निश् = स्त्री नितरां श्यति तनूकरोति व्यापारान् शो–क पृषो०। १ रात्रौ २ हरिद्रायाञ्च निशाशब्दस्य शसादौ भत्वे च वा निश् आदेशः। “विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि” मनुः निशाशब्दे दृश्यम्।

निशठ = पु० वलदेवपुत्रभेदे “रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः” हरिवं० ३६ अ०।

निशमन = न० नि + शम–णिच्–ल्युट् वा ह्रस्वः। १ दर्शने दृष्टौ २ श्रवणे च मेदि०। निपूर्वकात् शमयतेः श्रवणार्थत्वं यथा “निशामय तदुपत्ति विस्तरात् गदतो मम” देवीमा०। “अहिद्विषस्तद्भवता निशम्यताम्”। “निशम्य ताः शेष गवीरमिधातुमधोक्षजः” माघः

निशा = स्त्री नितरां श्यति तनूकरोति व्यापारान् शो–क। १ रात्रौ २ हरिद्रायाम् “अजगोपतियुग्मञ्च कर्किधन्विमृगा निशा” इति ज्योतिषोक्तेषु ३ मेषादिराशिषु च। शसादौ भत्वे च वा निश् आदेशः। “अग्निहोत्रं जुहुयात् आद्यन्ते द्युनिशोः सदा” मनुः “न स्नानमाचरेत् भुक्त्वा नातुरो न महानिशि” मनुः “संविश्य कुशशयने निशां निनाय” रघुः “त्रिभागशेषायु निशासु च जणम्” कुमा० “निशातुषारैर्नयनाम्बुकल्पैः” भट्टिः। तत्पुरुषेऽस्य “बिभाषा सेनासुराच्छायाशालानिशानाम्” क्लीवता “श्वनिशं श्वनिशा वा” सि० कौ०। समाहारद्वन्द्वेऽपि क्लीवता। “इन्द्रियाणां जये योगं स याति चेदु दिवानिशम्” मनुः।

निशाकर = पु० निशां करोति “दिवाविभानिशेति” पा० कृ–ट उप० स०। १ चन्द्रे २ कर्पूरे च अमरः। “द्विजावलीबालनिशाकरांशुभिः” माघः “बहुलेऽपि गते निशाकरः” कुमा०। ३ कुक्कुटे शब्दरत्ना०।

निशाख्या = स्त्री निशाया आख्या आख्या यस्याः। निशाह्वयायां हरिद्रायाम् अमरः।

निशाचर = पुंस्त्री निशायां चरति चर–ट। १ राक्षसे २ शृगाले ३ पेचके ४ सर्पे च मेदि० “अर्जुनस्य वचः श्रुत्वा वित्रस्तोऽभून्निशाचरः” भा० अनु० १५२ अ० “तमुपाद्रवदुदम्य दक्षिणं दोर्निशाचरः” रघुः स्त्रियां जातित्वात् ङीष्। ५ रात्रिचारिमात्रे त्रि० स्त्रियां टित्त्वात् ङीप्। सा च ६ कुलटायां ७ केशिनीनामगन्धद्रव्ये च जटाधरः। “राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा” रघुः। ८ पिशाचादौ त्रि०।

निशाचरपति = निशाचरणां भूतानां पतिः। प्रमथपतौ १ शिवे “ततो हरो जटी स्थाणुर्निशाचरपतिः शिवः” भा० द्रो० ५२ अ० २ राक्षसेश्वरे रावणे च।

निशाचर्मन् = पु० निशाया चर्मेव आवरकत्वात्। अन्धकारे त्रिका०।

निशाजल = न० निशाजातं जलम् शा० त०। हिमजले त्रिका०।

निशाट = पुंस्त्री निशायामटति अट–अच्। १ पेचके हेमच० स्त्रियां जातित्वात् ङीष्। २ निशागतियुक्तमात्रे त्रि०

निशाटक = पु० निशेव कृष्णत्वात् अटति निशायामटति वा अट–ण्वुल्। १ गुग्गुलौ राजनि०। २ रात्रिचरमात्रे त्रि०।

निशाटन = पुंस्त्री निशायामटति अट–ल्यु। १ पेचके हला० स्त्रियां जातित्वात् ङीष्। २ रात्रिचरमात्रे त्रि० स्त्रियां टाप्।

निशात = त्रि० नि + शो–क्त पक्षे इत्त्वाभावः। तेजिते तीक्ष्णीकृते “पुराणि दुर्गाणि निशातमायुधम्” माघः “तसुद्यतनिशातासिं प्रत्युवाच जिजीविषुः” भट्टिः।

निशात्यय = पु० ६ त०। १ निशावसाने। ७ ब०। २ प्रभाते च हेमच०

निशाद = पु० निशायामत्ति अद–अच्। १ रात्रिभोजिनि २ निषादे रमानाथः।

निशादर्शिन् = पु० निशायां पश्यति दृश–णिनि। पेचके शब्दार्थकल्पतरुः।

निशादि = पु० ६ त०। सायंसन्ध्यायां राजनि०।

निशान = न० नि + शो–भावे ल्युट्। तीक्ष्णीकरणे तेजने “क्रमादेतेऽत्र सन्देहे क्षान्तिनिन्दाविचारणे। निशानार्जवनिन्दासु रुग्जयेऽपि कितोमतः” मुग्धबो०। “तेषां (शस्त्राणां) निशानार्थं शाल्मलिशिलामाषवर्णम्” सुश्रुतः

निशानाथ = पु० ६ त०। १ चन्द्रे “अष्टमस्थे निशानाथे कण्टकैः पापवर्जितैः। प्रवासी सुखामायाति सौम्यैर्लाभसमन्वितः” षट्पञ्चाशिका। २ कर्पूरे च अमरः।

निशान्त = न० नितरां शम्यते विश्रम्यतेऽत्र आधारे क्त। १ भवने अमरः। “तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं विवेश” रघुः “निशान्तनारीपरिधानधूनगेत्यादि” माघः ६ त०। २ निशायाः अन्ते। ७ ब०। ३ ऊषसि। “न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्” मनुः। प्रा० त०। ४ नितान्तशान्ते च मेदि०। ततः उत्करा०। चतु० रर्थ्यां छ। निशान्तीय तत्सन्निकृष्टदेशादौ त्रि०।

निशान्ध = त्रि० निशायामन्धः ७ त०। १ रात्र्यन्धे नक्तान्धशब्दे दृश्यम्। २ जतुकालतायां स्त्री रात्र्यन्धसूचकयोगभेदो वृहज्जातके उक्तो यथा “शूरःस्तब्धो विकलनयनो निर्घृणोऽर्के तनुस्थे मेषे सस्वस्तिमिरनयनः सिंहसंस्थे निशान्धः”। “सिंहलग्ने तत्रस्थे चार्के निशान्धः रात्र्यन्धो भवति” भट्टोत्पलः।

निशापति = पु० ६ त०। १ चन्द्रे २ कर्पूरे च अमरः “स्वसन्धिभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः” सू० सि०।

निशापुत्र = पु० निशायाः पुत्र इव। खेचरे नक्षत्रादौ तेषां रात्रौ पुष्टज्योतिष्कत्वात् रात्रिपुत्रतुल्यत्वम्। “खेचराश्च निशापुत्रास्तथा पातालवासिनः” हरिवं० २३६ अ०।

निशापुष्प = न० निशायां पुष्प्यति पुष्प–विकाशे अच्। कुमुदे उत्पले राजनि०।

निशाबल = पु० निशायां बलं वीर्यमस्य। मेषवृषधनुःकर्कटमिथुनमकराख्येषु षट्षु राशिषु यथोक्तं वृहज्जातके “मोऽजाश्विकर्किमिथुना समृगा निशाख्याः पृष्ठोदया विमिथुनाः कषितास्तएव। शीर्षोदया दिनबलाश्च भवन्ति शेषा लग्नं समेत्युभयतः पृथुरोमयुग्मम्”। “निशाख्या निशाबलसंज्ञा उत्तरत्र दिनबला इत्युक्तेरत्रापि निशाबला इति, व्याख्यातं तत्प्रयोजनं, यात्रायां तत्रोक्तं यथा च “शस्तं दिवा दिनबले निशि नक्तवीर्य्ये राशौ विपर्य्ययमतो गमन न शस्तम्”। नक्तवीर्य्यादयोऽप्यत्र।

निशाभङ्गा = पु० निशाया हरिद्राया भङ्गः इव भङ्गः पल्लवोऽस्याः। दुग्धपुच्छ्याम् (दुधपेया) शब्दच०।

निशामणि = पु० निशायां मणिरिव प्रकाशकत्वात्। १ चन्द्रे त्रिका० २ कर्पूरे च।

निशामन = पुंस्त्री नि + शम–णिच्–ल्युट्। १ दर्शने २ आलोचने च मेदि० ३ श्रवणे हेमच०।

निशामुख = न० ६ त०। प्रदोषे “स चोपेन्द्रो वृषं हत्वा कान्तचन्द्रे निशामुखे” हरिवं० ७८ अ० “व्रतं निशामुखे ग्राह्यम्” प्रा० त०।

निशामृग = पुंस्त्री निशाचरः मृगः पशुः शा० त०। शृगाले शब्दर०। स्त्रियां जातित्वात् ङीष्।

निशारण = न० नि + शृ–हिंसायां स्वार्थे णिच्–भावे ल्युट्। १ मारणे अमरः। स्वार्थे णिजभावे निशरणमप्यत्र।

निशारत्न = न० निशायां रत्नमिव प्रकाशित्वात्। १ चन्द्रे हेमच० २ कर्पूरे च।

निशारुक = पु० १ सङ्गीतशास्त्रप्रसिद्धे रूपकभेदे यथा “दृढः प्रौढोऽथ खचरो विभवश्चतुरक्रमः। निशारुकः प्रतितालः कथिताः सप्त रूपकाः” तस्य लक्ष्म यथा “लघु द्वन्द्वं गुरुद्वन्द्वं तन्न्यासतालकः स्मृतः। चतुर्विंशतिबर्णैस्तु रसे हास्ये निशारुकः” सङ्गीतदामोदरः। स च तालविशेषः। तथा हि “प्रविश्य नर्त्तको रङ्गं विकीर्य्य कुसुमादिकम्। निशारुकेण तालेन कोमलं नृत्यमाचरेत्” सङ्गीतदा०। २ नितान्तहिंसके त्रि०।

निशावन = पु० निशानां हरिद्राणामिव वनमत्र। शणवृक्षे राजनि०।

निशाविहार = पुंस्त्री निशायां विहारोऽस्य। राक्षसे “इत्थं प्रवादं युधि संहारं प्रचक्रतू रामनिशाविहारौ” भट्टिः। स्त्रियां जातित्वात् ङीष्।

निशावृन्द = न० ६ त०। रात्रिगर्ण शब्दरत्ना०।

निशावेदिन् = पु० निशा तन्मानं तत्पारिच्छेदं वेदयति रुतेन विद + णिच्–णिनि। कुक्कुटे हेमच०।

निशाहस = पु० निशायां हसति पुष्पविकाशेन हस–अच्। कुमुदे त्रिका०।

निशाह्वा = स्त्री निशाया आह्वा आह्वाऽभिधानं यस्याः। हरिद्रायाम् अमरः।

निशित = त्रि० नि + शो–क्त पक्षे इत्त्वम्। १ शाणिते तेजिते २ लौहे न० राजनि०। आधारे क्त। ३ निशीथे स्त्री “निशितायां निर्वपेन्निशितायां हि रक्षांसि प्रेरते” तैत्ति० स० २। २। २। २।

निशिति = स्त्री नि + शो–कर्मणि क्तिन्। तनूकृते “आहृतिं निशितिं मर्त्यो नशत्” ऋ० ६। २। ५ “निशितिं तनूकृताम्” भा०।

निशिपालक = न० पञ्चदशाक्षरपादके १ छन्दोभेदे “निशिपालकमिदं भजसनाश्च रः” वृ० टीका०। २ निशिपालके प्रहरिभेदे पु०।

निशिपुष्पा = स्त्री निशि रात्रौ पुष्प्यति पुष्प–अच् अलुक्स०। शेफालिकायाम्। पाककर्णेति ङीष्। निशिपुष्पीत्यप्यत्र

निशीथ = पु० निशेरतेऽत्र नि + शी–आधारे थक्। १ अर्द्धरात्रे अमरः। “यन्निशीथादधो भवेत्” ति० त० २ रात्रिसात्रे मेदिनिः। “निशीथदीपाः सहसा हतत्विषः” रघुः।

निशीथिनी = स्त्री निशीथोऽस्त्यस्या इनि। रात्रौ अमरः।

निशीथिनीश = पु० ६ त०। १ चन्द्रे हला०। २ कर्पूरे च।

निशुम्भ = पु० नि + शुन्भ–भावे घञ्। १ वधे हेमच०। २ हिंसने ३ मर्दने “प्रागप्राप्तनिशुम्भशाम्भवधनुर्दण्डावभङ्गोद्यतः” वीरच०। ४ असुरभेदे “कश्यपस्य दनुर्नाम भार्य्यासीद्द्विजसत्तम!। तस्यास्तु द्वौ सुतावास्तां सहस्राक्षाद्बलाधिकौ। ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरः। तृतीयो नमुचिर्नाम महाबलसमन्वितः” वामन पु० ५२ अ०। “पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः। त्रैलोक्यं यज्ञभागाश्च हृता सदमलाश्रयात्” देवीमा०। देव्या तस्य वधकथा “शूलहस्तं समायान्तं निशुम्भममरार्दनम्। हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका। भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः। महाबलो महावीर्य्यस्तिष्ठेति पुरुषो वदन्। तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्तदा। शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि” मार्कण्डपु० ८९ अ०। अन्योऽपि निशुम्भासुर आसीत् यथाह देवीमाहा० “वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे। शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ। नन्दगोपगृहे जाता यशोदागर्भसम्भवा। ततस्तौ नाशयिष्यामि विन्ध्याचलनिबासिनी” मार्क ९१ अ०। “तंत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः। कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि। स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम्। ततः स्थानसहस्रैस्त्वं पृथिवीं शोभयिष्यसि। तत्र शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणी। माञ्च कृत्वा मनसि तौ सानुगौ नाशयिष्यसि” हरिवं० ५८ अ०।

निशुम्भन = न० नि + शुन्भ–भावे ल्युट्। मारणे।

निशुम्भमर्दिनी = स्त्री निशुम्भं मृद्नाति मृद–णिनि ६ त०। दुर्गायाम् अमरः। तत्कथा निशुम्भशब्दे दृश्या।

निशुम्भिन् = पु० नि + शुन्भ–णिनि। १ बुद्धभेदे त्रिका०। २ नाशके त्र०।

निशृम्भ = पु० निश्रथ्य सम्बध्य हरति नि + श्रन्थ–वा० भक्– वा० सम्प्रसा० पृषो०। निश्रथ्य सम्बध्य हर्त्तरि पूष्णच्छागभेदे “आजासः पूषणं रथे निशृम्भास्ते जनाश्रयम्” ऋ० ६। ५५। ६ “निशृम्भा निश्रथ्य सम्बध्य हर्त्तारः पूष्णो वाहनतया प्रसिद्धाः” भा०। इमामेव ऋचमधिकृत्य निरु० ६ ४ “निशृम्भा निश्रथ्य हारिणः” इत्युक्तम्।

निशैत = पुंस्त्री निशायामेतम् ईषद्गतं यस्य। वके त्रिका० स्त्रियां जातित्वात् ङीष्।

निश्चत्बारिंश = त्रि० निर्गतः चत्वारिंशतः शदन्तात् ड। चत्वारिंशतोनिर्गते।

निश्चप्रच = त्रि० निश्चितं च प्रचितञ्च मयूरव्य० नि०। निश्चिते अथच प्रचिते वस्तुनि।

निश्चय = पु० निर् + चि–अच्। १ संशायान्यज्ञाने निर्णये २ सिद्धान्ते इदमित्थमेवेति ३ विषयपरिच्छेदे च “तद्भावाप्रकारा धीः तत्प्रकारा तु निश्चयः” भाषा०। “तद्भभावाप्रकारकत्वे सति तत्प्रकारकज्ञानत्वं निश्चयत्वम्” सुक्ता० अनुमित्यादौ निश्चयत्वमेव न सन्देहत्वम् “परोक्षज्ञानमनाहार्य्य निश्चयश्च” अनु० चि० उक्ते। “संशयोऽथ विपर्य्यासो निश्चयः स्मृतिरेव च” भाग० ३। २६। ३० ४ बुद्धेरसाधारणवृत्तिभेदे “मनो बुद्धिरहङ्कारश्चित्तं करण मान्तरम्। संशयो निश्चयो गर्वः स्मरणं विषया इमे” वेदान्तपरिभा० “बुद्धिर्नाम निश्चयात्मकान्तःकरणवृत्तिः” वेदा० सा०। “अध्यवसायो बुद्धिः” सा० सू० “महत्तत्त्वस्य पर्य्यायो बुद्धिरिति अध्यवसायश्च निश्चयाख्यस्तस्यासाधारणी वृत्तिरित्यर्थः अभेदनिर्देशस्तु धर्मधर्म्यभेदात्” भा०। ५ अर्थालङ्कारभेदे अलङ्कारशब्दे ३८८ पृ० दृश्यम्।

निश्चर = पु० एकादशमन्वन्तरीये सप्तर्षिभेदे तन्मन्वन्तरमुपक्रम्य “अङ्गिराश्चोदधिष्णश्च पौलस्त्यो निश्चरस्तथा। पुलहश्चाग्नितेजाश्च भाव्याः सप्त महर्षयः” हरिवं० ७ अ०।

निश्चल = त्रि० निर् + चल–अच्। १ स्थिरे २ अचले ३ असम्भावनाविपरीतभावनारहिते च। ४ भूमौ ५ शालपर्ण्याञ्च स्त्री राजनि०। “तालुस्थाचलजिह्वश्च संवृतास्योऽथ निश्चलः” याज्ञ०। “श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। “समाधावचला बुद्धिस्तदा योगमवाप्स्यसि” गीता।

निश्चलाङ्ग = पुंस्त्री निश्चलं मत्स्यधारणाय स्पन्दरहितमङ्गं यस्य। २ वके राजनि० स्त्रियां जातित्वात् ङीष्। २ स्पंन्दरहिते त्रि०। स्त्रियां स्वाङ्गत्वात् बा ङीष्।

निश्चायक = त्रि० निर् + चि–ण्वुल्। निश्चयकर्त्तरि निर्णायके

निश्चारक = त्रि० निर् + चर–ण्वुल्। १ वायौ २ परीषक्षये ३ स्वच्छन्दे त्रि० मेदि०। निर्गतश्चारो यस्मात् प्रा० ब० कप्। ४ चारहिते त्रि० चारश्च गतिर्दूतभेदश्च।

निश्चित = त्रि० निर् + चि–कर्मणि क्त। १ निश्चयज्ञानविषये अवधारिते “वेदान्तविज्ञानसुनिश्चितार्थाः” वेदा०। २ नदीभेदे स्त्री “कौशिकीं निश्चितां कृत्यां निचितां लाहतारिणीम्” भा० भी० ९ अ० नानानद्युक्तौ।

निश्चिन्त = त्रि० निर्गता चिन्ता यस्मात् प्रा० ब०। चिन्ताशून्ये “निश्चिन्तो मृदुरनिशं कलापरोधीरललितः सात्” सा० द०

निश्चि(श्ची)रा = स्त्री नदीभेदे विष्णुपु०।

निश्चुक्कण = न० निःशेषेण चुक्कणम्। दन्तशोधके चूर्णभेदे (मिसि) त्रिका०।

निश्चेष्टाकरण = निश्चेष्टा चेष्टाराहित्यं क्रियतेऽनेन कृकरणे ल्युट्। १ कामवाणभेदे त्रिका०। २ मनःशिलाघटितौषधभेदे वैद्यकम्।

निश्च्यवन = पु० वैवस्वतमन्वन्तरे सप्तर्षिमध्ये १ ऋषिभेदे तदुपक्रमे “प्राणो वृहस्पतिश्चैव दत्तो निश्च्यवनस्तथा” हरिवं० ७ अ०। २ अग्निभेदे “यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया। अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम्” भा० ब० ११८ अ०। निर्गतं च्यवनमस्य प्रा० ब०। ३ च्युतिहीने त्रि०।

निश्छन्दस् = त्रि० निर्गतं छन्दो वेदोयस्य प्रा० ब०। वेदाध्ययनहीने “हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम्” (कुलम्) मनुः।

निश्न = त्रि० निश–समाधौ वा० नङ्। समाहिते ततः। ब्राह्मणा० भावे कर्मणि च ष्यञ्। नैश्न्य समाहितत्वे न०।

निश्वास = पु० नि + श्वस–भावे घञ्। प्राणवायोर्वहिर्गमनरूपे व्यापारे हेमच०। “निश्वासधूमं सह रत्नभाभिः” माघः।

निश्वाससंहिता = शिवप्रणीते पाशुपते शास्त्रभेदे “एव० मभ्यर्थितस्तैस्तु पुराहं द्विजसत्तमाः। वेदक्रियासमायुक्तां कृतवानस्मि संहिताम्। निश्वासाख्यां ततस्तस्यां गीना वाभ्रव्यशाण्डिलाः। निश्वाससंहिता या हि लक्षमात्रप्रमाणतः। सैव पाशुपती दीक्षा योगः पाशुपतस्य हि। एतस्माद्वेदमार्गाद्धि यदन्यदिह जायते। तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम्” वराहपु०।

निषङ्ग = पु० नितरां सजन्ति शरा यत्र सन्ज–आधारे घञ्। १ तूणीरे अमरः। “जाताभिषङ्गो नृपतिर्निषङ्गात्” ततो निषङ्गादसमग्रमुद्धृतम्” रघुः। भावे घञ्। २ नितान्तसङ्गे च “केन कार्यनिषङ्गेण तमाख्याहि महाबल!” भा० शा० २०१ अ०। ३ खड्गे च वेददी० निषङ्गधिशब्दे दृश्यम्।

निषङ्गथि = पु० नि + सन्ज–भावे गथिन् कुत्वम्। समालिङ्गे उज्ज्वद०।

निषङ्गधि = पु० निषङ्गः खडगः धीयतेऽस्मिन् धा–आधारे कि १ खछ्गपिधाने कोशे (खाप्) “आतुरस्य निषङ्गधिः” यजु० १६। १० “निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषङ्गधिः कोशः” वेददी०।

निषङ्गिन् = त्रि० निषङ्गोऽस्त्यस्य इनि। १ धनुर्द्धरे अमरः। नि + सन्ज–घिणुन्। २ तूणीरे शब्दार्थचि० ४ खड्गधारिणि च “नमो नमो निषङ्गिणे ककुभाय स्तेनाना पतये” यजु० १६२० “निषङ्गिणे खड्गधारिणे” वेददी०। “निषङ्ग्यस्त्री धनुर्द्धरः” इत्यमरे पाठात् निषङ्गीन इति शब्दक० उक्तिः प्रामादिकी अत्राणत्वञ्च चिन्त्यम्। ५ नितान्तसङ्गयुक्ते च “स्थाणौ निषङ्गिण्यनसि क्षणं पुरः” माघः “निषङ्गिणि सक्ते अनसि” मल्लि० ६ तूणीरवति च “रथी निषङ्गी कवची धनुष्मान्” रघुः। ७ धृतराष्ट्रपुत्रभेदे पु० “कवची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः” भा० आ० ६७ अ० तत्पुत्रोक्तौ।

निषण्ण = त्रि० नि + सद–कर्त्तरि क्त। उपविष्टे “संनिषण्णा सिताब्जे” सरस्वतीध्यानम्। “निषण्णा पङ्कजे पूज्या नमो देव्यै श्रिया इति” ति० त०। स्वार्थे–क। तत्रार्थे त्रि० संज्ञायां कन्। सुनिषण्णके शाकभेदे शब्दरत्ना०।

निषत्स्नु = त्रि० नि + सद–वा० स्नु। निषण्णे “निषत्स्नुं स यः सरीसृपम्” ऋ० १० १६२३

निषद् = स्त्री निषीदत्यस्याम् नि + सद–आधारे घञ्। १ यज्ञदीक्षायाम् “या वै दीक्षा सा निषत् तत्सत्रं तदयनं तत्सत्रायणम्” शत० ब्रा० ४६७२ निषीदति वेद्यत्वेन देवता अत्र आधारे क्विप्। २ वेदवाक्यविशेषे “यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च। गृणन्ति सत्यकर्माणम्” भा० शा० ७७ अ०। “वाकेषु मन्त्रेषु सामान्यतः कर्मप्रकाशकेषु अनुवाकेषु मन्त्रार्थविवरणभूतेषु ब्राह्मणवाक्येषु निषत्सु कर्माङ्गावबद्धदेवताविज्ञानवाक्येषु उपनिषत्सु केवलात्मज्ञापकेषु गृणन्ति ध्यायन्ति” नीलक०। सम्प० भावे क्विप्। ३ उपसदने स्त्री “अभिस्वरा निषदा गा अवस्यवः” ऋ० २२१५ “निषदा उपसदनेन” भा०। नि + सद–कर्त्तरि क्विप। ४ उपवेष्टरि निषद्वरशब्दे दृश्यम्।

निषदन = न० निषीदत्यत्र आधारे ल्युट्। १ गृहे शब्दार्थचि०। २ उपवेशनस्थाने च “निक्रमणं निषदनम्” यजु० २५। ३८ “निषदनसुपवेशतस्थानम्” वेददी०। भावे ल्युट्। ३ स्थितौ “अश्वत्थे वो निषदनम् पर्णे वो वसतिस्कृता” यजु० १२। ७९ “निषदनं स्थानम्” वेददी०। निषीदति पापकमत्र ल्युट्। ४ निषादे पु० “निषादः कस्मान्निषदनो भवति निषण्णमत्र पापकमिति” निरु० ३८

निषद्या = स्त्री निषीदन्त्यस्याम् जनाः नि + सद–आधारे क्यप्। १ पण्यविक्रयशालायां (हाटचाला) २ हट्टे अमरः ३ क्षुद्रखट्वायाञ्च शब्दार्थचि० “केचित् गुर्वीमेत्य संयन्निषद्याम् क्रीणन्ति स्म प्राणमूल्यैर्यशांसि” माघः।

निषद्वर = पु० नि + सद–क्विप् निषद् आसनं तां वृणाति वृ–अच् वरः आवरकः ६ त०। जम्बाले १ कर्दमे अमरः। नि–सद आधारे बा० ष्वरच्। षित्त्वात् ङीष्। २ निशायां स्त्री मेदि०। उभयत्र हि गतेर्निषण्णत्वात् तथात्वम्। ६ त०। ३ निषदामुपवेष्टॄणां वरे श्रेष्ठे वृषभेदे “निषद्वरं वृषभं नर्य्यापसम्” यजु० २८। ४ “निषीदन्ति निषद उपवेष्टारस्तेषां वरम् श्रेष्ठम् ऋषभम्” वेददी०।

निषध = पु० पर्वतभेदे स च सि० शि० उक्तो यथा “लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्त दैर्व्याः”। एवं सिद्धादुदगपि पुरात् शृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान्। भारतवर्षमिदं ह्युदगस्मात् किन्नरवर्षमतो हरिवर्षम्” मू० “अतो लङ्काया उत्तरतो हिमवान् नाम गिरिः पूर्व सिन्धुपर्यन्तदैर्व्योऽस्ति। तस्योत्तरे हेमकूटः, सोऽपि समुद्रपर्यन्तदैर्घ्यः। तथा तदुत्तरे निषधः”। तेषामन्तरे द्रोणिदेशा वर्षसंज्ञाः, तत्रादौ भारतवर्षम्। तदुत्तरं किन्नरवर्षम्। ततो हरिवर्षमिति” प्रमिता०। स च किंपुरुषवर्षस्य सीमापर्वतः यथाह भाग० ५। १६। १० श्लो०। “एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयः। अयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासंख्यम्”। सूर्यवंश्ये रामात्मजकुशस्य पौत्रे २ नृपभेदे “अतिथिस्त कुशाज्जज्ञे निषधस्तस्य चात्मजः” हरिवं १५ अ०। “स (अतिथिः) नैषधस्यार्थपतेः सुतायाम् उत्पादयामास निषिद्धशत्रुः। अनूनसारं निषधान्नगेन्द्रात् पुत्रं यमाहुर्निषधाख्यमेव” रघुः। चन्द्रवंश्ये ३ जनमेजयान्तरस्यात्मजभेदे “जनमेयस्य तनयाः भुवि ख्याता महाबलाः। धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च। निषधश्च महातेजास्तथा जाम्बूनदो ब्रली” भा० आ० ९४ अ०। ४ देशभेदे पु० ब० व०। “शका निषादा निषधास्तथैवानर्त्तनैरृताः” भा० भी० ९ अ० जनषदोक्तौ। “निषधेषु महीपालो वीरसेन इति श्रुतः” भा० व० ५२ अ०। निषधानां राजा ते अभिजनोऽस्य वा अण्। नैषध तद्देशनृपे पित्रादिक्रमेण तद्देशवासिनि च। “न नैषधे कार्यमिदं निगाद्यम्” नैष० बहुषु अणो लुक्। ५ कठिने त्रि० मेदि० ६ निषादस्वरे हेमच०। ७ कुरुनामकनृपपुत्रे च “तपत्यां सूर्य्यकन्यायां कुरुक्षेत्रपतिः कुरुः। परीक्षित् सुधनुर्मन्युर्निषधश्च कुरोः सुताः” भाग० २२। ३

निषाद = पुंस्त्री निषीदति पापमत्र नि + सद–आधारे घञ्। १ चण्डाले जातिभेदे अमरः तन्निरुक्तिः “निषादः कस्मान्निषदनो भवति निषण्णमत्र पापकमिति” निरु० ३। ८। वेनोरुमन्थनाज्जाते २ जातिभेदे तत्कथा “दग्धस्थूणाव्रतीकाशी विकटाक्षोऽतिह्रस्वकः। किङ्करोमीति तान् सर्वान् विप्रानाह स चातुरः। निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत्। ततस्तत्सम्भवा जाता विन्ध्यशैलनिवासिनः। निषादा मुनिशार्दूल! पापकर्मोपलक्षणाः। तेन द्वारेण निष्क्रान्तं तत्पापं तस्य भूपतेः। निषादास्ते ततो जाता वेनकल्मषनाशनाः” स्त्रियां लातित्वात् ङीष्। “निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि” भा० आ० १ अ०। तन्त्रीकण्ठोत्थिते ३ स्वरभेदे पु० अमरः। “षड्जादयः षडेतेऽत्र स्वराः सर्वे मनोहराः। निषीदन्ति यतो लोके निषादस्तेन कथ्यते। चतस्रः पञ्चमे षड्जे मध्यमे श्रुत्तयो मताः। ऋषभे धैवते तिस्रोद्वे गान्धारनिषादके” सङ्गीतदामोदरः “निषादं रौति कुञ्जरः” इत्युक्तेः तस्य हस्तितुल्यस्वरता। ४ ब्राह्मणाच्छूद्रकन्यायामुत्पन्ने पारशवाख्ये जातिभेदे च “ब्राह्मणात् वैश्यकन्यायामम्बष्ठो नास जायते निषादः। शूद्रकन्यायां यः पारशव उच्यते” मनुः। “मत्स्यघातोनिषादानाम्” मनुना तद्धृत्तिरुक्ता ५ देशभेदे स च देशः सरस्वती नद्यन्तर्द्धानस्थानं यथोक्तं भा० व० १३० अ० “एतद्विनशनं नाम सरस्वत्या विशाम्पते!। द्वारं निषादराष्ट्रस्य येषां दोषात् सरस्वती। प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः”।

निषादकर्षू = पु० देशभेदे ततः शैषिकः ठञ् “इसुसुक् तान्तात् कः” पा० ठस्य कः, “केऽणः” पा० ह्रस्वः। नैषादकर्षुक तत्सम्बन्ध्यादौ त्रि०।

निषादवत् = पु० निषादोऽस्त्यस्य मतुप् मस्य वः। १ निषाद- स्वरे “षड्ज ऋषभगान्धारौ मध्यमो धैवतस्तथा। पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान्” भा० शा० १८४ अ०। २ निषादस्वरयुक्ते गानादौ त्रि० स्त्रियां ङीप्।

निषादित = न० नि + सद–णिच्–भावे क्त। १ निषादने उपवेशनकरणे। निषादितमनेनेत्यर्थे इष्टा० इनि। निषादितिन् निषादनकर्त्तरि त्रि० स्त्रियां ङीप्। कर्मणि क्त। २ उपवेशिते त्रि०।

निषादिन् = पु० निषादयति हस्तिनं नि + सद–णिच्–णिनि। हस्त्यादेरुपवेशनादिकारके १ हस्तिपके अमरः “निर्याण निर्यदसृजं चलितं निषादी” माघः। नि + सद–णिनि। २ उपविष्टे “आतपात्ययसंक्षिप्तनीरारासु निषादिनिः” रघुः। स्त्रियां ङीप्। “इक्षुच्छायानिषादिन्यः” रघुः।

निषिक्त = त्रि० नि + सिच–क्त। १ नितान्तसिक्ते आहिते २ शुक्रादौ च ३ तज्जे गर्भे च “योनेः शरीरम्” शा० सूत्रभाष्ये “योनौ निषिक्ते रेतसि” उक्तम् “विष्णुं निषिक्तपामवोभिः” ऋ० ७। ३६। ९ “निषिक्तपाम् निषिक्तस्य गर्भस्य रक्ष तारम्” भा०।

निषिद्ध = त्रि० नि + सिध–कर्मणिक्त। १ निषेधविषये २ बाधिते “निषिद्धैरप्येभिर्लुलितमकरन्दैर्मधुकरैः” वेणीसं०। ३ भ्रमावगतेष्टसाधनतानिषेधिनञ्पदयोगिवाक्यगम्ये ४ अनिष्टसाधनताबोधकलिङाद्यनुषक्तनञ्पदयोगिवाक्यगम्ये च यथा “न कलञ्जं भक्षयेत्” इत्यत्र “कलञ्जभक्षणं निषिद्धम्” “काम्यनिषिद्धवर्जनपुरःसरम्” वेदान्तसा०।

निषेक = पु० नि + सिच–भावे घञ् कुत्वम्। १ जलादेः नितान्त सेचने २ गर्भाधाने च “निषेकादिश्मशानान्तोमन्त्रैर्यस्योदितो विधिः” मनु० “योषित्सु तद्वीर्य्यनिषेकभूमिः” कुमा०। “वैदिकैः कर्ममिः पुण्यैर्निषेकादिर्द्विजन्मनाम्। कार्यः शरीरसंस्कारः” मनुः। “निषेककाले सोमे च सीमन्तोन्नयने तथा। ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्गमेव च” श्रा० त० भविष्यपु०। “निषेककाले गर्भार्थशुक्राधानदिने” रघु०।

निषेदिवस् = त्रि० नि + सद–कसु। निषण्णे उपविष्टे स्त्रियां ङीप् सेटोवस्य उः। “निषेदुषो स्थण्डिल एव केवले” कुमा०

निषेध = पु० नि + सिध–भावे घञ्। १ वारणे २ निवर्त्तने। निषिध्यतेऽनेन करणे घञ्। ३ अनिष्टसाधनताबोधक वेदादिवाक्यभेदे “स च (वेदः) विधिमन्त्रनामधेयनिषेधार्थवादभेदात् पञ्चविधः” लौगाक्षिभास्करः। तल्लणादि तत्र निरूपितं यथा “पुरुषस्य निवर्त्तकं वाक्यं निषेधः निषेधवाक्यानामर्थहेतुक्रियानिवृत्तिजनकत्वेनैवार्थवत्त्वात्। तथाहि यथा विधिः प्रवर्त्तनां प्रतिपादयन् स्वप्रवर्त्तकत्वनिर्वाहार्थं विधेयस्य यागादेरिष्टसाधनत्वमाक्षिपन् पुरुषं तत्र प्रवर्त्तयति। तथा “न कलञ्जं भक्षयेत्” इत्यादि निषेषोऽपि निवर्त्तयन् स्वनिवर्त्तकत्वनिर्वाहार्थं निषेध्यस्य कलञ्जभक्षणस्य परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्त्तयति। ननु निषेधवाक्यस्य कथं निवर्त्तनाप्रतिपादकत्वमिति चेत्? उच्यते न ताबदत्र धात्वर्थस्य नञर्थेनान्वयः अव्यवधानेऽपि तस्य प्रत्ययार्थभावनोपसर्जनत्वेनोपस्थितेः। न ह्यन्योपसर्जनत्वेनोपस्थितमन्यत्रान्वेति। अन्यथा राजपुरुषमानयेत्यादावपि राज्ञः क्रियान्वयापत्तेः। अतः प्रत्ययार्थस्यैव नञर्थेऽन्वयः। तत्रापि नाख्यातांशवाच्यार्थभावनायाः, तस्या लिङशवाच्यप्रवर्त्तनोपसर्जनत्वेनोपस्थितेः। किन्तु लिङशवाच्यशाब्द भावनायाः, तस्याः सर्वापेक्षया प्रधानत्वात्। नञश्चैष स्वभावो यत् स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम्। यथा “घटोनास्तीत्यादौ” अस्तीति शब्दसमभिव्याहृतो नञ् घटसत्ताविरोधिनिवर्त्तनामेव वोधयति विधिवाक्यश्रवणेऽय मां प्रवर्त्तयतीति प्रतीतेः। तस्मान्निषेधवाक्यस्थले निवर्त्तनैव वाक्यार्थः! यदा तु प्रत्ययार्थस्य तत्रान्वये बाधकं तदा धात्वर्थस्यैव तत्रान्वयः। तच्च बाधकं द्विविधम्। तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्च। तत्राद्यं “नेक्षेतोद्यन्तमादित्यम्” इत्यादौ तस्य व्रतमित्युपक्रम्यैतद्वाक्यपाठात्। तथा चात्र पर्युदासाश्रयणम्। तथा हि व्रतशब्दस्य कर्त्तव्यार्थरूढत्वात्तस्य व्रतमित्यत्र स्नातकस्य व्रतानां कर्त्तव्यत्वेनोपक्रमात् किं तत् कर्त्तव्यमित्याकाङ्क्षायां “नेक्षेतोद्यन्तमादित्यम्” इत्यादिना कर्त्तव्यार्थ एव प्रतिपादनीयः। अन्यथा पूर्वोत्तरवाक्ययोरेकवाक्यत्वं न स्यात्। तथा च नञर्थेन प्रत्ययार्थान्वये स्कर्त्तव्यार्थानवबोधात् विध्यर्थप्रवर्त्तनाविरोधिनिवर्त्त नाया एव तादृशनञा बोधनात् तस्याश्च कर्त्तव्यार्थत्वाभावात्। तस्मान्नेक्षेतेत्यत्र नञा धात्वर्थविरोध्यनीक्षणसङ्कल्प एव लक्षणया प्रतिपाद्यते। तस्य कर्त्तव्यत्वसम्भवात्। आदित्यविषयकारोक्षणसङ्कल्पेन भावयेदिति वाक्यार्थस्तत्र भाव्याकाङ्क्षायाम् “एतावता हैनसा वियुक्तो भवतीति” वाक्यशेषावगतः एपिक्षयो भाव्यतयान्वेति। एवञ्च पूर्वोत्तरयोरेकवाक्यत्वं निर्वहत्येव। न चात्र धात्वर्थविरोधिनः पदार्थान्तरस्यापि सम्भवात् कथमनीक्षणसङ्कल्पस्यैव भावनान्वय इति वाच्यम् तत्र कर्त्तव्यत्वाभावेन प्रकृते भावनान्वयायोग्यत्वात्। द्वितीयं “यजतिषु ये यजामहङ्करोति नानुयाजेषु” इत्यादौ। अत्र विकल्पप्रसक्त्यैव पर्युदासाश्रयणात्। तथाहि यद्यत्र वाक्ये नञर्थे प्रत्ययार्थान्वयः स्यात्तदा “अनुयाजेषु ये यजामहे” इति मन्त्रस्य प्रतिषेधः स्यात्। अनुयाजेषु ये मजामहे” न कुर्यादिति। स च प्राप्तिपूर्वक एव प्राप्तस्यैव प्रतिषेधात्। प्राप्तिश्च यजतिषु “ये यजामहङ्करोतीति” शास्त्रादेव वाच्या। शास्त्रप्राप्तस्य च प्रतिषेधे विकल्प एव न तु बाधः। प्राप्तिमूलरागस्येव तन्मूलशास्त्रस्य शास्त्रान्तरेण बाधायोगात्। न च पदे जुहोतीत्यादौ हि विशेषशास्त्रेणाहवनीये जुहोतीति शास्त्रस्येव नानुयाजेष्वित्यनेन यजतिषु ये यजामहङ्करोतीत्यस्य बाधः स्यादिति वाच्यम् परस्परनिरपेक्षयोरेव शास्त्रयोर्बाध्यबाधकभावात्। पदशास्त्रस्य हि स्वार्थविधानार्थमाहवनीयशास्त्रानपेक्षणान्निरपेक्षत्वम्। प्रकृते तु निषेधशास्त्रस्य निषेध्यप्रसक्त्यर्थं “यजतिषु ये यजामहम्” इत्यस्यानपेक्षणान्न निरपेक्षत्वम्। तस्माच्छास्त्रविहितस्य शास्त्रान्तरेण प्रतिषेबे विकल्पएव, स च न युक्तः। विकल्पे शास्त्रस्य पाक्षिकाप्रामाण्यापातात्। न “ह्यनुयाजेषु ये यजामहम् इत्यस्यानुष्ठाने नानुयाजेष्वित्यस्य प्रामाण्यं सम्भवति, व्रीहियागानुष्ठाने यवशास्त्रस्येव। द्विरदृष्टकल्पना च स्यात्, विधिप्रतिषेधयोरपि पुरुषार्थत्वात्। अतोऽत्र न प्रतिषेधस्याश्रयणम्। किन्तु अनुयाजसम्बन्धमाश्रित्य पर्युदासस्यैव। इत्थञ्चानुयाजव्यतिरिक्तेषु “यजतिषु ये यजामहे” इति मन्त्रं कुर्य्यादिति वाक्यार्थबोधः नञोऽनुयाजव्यतिरिक्ते लाक्षाणिकत्वात्। एवञ्च न विकल्पः। अत्र च वाक्ये “ये यजामहे” इति न विधीयते। “यजतिषु ये यजामहे” इत्यनेनैव प्राप्तत्वात्। किन्तु सामान्यशास्त्रप्राप्तये “ये यजामहे” इत्यनुवादेन तस्यानुयाजव्यतिरिक्तविषयत्वं विधीयते यत् यजतिषु ये यजामहङ्करोति तदनुयाजव्यतिरिक्तेष्वेवेति। नन्वेवं सामान्यतः प्राप्तस्य विशेषसङ्कोचरूपादुपसंहारात् पर्युदासस्य भेदो न स्यादिति चेन्न उपसंहारो हि तन्मात्रसङ्कोचार्थः। यथा पुरोडाशे “चतुर्द्धा करोतीति” सामान्यप्राप्तचतुर्द्धाकरणम् “आग्नेय चतुर्द्धा करोतीति” विशेषादाग्नयपुरोडाशमात्रे सङ्को च्यते पर्युदासस्तु तदन्यमात्रसङ्कोचार्थ इति ततो भेदात्। कुत्रचिद्विकल्पप्रसक्तावप्यनगत्या प्रतिषेधाश्रयणम्। यथा “नातिरात्रे षोडशिनं गृह्णाति” इत्यादौ। अत्र “अतिरात्रे षोडशिनं गृह्णातीति” शास्त्रप्राप्तषोडशिग्रहणस्य निषेधाद्विकल्पप्रसक्तावपि न पर्युदासाश्रयणम्, असम्भवात्। तथाहि यद्यत्र षोडशिपदार्थे नञर्थान्वयस्तदातिरात्रे षोडशिव्यतिरिक्तं गृह्णातीति वाक्यार्थबोधः स्यात्। स च न सम्भवति “अतिरात्रे षोडशिनं गृह्णातीति” प्रत्यक्षविधिविरोधात्। यदि चातिरात्रपदार्थेनान्वयस्तदातिरात्रव्यतिरिक्ते षोडशिनं गृह्णातीति वाक्यार्थबोधः स्यात्। सोऽपि न सम्भवति, तद्विधिविरोधात्। अतोऽनन्यगत्या शास्त्रप्राप्नषोडशिग्रहणस्यैव निषेधः। न च विकल्पप्रसक्तिः तस्याप्याश्रयणीयत्वात्। इयांस्तु विशेषो यद्विकल्पादावेकप्रतिषिध्यमानस्य नानर्थहेतुत्वम्। यथा “न कलञ्जं भक्षयेत्” इत्यादौ कलञ्जभक्षणादेः, तत्र भक्षणनिषेधस्यैव पुरुषार्थत्वात्। न च “दीक्षितो न ददाति न जुहोति” इत्यादौ शास्त्रप्राप्तदानहोमादीनां निषेधाद्विकल्पापत्तिरिति वाच्यम्। स्वतः पुरुषार्थभूतदानहोमादीनां निषेधस्य पुरुषार्थत्वाऽभावेपि निषिध्यमानस्यानर्थहेतुत्वम् यथा क्रतौ स्त्रीगमनादेः। तन्निषेधस्य क्रत्वर्थत्वेन तस्य क्रतुवैगुण्यसम्पादकत्वात्”।

निषेधक = त्रि० नि + सिध–ण्वुल्। निवारके “ये चाह्लादनिषेधकाः” मार्कण्डपु०।

निषेधविधि = पु० निषेधे अभावे विधिरिष्टसाधनताधीहेतुः। अभावे इष्टसाधनताबोधकवाक्ये यथा “एकादश्यां न भुञ्जीतेत्यादौ” भोजनाभावे एव इष्टसाधनत्वं बोधयति न तु भोजने विध्यर्थेष्टसाधनत्वभावम्, अतो निषेधवाक्यादस्य भेदः। “अष्टम्यां मांसं नाश्नीयात्” इत्यादौ तु निषेधे मांसजोजने अनिष्टसाधनत्वं बोधयति “एकादश्यां न भुञ्जीत” इत्यादौ तु भोजनाभावे इष्टसाधनत्वमिति विधिस्वरूपे गदाधरः। एवं नेक्षेतोद्यन्तमादित्यमित्यादावपि निषेधविधित्वमित्याकरे स्थितम्। अतएव एकादशीभोजनाभावस्य अभोजनसंकल्परूपस्य व्रतत्वम् तिथिखण्डविशेषनियमनं, च। निषेधत्वे कालमात्रापेक्षतया तत्कालमात्रेण निवृत्तिः स्यात् “निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते” इति भट्टोक्तेः।

निष्क = माने चु० आत्म० सक० सेट्। १ निष्कयते अनिनिष्कत। अणोपदेशत्वात् सति निमित्ते न णत्वम्। प्रनिष्कयते।

निष्क = पु० न० निश्चयेन कायति निस् + कै–क निष्क–अच वा। शास्त्रीयषोडशमाषकपरिमितसुवर्णानामष्टाधिकशते, २ व्यवहारिकरूपके (टाका) ३ चतुसुवर्णपरिमिते पलपरिमाणे मानभेदे, ४ वक्षोभूषणे ५ हेमपात्रे ६ दीनारे च अमरः। दीनारशब्दे दीनारार्थः दृश्यः। ७ पणे ८षोडशद्रम्मे (काहन) परिमाणे “वराटकानां दशकद्वय यत् सा काकिणी ताश्च पणश्चतस्रः। ते षोडश द्रम्म इहावगम्यो द्रम्मैस्तथा षोडशभिश्च निष्कः” लीला०। “हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम्” कुमा० “चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः” मनुः “गवामभावे निष्कः स्यात् तटूर्द्धं पादमेव वा” मिता० धृता स्मृतिः।

निष्कण्टक = त्रि० निर्गतः कण्टकोऽस्य प्रा० ब०। १ उपसर्गहीने २ बाधकरहिते “राज्यं निष्कण्टकंकृत्वा भोक्ष्यसे मेदिनीं पुनः” भा० वि० ६ अ०।

निष्कण्ठ = पु० विर्गतः कण्ठः स्कन्धोऽस्य। वरुणद्रुमे शब्दच०

निष्कम्प = त्रि० निर्गतः कम्पो यस्य प्रा० ब०। कम्पहीने “निवातनिष्कम्पमिव प्रदीपम्” “निष्कम्पवृक्षंनिभृतद्विरेफम्” कुमा० “दिशः पपात पत्रेण वेगनिष्कम्पकेतुना” रघुः।

निष्कम्भु = पु० देवसेनाधिपभेदे “बलिना वृषपर्वा तु सह निष्कम्भुना रणे” हरिवं० २४४ अ० देवासुरयुद्धोक्तौ।

निष्कर्ष = पु० निस् कृष + भावे घञ्। १ निश्चये २ इयत्तादिना स्वरूपपरिच्छेदे “एतद्विदन्तोविद्वांसस्त्रयीनिष्कर्षमन्वहम्” मनुः। “स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते” भाषा०। ३ निःसारणे च

निष्कर्षण = न० निस् + कृष–प्रावे ल्युट्। १ निष्कासने २ निःसारणे “ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम्” रघुः

निष्कल = त्रि० निर्गता कला यस्य प्रा० ब०। १ कलाशून्ये २ निरवयवे सम्पूर्णे “निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्” श्वेता० उ० “चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः” एका० जामदग्न्यवाक्यम्। ३ कलादिव्यापारशून्ये च “दृश्यन्ते निष्कलाः शान्तं प्रहीणाः स्वस्वकर्मभिः” भा० व० २०८ अ०। ४ गतार्त्तवायां वृद्धायां स्त्रियां स्त्री शब्दरत्ना० नीरकस्कायां स्त्रियां स्त्री ङीप् शब्दरत्ना०।

निष्कषाय = त्रि० निर्गतः कषायः चित्तमलभेदो यस्य प्रा० ब०। १ चित्तदोषशून्य निर्मलचित्ते नुमुक्षौ। उत्सर्पिण्यां २ जिनभेदे पु० हेमच०।

निष्कादि = पु० “अससासे निष्कादिभ्यः” षा० तेन क्रीतभित्यर्थे असमासे ठग्निमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “निष्क पण पाद माष वाह द्रोण षष्टि”। निष्केण क्रीतं नैष्किक निष्केण क्रीते त्रि०। स्त्रियां टाप्। समासे तु ठञ् स्त्रियां ङीप् इतिभेदः

निष्काम = त्रि० निर्गतः कामोऽभिलाषो यस्य यत्र वा प्रा० ब०। विषयभोगेच्छाशून्ये १ कामनयाऽकृते कर्मादौ च “निष्कामं ज्ञानपूर्वं च निवृत्तमुपदिश्यते” मनुः। “निष्कामादन्तर्यागजपादिकर्मणो न दुःखं प्रत्युत मोक्षफलं प्राप्यते” सा० प्र० भा० “विशिष्टफलदाः पुंसां निष्कामाणां विमुक्तिदाः” मल० त० विष्णु पु० “निष्कामाणां मुक्तिप्रतिकूलकामनारहितानाम्” रघुनन्दनः।

निष्कालक = पु० निर्गतः कालकः केशादिः मुण्डनेन यस्य प्रा० ब०। २ मुण्डितकेशलोमादौ “निष्कालको घृताभ्यक्तस्तप्तां शूमी” परिष्वज्य मरणात् पूतो भवतीति विज्ञायते” वसिष्ठः। प्रा० ब० कप्। २ निर्गतसमयके अभावे अव्ययी०। ३ कालकाभावे अव्य०। निरुदकादि० अन्तोदात्ततास्य

निष्कालन = न० निर् + कल–भावे ल्युट्। १ चालने २ भारणे च

निष्कालिक = अव्य० कालिकस्याभावः अव्ययी०। कालिका भावे निरुदकादि० अस्य अन्तोदात्तता। काले कालने साधु तदर्हति वा ठञ् कालिकः काली कालयिता जेता वा स निर्गतो यस्य प्रा० ब० कप् वा। २ कालयितृहीने जेतृशून्ये अजय्ये च त्रि०। “तं सूतपूतं रथिनां वरिष्ठं निष्कालिकं कालवशं नयाद्य” भा० क० ७२ अ०। निष्कालिक० निर्गतः काली कालयिता जेता यस्येति विग्रहः” नीलकण्ठः।

निष्का(श)स = पु० निर + कश(स)–भावे घञ्। निष्कासने बहिष्करणे १ निःसारणे “सन्ध्ये रजनीदिनयोः प्रवेश निष्काशौ(सौ)” हला० “न च पश्यामि निष्काश(स)म्” रामा० कि० ५२ सर्गः। कर्त्तरि घञ्। प्रासादाद्युपरितो बहिर्गतभागे (साजा) ख्याते पदार्थे च।

निष्काशि(सि)त = त्रि० निस् + क(श)स–गतौ णिच्–क्त। १ निःसारिते दन्त्यमध्यस्तु दूरीकृते समपसारिते जटा०। ३ निर्गमिते ४ आहिते अधिकृते च त्रि० मेदि०।

निष्काष = पु० निर्–कष घञ्। तापवशादधःस्थालीतललग्ने पयस्यावशेषे “वारुणीनिष्काषेणावभृथम्” कात्या० श्रौ० ५। ५२९। उक्तार्थएव कर्केणोक्तः।

निष्किञ्चन = त्रि० निर्गतं किञ्चन गम्यं धनं वा यस्य प्रा० ब०। १ किञ्चनशून्ये विषयान्तरशून्ये “प्रज्ञानं शौचमेवात्र शरीरस्य विशेषतः। तथा निष्किञ्चनत्वं मनसश्च प्रसन्नता” भा० अनु० १०८ अ०। २ अकिञ्चने दरिद्रे च।

निष्कुट = पु० निस् + कुट–क। १ गृहसमीपस्थे उपवने अमरः २ केदारे क्षेत्रे ३ राज्ञाम् अन्तःपुरे च मेदि०। “अवस्करे चिरं स्थानं निष्कुटेषु च वर्जयेत्” भा० व० २२३ अ०। ४ पर्वतभेदे “स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम्” भा० स० २६ अ०। “सपर्वतवनाकाशां ससमुद्रां सनिष्कुटाम्” भा० ब० २५३ अ०।

निष्कुटि(टी) = स्त्री कृट–इन् कौटिल्यम् निर्गता कुटिर्यस्याः बा० ङीप्। एलायाम् अमरः।

निष्कुटिका = स्त्री निष्कुटः अस्त्यस्याः वासत्वेन ठन्। कुमारानुचरमातृभेदे “ऋक्षाऽम्बिका निष्कुटिका वामा चत्वरवासिनी” भा० श० ४७ अ० स्कन्दमातृगणोक्तौ।

निष्कुम्भ = पु० नि + ष्कुन्भ–अच् षत्वम्। १ दन्तीवृक्षे रायमुकुटः। निर्गतः कुम्भोऽस्य प्रा० ब०। २ कुम्भशून्ये च त्रि०।

निष्कुल = त्रि० निर्गतं कुलमक्यवानां समूहो यस्मात् प्रा० ब०। अवयवसमूहशून्ये। ततः निष्कोषणे कृञि डाच्। निष्कुलाकरोति दाडिमम् निष्कोषयतीत्यर्थः। निर्गतं कुलं सपिण्डादिर्यस्य प्रा० ब०। २ सपिण्डादिकुलरहिते त्रि०। “वशाऽपुत्रासु चैवं स्यात् रक्षणं निष्कुलासु च। पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च” मनुः “निष्कलासु सपिण्डरहितासु” कुल्लू०।

निष्कुलीकृत = त्रि० निष्कुल + अभूततद्भावे च्वि–कृ–कर्मणि क्त। निष्कुषिते “काश्मर्य्याणां निष्कुलीकृतानाम्” सुश्रुतः।

निष्कुषित = त्रि० निस् + कुष–निष्कर्षे क्त। १ निस्त्वचीकृते खण्डिते “काकैर्निष्कुषितं श्वभिः कवलितं वीचिभिरान्दोलितम्” गङ्गास्तोत्रम्। “चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः” भट्टिः “उपान्तयोर्निष्कुषितं विहङ्गैः” रघुः। २ मरुद्गणभेदे पु० “अश्मन्तं चित्ररश्मिञ्च तथा निष्कुषितं नृपम्” हरिवं० २०४ अ० मरुद्गणोक्तौ।

निष्कुह = पु० निःशेषेण कुहयते विस्मापयति कुह–अच्। वृक्षादिस्थे स्वयंजाते रन्धे कोटरे अमरः।

निष्कृति = स्त्री निर् + कृ–क्तिन्। १ निस्तारे २ गिर्मुक्तौ पापादिभ्य ३ उद्धारे च अमरः “कामतो ब्रह्मणबधे निष्कृति र्न विधीयते” मनुः “कृतघ्ने नास्ति निष्कृतिः” स्मृतिः

निष्कृष्ट = त्रि० निर + कृष–क्त। १ सारांशे २ निश्चिते च

निष्केवल्य = पु० यज्ञिये स्तोमकारितशंसनात्मके शस्त्रभेदे “माध्यन्दिने तु होतुर्निष्केवल्ये स्तोमकारितं शस्यम्” आश्व० श्रौ० ९। १। १४ “तत्र तु ऋग्भिरेव निष्केवल्यस्य स्तोमकारित शंसनं स्वस्तोमातिशंसनञ्च कर्त्तव्यं न सूक्तेन। यदि स्वस्तोमाधिको निष्केवल्यस्तोमस्तदा तस्मादप्यतिशंसनञ्च कर्त्तव्यं यदा हीनं तदास्मादतिशंसनमिति निष्केवल्ये स्तोमकारितमिति पाठः कर्त्तव्यो न निष्केवल्यस्तोमकारितमिति” नारा०। “निष्केवल्यमुक्थ्यमव्यथायै” यजु० १५। १३ “प्रौगं शंसति निष्केवल्यं शंसतीति” श्रुतिः तच्छस्त्रेण ग्राह्ये २ यज्ञपात्ररूपे ग्रहभेदे पु० “मरत्वतीयाश्च मे निषष्केवल्यश्च मे” यजु० १८। २०।

निष्कैवल्य = त्रि० केवलस्य भावः कैवल्यम् निश्चितकैबल्यमसहायत्वमस्य प्रा० व०। निश्चितकेवलत्वे अन्यासहकारिणि “निष्कैवल्येन पापेन तिर्य्यग्योनिमबाप्नुयात्। पुण्यपापेन मानुष्यं पुण्येनैकेन देवताम्” भा० शा० ३०४ अ०। २ निवृत्तकैवल्ये ३ मोक्षहीने च।

निष्कोषण = न० निर् + कुष–ल्युट्। अन्तरवयवार्ना बहिर्निःसारणे “शर्करासिकतामेहवातकुण्डलिकाष्ठीलादन्तशर्करोपकुशकण्ठशालूकनिष्कोषणदूषिताश्च दन्तवेष्टाः” सुश्रुतः

निष्कौशाम्बि = त्रि० निर्गतः कौशाम्ब्या नगर्य्याः निरा० त० तत्पुरुषे गौणत्वेन ह्रस्वः। कौशाम्ब्या नगर्य्या निर्गते।

निष्क्रम = पु० निर् + क्रम–घञ्। १ गृहादितो बहिर्गमने प्रथमनिष्क्रमनिमित्तं कर्त्तव्ये शिशोः २ संस्कारभेदे च “अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः” याज्ञ०।

निष्क्रमण = न० निर् + क्रम–ल्युट्। १ गृहादितो बहिर्गमने चतुर्थे मासि शिशोः कर्त्तव्ये प्रथमनिष्क्रमनिमित्ते २ संस्कारभेदे च। तन्मुहूर्त्तादिकं मुहू० पी० उक्तं यथा “दोलाधिरूढिरथ निष्क्रमणं चतुर्थमासे गमोक्तसमयेऽर्कमितेऽह्नि वा स्यात्” सू० “अथ निष्क्रमणमुहूर्त्तः तत्र चतुर्थमासे गमोक्तसमये यात्राभिहितसमीचीनतिथिवारनक्षत्रादिसहिते काले शिशूनां निष्क्रमणम्। निष्क्रमाख्यसंस्कारपूर्वं गृहाद्बहिर्गमनं कुर्य्यात्। वा अथवाऽर्कमितेऽह्नि द्वादशे दिवसे निष्क्रमणं कुर्य्यात्। यदाह मनुः “चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात्”। गुरुरपि “गृहात् निष्क्रमणं सूतेश्चतुर्थे मासि कारयेत्। यात्रोक्ते समये मासि तृतीये द्वादशेऽहनि” अत्र तृतीयमासोऽप्युक्तः। राजमार्त्तण्डे- नापि “मासे तृतीये शशिवृद्धिपक्षे क्षपाकरे शोभनगो चरस्थे। उत्पातपापग्रहवर्जिते भे निष्कासनं सौख्यकरं शिशूनाम्”। तदेतयोः पक्षयोर्यथागृह्यं व्यवस्था। मुहूर्त्तसंग्रहे तु निष्क्रमणे विशिष्य तिथ्याद्युक्तं यथा “पूर्वः पक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना। रिक्ताषष्ठ्यष्टमीदर्शद्वादशीश्च विवर्जयेत्। चत्वार्यार्यम्णतस्त्रीणि वैश्वात् त्रीणि च बुध्न्यभात्”। बुध्न्यभादुत्तराभाद्रपदातस्त्रीणि भानि। “मैत्रमादित्यपुष्यौ च रोहिणी च शुभावहाः। झषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानि च। सतां तु वारवर्गाश्च शुभदास्तूदयास्तथा। केन्द्रत्रिकोणगाः सौम्याः पापाः षष्ठत्रिलाभगाः। उपनिष्क्रसणे शस्ता मातुलो वाहयेच्छिशुमिति”। अधोमुखानि मूलाहिमिश्रोग्रमधोमुखं भवेदित्युक्तानि। उदयाः लग्नानि। एवंविधे सुलग्ने क्रियमाणस्य शिशुनिष्क्रमण फलमाह वृहस्पतिः। “अथ निष्क्रमण्णं नाम गृहात् प्रथमनिर्गमः। अकृतायां क्रियायां स्यादायुःश्रीनाशनं शिशोः”। कृते संपद्विवृद्धिः स्यादायुर्वर्द्धनमेव चेति” अत्र विशेषमाह यमः “तृतीये मासि कर्त्तव्यं शिशोः सूर्यस्य दर्शनम्। चतुर्थे मासि कर्त्तव्यमग्नेश्चन्द्रस्य दर्शनम्” इति। वेदभेदेन व्यवस्था ज्यो० त० दर्शिता यथा “चतुर्थमासीति ऋग्वेदियजुर्वेदिनोः। यथाह विष्णुः “चतुर्थमास्यादित्यदर्शनमिति”। शौनकोऽपि “चतुर्थे मासि पुण्यर्क्षे शुक्ले निष्क्रमणं शिशोः” पारस्करः “चतुर्थे मासि नष्क्रमणिक्यं सूर्यमुदीक्षयति तच्चक्षुरितीति” मासे तृतीय इति तु छन्दोगानां गोभिलेन जननान्तरं तृतीयशुक्लपक्षतृतीयायां चन्द्रदर्शनरूपनिष्क्रामणविधानात् यथा गोभिलः “जननाद्यस्तृतीयोज्यौत्स्नस्तत्तृतीयायामित्यादि”। ज्यौत्स्नः शुक्लपक्षः। अत्रैव कृत्यचिन्तामणिः “तस्मात् स्वस्वविधानतोऽर्कशशिनोरर्घ्यं शिशुं दापयेत्”। ततः तारका० संजातार्थे इतच्। निष्क्रमणित संजातनिष्क्रमणे त्रि०।

निष्क्रय = पु० निष्क्रीयते प्रत्याह्रियतेऽनेन परगृहीतम् निस् + क्री–करणे अच्। १ भृतौ वेतने २ विनिमयद्रव्ये तुल्य मूल्यद्रव्येण विनिमिते द्रव्ये। भावे अच्। ३ क्रये ४ बुद्धियोगे ५ सामर्थ्ये ६ निर्गमने च वैजय०। ७ प्रत्युपकारे ८ विनिमये च शब्दार्थचि० “समुत्क्षिपन् य० पृथिवीभृतां वरम् वरप्रदानस्य चकार शूलिनः। त्रसत्तुषाराद्रिसुताससम्भ्रमस्वयंग्रहश्लेषसुखेन निष्क्रयम्” माघः। ९ विक्रये “न निष्क्रयविसर्गाभ्यां मर्त्तुर्भार्य्या विमुच्यते” मनुः।

निष्क्रिय = त्रि० निर्गता क्रिया यस्य प्रा० ब० षत्वम्। क्रियादिव्यापारशून्ये “निष्कलं निष्क्रियं शान्तं निरबद्यं निरञ्जनम्” श्रुतिः “निष्क्रियस्य तदसम्भवात्” सा० सू० “अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः” भाषा०।

निष्क्वाथ = पु० निःसृतः काथः प्रा० त० षत्वम्। मांसादिकाथे (झोल) हेमच०।

निष्टक्वन् = त्रि० निर् + तक–सहने क्वनिप् वेदे षत्वटुत्वे। नितरां सहनशीले स्त्रियां “वनो र च” पा० ङीप् रश्चान्तादेशः। निष्टकरी। “दासों निष्टक्वरीमिच्छ” अथ० ५२२६

निष्टानक = पु० नितान्तस्तानकः शब्दभेदः प्रा० त० बा० षत्वटुत्वे। सव्यथशब्दे “निष्टानकश्च सुमहांस्तव सैन्यस्य चाभवत्” भा० भी० ४८ अ०।

निष्टि = स्त्री निश–समाधौ क्तिच्। अदितिसपत्न्यां १ दितौ “निष्टिग्र्याः पुत्रमाच्यावयोतयः” ऋ० १०१०११२ “निष्टिं दितिं स्वसपत्नीं गिरतीति निष्टिग्रीरदितिः तस्याः पुत्रम्” भा०।

निष्टुर् = त्रि० निस् + तॄ–क्विप् वेदे बा० उः रपरत्वम् षत्वटुत्वे। निस्तरते शत्रूणानभिभावके “प्र ब उग्राय निष्टुरे” ऋ० ८३२२७ “निष्टुरे शत्रून् निस्तरते” भा०।

निष्ट्य = पु० निर्गत्य स्त्रायते स्त्यै–क निस् + गतार्थे त्यष् वा। विसर्गलोपषत्वष्टुत्वे १ चण्डलादौ २ म्लेच्छजातिभेदे हेमच० ३ पुत्रादौ च। “यं मे निष्ट्यो यममात्यो निचखान” यजु० ५२३ “ष्ट्यै स्त्यै शब्दसङ्घातयोः नितरां स्त्यायति सङ्घातरूपेण सह वर्त्तते इति निष्ट्यः यद्वा निर्गत्य शरीरात् स्त्यायति विस्तीर्णो भवतीति निष्ट्यः पुत्रादिः। यद्वा निर्गतो वर्णाश्रमेभ्यो निष्ट्यः चण्डालादिः “निसो गते” इति पा० वार्त्तिकेन निस उपसर्गाद्गतार्थे त्यप् इति काशिकायाम्” वेददी०।

निष्ठ = त्रि० नि + स्था–क षत्वटुत्वे। नितरां स्थितिशीले “अथ वा हेतुमन्निष्ठविरहाप्रतियोगिना” भाषा०।

निष्ठा = स्त्री नि + स्पा–भावे अ षत्वटुत्वे। १ निष्पत्तौ २ नाशे ३ अन्तसीमायां ४ निर्वहणे च अमरः। ५ याच्ञायां वेदि०। (६ मांदौ श्रद्धायाम “लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ!। ज्ञानयोगेन सांख्यानां कर्मयोतेन योगिनाम्” गीता “तन्निष्ठस्य मोक्षोपदेशात्” शा० सू० “तस्मिन्नात्मनि चेतने निष्ठा यस्येति विग्रहः। “तेषां निष्ठा तु का कृष्ण! सत्वमाहो रजस्तमः” गीता। ७ अवघारणे च “घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मनएव च। न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति” भा० आश्व० ६६५ श्लो०। व्याकरणपरिभाषिते ८ क्त क्तवतुप्रत्यये “क्तक्तवतू निष्ठा” पा० “औरनिड्निष्ठः” धातुपाठः। नितरां निष्ठन्ति भूतान्यत्र आधारे बा० अ। प्रलये सर्वभूतस्थित्याभारे ९ विष्णौ स्त्री “निष्ठा शालिः परायणः” विष्णुस०।

निः(नि)ष्ठा = त्रि० नि(निर्) + स्था–क्विप् षत्वटुत्वे वा विसर्गलोपः। नितरां यथा भूतस्थितौ “जातो निःष्ठामदधुर्गोषु धीरान्” ऋ० ३३११० “निष्ठां पूर्वं यथास्थितिमर्कार्षुः तथा” भा० अस्य शसाद्यजादौ निःष्ठः निःष्ठा निःष्ठे इत्यादिरूपमिति भेदः।

निष्ठान = न० नि + स्था–करणे ल्युट् षत्वटुत्वे। भक्ताद्युपसेचने तेमने व्यञ्जने अमरः।

निष्ठानक = पु० नागभेदे “निष्ठानको हेमगृहो नहुषः पिङ्गलस्तथा” भा० आ० ३५ अ०।

निष्ठान्त = त्रि० निष्ठा नाशोऽन्ते यस्य। नाशान्ते वस्तुनि। “निष्ठान्तं पश्य चापि त्वं क्षात्रं धर्मञ्च केवलम्” भा० स्त्री० ११ अ०। २ नितरांस्थित्यन्ते च “नानादिरथ निष्ठान्तो मानुषा बहवो यथा” अनु० १०१ अ०।

निष्ठित = त्रि० नि + स्था–क्त षत्वटुत्वे। १ नितरांस्थिते वस्तुनि २ निष्ठायुक्ते च “बुद्धियोगवलोत्साहैः सर्वास्त्रेषु च निष्ठितः” भा० आ० १३२ अ०।

निष्ठी(ष्ठे)व = पु० नि + ष्ठिव–भावे घञ् वा दीर्घः। ष्ठीवने श्लेष्मादीनां मुखान्निरसने हेमच०।

निष्ठी(ष्ठे)वन = न० नि + ष्ठिव–भावे ल्युट् वा दीर्घः। श्लेष्मादीनां मुखेन निरसने “वान्तं निष्ठीवनं चैव कुर्वते चास्यसन्निधौ” भा० शा० ५६ अ० “क्षुतेऽवलीढे वान्ते च तथा निष्ठीवनादिषु। कुर्य्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम्” मार्कण्डपु० ३४ अ०।

निष्ठीवित = न० निष्ठीवं करोति कृतौ निष्ठीव + णिच्–भावे क्त। निष्ठीवनकरणे “वाचः परुषा निष्ठीवितं क्षुतं चाशुभं कथितम्” वृ० स० ५२ अ०।

निष्ठुर = न० नि + स्था–उरच् मद्गुरादि० नि० षत्वटुत्वे। १ परुषवाक्ये २ कठोरे त्रि०। “गुह्याङ्गामेध्यशब्दानां वचनं निष्ठुरं विदुः। यदन्यद्वा वचो नीच स्त्रीपुंसमैथुनाश्रयम्” इत्युक्ते ३ अश्लीलवाक्ये न० ४ तत्तद्विशिष्टे त्रि० अमरः। “हिंस्ना भवतु ते बुद्धिरेतासु कुरु निष्ठुरम्” भट्टिः। “संरब्ध हस्तिपकनिष्ठुर चोदनामिः” माघः।

निष्ठुरिक = पु० नागभेदे “आप्तः कोटरकश्चैव शिखी निष्ठुरिकस्तथा” भा० उ० १०२ अ०।

निष्ठ्यूत = त्रि० नि + ष्ठिव–क्त ऊठ्। १ मुखेन निरस्ते श्लेष्मादौ “अङ्गुष्ठनिष्ठ्यूतमिवोर्द्धमुच्चैः” माघः “श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तु कामतः” मनुः भावे क्त। २ निष्ठीवने न०।

निष्ण = त्रि० नि + स्मा–क “निनदीभ्यां स्वातेः कौशले” पा० षत्वे टुत्वम्। कुशले “आतिथ्यनिष्णा वनवासिमुख्याः” भट्टिः।

निष्ण्णात = त्रि० नि + स्ना–कर्त्तरि क्त “निनदीभ्यां स्नातेः कौशले” पा० षत्वे टुत्वम्। १ कुशले निपुणे अमरः। “निष्णातैरथ सरसा प्रियासमूहैः” माघः। २ पारङ्गते च “वैशम्पायनएवैको निष्णातोयजुषामुत” भाग० १। ३ अ०।

निष्पक्व = त्रि० नितान्तं पक्वम्। “इदुदुपधस्य चाप्रत्ययस्य” पा० वत्वम्। १ अतिशवेन पक्वेव्यञ्जने २ क्वाथिते दशमूलादौ च “पर्णकषायनिष्पक्वा एतामापो भवन्ति” शत० ब्रा० ६५११

निष्पतिष्णु = त्रि० निस् + पत–बा० इष्णुच् षत्वम्। नितान्तपतनशीले “इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः। सर्वतो निष्पतिष्णूनि” भा० शा० २५० अ०।

निष्पतिसुता = स्त्री निर्गतौ पतिः सुतश्च यस्याः प्रा० ब० षत्वम्। अवीरायां पतिपुत्रविहीनायां स्त्रियां अमरः।

निष्पत्ति = स्त्री निर् + पद–क्तिन् षत्वम्। १ समाप्तौ २ सिद्धौ च “कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते” कुमा० “निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवस्थिता” मार्क० पु० ४३ अ०।

निष्पत्र = त्रि० निर्गतमन्यपार्श्वेन निःसृतं पत्रं शरपुङ्खो यस्य प्रा० व० षत्वम्। १ एकपार्श्वनिक्षिप्तसपुङ्खशरस्यापरपार्श्वेन निर्गमयुक्ते मृगादौ ततः “सपत्रनिष्पत्रादतिव्यथने” पा० कृञोयोगे डाच्। निष्पत्राकरोति मृगं सपुङ्खस्य शरस्यापरपार्श्वेन निर्गमनात् निष्पत्रं करोतीत्यर्थः सि० कौ०। निर्गतं पत्रं यस्य। निर्गतपत्रके त्रि०। “विध्यन्त्यनिष्पत्रम्” कात्या० श्रौ० १३३२३ “अनिष्पत्रमनिःसृतपत्रं विध्यन्ति क्षत्रियाः” कर्कः।

निष्पत्रक = त्रि० निर्गतं पत्रं पर्णं यस्य कप्। १ पत्रशून्ये स्त्रियां टाप् कापि अत इत्त्वम्। सा च २ करीरवृक्षे राजनि०।

निष्पत्राकृति = स्त्री निष्पत्र + डाच् कृ–भावे क्तिन्। अतिव्यथने हेमच०।

निष्पद = न० निर्गतं पदं पादोऽस्य प्रा० ब० षत्वम्। १ पादहीने २ तादृशयाने नौकादौ युक्तिकल्पतरुः। निष्पदयानञ्च नौकादिरूपं तद्विवरणमुक्तं तत्र यथा “नौकाद्यं निष्पदं यानं तस्य लक्षणमुच्यते। अश्वादिकन्तु यद् यानं स्थले सर्वं प्रतिष्ठितम्। जले नौकैव यानं स्यादतस्तां यत्नतो वहेत्”। तद्घटनादिकालो यथा “सुवारवेला तिथिचन्द्रयोगे चरे विलग्ने मकरादिषट्के। ऋक्षेऽन्त्यसप्तव्यतिरेकतोऽन्ये वदन्ति नौकाघटनादि कर्म। अश्विखरांशुसुधानिधिपूर्वामित्रधनाच्युतभे शुभलग्ने। तारकयोगतिथीन्दुविशुद्धौ नौगमनं शुभदं शुभवारे। वृक्षायुर्वेदगदिता वृक्षजातिश्चतुर्विधा। समासेनैव गदितं तेषां काष्ठं चतुर्विधम्”। तद्यथा “लघु यत् कोमलं काष्ठं सुघटं व्रह्मजाति तत्। दृढाङ्गं लघु यत् काष्ठमघटं क्षत्रजाति तत्। कोमलं गुरु यत् काष्ठं वैश्यजाति तदुच्यते। दृढाङ्गं गुरु यत् काष्ठं शृद्रजाति तदुच्यते। लक्षणद्वययोगेन द्विजातिकाष्ठसंग्रहः। क्षत्रियकाष्ठैर्घटिता भोजमते सुखसम्पदि नौका। अन्ये लघुभिः सुदृढैर्विदधति जलदुष्पदे नौकाम्। विभिन्नजातिद्वयकाष्ठजाता न श्रेयसे नापि सुखाय नौका। नैषा चिरं तिष्ठति भुज्यते च विभिद्यते वारिणि मज्जते च। न सिन्धुगाद्याऽर्हति लौहवन्धं तल्लोहकान्तैर्हियते हि लौहम्। विपद्यते तेन जलेषु नौका गुणेन बन्धं निजगाद भोजः”। अथ लक्षणानि “सामान्यञ्च विशेषश्च नौकाया लक्षणद्वयम्”। तत्र सामान्यम्। “राजहस्तमितायामा तत्पादपरिणाहिनो। तावदेवोन्नता नैका क्षुद्रेति गदिता बुधैः। अतः सार्द्धमितायामा तदर्द्धपरिणाहिनी। त्रिभागेणोन्नता नौका मध्यमेति प्रचक्षते। क्षुद्राऽथ मध्यमा भीमा चपला पटला भया। दीर्घा पत्रपुटा चैव गर्भरा मन्वरा तथा। नौकादशंकमित्युक्त राजहस्ताद्यनुक्रमात्। एकैकवृद्धैः सार्द्धैश्च विजानीयाद् द्वयं द्वयम्। उन्नतिश्च प्रवीणा च हस्तादर्द्धांशसम्मिता। अत्र भीमा भया चैव गर्भराख्या शुभप्रदा। मन्थरा परतोयास्तु तासा मेवाप्स्वधोगतिः। तासां गुणस्तु संक्षेपात् दृढता च प्रकीर्त्तिता”। अथ विशेषः “दीर्घा चैवोन्नता चेति विशेषे द्विविधा भिदा। तत्र दीर्घा यथा “राजहस्तद्वयायामा अष्टांशपरिणाहिनी। नौकेयं दीर्घिका नाम दशांशेनोन्नतापि च। दीर्घिका तरणिर्लोला गत्वरा गामिनी तरिः। जङ्घाला प्लाविनी चैव धारिणी वेगिनी तथा। राजहस्तैकैकवृद्ध्या नौकानामानि वै दश। उन्नतिः परिणाहश्च दशाष्टांशमितौ क्रमात्। अत्र लोला गामिनी च प्लाविनी दुःखदा भवेत्। लोलायमानामारभ्य यावत् भवति गत्वरा। लोलायाः फलमाधत्ते एवं सर्वासु निर्णयः। वेगिन्याः परतो या तु साखिलायोत्तरा तथा”। भोजोऽपि “नौकादीर्घं यथेच्छं स्यात् तत्रैतानि विवर्जयेत्। हस्तसंख्या परित्याज्या ८ वसु ४ वेद ९ ग्रहोत्तरैः। षष्ट्युत्तरमिता नौका कुलं हन्ति वलं धनम्। नवतेरुत्तरे यापि या चत्वारिंशतः परा”। यावदपरदशकं तावदेव तत् फलमिति। अथोन्नता। “राजहस्तद्वयमिता तावत् प्रसरणोन्नता। इभमूर्द्धाभिधा नौका क्षेमाय पृथिवीभुजाम्। ऊर्द्ध्वानूर्द्ध्वा स्वर्णमुखी शर्भिणी मन्थरा तथा। राजहस्तैकैकवृद्ध्या नाम पञ्च त्रयं भवेत्। अत्रानूर्द्ध्वा गर्भिणी च निन्दितं नाम युग्मकम्। मन्थरायाः परायास्तु ताः शुभाय यथोद्भवम्”। भोजोऽपि। बाणाग्न्युत्तरतो मानं नौका नाम शुभा वहेत्। पञ्चाशदूर्द्ध्वा दुल्लासं धननाशं त्रयोर्द्धतः। इत्युन्नता “घात्वादौ नामतो वक्ष्ये निर्णयं तरिसंश्रयम्। कनकं रजतं ताम्रं त्रितयं वा यथाक्रमम्। ब्रह्मादिभिः परिन्यस्य नौकाचित्रणकर्मणि। चतुःशृङ्गा त्रिशृङ्गा वा द्विशृङ्गा चैक शृङ्गिणी। सितरक्तपीतनीलवर्णास्ताःस्युर्यथाक्रमम्। केशरी महिषो नागो द्विरदो व्याघ्र एव च। पक्षी भेको मनुष्यश्च एतेषां वदनाष्टकम्। नावां सुखोपरिन्यस्य आदित्यादिद्रशाभुवाम्। कलशो दर्पणश्चन्द्र स्त्रैदशानां महीभुजाम्। हंसः केकी शुकः सिंहो गजोऽहिर्व्याव्रषट्पदौ। आदित्यादिदशाजातनौकोपरि परिन्यसेत्। नौकासु मणिविन्यासो विज्ञेयो नवदण्डवत्। सुमुक्तास्तवकैर्युक्ता नौका स्यात् सर्वतो भद्रा। तत्संख्या चेदथ रसवेदद्वयसम्मिता क्रमशः। कनकादीनां माला जयमालेति गद्यते सद्भिः। ब्रह्मक्षत्रे द्वितये एकैके वैश्यशूद्रयोनी। निर्गृहं सगृहं बाध तत्सर्वं द्विविधं भवेत्। निर्गृहं पूर्वमुद्दिष्टं सगृहाणि यथा शृणु। सगृहा त्रिविधा प्रोक्ता सर्वमध्याश्रमन्दिरा। सर्वतो मन्दिरं यत्र सा ज्ञेया सर्वमन्दिरा। राज्ञां कोशाश्चनारीणां फलमत्र प्रशस्यते। मध्यतो मन्दिरं यत्र सा ज्ञेया मध्यमन्दिरा। राज्ञां विलासया- त्रादिवर्षासु च प्रशस्यते। अग्रतो मन्दिरं यत्र सा ज्ञेया ह्यग्रमन्दिरा। चिरप्रवासयात्रायां रणे काले थनात्यये। मन्दिरमानं नौकाप्रसरत एवार्द्धभागतो न्यूनम्”। भोजस्तु दीर्घवृत्तवसुषड्दिवाकरानेकदिङ् नवमिता यथाक्रमम्। राजपञ्चभुजसम्मितोन्नतिर्मन्दिरे तरिगते महीभुजाम्। भास्करादिकदशाभुवां पुनर्धातुनिर्णयनमत्र पूर्ववत्। पताकाकलसादीनां निर्णयो नवदण्डवत्। काष्ठजं धातुजं चेति मन्दिरं द्विविधं भवेत्। काष्ठजं सुखसम्पत्त्यै विलासे धातुजं मतम्। अत्र शय्यासनादीनां मन्थरोल्लोचयोरपि। अन्येशाञ्चैव मुनिभिर्निर्णयः पूर्ववन्मतः। दिङ्मात्रमिदमुद्दिष्टं नौकालक्षणमग्रजम्। प्रधानेष्वेव नियमो अप्रधाने न निर्णयः। लघुता दृढता चैव गामिताऽच्छिद्रता तथा। समतेति गुणोद्देशो नौकानां सम्प्रकाशितः। एवं विचिन्त्य यो राजा नौकायानं करोति च। स चिरं सुखमाप्नोति विजयं समरे श्रियम्। योऽज्ञानादन्यथा मानं नौकानां कुरुते नृपः। तस्यैतानि विनश्यन्ति यशोवीर्यं बलं धनम्”। जथन्यजलयानानि यथा “नौकान्यतो जले यानं जघन्यमिति गद्यते। तद्देहावहवस्ते तु पाश्चात्त्यानां प्रकीर्त्तिताः। द्रोणीरूपन्तु यद्यानं द्रोणीयानं तदुच्यते। घटीमिर्घटितं यानं घटी नौकेति गद्यते तुम्बाद्यैस्तु फलैर्यानं फलयानं प्रचक्ष्यते। चर्मभिस्थूलपूर्णैर्यच्चर्मयानं तदुच्यते। यानं यल्लघुभिर्वृक्षैर्वृक्षयानं तदुच्यते। जन्तुनिः सलिले यानं जन्तुयानं प्रचक्ष्यते। बाहुभ्यां सन्तरेद् वारि जघन्येषु न निर्णयः”

निष्पदी = स्त्री निर्गतः पादोऽस्याः पादः अन्तलोपः समा० कुम्भपद्या० ङीष् पद्भावः विसर्गस्य षः। १ पादहीनायां स्त्रियाम्। निर् + पद–क्विप्। २ निर्गते “निष्पदो मुद्गजानाम्” ऋ० १०१०२६ “निष्पदः निर्गच्छन्तः” भा०।

निष्पन्द = त्रि० निर्गतः स्पन्दो यस्य प्रा० व०। विसर्गलोपाभावे “इदुदुपधस्य चाप्रत्ययस्य” पा० षत्वष्टुत्वे। स्पन्दनरहिते “ज्यावन्धनिष्पन्दभुजेन यस्य”। “मैथिलीतनयोद्गीतनिष्पन्दमृगमाश्रमम्” रघुः। विसर्गलोपे न षत्वम्।

निष्पन्न = त्रि० निर् + पद–क्त षत्वम्। १ सिद्धे २ समाप्ते च।

निष्परिग्रह = त्रि० निर्गतः परिग्रहः यस्य प्रा० य०। १ विषयादिसङ्गरहिते कन्धापादुकादिभिन्नद्रव्यरहिते २ यत्यादौ च “आत्मन्न्थात्मानमाधाय निर्द्वन्द्वो निष्परिग्रहः” मार्क० पु० १६ अ०।

निष्पवन = न० निस् + पू–भावे ल्युट् षत्वम्। धान्यादेर्निस्तूषीकरणे। निष्पावशब्दार्थे “निष्पवनादिफलीकरणान्तं भेदेन पात्थामप्यभिमन्त्रणादिफलनिधानान्तं कण्डनम्” कात्या० श्रौ० पद्धतौ कर्कः।

निष्पाद् = पु० निर्गतौ पादौ यस्य पा० ब० अन्त्यलोपः समा० विसर्गस्य षः। निर्गतपादके तः सिष्मा० अस्त्यर्थे लच्। निष्पाल्ल तद्युक्ते देशादौ त्रि०।

निष्पादक = त्रि० निर् + पद–णिच्–ण्वुल् विसर्गस्य षः। निष्पत्तिकारके “न चार्थचिन्तने तस्य मन्त्री सहायः किन्तु स्वयमेव निष्पादकः” सा० द०।

निष्पाव = पु० निष्पूयते तुषाद्यपनयनेन शोध्यतेऽनेन निर् + पू–करणे घञ् षत्वम्। १ सूर्पादिवायौ तेन हि खलस्थधान्यादिकं कडङ्गरादिशून्यं करोति। कर्मणि घञ्। २ कडङ्गरे (आगडा) ३ राजमाषे (वरवटी) ४ श्वेतशिम्बीधान्ये ५ निर्विकल्पे त्रि० मेदि०। भावे घञ्। ६ धान्यादीनां वितुषीकरणे अमरः। “चौरयित्वा तु निष्पावान् जायते गृहगोलकः” मार्क० पु० १५ अ० संज्ञायां कन्। श्वेतशिम्ब्यां राजनि० “निष्पावो मधुरो रूक्षो बिपाकेऽम्लो गुरुः सरः। कषायस्त्वल्यपित्ताअमूत्रवातविबन्धकृत्। विदाह्युष्मविषश्लेष्मशोधहृत् शत्रुगाशनः” भावप्र०। ततः सिष्मा० अस्त्यर्थे लच्। निष्पावल वितुषीकरणयुक्ते धान्यादौ त्रि० गौरा० ङीष्। निष्पावी शिम्बीभेदे स्त्री राजनि०।

निष्पुस्ताक = त्रि० निर्गतः पुलाको यतः प्रा० ब० षत्वम्। १ पुलाकरहिते धान्थादौ (आग्डा) तुच्छ धान्यरहिते उत्सर्गिण्यां २ जैनभेदे पु० हेम०।

निष्पेष = पु० निर् + पिष–घञ्! १ निष्पोडने २ निघर्षणे ३ चूर्णने “नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम्” रघुः। तस्मै प्रभवति सन्तापादि० ठञ्। नैष्येषिक निष्पेषसम्बादके। अभावे अव्य० ४ पेषणाभावे अव्य० निरुदका० अन्तोदात्ततास्य भावे ल्युट्। निष्पेषणमप्यत्र न०।

निष्प्रकम्प = त्रि० निर्गतः प्रकम्पो यस्य प्रा० ब० षत्वम्। १ प्रकृष्टकम्पशून्ये त्रयोदशमन्वन्तरोये २ सप्तर्षिभेदे पु०। तदुप क्रमे “निष्प्रकम्पस्तथात्रेयो निर्मोहः काश्यपस्तथा। सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः” हरिवं० ७ अ०।

निष्प्रतिभ = त्रि० निर्गतः प्रतिभायाः निरा० त० षत्वम्। १ जडे अज्ञे २ प्रागल्भ्यरहिते च जटाव० “क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च” हरिवं० ८३ अ०।

निष्प्रत्यूह = त्रि० निर्गतः प्रत्यूहो यस्य प्रा० ब० षत्वम्। निर्विघ्ने निरुपसर्गे “निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः” मुरारिनाटकम्।

निष्प्रभ = त्रि० निर्गता प्रभाऽस्य प्रा० ब० षत्वम्। १ दीप्तिशून्ये अमरः। “निष्प्रभश्च रिपुरास भूभृताम्” रघुः। २ दानवभेदे पु०। “निष्प्रभः सुप्रभश्चैव तथैव च निरूदरः” हरिवं० २६३ अ० ३ नानादानवोक्तौ।

निष्प्रयोजन = त्रि० निर्गतं प्रयोजनमस्य प्रा० ब० षत्वम्। प्रयोजनशून्ये “गुरूणामुपदेशो हि निष्प्रयोजनतां ब्रजेत्” प्राय० त० “निरानन्दं निरास्वादं निष्प्रयोजनमारुतम्” हरिवं० अ०।

निष्प्रवाण = न० प्रकर्षेण वयति अनेन प्र + वे–स्यूतौ करणे ल्युट् प्रवाणं तन्त्रवयनसाधनद्रव्यं निर्गतं प्रवाणात् निरा० त०। नवाम्बरे हारा०।

निष्प्रवाणि = त्रि० प्रोयन्तेऽस्यामनया वा प्र + वेञ्–करणे ल्युट् ङीप् प्रवाणी तन्त्रवायशलाका निर्गतः प्रवाण्याः निरा० स० गौणत्वेन ह्रस्वः षत्वम्। नवाम्बरे अभिनये (ता~तकाटा) वसने अमरः।

निष्प्राण = त्रि० निर्गतः प्राणः तज्जन्योच्छ्वासादिर्वस्य प्रा० ब० षत्वम्। श्वासप्रश्वासादिशून्ये “ग्लानिर्निष्प्राणताकत्मकार्श्यानुत्सहतादिकृत्” सा० द० “संस्तम्भितमिवाभाति निष्प्राणसटशाकृति” (बलम्) हरिवं० ४६ अ०।

निष्फल = त्रि० निर्गतं फलं यस्मात् प्रा० ब० षत्वम्। १ फलरहिते “अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्कलोदयः” कुमा०। फलशून्ये धान्यकाण्डे २ पलाले (नाडा) पु० अमरः। ३ विगतार्त्तवायां स्त्रियां स्त्री गौरा० ङीष्। निष्फली विगतरजस्कायां स्त्रियां स्त्री शब्दरत्रा०।

निष्फेन = त्रि० निर्गतं फेनं यस्य प्रा० ब० षत्वम्। फेनरहिते उपरतफेने “यत् क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं लघु” सुश्रुतः। पक्षे विसर्गोपध्मानीयौ

निष्य(स्य)न्द = पु० नि + स्यन्द–भावे घञ् वा षत्वम्। क्षरणे जलादेः स्वयंस्रवणे “हिमनिष्यन्दशीतलम्।” अच्। २ निष्यन्दयुक्ते त्रि०।

निष्यूत = त्रि० नि + सिव–क्त ऊट् षत्वम्। नितान्तग्रषिते

निष्षन्धि = त्रि० निर्गतः सन्धिः सन्धान यस्य प्रा० ब० सुषामाषत्वम् ष्टुत्वञ्च। सन्धिरहिते।

निष्षम = अव्य० निर्गता समा यस्य तिष्ठद्गुप्र० अव्ययी० गत्वष्ट्त्वे। वत्सरातीते।

निष्षामन् = त्रि० निर्गतं साम यस्य प्रा० त० सुषामा० षत्वम् ष्टुत्वञ्च। सामशून्ये।

निष्षेध = पु० निस् + सिध–भावे घञ् सुषामा० षत्वम् ष्टुत्वञ्च। नितान्तसेथे।

***