नु = अव्य० नुदति नौति वा नुद–नु–वा मित० डु। १ विकल्पे २ अनुनये ३ अतीते ४ प्रश्ने ५ हेतौ ६ वितर्के ७ अपमाने ८ आदेशे ९ अनुतापे च मेदि० “क्षालितं नु गमितं नु बधूनाम्” माघः अयञ्चात्रोत्पेक्षाद्योतकः। क्वचित् संशयालङ्कारद्योतकश्च।

नुड = बधे तु० कु० पर० सक० सेट्। नुडति अनुडीत्। नुनोड अणोपदेशत्वात् न णत्यं प्रनुडति।

नुति = स्त्री नु–क्तिन्। १ स्तवे २ प्रणामे च।

नुत्त(न्न) = त्रि० नुद–क्त। १ प्रेरिते २ क्षिप्ते च अमरः “अदस्त्वया नुत्तमनुत्तमं तमः” माघः। पक्षे क्ततस्य नः पूर्वदस नः। “न नोननुन्नोनुन्नोनोनाना नानानना ननु। नुन्नोऽनुन्नोननुन्नेनोनानेनानुन्ननुन्ननुत्” किरा०।

नूतन = त्रि० नवएव “नवस्य त्नप्तनप्खार्श्च पा० स्वाथे तनष् नूरादेशश्च। नवीने अमरः “नूतनजलधररुचये” भाषा० “प्रशमस्थितपूर्वपार्थिवम् कुलमम्युतनूतनेश्वरम्” रघुः।

नूत्र = त्रि० नव एव नव + नूतनवत् त्नप् नूरादेशश्च। नवीने अमरः “नूत्रा इन्द्र! ते रथमृचिती भूमः” ऋ० ८। २१। ७

नूद = पु० नुदति पापं क पृषो० दीर्घः। अश्वत्थाकारे ब्रह्मदारुवृक्षे अमरः।

नूनम् = अव्य० नु + उन–पि। १ वितर्के २ निश्चिते ३ स्मरणे अमरः ४ वाक्यपरणे ५ उत्प्रेक्षाद्योतने च मेदि० “क्षुद्रेऽपि नूनं शरणं प्रपन्ने” “न वेत्सि नूनं यतएवमात्थ माम्” कुमा० “नूनं शङ्के ध्रुवं प्रायोन्यूनमित्येवमादयः” सा० द० उत्प्रेक्षाद्योतकोक्तौ।

नूपुर = न० नू–क्विप् नुवि पुरति पुर–अन्तगमने क। (नेपुर) पादाङ्गदे अमरः “अप्सरोनूपुररवैः प्रनृत्यद्वरबर्हिणः” भा० व० १४६ अ०।

नृ = नये भ्वा० प० अक० अनिट्। नरति अनार्षीत् मनार अणोपदेशत्वात् न णत्वं प्रनरति “णोपदेशाल्वनर्दनाटिनाथ्नाध्नन्द्नकक् नृनृतः”। “नर्द शब्दे नट अवस्यन्दने चुरादिः नाटीति दीर्घनिर्देशात् अट नृताविति घटादिर्नेह गृह्यते नाथ्र नाधृ याच्ञादौ टु नदि समृद्वौ नक्व नाशने नृ नते नृतो गात्रविक्षेपे एतद्भिन्ना णोपदेशाः” इति मनोरमा। भृ नये सेट् इत्यन्ये

नृ = पु० नी–ऋन् डिच्च। १ मनुष्ये २ पुरुषे च अमरः। ना नरौ नरः नृन् नुः नणां नृणाम्। “नृणाभेकोगम्यस्त्वमसि षयसामर्णव इव” पुष्पदन्तस्त्रीत्रम्। “अन्ये कृतयुगे नॄणां युगह्लासानुरूपतः” मनुः। ३ नेतरि त्रि० ४ गङ्कौ पु०। मनुष्यजातौ स्त्रियां ङीष् वृद्धो नारी “नारीणामनुकृचमाचरसि चेज्जानासि” सा० द०।

नृकपाल = न० ६ त०। नरस्य क्वपाले शीर्षास्थ्नि नृकरोटिकाप्यत्र स्त्री।

नृकेशरिन् = पु० ना चासौ केशरी च। नरसिंहे विष्णोरवतारभेदे नरसिंहशब्दे दृश्यम्।

नृग = पु० औशीनरे १ नृपभेदे २ तत्पत्र्यां स्त्री। दर्वाशब्दे ३४७३ पृ० मूलं दृश्यम्। “राजर्षेस्तस्य च सरिन्नमस्य भरतर्षभ!। रम्यतीया बहुजला पयोष्णी द्विजसेविता” भा० व० ८८ अ०। स च अज्ञानात् स्वकीय धेनुबुद्ध्या ब्राह्मणधेनुं विप्राय दत्त्वा कृकलासतां प्राप्त इत्येषा कथा भा० अनु० ७० अ० दृश्या।

नृगधूम = पु० तीर्थभेदे शब्दार्थ०।

नृचक्षस् = पु० नॄर्न् चष्टे पश्यति भक्ष्यत्वेन चक्ष–असुन् न ख्यादेशः। १ राक्षसे हेमच०। २ मनुष्यदर्शके च “श्येनो नृचक्षा अग्नेष्ट्वा चक्षुषावपश्यामि” ताण्ड्य० ब्रा०। ३ देवे च “नृचक्षसां भागोऽसि” यजु० १४। २४ “नॄन् शुभाशुभकर्त्तृन् चक्षते जानन्ति ये ते नृवक्षसो देवाः” वेददी०

नृचक्षुस् = पु० कीरवे सनीथपुत्रे भाविनि नृपभेदे “सुनीबस्तस्य भविता नृचक्षुर्यत्सुखी नला” भाग० ९। २२। २८ श्लो०।

नृजल = ग० ६ त०। १ मनुव्यनेत्रजले नृनिःमृतं जलम्” शा० त०। २ माबवमूत्रे हेमच०।

नृत = नर्त्तने दिवा० प० अक० सेट्। नृत्यति अनर्त्तीत् ननर्त्त नर्त्तिष्यति नर्त्स्यति। नृत्तम् नृत्यम्। निनृत्णति नरीनृयते। नरीनत्तिं नर्नर्त्ति नरीनरीति नर्नरीति। अणोषदेशत्वात् सति निमित्ते न णत्वम्। प्रनृत्यति नर्त्तकः नर्त्तकी। “नृत्यति युवतिजनेन समं सति! विरहिजनस्य दुरन्ते” गीतगो० “नृत्यन्ति गोकर्णशरीरभक्षाः” चोरप०।

नृति = स्त्री नृत–गात्रविक्षेपे इन् किच्च अभिवानात् स्त्रीत्वम्। नर्त्तने शब्दच०।

नृतु = पु० नृत–कु। नर्त्तके “तेऽपरीतं नृतो शवः” ऋ० ८। २४। ९ “नृतू जनिमन् यज्ञिवानाम्” ऋ० ६। ६३। ५ “नृतू नर्त्तकावश्विनौ” भा० “वज्रेण दाशुषे नृतो!” ऋ० १। १३०। ७

नृतू = त्रि० भृत–कू। १ नर्त्तके। नॄन् तूर्वति हिनस्ति तूर्ष– क्विप्। २ नरहिंसके च “नृतूरिवापोर्णुते” ऋ० १। ९२। ४

नृत्त(त्य) = न० नृत–क्त क्यप् वा। तालमानयुक्ते सविलासाङ्गविक्षेपरूपे नर्त्तने “ताण्डवं नटनं नृत्यं लास्यं नृत्यञ्च नर्त्तने” अमरे ईषद्भेदेऽपि पर्यायता। तल्लक्षणादि यथा “देवरुच्या प्रतीतो यस्तालमानरसाश्रयः। सविलासोऽङ्गविक्षेपो नृत्यमित्युच्यते बुधैः। ताण्डवश्च तथा खास्यं द्विविधं नृत्यमुच्यते। अङ्गविक्षेपबाहुल्यं तथाभिनयशून्यता। यत्र सा पेरलिस्तस्याः संज्ञा देशीति लोकतः। क्लेदनं भेदनं यत्र बहुरूपा मुखावली। ताण्डवं बहुरूपन्तद्वारुणागलमुद्धतम्। छुरितं यौवतञ्चेति लास्य” द्विविधमुच्यते। यत्राभिनयाद्यैर्भावैरसैराश्लेषचुम्बनैः। नायिकानायकौ रङ्गे नृत्यतश्छुरितं हि तत्। मधुरं बद्वलीलाभिर्नटीभिर्यत्र नृयते। वशीकरणविद्याभं तल्लास्यं यौवतं मतम्। गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठते लयः। लयतालसमारब्धं ततो नृत्यं प्रवर्त्तते” सङ्गीतदा०। अपरूपस्य नृत्यं व्यर्थं यथा “नृत्येनालमरुपेण सिद्धिर्नाट्यस्य रूपतः। चार्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बना” इति मार्क० पु० “रङ्गस्य दर्शयित्वा नर्त्तकी निवर्त्तते यथा नृत्यात्” सा० का०। “गोपाङ्गना नृत्यमनन्दयत्तम्” भट्टिः।

नृत्यप्रिय = त्रि० नृत्यं प्रियमस्य। १ नर्त्तगप्रिये २ ताण्डवप्रिये शिवे पु० ३ कुमारानुचरमातृभेदे स्त्री “नृत्यप्रिया च राजेन्द्र! शतोलूखलमेखला” भा० श० ४७ न०।

नृत्यशाला = स्त्री ६ त०। (नाचधर) नाट्यगृहे

नृत्यस्थान = न० ६ त०। नृत्याधिकरणे रङ्गस्थाने अमरः।

नृदुर्ग = न० नृवेष्टितं दुर्गम् शा० त०। मनुष्यरथादिवेष्टिते नृपस्याश्रयणीये दुर्गभेदे (गड) भेदे “नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् नृपः” मनुः “नृदुर्गं चतुर्दिगवस्थायिहस्त्यश्वरथयुक्तवहुपादातरक्षितम्” कूल्लू०।

नृदेव = पु० गा देव इव। नरदेवे नृपे “अम्लानमालां विपुलां च पत्रैर्देवा नृदेवाश्च “भिदां न भेजुः” नैष०।

नृधर्मन् = पु० नरस्येव धर्मोऽस्य अनिच् समा०। १ कुवेरे हेमच० २ मनुष्यधर्मयुक्तमात्रे त्रि० स्त्रियां वा ङीप्।

नृनमन = न० ६ त०। नृभिर्नम्यते नम–कर्मणि ल्युट् पूर्वपदादिति णत्वे प्राप्ते क्षुम्रा० न णत्वम्। २ मनुष्यनमनीये देवादौ।

नृप = पु० नॄन् पाति रक्षति पा–क। “चतुर्योजनपर्यन्तेष्वधिकारी नृपो भवेत्” इत्युक्ते १ राजविशेषे २ राजमात्रे च अमरः। “नृपादिलक्षणं यथा “चतुर्योजनपर्य्यन्तमधिकारो नृपस्य च। यो राजा तच्छतगुणः स एव मण्डलेश्वरः। तस्माद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः” ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अ०। तत्प्रशंसा यथा “अपुत्त्रस्य नृपः पुत्रो निर्धनस्य धनं नृपः। अमातुर्जननी राजा अतातस्य पिता नृपः। अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः। अभृत्यस्य नृपो भृत्यो नृप एत नृणां सखा। सर्वदेवमयो राजा तस्मात्त्वामर्थये नृप!” कालिकापु० ५० अ०। “व्यवहारान्नृपः पश्येद्विद्वद्भिः ब्राह्मणैः सह” याज्ञ० “नृपेण षाणिग्रहणस्पृहेति” नैष०। २ षोडशसंख्यायाम् भारते षोडशानामेव राज्ञां माहात्म्यविशेषकथनात् नृपशब्दस्य तत्सङ्ख्यावाचित्वम् षोडश नृपाश्च भा० द्रो० ५५ अध्यायादौ षोडशराजिकपर्वण्युक्ताः तत्रैव दृश्याः। “भुवि नृपमितहस्तेष्वङ्गलग्नं तदग्रम्” लीला०। राज्ये एकनृपकरणस्यावश्यकता तत्र विशेषश्च औशनसनीतिपरिशिष्टे १ अ० उक्तो यथा “सदैकनायकं राज्यं कुर्य्यान्न बहुनायकम्। नानाथकं क्वचिदपि कर्त्तुरोप्सितमूतये। राजकुले तु वहवः पुरुषा यदि सन्ति हि। तेषु ज्येष्ठो भवेद्राजा शेषास्तत्कार्यसाधकाः। गरीयांसोवराः सर्वे सहायेभ्यो बिवृद्धये। ज्येष्ठोऽपि बधिरः कुष्ठी मूढोऽन्धः षण्ड एव यः। स राज्यार्हो भवेन्नैव भ्राता तत्सुत एव वा। न कनिष्ठोऽपि, ज्येष्ठस्य भ्रातुः पुत्रस्तु राज्यभाक्। दायादानामैकमत्यं राज्ञः श्रेवस्करं परम्। पृथग्- भावो विनाशाय राज्यस्य च कुलस्य च। अतः स्वभोग सदृशान् दायादान् कारयेन्नृपः। अव्याहताज्ञः संतुष्येच्छत्रसिंहासनैरपि। राज्यविभजनाच्छ्रेयो न भूपानां भवेत् खलु। अल्पीकृतं विभागेन राज्यं शत्रुर्जिघृक्षति। राज्यतुर्य्यांशदानेन स्थापयेत्तान् समन्ततः। चतुर्दिक्ष्वथ या देशाधिषान् कुर्य्यात् सदा नृपः। गोगजाश्वोष्ट्रकोषाणामाधिपत्ये नियोजयेत्। सेनाधिकारे संयोज्या नान्धवाः श्यालकादयः। स्वदोषदर्शकाः कार्य्या गुरवः सुहृदश्च ये। वस्त्रालङ्कारपात्राणां स्त्रियो योज्यास्तु दर्शने। स्वयं सर्वं च विमृशेत् पर्य्यायेण च दुर्नयेत्। मन्त्रयेन्मन्त्रिभिः सार्द्धं भावि कृत्यं तु निर्जने। अन्तर्वेश्मनि रात्रौ वा दिवा वाऽन्यविशोधिते। सुहृद्भिर्भ्रातृभिः सार्द्धं सभायां पुत्रबान्धवैः। राजकृत्यं सैन्यपैश्च सभ्याद्यैश्चिन्तयेन्नृपः”।

नृपकन्द = पु० कन्दानां नृपः श्रेष्ठः राजद०। राजपलाण्डौ राजनि०।

नृपगृह = न० ६ त०। राजमन्दिरे तल्लक्षणादि वृ० सं० ५३ अ० “उत्तममष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन। अष्टाष्टोनान्येवं पञ्च सपादानि दैर्घ्येण” औशनसनीतिपरिशिष्टे १ अ० तद्विवृतिर्यथा “राजगृहं सभामध्यं गवाश्वगजशालिकम्। प्रशस्त वापीकूपादिजलयन्त्रैः सुशोभितम्। सर्वतः स्यात् समभुजं दक्षिणोच्चमुदङ्नतम्। शालां विना नैकभुजम् तथा विषमबाहुकम्। प्रायःशाला नैकभुजा चतुशालं विना शुभा। शस्त्रास्त्रधारिभिर्युक्तप्राकारं सुष्ठुयन्त्रकम्। सन्निकृष्टचतुर्द्वारं चतुर्दिक्षु सुशोभनम्। दिवारात्रौ सशस्त्रास्त्रैः प्रतिकक्षासु गोपितम्। चतुर्भिः पञ्चभिः षड्मिर्यामिकैः परिवर्त्तकैः। नानागृहोपकार्य्याट्टसंयुतं कल्पयेत् सदा। वस्त्रादिमार्जनार्थं च स्नानार्थं यजनार्थकम्। भोजनार्थं च पाकार्थं पूर्बस्यां कल्पयेत् गृहम्। निद्रार्थञ्च विहारार्थं पानार्थं रोदनार्थकम्। धान्यार्थं द्वारपालार्थं दासीदासार्थमेव च। उत्सर्गार्थं ग्रहान् कुर्य्यात् दक्षिणस्यामनुक्रमात्। गो खगोष्ट्रगजाद्यर्थं ग्रहान् प्रत्यक् प्रकल्पयेत्। रथवाज्यर्थशस्त्रार्थव्यायामयामिकार्थकम्। वस्त्रार्थकं तद्भरार्थं विद्याभ्यासार्थमेव च। उदक् ग्रहान् प्रकुर्वीत सुगुप्तान् सुमनोहरान्। यथामुखानि वा कुर्य्याद्गृहाण्येतानि वै नृपः। धर्माधिकरणं शिल्पशालां कुर्य्यादुदग् ग्रहान्। पञ्चमांशाधिकोच्छ्रायां भित्तिं विस्तरतो गृहे। कोष्ठविरतारषष्ठांशस्थूला सा च प्रकीर्त्तिता। एकभूमे रिदं मानमूर्द्धमूर्द्ध्वं समन्ततः। स्तम्भैश्च भित्तिभिर्वापि पृथक् कोष्ठानि संन्यमेत्। त्रिकोष्ठं पञ्चकोष्ठं वा सप्तकोष्ठं गृहं स्मृतम्। द्वारार्थमष्टधा भक्तं द्वारस्यांशौ तु मध्यमौ। द्वौ द्वौ क्षेयौ चतुर्दिक्षु धनपुत्रपदौ नृणाम्। तत्रैव कल्पयेत् द्वारं नान्यत्र तु कदाचन। वातायनं पृथक् कोष्ठे कुर्य्याद्यादृक् सुखावहम्। अन्य गेहद्वारविद्धं गृहद्वारं न कारयेत्। वृक्षकोणस्तम्भमार्ग पीठकूपैश्च वेधितम्। प्रासादमण्डपद्वारे मार्भवेधो न विद्यते। गृहपीठं चतुर्थांशमुच्छ्रायस्य प्रकल्पयेत्। प्रसादानां मण्डपानां चार्द्धांशं चापरे जगुः। पर वातायनैर्विद्धं नापि वातायनं स्मृतम्। हीना निम्ना छदिर्न स्यात्तादृक् कोष्ठस्य विस्तरः। स्वोच्छायस्यार्द्धमूलैक प्राकारः सममूलकः। तृतीयांशकमूलो वा ह्रस्वस्यार्द्ध प्रविस्तरः। उच्छ्रितस्तु तथा कार्य्यो दस्युभिर्न विलङ्ग्यते। यामिकैरक्षितो नित्यं नालिकास्त्रैश्च संयुतः। बहुसुदृढगुल्मश्च सुगवाक्षप्रणालिकः। स्वहीनमहाप्राकारो ह्यसमीपमहोधरः। परिखा तत्र कार्य्या च खातात् द्विगुणयिस्तरा। नातिसमीपप्राकारा ह्यगाधसलिला शुभा। युद्धसाधनसम्भारैः सुयुद्धकुशलैर्विना। न श्रेयसे दुर्गवामे राज्ञः स्याद् बन्धनाय वै”।

नृपञ्जय = पु० अन्यान् नृपान् जयति जि–खश्। पौरवे नृपभेदे “क्षेम्यात् सुवीरो नृपतिः सुवीरात्तु नृपञ्जयः। नृपञ्जयो बहुरथ इत्येते पौरवाः स्मृताः” हरिवं० २० अ०।

नृपति = पु० नॄन् पाति पा–डति ६ त०। १ कुवेर २ नृपाले राजनि च शब्दरत्ना० “जाताभिघङ्गो नृपतिर्निषङ्गात्” रघुः। नृनाथादयोऽपि राजनि। ३ क्षत्रिये “नृपतेर्वर्णयोर्द्वयोः” मनुः।

नृपतिवल्लभ = पु० ६ त०। १ वटिकात्मके औषधभेदे “जातीफलं लवङ्गाब्दत्वगेलाटङ्गरामठम्। जीरकञ्च यवानी च विश्वासौन्धवपत्रकम्। लौहमभ्रं रसं गन्धं ताम्रं प्रत्ये कशः पलम्। मरिचं त्रिपलं दत्त्या छागोदुग्धेन पेषयेत्। धात्रीरसेन वा पिष्ट्वा वटिकां कुरु यत्नतः। श्रीमद्गगननाथेन विचिन्त्य परिनिर्सितः। सूर्य्यवत्तेजसा चायं रसो नृपतिवल्लभः। अष्टादशवटीं खादेत् पवित्रः सूर्य्यदर्शकः। हन्ति मन्दानलं सर्वभामदोषं विसूचिकाम्। प्लीहगुल्मोदराष्ठीला यकृत् पाण्डुहली- सकम्। हृच्छूलं कण्ठशूलञ्च चक्षुःशूलञ्च कामलाम्। शिरःशूलं कटीशूलमानाहमोष्ठशूलकम्। कासश्वासामवातञ्च श्लीपदं शोथमर्बुदम्। गलगण्डं गण्डमालामम्लपित्तञ्च गर्दभीम्। क्रिमिकुष्ठानि दद्रूणि वातरक्तं भगन्दरम्। उपदंशमतीसारं ग्रहण्यर्शःप्रमेहकम्। अश्मरीं मूत्रकृच्छ्रञ्च मूत्राधातमसृग्दरम्। ज्वरं जीर्णज्वरं कण्डूं तन्द्रालस्यं वमिं भ्रमिम्। दाहविद्रधि हिक्काश्च जडगद्गदमूकताः। बाधिर्य्यं स्वरभेदञ्च मुष्कवृद्धिविसर्प्रकान्। उरुस्तम्भं रक्तपित्तं गुदभ्रंशारुचिं तृषाम्। कर्णनासानुशोथांश्च दन्तरोगञ्च पीनसम्। स्थौल्यञ्च शीतपित्तञ्च स्थावराणि विषाणि च। वातपित्तकफोत्थांश्च द्वन्धजान् सान्निपातिकान्। सर्वरोगचयान् हन्ति चण्डांशुरिव पापहा। बलवर्णकरो ह्येष आयुष्यो वीर्य्यवर्द्धनः। परं वाजीकरः श्रेष्ठः पटुतामन्त्र सिद्धिदः। अरोगी दीर्घजीवी स्यात् रोगी रोगं विमुञ्चति। रसस्यास्य प्रसादेन सुबुद्धिर्जायते नरः” भैमज्यरत्नावली। २ राज्ञां प्रिये त्रि० ३ राजपत्न्यां स्त्री नृपवल्लभादयोऽप्यत्र।

नृपत्री = स्त्री नॄणां पतिः पालयित्री “विभाषा सपूर्वस्य” पा० नान्तादेशः नान्तत्वात् स्त्रियां ङीप्। नॄणां पालयित्र्यां स्त्रियां “अभि नो देवीरवसा महः शर्मणा नृपत्नीः” ऋ० १२२११ “नृपत्नीः मनुष्याणां पालयित्र्यः” भा० छन्दसि जसः स्याने शस्।

नृपद्रुम = पु० नृपस्यादनो द्रुमः शा० त०। राजादने आरग्बधे राजनि०। नृपवृक्षादयोऽप्यत्र “खादेद्वप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षजान्” सुश्रुतः।

नृपप्रिय = पु० ६ त०। (वेडुवा~श) १ वंशभेदे तस्य दुर्गवेष्टनकारित्वात्तत्प्रियत्वम्। २ राजपलाण्डौ ३ शालिधान्ये ४ आम्रे च शब्दच०। ५ राजवल्लभे त्रि० ६ केतक्यां ७ राजखर्जूर्य्याञ्च स्त्री राजनि०।

नृपप्रियफला = स्त्री नृपप्रियं फलं यस्याः। वार्त्ताक्यां राजनि०।

नृपबदर = पु० बदरार्णां नृपः राजदन्ता० पूर्वनि०। राजवदरे राजनि०।

नृपमन्दिर = न० ६ त०। राजगृहे सौधे हेमच०।

नृपमाङ्गल्यक = म० नृपस्य माङ्गुल्यं यस्मात् कप्। बाहुल्यवृक्षे राजनि०।

नृपमान = न० नृपस्य तद्भोजनस्य मानमावेदकं वाद्यम्। नृपस्य मोजगकालावेदके वाद्यभेदे त्रिका०।

नृपलक्ष्मन् = न० ६ त०। नृपचिह्ने छत्रे चामरादौ च नृपलिङ्गादयोऽप्यत्र “निजग्राहोजसा वीरः कलिं दिग्विजये क्वचित्। नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा” भाग०

नृपवल्लभ = न० चक्रपाणिदत्तोक्ते पक्वे १ तैलभेदे २ घृतभेदे च। “गवां शकृत्क्वाथविपक्वमुत्तमं हितञ्च तैलं तिमिरेषु नस्ततः। घृतं हितं केवलमेव पैत्तिके तथानुतैलं पवनासृगुत्थयोः। जीवकर्षभकौ मेदाद्राक्षांशुमती निदिग्धिका वृहती। मधुकं वला बिडङ्गं मञ्जिष्ठा शर्करा रास्ना। नीलोत्पलं श्वदंष्ट्वा प्रपौण्डरीकं पुनर्णवा लवणम्। पिपपल्यः सर्वेषां भागैरक्षांशिकैः पिष्टैः। तैलं वा यदि वा सर्पिर्दत्त्वा क्षीरं चतुर्गुणं पक्वम्। तिमिरं पटलं काचं नक्तान्ध्यं चार्बुदन्तथान्घ्यशु। श्वेतशु लिङ्गनाशं नाशयति नीलिकासंज्ञम्। मुखनासादौर्गन्ध्यं लक्षितञ्चाकालनं हगुस्तम्भम्। कासं श्वासं शोषं हिक्कां स्तम्भं तथा व्यथां नेत्रे। मुखजैह्मवमर्दभेदं रोगं बाहुग्रहं शिरस्तम्भम्। रोगानथोर्द्धजत्रोः सर्वानचिरेण नाशयति। नस्यार्थं कुडवं तैलं पक्तव्यं नृपवल्लभे। अक्षांशैः शालिकैः कल्कैरन्ये भृङ्गादितैलवत्”।

नृपशासन = न० ६ त०। राजशासने तत्प्रकारः औशनसनीतिसरिशिष्टे १ अ० उक्तो यथा “शासनं कीदृशं कार्यं राज्ञा नित्यं प्रजासु च। दासे भृत्येषु भार्य्यायां पुत्रे क्षिष्येऽपि वा कचित्। वाग्दण्डं परुषं नैव कार्यं तद्देशसंस्थिते। तुलाशासन षानानां नाणकस्यापि वा क्वचित्। निर्य्यामानां च धातूनां सजातीनां घृतस्य च। मृदुदग्धवसातैलपिष्टादीनाञ्च सर्वदा। कूटं नैव तु कार्यं स्यात् बलाच्च निर्मितं जनैः। उत्कोचग्रहणं नैव स्वामिकार्यविल्वोपनम्। दुर्वृत्तका० रिष्णं चोरं जारं सद्द्वेषिणं द्विषम्। नरचन्त्वप्रकाशं हि तथान्यानपकारकान्। मातॄणां पितॄणां चैव पूज्यानां विदुषामपि। नायमानं गोपहासं न कुर्युः पितृपुत्रयोः। वापीकूपारामसीमाघर्मशातासुरालयान्। मार्गान्नैव प्रनाधेयुर्दीनान्धविकलाङ्गकान्। द्यूतञ्च मद्यपानञ्च नृगयां शस्त्रधारणम्। गोगजाश्वोष्ट्रलहिमीमृणां च स्थावरस्य च। रजतस्वर्णरत्नानां मादकस्य विषस्य च। क्रयं वा विक्रपं वापि मद्यसन्धानमेव च। क्रवपत्रं दानपत्रमृणनिर्णयपत्रकम्। राजाज्ञया विना नैव जनैः कार्यं चिकित्सितम्। महापापाभिशमनं निधिग्रहणमेव स। न या समाजनियम्” निर्णयं जातिदूषणम्। अस्वामिनाष्टिकधनसंग्रहमन्त्र भेदतः। नृपतेर्गुणलोपञ्च नैव कुर्युः कदाचन। स्वचर्म हानिमनृतं परदाराभिमर्शनम्। कूटसाक्ष्यं कूटलेख्यभप्रकाशप्रतिग्रहम्। निर्द्धारितकराधिक्यं स्तेयं साहसमेव च। मनसापि न कुर्वन्तु स्वामिद्रोहं तथैव च। भृत्या शुल्केन भागेन वृड्या दर्पात्जलात् छलात्। आधर्षणं न कुर्वन्तु यस्य कस्यापि सर्वदा। परिमाणोन्मान मानं धार्यं नृपविमुद्रितम्। गुणसाधनसंदक्षा भवन्तु निखिला जनाः। साहसाधिकृतो न स्युर्विना चैवाततायिनम्। उत्सृष्टा वृषभाद्या यैस्तैस्ते धार्य्याः सुयन्त्रिताः। इति मच्छाशनं श्रुत्वा येऽन्यथा वर्त्तयन्ति तान्। नाशयिषत्रानि दण्डेन महता पापकारकान्। इति प्रबोधयेन्नित्यं प्रजाशासनडिण्डिमैः। लिखित्वा शासनं राजा धारयेच्च चतुष्पथे। तथा चोद्यतदण्डः स्यादसाधुषु च शत्रुषु”।

नृपशु = पु० ना पशुरिव ना चासौ पशुश्चेति वा। १ मूर्खे २ पुरुषपशौ च “याश्च स्त्रियो नृपशून् स्वादन्ति” भाग० ५ २६ २९ श्रो०।

नृपसभ(भा) = न० स्त्री नृपाणां सभा “राजामनुष्यपूर्य्येति” पा० राजपर्य्यायग्रहणात् क्रीवत्वम्। बहूनां नृपाणां सभायाम्। एकस्य सभायां तु स्त्री। तत्सभाप्रकारश्च औशनसनीतिपरिशिष्टे १ अ० उक्तो यथा “राज्ञा राजसभा कार्य्या सुगुप्ता च मनोरमा। त्रिकौष्ठैः पञ्चकीष्ठैर्वा सप्तकोष्ठैः सुविस्तृता। दक्षिणोदक् तथा दीर्धा प्राक प्रत्यग द्विगुणाऽथ वा। त्रिगुणा वा यथाकाममेकभूमिर्द्विभूमिका। त्रिभूमिका वा कर्त्तव्या सोपकार्य्याशिरोगृहा। परितः परिकोष्ठेषु वातायन विरास्त्रिता। पार्श्वकोष्ठात्तु द्विगुणा मध्यकोष्ठेषु विस्तृता। पञ्चमांशाधिकं त्वौच्च्यं मध्यकोष्ठस्य विस्तरात्। विस्तारेण समं त्वौच्चत्रं पञ्चमांशाधिकं तु वा। कोष्ठकानां च भूमिं च यदि वा तत्र कारयेत्। द्विभूमिके पार्श्वकोष्ठे मध्यमं त्वेकभूमिकम्। पृथक्स्तम्भा तु सत् कोष्ठा चतुर्मार्गानमा शुभा। जलोद्वारादियन्त्रैश्च युता सुखरयन्त्रकैः। वातप्रेरकयन्त्रैश्च यन्त्रौ कालप्रयोधकैः। प्रतिष्टिता च सादर्शैस्तथा च प्रतिरूपकैः। एवंविधा राजसभा यन्त्रार्था कार्यदर्शने। तथाविधामात्यसेख्यश्चभ्याधिकृतशालिकाः। कर्चव्याः प्रागुदक् चितास्तदर्थाश्च पृथक् वृषक्। शतहस्तमिर्ता भूमिं त्यक्ता राजगृहात् सदा। उदक् द्विशतहस्ता प्राक् सेना सन्निवेशनार्थिका। आराद्राजगृहस्यैव प्रजानां निलयानि च। सधनिश्रेष्ठिकाननुक्रभतश्च सदा ततः। समन्ताच्च चतुर्दिक्षु विन्यसेच्च ततःपरम्। प्रकृत्यनुप्रकृतयो ह्याधिकारिगणस्ततः। सेनाधिपपदातीनां गणः सादि गणस्ततः। साश्वश्च सगजश्चापि गजपालगणस्ततः। वृहन्नालिकयन्त्राणि ततः सत्वरगोगणः। ततः खगोल्मिकगणो ह्यारण्यकगणस्ततः। क्रमादेषां गृहाणि स्युः शोभनानि परे सदा। पान्थशाला ततः कार्य्या सुगुप्ता सजलाशया। सजातीयगृहाणां च समुदायेन पङ्क्तितः। निवेशने पुरे ग्रामे प्रागुदक् सुखमेधते। सजातिपण्यनिवहैरापणे पण्यवेशनम्। धनिकादिक्रमेणैव राजमार्गस्य पार्श्वतः। एवं हि पत्तनं कुर्य्यात् प्रभं चैव नराधिपः”। तदधिवेशनप्रकारः तत्रैव “सभायां प्रत्यगर्द्धस्य मध्ये राजासनं भवेत्। दक्षसंस्था वामसंस्थाः विशेयुः पार्श्वपृष्ठगाः। पुत्राः पौत्राः भ्रातरश्च भागिनेयाश्च पृष्ठतः। दौहित्रा दक्षभागास्तु वामसंस्थाः क्रमादिमे। पितृव्याः स्वकुलश्रेष्ठाः सभ्याः सेनाधिपास्तया। स्वाग्रे दक्षिणभागे तु प्राक्संस्थाः पृथनासनाः। मातामहकुलश्रेष्ठा मन्त्रिणो कान्धवास्तथा। श्वशुराश्चैव श्यालाश्च वामाशे चाधिकारिणः। वामदक्षिणपार्श्वस्थो जामाता भगिनीपतिः। स्वसदृशसमीपे वा स्वार्द्धासनगतः सुहृत्। दौहित्रभागिनेयानां स्थाने स्युर्दत्तकादयः। भागिनेयाश्च दौहित्राः पुत्रादिस्थानसंस्थिताः। यथा पिता तथार्चायां समः श्रेष्ठासने स्थितः। पार्श्वयोरग्रतः सर्वे सेवका मन्त्रिणस्तथा। परिवारगणाः सर्वेः सर्वेभ्यः पृष्ठसंस्थिताः। स्वर्णदण्डघरौ स्यातां प्रवेशननिवेदकौ। विशिष्टचिह्नधृक् राजा स्वासने प्रवसेत् स्वके। सुभूषणः सुवसनः कवची मुकुटान्वितः। स्निग्धास्त्रलग्नशस्त्रस्तु सावधानः मनाः सदा”।

नृपसुता = स्त्री ६ त०। १ राजकन्यायां २ छुछुन्दर्य्यां स्त्री वृं० सं० ८८ अ० “छुछुन्दरी नृपसुता वालेयोगर्दभः प्रोक्तः”।

नृपांश = ६ त०। १ नृपाय देये करे षष्ठांशादौ २ राजपुत्रे पु०।

नृपाकृष्ट = ३ त०। चतुरङ्गशब्दे २८६४ पृ० दर्शिते क्रीडार्थराजाकृष्टे राजनि। “नृपाकृष्टो यदा राजा गमिष्यति युधिष्ठिर!। तदा राजा हि राजानं घातेऽपि तं हनिप्यति।

नृपात्मज = पु० ६ त०। १ राजपुत्रे २ राजकन्यायां स्त्री “स्वयं वरं भीमनृपात्मजायाः” नैष०। नृपस्यात्मजेव। ३ कटु तुम्ब्यां स्त्री रत्नमाला।

नृपाध्वर = पु० नृपमात्रकर्त्तव्योऽध्वरः शाक० त०। राजमात्र कर्त्तव्ये राजसूययज्ञे “राजा राजसूयेन यजेत” श्रुत्या राजमात्रस्यैव तत्राधिकारस्य विधानात्तस्य तथात्वम्।

नृपान्न = न० नृपप्रियमन्नम्। १ राजान्ननामके धान्यभेदे राजनि० ६ त०। २ राज्ञोऽन्ने च।

नृपाभीर = न० नृपं तद्भोजनकालमभीरयति अभि + ईर–अच् उप० स०। राज्ञो भोजनकालावेदके नृषमानाख्ये वाद्यभेदे त्रिका०।

नृपामय = पु० आमयानां नृपः राजदन्ता० पूर्वनि०। १ राजयक्ष्मरोगे राजनि० ६ त०। २ राज्ञोरोगे च।

नृपाल = पु० नृन् पालयति पालि–अण् उप० स०। १ नृपतौ राजनि। “अस्मै नृपालाः किलतत्र तत्र बलिं हरिष्यन्ति सलोकपालाः” भाग० ४। १६। २० नरपालादयोऽप्यत्र

नृपावर्त्त = न० नृप इवावर्त्तते आ–वृत–अच्। राजावर्त्ते मणिभेदे राजनि०।

नृपासन = न०। राज्ञो भद्रासने सिंहासने मण्यादिरचिते आसनभेदे अमरः।

नृपाह्वय = पु० नृपमाह्वयति गन्केन आ + ह्वे–श। राजपलाण्डौ राजनि०।

नृपीट = न० उदके निघण्टु कृपीटमित्यत्र पाठान्तरम्।

नृपीति = स्त्री पा–रक्षणे भावे किन् आत ईत्त्वम् ६ त०। १ मनुष्यरक्षणे। “अनाधृष्टो नृपीतये” ऋ० ७। १५। १४। कर्त्तरि क्तिच्। २ मनुष्यरक्षके त्रि० “वरूथे अघ्नतो नृपीतौ” ७। २०। ८ “नृपीतौ नृणां रक्षके” भा०।

नृपोचित = पु० नृपेषु उचितः। १ राजमाषे २ राजयोग्ये त्रि० राजनि०।

नृभोजा = त्रि० नभसि जायते जन–विट् ङा। आकाशजाते “नभोजाः पृष्ठं हर्य्यतस्य दर्शि” ऋ० १०। १२३। २ नभो जस् शब्दकल्पनं प्रामादिकम्।

नृमणस् = त्रि० नृषु यजमानेषु मनो यस्य “छन्दस्यृदवग्रहात्” पा० णत्वम्। रक्षितव्ययजमानेषु अनुग्राहक वुद्धियुक्ते इन्द्रादौ देवे “त्वं पिप्रोर्नृमणः प्रारुजः पुरः” ऋ० १। ५१। ५ नृणां मनोयत्र णत्वम्। २ धने नृम्ण शब्दे दृवत्रम्। ३ प्लक्षद्वीपस्थे महानदीभेदे स्त्री आवन्तः “अरुणा नृमणाङ्गिरसी सावित्री सुभ्राता ऋतन्मरा सत्यम्भरेति महानद्यः” भाग० ५। २०। ६

नृमिथुन = न० ६ त०। मनुष्यस्य स्त्रीपुरुषयुग्मे। “मत्स्यौ घटी नृमिथुनं सगदं सवीणम्” वृहज्जा० मिथुनराशिस्वरूपोक्तौ। नृयुग्मादयोऽप्यत्र। “उच्चं नृयुम्भ घटभं त्रिकोणम्” ज्योति० त०।

नृमेध = पु० ना मिध्यतेऽत्र मिध–आधारे घञ्। पुरुषमेधे १ यज्ञभेदे। तद्विधिः यजु० ३० अ० दृश्यः। २ ऋषिभेदे “नृमेधं प्रजयासृजत्सम्” ऋ० १० ८० १३ “नृमेधमेतन्नामानमृषिम्” भा०।

नृम्ण = न० नृभिर्म्नायतेऽभ्यस्यते उपार्जयितुम् म्ना–घञर्थे–क “छन्दस्यृदवग्रहात्” पा० णत्वम्। धने निघण्टुः। “अस्मभ्यं नृम्णमाभरास्मभ्यं नृमणस्यसे” ऋ० ५। ३८४। नृमणं धनम्। नृमणस्यसे धनसिच्छसि” भा० नमणस् + क्यच्।

नृवज्ञ = पु० नुर्नरार्थो यज्ञः। प्रत्यहं गृहस्थकर्त्तव्यवञ्चयज्ञान्तर्गते अतिथिपूजनरूपे यज्ञे “अध्यापनं ब्रह्मयज्ञः पिवृयज्ञस्तु तर्पणम्। होमो दैवो बलिर्भोतो नृयज्ञोऽतिथिपूजनम्। पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः” “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्वदा। नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत्” इति च मनुः।

नृवत् = त्रि० ना–परिचारकादिरस्त्यस्य मतुप् वेदे मस्य वः लोके तु न वः नृमदित्येव। परिचारकनरयुक्ते “भरद्वाजे नृवत इन्द्र! सूरीन् दिवि” ऋ० ६१७१४

नृवराह = पु० ना चासौ वराहश्च। अंशाभ्यां मनुष्यवराहाकृतौ भगवदवतारभेदे “दैत्यस्ततोऽसौ नृवराहमाहवे निपातयामास रुषा ज्वलन्तीम्। शक्तिं यथा विद्युतभाशु कुञ्जे प्रयर्षमाणोऽपि गिरिं सुमेघः। स हन्यमानो गदयाऽप्रमेयः प्रोवाच दैत्यं नृवराहमूर्त्तिः। प्रजापतेः सेतुमिमं निहत्य व्रजेच्च कः स्वस्ति यथा सुरेन्द्र!” अग्निपु०। “नृवराहस्य वसतिर्महर्ल्लोके प्रतिष्ठिता। नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः”। सएव वलेर्द्वारी यथा “शौकरं रूपमास्थाय द्वार्यस्य च दुरात्मनः। भविष्यामि न सन्देहो व्रज शक्र! त्वरान्वितः” पाद्मे सृष्टिखण्डे २८ अ०।

नृवाहन = पु० ना वाहनमस्य। १ नरवाहने कुवेरे नुर्नेतुर्वाहनम् “छन्दस्यृदवग्रहात्” पा० वेदे णत्वम्। २ नेतुर्वाहने “अर्वाञ्चमद्य यय्यं नृवाहणम्” ऋ० २३७५

नृवाहस् = पु० नृन् वहति वह–वेदे असुन् णिच्च। मनुष्यवाहके “शोणा धृष्णू नृवाहसा” ऋ० १६२

नृशंस = त्रि० नॄन् शंसति शन्सु–हिंसायाम् अण्। १ घातुके क्रूरे अमरः २ परद्रोहिणि च “भगो नृशंस! उर्वन्तरिक्षम्” ऋ० ०। ५। १५ “इतरेषु (विवाहेषु) तु शिष्टेषु नृशंसानृतवादिनम्” मनुः।

नृशृङ्ग = न० नुः शृङ्गम्। अलीकपदार्थे नरस्य शृङ्गाभावात् अयोग्यत्वेऽपि अलीकत्वविवक्षायामस्य साधुत्वम् “नासदुदुत्पादो नृशृङ्गवत्” सां० सू० “नरशृङ्गतुल्यस्यासत उत्पादो न सम्भवतीति” प्र० भा०।

नृषद् = पु० नरि पुरुषे अन्तर्यामितया सीदति सद–क्विप् वेदे षत्वम्। १ परमात्मनि २ कण्वर्षेः पितरि ऋषिभेदे “उत कण्वं नृषदः पुत्रमाहुः” ऋ० १०। ३१। ११३ मनुष्यस्थायिनि च “ध्रुवसदं त्वा नृषदं मनःसदम्” यजु० ९। २।

नृषदन = न० नरः नेतारः ऋत्विजः तेषाम् सदनम् वेदे षत्वम्। यज्ञगृहे “समृतौ रण्वा नरो नृषदने” ऋ० ५७२ “नृषदने यागगृहे” भा०।

नृसिंह = पु० ना चासौ सिंहश्च। अंशाभ्यां मनुष्यसिंहाकृतियुक्ते १ भगवतोऽवतारभेदे “सिंहस्य कृत्वा वदनं मुरारिः सदा करालञ्च सुरक्तनेत्रम्। अर्द्धं वपुर्वै मनुजस्य कृत्वा ययौ सभां दैत्यपतेः पुरस्तात्” अग्निपु०। २ रतिबन्धभेदे तस्य लक्षणं यथा “पादौ संपीड्य योनौ च हठाल्लिङ्गप्रवेशनम्। हस्तयोर्वेष्टयेद्गात्रं वन्धो नृसिंहसंज्ञकः” रतिम०। ना सिंह इव उपमितसमासः। ३ पुरुषश्रेष्ठे च

नृसिंहचतुर्दशी = स्त्री नृसिंहस्याविर्भावदिनं चतुर्दशी शा० त०। वैशाखशुक्लचतुर्दश्याम्। आगमे “वैशाखे शुक्लपक्षे च चतुर्दश्यां महातिथौ। सायं प्रह्लादधिक्कारमसहिष्णुः परोहरिः। सद्यः कटकटाशब्दविस्मापितसभाजनः। लीलया स्तम्भगर्भान्तादुद्भूतः शब्दभीषणः। नृहरेरवतारात्तां यत्नतः समुपोषयेत्। महापुण्यतमायाञ्च सायं विष्णुं प्रपूजयेत्”। वृहन्नारसिंहे “वैशाखशुक्लपक्षस्य चतुर्दश्यां समाचरेत्। मज्जन्मसम्भवं पुण्यं व्रतं पापप्रणाशनम्” किञ्च “स्वातीनक्षत्रयोगे तु शनिवारे हि मद्व्रतम्। सिद्धियोगस्य योगे च लभ्यते दैवयोगतः। सर्वैरेतैस्तु संयुक्तैर्हत्याकोटिविनाशनम्। केवलञ्च प्रकर्त्तव्यं मद्दिनं फलकाङ्क्षिभिः। वैष्णवैर्न तु कर्त्तव्या स्मरविद्धा चतुर्दशी”। तत्र व्रतनित्यत्वादि वृहन्नरसिंहपुराणे “वर्षे वर्षे तु कर्त्तव्यं मम सन्तुष्टिकारणम्। महागुह्यमिदं श्रेष्ठं मानवैर्भवभीरुभिः” किञ्च “विज्ञाय मद्दिनं यस्तु लङ्घयेत् स तु पापभाक्। एवं ज्ञात्वा प्रक- र्त्तव्यं मद्दिने व्रतमुत्तमम्। अन्यथा नरकं याति यावच्चन्द्रदिवाकरौ” तत्राधिकारिनिर्णयः तत्रैव “सर्वेषामेव लोकानामधिकारोऽस्ति मद्व्रते। मद्भक्तैस्तु विशेषेण प्रणेयं मत्परायणैः”।

नृसिंहपुराण = न० उपपुराणभेदे उपपुराणशब्दे दृश्यम्।

नृसिंहवन = न० वृ० सं० १६ अ० कूर्मविभागे उक्ते पश्चिमोत्तरदिक्स्थिते देशभेदे कूर्मविभागशब्दे दृश्यम्।

नृसेन(ना) = न० स्त्री नॄणां सेना “विभाषा सेनेत्यादि” पा० वा क्लीवता। बहुमनुष्यसेनायाम्।

नृसोम = पु० ना सोम इव। १ मनुजश्रेष्ठे ३ सोमोद्भवायाः सरितो नृसोमः” रघुः।

नृहरि = पु० ना चासौ हरिश्च। नरसिंहे भगवदवतारभेदे “नृहरिवामनजामदग्न्यः” मुग्धवो०।

नॄ = नीतौ क्र्यादि० प्वादि० पर० सक० सेट्। नृणाति अनारीत् अणोपदेशत्वान्न णत्वम् कविकल्पद्रुमः पाणिनिमते नृ न ये इति ह्रस्वान्तएव पाठः। तस्यैव णोपदेश पर्युदासता।

नॄ = नये भ्वा० पर० सक० सेट्। नरति अनारीत्। घटा० णिच् नरयति। न णत्वम्।

नेउ(डु)ली = स्त्री हठयोगभेदे तत्प्रकारस्तु रुद्रयामले “धौतीयोगानन्तरं हि ने(उ)डुलीकर्म समाचरेत्। ने(उ)डुलीयोगमात्रेण आसने ने(उ)डुलोपमः। नेउ(डु)लीसाधनादेव चिरजीवी निरामयः। तत्कारणं प्रवक्ष्यामि सावधनावधारय। भुक्त्वा मुद्गान्नपक्वञ्च वारैकं प्रतिचालयेत्। प्रतिचालयेत् स्वोदरञ्च कठिनाशाविवर्जितः। पुनःपुनश्चालनञ्च कुर्य्यात् सोदरमध्यकम्। कुलालचक्रवत् कुर्य्यात् भ्रमणञ्चोदरस्य च। सर्वाङ्गचालनादेव कुण्डलीशक्तिचालनम्। चालनात् कुण्डलीदेव्याश्चेतना सा भवेत् प्रभो!। एतस्यानन्तरं देव! क्षालनं परिकीर्त्तितम्। नाडीनां क्षालनादेव सर्वविद्यानिधिर्भवेत्। वायुसिद्धिर्भवेत्तस्य पञ्चभूतसुसिद्धिभाक्। मुण्डासनं हि सर्वत्र सर्वदा कारयेद्बुधः। बद्ध्वपद्मासनं कृत्वा अधोहस्ते जपं चरेत्। तदा त्रिदिनमाकर्त्तुं समर्थो मुण्डिकासनम्। तदा हि सर्वनाड्यश्च वशीभूता न संशयः। नाडीक्षालनयोगेन सिद्धिमाप्नोति साधकः। नेडु(उ)लीं यो न जानाति स कथं कर्त्तुमुद्यतः। स धीरो मानसचरोमतिमान् स जितेन्द्रियः। यो नेउ(डु)लीयोगसारं कर्त्तुमुद्यमपारगः। स चावश्यं क्षालनञ्च कुर्य्यन्नाड्यादिसाधनम्। नेउ(डु)लीयोगमार्गेण नाडीक्षालनतत्परः। भवत्येव महाकाल! राजराजेश्वरो यथा। केवलं प्राणवायोश्च धारणात् क्षालनं भवेत्। विना क्षालनयोगेन देहशुद्धिर्न जायते। क्षालनं नाडिकादीनां कफपित्तादिनाशनम्। करोति यत्नतो योगी मुण्डासनानिलाशनात्। वायुग्रहणमेवं हि नेडु(उ)लीवशकालके। न कुर्य्यात् केवलं नाथ! अन्यकाले सदाचरेत्। यावन्नेउ(डु)लीं न जानाति तावद्वायुं न संपिबेत्। बहुतरं न संग्राह्यं वायोरोगमलादिकृत्। केवलं श्वासगणनं यावन्नेउ(डु)ली न सिद्ध्यति। पञ्चारामसाधनाच्च पञ्चवायुवशो भवेत्”।

नेजक = पु० निज–शुद्धौ ण्वुल्। १ रजके “शाल्मलीफलके श्लक्ष्णे नेनिज्यात् नेजकः शनैः। न च वासांसि वासोभिर्निर्हरेन्न च वासयेत्” मनुना तत्कृत्यमुक्तम्। २ शोधकमात्रे त्रि०।

नेजन = न० निज्यतेऽत्र निज–आधारे ल्युट्। १ नेजकालये “राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव” भा० द्रो० १८८ अ०। भावे ल्युट्। २ शोधने

नेत(द) = अव्य० नी–विच् बा० तुक् नेद–विच् वा चादि० १ शङ्कायां २ प्रतिषेधे ३ समुच्चये च मनोरमा। न इत्। ४ नैवेत्यर्थे। “अन्यो नेत् सूरिरोहते” ऋ० ८। ५। ९। “नेत्त्वदपचेतयातै” यजु० २। १७

नेतीयोग = पु० हठयोगभेदे सच रुद्रयामले उत्तरखण्डे उक्तो यथा “नेतीयोगविधानानि शृणुष्व वीरपूजित!। येन सर्वमस्तकस्थकफानां दाहां भवेत्। सूक्ष्मसूत्रं दृढतरं प्रदद्यान्नासिकाबिले। मुखरन्ध्रे समानीय सन्धानेन समाश्रयेत्। पुनःपुनः सदा योगी यातायातेन घर्षयेत्। क्रमेण वर्द्धनं कुर्य्यात् सूत्रस्य परमेश्वर!। नेतीयोगेन नासाया रन्ध्रं निर्मलकं भवेत्। वायोर्गमनकाले तु महायुष्मानिति प्रभो!”।

नेतृ = त्रि० नी–तृच्। १ प्रभौ अमरः २ निर्वाहके ३ नायके ४ प्रवर्त्तके ५ प्रापके च स्त्रियां ङीप्। ६ निम्बवृक्षे पु० राजनि० “इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात्” भा० व० ६६ अ० “स नेता शासिता च नः” मनुः। ७ विष्णौ पु० “न्यायो नेता समीरणः” विष्णुस० “जगद्यन्त्रनिर्वाहकोनेता” भा०। नक्षत्रवाचकात् परमेतस्मात् बहु० अच्समा०। मृगोनेता यस्याः मृगनेत्रा रात्रिः। यस्यां रात्रौ आरम्भावधिशेषपर्य्यन्तं मृगशीर्षनक्षत्रस्य दर्शनं तस्यारात्रेर्मृगस्य नेतृतुल्यत्वात् तथात्वम्।

नेत्र = न० नयति नीयते वाऽनेन ष्ट्रन्। १ मन्थनदामनि २ वस्त्रभेदे ३ वृक्षमूले ४ रथे ५ जटायाम् ६ नाड्याम् मेदि०। ७ चक्षुषि अमरः। ८ प्रापयितरि ९ नयनसाधने १० प्रवर्त्तके च त्रि०। ११ वस्तिशलाकायां राजनि०। १२ चक्षुर्गोलकावस्थिते वह्निदेवताके तैजसे इन्द्रियभेदे न० “विजित्य नेत्रप्रतिघातिनीं प्रभाम्” कुमा० तत्र अग्निमन्थनदामनि “व्यामप्रमाणं नेत्रं स्यात् प्रमथ्यस्तेन पावकः” कर्मप्रदीपे कात्या० “मन्थानं मन्दरं कृत्वा तथा नेत्रञ्च वासुकिम्” भा० आ० १८ अ०। चक्षुषि “नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः” सा० द०। १२ हैहयनृपपुत्रभेदे पु० “धर्मस्तु हैहयसुतो नेत्रः कुन्तिपिता ततः” भाग० ९। १३। ६६। १४ द्वित्वसंख्यायां न० “मुनिषड्यमनेत्राणि (२२६७) सू० सि० ज्यार्द्धपिण्डोक्तौ। वस्तिशलाकामानादि सुश्रुते उक्तं यथा “अथातो नेत्रवस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः” इत्युपक्रमे सप्रपञ्चमुक्त्वा नेत्रप्रमाणादि उक्तं यथा “पञ्चविंशतेरूर्द्ध्वं द्वादशाङ्गुलं मूलेऽङ्गुष्ठोदरपरीणाहमग्रे कनिष्ठिकोदरषरीणाहमग्रे त्यङ्गुलसन्निविष्टकर्णिकं गृध्रवत्रनाडीतुल्यप्रवेशं कोलास्थिमात्रं छिद्रं क्लिन्नकलायमात्रं छिद्रमित्येके। सर्वाणि मूले वस्तिनिबन्धनार्थं द्विकर्णिकानि। आस्थापनद्रव्यप्रमाणं तु विहिता द्वादशपसृतयः। सप्ततेस्तूर्द्धं नेत्रप्रमाणमेतदेव द्रव्यप्रमाणन्तु द्विरष्टवर्षवत्। तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयाणि श्लक्ष्णानि दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि। वस्तयश्चावृद्धानां मृदवो नातिबहुला दृढाः प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम्”। “नेत्रालाभे हिता नाडी नलवंशास्थिसम्भवा। वस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम्”। वस्तिशलाकारूपं च उत्तरवस्तिशब्दे १०९८० पृ० सुश्रुतोक्तं दृश्यम्। “चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलमानतः” इत्यादिनोक्तं दृश्यम्। “कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत्” सुश्रुतः।

नेत्रकोष = पु० ६ त०। नेत्रपटले

नेत्रच्छद = पु० नेत्रे छाद्येते अनेन छद + णिच्–क ह्रस्वः। नेत्रपिधायके चर्ममये नेत्रपुटे (चकेरपाता) अमरः।

नेत्रपर्य्यन्त = पु० नेत्रयोः पर्यन्तः कोणसीमा। १ अपाङ्गे राजनि०। २ नेत्रावधिके त्रि०।

नेत्रपाक = पु० नेत्ररोगभेदे तल्लणणं सुश्रुते उक्तं यथा “कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः। दाहसंहर्ष ताम्रत्वशोफनिस्तोदगौरवैः। जुष्टो मुहुः स्रवेद्वास्र मुष्णशीताम्बुपिच्छिलम्। संरम्भी पच्यते यश्च नेत्रपाकः स शोफजः। शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे। अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन्। हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः”।

नेत्रपिण्ड = पुंस्त्री नेत्रं पिण्ड इव यस्य। विडाले हारा० स्त्रियां जातित्वात् ङीष्। ६ त०। नेत्रगोलके न०।

नेत्रपुष्कर = न० नेत्रस्य पुष्करं जलं यस्याः ५ ब०। रुद्रजटायां राजनि०। तत्सेवने हि नेत्रात् जलं स्रवतीति तस्यास्तथात्वम्।

नेत्रप्रबन्ध = पु० नेत्रे प्रबध्येते अनेन प्र + बन्ध–करणे ल्युट्। नेत्रपुटे “कर्णस्रोतः सुकुमारकं च नेत्रप्रबन्धमयम्” वृ० सं० ५८ अ०।

नेत्रबन्ध = पु० ६ त०। पृष्ठतोऽलक्षितेनागत्य करतलाभ्यां नेत्रयोः पिधानरूपे बालानां क्रीडाभेदे “अदृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया” भा० १०। १८। ८ रामकृष्णयोर्बालक्रीडावर्णने।

नेत्रमल = न० ६ त०। चक्षुर्मले दूषिकायाम् (पिचुटि) अमरः।

नेत्रमीला(ना) = स्त्री नेत्रयोः मीला मुद्रणं यस्याः ५ ब० पृषो० वा लस्य नः, लान्तपाठः साधुः। यवतिक्तायां राजनि०। तत्सेवने हि नेत्रयोर्मीलनं जायते इति तस्यास्तथात्वम्।

नेत्रमुष् = त्रि० नेत्रं तत्प्रचारं मुष्णाति मुष–क्विप्। दृष्टेरुपघातके दृष्टिप्रचारनाशके “वहन्ति ये नेत्रमुषं दिव्यं माथामयं रथम्” भा० व० ४२ अ०।

नेत्रयोनि = पु० नेत्राणि योनय इवास्य। १ इन्द्रे शब्दमाला। नेत्रमत्रिनेत्रं योनिरुत्पत्तिस्थानं यस्य। २ चन्द्रे च

नेत्ररञ्जन = न० नेत्रे रज्येते अनेन रन्ज–करणे ल्युट्। कज्जले “एष वा कथितो धूपः शृणुतं नेत्ररञ्जनम्” कालिकापु० ६१ अ०।

नेत्ररुज् = स्त्री ६ त०। नेत्ररोगे

नेत्ररोग = पु० ६ त०। नयनस्य रोगभेदे तन्निदानादि माधव करेणोक्तं यथा “उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्य्ययाच्च। स्वेदाद्रजोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात्। द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च। प्रसक्तसंरोदनशोककोपाच्छिरोऽभिघाताटतिमद्यपानात्। तथा ऋतूनाञ्च विपर्यये- क्लेशाभिघातादतिमैथुनाच्च। वास्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः। वातात् पित्तात् कफाद्रक्तादभिस्यन्दश्चतुर्विधः। प्रायेण जायते घोरः सर्वनेत्रामयाकरः”। तस्य सम्प्राप्तिर्यथा “निस्तोदनस्तम्भनरोमहर्षसंघर्षपारुष्यशिरोऽभितापाः। विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति। दाहप्रपाकौ शिशिराभिबन्धात् धूमायनं वास्पसमुच्छयश्च। उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति। उष्णाभिवन्धो गुरुताक्षिशोथः कण्डूप देहावतिशीतता च। स्रावो बहुः पिच्छिल एव चाषि कफाभिपन्ने नयने भवन्ति। ताम्राश्रुता लोहितनेत्रता च बाह्यः समन्तादतिलोहितश्च। वित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति”। नेत्ररोगहेतुदोष उक्तो वैद्यके

“नेत्रं स्यात् पवनाद्रक्षं घूम्रवर्णं तथाऽरुणम्। कोटरान्तप्रविष्टञ्च तथास्तञ्च विलोकनम्। हरिद्राखण्डवर्णञ्च रक्तं वा हरितं तथा। दीपद्वेषि सदाहञ्च नेत्रं स्यात् पित्तकोपतः। चक्षुर्बलासबाहुल्यात् स्निग्धं स्यात् सलिलप्लुतम्। तथा धवलवर्णञ्च ज्योतिर्हीनं बलान्वितम्। नेत्रं द्विदोषबाहुल्यात् स्याद् दोषद्वय लक्षणम्। त्रिदोषलिङ्गं सन्धेयं तन्मारयति रोगिणम्। त्रिदोषदूषितं नेत्रमन्तर्मग्नं भृशं भवेत्। त्रिलिङ्गं सलिलस्रावि प्रायेणोन्मीलयत्यपि”। नेत्ररोगभेदाश्च सुश्रुते उत्तरतन्त्रे अष्टभिरध्यायैः सलक्षणमुक्तास्तत्रैव दृश्याः। “त्रपुहारी च पुरुषो जायते नेत्ररोगवान्”। “मधुहारी च पुरुषो जायते नेत्ररोगवान्” शाता० त्रपुमधुहरणेन तद्रोगवान् जायते” इत्युक्तम्।

नेत्ररोगहन् = पु० नेत्ररोगं हन्ति हन–क्विप्। वृश्चिकालीवृणे राजनि० तस्य हि नेत्ररोगनाशकत्वं वैद्यके प्रसिद्धम्

नेत्ररोमन् = न० ६ त०। नेश्रपक्ष्मणि हेम०।

नेत्रवस्त्र = न० नेत्रयोर्वस्त्रमिवाच्छादकम्। (चक्षेरपाता) नेत्रच्छदे।

नेत्रविष् = स्त्री ६ त०। नेत्रमले (पि~चुटि) “नेत्रविट् चक्षुषः स्नेहो धातूनां क्रमशो मलाः” सुश्रुतः।

नेत्रविष = पुंस्त्री नेत्रे विषं यस्य। दिव्ये सर्पभेदे “दृष्टिनिश्वासविषा दिव्याः सर्पाः” सुश्रुतः। “आशीविषान् नेत्रविषान् कोपयेन्न च पण्डितः” भा० स० ६२ अ०।

नेत्रस्तम्भ = पु० ६ त०। नेत्रयोः स्तम्भे नयनोन्मीलनादिव्यापा- रराहित्ये “नेत्रस्तम्भं निमेषञ्च तृष्णां कासं प्रजानरम्। लभते दन्तचालञ्च तांस्तानन्यानुपद्रवान्” सुश्रुतः।

नेत्रान्त = पु० ६ त०। अपाङ्गदेशे “नेत्रान्तपादकरताल्वधरोष्ठ जिह्वाः रक्ता नखाश्च खलु सप्त सुखावहानि” वृ० सं० ६८ अ०

नेत्राभि(स्य)ष्यन्द = पु० ६ त०। नेत्रस्यं रोगभेदे अभिस्यन्दशब्दे ३०४ पृ० दृश्यम्। “नेत्राभिष्यन्दप्रभृतयोमज्ज दोषजाः” सुश्रुतः। स च संक्रामिरोगः यथाह सुश्रुते “प्रसङ्गाद्गात्रसंस्पर्शात् निःश्वासात् सह भोजनात्। सह शय्यासनाच्चापि वस्त्रमाल्यानुलेपनात्। कुष्ठं ज्वरश्च शोथश्च नेत्राभिष्यन्द एव च। औपसर्गिकरोगाश्च सक्रामन्ति नरान्नरम्”।

नेत्रामय = पु० ६ त०। नयनरोगे “वातात् पित्तात् कफाद्रक्ता दभिष्यन्दश्चतुर्बिधः। प्रायेण जायते घोरः सर्वनेत्रामयाकरः” माधवनि०।

नेत्राम्बु = न० ६ त०। चक्षुर्जले अश्रुणि अमरः।

नेत्रारि = पु० ६ त०। मेहुण्डवृक्षे राजनि०।

नेत्री = स्त्री नी–ष्ट्रन् ङीष्। १ लक्ष्म्यां २ नाड्यां च शब्दर०। ३ नद्यां मेदि०। नी–तृन् स्त्रियां ङीप्। ४ प्रापयित्र्यां स्त्रियां स्त्री।

नेत्रोपमफल = पु० नेत्रे उपसा यस्य तादृशं फलमस्य। (वादाम) वृक्षभेदे भावप्र०

नेत्रौषध = न० ६ त०। १ पुष्पकासीसे राजनि० २ नेत्रयोरौषधमात्रे च

नेत्रौष(धि)धी = स्त्री ६ त० वा ङीप्। अजशृङ्ग्याम् (गाडरशिङ्गा) रत्नमाला।

नेद = गतौ भ्रा० प० सक० सेट्। गतिकर्मसु निघण्टुः। नेदति अनेदीत्। निनेद “या हुता उज्ज्वलन्ये या हुता अतिनेदन्ते” वृ० उप०।

नेदिष्ठ = त्रि० अतिशयेनान्तिकः ईयसुन् नेदादशः। १ अतिशयनिकटस्थे “नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते” ऋ० १ १३२ १ २ निपुणे त्रि० राजनि०। ३ अङ्कोटवृक्षे पु० जटाध०।

नेदिष्ठिन् = पु० नेदिष्टं जन्मतः सन्निकृष्टस्थानं विद्यतेऽस्य इनि। स्वोदरम्रातरि “म्रियेत चेन्निर्मन्थ्येन दग्ध्वा शामित्राद्वास्थीन्युपनह्य नेदिष्ठिनमुपदीक्ष्य तेन सह यजेरन्” कात्या० श्रौ० २५१३२८ “मृतं यजमानं निर्मन्थ्येन शामित्रेण वा दग्ध्वास्थीन्युपनह्य तस्य यो नेदिष्ठी स्वोभ्राता स्यात् तं दीक्षयित्वा तेन सह यजेरन्” कर्कः।

नेदीयस् = त्रि० अतिशयेनान्तिकः ईयसुन् नेदादेशः। अत्यन्तसमीपस्थे स्त्रियां ङीप्।

नेप = पु० नी–प। १ पुरोहिते उज्ज्वल०। २ उदके निघण्टुः

नेपथ्य = न० नी–विच् ने नेता तस्य पथ्यम्। १ भूषणे अमरः २ वेशे ३ वेशस्थाने नाटकादेरभिनयार्थसज्जाभूमौ च मेदि० “न पथ्यं नेपथ्यं बहुतरमनङ्गोत्सवविधौ” सा० द० “उदारनेपथ्यभृतां स मध्ये” रघुः “नेपथ्योक्तं श्रुसं यत्र त्वाकाशवचनं तथा” सा० द०।

नेपाल = पु० देशभेदे “नेपालभृङ्गिमध्यकच्छसुराष्ट्रमद्रान्” वृ० सं० ४ अ० “नेपालादागतोऽयं नवकम्बलवत्त्वात्” छलोदाहरणे विश्वनाथः “जटेश्वरं समारभ्य योगेशान्तं महेश्वरि!। नेपालदेशो देवेशि! साधकानां सुसिद्धिदः” शक्तिसङ्गमत०। “नेपाले माहिषं भांसम्” अनाचारोक्तौ

नेपालजा = स्त्री नेपाले देशे जायते जन–ड ७ त०। नेपालजातायां मनःशिलायाम् “नेपालजामरिचशङ्खरसाञ्जनानि” सुश्रुतः। जन–कर्त्तरि क्त ७ त०। नेपालजाताप्यत्र। “मरिचं च शुक्लं नेपालजाता च समप्रमाणा” सुश्रुतः।

नेपालकम्बल = पु० ६ त०। कुथाख्ये चित्रकम्बले शब्दार्थचि०।

नेपालनिम्ब = पु० ६ त०। ज्वरान्तके तृणनिम्बे नेपालजाते निम्बभेदे राजनि०।

नेपालमूलक = न० हस्तिकन्दसदृशे मूलभेदे राजनि०।

नेपालिका = स्त्री नेपाल उत्पत्तिस्थानत्वेनास्त्यस्याः ठन्। मनःशिलायां राजनि०।

नेम = पु० नी–मन्। १ काले २ अवधौ ३ खण्डे ४ प्राकारे ५ कैतवे च मेदि०। ६ अर्द्धे ७ गर्त्ते च हेमच०। ८ नाट्यादौ अन्यार्थे च शब्दरत्ना०। ९ सायंकाले १० मूले च ११ ऊर्द्धे च सुमूतिः। अर्द्धार्थेऽस्य सर्वनामता। नेमस्मै नेमस्मिन् इत्यादि। जसि वा, नेमे नेमाः। १२ अन्ने १३ दिश उत्तरवर्त्तिनि च निघण्टुः। “हितं जनिम नेममुद्यतम्” ऋ० ९६८५ “नेममर्द्धम्” भा० “आयन् पचाति नेमो नहि पक्षदर्धः” ऋ० १०२७१८

नेमधित = त्रि० नेमं हितः नेम + धा–क्त “सुधितनेमधितेत्यादिना” पा० निपा०। अर्द्धहिते “स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर!” ऋ० ६३३४ भावे क्तिन्। नेमधिति। अर्द्धधाने स्त्री। नेमं धीयतेऽत्र धा–क्तिन् निपा०। संग्रामे निघण्ठुः।

नेमन् = त्रि० नी–बा० मनिन्। प्रापके “तं गूर्त्तयो नेमान्निषः” ऋ० १५६२ “इष गतौ बा० क्विप् नेमानः प्रापका इषो येषाम्” भा०। छान्दसो नलोपाभावः।

नेमि = पु० नी–मि। १ तिनिशवृक्षे। २ कूपसमीपे रज्जुधारणार्थे त्रिकाकृष्टयन्त्रे ३ चक्रान्ते च (रथचक्रस्य भूमिस्पर्शनयोग्ये भागे) ४ कूपान्तिकस्थे–समानस्थलभागे स्त्री अमरः वा ङीप्। ५ जिनभेदे पु० हेमच०। ६ वज्रे पु० निघण्टुः “नियन्तुर्नेमिवृत्तयः” रघुः “आनेमिमग्नैः शितिकण्ठपक्षः” “अपतन् द्रुतभ्रमितनेमिवृत्तयः” माघः

नेमिचक्र = पु० परीक्षितनृपस्य वंश्ये भाविनृपभेदे “असीनकृष्णस्तस्याषि नेमिचक्रस्तु तत्सुतः। गजाह्वये हृते नद्या कौशाम्ब्यां स निवत्स्यति” भाग० ९२२२७

नेमिन् = पु० नी–बा० मिनि। तिनिशवृक्षे भरतः।

नेयार्थता = स्त्री नेयः रूढिपयोजनाभावादशक्त्याकृतो लक्ष्यार्थो यत्र तस्य भावः। काव्यदोषभेदे “ग्राम्योऽप्रतीतसन्दिग्ध नेयार्थनिहतार्थता” सा० द० “कमले चरणाघातं मुखं सुमुखि! तेऽकरोत्”। अत्र चरणाघातेन निर्जितत्वं लक्ष्यते” सा० द०। तत्र रूढिप्रयोजनयोरभावात् तथात्वम्।

ने(नै)मिश = न० नेमिः शीर्य्यतेऽत्र शॄ–वा० आधारे ड। नैमिशारण्ये ततः स्वार्थे अण्। नैमिशतत्रार्थे वायुपु० यथा “एतन्मचोमयं चक्रं मया सृष्टं विसृज्यते। यत्रास्य शीर्य्यते नेमिः सदेशस्तपसः शुभः। इत्युक्त्वा सूर्यसङ्काशं चक्रं सृष्ट्वा मनीमयम्। प्रणिपत्य महादेवं विससर्ज पितामहः। तेऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम्। प्रययुस्तस्य चक्रस्य यत्र नेमिर्विशीर्य्यते। तद्वनं तेन विख्यातं नैमिशं भुवि पूजितम्”।

नेष्ट = त्रि० न इधम् नञर्थनशब्देन “सह सुपा” पा० स०। १ अनिष्टे २ तत्साधने निषिद्धे च। “अतिककुदाः कृशदेहा नेष्टाः हीनाधिकाङ्ग्यश्च” वृ० सं० ६१ अ०।

नेष्टु = पु० निश–तुन्। लोष्टे शब्दाम्बुधिः। “यथा महार्णवे क्षिप्तः क्षिप्रं नेष्टुर्विनश्यति” भा० अनु० १२ अ० “नेष्टुः पांशुपिण्डः” नीलकण्ठः।

नेष्टृ = पु० नी–तृन् नि० षुक्। ऋत्विग्भेदे उज्ज्वलद०। “ग्नावो नेष्टः! पिब ऋतुना” ऋ० ११५३ “समान्तरान् ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानाम्” कात्या० ८६२१।

नेष्ट्र = त्रि० नेष्टुरिदम् वा० अन्। नेष्टृसम्बन्धिनि “नेष्ट्रादृतुभिरिष्यते” ऋ० ११५९

नैःस्व = न० निः स्वस्य भावः अण्। निर्द्धनत्वे ष्यञ् नैःस्व्य अप्यत्र न०।

नैक = त्रि० न एकः नञर्थनशब्देन “सह सुपा” पाम्स- अनेके १ एकभिन्ने २ विष्णौ पु० “एकोनैकः सवः कः किम्” विष्णुस० “मायया बहुरूपत्वान्नैकः “इन्द्रोमायाभिः पुरुरूप ईयते इति श्रुतेः” भा०।

नैकचर = त्रि० नैकः संधीभूय चरति चर–ट। संधीभूयचारिणि शूकरादौ “अपि न वृकः शालावृकोऽन्यतमोनैकचरोह वा भक्षयति” भाग० ५। ८। २०

नैकज = पु० नैकधा–जायते जन–ड पृषो० धालोपः। धर्मगुप्तये अनेकधा जायमाने परमेश्वरे “सुखदो नैकजोऽग्रजः” विष्णुस०। “धर्मसंरक्षणार्थाय संभवामि युगे युगे” भगवदुक्तेः भा०।

नैकटिक = त्रि० प्रयोजनाय निकटे वसति ठक्। भिक्षादिलाभहेतोः ग्रामादिनिकटवासिनि भिक्षुकादौ। भिक्षुणा हि ग्रामात् निकटे स्थातव्यमिति शास्त्रात् तथात्वम् “आट नैकटिकाश्रमान्” भट्टिः।

नैकती = स्त्री नैकं तायते ताय–ड गौरा० ङीष्। गौष्ठ्यां तत्र भवः पलद्या० अण् नैकत तत्रार्थे त्रि०।

नैकधा = अव्य० नैक + प्रकारे धाच्। अनेकप्रकारे “शीर्षयोः पतिता वृक्षाविभिदुर्नैकधा तयोः” भा० व० ११ अ०।

नैकभेद = त्रि० नैकोभेदोऽस्य। उच्चावचे अनेकप्रकारे अमरः

नैकमाय = त्रि० नैका माया यस्य। १ अनेककपटे २ परमेश्वरे पु० “नैकमायो महासेनः” विष्णुस० “इन्द्रोमायाभिः पुरुरूप ईयते” श्रुतेस्तस्यानेकमायत्वात्तथात्वम्।

नैकरूप = त्रि० नैकं रूपं यस्य। १ नानारूपे २ परमेश्वरे पु० “नैकरूपो वृहद्रूपः शिपिविष्टः प्रकाशनः” विष्णुस०। “इन्द्रो मायाभिः पुरुरूप ईयते” श्रुतेस्तस्य तथात्वम्। कर्म०। ३ अनेकेषु रूपेषु “नैकरूपधरोऽव्ययः” विष्णुस्तुतिः।

नैकशृङ्ग = पु० नैकानि चत्वारि शृङ्गाण्यस्य। परमेश्वरे “नैकशृङ्गो गदाग्रजः” विष्णुस०। “चत्वारि शृङ्गास्त्रयो अस्य पादाः” इति मन्त्रवर्णात् तस्य तथात्वम् स्त्रियां ङीष्।

नैकषेय = पुंस्त्री निकषाया अपत्यम् ढक्। राक्षसे हला०

नैकसानु = पु० नैके सानवोऽस्य। पर्वतभेदे तत्र चरतीति चर–ट। नैकसानुचर शिवे “नैकसानुचरश्चरः” भा० आनु० १७ अ०।

नैकात्मन् = पु० नैक आत्मा स्ररूपमस्य। परमेश्वरे “नैकात्मा नैककर्मकृत्” विष्णुस०। “तदैक्षत बहु स्यामिति” श्रुतेस्तस्य तथात्वम्।

नैकृतिक = त्रि० निकृत्या परापकारेण जीवति निकृत्या निवुरतया चरति वा निकृति + ठक्। स्वस्मिन्नुपकारित्व भ्रममुत्पाद्य परवृत्तिच्छेदनेन १ स्वार्थपरे २ शाठ्येन चारिणि च “अधोदृष्टिर्मैकृतिकः स्वार्थसाधनतत्परः” मनुः “न नास्तिको नैकृतिकोऽथ वापि” हरिवं० १५४ अ०।

नैगम = पु० निगम एव स्वार्थे–अण्। ब्रह्मप्रदिपादके उपनिषद्रूपे १ वेदभागे २ नये नीतौ हेमच०। निगमे भवः अण्। ३ वणिग्जने अभरः। ४ नागरे मेदि० तस्येदमण्। ५ निगमसम्बन्धिनि त्रि० “तेषां प्रतिविधानार्थं प्रवक्ष्माम्यथ नैगमम्। कार्य्याणां सर्वसिद्ध्यार्थं तानुपायान् निवोध मे” भा० शा० १०० अ० तत्र वणिजि “श्रेणीनैगमपाषण्डिगणानाप्ययं विधिः” याज्ञ० “मार्गे च महति निगमे नैगमानाम्” दशकुमा० ६ निघण्टुग्रन्थाशभेदे “आद्यं नैघण्टुकं काण्डं द्वितीयं नैगमं तथा” निघण्टु भाष्यम्। “जहाद्युल्वमृवीसान्तं नैगमं संप्रचक्षते” इति च तद्भाष्यम्।

नैगमिक = त्रि० निगमे भवः तस्य व्याख्यानो वा ऋगयना० ठक्। १ निगमभवे २ तद्द्याख्यानग्रन्थे ३ तस्याध्याये च।

नैगमेय(ष) = पु० १ कुमारानुचरभेदे “तस्य (कार्त्तिकेयस्य) शाखो विशाखश्च नैगमेयश्च पृष्ठजः” भा० आ० ३६ अ० सुश्रुतोक्ते २ वालग्रहभेदे “स्कन्दग्रहस्तु प्रथस” इत्युपक्रमे “नवमो नैगमेयश्च यः पितृग्रहसंज्ञितः” इत्युक्त्वा “यः फेनं वमति विनम्यते च मध्ये सोद्वेगं विलपति चोर्द्ध्वमीक्षमाणः। ज्वर्य्येत प्रततमथोवसासगन्धिर्निःसङ्गो भवति हि नैगमेयजुष्टः” इति लक्षितः। अत्र नैगमेष इत्यपपाठः।

नैघण्टुक = न० निघण्टुः पर्य्यायशब्दमधिकृत्य प्रवृत्तम् ठक्। “गौराद्यपारेपर्य्यन्तमाद्यं नैघण्टुकं मतम्” भाष्योक्ते प्रथमाध्यायत्रयात्मके निघण्टुग्रन्थस्य प्रथमकाण्डे “नैघण्टुकमिदं देवतानाभप्राधान्येनेदमिति तद्यदन्यदेवते मन्त्रे निपतति नैघण्टुकं ततः” निरुक्तकारः १। २०।

नैचाशाख = न० नीचासु शूद्रयानिषु शाखा पुत्रपौत्रादिपरम्परा यस्य नीचाशाखः पतितः “शूद्रावेदी पतत्यत्रेः” मनुस्मरणात् तस्येदमण्। शूद्रावेदिसम्बन्धिधने “नैचा शाखं मघवन्! रन्ध्रया नः” ऋ० ३। ५३। १४ तद्भाष्ये च उक्तैव व्युत्पत्तिर्दर्शिता।

नैचिक = न० नीचो–भवतीति ठक्। गोःशिरोभागे हेमच०।

नैचिकी = स्त्री नीचैश्चरति ठक् अव्ययस्य टिलोपः। प्रशस्ता निचिः गोकर्णशिरोदेशः। प्राशस्त्योक निचिकास्त्यस्याः ज्योत्स्ना० णः वा। २ उत्तमायां स्त्रीगव्याम् अमरः।

नैचित्य = त्रि० निचिते भवः नादित्वात् ण्यः। निचितदेशभवे

नैचुल = न० निचुलस्येदमण् फलस्य पृथक्प्रयोगे अणो न ल्प्। १ निचुलसम्बन्धिनि इज्ज्वलफलादौ “पिष्पली सर्षपांश्चैव नागरं नैचुलं फलम्” सुश्रुतः। निचुलशब्दस्यैव फलपरत्वे तु लुप् निचुलमित्येव न०।

नैतोश = पुंस्त्री नितोशयतीति नितोशतिर्बधकर्मा निघण्टुः। ततः अच् नितोशः हिंसकः तस्यापत्यम् अण्। हन्तुरपत्ये “नैतोशेब तुर्फरी पर्फरीका” ऋ० १०। १०६। ६

नैत्य = त्रि० नित्ये दीयते नित्य + व्युष्टा० अण्। १ नित्ये दीयमाने। नित्यं विहितः अण् स्वार्थे अण् वा। नित्यविहिते कर्मणि। ३ नित्ये कर्मणि च। ततः स्वार्थे क। नैत्यक तत्रार्थे “अपां समीपे नियतो नैत्यकं विधिमास्थितः” “वेदोपाकरणे चैव स्वाध्याये चैव नैत्यके” “नैत्यके नास्त्यनध्यायः” इति च मनुः।

नैत्यशब्दिक = त्रि० नित्यं शब्दमाह माशब्दा० ठक्। नित्यशब्दवादिनि शब्दं नित्यतया यो वदति मीमांसकस्तस्मिन्।

नैत्यिक = त्रि० नित्यं बिहितः ठक्। नित्यविहिते “सन्ध्यां पञ्च महायज्ञान् नैत्यिकं स्मृतिकर्म च” मनुः।

नैदाघ = त्रि० निदाघस्येदम् वेदे शैषिकोऽण्। निदाघसम्बन्धिनि “जघन्ये नैदाघे समिवैव कोपयति” शत० ब्रा० १। ४। १। १६ लोके तु निदाघस्यर्त्तुवाचित्वेन “कालाट् ठञ्” पा० ठञ्। नैदाघिक ग्रीष्मर्तुसम्बन्धिनि त्रि०।

नैदान = त्रि० निदानं कारणं वेत्ति अण्। कारणवेत्तरि “स्थाल आसन्नासंयोगेनेति नैदानाः” निरु० ६। ९

नैदानिक = त्रि० निदानं रोगकारणं वेत्ति तत्प्रतिपादकं ग्रन्थमघीते वा ठक्। १ रोगनिदानाभिज्ञे २ तत्प्रतिपाद्रकग्रन्थाध्येतरि च “यथाहुर्नैदानिकाः” मल्लिनाथः।

नैदेशिक = त्रि० निदेशं करोति ठक्। १ किङ्करे दासे “नैटेशिकैर्यस्य वशे जनोऽयम्” भाग० ६८३। २

नैधन = न० निधनमेव स्वार्थे अण्। १ निधने मरणे २ लग्नापे क्षया अष्टमस्थाने च “शुद्धैर्द्वादशकेन्द्रनैधनगृहैः पापैस्त्रिषष्ठायगैः” वृ० सं० ९८८ अ०।

नैधान = त्रि० निधानेन निर्वृत्तं सङ्गला० अञ्। निधानसाध्ये

नैधेय = पु० त्रि० निधेरपत्यादि० बाह्वा० ठक्। १ निधेरपत्ये तस्येदं ढक्। २ तत्सम्बन्धिनि त्रि०।

नैध्रुव = पु० निध्रुवगोत्रप्रवरर्षिभेदे “निध्रुवाणां काश्यपावत्सार नैध्रुवेति” आश्व० श्रौ० ६। १४। ६

नैध्रुवि = पु० समस्तयजुर्वेदाध्यापकपरम्परास्थे काश्यपे ऋषिभेदे “काश्यपान्नैध्रुवेः काश्यपो नेध्रुविः” शत० व्रा० १४। ९। ४। ३३

नैप = त्रि० नीपस्य विकारः रजतादि० अञ्। नीपविकारे

नैपात्य = न० निपातस्य भावः ब्राह्मणा० ष्यञ्। निपातस्य भावे

नैपाल = पु० नेपाले भवः तस्येदम् वा अण्। १ नेपालभवे निम्बे राजनि०। २ नवमल्लिकायां स्त्री टाप्। ३ मनःशिलायां ४ शेफालिकायां स्त्री मेदि० ५ नील्यां स्त्री ङीप् शब्दर० ६ नेपालदेशभवे ७ तत्सम्बन्धिनि च त्रि० स्त्रियां ङीप्

नैपालिक = न० नेपाले भगः बा० ठक्। ताम्रे राजनि०।

नैपुण = न० निपुणस्य भावः युवा० अण्। निपुणत्वे “अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे शशिनि विनयवित्तज्ञानधी नैपुणानाम्” ज्योति० त०। “प्रकटान्यपि नैपुणं महत् पर वाच्यानि चिराय गोपितुम्” माघः।

नैपुण्य = न० निपुणस्य भाकः कर्म वा ब्राह्मणा० ष्यञ्। १ निपुणत्वे २ निपुणकर्मणि च। “धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा” मनुः।

नैबद्धक = त्रि० निबद्धस्यादूरदेशादि वराहा० कक्। निबद्धसमीपादौ।

नैभृत्य = न० निभृतस्य भावः ब्राह्मणा० ष्यञ्। निमृतत्वे अचाञ्चल्ये “धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः। अनृशंसो वदान्यश्च ह्रीमान् सत्यपराक्रमः” भा० उ० ५२ अ०।

नैमग्नक = त्रि० निमग्न + चतुरर्थ्यां वराहा० कक्। निमग्नस्यादूरदेशादौ।

नैमित्त = त्रि० निमित्ते भवः निमित्तस्य शकुनशास्त्रस्य व्याख्यानो ग्रन्थो वा ऋगयनादि० अण्। १ निमित्तभवे २ शकुनरूपनिमित्तसूचकग्रन्थव्याख्याने च।

नैमित्तिक = त्रि० निमित्तं वेत्ति तत्प्रतिपादकग्रन्थमधीते वा उक्था० ठक्। १ निमित्ताभिज्ञे २ निमित्तरूपशकुनशास्त्राध्येतरि च। निमित्तादागतः ठक्। ३ निमित्तमात्रमाश्रित्य कर्त्तव्ये कर्मणि तच्च पुत्रजन्माश्रित्य विहितं जातेष्ठ्यादि ग्रहणादिनिमित्रमाश्रित्य स्थानादि च “नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते” ति० त० “नैमित्तिकत्वं तु निमित्तनिश्चयवदधिकारिकर्त्तव्यत्वम्” स्मार्त्ताः। “यत्तु पापोपशान्त्यै च दीयते विदुषां करे। नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम्” इति गरुडपु० “निमित्तमात्रमाश्रित्य यो धर्मः सम्प्रवर्त्तते। नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा”। चण्डालशवपूयादि स्पृष्ट्वाऽस्नातां रजस्वलाम्। स्नानार्हस्तु यदा स्नाति स्नानं नैमित्तिकं तु तत्”। “नैमित्तिकानि कान्यानि निपतन्ति यथा यथा” मल० त० ५ निमित्ताधीने च “गुरुणी द्वे रसवती द्वयोर्नैमित्तिकोद्रवः” “सांसिद्धिकं द्रव्यत्वं स्यात् नैमित्तिकमथापरम्। नैमित्तिकं वह्नियोगात् तपनीयधृतादिषु” भाषा० “पुरुषार्थहेतुकमिदं निमित्त नैमित्तिकप्रसङ्गेन” सा० का०।

नैमित्तिकलय = पु० “चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिको लयः” इत्युक्ते प्रलयभेदे “चतुर्दशगुणो ह्येष कालो ब्राह्म्यमहः स्मृतम्। तस्यान्ते प्रलयः प्रोक्तो व्रह्मन्! नैमित्तिको बुधैः” मार्कण्डपु०।

नैमिश = न० निमिशमेव स्वार्थे अण्। निमिशारण्ये तीर्थभेदे निमिशशब्दे दृश्यम्। “पृथिव्यां नैमिशं क्षेत्रमन्तरीक्षे च पुष्करम्। त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते” भा० व० ७५७० श्लो०। नैमिशारण्यमप्यत्र।

नैमिश्रि = पु० निमिश्रस्यापत्यम् इञ्। नितरां मिश्रस्यापत्ये ततः यूनि फक्। तस्य तौल्वल्या० न लुक्। नैमिश्रायण यूनि तदपत्ये

नैमिष = न० अरण्यरूपे तीर्थभेदे अत्रारण्ये निमिषेण दानवबलं विष्णुना निहतयिति तस्य तथार्त्वतन्निर्वचनं यथा वराहपु० “तेन चक्रेण तत् सैन्यमासुरं दुर्जयं क्षणात्। निमिषान्तरमात्रेण भस्मवद्वहुधा कृतम्। एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा। उवाच निषिषेणेदं निहतं दानवं बलम्। अरण्येऽस्मिंस्तत स्तेन नैमिषारण्यसंज्ञितम्। भविष्यति यथार्हं वै ब्राह्मणानां विशेषतः”। “नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी” इति देवीगीता। तस्येदम् “वृद्धाच्छः” पा० छ। नैमिषे। तत्सम्बन्धिनि “स ह नैमिषीयाणामुद्गाता बभूव” छा० उ०।

नैमिषकुञ्ज = न० तीर्थभेदे नैमेष्वेयशब्दे दृश्यम्।

नैमिषि = पुंस्त्री निमिषति नि + मिष–क निमिषस्तस्यापत्यम् इञ्। निमेषयुक्तस्यापत्ये ततः यूनि फक्। तस्य तौल्वल्या० न लुक्। नैमिषायण तदीये यून्यपत्ये पुंस्त्री०।

नैमिषेय = त्रि० निमिषे भवः निमिषस्येदं वा बा० ढक्। १ निमिषारण्यस्थे २ नैमिषसम्बन्धिनि च “ततः नैमिषकुञ्जञ्च समामाद्य कुरूद्वह!। ऋषयः किल राजेन्द्र! नैमिषेयास्तपस्विनः” भा० व० ८३ अ०।

नैमेय = पु० नि + मि–यत् स्वार्थेऽण्। विनिमये परीवर्त्ते अमरः

***