स्त्री पञ्चानां पादानां समाहारः ङीप्। पादपञ्चके पादश्चेह ग्रन्थावयवभेदः संज्ञायां कन्। पञ्चपादिका शारोरकभाष्यव्याख्याने ग्रन्थभेदे
पञ्चपितृ = पु० संज्ञात्वात् कर्म०। “जनकश्चोपनेता च यश्च कन्यां प्रयच्छति। अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः” प्रा० वि० धृतवचनोक्ते जनकादिपञ्चके
पञ्चपित्त = न० पञ्चगुणितं पित्तं शा० त०। “वराहच्छागमहिष मत्स्यमायूरपित्तकम्। पञ्चपित्तमिदं प्रोक्तं सर्वेष्वेव हि कर्मसु” वैद्यकोक्ते वराहादिपञ्चकपित्ते।
पञ्चप्रदीप = न० पञ्च प्रदीपाः यत्र। नीराजनाङ्गे दीप्रभेदे “हरेः पस्नप्रदीपेन बहुशो भक्तितत्परः” पद्मपु०।
पञ्चपुष्प = न० पञ्चगुणितं पुष्पम्। “चन्पकाम्बशमोपद्मकर- वीरं च पञ्चकम्” देवीपु० १०७ अ० उक्ते पुष्पपञ्चके।
पञ्चप्रस्थ = न० पञ्च विषयाः शब्दादयः प्रस्थाः सानव इव यस्य। संसारवने “स एकदा महेष्वासो रथं पञ्चाश्वमाशुतम्। द्वीशं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम्। एकरश्मयेकदमनमेकनीडं द्विकूवरम्। पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम्। हैमोपस्करमारुह्य स्वर्गवर्माक्षयेषुधिः। एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम्” भाग० ४। २६। ४। “महानिष्वासो धनुः कर्तृत्वभोक्तृत्वाद्यभिनिवेशोयस्य सः। रथमारुह्य पञ्चप्रस्थं वनमगादिति तृतीयेनान्वयः। रथम् इदानीमेव विवृतं स्वप्नदेहं जाग्रद्देहस्य शतसम्बत्तरोपभोग्यपुरत्वेनोक्तत्वात्। पञ्चज्ञानेन्द्रियाण्यश्वायस्य। आशुगं शीव्रगतिम्। द्वे अहन्ताममते ईशे दण्डिके यस्य। द्वे पुण्यपापे चक्रे यस्य। एकं प्रधानं मक्षी यस्य त्रयोगुणावेणबोध्वजा यस्य पञ्च प्राणा वन्धुराणि बन्धनानि यस्य। एकं मनो रश्मिः प्रग्रहो यस्य एका बुद्धिर्दमनः सूतो यस्य कर्मधारयः। एकं हृदयं नीडं रथिनौपवेशस्थानं यस्मिन्। द्वौ शोकमोहौ कूवरौ युगबन्धनस्थाने यस्य। पञ्च शव्दादयो विषयाः प्रह्रियन्ते प्रक्षिप्यन्ते यस्मिन् अस्य व्याख्यानं भविष्यति पञ्चेन्द्रियार्थप्रक्षेप इति। सप्त धातवोवरूथा रथरक्षार्थं चर्माद्यावरणानि यस्य पञ्च कर्भेन्द्रियाणि विक्रमा गतिप्रकारा यस्य। हैमोपस्करं सौवर्णाभरणं स्वर्गवर्मा वर्मं च कवचं रजोगुणावृतं अक्षयेषुधिर्निषङ्गम् अनन्तवासनाहङ्काणेपाधिः। एकादशो मनोरूपः चमूनाथः सेनापतिर्यस्य। वासनामयस्य मनसृः प्रग्रहत्व सङ्कल्पविकल्पात्मकस्य वृहद्वनत्वेन वक्ष्यमाणस्य चमूनाथत्वमिति भावः। पञ्च शब्दादयो विषयाः प्रस्थाः सानवो यस्मिन् तद्वनं भजनीयं देशमगात्” श्रीध०।
पञ्चप्राण = पु० कर्म०। देहस्थे प्राणनादिवृत्तियुते वायुपञ्चके पञ्चवृत्तिशब्दे दृश्यम्।
पञ्चप्रासाद = पु० पञ्चचूडायुक्तः प्रासादः शा० त०। (पञ्चरत्न) इति ख्याते देवगृहभेदे “पक्वेष्टकाचितं रम्यं पञ्च प्रासादसंयुतम्। कारयित्वा हरौ चाथ धूतपाषो दिवं व्रजेत्” अग्निपु०।
पञ्चबन्ध = पु० पञ्च पञ्चमः बन्धो भागो यत्र। पञ्चमांशयुतेदमादौ “आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा। पञ्चबन्धोदमस्तत्र राज्ञे तेनाविभाविते” मिता० धृतवचनम्।
पञ्चबला = स्त्री पञ्चगुणिता बला। बलानागबलामहाबला-ऽतिबला राजवलारूपबलापञ्चके नघण्टुप्रकाशिकायाम्।
पञ्चबाण = पु० पञ्च बाणा अस्य। १ कन्दर्पे तस्य बाणपञ्चकं च कालिकापुराणशब्दे २०१३ पृ० दर्शितम् संज्ञात्वात् कर्म०। २ कामस्य बाणेषु पञ्चविभागेनानीतेषु विवाहादौ वर्जनीयेषु पञ्चसु ३ रोगादिषु उपयमशब्दे १२६९ पृ० दृश्यम्।
पञ्चबाहु = पु० पञ्च वाहवोऽस्य। महादेवे हरिवं० २७७ अ०।
पञ्चब्रह्म = न० उपनिषद्भेदे
पञ्चभद्र = पुंस्त्री पञ्चस्वङ्गभेदेषु भद्रः पुष्पितत्वात्। “पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः” हेम० उक्ते १ हयभेदे स्त्रियां जातित्वात् ङीष् “छिन्नोद्भवापर्पटवारिवाहभूनिम्बशुण्ठीजनितः कषायः। समीरपित्तज्वरजर्जराणां करोति भद्रं खलु पञ्चभद्रम्” शार्ङ्गधरोक्ते २ पाचनभेदे न०
पञ्चभूत = न० ब० व० संज्ञत्वात् कर्म०। आकाशवायुतेजोजलभूमिरूपभूतेषु। “भूतादिकादहङ्कारात् पञ्चभूतानि जज्ञिरे” शार० ति०। अश्य पुंस्त्वमपि “शब्दाद्व्योम स्पर्शतस्तेन वायुस्ताभ्यां रूपाद्वह्निरेतैः रसाच्च। अम्भांस्येतैर्गन्धतो भूर्धराद्या भूताः पञ्च स्युर्मुणोनाः क्रमेण” तेषां च द्रव्यविशेषशब्दे ३७८१ पृ० सुश्रुतोक्तं गुणादि दृश्यम् तेषामस्थ्यादिविशेषकार्यकारिता ब्रह्मज्ञानतन्त्रे प्रथमपटले उक्ता यथा “अस्थिमांसं नखञ्चैवं नाडी त्वक् चेति पञ्चमी। पृथ्वी पञ्चगुणा प्रोक्ता ब्रह्यज्ञानेन भाषितम्। मलं मूत्रं तथा शुक्रं श्लेष्मा शोणितमेव च। तोयं पञ्चगुणं प्रोक्तं ब्रह्मज्ञानेन भाषितम्। ह्रासो निद्रा क्षुधा चैव भ्रान्तिरालस्यमेव च। तेज० पञ्चगुणं प्रोक्तं ब्रह्मज्ञानेन भाषितम्। धारणं चालनं क्षेपः सङ्कोचः प्रसरस्तथा। वायुः पञ्चगुणः प्रोक्तो ब्रह्मज्ञानेन भाषितम्। क्रामः क्रोधस्तथा लोभस्त्वपा मोहश्च पञ्चमः। नभःपञ्चगुणं प्रोक्तं ब्रह्मज्ञानेन भाषितम्”। भूत नक्षत्राणि यथा “धनिष्ठा रेवती ज्येष्ठानुराधा श्रवणातथा। अभिजिच्चोत्तराषाढा पृथ्वीतत्त्वमुदाहतम्। पूर्वाषाढा तथाऽश्लेषा मूलार्द्रा चैव रोहिणी। पर भाद्रपदा तोयम् आपस्तत्वन्त्वभीष्टदम्। भरणी कृत्तिका पुष्या मघा पूर्वा च फाल्गुनी। पूर्वभाद्रपदा स्वाती तेजस्तत्त्वमिति प्रिये!। विशाखोत्तरफल्गुन्यौ हस्ता चित्रा पुनर्वसुः। अश्विनी मृगशीर्षा च वायुस्तत्त्वमुदाहृतम्” सूक्ष्मस्वरोदयः।
पञ्चभृङ्ग = न० देवदालीशमीभृङ्गानिर्घुण्डीतमालात्मके वृक्षप्रञ्चके नैघण्टुप्र०।
पञ्चम = त्रि० पञ्चानां पूरणः डदि मट्। पञ्चानां पूरणे स्त्रियां ङीप्। २ दक्षे ३ रुचिरे त्रि० हेमच० ४ मैथुगे नः तन्त्रौकण्ठोत्थितस्वरमध्ये ५ स्वरभेदे अमरः। “वायुः तमुद्गतो नाभेरुरोहृत्कण्ठमूर्द्धसु। विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते”। तन्निरुक्तिः। “प्राणोऽपानः समानश्च उदानो व्यान एव च। एतेषां समवायेन जायते पञ्चमः स्वरः” तत्कारणम्। ६ रागभेदे मेदि० स च सोमेश्वरमते तृतीयो रागः अत्र गान्धारस्वेरस्तीब्रः ऋषभपञ्चमौ लुप्तौ षड्जः गृहाशः। भरतमते भैरवरागस्याष्टमः पुत्रः। अस्योच्चारणं पिकध्वनिवत्। उच्चारणस्थानं गल उरः शिरश्च।
पञ्चमकार = न० पञ्च मकारा यत्र। मकारादिपदवेद्यमद्यादिपञ्चके “मद्यं मांसं तथा मत्स्यी मुद्रा मैथुनमेव च। पञ्चतत्त्वमिदं देवि! निर्वाणमुक्तिहेतवे। मकारपञ्चकं देवि! देवानामपि दुर्लभम्” गुप्रसाधनतन्त्रे ७ पटले। तत्र मद्यादिकं प्रसिद्धम्। मुद्रा तु “पृथुकास्तण्डुला भृष्टा गोधूमचणकादयः। तेषां नाम भवेद्देवि! मुद्रा मुक्तिप्रदायिनी”। तत्र परिगाषिता
पञ्चमहिष = न० पञ्चगव्यवत् महिषस्य मूत्रादिपञ्चके। पञ्चनव्य शब्ददर्शितकल्पेन तस्य पाकविधिः “एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेतः। पञ्चाजं पञ्चमहिषं चतुरुष्ट्रमथापि वा” सुश्रुतः। पञ्चाजपञ्चाविकशब्दावपि क्रमेण अजाविसम्बन्धिमूत्रादिपञ्चके।
पञ्चमहापातक = न० पञ्चप्रकारं महापातकम् शा० त०। ब्रह्महत्यादिमहापातलपञ्चके “ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुः संसर्गश्चापि तैः सह” मनुः। स्तेयमत्र ब्राह्मणस्वामिकसुवर्णहरणं यथाह विष्णुः “ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदाराभिगमनं संयोगश्च तैः सहेति महापातकानि”। सुवर्णश्च कर्षमितस्वर्णम्।
पञ्चमहायज्ञ = पु० पञ्चगुणितो महायज्ञः कर्म० वा। गृहस्थैः प्रतिदिनं कर्त्तव्ये दैवपैत्रादियज्ञपञ्चके। “पञ्चसूना गृहस्थस्य चूल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च तस्य पापस्य शान्तये। पञ्चयज्ञबिधानञ्च मृही नित्यं न हापयेत्। पञ्चयज्ञविधानेन तत् पापं तस्य नश्यति। देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च। ब्रह्मयज्ञो नृयज्ञश्च पञ्चयज्ञाः प्रकीर्त्तिताः। होमो दैवोवलिर्भौतः पित्र्यः पिण्डक्रिया स्मृतः। स्वाध्यायो ब्रह्मयज्ञश्च नृयज्ञोऽतिथिपूजनम्” शङ्खसं०। पञ्चमहासत्रादयोऽप्यत्र “देवभूतपितृब्रह्ममनुष्याणामनुक्रमात्। महासत्राणि जानीयात् एते चेह महामखाः। अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्। होमो दैवो वलिर्भोतो नृयज्ञोऽतिथिपूजनम्। श्राद्धं वा पितृयज्ञः स्यात् पित्र्यो वलिरथापि वा। यश्च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञः स उच्यते। स चार्वाक् तर्पणात् कार्य्यः पश्चाद्वा प्रातरा हुतेः। वैश्वदेवावसाने वा नान्यत्रर्त्तुनिमित्तकात्। अप्येकमाशयेद्विप्रं पितृयज्ञार्थसिद्धये। अदैवं नास्ति चेदन्यो भोक्ता भोज्यमथापि वा। अप्युद्धृत्य यथाशक्त्या किञ्चिदन्नं यथाविधि। पितृभ्योऽथ मनुष्येभ्यो दद्यादहरहर्द्विजे। पितृभ्य इदमित्युक्त्वा स्वधाकारमुदीरयेत्। हन्तकारं मनुष्येभ्यस्तदूर्द्धं निनयेदपः” कात्या० स०
पञ्चमार = पु० १ वलदेवपुत्रे शब्दर० कर्भ०। २ पञ्चविधकामे च।
पञ्चमाषिक = त्रि० पञ्च माषाः प्रमाणमस्य ठक् न पूर्बपदवृद्धिः। स्वर्णमाषपञ्चकमिते दण्डाद्ये मनुः ८। २९८
पञ्चमास्य = पुंस्त्री० पञ्चमः स्वरभेदः आस्ये अस्य। १ कोकिले शब्दर० स्त्रियां जातित्वेऽपि योपधत्वात् टाप्। पञ्चमं कोकिलो वदेत्” पञ्चसु मासेषु भवः यत्। २ पञ्चमासभवे त्रि०
पञ्चमी = स्त्री पञ्च पतीन् मिनोति वध्नाति प्रेम्णा मी–वन्धे पिक्व्। पञ्चपाण्डवपतिकायां १ द्रौपद्र्याम् २ शारिशृङ्खलायाञ्च (पाशारछक) पञ्चन् + पूरणे मट्। पञ्चानां पूरण्यां स्त्री ङीप्। अस्य बहु० समासे समासवाच्यत्वे अच् समा०। कल्याणी पञ्चमी यासु रात्रिषु कल्याणपञ्चमा रात्रयः। मुख्यत्वाभावे कप्। कल्याणी पञ्चमी यत्र पक्षे कल्याणपञ्चमीकः पक्षः अत्र पूरण्या मुख्यत्वाभावात् न समासवाच्यत्वम्। चन्द्रमण्डलस्य प्रवेशनिर्गमाभ्यां सूर्य्यकिरणप्रतिविम्बयोग्यत्वयोग्यत्वाभावयुक्तायां चन्द्रस्य ४ पञ्चम्यां कलायां ५ तदुपलक्षित तिथौ च स्त्री। विहितकर्भविषयविशेषे तस्याः कथं ग्राह्यतेति कालमा० निर्णीतं यथा “युग्मशास्त्रेण पञ्चमी पूर्वविद्धा ग्राह्या। ननु “प्रायः प्रातरुपोष्या हि तिथिर्दैवे फलेप्सुभिरिति” शिवरहस्यसौरपुराणयोस्तिथ्यग्रभागस्योपवामाङ्गत्वाभिधानात् पञ्चम्युपवामः परेद्युः प्राप्नीति, तन्न हारीतेन परविद्धायाः प्रतिषिद्धत्वात्। “चतुर्थीसंयुता कार्या पञ्चमी षरया न तु। दैवे कर्मणि पित्र्ये च शुक्लपक्षे तथाऽसिते” इति। नचैतावता प्रायः प्रातरिति वचनस्य निर्विपयत्वं शङ्कनीयम्। निर्णीतासु निर्णेष्यमाणासु च तिथिषु यत्र यत्र परविद्धोपवासः शास्त्रान्तरेण प्राप्तस्तस्य सर्वस्य तद्विषयोपपत्तेः। न च तेनैव शास्त्रेण तदुपवाससिद्धेः कृतमनेन वचनेनेति शङ्कनीयम्। सामान्यविशेषरूपेण शास्त्रद्वयस्यापि चरितार्थत्वात्। तस्य सामान्यशास्त्ररूपस्य प्राप्तोपवासवचनस्य विरोधिना षष्ठी युक्तपञ्चमीनिषेधकेन विशेषशास्त्ररूपेण हारीतबचनेन बाधो युज्यते। एतादृश बाधमभिलक्ष्यैव प्रायः व्रातरुपोष्येति प्रायःशब्दः प्रयुक्तः। प्रतिपन्न्यायेन पौर्वाह्णिकी इति वचनबलात्। पञ्चम्यामपि दानव्रतयोः परदिनानुष्ठानप्राप्तौ तद्व्यावृत्तये हारीतवचने दैवे कर्मणीत्युच्यते। न च दैवकर्मणि पूर्वाह्णस्य कर्मकालशास्त्र प्राबल्यस्य च वर्णितत्वात् तद्वाधो न युक्त इति शङ्कनीयम्। विधेर्निषेधस्य वा प्रतिपदोक्तस्य प्रबलतरत्वात्। न च पूर्वदिनपूर्वाह्णस्यात्यन्तकर्मकालत्वं, साकल्यवचनापादितकर्मकालत्वस्य सद्भावात्। ईदृशमेव विपयमभिलक्ष्य साकल्यवचनस्य प्रवृत्तत्वात्। स्वाभाविकतिथिव्याप्तियुक्ते विषये साकल्यवचनस्य निरर्थकत्वात्। तस्माद्दैव कर्मणि परविद्धायाः पञ्चम्याः निषेधो न विरुध्यते। नन्वेवमपि पित्र्ये निषेधो निरर्थकः। पित्र्यस्य स्वत एव परविद्धायामप्राप्तत्वात्। मैवं दृष्टान्ततयापि च तदुपन्यासोपपत्तेः। यथा पित्र्यकर्मणि उत्तरविद्धा न ग्राह्या तथा दैवेऽपीति विवक्षया दैवपित्र्ययोः सहोपन्यासः। ननु व्यासनिगममतयुग्मशास्त्रमुदाहृत्य पञ्चम्याः पूर्वविद्धत्वमभिधीयते। आपस्तम्बादयस्तु तद्विपर्य्ययेण युग्मान्युदाजह्नुः। “प्रतिपत् सद्वितीया स्याद् द्वितीया प्रतिपद्युता। चतुर्थीसहिता या च सा तृतीया फलप्रदा। पञ्चमी च प्रकर्त्तव्या षष्ट्या युक्ता च नारद!” इति। अतएवैतद्युग्मशास्त्रपर्य्यालोचने पञ्चम्याः परविद्धत्वं प्राप्नोति। बाढम् अतएवात्र शुक्लकृष्णशास्त्रेण व्यवस्था प्रमक्ता तां निषेद्धुं हारीतेन शुक्लपक्षे तथाऽसिते इत्युक्तम्। न च सा व्यवस्था वचनेन निषेद्धुमशक्या, किं हि वचनं न कुर्यान्नास्ति वचनस्यातिभार इति ग्यायात्। तस्माद्धारीतवचनेन पञ्चमी पूर्वविद्धा ग्राह्या। स्कन्दपुराणेऽपि “पञ्चमी च तथा कार्य्या चतुर्थ्या संयुता विभो!” तथा पद्मपुराणभविष्यत्पुराणयोः पूर्वोत्तर विद्धाविषयौ विधिनिषेधौ खर्य्येते। “पञ्चमी घ चतुर्थ्या तु कार्या षष्ट्या न मयुता” इति। यत्तु ब्रह्मषैवर्त्तेऽभिहितम् “पञ्चमी च प्रकर्त्तिव्या मष्ट्या युक्ता सु नारद! इति तद्वचनं स्कन्दोपवासविषयतया सङ्कोचनीयम्। बाक्यशेषे तथाभिधानात् “स्कन्दोपवासे स्वीकार्यां पञ्चमी परसंयुता” इति वाक्यशेषः। न चासञ्जातविरोधिनो वाक्योपक्रमस्य सञ्जातविरोधिना वाक्यशेषेण कथं सङ्कोच इति शङ्कनीयम्। असन्दिग्धोपक्रमस्य प्राबल्येऽपि सन्दिग्धोपक्रमस्य वाक्यशेषेण निर्णेतव्यत्वात्। अतएव जैमिनिनापि सूत्रितम्। “सन्दिग्धे तु वाक्यस्य शेषादिति”। अतः स्कन्दोपवासे पञ्चमी परविद्धा। अन्यत्र पूर्वविद्धेति स्थितम्”।
पञ्चमुख = त्रि० षञ्च मुखान्यस्य। १ पञ्चवदनयुक्ते स्त्रियां स्वाङ्गत्वात् ङीष्। २ महादेवे पु० तन्मुखनामादि देवीपु० उक्तं यथा “शिवस्तत्रस्थितः साक्षात् सर्वपापहरः शुभः। स तु पञ्चमुखः ख्यातो लोकसर्वार्थसाधकः। पञ्चब्रह्मात्मको यस्मात्तेन पञ्चमुखः स्मृतः। पश्चिमे तु मुखे सद्यो, वामदेवस्तथोत्तरे। पूर्वे तत् रुषं विद्यादघोरं चापि दक्षिणे। ईशानः पञ्चमो मध्ये सर्वेषामुपरिस्थितः। एते पञ्चमुखा बत्स पापध्ना ग्रहनाशनाः। सद्योजातो भवेच्छुक्लो वामदेवस्तु पीतकः। रक्तस्तत्पुरुषो ज्ञेयोऽघोरः कृष्णः सएव च। ईशानः पश्चिमस्तेषां सर्ववर्णसमन्वितः। कामदः कामरूपी स्यात् ज्ञानाधारः शिवात्मकः”। ३ पञ्चवक्त्रे रुद्राक्षभेदे च “पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नामनामतः। अगम्यागमनाच्चैव अभक्ष्यस्य च भक्षणात्। मुच्यते सर्वपापेभ्यः पञ्चवक्त्रस्य धारणात्” तिथि० त० स्कान्दे। ३ जवाभेदे स्त्री ङीष्। ४ वासकवृक्षे च राजनि०। पचि–विस्तारे अच् तादृशं मुखमस्य। ५ सिंहे पुंस्त्री० स्त्रियां ङीष्। पञ्चवक्त्रादयोपि तेष्यर्थेषु।
पञ्चमुद्रा = स्त्री पञ्चगुणिता सुद्रा। १ आवाहन्यादिमुद्रापञ्चके तत्स्वरूपनामादि पूजाप्रदीपे उक्तं यथा “सम्यक् प्रपूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः। आवाहनी १ समाख्याता मुद्रा देशिकसत्तमैः। अधोमुखी त्वियं चेत् स्यात् स्थापनी २ मुद्रिका भवेत्। उच्छ्रिताङ्गुष्ठमुष्ट्योस्तु संयोगात् संन्निधापनी ३। अन्तःप्रवेशिताङ्गुष्ठा सैव सम्बोधनी ४ मता। उत्तानमुष्टियुगला सम्मुमुखीकरणी ५ मता”। तन्त्रोक्ते देवभेदपूजाङ्गे २ योन्यादिमुद्रापञ्चके च तन्त्रसारः।
पञ्चमुष्टिक = पु० चक्रदत्तीक्ते यवादिमुष्टिपञ्चककषायभेदे “यव कोल कुलत्थानां सद्गमूलकशुण्ठयोः। एकैकमुष्ठिमुद्धृत्य पचेदष्टगुणे जले। पञ्चमुष्टिक इत्येष वातपित्तकफापहः। शस्यते गुल्मशूले च श्वामे कासे क्षये ज्वरे”।
पञ्चमूत्र = न० पञ्चप्रकारं मूत्रम्। गवाजामेषीमहिषी गर्दभीनां पञ्चानां मूत्रे राजनि०।
पञ्चमूल = न० पञ्चगुणितं मूलम् शा० त०। १ वैद्यकोक्ते विल्वादिपञ्चकमूलेतच्च त्रिविधं लघुमहत्तृणाख्यभेदात् तत्र महत् “श्रीफलः सर्वतीभद्रा पाटला गणिकारिका। स्येनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतम्। पञ्चमूलं महत् तिक्तं कषायं कफवातनुत्। मधुरं श्वासकासघ्नसुष्णं लघ्वग्निदीपनम्” अथ लघुपञ्चमूलस्य लक्षणङ्गुणाश्च “शालपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका। गोक्षुरं पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम्। पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम्। नात्युष्णं वृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत्” भावप्र० “विल्वाग्निमन्थश्योनाक काश्मर्य्यः पाटला तथा। ज्ञेयं वृहत् पञ्चमूलं पञ्चमूलमिति स्मृतम्” मतान्तरम्। “शरेक्षुदर्भकाशानां नलस्य मूलमेव च। सौश्रुतं चारकं चैव तृणाख्यं पञ्चमूलकम्” शब्दच०। पञ्चमूलीत्यपि स्वल्पपञ्चमूलभेदे “शालपर्णी पृश्निपर्णी वृहती कण्टकारिका। तथा गीक्षुरकञ्चैव पञ्चमूली कनीयसी” शब्दच०। पञ्चानां मूलानां समाहारः ङीप्। २ मूलपञ्चके
पञ्चमूल्यादि = न० चक्रदत्तोक्ते पाचनभेदे यथा
“पञ्चमूली बला विल्वगुडुचीमुस्तनागरैः। षाठा भूनिम्बह्रीवेण्कुटजत्वक्फलैः शृतम्। हन्ति सर्वानतीसारान् ज्वरदोषं वमिन्तथा। सशूलोपद्रवं श्वासं कासं हन्यात् सुटारुणम्”।
पञ्चयाम = पु० पञ्च यामा यत्र। १ दिवमे “त्रियामां रजनीं प्राह्णस्त्यक्त्राद्यन्तचतुष्टये। नाङीनां तदुभे सन्ध्ये टिवसाद्यन्तसंज्ञिते” उक्तेः अहोरात्रस्य अष्टप्रहरात्मकत्वेन तन्मध्ये रात्रेस्त्रियामत्वात् परिशिष्टयामपञ्चकस्य दिवसत्वम्। २ तदभिमानिदेवभेदे “विभावसोरसूतोषा व्युष्टं रोचिषमातपम्। पञ्चयामोथ भूतानि येन जाग्रति कर्मसु” भाग० ६। ६। १५
पञ्चयुग = न० पञ्चभिः पञ्चभिः युगम्। इदादिभिः पञ्चभिः पञ्चभिः वर्षैः द्वादशवर्षात्मकषष्टिसंवत्सरे “संवत्सराः पञ्चयुगं चाहोरात्रश्चतुर्विधः” भा० स० १२ श्लो० “दैवपैत्रमानुषब्राह्मभेदात् अहोरात्रश्चतुर्विध इत्यर्थः” नीलक०।
पञ्चरक्षक = पु० पञ्च रक्षका इव कण्टकादयोऽस्य। १ पक्तपौड- वृक्षे राजनि०। २ इन्द्रियपञ्चकरूपरक्षकयुक्ते च।
पञ्चरत्न = न० पञ्चगुणितं रत्नम्। पञ्चविधे १ रत्नभेदे तच्च नानाविधम् “नीलकं वज्रभं चेति पद्मरागश्च मौक्तिकम्। प्रबालं चेति विज्ञेयं पञ्चरत्नं मनीषिभिः” विधानपा० “सूवर्णं रजतं मुक्ता राजावर्त्तं प्रवांलकम्। रत्नपञ्चकमाख्यातम्” हेमा० ब्र० “कनकं हीरकं नीलं पद्मरागश्च मौक्तिकम्। पञ्चरत्नमिदं प्रोक्तमृषिभिः पूर्वदर्शिभिः। अभावे सर्वरत्नानां हेम सर्वत्र योजयेत्” हेमा० दा०। पञ्च रत्नानीव उपदेशकत्वात् यत्र। २ नीतिगर्भ कवितापञ्चके “नागः पोतस्तथा वैद्यं क्षान्तिः शक्यो यथाक्रमम्। पञ्चरत्नमिदं प्रोक्तं विदुषापि सुदुर्लभम्” काव्यसं०। नाग इत्यादिना एकैकपद्यस्य आद्यपदेन सूचित कवितापञ्चकं च ग्राह्यम्। तानि च पद्यानि प्रागेव काव्यसंग्रहे दृश्यानि। ३ पञ्चचूडदेवगृहभेदे न०।
पञ्चरश्मि = पु० पञ्च पञ्चवर्णा रश्मवोऽस्य। पिङ्गलादिपञ्चवर्णरश्मिके सूर्य्ये तस्य तथात्वम् निर्णीतं छा० उ० यथा “अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः। तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मयः उभौ लोकौ गच्छतीमुं चामुं चामुष्मादादित्यात् प्रतायन्ते ता आसु नाडोषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादिथे सृप्ताः” उप० “अथ या एता बक्ष्यमाणा हृदयस्य पुण्ड! काकारस्य ब्रह्मोपासनस्थानस्य सम्बन्धिन्योनाड्योहृदयमसिपिण्डात् सर्वतोविनिःसृता आदित्यमण्डलादिवरश्मयस्ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्याणिम्नः सूक्ष्मरसस्य रसेन पूर्णास्तदाकारा एव तिष्ठन्ति वर्त्तन्त इत्यर्थः। तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्राध्याहार्य्यम्। सौरेण तेजसा पित्ताल्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन सम्पर्कात् विङ्गलं भवति सौरं तेजः पित्ताख्यम्। तदेव वातभूयस्त्वान्नीलं भवति। तदेव च कफभूयस्त्वाच्छुक्लम्। कफेन समतायां पित्तम् शोणितबाहुल्येन लोहितम्। वैद्यकाद्वा वर्णविकारा अन्वेष्टव्याः। कथं भवन्तीति श्रुतिस्त्वाहादित्यसम्बन्धादेव तत्तेजसो नाडीष्वनुगतस्यैते वर्णविशेषा इति। कथमसौ वा आदित्यः पिङ्गलो वर्णत एष आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य एव। तस्याध्यात्मं नाडीभिः कथं सम्बन्ध इत्यत्र दृष्टान्तमाह तत्तत्र यथा लोके महान् विस्तीर्णः पन्था महापथ आततो व्याप्त उभौ ग्रामौ गच्छतीमं च सन्निहितमनुं च विप्रकृष्टं दूरस्थमेबं यथा लोके दृष्टान्तो महापथ उभौ ग्रामौ प्रविष्टः। एवमेवैता आदित्याः महापथा यथा गच्छन्ति तथोभयत्रादित्यस्य रश्मयः उभौ लोकावमुं चादित्यमण्डलमिमं च पुरुषं गच्छन्त्युभयत्र प्रविष्टाः यथा महापथः। कथममुष्मादादित्यमण्डलात् प्रतायन्ते सन्तता भवन्ति। ता अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्ता गताः प्रविष्टा इत्यर्थः। आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः सन्तानभूताः सत्यस्तेऽमुष्मिन् रश्मीनामुभयलिङ्गत्वात्ते इत्युच्यन्ते” भा०। “रसेनान्नस्येति शेषः तदाकारा इति तच्छब्दोऽन्नरसविषयः। शुक्लस्येत्यादिषु षष्ठी पूर्ववत्। श्रुतावितिशब्दोऽध्याहारद्योतनार्थः। कथं पुनरन्नरसस्य पिङ्गलादिविचित्रो वर्णविशेषः सिध्यतीत्याशङ्ख्याह सौरेणेति वातपित्ताख्यं सौरं तेजः। तेन पाकोऽशितस्य च जायते। तेनाभिनिर्वृत्तेनाल्पेन कफेन सम्पर्कात् तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलम्। तेन सम्पर्काद्रसस्य नाडीनां च जायते पिङ्गलत्वमित्यर्थः। तदेव च पित्ताख्यं सौरं तेजो यथोक्तपाकाभिनिर्वृत्तेन प्रभूतेन वातेन सम्बन्धात्तद्मूयस्त्वाद्भवति नीलं तेन च सम्पर्कादन्नरसस्य नाडीनां च जायते नैल्यनित्याह तदेवेति। प्रकृतमेव पित्ताख्यं सौरं तेजो यथोक्त पाकवशादभिनिर्वृत्तकफस्य स्वसम्बन्धिनो भूयल्वाद्भवति शुक्लं तेन च सम्पर्कादन्नरसस्य नाडीनां च शौक्ल्यं भवतीत्याह तदेव चेति। उक्तपाकाभिनिर्वृत्तेन कफेन तदभिनिर्वृत्तस्यैव वातस्य समतायां तदेव तेजस्तत् सम्बन्धि पीतं जायते। तत्सम्बन्धच्चान्नरसस्य च नाडीनां च पीतत्वं भवतीत्याह कफेनेति। यदा तु यथोक्तपाकाभिनिष्पन्नं शोणितं बहुलं भवति तदा तस्य नाडीनां च लौहित्यं मवतीत्याह शोणितेति। पक्षान्तरमाह वैद्यकाद्वेति। अन्वेषणप्रकारमाह कथमिति। नाभेरूर्द्ध्वं हृदयादधस्तादामाशयमाचक्षते। तेजः सौरं पित्तमित्युच्यते। तच्चान्नरसस्य धात्वन्तरसहकारिवशाद्वर्णविशेषे कारणमाशयगतं पीतं रञ्जकं रसरञ्जनादित्यादिवचनादित्यर्थः। कथं तर्हि पिङ्गलस्येत्याद्या श्रुतिरित्याशङ्ख्याह श्रुतिस्त्विति। उक्तमर्थ- माकाङ्क्षाद्वारा स्फोरियति कथमित्यादिना आदित्यस्य पिङ्गलादयो वर्णविशेषाः शास्त्रप्रमाण्यादेव प्रत्येतव्याः। आदित्यस्य तेजसो नाडोष्वनुगतस्य पैङल्यादयो वर्णविशेषाभवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टान्तावष्टम्भेन स्पुटयति तस्येत्यादिना” आनन्दगिरिः।
पञ्चरसा = स्त्री पञ्चो विस्तीर्णोरसोऽस्याम्। आमलक्यां हारा०।
पञ्चरात्र = न० पञ्चानां रात्रीणां समाहारः अच्समा०। रात्रान्तत्वेऽपि संख्यापूर्वकत्वेन क्लीवता। १ रात्रिपञ्चके पञ्च रात्राणि ज्ञानानि यत्र। नारदादिप्रणीते ज्ञानोपदेशके २ ग्रन्थभेदे तन्निरुक्त्यादिकं ब्रह्मपु० जन्मखण्डे १३२ अ० उक्तं यथा “रात्रञ्च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम्। तेनेदं रञ्चरात्रं च प्रवदन्ति मनीषिणः। प्रथमं सात्विकं ज्ञानं द्वितीयन्तु तदेव च। नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतत्परम्। चतुर्थं च राजसिकं भक्तस्तन्नाभिवाञ्छति। पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्छति। ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः” तच्च सप्तविधं यथा “पञ्चरात्रं सप्तविधं ज्ञानिनां श्चानदं परम्। ब्राह्मं शैवं च कौसारं वाशिष्ठं कापिलं परम्। गौतमीयं नारदीयमिदं सप्तविधं स्मृतम्” इति नारदपञ्चरात्रे प्रथमरात्रम्। “पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्य पूर्वकम्। वाशिष्ठं नारदीयं च कापिलं गौतमीयकम्। परं सनत्कुमारीयं पञ्चरात्रं च पञ्चकम्”।
पञ्चरात्रिक = पु० पञ्चरात्रमुपासनासाधनतयास्त्यस्य ठन्। विष्णौ भा० शा० १४ अ०।
पञ्चराशिक = पु० पञ्च राशयो यत्र कप्। लीलावत्युक्ते पञ्चराश्यधिकारेण गणितभेदे यथा “पञ्चसप्तनवराशिकादिकेऽन्योन्यपक्षनयनं फलच्छिदाम्। संविधाय वहुराशिजे बधे स्वल्पराशिबधभाजिते फलम्। उदाहरणम्। मासे शतस्य यदि पञ्च कलान्तरं स्याद्वर्षे गते भवति किं वद षोडशानाम्। कालं तथा कथय मूलकलान्तराभ्यां मूलं धनं गणक! कालफले विदित्वा। न्यासः १ १२ अन्योऽन्यपक्षनयने कृते १ १२ १०० १६ (फलस्य छेदोऽन्यपक्षे १०० १६ ५ ० न नेय इति वोध्यम्) ० ५ बहूनां राशीनां बधः। ९६०। अल्पराशिवधः १०० अनेन भक्ते लन्धम्। ९। शेषम् (६०/१००) र्विशत्यापवर्त्त्य (३/५) जातं कुलान्तरम् ९ (३/५) छेदघ्नरूपेष्विति कृते जातम् (४८/५)
पञ्चलक्षण = न० पञ्च सर्गादीनि लक्षणान्यस्य। १ पुराणे अमरः। पुराणशब्दे दृश्यम् पञ्चानां लक्षणानां समाहारः ङीप्। अनुमानचिन्तामण्युक्ते व्याप्तिलक्षणपञ्चके साध्याभावदवृत्तित्वमित्यादिकं व्याप्तिलक्षणपञ्चकं तत्रोक्तमिति तस्य ग्रन्थस्य तथात्वम्।
पञ्चलवण = न० पञ्चगुणितं लवणम्। “काचकं सैन्धवं चैव सामुद्र विडमेव च। सौवर्चलं तथा पञ्चलवणं परिकीर्त्तितम्” राजनि० उक्ते लवणपञ्चके।
पञ्चलाङ्गलक = न० महादानभेदे तत्स्वरूपं मत्स्यपु० यथा “अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। पञ्चलाङ्गलकं नाम महापातकनाशनम्। पुण्यां तिथिं समासाद्य युगादिग्रहणादिकम्। भूसिदानं ततो दद्यात् पञ्चलाङ्गलकान्वितम्। कर्वटं खेटकं वापि ग्रामं वा शस्यशालिनम्। निवर्त्तनशतं वापि तदर्द्धं वापि शक्तितः। सारदारुमयान् कृत्वा हलान् पञ्च विचक्षणः। सर्वोपकरणैर्युक्तानन्यान् पञ्च च काञ्चनान्। कुर्य्यात् पञ्चषलादूर्ड्घनासहस्रपलायधि। दृषान् लक्षखसंयुक्तान् दश चैव घुरन्धरान्। सुवर्णशृङ्गाभरणान् मुक्तालाङ्गूलभूषणान्। रूश्रपादाग्रतिलकान् रक्तकौषेयभूषणान्। स्रग्दागचन्दबयुतान् शालायामधिवासयेत्” इतःषरं तत्राध्याये २८३ अ० दृश्यम्।
पञ्चलोकपाल = पु० संज्ञात्वात् कर्म०। ग्रहयज्ञाद्यङ्गे विनायकादिदेवपञ्चके “विनायकं तथा दुर्गां वायुमाकाशमेव च। अश्चिनौ क्रमतः पञ्चलोकपालान् प्रपूजयेत्” विधानपा०।
पञ्चलोह = न० पञ्चं विस्तीर्णं लोहम्। सौराष्ट्रदेशजे लोहे हेम०। पञ्चगुणितं लोहं संज्ञायां कन्। पञ्चलौहक सवर्णरजतताम्ररङ्गनागरूपे धातुपञ्चके राजनि०।
पञ्चवक्त्र = पु० पञ्च वक्त्राण्यस्य। १ महादेवे २ रुद्राक्षभेदे च पञ्चमुखशब्दे दृश्यम्। पञ्चवदनादयोऽप्यत्र
पञ्चवट = पु० पञ्चो विस्तीर्णो वटः वेष्टनम्। वालयज्ञोपवीतके त्रिका०।
पञ्चवटी = स्त्री पञ्चानां वटानां वटप्रभृतीनां समाहार ङीप्। वटादिवृक्षपञ्चके “अश्वत्थं विल्ववृक्षं च वटं” धात्रीमशोककम्। वटीपञ्चकमित्युक्तं स्थापयेत् पञ्चदिक्षु च। अश्वत्थं स्थापयेत् प्राचि विल्वसुत्तरभागतः। वटं पश्चिमभागे तु धात्रीं दक्षिणतस्तथा। अशोकं वह्निदिक् स्थाप्यं तपस्यार्थं सुरेश्वरि! मध्ये वेदीं चतुर्हस्तां चतुरस्रां मनोहराम्। प्रतिष्ठां कारयेत्तस्याः पञ्चवर्षोत्तरं शिवे!। अनन्तफलदात्री सा तपस्याफलदायिनी। इयं पञ्चवटी प्रोक्ता वृहत्पञ्चवटीं शृणु। विल्ववृक्षं मध्यभागे चतुर्दिक्षु चतुष्टयम्। वटवृक्षं चतुष्कोणे वेदसंख्यं प्ररोपयेत्। अशोकं वर्तुलाकारं पञ्चविंशतिसम्मितम्। दिग्विदिक्ष्वामलर्की च एकैकं परमेश्वरि!। अश्वत्थञ्च चतुर्दिक्षु वृहत्पञ्चवटी भवेत्। यः करोति महेशानि! साक्षादिन्द्रसमो भवेत्। इहलोके महासिद्धिः परे च परमा गतिः” हेमा० व्र० स्कन्दपु० वचनानि। २ दक्षिणदिव्स्थे तीर्थभेदे “ततो पञ्चवटीं गत्वा ब्रह्म चारी जितेन्द्रियः। पुण्येन महता युक्तः सतां लोके महीयते। यत्र योगेश्वरः स्थाणुः स्वयमेब वृषध्वजः। तमर्चमित्वा देवेशं गमनादेव सिध्यति” भा० व० ३८ अ०। रामा० अर० सर्गे दृश्यम्।
पञ्चवर्ग = पु० पञ्च वर्गा प्रहारा यत्र। १ पञ्चप्रहरणान्विते यागभेदे “सर्वे पञ्चवर्गाः पशुकामस्य” कात्या० श्रौ० ९। ४। १८ “पशुकामस्य यजमानस्य सर्वे त्रयोऽप्यभिषवाः पञ्चवर्गाः पञ्चप्रहाराः भवन्ति” कर्कः। पञ्चानां चाराणां वर्गः। २ चारपञ्चके पु० “कृत्स्नं चाष्टबिधं कर्म पञ्चवर्गञ्च तत्त्वतः। अनुरागापरागौ च प्रचारं मण्डलस्य च” मनुटीकायां कुल्लू० उक्तं यथा “कापटिकोदास्थित गृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्गं पञ्चवर्गशब्दवाच्यं तत्त्वतश्चिन्तयेत्। तत्र परमर्म्मज्ञः प्रगल्भश्छात्रः कपटव्यवहारित्वात् कापटिकस्तं वृत्त्यर्थिनमर्थमानाभ्यामुषगृह्य रहसि राजा ब्रूयात् यस्य दुर्वृच पश्यसि तत्तदानीमेव मयि वक्तव्यमिति। प्रव्रज्यारूढपतितौदास्थितः तं लोकेषु विदितदोषं प्रज्ञाशौच युक्तं वृत्त्यर्थिनं ज्ञात्वा रहसि राजा पूर्ववत् ब्रूयात्। बहुत्पत्तिकमठे स्थापयेत् प्रचरशस्योपत्तिकं भूम्यन्तरञ्च तद्वृत्त्यर्यमुपलल्पयेत् स चान्येषामपि प्रव्रजितानां राजचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात्। कर्षकः क्षीणवृत्तिः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म कारयेत्। बाणिजकः क्षीणवृत्तिः वैदेहिकव्यञ्जनस्तं पूर्ववटुक्त्वा घनमानाभ्या मात्मीकृत्य बाणिज्यं कारयेत्। मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः सोऽपि क्वचिदाश्रमे यसन् बहुमुण्डजटिलान्तरकपटशिष्यगण वृतो गुप्तराजोपकल्पितवृत्तिः तपस्यां कूर्य्यात् मासद्विमासान्तरितं प्रकाशं वदरादिमुष्टिमश्नीयात् रहसि च राजोपकल्पितं यथेष्टमाहारं कल्पयेत् शिष्याश्चास्यातीतानागतज्ञानादिकं ख्याषयेयुः तेन बहुलोकवेष्टनमासाद्य सर्वेषां विश्वसनीयत्वात् सर्वे कार्यमकार्यं च पृच्छन्ति अन्यस्य च कुक्रियादिकं कथयन्त्येवंरूपं पञ्चवर्गं यथावच्चिन्तयेत्। एवं प्रकल्प्य तेनैव पञ्चवर्गद्वारेण प्रतिराजस्यात्मीयानाञ्चामात्यादीनाम् अनुरागविरागौ ज्ञात्वा तदनुरूपं चिन्तयेत्” कुल्लू०। पञ्चानां वर्गाणां समाहारः ङीष्। नील० ता० उक्ते ३ क्षेत्रहोरादिपञ्चके स्त्री पञ्चवर्गीवलानयने च रीतिः नील० ता० दृश्या यथा
“सूर्य्यादितुङ्गर्क्षमजोक्षनक्रकन्धाकुलीरान्त्यतुलानि वै स्युः। दिग्भिर्गुणैरष्टयमैः शरैकैर्भूतैर्भसङ्ख्यैर्नस्यसग्मितैश्च”। अथोच्चबलनवांशानाह “तत्सप्तमं नीचमनेन हीनोग्रहोऽधिकश्चेद्रसभाद्विशोध्यः चक्रात् तदंशाङ्कलवो बलम् स्यात् क्रियैणतौलीन्दुभतो नवांशाः” अथ हद्देशानाह “मेषेऽङ्गतर्काष्टशरेषुभागा जीवास्फुजिज्ज्ञारशनैश्चराणाम्। वृषेऽष्टषण्णागशरानलांशाः शुक्रज्ञजीवार्किकुजेषु हद्दाः। युग्मे षडङ्गेषुनगाङ्गभागाः सौम्यास्फुजिज्जीवकुजार्किहद्दाः। कर्केऽद्रितर्काङ्गनगाब्बिभागाः कुजास्कुजिज्ज्ञेज्यशनैश्चराणाम्। सिंहेऽङ्कभूताद्रिरसाङ्गभागाः देबेज्यशुक्रार्किबुधारहद्दाः। स्त्रियां नगाशान्धिनगाक्षिभागाः सौम्योशनोजीवकुजार्किनाथाः। तुले रसाष्टाद्रिनगद्विमागाः कोणज्ञजीवास्कुजिदारनाथाः। कीटे नगाब्ध्यष्टशराङ्गभागाः भौम्यास्फुजिज्ज्ञेज्यशनैश्चराणाम्। चापे रवीष्वम्बुधिपञ्चवेदा जीवास्फुजिज्ज्ञारशनैश्चराणाम्। मृगे नशाद्यूष्टयुगश्रुतीनां सौम्येज्यशुक्रार्किकुजेशहद्दाः। कुम्भे नगाङ्गाद्रिशरेषुभागा शुक्रज्ञजीवारशनैश्चराणाम्। मीनेऽर्कवेदानलनन्दपक्षाः सितेज्यसौम्यारशनैश्चराणाम्। त्रिंशत्स्वभे विंशर्तिरुच्चभे स्वेहद्देऽक्षचन्द्रादशकं दृकाणे। मुशल्लहे (नवांशे)पञ्च लवाः प्रदिष्टाविंशोपकावैदलवैः प्रकल्प्याः। स्वस्वाधिकारोक्तबलं सुहृद्भे पादोनमर्द्धंसमभेऽऽरिभेऽङ्घ्रिः एवं समानीय बलं तदैक्ये वेदोद्धृते हीनबलः शरोनः”।
पञ्चवर्ण = न० पञ्च वर्णा अस्य। पञ्चवर्णान्विततण्डुलचूर्णे “रजांसि पञ्चवर्णानि मण्डलार्थं हि कारयेत्। शालितण्डुलचूर्णन शुक्लं वा यवसम्भवम्। रक्तं कुसुम्भसिन्दूरगैरिकादिसमुद्भवम्। हरितालोद्भवं पीतं रजनी सम्भवं क्वचित्। कृष्णं दग्धपुलाकैस्तु कृष्णैर्द्रव्यैरथापि वा। हरितं विल्वपत्रोत्थं पीतकृष्णविमिश्रितम्”। हेमा० व्र०। २ अकारोकारभकारनादविन्दुयुक्ते प्रणवे च
पञ्चवल्कल = न० ५ त०। “न्यग्रोधोडुम्बराश्वत्थप्लक्षवेतसवल्कलैः। सर्वैरेकत्रसंयुक्तैः पञ्चवल्कलमुच्यते” शब्दच० १ उक्ते “न्यग्रोधोडुम्बराश्वत्थप्लक्षपिप्पलशाल्मली। क्षीरिवृक्षाश्च पञ्चैषां वलकलं पञ्चवल्कलम्” इत्युपक्रमे “पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्पञ्चकं मतम्। त्वक्पञ्चकं हिमं ग्राहि ब्रणशोथविसर्पजित्” राजनि० २ उक्ते च वृक्षपञ्चकवल्कले।
पञ्चवातीय = न० राजसूयाङ्गे फाल्गुनशुक्लप्रतिपदि कर्त्तव्ये पञ्चाग्निसाध्यहोमककर्मभेदे “पञ्चवातीयम् आहवनीयं प्रतिदिशं व्यूह्य मध्ये च स्रुवेणाग्निषु जुहोत्यग्निनेत्रेभ्य इति प्रतिमन्त्रम्” कात्या० श्रौ० १५१२० “होममन्त्राणां लिङ्गेन व्यवस्था (फाल्गुनशुक्ल प्रतिपद्यव) पञ्चवातीय संज्ञकं वक्ष्यमाणकर्म भवति आहवनीयं प्रतिदिशं व्यूह्य खरमध्यस्थं हस्तप्रेरितमेव खरमध्य एव प्राच्यादिदिक्षु स्थापयित्वा मध्ये चावशिष्य पञ्चस्वग्निषु जुहोति” कर्कः “उत्तराः समस्य ये देवा इति प्रतिमन्त्रम्” २१ सू० मुहोतीति शेषः समस्य चाग्नीनिति प्रतिदिशं व्यूढमाहवनीयमेकत्र कृत्वा उत्तराः पञ्चाहुतीर्जुहोति” कर्कः “त्रियुक्ताऽश्वरथो दक्षिणा” २२ सू० “त्रिभिरश्वैर्युक्तोरथो दक्षिणा” कर्कः। तस्य नामनिरुक्तिः शत० ब्रा० ५२। ४ दर्शिता यथा “तस्य प्रष्टिवाहनोऽश्वरथो दक्षिणा। “त्रयोऽश्वा द्वौसव्येष्टृसारघी ते पञ्च पाणा योवै प्राणः स वातस्तद्यदेतस्य कर्मण एषा दक्षिणा तस्मात् पञ्चवातीयं नाम्”। तस्य व्याधितरोगनिवृत्तिहेतुत्वमपि तत्र दर्शितं यथा “स हैतेनापि भिषज्येत्”। “अयं वै प्राणो योऽयं पवते यो वै प्राणः स आयुः सोऽयमेक इवैव पवते सोऽयं पुरुषेऽन्तःप्रविष्टो दशधा विहितो दश वा एता आहुतीर्जुहोति तदस्मिन् दश प्राणान् कृत्स्नमेव सर्वमायुर्दधाति समदिहादि गतासुरिव भवत्या हैवैनेन हरति”।
पञ्चविधप्रकृति = स्त्री कर्म०। अमात्यराष्ट्रेष्ठुर्गार्थदण्डाख्यासु पञ्चसु राज्याङ्गप्रकृतिषु मनुः ७ अध्याये १५७ श्लोके।
पञ्चवीज = न० पञ्चं विस्तीर्णं मध्ये वीजमस्य। १ त्रपुषे (शशा) २ कर्कट्यां ३ दाडिमे च नैघण्टु प्र०।
पञ्चवृत्ति = स्त्री पञ्चगुणिता वृत्तिः शा० त०, कर्म०, ब० व० वा। पात० उक्तासु पञ्चसु मनोवृत्तिषु “वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” सू०। “प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयः” सू० प्राणनापाननसमाननोदाननव्याननरूषवृत्तिपञ्चकयुक्ते देहस्थे बायौ २ प्राणे च।
पञ्चशर = पु० पञ्च शरा अस्य। १ कन्दर्षे अमरः। तच्छराश्च कालिकापुराणशब्दे २० १३ पृ० दर्शिताः। पञ्चगुणिताः शराः शा० त०। कामस्य २ शरेषु १२६९ पृ० उपयमशब्ददर्शिते ३ रोगादिवाणपञ्चके च।
पञ्चशस्य = न० समा० द्वि०। “धान्यमुद्गास्तिला माषाः यवाः सिद्धार्थकोऽथ वा। पञ्चशस्यमिति प्रोक्तम्” इत्युक्तेषु धान्यादिषु। दुर्गोत्सवपद्धतिः।
पञ्चशाख = पु० पञ्च शाखाकारा अङ्गुलयो यत्र। १ हस्ते अमरः। २ गजे पु० स्त्री स्त्रियां जातित्वात् ङीष्। समाद्वि०। पञ्चानां शाखानां ३ समाहारे न०।
पञ्चशारदीय = पु० यज्ञभेदे कात्या० श्रौ० २३४। ३ दृश्यः।
पञ्चशिख = पु० मुनिभेदे तस्योत्पत्त्यादिकं वामनपु० ५० अ० उक्तं यथा “धर्मस्याहिंसा भार्य्या या तस्यां पुत्र चतुष्टयम्। सम्प्राप्तं मुनिशार्दूल। योगशास्त्रविचारकम्। ज्येष्ठः सनत्कुमारोऽभद्धितीयश्च सनातनः। तृतीयः सनको नाम चतुर्थश्च सनन्दनः। सांख्यवेत्तार मपरं कपिलं वोढुमासुरिम्! दृष्ट्वा पञ्चशिखं श्रेवं योगयुक्तं तपोनिधिम्। ज्ञानयोगं न ते दद्युर्ज्यायां सोऽपि कनीयसाम्”। भा० शा० २१८ अ० तस्य नामनिरुक्तिरन्यथोत्पत्तिश्चोक्ता यथा “तत्र पञ्चशिखो नाम कापिलेयो महामुनिः। परिधावन् महीं कृत्स्नां जगाम मिथिलामथ। सर्वसन्न्यासधर्माणां तत्त्वज्ञानविनिश्चये। सु पर्य्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयम्। ऋपीणामाहुरेकं यं कामादवसितं नृषु। शाश्वतं सुखमत्यन्तमन्विच्छन्तं सुदुर्लभम्। यमाहुः कपिलं सांख्याः परमर्षिं प्रजापतिम्। स मन्ये तेन रूपेण विस्मापयति हि स्वयम्। आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम्। पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम्। यत्र चासीनमागम्य कापिलं मण्डलं महत्। पञ्चस्रीतसि निष्णातः पञ्चरात्रविशारदः। पञ्चज्ञः पञ्चकृत् पञ्चगुणः पञ्चशिखः स्मृतः। पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत्। इष्टसत्रेण सम्पृष्टो भूयश्च तपसासुरिः। क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं वुबुघे देवदर्शनः। यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते। आसुरिर्मण्डले तस्मिन् प्रतिपेदे तदव्ययम्। तस्य पञ्चशिखः शिष्यो मनुष्यो वयसा भृतः। ब्राह्मणी कपिला नाम काचिदासीत् कुटुम्बिनी। तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ। ततः स कापिलेयत्वं लेभे बुद्धिञ्च नैष्ठिकीम्। एतन्मे भगवानाह कापिलेयस्य सम्भवम्। तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम्”।
पञ्चशीर्ष = पु० पञ्च शीर्षाण्यस्य। सर्पभेदे।
पञ्चशुक्ल = पु० पञ्चसु कृष्णः। कीटभेदे सुश्रुतः कीटशब्दे दृश्यम्।
पञ्चशूरण = पु० पञ्च शूरणा यत्र। “अत्यम्लकाण्डीरमालाकन्दद्विशूरणैः। कॢप्तो भवति योगोऽयं पञ्चशूरणसंज्ञकः” राज० उक्ते मिलिते अत्यम्लादौ।
पञ्चशैरीषक = न० पञ्चगुणितं शैरीषकम् शा० त०। शिरीषवृक्षस्य पुष्पमूलफलपत्रवल्कलेषु राजनि०।
पञ्चशैल = पु० मेरोर्दक्षिणस्थे पर्वतभेदे “पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः। इत्येते दक्षिणे पार्श्वे मेरोः प्रोक्ता महाचलाः” मार्कण्डपु० ५५ अ०।
पञ्चष = त्रि० ब० पञ्च वा षट् वा वार्थे ब० स० ड समा०। पञ्च वा षट् वा परिमाणं येषां तेषु पदार्थेषु।
पञ्चसिद्धान्ती = स्त्री समा० द्वि०। ब्रह्मसूर्य्यसोमाद्युक्तेषु पञ्चसु ज्योतिषसिद्धान्तेषु।
पञ्चसिद्धीषधिक = पु० पञ्च सिद्धौषधयो यत्र कप्। “तैलकन्दं सुधाकन्दक्रोडकन्दरुदन्तिकाः। सर्पनेत्रयुताः पञ्चसिद्धौषधिकसंज्ञकः” राजनि० उक्ते तैलकन्दादिसिद्धौषधिपञ्चकयोगभेदे।
पञ्चसुगन्धिक = “कर्पूरकक्कोललवङ्गपुष्पगुवाकजातीफलपञ्चकेन। समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात्” इत्युक्तेषु मिलितसुगन्धिकर्पूरादिद्रव्येषु राजनि०।
पञ्चसूना = स्त्री पञ्च सूनाः प्राणिबधस्थानानि। “पञ्च सूना गृहस्थस्य चूल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्” मनुनोक्तेषु पञ्चसु कीटबधस्थाने
पञ्चस्रोतस् = त० पञ्च स्रोर्तासि यत्र। तीर्थभेदे भा० शा० २१८ अ० दृश्यम्। २ योगभेदे पञ्चशिखशब्दे दृश्यम्।
पञ्चस्वरा = स्त्री पञ्च स्वराः प्रतिपाद्यतया यत्र। प्रजापतिदास दैवज्ञजते ज्योतिषग्रन्थभेदे।
पञ्चस्वरीदय = पु० ज्योतिषग्रन्थभेदे गरुडपु० मूलं दृश्यम्।
पञ्चहारक = न० हेमचन्द्रोक्ते हारभेदे।
पञ्चहोत्र = पु० वैवस्वतमनोः पुत्रभेदे हरिवं० ७ अ०।
पञ्चह्रद = पु० पञ्च ह्रदा–अत्र। तीर्थभेदे स्कन्द पु०।
पञ्चांश = पु० वृत्तौ सङ्ख्यावचनस्य पूरणार्थत्वस्वीकारेण पञ्चशब्दः पञ्चमार्थे कर्म०। त्रिंशदंशात्मकराशेः पञ्चमेऽंशे तदंशपानयनरीतिः नीलकण्ठताजके उक्ता यथा “ओजर्क्षे पञ्चमांशेशा कुजार्कीज्यज्ञभार्गवाः। समभे व्यत्ययाद् ज्ञेयाः”
पञ्चाक्षर = त्रि० पञ्च अक्षराणि यत्र। १ मन्त्रभेदे २ प्रतिष्ठाख्य छन्दोभेदे च। “गुरु पञ्चाक्षरेण” यजु० ९। ३२ “पञ्चाक्षरेण छन्दसा” वेददी०। ३ प्रणवे च पञ्चवर्णशब्दे दृश्यम्।
पञ्चाग्नि = पु० संज्ञात्वात् कर्म०। १ अन्वाहार्य्य पचनगार्हपत्याहवनीयसभ्यावसथ्यात्मकेषु पञ्चस्वग्निषु” “पवनः पावनस्त्रेता यस्य पञ्चाग्नयो गृहे” इति हारीतः तत्र पवनः आवसथ्योऽग्निः पावनः सभ्योऽग्निः” कुल्लू०। ते यस्य व०। २ तदग्निभिर्विहिततत्तत्कार्यकारके च। “कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः” याज्ञ० व्याख्यायां सभ्यावसथ्यौ त्रेता अग्नयश्च यस्य सन्ति स पञ्चाग्निः पञ्चाग्निविद्याध्यावी वा” मिता० छान्दो० उ० उक्तेषु च स्वर्गपर्जन्यपृथिवीपुरुषयोषात्मकेषु अग्निवदाहुत्याधारेषु ३ पदार्थेषु “पञ्चाग्नयो ये च त्रिणाचिकेताः” श्रुतिः चतुर्दिक्षु च ऊर्द्धे च स्थितेषु पञ्चसु ४ तेजस्विषु।
पञ्चाङ्ग = पुंस्त्री० पञ्चाङ्गानि यस्य। १ कमठे शब्दमाला। पञ्चभद्राख्ये २ अश्वभेदे शब्दमा० “बाहुभ्यां चैव जानुभ्यां शिरसा वक्षसा दृशा”। पञ्चाङ्गोऽयं प्रणामः स्यात्” इति तन्त्रसारोक्ते ३ प्रणामभेदे “त्वक्पत्रकुसुमं मूलं फलमेकस्य शाखिनः। एकत्र मिलितं चैतत् पञ्चाङ्गमिति संज्ञितम्” राजनि० उक्तेषु ४ एकवृक्षत्वगादिषु पञ्चसु “जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम्। पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यते” तन्त्रसारोक्ते ५ महापुरश्चरणे न०। “तिथिर्वारश्च नक्षत्रं योगः करणमेव च। पञ्चाङ्गमेतदुद्दिष्टम्” ज्यो० उक्तेषु ६ तिथ्यादिषु। “सागमो दीर्घकालश्च निश्छिद्रोऽन्थरवोज्झितः। प्रत्यर्थिसन्निधानञ्च पञ्चाङ्गो भोग इष्यते” कात्या० उक्ते आगमादिपञ्चकयुक्ते ७ भोगे च।
पञ्चाङ्गगुप्त = पुंस्त्री पञ्चाङ्गानि गुप्तान्थस्य। कच्छपे त्रिका०। करपादचतुष्कशिरोरूपावयवपञ्चकस्य स्वेच्छया गोपनात् तस्य तषात्वम्। स्त्रियां जातित्वात् ङीष्।
पञ्चाङ्गशुद्धि = स्त्री पञ्चाङ्गस्य शुद्धिः। तिथिवारादीनां शुद्धौ दोषराहित्ये विहिततिथ्यादौ “पञ्चाङ्गशुद्धिदिवसे सोदये शशितारयोः। गुरुशुकोदये शुद्धे लग्ने द्वादशशोधिते। चन्द्रतारानुकूल्ये च शस्यते सर्व कर्मणि”।
पञ्चाङ्गी = स्त्री करिणां कटिबन्धनदामनि हेमच०।
पञ्चाङ्गुल = पु० पञ्च अङ्गुलय इव पत्रेष्वस्य दारुणि अच्समा०। एरण्डवृक्षे अमरः। २ पञ्चाङ्गल्याकारयुक्ते दर्वीभेदे च अदारुणि तु न अच्। पञ्चाङ्गुलि इत्येव।
पञ्चाज = न० गञ्चगव्यवत् विग्रहः। अजायाः पूरीषादिपञ्चके तद्वदेव तद्घृतपाकविधिः सुश्रुतोक्तः पञ्चमहिषशब्दे दर्शितः।
पञ्चातप = त्रि० पञ्चभिरग्न्यादिभिरातप्यते आ + तप–अच् ६ त०। अग्निचतुष्टयसूर्य्यरूपैः पञ्चभिस्तपस्यति। तत्स्थापनप्रकारस्तु “यज्ञियैर्दारुभिः शुष्कैश्चतुर्दिक्षु चतुष्कृतम्। वह्निसंस्थापनं ग्रीष्मे तीब्रांशुस्तत्र पञ्चमः। हस्तान्तरे चतुर्वह्नीन् कृत्वा वैश्वानरेष्टिना। तन्मध्यस्था सूर्य्यविम्बं वीक्षन्ती बहुलांशुका” कालिकापु० ४२ अ०। “ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः” स्मृतिः।
पञ्चात्मक = त्रि० पञ्च आकाशादय आत्मा स्वरूपं वा यस्य। आकाशादिपञ्चभूतस्वरूपे “पञ्चात्मकं देहमिदं” मार्कण्डपु० २५ अ०। पञ्चीकृतमूतजातत्वाद्देहस्य तथात्वं पाञ्चभौतिकशब्दे दृश्यम्।
पञ्चानन = पुंस्त्री पञ्चं विस्तीर्णमाननमस्य। १ सिंहे स्त्रियां ङीष्। २ सिंहराशौ पु० पञ्च आननान्यस्य। ३ पञ्चमुखे शिवे च। “विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि!। सद्यो जातं वामदेवमघोरञ्च ततःपरम्। तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्त्तितम्। सद्योजातं च वै शुक्लं शुद्धस्फटिक सन्निभम्। पीतवर्णं तथा सौम्यं वामदेवं मनोहरम्। कृष्णवर्णमधोरं च समं भीमविवर्द्धनम्। रक्तं तत्पुरुषं देवि! दिव्यमूर्त्तिमनोहरम्। श्यामलं च तथे शानं सर्वदेवं शिवात्मकम्। चिन्तयेत् पश्चिमे चाद्यं द्वितीयं च तथोत्तरे। अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा। ईशानं मध्यतो ज्ञेयं चिन्तयेत् भक्ति तत्परः” निर्वाणतन्त्रे ६ पटले। ४ रुद्राक्षभेदे।
पञ्चाप्सरस् = शातकर्णिमुनेस्तपस्याभङ्गार्थमिन्द्रप्रेषित पञ्चाप्सरोभिस्तपस्याभङ्गे कृते यत्र सरोवरे तासां सर्वदास्तितिरासीत् तादृशे सरोभेदे रघु० १३ सर्गे दृश्यम्।
पञ्चाब्जमण्डलम् = न० सर्वतोभद्रमण्डलान्तर्गते पञ्चपद्मा- त्मके मण्डलभेदे “पञ्चाब्जमण्डलं प्रोक्तमेतत् खस्तिक वर्जितम्” राघवभट्टधृतवचनम्।
पञ्चामरा = स्त्री संज्ञात्वात् कर्म०। अमरलतापञ्चके “एका तु अमरा दूर्वा तस्या ग्रन्थिं समानयेत्। अन्या तु विजया देवी सिद्धिरूपा सरस्त्रती। अन्था तु विल्यपत्राख्या शिवसन्तोषकारिणी। अन्या तु योगसिद्ध्यर्थे निर्गुण्डी चामरा लता। अन्यातु कालतुलसी श्रीविष्णोः प्रियतोषिणी। एताः पञ्चामरा ज्ञेया योगसाधनकर्मणि” इति रुद्रजामलोत्तरखण्डे ३६ पटले।
पञ्चामृत = न० समा० द्वि०। “दुग्धं च शर्करा चैव घृतं दधि तथा मधु। पञ्चामृतमिदं प्रोक्त” मित्युक्तेषु पञ्चसु दुग्धादिषु।
पञ्चामृतयोग = पु० “गुडुची गोक्षुरश्चैव मूशली मुण्डिका तथा। शतावरीति पञ्चानां योगः पञ्चामृताभिधः” राजनि० उक्तेषु युक्तगुडुच्यादिषु।
पञ्चाम्नाय = पु० संज्ञात्वात् कर्म०। शिवेन पञ्चभिर्वक्तैरुक्तेषु आम्नयतुल्यशास्त्रेषु यथोक्तं “पूर्वाम्नायः पूर्वमुखः प्रश्चिमः पश्चिमामुखः। दक्षिणो दक्षिणस्तद्वदुत्तरश्चोत्तरःपरः। निरुत्तरं तथा चोर्द्ध्वं सिद्धान्तागमरूपिणम्। ऊर्द्ध्वाम्लाय परिज्ञानं नाल्पस्य तपसः फलम्” इति “पूर्याम्नायः शब्दरूपो दक्षिणः कर्णरूपकः। पश्चिमः प्रश्नरूपः स्यादुत्तरं चोत्तरस्तथा। ऊर्द्ध्वाम्नायस्तत्त्वबोधः केवलानुभवात्मकः” इति भैरवतन्त्रम् “शिवपञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गताः” इत्यादि कुलार्णवतन्त्रम्।
पञ्चाम्र = न० “अश्वत्थमेकं पिचुमर्दमेकं न्यग्रोधमेकं दशपुष्पजातीः। द्वे द्वे तथा दडिममातुलङ्गे पञ्चाम्रवापी नरकं न याति” इति वराहपु० १ उक्ते “अश्वत्थ एकः पिचुमर्द एको द्वौ चम्पकौ त्रीणि च केसराणि। सप्वाथ ताला नव नारिकेलाः। पञ्चाम्रवापी नरकं न याति” तिथि० त० २ उक्ते च अश्वर्थादौ। वस्तुतः पञ्चानामाम्राणां वापीत्युत्तरपदद्विगुः तात्पर्यवशात् अश्वत्थादीनां वापीत्यध्याहारेणान्वयः इति बोध्यम्।
पञ्चाम्ल = न० अम्लपञ्चके “कोलदाडिमवृक्षाम्लैरम्लवेतससंयुतैः। चतुरम्लञ्च पञ्चाम्लं मातुलाङ्गसमन्वितम्” शब्दच उक्ते अम्लपञ्चके
पञ्चायतनी = स्त्री पञ्चानामुपास्यदेवरूपाणामायतनानां समाहारः। गणेशादिपञ्चदेवरूपोपास्याना समाहारे। पञ्चदेवोपासकस्य यस्मिन् दिने यस्य पूज्यता तस्य तद्दिने मध्ये स्थापनमन्येषां च दिग्भेदेषु स्थापनमुक्तं तन्त्रसा० यामले “भवानीन्तु यदा मध्ये ऐशान्यामच्युतं यजेत्। आग्नेय्यां पार्वतीनाथं नैरृत्यां गणनायकम्। वायव्यां तमनं चैव पूजाक्रमौदाहृतः। यदा तु मध्ये गोविन्दमैशान्यां शङ्करं यजेत्। आग्नेय्यां गणनाथञ्च नैरृत्यां तपनन्तथा। वायव्यामम्बिकां चैव भोगमोक्षैकभूमिकाम्। शङ्करं च यदा मध्ये ऐशान्यामच्युतं यजेत्। आग्नेय्यां तपनं चैव नैरृत्यां गणनायकम्। वायव्यां पार्वतीं चैव स्वर्गमोक्षप्रदायिनीम्। आदित्यं च यदा मध्ये ऐशान्यां शङ्करं यजेत्। आग्नेय्यां गणनाथं च नैरृत्यां केशवं यजेत्। वायव्यामम्बिकां देर्वो स्वर्गसाधनभूमिकाम्। गणनार्थ यदा मध्ये ऐशान्यां क्तेशवं यजेत्। आम्नेय्यामीश्वरं चैव नैरृत्यां तपनन्तथा। वायव्यां पार्वतीं चैव पूजयेन्मोक्षदायिनीम्। स्वस्थान वर्जिता देवा दुःखशीकभयप्रदाः”।
पञ्चारी = स्त्री पञ्च पञ्च संख्यामृच्छति ऋ–अण् उप० स०। गौरा० ङीष्। शारीफलके (पाशारछक) शब्दमाला। तस्य पञ्चषञ्चकोष्ठात्मकत्वात्तथात्वम्।
पञ्चार्चिस् = पु० पञ्च अर्चीषि यस्य। बुधग्रहे त्रिका०।
पञ्चाल = पु० प० व०। पचि–कालन्। १ देशभेदे उणादिकोषः। विष्णु पु० ४ अ० १९ अध्याये अस्यान्या निरुक्तिर्दर्शिता यथा “हर्य्यश्वान्मुद्गलसृञ्जयवृहदिषुयबीनरककाम्पिल्ब संज्ञाः। पञ्चानामेतेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिता इति पञ्चालाः”। पृषो० दीर्घत्वे पाञ्चालोऽप्यत्र उज्व०। “गच्छताद्यैव पाञ्चालान् द्रुपदस्य निवेशने” भा० आ० १८४०। सोऽभिजनोऽस्य तस्य राजा वा अण्। पाञ्चाल तद्देशवासिनि तन्नृप्रे च। वहुषु अणो लुक्। पञ्चाला इत्येव। पञ्चालनृपस्य भारते द्रुपद इति ख्यातः। तस्यापत्यं स्त्रो पाञ्चाली द्रौपद्याम् २ महादेवे शा० प० २८६ अ०। ३ बाभ्रव्यगोत्रे षरमेश्वरात् क्रमप्राप्तरि ४ ऋषिभेदे भा० शा० ३४४ अ०।
पञ्चालिका = स्त्री पञ्चाय प्रपञ्चाय अलति अल–ण्वुल् कापि अतद्त्त्वम्। वस्त्रादिकृतपुत्तलिकायाम् अमरः।
पञ्चाली = स्त्री पञ्चाय अलति अच् गौरा० ङीष्। १ बस्त्रादिकृतपुत्ततिकायाम् (पा~चाली) ख्याते ३ गीतिभेदे च मेदि०। पञ्चारी + रस्य लः। ३ शारिशृङ्खलायाम् (पाशारछक) त्रिका०।
पञ्चावट = वरस्कटे बालोपवीते हारा०।
पञ्चावत्तिन् = त्रि० पञ्चधा अवत्तं खण्डनमस्त्यत्र। पञ्चधा खण्डिते चर्वादौ आश्व० श्रौ० ११०१९
पञ्चावयव = पु० पञ्च प्रतिज्ञादयोऽवयवायस्य। प्रतिज्ञाहेतूदाहरणोपनयनिगमनात्मकावयवपञ्चकयुक्ते न्यायवाक्ये
पञ्चावस्थ = पु० पञ्चसु भूतेषु स्वकारणेषु अवस्था यस्य। शवे प्रेतदेहे त्रिका० तस्य देहारम्भकभूतानां स्वस्वकारणे लयोन्मुखत्वात् तथात्वम्।
पञ्चावी = स्त्री पञ्च अवयः षण्मासात्मककाला घयोऽस्याः ङीप्। स्वार्द्धवर्षद्वयपयस्कायां स्त्रीगव्यां यजु० १८३६।
पञ्चाशत् = स्त्री पञ्च दशतः परिमाणमस्याः नि०। (पञ्चाश) १ संख्याभेदे २ तत्सङ्ख्यान्विते च ततः पूरणे डट्। पञ्चाश तत्सङ्ख्यापूरणे त्रि० स्त्रियां ङीप्। तमप् पञ्चाशत्तम तदर्थे। सऽधिकं यत्र शतादौ ड। पञ्चाश पञ्चाशदधिके शते सहस्रे च डिनि। पञ्चाशिन् तत्परिमाणयुक्ते। स्त्रियां ङीप्। स्वार्थे क टाष्। पञ्चाशिका चौरपञ्चाशिका षट्पञ्चाशिका इत्यादि।
पञ्चाशीति = स्त्री पञ्चाधिका अशीतिः। शा० त०। (प~चाशी) १ सङ्ख्याभेदे २ तत्संख्यके च।
पञ्चास्य = पुंस्त्री० पञ्चं विस्तीर्णमास्यं यस्य। १ सिंहे स्त्रियां जातित्वेऽपि योपधत्वात् टाप्। २ सिंहराशौ च पञ्च आस्यान्यस्य। ३ पञ्चानने शिवे ४ पञ्चवक्त्रे रुद्राक्षे च।
पञ्चिन् = त्रि० पञ्च परिमाणमस्य डिनि। पञ्च परिमाणयुक्ते ऐत० ब्रा० ३। ३१८
पञ्चीकरण = न० अपञ्च पञ्चात्मकानि क्रियन्ते अनेन पञ्चन् + च्वि–कृ–भावे ल्युट्। अपञ्चात्मकस्य पञ्चात्मकतासम्पादने व्यापसूभेदे। पञ्चीकरणन्तु आकाशादिषु पञ्चस्वेकैकं द्विधा समं विभज्य तेषु दशसु भागेषु मध्ये प्राथमिकान् पञ्च भागान् प्रत्येकं चतुर्द्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्वद्वितीयार्द्धभागं परित्यज्य भागान्तरेषु संयोजनम् तदुक्तं “द्विधा विधाय चैकैकं चतुर्द्धा प्रथमं पुनः। स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते” वेदान्तसारः।
पञ्चीकृत = त्रि० पञ्चीकृ–कर्मणि क्त। पञ्चात्मकताकरणेन उत्पादिते “अपञ्चीकृतभूतोत्थं सूक्ष्मङ्गं भोगसाधनम्” वेदान्तपरिभाषा।
पञ्चेध्मीय = पु० पञ्चभिरिध्मभिः निर्वृत्तः छ। पञ्चेध्मसाध्ये होमभेदे तैत्ति० ९३। ७ “रात्रौ निशायां पञ्चेध्मीयेन च” आपन्तम्बः।
पञ्चेन्द्र = त्रि० पञ्च इन्द्राण्यो देवता अस्य अण् तस्य “द्विगो- र्लुगनपत्ये” पा० लुकि “लुक् तद्धिततलुकि” पा० उपसर्जन स्त्रीप्रत्ययस्य लुक्। इन्द्राणीपञ्चकदेवताके हविरादौ।
पञ्चेन्द्रिय = न० संज्ञात्वात् कर्म०। इन्द्रियपञ्चके इन्द्रियशब्दे दृश्यम्। तच्च ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं च।
पञ्चेषु = पु० संज्ञात्वात् कर्म०। कामस्य १ बाणपञ्चके कालिकापु० २०१३ दृश्यम्। उपयमशब्दे १२६९ पृ० उक्ते विवाहादौ वर्ज्ये २ चौरादिपञ्चके। पञ्च इषवोऽस्य। ३ कामदेवे हला०।
पञ्चोपचार = पु० संज्ञात्वात् कर्म०। गन्धादिनैवेद्यान्तेषु पञ्चसु १ पूजाङ्गेषु उपचारशब्दे १२०४ पृ० दृश्यम्। पञ्च उपचारा यत्र। २ पञ्चोपचाराङ्गे पूजनादौ त्रि०।
पञ्चोपविष = न० संज्ञात्वात् कर्म०। “स्नुह्यर्ककरवीराणि लाङ्गली विषमुष्टिका। एत न्युपविषाण्याहुः पञ्च पाण्डित्य शालिनः” राजनि० उक्तेषु पञ्चसु स्नुह्यादिषु उपविषेषु।
पञ्चोष्मन् = पु० संज्ञात्वात् कर्म०। “भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः। तत्तदाहारवः स्वान् स्वान् पार्थिवादीन् पचन्त्यमी” सारकौ० उक्ते आहारपाचके देहस्थाग्निपञ्चके।
पञ्चोदन = पु० पञ्चधा विभक्तः ओदनः। पञ्चाङ्गुलिभिः पञ्चथा विभक्ते ओदने। “पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमेनम्” अथ० ७। १४। ७ तस्य विनियोगश्च तदुत्तरत्र मन्त्रेषु द्रष्टव्यः।
प(पि)ञ्जर = पु० न० पजि (पिजि) वा अरन्। १ शरीरास्थिवृन्दे कङ्काले २ विहङ्गमादिबन्धनस्थाने न० अमरः। ३ कलियुगे ४ गवां नीराजनाविधौ च सारकौमुदी। ततः चतु रय्यों सङ्काशा० ण्य। पाञ्जर्य्य तत्सन्निकृष्टदेशादौ त्रि०।
पञ्जराखेट = पु० पञ्चरमिवाखेटः। मत्स्यधारणयन्त्रभेदे (पोलो) त्रिका०।
पञ्जल = पु० पजि–अलच्। कोलकन्दे राजनि०।
पञ्जि(ञ्जी) = स्त्री पजि–इन् वा ङीप्। १ सूत्रसाधननालिकायां (पा~इज)।
पञ्जिका = स्त्री पंञ्जि + स्वार्थे क। पाणिनीयसूत्रवृत्तिभेदे तिथिवारादिपञ्चाङ्गवाधिकायां २ पत्रिकायाञ्च शव्दमाला (पा~जि) “वारो हरति दुःस्वप्नं नक्षत्रं पापनाशनम्। “तिथिर्भवति तङ्गाभा थोनः सागरसङ्गमः। करणं सर्वतीर्थानि श्रुता चेत् “दिनपञ्जिका” ज्योति०। तत्सूचकत्वात् तस्यास्तथात्वम् “टीका निरन्तरव्याख्या पञ्जिका पदनक्तिका” हेमच० उक्तलक्षणे ३ व्याख्यानभेदे च ४ आयव्ययसूचनार्थपत्रे च ५ अग्रमन्धान्थां त्रिका०।
पञ्जिकारक = त्रि० पञ्जिमायव्ययसूचकपत्रं करोति कृ–ण्वुल्। कायस्थे जटाधरः कृ–ट। पञ्जीकरोऽप्यत्र त्रिका०।
***