निस् = अव्य० निस्–क्विप् उपसर्गभेदः। १ निषेधे २ निश्चये ३ साकल्ये ४ अतिक्रमे च शब्दार्थचि०। निर् शब्दे दृश्यम्

निसम्पात = पु० निवृत्तः सम्पातः सञ्चारो यत्र। निशीथे अर्द्धरात्रे शब्दरत्ना० निरा समासे निःसम्पातोऽप्यत्र।

निसर = त्रि० निसरति नि + सृ–अच्। नितान्तसर्त्तरि नितान्त गामुके “मन्यवेऽयस्तापं क्रोधाय निसरम्” यजु० ३०१४ अ०।

निसर्ग = पु० नि + सृज–घञ्। १ स्वभावे २ स्वरूपे ३ सृष्टौ च मेदि० “सर्गोनिसर्गोज्ज्वलः” नैष० “मधुरालापनिसर्गपण्डिताम्” कुना० “निसर्गदुर्बोधमबोधविक्लवाः” किरा० “निसर्गज तु तत्तस्य कस्तस्मात्तदपोहति” मनुः। ग्रहाणां निसर्गबलम् ग्रहबलशब्दे २७५४ पृ० दृश्यम्।

निसार = पु० नि + सृ–घञ्। समूहे त्रिका०।

निसिन्धु = पु० नितरां सिन्धुरिव बहुद्रवपत्रादिमत्त्वात्। सिन्धुवारे(निसिन्दा) शब्दच०।

निसुन्ध(न्द) = पु० असुरभेदे “स्वादिता भौरवाः काशा निसुन्ध(न्द) नृतकौ हतौ” मा० व० १२ अ० “हयग्रीवो निसु(न्द)न्धश्च वीरः पञ्चनखस्तथा” हरिवं० १२२ अ०।

निसूदक = त्रि० निसूदयति नि + सूदि–ण्वुल्। हिंसके “तथात्रेयीनिसूदकः” याज्ञ०।

निसूदन = न० नि + सूद–भावे ल्युट्। १ मारणे वधे अमरः। कर्त्तरि ल्यु। २ मारके नाशके त्रि० “यमिन्द्रशब्दार्थनिसूदनं हरेः” माघः “बलनिसूदनमर्थपतिञ्च तम्” रघुः।

निसृता = स्त्री नितरां सृता नि + सृ–क्त। २ त्रिवृतायाम् (तेओडि) रत्नमा०। २ नितान्तगते त्रि०।

निसृष्ट = त्रि० नि + सृज–कर्मणि क्त। १ न्यस्ते अमरः २ मध्यस्थे त्रिका०। “न स्वामिना निसृष्टोऽपि शूद्रो दास्याङ्विमुच्यते” मनुः।

निसृष्टार्थ = पु० “उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम्। सन्दिष्टः कुरुते कर्म निसृ ष्टार्थस्तु स स्मृतः” सा० द० इत्युक्ते १ दासभेदे “निसृष्टार्थोमितार्थश्च तथा सन्देशहारकः। कार्य्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः” सा० द० “यः स्वामिना नियुक्तोऽपि धनायव्ययपालने। कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः” २ वृहस्य त्युक्ते “धीरः स्थिरमतिः शूरः स्वामिकार्यविधायकः। स्वपौरुषप्रकाशी च निसृष्टार्थः स उच्यते” सङ्गीतदा० च उक्ते ३ पुरुषे।

निसोढ = त्रि० नि + सह क्त ओत् ओत्त्वत्त्वान्न षः। नितान्तसह्ये एवं निसोढवत्। निसोढि इत्यादावपि न षः।

निस्तत्त्व = त्रि० निर्गतं तत्त्वं वास्तवं रूपं स्वरूपं वा यस्य प्रा० ब०। असत्पदा।

निस्तनी = स्त्री नितरां स्तनस्तदाकारोऽस्त्यस्याः अच् गौरा० ङीष् वा रोर्लोपः। वटिकायां (वडि) अत्र निस्तलीत्येव पाठः शब्दच०। निर्गतौ स्तनौ यस्याः वा विसर्ग लोपः। स्तनहीनायां स्त्रियाञ्च खाङ्गत्वात् वा ङीष् पक्षे टाप् इति भेदः।

निस्तन्द्र = त्रि० निष्क्रान्ता तन्द्रा यस्य प्रा० ब०। १ तन्द्रारहिते २ आलस्यरहिते च “निस्तन्द्रो ह्यवितथसंस्कृतप्रभाषी” सुश्रु०

निस्तन्द्रि = त्रि० निर्गता तन्द्रिरालस्य यस्य प्रा०। आलस्यरहिते। निर्गता तन्द्र्याः निरा० त०। निस्तन्द्री इत्येव स्त्रीप्रत्ययान्तत्वाभावात् गोण्येऽपि न ह्वल इति भेदः।

निस्तरण = न० निर् + तॄ–करणे ल्युट्। १ उपाये। भावे ल्युट्। २ निस्तारे ३ पारगमने ४ तरणे च मेदि० ५ निर्गमे विश्वः।

निस्तरीक = अव्य० तरे देयः ईक तरीकः अभावे अव्ययी०। १ तरणार्थदेयकराभवे निरुदका० अन्तोदात्तताऽस्य। प्रा० ब०। २ तरीकशून्ये त्रि०।

निस्तीप = त्रि० तरीं पाति पाः क निर्गतस्तरीपो यस्मात् प्रा० ब०। १ नौकापालकशून्ये अभावे अव्ययी०। २ तरीपाभावे अव्य०। निरुदका० अस्यान्तोदात्तता।

निस्तर्हण = न० नि + तृहू–हिंसायां भावे ल्युट्। मारणे अमरः।

निस्तल = त्रि० निरस्तं तलं प्रतिष्ठा यस्य। १ वर्तुले २ तलशून्ये अतले न० अमरः। ३ चले मेदि० चलस्य प्रतिष्ठाराहित्यात् तथ त्वम्। निस्तान्तं तलं प्रा० स०। ५ तले हेमच० ५ वटिकायां स्त्री शब्दच० गौरा० ङीष्।

निस्तार = पु० निःशेषेण तारः पारगमनम्। १ उद्धारे २ पारगमने ३ अभीष्टप्राप्तौ च “जीर्णा तरिः सरिदतीवगभीर नीरा बाला वयं सकलमित्थनर्थहेतुः। निस्तारवीजमिद० मेव कृशोदरीणां यन्माधव! त्वमसि सम्प्रति कर्णधारः” उद्भटः। “कलौ पापयुगे घोरे तपोहीनेऽतिदुस्तरे। निस्तारवीजमेतदु यदुब्रह्ममन्त्रस्य साधनम्” महानि० त०।

निस्तुष = त्रि० निर्मुक्तास्तुषा यतः प्रा० ब०। १ वितुषीकृते धान्य यवादौ “पूर्वेद्युर्दक्षिणाग्नौ निस्तुषावभृष्टयवानाम्” कात्या० श्रौ० ५३२२ निर्मले च।

निस्तुषक्षीर = पु० निस्तुषं निर्मलं क्षीरं यस्य। गोधूमे राजनि०

निस्तुषरत्न = न० निस्तुषं निर्मलं रत्नम्। स्फटिके राजनि०।

निस्तुषित = त्रि० निस्तुष + कृतौ णिच्–क्त। १ त्वग्विहीने कृते तण्डुलादौ २ लघूकृते ३ त्यक्ते च मेदि०।

निस्तेजस् = त्रि० निर्गतं तेजोऽस्य प्रा० ब०। तेजोहीने “नभेतव्यं भृशं चैते मात्रा निस्तेजसः कृताः” मार्कण्डपु० १८ अ०।

निस्तोद = पु० निस् + तुद–भावे घञ्। नितान्तव्यथने “सूचीभिरिव निस्तोदः” “तेषु कालेषु निस्तेदो मारुतेनोपजायते” सुश्रुतः भावे ल्युट्। निस्तोदनमप्यत्र न०। “पार्श्वभङ्गो गुदवस्तिनिस्तोदनम्” सुश्रुतः।

निस्त्रिंश = पु० निर्गतस्त्रिंशतोऽङ्गुलिभ्यः डच् समा०। १ खड्गे अमरः त्रिंशदङ्गुल्यधिकस्यैव खड्गत्वात् ततो न्यूनत्वे छुरिका। तत्तुल्यहिंसकत्वात् २ निर्दये त्रि० मेदि० “हे निस्त्रिंश (निर्दय) विमुक्तकण्ठकरुणं तावत् सखी रोदितु” अमरुशतकम् “सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः” भा० आ० १३६ अ०। ३ मन्त्रभेदे “नवाक्षरो ध्रुव युतो मनुर्निस्त्रिंश ईरितः” तन्त्रसा०।

निस्त्रिंशपत्रिका = स्त्री निस्त्रिंशः खड्ग इव पत्रसस्या कप् कापि अत इत्त्वम्। स्रुहीवृक्षे राजनि०।

निस्त्रिंशिन् = त्रि० निस्त्रिंशः धार्य्यत्वेनास्त्यस्य इनि। खड्ग धारिणि “सन्नद्धा लोहितोष्णीषा निस्त्रिंशिनो याजयेयुः” आश्व० श्रौ० ९७४ स्त्रियां ङीष्।

निस्त्रैगुण्य = त्रि० निष्क्रान्तः त्रैगुण्यात् त्रिगुणकार्य्यात् संसारात् तत्कार्येभ्यः कामादिभ्यो वा निरा० त०। १ कामानादिशून्ये २ संसारातीते च “निस्त्रैगुण्यो भवार्जुन!” गीता।

निस्त्रैणपुष्पी = स्त्री निर्गतं स्त्रैणं स्त्रीरागादि यस्मात् प्रा० ब० निस्त्रैणं पुष्पमस्याः ङीष्। राजधुस्तूरवृक्षे राजनि०।

निस्स्नेह = त्रि० निर्गतः स्नेहःप्रेमतैलादिकं वास्य प्रा० ब०। १ प्रेमशून्ये २ तैलशून्ये च ३ मन्त्रभेदे पु० “शतद्वयं द्विनवतिरेकहीना तथापि वा। यावच्छतत्रयं सङ्ख्या निस्स्नेहास्ते प्रकीर्त्तिताः” तन्त्रसा० पक्षे विसर्गः। निःस्नेहः

निस्स्नेहफला = स्त्री निःस्नेहं फलमस्याः। श्वेतकण्टकार्य्यां राजनि। पक्षे विसर्गः।

निस्पन्द = पु० निर्गतः स्पन्दो यस्य प्रा० ब० वा विसर्गलोपः। १ स्पन्दनरहिते “सूक्ष्मे घने नैषधकेशपाशे निपत्थ निष्पन्दतरीमवद्भ्याम्” नैष०। २ चेष्टाशून्ये पक्षे विसर्गः।

नि(ष्पृ)स्पृह = त्रि० निर्गता स्पृहा यस्य वा विसर्गलोपाभावे विसर्गस्य इदुदुपधत्वेन षत्वे ष्टुत्वम् झरोझरीति ष लोपे एकषः। १ विषयादिषु इच्छाशून्ये “व्यासादीनां निस्पृहाणां पारार्थ्यमिह दृश्यते” “निस्पृहः सर्वकामेभ्यो युक्तैत्युच्यते तदा” गीता। २ अग्निशिखावृक्षे स्त्री शब्दर०। अव्ययी० ३ स्पृहाया अभावे अव्य०। विसर्गलोपे न षः।

निस्यन्द = पु० नि + स्यन्द–घञ् वा षत्वम्। १ स्यन्दने ईषत्क्षरणे। कर्त्तरि अच्। २ तद्युते त्रि०। शशाङ्ककिरणाहतचन्द्रकान्ते निस्यन्दनीरनिकरेण कृताभिषेका” माघः “तदङ्गनिस्यन्दजलेन लोचने” रघुः।

निस्र(स्रा)व = पु० नि + स्रु–अप्, संज्ञायां घञ् वा। १ भक्तमण्डे (माड) अमरः। भावे अप् घञ् वा। २ अपक्षरणे च।

निस्स्व = त्रि० निर्गतं स्वमस्य प्रा० ब०। दरिद्रे पक्षेविसर्गः।

नि(स्व)स्वान = पु० नि + स्वन–अप् घञ् वा। शब्दे अमरः। “सुखश्रवा मङ्गलतुर्यनिस्वनाः” रघुः “बायुं कृत्वाथ वाजाभ्यां पुङ्खे वैवस्वतं यमम्। विद्युत् कृत्वाथ निस्वानं मेरुं कृत्वाथ वै ध्वजम्” भा० द्रौ० २०३ अ०। आर्षे विद्युत्मित्यत्य अमो लोपः।

निस्सीम = त्रि० निष्क्रान्ता सीमा यस्मात् प्रा० ब० विसर्गस्य वा सः। अवधिशून्ये अपर्य्यन्ते “निः(स)सीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः” नैष०।

निह = त्रि० निहन्ति नि + हन–ड। निहन्तरि “अति निहो अति स्त्रिधः” यजु० २७। ६

निहनन = न० नि + हन–ल्युट्। १ बधे अमरः। उदात्तस्वरेणानुदात्तादेरनुच्चारणरूपे निघाते च। निघातशब्दे दृश्यम्।

निहन्तृ = त्रि० नि + हन–तृच्। १ नाशकर्त्तरि “निहन्ता वैरकाराणाम्” भट्टिः स्त्रियां ङीप्। २ महादेवे पु० “भगहारी निहन्ता च कालो ब्रह्मा पितामहः” भा० अनु० १७ अ० “अनुमन्ता विशसिता निहन्ता क्रयविक्रयी” मनुः एकपदे अन्यस्वरोच्चारणाप्रयोजके निघातकर्त्तरि ३ उदात्ते स्वरभेदे च अतएव “निहन्त्यरीनेकपदे य उदात्तः स्वरानिव” माघे उदात्तस्वरस्य एकपदे अन्यस्वराणां निहन्तृत्वस्योपमानविथयोक्तम् “अनुदात्तं पदमेकवर्जमिति” पा० परिभामाबलेन तस्य तथात्वम् निघातशब्दे दृश्यम्।

निहव = पु० नि + ह्वे–अप् “ह्वः संप्रसारणञ्च” पा० सम्प्रसार णम् थाऽथादि पा० सू० अस्य अन्तोदात्तता। आह्वाने “आदित्य ऊकारः निहव एकारः” छा० उ० “निहव इत्याह्वानमेकारः स्तोभः। एहीति चाह्वयन्तीति तत्सामान्यात्” भा०। “इन्द्र! नेदीय एदिहीन्द्रो निहवः प्रशास्यः” आश्व० श्रौ० ५१४५

निहाका = स्त्री नियतं जहाति भुवं हा–कन् ह्रस्वः। गोधिकायाम् अमरः “साकं नश्य निहाकया” ऋ० १०। ९७ १३ “नीहाराय स्वाहा निहाकायै स्वाहा” तैत्ति० सू० ५ ५ ११ ११

नि(नी)हार = न० निह्नियते नि + हृ–कर्मणि घञ् वा दीर्घः। ह्रस्वमध्यः। १ हिमे शब्दरत्ना०। दीर्घमध्यः। तत्रार्थे अमरः २ कुज्झटिकायां कुल्लू० “नीहारे वाणशब्दे च सन्ध्ययोरेव चोभयोः” मनुः। “नीहारः कुज्झटिका” कुल्लूकः स च अनीभूतं शिशिरं (वरफ) इति ख्यातं कुज्झटिका च “नीहारमग्नो दिनपूर्वभागः” रघुः “एवं तयोक्तो भगवान्नीहारमसृजत् प्रभुः” भा० आ० ६० अ०। मत्स्यगन्धयोक्तः पराशरः कुज्झटिकारूपं नीहारं सृष्टवानिति प्रसिद्धम्।

निहिंसन = न० नि + हिन्स–मावे ल्युट्। मारणे अमरः।

निहित = त्रि० नि + धा–क्त हिरादेशः। १ आहिते २ स्थापिते ३ निक्षिप्ते च “धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः” भा० व० ३१२ अ०।

निहीन = त्रि० नितरां हीनः प्रा० स०। १ नीचे २ पामरे अमरः। “निहीनैः परिक्लिश्यन्तीं समुपेक्षन्ति मां कथम्” भा० व० १२ अ०। समुपेक्षन्तीत्यत्र आर्षः पदव्यत्ययः।

निह्नव = पु० नि + ह्नु–अप्। १ शाठ्ये अन्यथा स्थितस्य वस्तुनोऽन्यथात्वेन २ सूचने अपलापे। “निह्नवे साक्षिभावितम्” मनुः “निह्नवे याचितो दद्याद्धनं राज्ञे च तत्समम्” याज्ञ०। नि + ह्नु–क्तिन्। निह्नुतिरप्यत्र स्त्री अमरः।

नी = त्रि० नयति नी + कर्त्तरि–क्विप्। प्रापके। ङौ न्याम्

नीक = पु० नी–कक्। वृक्षभेदे

नी(नि)कार = पु० नि + कृ–भावे घञ् वा दीर्घः। १ न्यक्कारे २ अवहेलने शब्दार्थचि०।

नीकाश = पु० नि + काश–घञ्। उत्तरपदस्थः १ उपमाने अमरः अस्य निभादित्वेन नित्यसमास एव पृथक्प्रयोगाभावात्। २ निश्चये पु० मेदि० “आकाशनीकाशतटां तीरवानीरसङ्कुलाम्” भा० व० १८२ अ०।

नीकुलक = पु० प्रवरभेदे हेमा० ब्र० प्रवरोक्तौ दृश्यम्।

नीक्षण = न० नीक्ष्यतेऽनेन नि + ईक्ष–करणे ल्युट्। पाकादिपरीक्षासाधने काष्ठभेदे “यन्नीक्षणं मांसपचन्याः” ऋ० १ १५२ १३ “नीक्षणं पाकपरीक्षासाधनं काष्ठम्” भा०।

नीच = त्रि० निकृष्टामीं शोभां चिनोति चि–ड। जातिगुण कर्मादिभिः निकृष्टे १ अधमे अमरः। २ वामने खर्वे च अमरः। ३ चोरनामशन्धव्ये पु० राजनि०। ४ निम्ने च। नीचसङ्गदोषो यथा “न प्राप्नोति सुखं किञ्चिन्नीचसङान्महानपि। प्रेतश्चङ्गात् महादेवो नग्नो भस्मविभूषितः। प्रविश्य निलयं नीचः स्त्रीधनादिकमिच्छति। स्वयं नेतुं स शक्राति तदा साययति ध्रुवम्। स्थिते गुणेऽपि नीचस्तु यत्नाद्दोषं प्रपद्यते। किञ्चित्तु सङ्गमासाद्य तदुक्तं स्यात् सनातनम्। सतां श्रुत्वा गुणं नीचः श्रोतुमायाति बन्धुवत्। ततः समयमासाद्य प्रकाशयति तद्धसन्। मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्। मनस्यन्यद्वचस्यन्थत् कर्मण्यन्यत् दुरात्मनाम्” पाद्मे क्रिया योगसारे ५ अ०। “बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्। मध्यमे मध्यतां याति श्रेष्ठतां याति वित्तमे” भा० शा०। “प्रायो नीचानपि मेदिनीभूतः” माघः। “नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि” मनुः। ग्रहभेदानाम् उच्चशब्ददर्शितोच्चस्थानात् सप्तमस्थाने तच्च रव्यादीनां यद्यद् भवति तत् नीचस्थानशब्दे दृश्यम्। स्वार्थे क। नीचक तत्रार्थे

नीचकदम्ब = पु० नीचः कदम्बो यस्मात् ५ त०। मण्डीरे नैघण्टुप्रकाशिका।

नीचका = स्त्री निकृष्टामीं शोभां चकते प्रतिहन्ति चक– प्रतिघाते अच्। उत्तमायां गवि भरतः।

नीचकिन् = त्रि० निकृष्टामीं शोषां चकते चक्र–प्रतिथाते बा० इनि। उच्चे हला०।

नीचकैस् = अव्य० नीचैस् अव्ययस्य चैः पूर्वमकच्। नीचैरित्यर्थे

नीचग = त्रि० नीचं निम्नं गच्छति गम–ड। १ निम्नगामिनि २ जले च। ३ नीचवर्णगामिन्यां स्त्रियां स्त्री “नीचगामङ्गनां प्राप्य चन्दनैर्मण्डलं लिखेत्” तन्त्रम्। ३ स्वस्वोच्चस्थानात् सप्तसं स्थानं नीचं तत्स्थानस्थिते ग्रहे “तत्सप्तमं भवेन्नीचम्” ज्यो० ति०। “सुनीचगेऽस्तऽगेऽपि वा वृथाफलं प्रकीर्त्तितम्” नील० ता०। उच्चशब्दे दृश्यम्। ४ निम्नगायां नद्यां स्त्री “सङ्गमयति विद्यैव नीचगाऽपि नरं सरित्। समुद्रमिव दुर्द्धर्षं नृपं भाग्यं यतः पृथक्” सिता०।

नीचगृह = न० रष्यादीनां स्वस्वोच्चस्थानात् सप्तने राशौः यथा रवेस्तुला, चन्द्रस्य वृषः, कुजस्य कर्कः। बुधस्य मीनो गुरोर्मकरः शुक्रस्य कन्या शनेर्मेषः। “स्वोच्चात्तु यामित्रमुशन्ति नीचम् यवनेश्वरोक्तेः। उच्चशब्दे दृश्यम्

नीचभोज्य = पु० नीचैर्भोज्यः। १ पलाण्डौ शब्दच०। २ नीचभोज्यमात्रे त्रि०।

नीचयोनिन् = त्रि० नीचा योनिरस्त्यस्य व्रीह्या० इनि। नीचजातिमति। “एतत् कृतयुगे वृत्तं सर्वेषामेव भारत!। प्राणिनां धर्मबुद्धीनामपि चेन्नीचयोनिनाम्” हरिवं० १९८ अ०। इन्यभावे ब० व०। नीचयोनिरप्यत्र।

नीचवज्र = पु० न० नीचप्रियं वज्रम्। वैक्रान्तमणौ राजनि०।

नीचा = अव्य० निकृष्टामीं शोभां चिनोति बा० डा। १ नीचैरिरित्यर्थे २ नीचे च “नीचा सन्तमुदनयः” ऋ० २ १३ १२ “नीचा नीचम्” भा० “नीचा वर्त्तन्त उपरि” ऋ० १०। ३४९

नीचात् = अव्य० निकृष्टामीं चिनोति बा० डाति। नीचैरित्यर्थे “नीचादुच्चा चक्रथुः पातवे वा” ऋ० १। ११६२२

नीचायक = त्रि० नितरां निश्चयेन वा चिनोति नि + चि– ण्वुल् नणसूत्रनिर्देशात् दीर्घः। नितान्तचायके। ततः उत्करा० चातुरर्थ्यां छ। नीचायकीय तत्सम्बन्ध्यादौ

नीचावया = त्रि० नीचा न्यग्भावमवयाति अव + या–क्विप्। न्यग्भावपाप्ते “नीचावया अभवत् वृत्रपुत्रेन्द्रः” ऋ० १ ३२९ “नीचावयाः न्यग्भावं प्राप्तः हतः” भा०।

नीचीन = त्रि० न्यगेव स्वार्थे ख अञ्चतेर्नलोपाल्लोपे पूर्वाणो दीर्घः। न्यन्भूते अधोमुखे “नीचीनाः स्थुरुपरि बुध्नः” ऋ० १२४७ “नीचीनवारं वरुणः कबन्धम्” ऋ० ५ ८५ ३ “नीचीनवारमधोमुखबिलम्” भा०।

नीचैर्गति = स्त्री कर्म०। १ मन्दगमने २ निम्रगमने च।

नीचैस् = अव्य० नि + चि–“नौ दीर्घश्च” डैसि दीर्घश्च। १ नीचे २ स्वैरे ३ अल्पे ४ अनुच्चे च अमरः “नीचैर्गच्छत्युपरि च दशाचक्रनेमिः क्रमेण” मेघ०। तथापि नीचैर्विनयाष्टदृश्यत” “प्रविश्य चैनं पुरमग्रयायी नीचैस्तथीपचरदर्पितश्रीः” रघुः। ततः अद्रव्ये उत्कर्षे तरप् तमप् च आमु। नीचैस्तराम् (माम्) वा। द्रव्ये तु नीचैस्तरस्तरुः।

नीच्य = त्रि० नीचि भवः न्यन्च्–यत् नलोपाल्लोपौ पूर्वाणो दीर्घश्च। निम्नभवे न्यग्भूतभवे।

नीड = पु० न० नितरामिसन्ति णगा चात्र नि + इल–क डस्य त्वः। णगानां १ वासस्थाने (वागा) अमरः २ माश्रये च “वितर्दिनिर्यूहविटङ्गनीडः” माथः “नीडारम्भैर्गृहवलिभुजामाकुलग्रामचैत्याः” मेघ०। नितराभीड्यते नि + ईड–कर्मणि घञ्। ३ रथावयवभेदे “प्रदक्षिणं रथनीड परिहारः” कात्या० श्रौ० १८५१८ “भग्नचक्राक्षनोडाश्च निपातितमहाध्वजाः” भा० भी० ७१ अ०। स्वार्थे क। तत्रार्थे “कुर्वाणौ नीडकं तत्र जटासु तृण तन्तुभिः” भा० शा० २६२ अ०।

नीडक = पुंस्त्री नीडे कायति प्रकाशते कै–क ७ त०। खगे शब्दार्थचि०। स्त्रियां जातित्वात् ङीष्।

नीडज = पुंस्त्री नीडे जायते जन–ड ७ त०। खगे हेमच०। स्त्रियां जातित्वात् ङीष्।

नीडि = पु० नितान्तमिलन्त्यत्र नि + इल–स्वप्ने इन् डस्य लः। निवासे आवासस्थाने “श्येनासो असुरस्य नीडयः” ऋ० १० ९२ ६

नीडोद्भव = पुंस्त्री नीटे उद्भवति उद् + भू–अच्, उद्भवत्यस्मात् उद्–भू–अपादाने अप् नीड उद्भवो यस्य वा। खगे अमरः स्त्रियां जातित्वात् ङीष्।

नीत = त्रि० नी–कर्मणि क्त। १ प्रापिते २ यापिते ३ गृहीते च “नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया” भ्रमरा० “नीते पलाशिन्युचिते शरीरवद् गजान्तकेनान्तमदान्त कर्मणा” माघः।

नीति = स्त्री नीयन्वे उन्नीयन्तेऽर्था अत्रानया वा नी–क्तिन्। १ शुक्राद्युक्तराजविद्यायां कार्यकारणयोरभेदात् २ तच्छ्रास्त्रे च। भावे क्तिन्। ३ प्रापणे ४ नये च मेदि०। ५ तदधिष्टावृ देवीभेदे “शिष्टाश्च देव्यः प्रवराः ह्रीः कीर्त्तिर्द्युतिरेव च। प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या दया मतिः” हरिवं० २५६ अ०। “नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये” माघः नीतिश्च कामन्दकीयशास्त्रादौ दृश्या।

“नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या। जयाय तां प्रवक्ष्यामि शृणु धर्मादिवर्द्धनीम्। न्यायेनार्जनमर्थस्य बर्द्धनं रक्षणं चरेत्। सत्पत्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्। नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात्। विनयो हीन्द्रियजयस्तैर्युक्तः पालयेन्महीम्। शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता। उत्साहो वाग्मितौदार्यमापत्कालसहिष्णु ता। प्रभावः शुचिता मैत्री त्यागः सत्यं कृवज्ञता। कुलं शीलं दमश्चेति गुणाः सम्पत्तिहेतवः। प्रकीर्णविषयारणे धावन्तं विप्रमाथिनम्। ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनम्। कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा। षड्वर्गमुत्सृजेदेनमस्मिं स्त्यक्ते सुखी नृपः। आन्वीक्षिकीं त्रयीं वार्त्तां दण्डनीतिं च पार्थिवः। तद्विद्यैस्तत्क्रियोपैतैश्चिन्तयेद्विनयान्वितः। आन्वीक्षिक्यार्थविज्ञानं धर्मार्थौ च त्रयीस्थितौ। अर्थानर्थौ तु वार्त्तायां दण्डनीत्यां नयानयौ। अहिंसा सुनृता वाणी सत्यं शौचं दया क्षमा। वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते। प्रजाः समनुगृह्णीयात् कुर्य्यादाचारसंस्थितिम्। वाक् सूनृता दया दानं हीनोपगत रक्षणम्। इति वृत्तं सतां साधु हितं सत्पुरुषव्रतम्। आधिव्याधिपरीताय अद्य श्वो वा विनाशिने। को हि राजा शरीराय धर्मापेतं समाचरेत्। न हि स्वसुखमन्विच्छत् पीडयेत् कृपणं जनम्। कृपणः पीड्यमानो हि मन्युना हन्ति पार्थिवम्। क्रियतेऽभ्यर्हणीयाय स्वजनाय यथाञ्जलिः। ततः साधुतरः कार्य्यो दुजंनाय शिवार्धिना। प्रियमेवाभिधातभ्यं सत्सु नित्यं द्विषत्सु च। देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः। शुचितास्तिक्यपूतात्मा पूजयेद्देवता सदा। देवतावद् सुरुजनमात्मवच्च सुहृज्जनम्। प्रणिपातेन हि गुरुं सतोऽमृषानुचेष्टितैः। कुर्वीताभिमुखान् भृत्यैर्देवान् सत्कृतकर्मणा। सद्भावेन हरेन्मित्रं सम्भ्रमेण च वान्धवान्। स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतरं जनम्। अनिन्दा परकृत्येषु स्वधर्मपरिपालनम्। कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः। प्राणैरप्युपकारित्वं मित्रायाव्यभिथारिणे। गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता। स्वसमृद्धिष्वनुत्सेकः परवृद्धिष्वमत्सरः। परोपतापि वचनं मौनव्रतचरिष्णुता। षन्धुभिर्लद्धसंयोगः स्वजने चतुरखता। उचितानुविधावित्वमिति वृत्तं महात्मनाम्” अग्निपु २२७ अ०।

नीतिघोष = पु० नीत्यात्मकः घोषो यस्य। वृहस्पतिरथे त्रिका०

नीतिज्ञ = त्रि० नीतिं जानाति ज्ञा–क। नीतिवेदिनि विदणिनि। नीतिवेदिन् तत्रार्थे “त्रिवर्गो नीतिवेदिनाम्”

नीतिमत् = त्रि० प्राशस्त्येन नीतिर्वेद्यत्वेनवास्त्यस्य मतुप्। प्रशस्ततीतियुक्ते “कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः” भा० आ० १७९ अ० स्त्रियां ङीष्।

नीतिशास्त्र = न० शिष्यतेऽनेन शास–त्रल् ६ त०। नीतिज्ञापके औशनससूबकामन्दकपञ्चतन्त्रनीतिसारनीतिमाला नीतिमयूखहितोपदेशचाणक्यवारसंग्रहाद्यात्मकशास्त्रे “भार्गवो नीतिशास्त्रं तु जगाद जगतोहितम्” भा० शा० २१० अ०।

नीथ = त्रि० नी–क्थन्। १ नेतरि प्रापके। करणे क्थन्। २ स्तोत्रे ३ नयनहेतौ च पु० “प्रति यत् सा नीथादर्शि” ऋ० १। १०४। ५ “नीथा नयनहेतुमूता” भा०। भावे क्थन्। ४ प्रापणे पु० “सहह्रचेताः शतनीथ ऋभुः” ऋ १। १००। १२ “शतनीथः बहुस्तुतिः बाहुप्रापणो या” भा० “नीथाविदो जरितारः” ऋ० ३। १२। ५ “नीयाविदः स्तोत्राभिज्ञाः” भा०।

नीध्र(व्र) = न० नितरां ध्रि(व्रि)यते धृ–वृ–वा मूलवि० क दीर्घः। १ बलीके पटलप्रान्ते २ वने ३ नेभौ ४ चन्द्रे ५ रेवतीनक्षत्रे हेमच०। नीव्रमिति पाठान्तरं तत्रार्थे “गृहाणि नीघ्रैरिव यत्र रेजुः” माघः।

नीनाह = पु० नि + नह–भावे घञ् दीर्घः। निबन्धे निबरां बन्धने “स्वप्नाश्च इव कक्ष्यामश्व इव नीनाहम्” अथ० १९। ५७। ४

नीप = पु० नी–प किच्च। १ कदम्बवृक्षे अमरः २ धाराकदम्बे राजनि०। ३ बन्धूकवृक्षे ४ नीलाशोकवृक्षे च मेदि० “नवनीपवनीधुवनः पवनः” सा० द० टीका। “तस्य नीपरजसाङ्गरागिणः” रघुः। ५ देशभेदे स च देशः वृह० सं० १४ अ० कूर्मबिभागे मध्यदेशतयोक्तः यथा “भद्रारिमेदमाण्डव्यसाल्वनोपोज्जिहानसंख्याताः” इत्युपक्रमे “गजाह्वयाश्चेति मध्यमिदम्” इत्युक्तम्। जनपदवाचित्वात् अगिजने राजनि० च अण्। नैव तद्देशवासिनि तन्नृपे च बहुषु अणो लुक्। “शतं भत्स्या नृपतयः शतं नीपाः शतं हयान्” भा० स० ८ अ०। निपतिता नीचैः पतिता आपो यत्र असमा० न्युपसर्गत्पिरस्याप आदेरत ईत्त्वम्। ६ गिर्य्यधोभागे पु० तत्र भवः यत्। नीप्य तत्र भवे त्रि० रुद्रभेदे पु० “नमः काट्याय च नीयाय च” यजु० १६। ३७। “नीपो गिर्यधोभाग तत्र भवः” वेददी०।

नीर = न० नी–रक् निर्गतं रादग्नेः निरा० त०। निर्गतो रोऽग्निर्यत्मात् प्रा० ब० वा। १ जले अतरः। “आपोमयः प्राणः” छा० उ० उक्तेः जलस्य प्राणाग्निहेतुत्वात् अग्नेरापः” श्रुत्या तस्य अग्नेर्जातत्वात् “अद्भ्योऽग्निः ब्रह्मणः क्षत्रमिनि” मृतेश्च वज्राद्यग्नेजेलजात त्वेन च तस्य तथात्वम्। “निष्यन्दनीरनिकरेश कृताभिषेका” माघः। तद्गुणादि अम्बुशब्दे उक्तं दृश्यम्। पूर्वमनुक्तत्वात् सम्प्रति कश्चिद्गिशेषोऽत्रोव्यते वृहस्पतिः “भूमिस्थमुदकं मेध्यं यच्च गोर्वितषीभयेत्। अव्याप्तं चेदमध्येन तद्वदेव शिलागतम्। शिलागतमिति शिला नीहारस्तद्गतमित्यर्थः। उशनाः “नद्यः कूपं तडागानि सरांसि सरितस्तथा। असंहतान्यदीप्राणि मनुः स्वायम्भुवोऽब्रवीत्”। देवलः “अपि गन्धरसोपेता निर्मलाः पृथिवीगताः। अक्षीणाश्चैव गोपानादापः शुद्धिकराः स्मृताः। उद्धृतास्तु प्रशस्ताः स्यु शुद्धैः पात्रैर्यथाविधि। एकरात्रोषितास्तास्तु त्यजेदपः समुद्धृताः” इति। सर्वबाम्ना प्रक्रान्तगोतृप्ति मात्रपर्य्याप्ता अल्पा एवेत्यर्थात् परामृश्यन्ते अतो बहुकालात् तडागादेरुद्धृतानां रात्र्युषितानां च न दोषः। तडागोद्धृता अप्यापः रात्यनुषितोदकान्तरसम्भवे अशुद्धा एवेति मदनषारिजाते। इदं गङ्गाव्यतिरिक्तविषयम् “त्यजेत् पर्युषितं पुष्पं त्यजेत् पर्युषितं जलम्। गङ्गातोयं च तुलसी पवित्रं सर्वदास्मृतम्” इति विशेषोक्तेः। “अक्षोभ्याणि तडायानि नदी वापीसरांसि च। चण्डालाद्यशुचिस्पर्शैस्तीर्घं तत् परिवर्जयेत्”। चण्डालाद्यवतरणमार्गभित्यर्थः। हारीतः “वापीकूपतडागेषु मानुषीम्रियते यदि। अस्थिचर्मविनिर्मुक्तैर्दूषितं च खरादिभिः। उद्धृत्य तज्जलं सर्वं शोधनं परिकल्पयेत्”। “अस्थिचर्मविनिर्मुक्तैश्चिरकालवासेन विशीर्णैरित्यर्थः। वृहस्पतिः “मृतपञ्चनस्वात् कूपादत्यन्तोपहतात्तथा। अपः समुद्धरेत् सर्वाः शेषं वस्त्रेण शोधयेत्। वह्निप्रज्वालितं कृत्वा कूपे पक्वेष्टकाचिते। पञ्चयव्यं न्यसेत्पश्चान्नवतोये समुद्भवे”। देबलः “उद्धरेदुदकं सर्वं पञ्चपिण्डान्मृदस्तथा”। अचिरकालोपघाते स्वल्पधाते च हारीतः “चटानां शतमुद्धृत्य पञ्चगव्यं क्षिपेत्ततः। श्वभिश्च काकचाण्डालैर्दूषितेषु विशोधनम्”। आपस्तम्भः “उपानत्श्ले ष्मविण्मुत्रं स्त्रीरजो मद्यमेव च। एभिर्विदूषिते कूपे कुम्भानां षष्टिमुद्धरेत्”। विष्णुः “जलाशयेष्वल्पाल्पेषु स्थावरेषु महीतले। कूपवत् कथिता शुद्धिर्महत्सु न तु दूषणमिति”। स्थाबरेषु महीतलेऽप्रवाहिन्। यमः “चाण्डालभाण्डसं स्पृष्टं प्रीत्वा कूपगतं जलम्। गोमूत्रयावकाहारस्त्रिरात्रेणैव शुध्यति”। तथा ‘नदीयेगेन शुध्यति’ कश्यपः “दृतीनां रञ्जनं शुद्धिः”। दृतिः चर्मकोशा रञ्जनं कषायद्रव्येण शोधनम्। यमः “प्रषाखरण्येस्वथ वान्धकूपे द्रोण्यां जलं कोशगता तथापः। ऋतेऽप्रि शूद्रं द्विजपेपमाहुरापद्रतः काङ्क्षितवत् पिबेत्तु”। अस्यार्थः वद्यपि शूद्रातिरिक्तविप्रादिवर्णसम्बन्धि प्रपादि तथापि तद्गतजलं धर्मार्थं दीयमानमनापदि न पेयम। आपदि पेयं यद्यरण्यगतं प्रपादिर्भवति। द्रोणिः अश्मादिमयी जलपात्री सर्वसाधारणी। कोशो दृतिः तथा “अजागावोमहिष्यश्व ब्राह्मणी च प्रसूतिका। दशरात्रेण शुद्ध्यन्ति भूमिस्थं च नवोदकम्”। योगीश्वरः “शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थ महीगतम्”। प्रकृतिस्थं रूपरसगन्धस्पर्शान्तरमनापन्नं महीगतमित्यशुद्धित्वनिवृत्त्यर्थं न तु अन्तरिक्षोदकस्य शुद्धत्वव्यावृत्यर्थं नाप्युद्धृतस्य। “उद्धृताश्चेति” प्रागुक्तदेवलवचनादिति विज्ञानेश्वरः। हेमाद्रौ पराशरः “वापीकूपतडागेभ्य आपो ग्राह्यास्तु सर्वतः। पश्वात्पश्येदमेध्यन्तु पञ्चगव्येन शुध्यति। अस्थिचर्मावसिक्तेन मार्जारैश्च समूषिकैः। दूषितं तद्भवेत्तोयं यचाधस्तात् सुशोधनम्। अस्थिचर्मावपतितं स्वरवानरसूकरैः। उद्धरेदुदकं सर्वं शोधनं परिमार्जनम्”। इदं चिरकालविषयमित्युक्तमेव। यमः “वापीकूपतडागेषु दूषितेषु कथञ्चन। उद्धृत्य शतकुम्भांश्च पञ्चगव्येन शुढ्यति। खनिकूपतडागेषु पुन्दिग्येषु विशेषतः। अथोदूत्थ पञ्चशतं पञ्चगव्येन शुद्ध्यति। वादकोपानह विण्मूत्रं कूपे यदि निमज्जति। अष्टिकुम्भान् समुद्धृत्य पञ्चगव्येन शुद्ध्यति”। मात्स्येऽपि “दूषितं च शवैः क्लिन्नं यच्च विष्ठानुलेपितम्। अद्रिः शुध्यति तत्सर्वमपां शुद्धिः कथं भवेद्। गवां सूत्रपूरीषेण सोमसूर्य्याग्निरश्मिभिः। मारुतस्य च वेगेन त्वापः शुद्धिमवाप्नुयुरिति” स्मृत्यर्थसारेऽपि “वापीकूपतडागेष्यल्पजलेषु श्वमार्जारादिशवक्लिन्ने जीर्णरोधसि तज्जलं सर्वं निःसार्य्य मृत्तिकां परितक्ष्योद्धृत्य पञ्चगव्यप्रोक्षणात् शुद्धिः। पाषाणैरिष्टकाभिर्वा बद्धे तक्षणस्थाने दहनम्। मृदा वद्धे प्रक्षालनमेव बहुजले तु तस्मिन् षष्टिकुम्भीद्धारः। मूषकादिक्षुद्रप्राणिघाते त्रिंशत्ङ्कल्भोद्धारो गोमूत्रादिप्रक्षेपश्च। जले जलप्राणिशवोपथाते न दोषः। वापीकूपादिजले नरण्वे स्थितेऽप्लोपघाते घटशतमुद्वृत्य पञ्चगव्यप्रक्षेपात् शुद्धिः। पशुशवपा तेऽप्येषैव शुद्धिः कार्य्या। तत्र जलेन मरणे जलस्य त्रिरात्रमाशौचम्। अशौचान्ते पूर्वोक्ता शुद्धिः कार्य्या। वापीकूपजले उपानच्श्लेष्मविणमूत्ररक्तवसामज्जास्थि- मांसदूषिते षष्टिकुम्भानुद्धृत्य पञ्चगव्येन शुद्धिः। जल बाहुल्ये शतकुम्भोद्धारात् पञ्चगव्यप्रोक्षणाच्च शुद्धिः। कूपादिषु दूषितेषु दिवा सूर्य्यरश्मिवायुस्पर्शनात् शुद्धिः। रात्रौ वायुचन्द्रनक्षत्ररश्मिस्पर्शनात् शुद्धिः। सन्ध्यायां वायुस्पर्शनात् शुद्धिः। नद्यादौ अन्त्यजादिभिर्दूषिते तत्स्वीकृतजलस्थानादन्यत्र जलं शुद्धमेवेति। एवं स्वबुध्या शुद्धिर्विवेचनीया” विधा० पा०।

अथ प्रसङ्गादुपहतजलपाने प्रायश्चित्तममिधीयते। तत्र विष्णुः “मृतपञ्चनखात् कूपादत्यन्तोपहताद्वोदकं पीत्वा ब्राह्मणस्त्र्यहमुपवसेद् द्व्यहं राजन्य एकाहं वैश्यः शुद्री नक्तं सर्वे तेऽन्ते पञ्चगव्यं पिबेयुरिति”। अत्यन्तोपहतात् मूत्रपूरीषादिभिः। इदमकामविषयं कामतो मानुष शवोपहतकूपादिजलपाने हारीतः “क्लिन्नं भिन्ने शवे तोयं तत्रस्थं यदि तत् पिबेत्। शुद्ध्ये चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा”। अशक्तौ तप्तकृच्छ्रमिति धर्म प्रदीपः। “यदि कश्चित्ततः स्नायात् प्रमादेन द्विजोत्तमः। जपंस्त्रिषवणस्नार्य अहोरात्रेण शुद्ध्यति”। अकामतो देवलोक्तम् “क्लिन्नं मिन्नं शवं चैव कूपस्थं यदि दृश्यते। पयः पिबेत् त्रिरात्रेण मानुषे द्विगुण स्मृतम्”। अङ्गिराः “कूपे विण्मूत्रससृष्टे पीत्वा तोये द्विजोत्तमः। त्रिरात्रेण विशुध्येत कृच्छ्रं सान्तपनं स्मृतम्”। ज्ञानेतु लघु विष्णुः “अपो मूत्रपूरीषाद्यैर्दूषिताः प्राशयेद्यदा। तदा सान्तपनं कृच्छ्रं व्रतं कार्य्यं विशुद्धये”। चाण्डालकूपादि जलपाने आपस्तम्बः “चाण्डालकूपभाण्डस्थं नरः कामात् जलं पिवेत्। प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत्। चरेत् सान्तपनं विप्रः प्राजापत्यं तु भूमिपः। तदर्द्धं तु चरेत् वैश्यः शूद्रे पादं विनिर्दिशेत्। तथा “म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां ह्रदेऽपि वा। जानुदग्धंशुचि ज्ञेयमधस्तादशुचि स्मृतम्। तत्तोयं यः पिवेद् विप्रः कामतोऽकामतोऽपि वा। अकामान्नक्तभोजी स्यादहोरात्रं तु कामतः”। अत्रैवाभ्यासे प्राजापत्यम् “अन्त्यजैः खानिताः कूपाः तडागं वाप्य एव वा। तेषु स्नात्वा च पीत्वा च प्राजापत्येन शुद्ध्यति” इत्यापस्तम्बस्मरणात्। इदमनापद्विषयम्। यत्तु “अन्त्यजैः खानिताः कूपा तडागादि तथैव च। तेषु स्नात्वा च पीत्वा च पञ्चगव्येन शुद्ध्यति”। तदशक्तावज्ञाने वा आपदि तु शातातपः “अन्त्यैरपि कृते कूपे सेतौ वाप्यादिके कृते। तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते”। इदमत्थन्तापद्विषयमिति शूल पाणिः। “ब्राह्मणक्षत्रियो वैश्यः शूद्रश्चैवान्थजातयः। एभिर्य्ये कारिताः कूपाः स्नानं तेषु तु कारयेत्”। अन्यजातयो मूर्द्ध्वावसिक्ताद्या अनुलोमाः। अन्यखानितचण्डालपरिगृहीतकूपादिजलपानेऽङ्गिराः “चाण्डालपरिगृहीतं योह्यज्ञानादुदकं पिवेत्। तस्य शुद्धिं विजानीयात् प्राजापत्येन नित्यशः”। एतदभ्यासे यत्त्वापस्तम्बेन पञ्चगव्यप्राशनमात्रमुक्तम् “प्रपास्वरण्ये घटके च सौरे द्रोण्यां जलं कोशविनिःसृतं च। श्वपाक चाण्डालपरिग्रहेषु पीत्वा जलं षञ्चगव्येन शुद्ध्येदिति” तदशक्तविषयमापद्विषयं वा” विधा० पा०।

अथ प्रसङ्गात्तडागादिविक्रयप्रायश्चित्तम्। तत्र “देवगृहप्रतिश्रयोद्यानारामसभाप्रपातडागपुण्यसेतुसुतविक्रथं कृत्वा तप्तकृच्छ्रं समाचरेदिति” शङ्खवचनमकामतद्विषयम्। यत्तु पैठिनस्युक्तम् “आरामतडागोद्यानपुष्करिणीसुते विक्रीते त्रिषवणस्नाय्यधःशायी चतुर्थकालमश्नीयात्” तदमुत्सृष्टविषयम् उत्सृष्टस्य तु सर्वसत्वोद्देशेन त्यक्तत्वात् तत्साधारण्येन सत्वाभावाद्विक्रयासम्भवात्। सर्वानुमतेश्च कर्त्तुमशक्यत्वात् साधारणस्वामिकवस्तुन इवेति दिक्” विधा० पा०। “तिलकल्कं जलं क्षीरं दधि क्षौद्रं घृतानि च। न त्यजेदर्द्धजम्यानि” विधा० पा० धृतवाक्यम्। वर्ज्यजलमुक्तं हेमाद्रौ ब्रह्माण्डे “दुर्गन्धि फेनिलं क्षीरं पङ्किलं पल्वलोदकम्। न भवेद् यत्र गोतृप्तिर्नक्तं यच्चाप्युपाहृतम्। यन्न सर्वार्थमुत्सृष्ट यच्चाभोज्यनिपानजम्। तद्वर्ज्यं सलिल तात! सदैव श्राद्धकर्मणि। निपानं जलाशयः। शुद्धितत्त्वे शङ्खः “स्नानमाचमनं दानं देवतापितृतर्पणम्। शूद्रोदकैर्न कुर्वीत तथा मेघाद्विनिःसृतैः” हेमाद्रावादित्यपुराणे “चिरं पर्युषितं वापि शूद्रस्पृष्टमथापि वा। जाह्नव्याः स्नानदानादौ पुनात्येव सदा पयः”। कात्यायनः “अपो निशि न गृह्णीयान्न पिवेच्च कदाचन। उद्धृत्याग्निमुपर्यग्नेर्धाम्रो धाम्न इतीरयेत्”। रजोदोषे तु प्रामुक्तम् नारदीये “त्यजेत् पर्युषितं पुष्पं त्यजेत् पर्युषितं जलम्। न त्यजेत् जाह्नवीतोयं तुलसी विल्वपद्मकम्” नि० सि०। “पानीयं पायसं सर्पिर्दधि क्षीरं घृतानि च। निरश्यं शेषमेतेषां न प्रदेयन्तु कस्यचित्” आह्नि० त० महाभारतम् जलप्रानप्रकारः विधानपारिजाते उक्तो यथा “जलपात्रं तु निःक्षिप्य मणिबन्धे च दक्षिणे। विप्रो भोजनकाले तु पिबेद्वामेन पाणिना” अन्यकाले तु “धारया नोदकं पेयं पीत्वा दोषमवाप्नुयात्। जलपात्रेण तत् पेयमितिं शातातपोऽव्रवीदिति”। आ० त० विशेष डक्तो यथा “करेण च पिवेत्तोयं यावन्मांसं न लेपयेत्। मांसलिप्तवारे तोयं सद्यो गोमांसभक्षणम्” ब्रह्माण्ये मांसलिप्तकरेण जलपाननिषेधयात् मांसलिप्तकरेण अपोशानं न कर्त्तव्यम्” रघु० षट्त्रिंशन्मतम् “पिबतो यत् पतेत् तोयं भोजने सुखनिःसृतम्। अभक्ष्यं तत् भवेदक्षं भुक्त्वा चान्द्रायणं चरेत्। वामपार्श्वे स्थिते तोये यो भुङ्क्ते ज्ञानदुर्बलः। तोयं पिवति वक्त्रेण श्वाऽसौ भवति नान्यथा। ग्रासे ग्रासे मलं भुक्त्रा पानीयं रुधिरं पिवेत्। विद्यमाते तु हस्ते तु ब्राह्मणो ज्ञानदुर्बलः। उद्धृत्य वागहंस्तेन यत्तोयं पिवति द्विजः। सुरापानेन तुल्यं तदित्युवाच प्रजापतिः”। “वामहस्तेन केवलवामहस्तेनेति” रघु०। “अदुष्टा सन्तताघारेति” तु शुद्ध्यर्थं न तु पेयतार्थम् “अभिययुःसरसोमधुसम्मृतां कमलिनीमलिनीरपतत्त्रिणः” माघः

नीरज = न० नीरे जायते जन–ड। १ पद्मे २ कुष्ठोषधौ मेदि०। ३ मुक्ताफले राजनि०। ४ उद्राख्ये जन्तौ (उद्बिडाल) पुंस्त्री स्त्रियां जातित्वात् ङीष्। ५ उशीरिणि च राजनि०। ६ जलजातमात्रे त्रि० “नीतं जन्म नवीननीरजवने पीतं मधुस्वेच्छया” भ्रमराष्टकम् निर्गयं रजात् प्रा० ब० रलोपदीर्घौ “सर्वे सान्ताः अदन्ताःस्थुः” इत्युक्तेः रजशब्दोऽपि रजःसमानार्थकः। ७ रजोगुणकार्यरागशून्ये ८ महादेवे पु०। “उद्भित् त्रिविक्रमो वैस्रो विरजो नीरजोऽमरः” भा० अ० १७ अ०।

नीरजस् = त्रि० निर्गतं रजो घूलिः परागः स्त्रीरजः रजो गुणो वा यस्य प्रा० ब० वा कप् रलोपे दीर्घः। १ निर्धूलिदेशे “नीरजीकारितक्ष्माम्” भट्टिः अभूततद्भावे च्वौस्लोपः। “स्वोत्तरीयैरकुर्वन्तनीरजस्कं महीतलम्” ८ अ०। २ परागशून्ये ३ पुष्पादौ रजोगुणकार्यरागादिशून्ये “नीरजस्तमता सत्वशुद्धिर्निस्पृहताशयः” याज्ञ० “नीरजस्के सदानन्दे पदे चाहं निवेशितः” प्रबोध०। “वेदशैलावतीर्णेन नीरजस्का महीकृता” मार्क० पु० १ अ०। ४ गतार्त्तवायां स्त्रियां स्त्री।

नीरजात = त्रि० नीरात् जायते जन–ड ५ त०। १ जलजातमात्रे अन्नादौ “दृष्टेरन्नं ततः प्रजाः” गीतायाम् “अद्भ्योऽ- न्नम्” इति श्रुतौ चान्नस्य जलाज्जातत्वात् तथात्वम्। “अन्नञ्चापि प्रभवति पानीयात् कुरुसत्तम!। नीरजातेन (अन्नेन) रहितं न किञ्चित् सम्प्रवर्त्तते। नीरजातश्च भगवान् सोमो ग्रहगणेश्वरः। अमृतं च सुधा चैव सुधा चैवामृतं तथा। अन्नौषधध्यो महाराज! वीरुधश्च जलोद्भवाः” भा० अनु० ६७ अ०। २ कमलादौ न०।

नीरद = पु० नीरं ददाति–दा–क। १ मेघे २ मुस्तके च राजनि० “धूपायतीव पटलैर्नवनीरदानाम्” माघः “नवीननीरद श्यामं रामं राजीवलोचनम्” रामकवचम्। “आस्वाद्य निरवशेषं विरहिवधूनां मृदूनि मांसानि। करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनीति” ऋतुसं०।

नीरधि = पु० नीराणि धीयन्तेऽत्र धा–कि उप० स०। समुद्रे शब्दा० नीरनिधिरप्यत्र। “पारे जलं नीरनिधेरपश्यत्” माघः।

नीरन्ध्र = त्रि० निर्गतं रन्ध्रं छिद्रमस्य प्रा० ब० रलोपे दीर्घः। छिद्रशून्ये “नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः” सा० द०। “नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्ति” माघः

नीरप्रिय = पु० नीरं प्रियमस्य प्रा० ब०। १ जलवेतसे नैघण्टुप्रकाशिका। २ जलप्रियमात्रे त्रि०।

नीरस = पु० निःसार्य्योरसी यस्य निर्गतो रसः शृङ्गारादिर्यस्माद्वा प्रा० ब० रलोपे दीर्घः। १ दाडिमे हारा० २ शृङ्गारादिरसादिशून्ये त्रि०। “अलब्धफलनीरसं मम विधाय तस्मिञ्जने समागममनोरथं भवतु पञ्चवाणः कृती” विक्रमोर्वशी।

नीराज = पु० नीरमजति अञ–अच् ष्यभावः। जलविडाले हारा०।

नीराजन(ना) = निर्–राज–भावे ल्युट् युच् वा रलोपे पूर्वाणो दीर्घः। दीपादिना प्रतिमादेरारार्त्तिके। युजन्तः स्त्री। “नीराजनां जनयतां निजबान्धवानाम्” नैष०। तत्प्रकारश्च ति० त० देवीपु० उक्तो यथा “यवप्रिष्टप्रदीपाद्यैश्चूताश्वत्थादिपल्लवैः। औषधीभिश्च मेध्याभिः सर्ववीजैर्यवादिभिः। नवम्यां पर्वकाले तु यात्राकाले विशेषतः। यः कुर्य्यात् श्रद्धया वीर! देव्या नीराजनं नरः। शङ्खभेर्य्यादिनिनदैर्जयशब्दश्च पुष्कलैः। यावतो दिवसान् वीर! देव्या नीराजनं कृतम्। तावत् कल्पसहस्राणि दुर्गालोके महीयते”। “यस्तु कुर्य्यात् प्रदीपेन सूर्थ्यलोके महीयते”। पर्वकाले उत्सवकाले। देव्या इति स्त्रीत्वमविवक्षितं विष्ण्वादिप्रतिमायां तथाचारात्” रघु०। पञ्च नीराजनानि यथा “पञ्चनीराजनं कुर्य्यात् प्रथमं दीपमालया। द्वितीयं सोदकाब्जेन तृतीयं धौतवाससा। चूताश्वत्थादिपत्रैश्च चतुर्थं परिकीर्तितम्। पञ्चमं प्रणिपातेन साष्टाङ्गेन यथाविधि” कालोत्तरतन्त्रम्। तस्य वर्त्तिकादिप्रमाणं यथा “कुङ्कुमागुरुकर्पूरघृतचन्दननिर्मिताः। वर्त्तिकाः सप्त वा पञ्च कृत्वा वन्दापनीयकम्। कुर्य्यात् सप्तप्रदीपेन शङ्खघण्टादिवाद्यकैः। हरेः पञ्चप्रदीपेन बहुशो भक्तितत्षरः” पद्मीत्तरखण्डे १०७ अ०। राज्ञां। २ शान्तिभेदे तद्विधानादि अग्निपु० २६७ अ० यथा “नीराजनविधिं वक्ष्ये ऐशान्यां मन्दिरे चरेत्। तोरणत्रितयं तत्र गृहे देवान् यजेत् सदा। चित्रां त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते। ततः प्रभृति कर्त्तव्यं यावत् स्वातौ रविः स्थितः। ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ। विनायकः कुमारश्च वरुणी धनदो यमः। विश्वे देवा वैश्रवणो गजाश्चाष्टौ च तान् यजेत्। कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः। सुप्रतीकोऽञ्जनो नीलः पूजा कार्य्या गृहादिके। पुरोधा जुहुयादग्नौ समित्सिद्धार्थकं तिलाः। कुम्भा अष्टौ पूजिताश्च तैः स्नाप्याश्च गजोत्तमाः। अश्वाः स्वाप्याः ददेत् पिण्डान् ततो हि प्रथमं नजान्। निष्कामयेत्तोरणैस्तु गोपुरादि न लङ्घयेत्। विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत्। वारुणे वरुणं प्रार्च्य रात्रौ भूतवलिं ददेत्। विशाखायां गते सूर्य्ये आश्रमे निवसेन्नृपः। अलङ्कुर्य्यात् दिने तस्मिन् वाहनन्तु विशेषतः। पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः। हस्तिनं तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम्। ध्वजं पताकां धर्मज्ञः कालज्ञस्त्वभिमन्त्रयेत्। अभिमन्त्र्य ततः सर्वान् कुर्य्यात् कुञ्जरधूर्गतान्। कुञ्जरोपरिगौ स्यातां सांवत्सर पुरोहितौ। मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत्। निष्कम्य नागमारुह्य तोरणेनाथ निर्गमेत्। बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः। उल्मूकानान्दु निचयमादीपितदिगन्तरम्। राजा प्रदक्षिणं कुर्य्यात्त्रीन् वारान् सुसमाहितः। चतुरङ्गवलोपेतः सर्वसैन्येन नादयन्। एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः। शान्तिर्न्नीराजनाख्येयं वृद्धये रिपुमर्दनी”। अन्योऽपि हेमाद्रिव्रतखण्डे विष्णुधर्मोत्तरोक्तो दृश्यः। “भगवति जलधरपक्ष्मक्षपाकरार्केक्षणे कमलनाभे। उन्मीलयति तुरङ्गमकरिनरनीराजनं कुर्य्यात्। द्वादश्यामष्टम्यां कार्त्तिकशुक्लस्य पञ्चदश्यां वा। आश्वयुजे वा कुर्य्यान्नीराजनसञ्ज्ञितां शान्तिम्। नगरोत्तरपूर्वादि प्रशस्तभूमौ प्रशस्तदारुमयम्। षोडशहस्तोच्छ्रायं दशविपुलं तोरणं कार्य्यम्। सर्जोदुम्बरशाखाककुभवयं शान्तिसद्म कुशबहुलम्। यंशविनिर्मितमत्स्यध्वजचक्रालङ्कृतद्वारम्। प्रतिसरणे तुरगाणां भल्लातकशालिकुष्ठसिद्धार्थान्। कण्ठेषु निगध्नीयात् पुष्ट्यर्थं शान्तिगृहगानाम्। रविवरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैर्मन्त्रैः। सप्ताहं शान्तिगृहे कुर्य्याच्छान्तिं तुरङ्गाणाम्। अभ्यर्चिता न परुषं वक्तव्या नापि ताडनीयास्ते। पुण्याहशङ्खतूर्य्यध्वनिगीतरवैर्विमुक्तमयाः। प्राप्तेऽष्टमेऽह्नि कर्य्यादुदङ्मुखं तोरणस्य दक्षिणतः। कुशचीरावृतमाश्रममग्निं पुरतोऽस्य वेद्यां च। चन्दनकुष्ठसमङ्गाहरितालमनःशिलाप्रियङ्गुवचाः। दन्त्यमृताञ्जनरजनीसुवर्णपुष्पाग्निमन्थाश्च। श्वेतामपूर्णकोशां कटम्भरात्रायमाणसहदेवीः। नागकुसुममात्मगुप्तां शतावरीं सोमराजीं च। कलशेष्वेतान् कृत्वा सम्भारानुपहरेद्बलिं सम्यक्। भक्ष्यैर्नानाकारैर्मधुपायसयावकप्रचुरैः। खदिरपलाशोदुम्बरकाश्मर्यश्वत्थनिर्मिताः समिधः। स्रुक्कनकाद्रजताद्वा कर्त्तव्या भूतिकामेन। पूर्वाभिमुखः श्रीमान् वैयाघ्रे चर्मणि स्थितो राजा। तिष्ठेदनलसमीपे तुरनभिषग्दैववित्सहितः। यात्रायां यदभिहितं ग्रहयज्ञविधौ महेन्द्रकेतौ च। वेदीपुरोहितानललक्षणमस्तिंस्तदवधार्यम्। लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितं स्नातम्। अहतसिताम्बरगन्धस्रग्धूपाभ्यर्चितं कृत्वा। आश्रमतोरणमूलं समुपनयेत्मान्त्वयञ्छनैर्वाचा। वादित्रशङ्खपुण्याहनिःस्वनापूरितदिगन्तम्। यद्यानीतस्तिष्ठेद् दक्षिणचरणं हयः समुत्क्षिप्य। स जयति तदा नरेन्द्र शत्रूनचिराद्विना यत्नात्। त्रस्यन्नेष्टो राज्ञः परिशेषं चेष्टितं द्विपहयानाम्। यात्रायां व्याख्यातं तदिह विचिन्त्यं यथायुक्ति। पिण्डममिनन्त्र्य दद्यात् पुरोहितो वाजिने स यदि जिघ्रेत्। अश्नीयाद्वा जयकृद्विपरीतोऽतोऽन्यथाऽभिहितः। कलशोदकेषु शाखामाप्लाव्यौदुम्बरीं स्पृशेत्तुरनान्। शान्तिकपौष्टिकमन्त्रैरेवं सेनां सनृपनागाम्। शान्तिं राष्ट्रविवृद्ध्यै कृत्वा भूयोऽभिचारकैर्मन्त्रैः। मृण्मयमरिं विभिन्द्याच्छूलेनोरःस्थले विप्रः। खलिनं हयाय दद्यादभिमन्त्र्य पुरोहितस्ततो राजा। आरुह्योदक्पूर्वां यायान्नीराजतः मबलः। मृदङ्गशङ्खध्वनिहृष्टकुञ्जरस्रवन्मदामोद- सुगन्धिमारुतः। शिरोपणिव्रातचलत्प्रभाचयैर्ज्वलन् विवस्रानिव तोयदात्यये। हंसपङ्क्तिभिरितस्ततोऽद्रिराट् सम्पतद्भिरिव शुक्लचामरैः। मृष्टगन्धपवनानुवाहिभिर्धूयमानरुचिरस्रगम्बरः। नैकवर्णमणिवज्रभूषितैर्भूषितो मुकुटकुण्डलाङ्गदैः। भूरिरत्नकिरणौघरञ्जितः शक्रकार्मुकरुचं समुद्वहन्। उत्पतद्भिरिव खं तुरङ्गमैर्दारयद्भिरिव दन्तिभिर्धराम्। निर्जितारिभिरिवामरैर्नरैः शक्रवत्परिवृतो व्रजेन्नृपः। सवजृमुक्ताफलभूषणोऽथ वा सितम्रगुष्णीषबिलेपनाम्बरः। धृतातपत्रो गजपृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः। सम्प्रसृष्टनरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम्। निर्विकारमरिपक्षगीषणं यस्य सैन्यमचिरात्स गां जयेत्!” वृ० सं० ४४ अ०। “स्नाने धूपे च नैवेद्ये दीपे वस्त्रे च भूषणे। घण्टानादं प्रकुर्वीत तथा नीराजनेऽपि च” विधानपाजातधृतवाक्यम्।

नीरिन्दु = पु० नि + ईर–क्विप् तथाविधः सन् इन्दति इन्द– उन्। अश्वशाखोटके वृक्ष (आसशेहोडा) शब्दच०।

नीरुच् = त्रि० निश्चितं रोचते निर् + रुच–क्विप् रलोपे दीर्घः। नितान्तदीप्तिशीले।

नीरुज् = अब्य० रुजोऽभावः अभावे अव्ययी० रलोपदीर्घौ। १ रोगाभावे। २ निर्गता रुग प्रा० त०। आरोग्ये। निर्गता रुग् रोगो यस्य प्रा० ब०। ३ रोगशून्ये त्रि० “स्निग्धो मृदुः पाण्डुरनिष्टगन्धोमेदःकृतो नीरुगथातिकण्डूः” सुश्रुतः। ततः भावे घञ्। नैरुज्य रोगाभावे स्वास्थ्ये न०

नीरुज = त्रि० निर्गता रुजा रोगो यस्य यस्मात् वा प्रा० ब० रलोपदोर्घौः। १ रोगरहिते “पूतात्मा नीरुजः श्रीमांस्तस्माद्रोगाद्विमुक्तवान्” साम्बपु० २ कुष्ठोषधौ जटा० रोगभेदे (अजगल्लिकारोगे) स्त्री “स्निग्धा सपर्णा ग्रथिता नीरुजा मुद्गसन्निर्भा” सुश्रुतः।

नीरूप = त्रि० निर्गतं रूपमस्य प्रा० ब०। रूपहीने “नीरूप० स्यापि कालस्य षडिन्द्रियवेद्यत्वाभ्युपगमेन” वेदा० परि०।

नील = पु० नील–अच। स्वनामख्याते वर्णे १ श्यामवर्णे २ तद्वति त्रि० अमरः। ३ पर्वतभेदे ४ वानरभेदे च मेदि०। ५ नील्योषधौ ६ निधिभेदे ७ लाञ्छने च पु० हेमच०। ८ मङ्कलघोषे त्रिका० ९ वटवृक्षे राजनि०। नीलपर्वतश्च रम्यकवर्षस्य सीमापर्वतः यथोक्तं भाग० ५१६९ श्लो० “उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयोरम्यकहिरण्मयकुरूणां वर्माणां मर्य्यादागिरयः प्रा- गायता उभयतः क्षारोदाबधयोद्विसाहस्रवृथव एकैकशः पूर्वस्मात् पूर्वस्मादुत्तरोत्तरेण दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति”। भारतवर्षदक्षिणस्थे स्वनामख्याते १० गिरौ च ११ इन्द्रनीलमणौ शनितुष्ट्यर्थं धार्ये देये च मणिभेदे। तस्योत्पत्त्यादिपरीक्षा गरुडपु० उक्ता यथा “तत्रैव सिंहलवधूकरपल्लवाग्रव्यालूनबाललवनीकुसुम प्रवाले। देशे पपात दितिजस्य नितान्तकान्तं प्रोत्फुल्ल नीरजसमद्युति नेत्रयुग्मम्। तत्प्रत्ययादुभयशोभन वीचीभासा विस्तारिणी ऊलनिधेरुपकच्छभूमिः। प्रोद्भिन्नकेतकवनप्रतिबद्धलेखा सान्द्रेन्द्रनीलमणिरत्नवती विभाति। तत्रासिताब्जहलभृद्वसनासिभृङ्गशार्ङ्गायुधाभहरकण्ठकलायपुष्पैः। शुक्लेतरैश्च कुसुमैर्गिरि कर्णिकायास्तस्मिन् भवन्ति मणयः सदृशावभामः। अन्ये प्रसन्नपयसः पयसां निधातुरम्बुत्विषः शिखिगल प्रतिमास्तथान्ये। नीलीरसप्रभवबुद्वुदभाश्च केचित् केचित्तथा समदकोकिलकण्ठभासः। एकप्रकारा विस्पष्ट तर्णशोभावभासिनः। जायन्ते मणयस्तस्मिन्निन्द्रनीला महागुणाः। मृत्पाषाणशिलावज्रकर्कराभाससंयुताः। अव्भ्रिकापटलच्छाया वर्णदोषैश्च दूषिताः। तत एव हि जायन्ते मणयस्तत्र भूरयः। शास्त्रसम्बोधित धियस्तान् प्रशंसन्ति सूरयः। धार्यमाणस्य ये दृष्टाः पद्मरागमणेर्गुणाः। धारणादिन्द्रनीलस्य तानेवाप्नोति मानवः। यथा च पद्मरागाणां जातु कर्तृभयं भवेत्। इन्द्रनीलेष्वपि तथा द्रष्टव्यमविशेषतः। परीक्षाप्रत्ययैर्यौश्च पद्मरागः परीक्ष्यते। तएव प्रत्यया दृष्टा इन्द्रनीलमणेरपि। यावन्तञ्च क्रमेदग्निं पद्मरागः प्रयोगतः। इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम्। तथापि न परीक्षार्थं गुणानामतिवृद्धये। मणिरग्नौ समाधेयः कथञ्चिदपि कश्चन। मग्निमात्राऽपरिज्ञाने दाहदोषैश्च दूषितः। सोऽनर्थाय भवेद्भर्तुः कर्तुः कारयितुस्तथा। श्यामोत्पलकरवीरस्फटिकाद्या इह बुधैः सवैदूर्य्याः। कथिता विजातय इमे सदृशा मणिनेन्द्रनीलेन। गुरुभावकठिनभानाश्चैतेषां नित्यमेव विज्ञेयाः। काचाद्यायावदुत्तरविवर्द्धमाना विशेषेण। इन्द्रनीलो यदा कश्चित् विभर्त्ति ताम्रवर्णताम्। रक्षणीयौ तथा ताम्रौ करवीरोत्पलाबुभौ। यस्य मध्यगता भाति नीलस्येन्द्रायुधप्रभा। तदिन्द्रनीलमित्याहुर्महार्धं भुवि दुर्लभम्। यस्तु वर्णस्य भूयस्वात् क्षीरे शत गुणे स्थितः। नीलतां तन्नयेत् सर्वं महानीलः स उच्यते। यत् पद्मरागस्य महागुणस्य मूल्यं भवेन्माष समुन्मितस्य। तदिन्द्रनीलस्य महागुणस्य सवर्णसंख्यातुलितस्य मूल्यम्” १२ नागभेदे पु० “नीलानीलौ तथा नागौ कल्माषशवलौ तथा” भा० आ० ३५ अ०। क्रोधवशगणांशजाते द्वापरयुगीये १३ नृपभेदे “गणः क्रोधवशो नाम यस्ते राजन्! प्रकीर्त्तितः। ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः” इत्युप्रक्रमे “क्रथोविक्षित्रः सुरथः श्रीमान् नीलश्च भूमिपः” भा० आ० ६७० उक्तम्। १४ अजमीढस्य नील्यपरनाम्न्यां नीलिन्यां जाते पुत्रभेदे “अजमीढस्य नीलिनी नाम षत्नी तस्यां नीलनंज्ञः पुत्रोऽभवत्” विष्णुपु० ४ अंशे १९ अ०। अजमीढस्य १५ पत्नीभेदे स्त्री ङीप्। “अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विता। नीली च केशिनी चैव धूमिनी च वराङ्गना” हरिवं० २२ अ० वानरभेदश्च रामसेनान्तर्गतः “नलनीलाङ्गदक्राथसुन्दद्विविदपालिता। ययौ सुमहती सेना राघवस्यार्थसिद्धये” भा० व० २८२ अ०। नील + ओषधिजातौ ङीप्। १६ नील्योषधौ स्त्री नील्या रक्तम् अन्। नील १७ नीलीरक्ते त्रि० १८ यमभेदे पु० “वैवस्वताय कालाय नीलाय परमेष्ठिने” यमतर्पणमन्त्रः। १९ कालिकाशक्तिभेदे स्त्री “नीला घना वलाका च मात्रा मुद्रा मिता च माम् कालीकवचम्। २० काचलवणे २१ तालीशपत्रे २२ विषे शब्दार्थचि०। २३ नृत्याङ्गाष्टोत्तरशतकरणान्तर्गतकरणे संगीतदा०। नीलवस्त्रधारणादिनिषेधः मिताक्षरायाम् यथा

“नीलीरक्तं यदा वस्त्रं व्राह्मणोऽङ्रेषु धारयेत्। अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति” “रोमकूपे यदा गच्छेद्रसो नील्यास्तु कस्यचित्। त्रिवर्णेषु च सामान्यन्तप्तकृच्छ्रं विशोधनम्। पालनं विक्रयश्चैव तद्वृत्त्या चोपजीवनम्। पातनञ्च भवेद्विप्रे त्रिभिः कृच्छ्रैर्व्यपोहति। नीलीदारु यदा भिन्द्याद्ब्राह्मणस्य शरीरतः। शोणितं दृश्यते यत्र द्विजश्चान्द्रायणञ्चरेत्। स्त्रीणां क्रीडार्थसम्भोने शयनीये न दुप्त्यति” स्मृतिः भृगुणाप्युक्तम् “स्त्रीक्रीडाशयने नीली ब्राह्मणस्य न दुष्यति। नृपस्य वृद्धौ वैश्यस्य पर्ववर्जं विघारणम्” तथा वस्त्रविशेषकृतश्च प्रतिप्रसवः “कम्बले प्रदृसूत्रे च नीलीरागो न दुष्यति” इति स्मरणात्। “नीलीरक्तं यदा वस्त्र विप्रः स्वाङ्गेषु धारयेत्। तन्तुसन्त तिसंख्याके वसेत् स नरके ध्रुवम्”। स्कान्दे काशीखण्डे “नीलीरक्तं तु यद्वस्त्रं दूरतस्तद्विवर्जयेत्। स्त्रीणां क्रीडार्थसंयोगे शयनीये ग दुष्यति। मृते भर्त्तरि या नारी नीलीवस्त्रं तु घारयेत्। भर्त्ताग्रे नरकं याति सा नारी तदनन्तरम्। कम्बले पट्टसूत्रे च नीलीदोमो न विद्यते”। शूद्रे विशेषः “ब्राह्मणस्य सितं वस्त्रं नृपते रक्तमुल्वणम्। पीतं वैश्यस्य शूद्रस्य नीलं मलवदिष्यते। नीलं मलवत् कृष्णमिति” विथा० पा० कतिचित् नीलवस्तूनि कविकल्पलतायां दर्शितानि यथा “शुकः शैवालं दूर्वा बालतृणं बुधग्रहः वंशाङ्कुरः मरकत इन्द्रनीलमणिः। २४ मात्रावृत्तभेदे न० “तालपयोधरनायकतोमरयज्रधरम् पाणियुतञ्च विधाय भामिनी वृत्तवरम्। नीलमिदम् फणिनायकपिङ्गलसंलपितम् पण्डितमण्डलिकासुखदं सखि! कर्णगतम्” “परिशीलय नीलनिचोलम्” गीतगो०। “शुक्राङ्गनीलोपलनिर्मितानाम्” माघः “कण्ठप्रभासङ्गविशेषनीलां कृष्णखचं ग्रन्थिमतीं दधानम्” कुमा०। नीलश्यामलकालानामीषद्भेदात् एकपर्य्यायता अमरे पर्य्यायतया तेषामुक्तेः। २५ दिग्गजभेदे नीराजनशब्दे दृश्यम्।

नीलक = न० नील + खार्थे संज्ञायां कन् वा। १ काचलवणं २ वर्त्तलोहे ३ असनवृक्षे राजनि०। नीलेन वर्णेच कायति कै–क। ४ भ्रमरे कीटभेदे पु०। “यथा मधुकरीं ध्यायन् नीलकस्तन्मयो भवेत्” वृह० सं० ७५ अ० पाठान्तरम्। वीजगणितोक्ते ५ अव्यक्तराशिसंज्ञाभेदे पु० “यावत्तावत् कालको नीलकोऽन्योवर्णः पीतो लोहितश्चैवमाद्याः” वीजग०

नीलकण्ठ = पुंस्त्री नीलः कण्ठो थस्य। १ मशूरे अकरः। २ दात्यूहे कालकण्ठे ३ ग्रामचटके ५ खञ्जने च हेमच० स्त्रियां सर्वत्र ङीष्। ५ पीतसारे पु० हेमच० विभेण कालकण्ठे ६ शिवे पु० अमरः। “स्कन्धाधिरूढोजज्वल नीलकण्टानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः” “अवाप बाल्योचितनीलकण्ठ!” माघः “क्व नीलकण्ठ! व्रजसीत्य अलख्यवाक्” कुमा०। ७ मूलके न० राजनि० ८ राक्षसभेदे पु० “घण्टाजालावसक्तास्तु नीलकण्ठा विभीषणाः” भा० सौ० ८ अ० नानाराक्षसोक्तौ शिवस्य नीलकण्ठनामनिर्वचनम् हरिवं० १३३ अ० अन्यथोक्तं यथा “दत्तः प्रहारः कुलिशेन पूर्व तवेशान! सुरराज्ञाऽतिवीर्य्य। कण्ठे नैल्यं तेन ते यत् प्रवृत्तं तस्मात् ख्यातस्त्वं नीलकण्ठेति कल्यः” २२२ अ०। अन्यथापि तस्य तथात्वमुक्तम् “ततः प्रसभमाप्लुत्य रुद्रं विष्णुः सनातनः। जग्राह कण्ठे भगवान्नीलकण्ठस्ततोऽभवत्”। भागवते ५८ अ० “तद्विषं जग्धुमारेभे प्रभावज्ञानुमोदतः। ततः करत्वलीकृत्य व्यापि हालाहलं विषम्। अभक्षयन् महादेवः कृपया भूतभावनः। तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः। यच्चकार गले नीलं तच्च साधोर्विभूषणम्। नीलग्रीवादयोऽप्युक्तार्थे “नीलग्रीव! शुभग्रीव! सर्वकालफलप्रद”। “असौ यो अवसर्पति नीनग्रीवो विलोहितः” यजु० १६। ७ रुद्राध्याये। खञ्जनश्च स्वनामख्यातः पक्षिभेदः खञ्जनशब्दे २४५६ पृ० दृश्यम्।

नीलकण्ठाक्ष = पु० नीलकण्ठप्रियः शिवप्रियोऽक्षो जपमाला यस्य। रुद्राक्षे राजनि०। नीलकण्ठस्य खञ्जनस्याक्षी वाक्षि यस्य षच् समा०। खञ्जनतुल्यनेत्रयुक्ते स्त्रियां षित्त्वात् ङीष्।

नीलकन्द = पु० नीलः कन्दो मूलमस्य। १ विषकन्दे २ महिषकन्दे च वृक्षे राजनि०।

नीलकमल = न० नीलं कभलम्। १ नीलपद्मे नित्यक०। २ नीलांत्पले राजनि “गणेशाय नमोनीलकमलामलकान्तये” लीला०।

नीलकुन्तला = स्त्री नीलाः कुन्तला यस्याः। दुर्गासखीभेदे “सखी रत्नमुखो नाम जगादैवं शुचिस्मिता। तां निवार्य्यापरा प्राह सखी सा नीलकुन्वलाम्” वृहद्धर्मपु०।

नीलकुरण्टक = पु० कर्म०। नीलझिण्ट्याम् रत्नमाला।

नीलकुसुमा = स्त्री नीलं कुसुमं यस्याः। नीलझिण्ट्यां राजनि०

नीलक्रान्ता = स्त्री नीलेन वर्णेन क्रान्ता। कृष्णापराजितायां राजनि०।

नीलक्रौञ्च = पुंस्त्री (को~ चवक) कालवके राजनि० स्त्रियां जातित्वात् ङीप्।

नीलगङ्गा = स्त्री नदीभेदे शिवपु०।

नीलगणेश = पु० नीलवर्णे गणक्रीडाख्ये गणेशे “कर्णिकायां चतुर्दिक्षु प्रथमं पूजयेदिमान्। गणाधिपं गणेशानं तृतीयं गणनायकम्। गणक्रीडं पीतगौररक्तनीलरुचः क्रमात्” शा० ति० १३ पटले “गणेशाय नमो नीलकमलासनकान्तये” लीला०।

नीलगिरिकर्णिका = स्त्री कर्म०। गिरिकर्णिकाभेदे राजनि०

नील(ला)ङ्गु = नि + लगि–कु उपसर्गदीर्घः धातोरपि दीर्घ इति केचित् १ कृमिजातौ भ्रमरादौ २ कुसुमे च उज्ज्वलद०। ३ देवभेदे पु० “क्षिप्रश्येनाय वर्त्तिका नीलाङ्गोः कृमिः” यजु० २४। ३०

नीलचर्म्मन् = न० कर्म०। १ नीलवर्णचर्मणि। ६ ब०। २ तथा चर्मयुक्ते त्रि०।

नीलज = न० नीलात् पर्वतात् जायते जन–ड ५ त०। १ वर्त्तलोहे राजनि० २ नीलजातमात्रे त्रि०।

नीलझिण्टी = स्त्री कर्म०। नीलवर्णझिण्ट्यां राजनि०।

नीलतन्त्र = न० चीनाचारादिप्रकाशके तन्त्रभेदे

नीलतरु = पु० नित्यकर्म०। १ नारिकेले राजनि०। २ नीलवर्णवृक्षमात्रे च।

नीलताल = पु० तलमेव तालं स्वरूपं नीलं तालमस्य। १ हिन्ताले २ तमालवृक्षे च राजनि०।

नीलदूर्वा = स्त्री कर्म०। हरिद्वर्णदूर्वायां राजनि०।

नीलद्रुम = पु० नित्यकर्म०। नीलवर्णे असनवृक्षे राजनि०।

नीलध्वज = पु० नीलवर्णो ध्वज इव। १ तालवृक्षे ६ ब०। २ नीलध्वजवति त्रि० राजनि० ३ नृपभेदे पु० “अर्जुनस्य हयो राजन् पुरीं माहिष्मतीं ययौ। नीलध्वजेन वीरेण रक्षितां दुर्गमण्डिताम्। नीलध्वजस्य महिषी ज्वालानाम्नी सुमध्यमा। स्वाहां कन्यां प्रसूतां सा सुन्दरे धर्मतत्परा” जैमिनीभारते आश्वमेधिके १५ अ०।

नीलनिर्गुण्डी = स्त्री कर्म०। नीलसिन्धुवारे राजनि०।

नीलनिर्यासक = पु० नीलवर्णो निर्यासो यस्य कप्। १ नीलवर्णेऽसनवृक्षे राजनि०। ६ ब०। २ कृष्णवर्णनिर्यासयुक्ते त्रि०।

नीलपङ्क = पु० न० नीलं पङ्क इव। अन्धकारे त्रिका०।

नीलपत्र = न० नीलं पत्रं पर्णं पुष्पदलं वा (पावडि) यस्य। १ नीलवर्णे उत्पले। २ गुण्डतृणे ३ अश्मन्तकवृक्षे ४ नीलासनवृक्षे ५ दाडिमे च राजनि० कर्म०। ६ नीलवर्णपर्णे न० ६ व०। ७ तद्वति नीलवर्णपत्रयुक्ते त्रि०। ८ इन्दीवरे शब्दच०।

नीलपद्म = न० कर्म०। नीलवर्णे पद्मे शब्दच०।

नीलपिङ्गल = त्रि० “वर्णो वर्णेन” पा० कर्म०। १ नीलवर्णयुक्ते अथ च पिङ्गलवर्णयुक्ते च २ गोजातिभेदे पुंस्त्री० “गवां जातीस्तु वक्ष्यामि शृणुष्वैकमना द्विज!। प्रथमा गौरकपिला द्वितीया गौरपिङ्गला। तृतीया रक्तकपिला चतुर्थी नीलपिङ्गला। पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु शुक्लपिङ्गला। सप्तमी चित्रपिङ्गाक्षी अष्टमी वभ्रुरोहिणी। नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला। तादृशास्त्रेऽप्यनड्वाहः कपिलास्तु प्रकीर्त्तिताः” वृहदनी पु० १५ अ०।

नीलपिच्छ = पुंस्त्री नीलं पिच्छं यस्य। श्येनखगे राजनि०। स्त्रियां जातित्वात् ङीष्।

नीलपिष्टोडी = स्त्री नीलाम्लीवृक्षे (नल्लवुलगुड) भाषाप्रसिद्धे क्षुपभेदे राजनि०।

नीलपुनर्णवा = स्त्री मर्म०। कृष्णवर्णपुनर्णवाशाकभेदे राजनि०।

नीलपुष्प = पु० नीलं पुष्पमस्य। नीलभृङ्गराजे २ नीलाम्लाने च। ३ ग्रन्थिपर्णे न० ४ कृष्णापराजितायां स्त्री राजनि० ५ अतस्यां (मसिना) स्त्री ङीप्। खार्थे क तत्रैव।

नीलपृष्ठ = पु० नीलं पृष्ठं घूमरूपेणास्य। वह्नो “आ बोधमं नीलपृष्ठम् वृहन्तम्” ऋ० ५। ४३१

नीलपोरक = पु० इक्षुभेदे सुश्रुतः इक्षुशब्दे ९०९ पृ० दृश्यम् “सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः। वातलाः कफपित्तघ्नाः सकषाया विदाहिनः” सुश्रुते तहुणादि।

नीलफला = स्त्री नील फलं यस्याः। जम्बूवृक्षे राजनि०।

नीलभृङ्गराज = पु० कर्म०। नीलवर्णभृङ्गराजे (नीलकेशरिया) राजनि०।

नीलमक्षिका = स्त्री कर्म०। नीलवर्णमक्षिकायाम्। स्नातालुलिप्तं यञ्चापि भजते नीलमक्षिताः। सुगन्धिर्वाति योऽकस्मात् व्रजन्ति ते गतायुषः” सुश्रुतः।

नीलमणि = पु० कर्म०। १ इन्द्रनीलमणौ हारा०। नीलशब्दे दृश्यम्। तद्वर्णत्वात् २ कृष्णे वासुदेवे च नीलरत्नमप्यत्र

नीलमल्लिका = स्त्री नित्यकर्म०। विल्वे नैवण्टुप्रकाशिका।

नीलमाधव = पु० कर्म०। जगन्नाथदेवे “प्रेषितोऽहं हरिं द्रष्टुं मञ्चस्थं नीलमाधवम्” स्क० पु० उत्क० ७ त्र०।

नीलमाष = पु० नित्यकर्म०। राजमाषे राजनि०।

नीलमीलिक = पु० नीला मीलिका निमीलनं यस्म। खद्योते शब्दमाला।

नीलमृत्तिका = स्त्री नीला मृत्तिकेव। १ पुष्पकाशोशे राजनि० कर्मधा०। २ नीलवर्णमृत्तिकायाम्। नीला मृत्तिका यत्र। ३ तद्युकदेशादौ त्रि०।

नीलमेहिन् = पु० नीलं तद्वर्णं शुक्रं मेहति मिह–णिनि। नीलवर्णमेहयुक्ते “पैत्तिकेषु नीलमेहिनम्” सुश्रुतः।

नीलराजि = पु० ६ त०। तमस्ततौ “निशा शशाङ्कक्षतनीलराजयः” ऋतुसं०।

नीललोचन = त्रि० नीलं लोचनं नेत्रं यस्य। नीलवर्णनेत्रयुक्ते “शाकहारी च पुरुषो ज यते नीललोचनः” शाता० शाकहरणपापेन तथात्वमम् जायते” इत्युक्तम्।

नीललोहित = पु० “वर्णावर्णन” पा० कर्म०। कण्ठेन नीले केशेषु लोहितवर्णयुक्ते १ शिवे अमरः। “अंशायुते नि- षिकस्य नीललोहिततिसः” कृपा० “द्रापे अन्यसस्पते दरिद्र! नीललोहित!” यजु० १६। ४७ “प्रजार्थं वरयामास नीललोहितसंज्ञितम्” भा० आनु० १६ अ०। २ निश्रितनीललोहितवर्णे ३ तद्युते त्रि०। ४ भूभिजब्यां स्त्री शब्दच०।

नीललौह = न० नित्यक०। वर्त्तलोहे राजनि०।

नीलवर्षाभू = पु० वर्षावां भवति भू–क्विप् कर्म०। १ कृष्णवर्णमूर्वालतायां २ कृष्णभेके च।

नीलवल्ली = स्त्री कर्भ०। वन्दायाम् (परगाछा) रत्नमाला।

नीलवसन = त्रि० नील्या रक्तम् अन् नीलं वसनमस्य। १ नीलवस्त्रयुक्ते २ शनैवरे पु० हारा०। ३ बलरामे च पु० कर्म०। ४ नीलवर्ण वस्त्रे नीलवस्त्रादयोऽपि एष्वर्थेष। “स्त्रीक्रीडाशयनीयादौ नीलवस्त्रं न दुष्यति” नीलशब्दे दृशप्रम्। “परिशीलय नीलनिचोलम्” गीत० गो० “नीलवासा एककुण्डलोहलककुदि कृतसुभगसुन्दरभुजः” (वलरामः) भाग० ५। २५। ८।

नीलवीज = पु० नीलं वोजमस्य। १ नीलासने राजनि० २ नीलवर्णवीजयुक्तमात्रे त्रि०।

नीलवुह्ना = स्त्री कर्म०। नीलवर्णे वुह्नाभेदे राजनि०।

नीलवृक्ष = पु० कर्म०। अजान्त्र्यां नीलासने वृक्षभेदे राजनि०।

नीलवृन्त(क) = न० नीलं वृन्तमस्य वा कप्। तूले राजनि०।

नीलवृष = पु० नित्यकर्म०। विशेषनक्षणाक्रान्ते वृषभेदे तल्लक्षण मुक्रं श० त० शङ्खेन “लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डरः। श्वेतः खुरविषाणाभ्यां स वृषो नील उच्यते” “स वृषो नील उच्यते” इत्युक्तेः नीलशब्द स्वैव तत्रार्थे पारिभाषिकत्वं तस्य सामानाधिकरण्यद्योतनायैव वृषशब्दपयोगः। अतएव “नीलं वा वृषमुत्सृजेत्” देवीपु० वाक्ये व्यःसप्रयोगः। नीलषण्डप्रमोक्षेण अभावास्यां तिलोदकैः” भा० अनु० १६५ अ० वृषार्थकषण्डशब्दप्रयोगश्च। “लोहितो यस्तु वर्णेन शङ्खवर्णखुरो वृषः। लाङ्गूलशिरसोश्चैव स वै नीलवृषः स्मृतः इति वचनेऽपि न समुदाये पारिभाषिकत्वम् किन्तु नीलशब्दस्यैव सामान्याधिकरण्यद्योतनाय वृषशब्दप्रयोगः पूर्वोकहेतोः। एवं लोहितवृषशब्देऽपि लोहितशब्दस्यैव पारिभाषिकत्वम् यथोक्तं विष्णुसं० “जीववत्सायाः पयस्विन्याः पुत्रं सर्वलक्षणोपेतं नीलं लोहितं वा सुख पुच्छपादशृङ्गशुक्लं यूथस्याच्छादकम्”। नीलषण्डादयोऽप्यत्र।

नीलवृषा = स्त्री नीलवर्णं पत्रं पुष्पं फलं च वर्षति प्रसूते वृष–क। वार्त्ताकीभेदे राजनि०।

नीलव्रत = न० व्रतभेदे “यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम्। एकान्तरितनक्ताशी समाप्ते वृषभं ददेत्। स वैष्णवपदं याति नीलवतमिदं स्मृतम्” मत्स्यपु०।

नीलशिखण्ड = त्रि० नीलः शिखण्डोऽस्य। १ नीलवर्णशिखण्डयुक्ते २ रुद्रभेदे पु० “रुद्र! जटीश! भेषज! नीलशिखण्ड! कर्मकृत्!” अथ० २२७६।

नीलशिग्रु = पु० कर्म०। नीलवर्णपुष्पयुक्ते शोभाञ्जनभेदे राजनि०।

नीलसन्ध्या = स्त्री नीला सन्ध्येव। कृष्णापराजितायां राजनि०

नीलसरस्वती = स्त्री द्वितीयविद्यायां तारायाम् मातर्नीलसरस्वति! प्रणमतां सौभाग्यसम्पत्प्रदे!” इति तत्स्तोत्रम्। “नीला च वाक्प्रदा चेति तेन नीलसरस्वती” तन्त्रसारे तन्नामनिरुक्तिः। तन्मन्त्रस्तु तत्रैव “ताराद्या पञ्चवर्णेवं श्रीमन्नीलसरस्वती। सर्वभाषामयी शुद्धा सर्वदेवैनेमस्कता” (“ओ~ त्त्री~ हु~ क फट्”) ३२८१ पृ० तारिणीशब्दे दर्शिते तारिणीगणे सरस्वतीपदं नीलसरस्वतीपरम्।

नीलसार = पु० नीलः सारोऽस्य। तिन्दुवृक्षे (त~द) राजनि०।

नीलसिन्धवार = पु० कर्म०। नीलनिर्गुण्ड्याम् राजनि०।

नीलस्कन्धा = स्त्री नीलः स्कन्धोऽस्याः। नोकर्णीनतायाम् नैघण्टुप्रकाशिका।

नीला = स्त्री १ नीलमक्षिकायाम् अमरः। २ नीलपुनर्णवायां ३ नील्योषधौ च राजनि० अत्र बा० न ङीष्। ४ मल्लरागस्य स्त्रीभेदे वृहद्धमपु०। अस्यान्योऽर्थो नीलशब्दे दृश्यः

नीलाङ्कितदल = पु० नीलाङ्कितं दलमस्य। तैलकन्दे नैघ० प्र०।

नीलाङ्ग = पुंस्त्री नीलमङ्गं यस्य। १ सारसखगे राजनि० स्त्रियां जातित्वात् ङीष्। २ नीलवर्णाङ्गयुक्तमात्रे त्रि० स्त्रियां स्वाङ्गत्वात् ङीष्।

नीलाञ्जन = न० कर्म०। १ सौवीराञ्जने (तु~ते) राजनि० “नीलाकुनचयप्रख्याम्” तन्त्रसारः। नीलं मेषमञ्जयति अन्जि–णिच्–ल्यु। २ विद्युति जटा० करणे ल्युट् ङीप्। ३ कालाञ्जनीक्षुपे राजनि०।

नीलाञ्जसा = स्त्री नीलमञ्जति अन्जि–णिच् असच्। १ अप्सरोभेदे २ नदीभेदे ३ विद्युति च मेदि०।

नीलाद्रिकर्णिका = स्त्री कर्म०! कृष्णापराजितायां राजनि० नीलापराजिताऽप्यत्र।

नीलाम्बर = पु० नीलमम्बरं यस्य। १ बलदेवे २ शनैश्चरे च कर्म०। ३ नीलीरक्ते वस्त्रे न०। ६ ब०। ४ तद्वति त्रि०। नीलमम्बति अवि–अरण्। ५ तालीशपत्रे राजनि०।

नीलाम्बुज = न० कर्म०। नीलपद्मे रत्नमाला नीलाम्बुजातादयोऽप्यत्र।

नीलाम्बुजन्मन् = न० नीलवर्णमम्बुजन्म। नीलोत्पले अमरः

नीलाम्ला = पु० ईषत्कालेन आम्लायति आ + म्ला–क कर्म्म०। १ नीलझिण्ट्याम्। तस्या हि पुष्पमल्पकालेनैव गलति। २ श्यामाम्लत्रां स्त्री गौरा० ङीष्। नीलाम्लानीत्यप्यत्र।

नीलालु = पु० कर्म०। श्यामवर्णकन्दे आलुभेदे राजनि०।

नीलाशी = स्त्री नीलं वर्णमश्नुते व्याप्नोति अश–अण् उप० स० गौरा० ङीष्। नीलनिर्गुण्ड्यां नीलसिन्धुवारे राजनि०।

नीलाशोक = पु० कर्म०। नीलवर्णे अशोके “सालेन कल्मषाली, रक्ताशोकेन रक्ताम्लानी च। पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः” वृ० सं० २९ अ० वनरपति भेदवृद्ध्या शस्यभेदवृद्ध्युक्तौ।

नीलाश्मन् = पु० कर्म०। नीलभणौ “नीलाश्मद्युतिमास्यषाद दशकां सेवे महाकालिकाम्” महाकालीध्यामम्। “नीलाश्मद्युतिभिदुराम्भसोऽपरत्र” माघः।

नीलासन = पु० कर्म०। (पियासाल) वृक्षभेदे राजनि०।

नीलि = पु० नील–इन्। जलजन्तुभेदे “मद्यं नीलिञ्च लाक्षाञ्च सर्वाश्चैकशफांस्तथा” अविक्रेयोक्तौ महः। “नीलिर्जलजन्तुः” कुल्लू०।

नीलिका = स्त्री नीली इवार्थे क नील–ण्वुल् क कापि अन इत्त्वं वा। १ नीलसिन्धुवारे राजनि० २ नीलिन्यां ३ नील शेफालिकायां मेदि०। ४ नेत्ररोगभेदे “स एव लिङ्गनाशश्च नीलिकाकाचसंज्ञितः” सुश्रुतः। ५ क्षुद्ररोगभेदे “क्रोधाय संप्रकुपितो वायुः पित्तेन संयुतः। मुखमागत्य सहसा मण्डलं विसृमत्यतः। नीरुजं हनुकं श्यावं तं व्यङ्गमिति निर्दिशेत्। कृष्णमेवंगुणं गात्रे पुष्पे वा नीलिका विदुः” माधवकरः। जलस्य ६ ज्वरविशेषे “भूमेरुषरा वृक्षस्य कोटरः जलस्य नीलिका” इत्यादि।

नीलिन् = त्रि० नीलो भूम्ना प्राशस्त्येन वाऽस्त्यस्य इनि। प्रशस्तनीलवर्णयुक्ते स्त्रियां ङीप्। सा च २ आजषीतुनृपस्य पत्नीभेदे पु० नीलशब्दे दृश्यम् “आजगीढख नीलित्था प्रशान्तिरुदपद्यत हरिवं० ३२ अ०। ३ नील्यौषधौ च।

नीलिमन् = पु० नीलस्य भावः इमनिच्। नीलवर्णे “कञ्जकमलिनविलोचनचुम्बनविरचितनीलिमरूपस् गीतयो०

नीलीराग = पु० “नचातिशोभते यन्नापैति प्रेम मनोगतम्। त्तन्नीलीरागमाख्यान्ति यथा श्रीरामसीतयोः” सा० द० उक्ते १ प्रेमभेदे। सोऽस्यास्ति अच्। २ पूर्वोक्तप्रेमयुक्ते संसि ३ तथाविधस्त्रियां स्त्री हेमच०। नील्याराग इव। ४ नीलवर्णे शब्दच०। स्वार्थे क। नीलिकाऽप्यत्र नेत्ररोगभेदे च “नीलिकाकाचसंज्ञितः” सुश्रुतः।

नीलीरोग = पु० अक्षिरोगभेदे “ऐर्म्यं हन्यादार्म्यनक्तान्ध्यकाचान् नीलीरोग तैमिरं चाञ्जनेन” सुश्रुतः।

नीलीवृक्षाकृति = पु० नीलीवृक्षस्वाकृतिरिवाकृतिरस्य। शरपुङ्खे शब्दार्थचि०।

नीलोत्पल = न० कर्म०। नीलवर्णे उत्पले “विलम्बिनीलोत्पलकर्णपूराः” माघ० “नीलोत्पलं विभ्रती” ताराध्यानम्। इदञ्च अञ्जनादिगणे सुश्रुते पठित्वा तद्गुण उक्तो यथा “अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पत्वनलदनलिनकेशराणि मघूकञ्चेति। अञ्जनादिर्गणा ह्येष रक्तपित्तनिवर्हणः”।

नीलोत्पलाद्यघृत = न० चक्रपाणिदत्तोक्ते धृतभेदे “नीलोत्पलोशीरमधूकयष्टीद्राक्षा विदारीकुशपञ्चमूलैः। स्वाज्जीवनीयैश्च घृवं विपक्वं शतावरीकारसदुग्धमिश्रम्। तच्छर्करापादयुतं प्रशस्तम् असृग्दरे वारुतरक्तपित्ते। क्षीणे बले रेतसि संप्रनष्टं कृच्छे च रक्तप्रभये च गुम्मे”

नीलोत्पलिन् = पु० नीलोत्पलं धार्य्यत्वेन यद्वर्णो वास्त्यस्य इनि। मञ्जुघोषे शिवांशभेदे त्रिका०।

नीवर = पु० नी–ष्वरच् नि०। १ परिव्राजि २ वणिजके ३ वास्तव्ये च मेदि०।

नीवाक = पु० नियतं वाको वचनं नि–वच–वक्ष् दीर्घः। १ महार्षहेतोर्धान्यस्य संप्रयोगकारके अमरः। निवृत्तौ अव्ययी०। २ वचननिवृत्तौ अव्य०।

नीवार = पु० नि + वृ–घञ् दीर्घः। तृणधान्यभेदे “नीवारसाकादिकडङ्गरीयैः” “अपत्यैरिव नीवारभागधेयोचितैर्मृगैः” रघुः “नीवारफलमूलाशानृपीनप्यति शेरते” भट्टिः। स च कुधान्यं यथोक्तं सुश्रुते “कोरदूषकश्यामाकनीवारसान्तनुतुवरकोद्दालकपियङ्गुमधूलिका नान्दीमुखीकुरुविन्दगवेधुकावरुकतोदपर्णीनुकुन्दकरेणु यवप्रभृतयः कुधान्यविक्षेषाः। उष्णाः कषायमधुरासूच्चाः कटुविपाकिनः। श्लेष्मन्ना बद्धनिष्यन्दावातपित्तप्रकोपणाः। कवायमधुरास्तेषां शीतपित्तापहाः स्मृताः। नीवारः शोतत्वोयाही पित्तक्षुत्कफवातकृत्” भावप्र०। स्वार्थे क। तत्रार्के “नीवारकादयो श्रुद्धादयश्च समासेन कषायोवर्गः” सुश्रु०।

नीवि(वी) = स्त्री निव्ययंति निवीयते वा नि + व्ये–इन् यलोप दोर्घौ डिच्च वा ङीप्। १ बणिजां मूलधने २ स्त्रीकटीवस्त्रवन्थे अमरः “नीविं प्रति प्रणिहिते च करे प्रियेण” सा० द० “नीवीरतिक्रम्य सितेतरस्य” कुमा० “आलोच्य प्रियतममंशुके विनीवौ” माघः “निवीप्रविश्रंसनकरः” भा० स्त्री० २४ अ०। ३ वस्त्रमात्रे “अवनिज्य पूर्ववन्नी विं विश्रस्य नमोव इत्यादि” कात्या० ४११५४ राजपुत्रादेर्बन्धके सुभूतिः तत्र मूलधने “निजगृहमिवानुप्रविश्य नीविं सारमहतीमादाय गिरमाम्” दशकु०।

नीव्र = न० नीध्रशब्दार्थे पटले अमरे पाठान्तरम्।

नीवृत् = पुंस्त्री नियतं वर्त्ततेऽत्र नि + वृत–आधारे क्विप् दीर्घः। देशे जनपदे अमरः “गमिकर्म्मीकृतनैकनीवृता” नैष०।

नीशार = पु० नितरां शीर्य्येते हिमानिलावत्रानेन वा नि + शॄ–करणे आधारे वा घञ् दीर्घः। हिमानिलनिवारणे १ प्रावरने २ काण्डपटे च (कानात्) अमरः।

नीहार = पु० निह्रियते नि + हृ–कर्मणि घञ दीर्घः। घनीभूते १ शिशिरे २ हिमे च अमरः “नीहारजालमलिनाः पुनरुक्तसान्द्राः” माघः वृ० र० टीकोक्ते त्रयोविंशतिरगणात्मके २ दण्डकभेदे।

***