निर्बन्ध = पु० निर् + बन्ध–भावे घञ्। आग्रहे अभिनिवेशभेदे “अवस्तुनिर्बन्धपरे कथं नु ते” कुमा० “निर्बन्धसंजातरुषार्थ कार्श्यम्” रथुः। निरः वध्नातेस्तदर्थत्वम् “तथापि निर्बन्धति! तेऽथ वा स्पृहाम्” नैष० प्रयोगात्।
निर्व(र्ब)र्हण = न० निर् + व(व)र्ह–भावे ल्युट्। निवर्हणे मारणे नीलकण्ठः।
निर्बाध = त्रि० निर्गता बाधा यस्मात् प्रा० ब०। १ अप्रतिबन्धे २ निरुपद्रवे ३ विविक्ते च शब्दार्थचि०। ४ निष्काश्ये च “परिमण्डलो ह्येष एकविंशतिनिर्बाध एकविंशो ह्येष बहिष्टान्निर्बाधं बिभर्त्ति रश्मयो वा एतस्य निर्बाधा बाह्यत उवा एतस्य रश्मयः” शत० व्रा० ६। ७१। २ “निर्बाधम् निर्बाध्यन्ते निःकाश्यन्ते उन्नताः स्वरूपाद्वहिर्निःसृता भवन्ति” यजु० संग्रहव्याख्या। “परिमण्डल एकविंशतिनिर्बाधस्तस्योक्तो बन्धुरधस्तान्निर्बाधमुपदधाति रश्मयः” शत० ब्रा० ७। ४। १ १० “परिमण्डलोवर्तुलाकृतिः एकविंशतिसंख्याकैःपुलाकैर्युक्तः। उपधानसमये यथा निर्बाधानामधोभागाऽवस्थानं भवति तथा कर्त्तव्यम्” भा० ५ मज्ज भा गभेदे च पु० “निर्बाधेनाशनिम्” यजु० २५। २ “निश्चितं वाध्यते शिरोऽस्थिमध्यसंलग्नो मज्जाभागः तेन”। वेददी०।
निर्बुष = त्रि० निर्गतं वुषं यस्मात्। वुष–(आगडा) रहिते पूते धान्ये हेमच०। निरुदकादि० अन्तोदात्तताऽस्य
निर्भट = त्रि० निर् + भट–अच्। दृढे त्रिका०।
निर्भय = त्रि० निर्गतं भयमस्मात् प्रा० ब०। १ भयरहिते त्रिका० “निर्भयन्तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम्” मनुः। रौच्यमनोः २ पुत्रभेदे पु० “सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयो दृढः” हरिवं० ७ अ०।
निर्भर = न० निःशेषेण भरो भरणं भृतिर्वाऽत्र प्रा० ब०। १ अतिमात्रे २ तद्युके त्रि० अमरः “द्रुतपीतमाधवरसौ सुनिर्भरैः सरजसभकरन्दनिर्भरासु” माघः। ३ वेतनशून्थे भृत्ये च।
निर्भर्त्सन = न० नितरां भर्त्सनम् प्रा० स०। १ खलीकारे २ अभिभवे। कर्मणि ल्युट्। ३ अनर्थके न० मेदि० “निर्भ- र्त्सनापवादैश्च तथैवाप्रियया गिरा” भा० व० ३०३० अ०।
निर्भाग्य = त्रि० निर्गतं भाग्यं यस्यात् प्रा० व०। भाग्यरहिते अमरः।
निर्भृति = त्रि० निर्गता भृतिरस्य। वेतनशून्ये कर्मकरे (वेगार) हेमच०।
निर्मक्षिक = अव्य० मक्षिकायाः अभावः अव्ययी०। १ मक्षिकाया अभावे। निर्गता मक्षिका यस्मात् प्रा० ब०। २ मक्षिकाशून्ये देशे ३ तदुपलक्षिते निर्जने देशे “कृतं भवतेदानीं निर्मक्षिकम्” शकु० प्राकृतानुवादः। निरुदकादि० अन्तोदात्तताऽस्य।
निर्मज् = त्रि० निर्–मृज–क्विप् वेदे पृषो०। नितान्तशुद्धे “षष्टिं सहस्रानु निर्मजामजे” ऋ० ८। ४। २० “निर्मजां निःशेषेन शुद्धानां गवाम्” भा०।
निर्मथ = पु० निर्मथ्यतेऽनेन निर् + मथ–करणे ल्युट्। अग्निमन्थनदारुणि अरणौ हेमच०। निर्मथननिर्मन्थनिर्मन्थन शब्दा अप्यत्र।
निर्मद = त्रि० निर्गतो मदो दानजलं हर्षो गर्वो वा यस्मात्। १ निरभिमाने २ हर्षशून्ये ३ दानजलशून्ये च “निर्मदं दुःश्चितं दृष्ट्वा पितरो राममव्रुवन्” भा० व० ९९ अ०।
निर्मन्थ्य = न० निर्मन्थ्यते अग्न्युत्पादनार्थं घृष्यते नि + मन्थकर्मणि ण्यत्। अग्न्युत्पादनार्थं घृप्यमाणे दारुणि अमरः।
निर्मर्य्याद = त्रि० निर्गतो मर्य्यादायाः निरा० त०। १ मर्य्यादातीते २ अविनीते “निर्मर्य्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च” वृ० सं० १४ अ०।
निर्मल = त्रि० निर्गतो मलो यस्य प्रा० व०। मलहीने “नितान्तनिर्मलस्वान्तः” वेदान्तसारः “निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा” मनुः। मलश्च रागादिदोषः कालुष्यञ्च।
निर्मलोपल = नित्यकर्म०। स्फटिकोपले राजनि०।
निर्मशक = त्रि० निर्गतो मशको यस्मात् प्रा० ब०। मशकरहिते देशे निरुदका० अन्तोदात्ततास्य। अभावे अव्ययी०। २ मशकाभावे अव्य०।
निर्मांस = त्रि० निर्गतं मांसमस्य प्रा० ब०। १ मांसविहीने २ आहाराभावेनातिकृशे तपस्विदरिद्रप्रभृतौ च “निर्मांसबालहस्ताः कृच्छ्रेणायान्ति परदेशान्” वृ० सं० ३ अ०।
निर्मांसवक्त्र = पु० निर्मांसं वक्त्रमस्य। कुमारानुरभेदे “कृष्णा निर्मांसबक्त्राश्च स्थूलपृष्ठास्तनूदराः” भा० श० ४ अ०।
निर्माण = न० निर् + मि–भावे ल्युट्। १ घटादेः २ रचनायाम्। “निर्माणदक्षस्य नर्मीहेतेषु” भट्टिः “निर्माणञ्च शरीरस्व ततो धैर्य्यमवाप्नुहि” भा० व० २५१ अ०। निर्मीयतेऽनेन करणे ल्युट्। निर्माणसाधने २ कायादौ। क्लेशकर्मविपाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय सम्प्रदाय प्रवर्त्तकः” कुसुमा०। कायस्य निर्माणसाधनत्वात् तथात्वम्। निर्माणार्थं कायं निर्माणकायमिति हरिदासः तत्तु न युक्तं कायाधिष्ठानस्यैव निर्माणार्थत्वेन कायस्य तथात्वाभावात्। निर्गतो मानात् निरा० त०। ३ मानातीते। “पूर्वपदादिति” पा० असंज्ञायामपि आर्षे णत्वम्। “अनक्षत्रगणं व्योम निर्माणं घनगर्जितम्” रा० कि० ४४ अ०
निर्माल्य = न० निर् + मल–ण्यत्। देवदत्ते तद्विसर्जनोत्तरमुच्छिष्टे द्रव्ये “अर्वाक् विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते। विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात्” गारुडपु०। विद्यानन्दनिबन्धे “सूर्य्ये गणापतावुग्रे शाक्ते शैवेऽथ वैष्णवे। तेजश्चण्डमथोच्छिष्टसोजमुच्छिष्टपूर्विकाम्। चाण्डालीं शेषिकां चण्डं विश्वक्सेनं क्रमाद्यजेत्। सोजो गणेशः। “हृदये च बहिर्देवीं समर्प्य विधिवत्ततः। निर्माल्यञ्च शुचौ देशे नैवेद्यं भक्षयेत् सुधीः” तन्त्रान्तरे आ० त० निर्माल्यस्य धारणप्रकारादिकं निरूपितं यथा “निर्माल्यं शिरसा धार्य्यं सर्वाङ्गे चानुलेपनम्। नैवेद्यञ्चोपभुञ्जीत दत्त्वा तद्भक्तिशालिने”। तद्भक्तिशालिने विष्वक्सेनादये “उद्वास्य देवं स्वे घाम्नि तन्निवेदितमग्रतः। अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये”। खे धाम्नि स्वीयहदये उद्वास्य संस्थाप्य तथाच कालिकापुराणे “ध्यायंस्तु मन्त्रेणानेन तत्रस्थं स्थापयेत् हृदि। तिष्ठ देवि! परे स्थाने स्वस्थानं परमेश्वरि। यत्र ब्रह्मादयः सर्बे सुरास्तिष्ठन्ति मे हृदि”। भविष्ये “निर्माल्यं नोपभोक्तव्यं रुद्रस्य तपनस्य च। भक्ष्यते यदि तन्मोहान्नरके पच्यते ध्रुवम्”। निर्माल्यमात्रे तु “उदके तरुमूले वा निर्माल्यं तस्य संत्यजेत्” कालिकापुराणे “यो यद्देवार्च्चनरतः स तन्नैवेद्यभक्षकः” ब्रह्मपु० “अम्बरीष! नवं वस्त्रं फलमन्यद्रसादिकम्। कृत्वा कृष्णोपभोग्यन्तु सदा सेव्यं हि वैष्णवैः” तत्रैककर्त्तरि क्त्वाश्रवणात् स्वदत्तनैवेद्यभक्षणेऽप्यधिकार उक्तः “केवलं सौरशैवे तु वैष्णवो नैव भक्षयेत्”। विष्णुयामले “पीत्वा पादोदकं देवि! नैवेद्यं स्वयमुद्धरेत्। त्यजेत् पादोदकं यस्तु नैवेद्यं वा त्यजेच्च यः। षष्टिवर्षसहस्राणि रौरवे नरके पचेत्”। उद्धरेत् अभ्यवहरेत्। स्कन्दयामले “उद्वास्य देवं स्वे घाम्नि तन्निवेदितमात्सनः। भक्षयेत् पापशुद्ध्यर्थं सर्वदा साधकः प्रिये!” शिवधर्मोत्तरे रुद्रनैवेद्यभक्षणमुक्तं यथा “अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत्। तदन्नं स्वयमश्नीयात् तत् सर्वं विनिवेदयेत्”। “फलं पुष्पञ्च ताम्बूलम् अन्नपानादिकञ्च यत्। अदत्त्वातन्महादेव्यै न भोक्तव्यं कदाचन”। एतेन यत् पठन्ति “अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणञ्चरेत्” इति तदेकान्तवैष्णवपरमिति भूषणः। यत्तु “शूद्रान्नं याजकान्नञ्च नैवेद्यञ्चापि वर्जयेत्” इति लैङ्गवचनम्। तन्नैवेद्यत्वेनोपकल्पितानिवेदितपरं लोभादिना भोजननिषेधकं वा यथोक्तं शाम्बे “नोपभुक्त्वा च नैवेद्यं प्रयाति प्रेतयोनिषु।” द्रय्यविशेषस्य कालभेदे निर्माल्यतोक्ता तन्त्रसा० योगिनीतन्त्रे यथा “मणिमुक्ता सुवर्णानि देवे दत्तानि यानि वै। न निर्माल्यं द्वादणाव्दं ताम्रपात्रं तथैव च। पट्टशाटी च षण्मासं नैवेद्यं दत्तमात्रतः। मोदकं कृषरञ्चैव मासार्द्धेन महेश्वरि! पट्टवस्त्र त्रिमासाच्च यातयाममहः स्मृतम्। यावदुष्णं भवेदन्नं परमान्नं तथैव च। मस्तकं रुधिरञ्चैव अहोरात्रेण पार्वति!। मुहूर्त्तन्दधि दुग्धञ्च आज्यं यामेन शङ्करि। करवीरमहोरात्रं विल्वपत्रं तथैव च। जवारक्तञ्च माघ्यं च निर्माल्यं सार्द्धयामके। माल्यं वै करवीरस्य पद्मस्य विल्वजस्य च। यामार्द्धेन महेशानि! ताम्बूलं दत्तमात्रतः। अनिर्माल्यञ्च दाडिम्बं तथा विल्वफलं प्रिये!। सौगन्धिकञ्च कदलीं प्रयत्नेन नियोजयेत्। कदलीवीजपूरञ्च दुग्धपक्वं निवेदयेत्।” शिवनिर्माल्यधारणे विशेषः ति० त० उक्तो यथा स्कान्दे “निर्माल्यं यो हि मद्भक्त्या शिरसा धारयिष्यति। अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः। नरके पच्यते घोरे तिर्य्यग्योनौ च जायते। ब्रह्महापि शुचिर्मूत्वा निर्माल्यं यस्तु धारयेत्। तस्य पापं महच्छीव्रं नाशयिष्ये महाव्रते!।” शुचिःस्नानादिनेति शेषः। एवञ्च “स्पृष्ट्वा रुद्रस्य निर्माल्यं सवासा आप्लुतः शुचिः” इति कालिकापुराणीयमशुचिविषयम्। अनुपनीतविषयमिति श्रीदत्तः। बह्वृचगृह्यपरिशिष्टम्। अग्राह्यं शिबनैवेद्यं पत्रं पुष्पं फलं जलम्। शालग्रामशिलास्पर्शात् सर्वं याति पवित्रताम्” उदके निर्माल्यत्यागश्च नङ्गेतरपरः। यथोक्तं व्रह्मपु० “गङ्गां पुण्यजलां प्राप्य चतुर्दश विवर्जयेत्। शौचमाचमनं केशं निर्माल्यं मलघर्षणम्”। २ पृक्कायां स्त्री शब्दर०।
निर्मित = त्रि० निर् + मा–क्त। कृतरचने “निजनिर्मितकारिकावलीम्” सि० मु०।
निर्मिति = स्त्री निर् + मा–भावे क्तिन्। निर्माणे करणे। “नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति” काव्यप्र०।
निर्मुक्त = पु० निर् + मुच–क्त। १ मुक्तकञ्चुके सर्पे (खोलसछाडा साप) निःशेषेण मुक्तः। निष्परिग्रहे २ सङ्गरहिते ३ बन्धशून्ये च अमरः। ४ वियुक्ते मेदि० “हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव” रघुः।
निर्मुट = त० निर्गतं मुटं यस्मात् प्रा० ब०। १ करशून्यहट्टे (मुटिशून्यहाट) हारा०। २ वनस्पतौ पु० त्रिका० ३ सूर्य्ये ४ खर्परे पु० हारा०।
निर्मूल = त्रि० निर्गतं मूलमस्य प्रा० व०। मूलरहिते “आरुह्य वृक्षान् निर्मूलान् गजः परितुदन्निव” भा० उ० ७४ अ०।
निर्मूलन = न० निमूलं + कृतौ णिच–भावे ल्युट्। उत्पाटने
निर्मृजस् = अव्य० निर् + मृज–“ईश्वरे तोसुन्कसुनौ” पा० तुमर्थे कसुन्। निर्मार्ष्टुमित्यर्थे “श्लक्ष्णेव तु वा ईश्वराः पशून्निर्मृजः” ताण्ड्यब्रा० २२३। “निर्माष्टुमपगमयितुं विनाशयितुमीश्वराः समर्थाः” भा०।
निर्मृष्ट = त्रि० निर् + मृज–क्त। प्रोञ्छिते। “निर्मृष्टरागोऽधरः” सा० द०।
निर्मोक = पु० निर् + मुच्–घञ्। १ सर्पकञ्चुके (खोलस) २ मोचने ३ सन्नाहे ४ आकाशे च मेदि०। “निर्मोकपट्यः फणिभिर्विमुक्ताः” रघुः। ४ सावर्णिमनोःपुत्रभेदे पु०। “निर्मोकविरजस्काद्याः सावर्णेस्तनया नृप!” भाग० ८१३६ अत्र निर्मोहेति पाठान्तरं तत्रार्थे।
निर्मोक्ष = पु० निःशेषेण मोक्षः प्रा० स०। निःशेषेण मोक्षे “अनिर्मोक्षप्रसङ्गः” सा० प्र० भा०।
निर्मोह = त्रि० निर्गतो मोहो यस्मात् प्रा० ब०। १ मोहशून्ये रैवतमनोः २ पुत्रभेदे पु० “अरण्यश्च प्रकाशश्च निर्मोहः सत्यवान् कृती। रैवतस्य मनोःपुत्राः” हरिवं ७ अ०। ३ सावर्णिमनोःपुत्रभेदे निर्मोकशब्दे दृश्यम्। त्रयोदशमन्वन्तरे काश्यपे ४ सप्तर्षिभेदे “त्रयोदशेऽथ पर्य्याये भव्ये मन्वन्तरे मनोः” इत्युपक्रमे “निष्प्रकम्पस्तथात्रेयः निर्मोहः काश्यपस्तथा” हरिवं० ७ अ०।
निर्म्रेतुका = स्त्री निर् + म्ला–तुन् संज्ञायां कन् पृषो०। म्लानिशून्ये ओषधिभेदे “निभ्रेतुकास्तत्र भवन्ति” पञ्च० भी० ब्रा० १३। ९। १४।
निर्यन्त्रण = न० निर् + यन्त्र–ल्युट्। १ निष्पीडने निर्गत् यन्त्रणं यस्मात् प्रा० ब०। २ यन्त्रणाशून्ये वाधाशून्ये ३ निरर्गले ४ उच्छृङ्खले त्रि० जटा०।
निर्याण = न० निर्याति मदोऽनेन निर् + या करणे ल्युट्। १ गजापाङ्गदेशे। भावे ल्युट्। २ मोचने ३ अध्वनिर्गमे च मेदि०। ४ निःसरणे ५ प्राणवायोर्देहनिःसरणरूपमरणे च लग्नावधिकस्थानभेदस्थग्रहभेदैस्तज्ज्ञानं वृहज्जातके निरूपितं यथा “मृत्युर्मृत्युगृहेक्षणेन बलिभिस्तद्धातुकोपोद्भवस्तत्संयुक्तभगात्रजो बहुभवो वीर्यान्वितैर्भूरिभिः। अग्न्यम्ब्वायुधजो ज्वरामयकृतस्तृट्क्षुत्कृतश्चाष्टमे सूर्याद्यैर्निधने चरादिषु परस्वाध्वप्रदेशेष्वपि। शैलाग्राभिहतस्य सूर्यकुजयोर्मृत्युः खबन्धुस्थ १०४ योः कूपे मन्दशशाङ्कभूमितनयैर्बन्ध्वस्तकर्म४। ७१० स्थितैः। कन्यायां स्वजनाद्धिमोष्णकरयोः पापग्रहैर्दृष्टयोः स्यातां यद्युभयोदयेऽर्कशशिनौ तोये तदा मज्जतः। मन्दे कर्कटगे जलोदरकृतो मृत्युर्मृगाङ्के मृगे शस्त्राग्निप्रभवः शशिन्यशुभयोर्मध्ये कुजर्क्षे स्थिते। कन्यायां रुधिरोत्थशोषजनितस्तद्वत् स्थिते शीतगौ सौर{??} यदि तद्वदेव हिमगौ रज्ज्वग्निपातैः कृतः। बन्धाद्धी ५ नवमस्थयोरशुभयोः सौम्यग्रहादृष्टयोर्द्रेष्काणैश्च ससर्पपाशनिगडैः छिद्र ८ स्थितैर्बन्धतः। कन्थायामशुभान्वितेऽस्तमयगे चन्द्रे सिते मेषगे सूर्य्ये लग्नगते च विद्धि मरणं स्त्रीहेतुकं मन्दिरे। शूलोद्भिन्नतनुः सुखे ४ऽवनिसुते सूर्येऽपि वा खे १० यमे सप्रक्षीणहिमांशुभिश्च युगपत्पापैस्त्रिकोणाद्य ५९१ गैः। बन्धु ४ स्थे च रवौ १० वियत्यवनिजे क्षीणेन्दुसंवीक्षिते काष्ठेनाभिहतः प्रयाति मरणं सूर्यात्मजेनेक्षिते। रन्ध्रास्पदाङ्गहिबुकै८।१०।१।४ र्लगुडाहताङ्गः प्रक्षीणचन्द्ररुधिरार्किदिनेशयुक्तैः। तैरेव कर्म १० नवमोदय १ पुत्र ५ संस्थैर्धूमाग्निबन्धनशरीरनिकुट्टनान्तः। बन्ध्वस्तकर्म ४। ७। १० सहितैः कुजसूर्यमन्दैर्निर्याणमायुधशिखिक्षितिपालकोपात्। सौरीन्दुभूमितनयैः स्वसुखास्पदस्थै २४१० र्ज्ञेयः क्षतकृमिकृतश्च शरीरपातः। ख १० स्थेऽर्केऽवनिजे रसातल ४ गते यानप्रपाताद्बधो यन्त्रोत्पीडनजः कुजेऽस्तमयगे सौरेन्द्विनाभ्युद्गमे। विण्मध्ये रुधिरार्किशीतकिरणैर्जूकाजसौरर्क्षगैर्यातैर्वा गलितेन्दुसूर्यरुधिरैर्व्योमास्तबन्ध्वा १०७३ ह्वयान्। वीर्य्यान्वितवक्रवीक्षिते क्षीणेन्दौ निधनस्थितेऽर्कजे। गुह्यीद्भवरोगपीडया मृत्युः स्यात् कृमिशस्त्रदाहजः। अस्ते ७ रवौ सरुधिरे निधने ८ऽर्कपुत्रे क्षीणे रसातल ४ गते हिमगौ खगान्तः। लग्नात्मजाष्टमतपः १५८९ स्विन मौममन्दचन्द्रौस्तु शैलशिखराशनिकुड्यपातैः। द्वाविंशः कथितस्तु कारणं द्रेष्काणो निधनस्य सूरिभिः। तस्याधिपतिर्भवोऽपि वा निर्य्याणं स्वगुणैः प्रयच्छति। होरानवांशकपयुक्तसमानभूमौ योगेक्षणादभिरतः परिकल्प्यमेतत्। मोहस्तु मृत्युसमयेऽनुदितांशतुल्यः स्वेऽंशेक्षिते द्विगुणितस्त्रिगुणः शुभैश्च। दहनजलविमिश्रैर्मस्मसंक्लेदशोषैर्निधनभवनसंस्थैर्व्यालवर्गैर्विडन्तः। इति शवपरिणामश्चिन्तनीथो यथोक्तः पृथुविरचितशास्त्राद्गत्यनूकादि चिन्त्यम्। गुरुरुडुपतिशुक्रौ सूर्य्यभौमौ यमज्ञौ विबुधपितृतिरश्चोर्नारकीयांश्च कुर्युः। दिनकरशशिवीर्य्याधिष्ठिता त्र्यंशनाथात् प्रवरसमनिकृष्टास्तुङ्गह्रासादनूके। गतिरपि रिपुरन्ध्रत्र्यंशपोऽस्तस्थितो वा गुरुरथ रिपुकेन्द्रच्छिद्रगः स्वोच्चसंस्थः। उदयति भवनेऽन्त्ये सौम्यभागे च मोक्षो भवति यदि बलेन प्रोज्झितास्तत्र शेषाः। इति नैर्य्याणिकाध्यायः”। “नेष्टा योगा जातकं कामिनीनां निर्याणं स्यान्नष्टजन्मद्रिकाणः” इत्युपसंहाराध्याये तत्रोक्तम्। निर्गतं यानमस्मात् प्रा० ब० “संज्ञायां पूर्वपदात् पा० णत्वम्। पशूनां पादबन्धने ६ दामनि वैज० “निर्याणहस्तस्य पुरो दुधुक्षतः” माघः।
निर्यातक = त्रि० निर्यातं निर्याणं बहिष्करणं तत् करोति णिच्–ण्वुल्। निर्हारके। “अनग्नयश्च ये विप्राः प्रेतनिर्यातकास्तथा” भा० अनु० २३ अ०। “मृतनिर्यातकाश्चैव परदाररताश्च ये” मार्कण्डे ३५ अ०।
निर्यातन = न० निर् + यत–णिच् ल्युट्। १ वैरशुद्धौ, २ प्रतीकारे ३ प्रतिदाने ४ न्याससमर्पणे च अमरः। ५ मारणे हेमच०। ६ ऋणादेः शोधने च। “विगणनऋणनिर्यातनम्” सि० कौ०। “नह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति” हरिवं०
निर्यात्य = त्रि० निर् + याति–कर्मणि यत्। १ शोधनीये २ प्रतिदेयेच “कन्या चैवं न चान्यस्य निर्यात्यानेन सङ्गता” हरिवं० १७७ अ०।
निर्याम = पु० निर् + यम–घञ्। पोतवाहे हेमच०।
निर्यास = पु० न० निर–यस–घञ् अर्द्धर्चा०। १ कषाये २ क्वाथे शब्दमा०। ३ वृक्षादिक्षीरे वृक्षात् निर्गत्य कठिनतां याते वृक्षरसभेदे (आठा) रत्नमा० “शालनिर्यासगन्धिभिः” रघुः। “लोहितान् वृक्षनिर्यासान्” मनुः। ३ निष्यन्दि जलादौ च कंसस्याथ मुखस्वेदो भ्रूभेदान्तरगोचरः। अभवद्रोषनिर्यासः” हरिवं० ८७ अ०। निर्यासस्यादूरदेशादिः कुमुदा० ठच्। निर्यासिक तत्सन्निकृष्टदेशादौ त्रि०।
निर्यूष = पु० नितरां यूषः प्रा० स०। निर्यासशब्दार्थे शब्दमा०
निर्यूह = पु० निर् + ऊह–क पृषो०। १ मत्तवारणे वैजयन्ती तद्दन्ताकारतया निर्मिते २ नागदन्ते द्वारवेदिकायां काष्ठभेदे अमरः। ३ शेखरे ४ आपीडे ५ द्वारे ६ क्वाथे निर्यासे मेदि०। “वितर्दिनिर्यूहविटङ्कनीडः” माघः। द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः” भा० आ० १०८ अ० तत्र आपीडे “खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि” भा० उ०१८ अ०। कार्मुकस्य निर्यूहैः आपीडैरिव शरैरित्यर्थः।
निर्लक्षण = त्रि० निर्गतं लक्षणमस्य प्रा० ब०। १ शुभलक्षणशून्ये २ पाण्डुरपृष्ठे हेम०।
निर्लिप्त = त्रि० निर + लिप–क्त। १ लेपरहिते २ सम्बन्धशून्ये निःसङ्गे। “निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः” ब्रह्मवै० पु०।
निर्लुञ्चन = न० निर् + लुन्च–भावे ल्युट्। वितुषीकरणादौ “नखनिर्लुञ्चनादिभिरपि तत्कार्य्यसिद्धेः” कात्या० श्रौ० १ ६ ६ सू० कर्कः।
निर्लुण्ठन = न० निर् + लूठि–भावे ल्युट्। अपहरणे (लोटा) “अङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः” सा० द०।
निर्लेखन = न० निर् + लिख–भावे ल्युट्। १ मलादेरपसारणे (आ~चडान) करणे ल्युट्। २ तत्साधने “जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च” सुश्रुतः।
निर्लेप = त्रि० निर्गतो लेपः सम्बन्धोऽनुलेपनं वा यस्य प्रा० ब०। १ प्ररिणामहेतुसंयोगादिशून्ये २ अनुलेपनरहिते च “लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति सहापाशुपताः” कुसुमा०। “निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति” मनुः।
निर्लोमन् = त्रि० निर्गतं लोम यस्य। लोमरहिते (टाक) रोगयुक्ते। तद्रोगस्तु “पट्टसूत्रस्य हरणात् निर्लोमा जायते नरः” शाता० उक्तेः पट्टसूत्रहरणाज्जायते।
निर्ल्वयनी = स्त्री नितरां लयति अहिरस्याम् त्वचि ल्युट ङीप् पृषो०। सर्पत्वचि (खोलस) “तद्यथाऽहिनिर्ल्व यनी वल्मीके मृता प्रत्यस्ता शयीत” वृह० उप०। “अहिनिर्ल्वयनी सर्पनिर्मोकः वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः प्रत्यस्ता प्रतिक्षिप्ता मृताऽनात्मभावेन सर्पेण परित्यक्ता मृता शयीत” भा०।
निर्वक्तव्य = त्रि० निर् + वच–कर्मणि तव्य। अवयवार्थकथनेन प्रतिपाद्ये निर्वाच्यनिर्वचनीयावप्यत्र।
निर्वचन = न० निर् + वच–भावे ल्युट्। १ निरुक्तौ अवयवार्थ कथने। २ प्रसिद्धे च “न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्” भा० व० २७ अ०। “सत्यं स्तेने बलं नार्य्यां राज्यं दुर्योधने तथा। इति लोके निर्वचनं लोके चरति भारत” भा० व० ३३ अ०। निर्गतं वचनं यस्य प्रा० व०। वचनशून्ये ३ तुष्णीमित्यर्थे “माल्येन तां निर्वचनं जघान” कुमा०। ४ वचनरहिते वक्तव्यताशून्ये त्रि० “येषां तडागानि महोदकाति वाप्यश्च कूपाश्च प्रतिश्रयाश्च। अन्नस्य दानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति” भा० व० १९९ अ०।
निर्वण = त्रि० निर्गतो वनात् निरा० त० प्रणिरन्तरित्यादिना असंज्ञायामपि णत्वम्। वनान्निष्क्रान्ते “निर्वणो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्” भा० उ० २८ अ० अस्य “वनं समासे” पा० समासमात्रे वनान्तत्वेनान्तोदात्तता।
निर्वपण = न० निर् + वप–भावे ल्युट्। १ दाने २ अन्नादीनां संविभागे च। “परिस्तरणपात्रसंसादनप्रोक्षणाज्यनिर्वपणाधिश्रयणानि” कात्या० श्रौ० ८। २। १। “अनयैवावृता कार्य्यं पिण्डनिर्वपणं सुतैः” मनुः।
निर्वर = त्रि० निर्गतो वरो वरणमस्य। १ निर्लज्जे कठिने २ निर्भये ३ सारे च हेमच०। अत्र निर्दर इत्येव पाठः मुद्रादोषात् निर्वर इति पाठोऽसाधुः। अतएव मेदिनीकोषे निर्दरं निर्भये सारेऽन्यवत्तु कठिनेऽत्रपे” इत्युक्तम्।
निर्वर्णन = न० निर् + वर्ण “सत्यापेति” पा० णिच् भावे ल्युट्। दर्शने त्रिका०।
निर्वर्त्तित = त्रि० निर् + वृत–णिच्–कर्म्मणि क्त। निष्पादिते।
निर्वर्त्य = त्रि० निर् + वृत–णिच्–कर्मणि यत्। निष्पाद्ये व्याकरणपरिभाषिते कर्मभेदे न० “तन्निवर्त्त्यं विकार्य्यञ्च कर्मद्वेधा व्यवस्थितम्” हरि० कर्मन्शब्दे १७७१ पृ० दृश्यम्।
निर्वहण = न० निर् + वह–भावे ल्युट्। १ नाट्योक्तौ प्रस्तुतकथासमाप्तौ २ प्रकृताभिनयस्य निर्वाहे, नाटकसन्ध्यादेरङ्गभेदे तस्याङ्गानि सन्ध्यदीनि यथोक्तं सा० द० “सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम्। कृतिः प्रसाद आनन्दः समयोऽप्युपगूहनम्। भाषणं पूर्ववाक्यञ्च काव्यसंहार एव च। प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः”। युच्। निर्वहणा निष्ठायाम् स्त्री।
निर्वाञ्च् = त्रि० निर् + अव–अन्च–क्विप् अवोपसर्गस्य अल्लोपः। निर्गते “तस्मादिमे प्राणा विष्वञ्चोऽवाञ्चोऽनुनिर्वाञ्चि” सां० ब्रा० ७। ९।
निर्वाण = त्रि० निर् + वा–क्त। “निर्वाणोऽवाते पा० तस्य नः। १ शान्ते वह्निमुन्यादौ २ चरसाश्रमस्थे मुनौ ३ निश्चले ४ शून्ये शब्दर०। भावे क्त। ५ अस्तगमने ६ निर्वृतौ ७ गजमज्जने ८ सङ्गमे ९ अपवर्गे मोक्षे मेदि०। १० विनाशे यादवः ११ विश्रान्तौ हेमच०। “निर्वाणोत्थानशयनानि त्रीणि गजकर्माणीति” पालकाव्योक्ते १२ गजकर्मभेदे। “अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः” रघुः। “अनिर्वाणस्य मज्जनरहितस्येति” मल्लि०। “कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाधवम्”। “निर्वाणभूयिष्ठमथास्य वीर्य्यम्” कुमा०। निर्वृतौ “स्वर्लोकस्त्री गात्रनिर्वाणमत्र” माघः। “यतितव्यं समत्वेन निर्वाणमपि चेच्छता” “समत्वबुद्धेर्निर्वाणं फलमुक्तं श्रुतौ स्मृतौ सर्वदुःखोपरमणलक्षण ब्रह्मणि स्थितिः” “स्थित्वाऽस्यामन्तःकालेऽपि ब्रह्म निर्वाणमृच्छति” “स योगी ब्रह्म० निर्वाणं ब्रह्मभूतोऽधिगच्छति” गीता। सर्वदुःखोपरमात्मकत्वात् निरतिशयानन्दरूपत्वाच्च परमपुरुषार्थकैवल्य रूपं ब्रह्म निर्वाणमृच्छति इत्यर्थः। १३ आदिगुरुके (ऽ।) त्रिकले मात्रागणभेदे १४ विद्योपदेशग्रन्थभेदे यथा निर्वाणतन्त्रादि। नाभिदेशे जप्ये १५ प्रणवपुटितमातृका पुटितस्वाभीष्टमन्त्रे। “कुल्लुकां मूर्द्ध्नि संजप्य हृदिसेतुं विचिन्तयेत्। महासेतुं विशुद्धे तु षोडशारे समुद्धरेत्। मणिपूरे तु निर्वाणं महाकुण्डलिनीमधः। खाधिष्ठाने कामवीजं राकिणीमूर्ध्निसंस्थितम्। विचिन्त्य विधिवद् देवि! मूलाधारान्तिकाच्छिवे!। विशुद्धान्तं स्मरेद्देवि! विसतन्तुतंनीयसीम्। देवीस्थानं द्विजिह्वान्तं मन्त्रमूलावृतं मुहुः”। तत्र निर्वाणं यथा “अथ वक्ष्यामि निर्वाणं शृणु सारहितानघे। प्रणवं पूर्वमुच्चार्य्य मातृकाद्य समुच्चरेत्। मातृकार्णां समस्ताञ्च पुनः प्रणवमुच्चरेत्। एवं पुटितमूलन्तु प्रजपेन्मणिपूरके। एवं निर्वाणमीशानि! यो न जानाति पामरः। कल्पकोटिसहस्रेषु तस्य सिद्धिर्न जायते” आगमविलासतन्त्रम्।
निर्वाणमण्डप = पु० काशीस्थे मुक्तिमण्डपाख्ये तीर्थभेदे।
निर्वाणमस्तक = पु० निर्वाणं निर्वृतिर्मस्तकमिव यत्र। मोक्षे त्रिका०।
निर्वाणरुचि = त्रि० निर्वाणे रुचिरस्य। १ मोक्षसाधनासक्ते एकादशमन्वन्तरे २ देवभेदे “महर्षिर्धर्मसावर्णिरेकादशम आत्मवान्” इत्युपक्रमे “विहङ्गमाः कामगमा निर्वा- णरुचयः सुराः” भागवते ८१३१२ श्लोकः।
निर्वाणी = स्त्री जैनानां १ शासनदेवताभेदे हेम०। निर्गता वाणी यस्य बा० कप् न। २ वाक्यरहिते तुष्णीम्भूते कपि निर्वाणीकोऽप्यत्र त्रि०।
निर्वात = त्रि० निर्गतो वातो यस्मात् प्रा० व०। वायुशून्यदेशे। निर् + वा–क्त निर्वाणोऽवाते पा० न तस्य नः। २ निर्गते वाते हेमच०। “असूर्य्यमिव सूर्य्येण निर्वात इव वायुना” भा० स० ३५ अ०।
निर्वाद = पु० निर् + वद–घञ्। निकृष्टवादे १ लोकापवादे अमरः। “किमात्मनिर्वादकथामुपेक्षे” रघुः। नितरां वादः। २ निश्चितवादे क्षीरस्वामी। अभावेऽव्ययी०। ३ वादाभावे अव्य०।
निर्वाप = पु० निर् + वप–भावे घञ्। १ दाने, प्राप्तपितृलोकोद्देशेन २ दाने च। “अमावास्यां तु निर्वापात् सर्वकामानवाप्नुयात्” भा० अनु० ८७ अ०।
निर्वापण = न० निर् + वप णिचु–वा–वा णिच्–पुक् ल्युट्। १ मारणे बधे अमरः। २ दाने च हलायु०। (निवान) ३ निर्वाणतासम्पादने। “तप्तायःपिण्डसिकतानां वा निर्वापणं प्रसाधनञ्च कर्त्तव्यम्” सुश्रुतः। “दाहपाकज्वरवतां कार्य्यं निर्वापणं भवेत्” सुश्रुतः। “दीपनिर्वापणात् पुंसः कुष्माण्डच्छेदनात् स्त्रियः” ति० त०।
निर्वार्य्य = न० निर् + वृ–ण्यत्। निःशङ्ककर्म्मकर्त्तरि सत्वसम्पदा उद्यमेन कार्यकर्त्तरि अमरः। भयविक्रमव्यसनाभ्युदयादौ निर्विकारं मनः सत्वम् तत् सम्पदा सम्पतन् उद्यमं कुर्वन् योनिःशङ्को भूत्वा कर्म्म कुरुते स निर्वार्य्य इत्युच्यते।
निर्वासन = पु० निर् + वस–णिच् भावे ल्युट्। पुरादितो बहिष्करणे १ निःसारणे २ मारणे हिंसने ३ विसर्ज्जने च मेदि० “ततो दुर्य्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निर्ग्रहनिर्वासान् विविधांस्ते समारभन्” भा० आ० ६१ अ० “निर्वासनञ्च नगरात् प्रव्रज्या च परन्तप!” भा० उ० ८९ अ०।
निर्वास्य = त्रि० निर् + वस–णिच्–कर्म्मणि यत्। नगरादितो बहिष्कार्य्ये “कट्यां कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्त्तयेत्” मनुः। “निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च” याज्ञ०।
निर्वाह = पु० निर् + वह–घञ्। १ कार्य्यसम्पादने २ निष्पादने ३ समाप्तौ च। “यावता स्यात् स्वनिर्वाहः स्वोकुर्य्यात्ताव- देव तु” नारदीयपु० “स्वतिथ्या कर्मानिर्वाहे” ति० त०।
निर्विकल्प(क) = त्रि० निर्गतो विकल्पो ज्ञातृज्ञेयादिविभागो विशेष्यविशेषणतासम्बन्धो वा यस्मात् प्रा० ब० वा कप्। १ वेदान्तोक्ते ज्ञातृज्ञेयादिविभागशून्ये ब्रह्मात्मैकात्मविषये अखण्डाकारके एकविषयके विशेष्यविशेषणतासम्बन्धरहिते ज्ञाने, “आत्मारामा विहितरतयो निर्विकल्पे समाधाविति वेणी०। “तत् प्रमा नाप्रमा नापि ज्ञागं यन्निर्विकल्पकम्। प्रकारतादिशून्यं हि सम्बन्धानवगाहि यत्” इति न्यायोक्ते अलौकिके आलोचनात्मके २ ज्ञानभेदे। “ज्ञानं यन्निर्विकल्पकाख्यं तदतीन्द्रियभिष्यते” भाषा०। आलोचनशब्दे ८२६ पृ० दृश्यम्। वौद्धमते निर्विकल्पकज्ञानमेव प्रमाणं कल्पनाशून्यत्वात् तद्भिन्नं सर्वमप्रमाणं यथोक्तं सर्वदर्शनसंग्रहे
“ततश्चार्थो द्विविधः ग्राह्योऽध्यवसेयश्च तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणं कल्पनापोढत्वात् अध्यवसायः सविकल्पकरूपोऽप्रमाणं कल्पानाज्ञानत्वात्। तदुक्तम् “कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम्। विकल्पो” वस्तुनिर्भासादसंवादादुपप्लवः। ग्राह्यं वस्तु प्रमाणं हि ग्रहणं यदितोऽन्यथा। न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजमिति” च। ननु सविकल्पकस्याप्रामाण्ये कथं ततः प्रवृत्तस्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेन्न तद्भद्रं मणिप्रभाविषयमणिविकल्पन्यायेन पारम्पर्य्येणार्थप्रतिलम्भसम्भवेन तदुपपपत्तेः”।
निर्विकार = पु० प्रकृतेरन्यथाभावः विकारः स निर्गतोयस्मात् प्रा० व०। जन्मादिषड्भावविकारहीने १ परमात्मनि। २ विकारशून्ये त्रि०। “त्वयेह भवने मह्यं वस्तव्यं निर्विकारया” हरिवं० ९ अ०। “सिद्ध्यसिद्ध्योर्निर्विकारः कर्त्ता सांत्विक उच्यते” गीता।
निर्विचार = त्रि० निर्गतो विचारो यतः प्रा० ब०। १ विचाररहिते “रे रे स्वैरिणि! निर्विचारकविते! भास्मत् प्रकाशीभव” चन्द्रालो०। पात० सूत्रोक्ते सूक्ष्मविषयके समापत्तिरूपे ३ समाधिभेदे च “एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता” पात० सू०। “तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्म्मकेषु देशकालनिमित्तानुभबावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते। तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्म्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते। या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्म्मानवच्छिन्नेष सर्वधर्म्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते एवं स्वरूपं हि तत् भूतसूक्ष्मम् एतेनैव स्वरूपेणालम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति। प्रज्ञा च स्वरूपशून्येव अर्थमात्रा यदा भवति तदा निर्विचारेत्युच्यते। तत्र महावस्तुविषया सवितर्का, निर्वितर्का च सूक्ष्मविषया सविचारा निर्विचारा च एवमुभयोरेतयैव निर्वितर्काया विकल्पहानिर्व्याख्यातेति” भा० “निर्विचारवैशारद्ये अध्यात्मप्रसादः” सू०। “अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यं यदा निर्विचारस्य समार्धेर्वैशारद्यमिदं जायते तदा योगिनो भवति अध्यात्मप्रसादः भूतार्थविषयः क्रमाननुरोधी स्फुटप्रज्ञालोकः। तथाचोक्तं “प्रज्ञापासादमारुह्य अशोच्य। शोचतो जनान्। भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति” भाष्यम्।
निर्विचित्स = त्रि० निर्गता विचिकित्सा यस्य प्रा० ब०। निःसन्देहे।
निर्वितर्क = त्रि० निर्गतो वितर्को यस्मात् प्रा० ब०। १ वितर्कशून्ये पात० सू० उक्ते २ समाधिभेदे तल्लक्षणादिकं तत्रोक्तं यथा “स्मृतिपरिशुद्धौ स्वरूपशून्येवाऽर्थमात्रनिर्भासा निर्वितर्का” सू० “शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टबाह्याकारप्रतिभासिततया न्यग्भूतज्ञानांशत्वेन स्वरूपशून्येव निर्वितर्का समापत्तिः” भा०।
निर्विण्ण = त्रि० निर + विद–क्त निर्विण्णस्योपसंख्यात्वात् दस्यनत्वे णत्वष्टुत्वे। १ निर्वेदयुक्ते २ खिन्ने ३ प्राप्तवैराग्ये विरक्ते च। “निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन” ईशोप० भा०।
निर्विन्ध्य = त्रि० निर्गतः विन्ध्यात् नि० त०। १ विन्ध्यपर्वतनिःसृते। तथाभूते २ नदीभेदे स्त्री “गोदावरी निर्विन्ध्या पयोष्णी इत्यादि” भाग० ५२१८ भारतवर्षनद्युक्तौ। “निर्विन्ध्यायाः पथि भयरसाभ्यन्तरः सन्निपत्य” मेघ०। “नर्म्मदा सुरसाद्याश्च नद्यो बिन्ध्यविनिर्गताः। तापी पयोष्णी–निर्विन्ध्या–कावेरीप्रमुखा नदी” विष्णुपु०।
निर्विशेष = न० निर्गतो विशेषो यस्य प्रा० व०। सर्वदैवरूपे विशेषरहिते परब्रह्मणि। “निर्विशेषं परं ब्रह्म साक्षात्कर्त्तुमनीश्वराः। ये मन्दास्ते तु कल्पन्ते सविशेष निरूपणैः” विशेषरहिते तुल्यरूपे त्रि०। “प्रवातनीलोत्पलनिर्विशेषम्” कुमा०।
निर्विष = त्रि० निर्गतं विषं यस्मात् प्रा० ब०। १ विषरहिते २ अविषायां तृणभेदे स्त्री। “निर्विषा कटुका शीता कफवातास्रदोषनुत्। अनेकविषहन्त्री च व्रण र्भूलकारिणी” राजनि०। गौरा० ङीष् निर्विषी ३ श्यामकन्दायां स्त्री। इयं चतुर्विधा भवति “रक्ता श्वेता भृशं कृष्णा पीतवर्णा तथैव च। यथापूर्वञ्च विज्ञेया बल्या श्रेष्ठा गुणोत्तमा। सर्वदोषहरी लेपाद्भुक्ताश्वयथुनाशिनी। श्लेष्मजान् विंशतिरोगान् सद्यो हन्यात् निषेवणादिति” भावप्र०।
निर्विष्ट = त्रि० निर् + विश–क्त। कृतनिर्विशे १ कृतभोगे २ प्राप्तवेतने लब्धभृतौ ३ कृतविवाहे ४ कृताग्निहोत्रे च। “ज्येष्ठेऽनिर्विष्टे कनीयान् निर्वेशात् परिवेत्ता भवति” उद्वा० त० स्मृतिः। ५ भोग्ये च। “स्वनिर्म्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान्” भा० १ २ अ०। ६ भुक्ते च “निर्विष्टविषयस्नेहः” रघुः। “निर्विष्टं वैस्यशूद्रयोः” गौतम०। निर्विष्टं वेतनलब्धम्” निर्वेशो भृतिभोगयोरित्युक्तेः” एका० त० रघु०। निर्वेशः भृतिर्वेतनं भोगश्च।
निर्वीज = त्रि० निर्गतं वीजमस्य। १ वीजशून्ये २ कारणरहिते पात० उक्ते ३ समाधिभेदे पु०।
“तस्यापि निरोधे सर्वनिरोधान्निर्वीजः समाधिः” पात० सु० “स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानां संस्काराणामपि प्रतिबन्धा भवति। कस्मात्! निरोघजः संस्कारः ससाधिजान् संस्कारान् बाधते इति निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारा० स्तित्वमनुमेयम्, व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति यस्मादवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं विनिवर्त्तते तस्मिन्निवृत्ते पुरुषः स्वरूपप्रतिष्ठः। अतः शुद्धो मुक्त इत्युच्यते” भा० “तस्यापि निरोधे सर्वनिरोधात् निर्वीजः समाधिः। परेण वैराग्येण ज्ञानप्रसादमात्रलक्षणेन सर्वसंस्कारोपजननद्वारा तस्यापि प्रज्ञाकृतस्य संस्कारस्य निरोधे न केवलं प्रज्ञाया इत्यपिशब्दार्थः सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात् कारणाभावेन कार्य्यानुत्पादनात् सोऽयं निर्वीजः समाधिः। व्याचष्टे स निर्वीजः समाधिः समाधिप्रज्ञाविरोधिनः परस्मात् वैराग्यात् उपजायमानसंस्कारद्वारेण न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृता- नामप्यसौ संस्काराणां परिपन्थी भवति। ननु वैराग्यजं विज्ञानं सदविज्ञानं प्रज्ञामात्रं बाधतां संस्कारन्त्वविज्ञानं कथं बाधते दृष्टा हि स्वप्नदृष्टार्थस्मृतिरित्याशयवान् पृच्छति। कस्मादिति उत्तरं निरोधज इति निरुध्यतेऽनेन प्रज्ञेति निरोधः परं वैराग्यं ततो जातो निरोधजः संस्कारः, संस्कारादेव दीर्घकालनैरन्तर्य्यसत्कारासेवितपरवैराग्यजन्मनः प्रज्ञासंस्कारवाधो नतु विज्ञानादित्यर्थः। स्यादेतन्निरोधजसंस्कारसद्भावे किं प्रमाणं स हि प्रत्यक्षेण नानुभूयते स्मृत्या वा कार्य्येणानुमीयेत न च सर्ववृत्तिमात्रनिरोधे प्रत्यक्षमस्ति योगिनः, नापि स्मृतिः तस्य वृत्तिमात्रनिरोधितया स्मृतिजनकत्वासम्भवादित्यत आह निरोधेति। निरोधे स्थितिः चित्तस्य निरुद्गावस्थेत्यर्थः। तस्याः कालक्रमो मुहूर्त्तार्द्धयामयामाहोरात्रादिस्तदनुभवेन। एतदुक्तं भवति वैराग्याभ्यासप्रकर्षानुरोधी निरोधप्रकर्षो मुहूर्त्तार्द्धयामादिव्यापितयानु भूयते योगिना, न च वैराग्यक्षणाक्रमनियततया परस्परमसम्भवन्तस्तत्तत्कालव्यापितया सातिशयं निरोधं कर्त्तुमीशत इति तत्तद्वैराग्यक्षणप्रचयजन्यः स्थायी संस्कारः प्रचयएषितव्य इति भावः। ननु छिद्यन्तां प्रज्ञासंस्काराः, निरोधसंस्कारास्तु कुतः समुच्छिद्यन्ते अनुच्छेदे वा साधिकारत्वमेव इत्यत आह व्युत्थानेति। व्युत्थानञ्च तस्य निरोधसमाधिश्च सम्प्रज्ञातः तत्प्रभवाः संस्काराः कैवल्यभागीया निरोधजाः संस्कारा इत्यर्थः। व्युत्थानप्रज्ञासंस्काराश्चित्ते प्रलीना इति भवति चित्ते व्यु त्थानप्रज्ञासंस्कारवत्, निरोधसंस्कारस्तु प्रत्युदित एवास्ते चित्ते। निरोधसंस्कारे सत्यपि चित्तमनधिकारवत्, पुरुषार्थजनकं हि चित्तं साधिकारं शब्दाद्युपभोगविवेकख्याती च पुरुषार्थौ संस्कारशेषतायां तु न बुद्धेः प्रतिसंवेदी पुरुष इति नासौ पुरुषार्था विदेहप्रकृतिलयानां न निरोधभागितया साधिकारं चित्तम् अपि तु क्लेशवासितमेत्याशयबानाह यस्मादिति। शेषं सुग मम्” विव०। २ काकलीद्राक्षायां स्त्री राजनि०।
निर्वीर = त्रि० निर्गतो वीरः शूरः पतिः पुत्रो वा यस्य यस्या वा प्रा० ब०। १ वीरशून्ये “केनापीदमहो महद्धनुरतो निर्वीरमुर्वीतलम्” महाना०। २ पतिपुत्रविहीनायामवीरायां स्त्रियां स्त्री हेमच०।
निर्वृत = त्रि० निर् + वृ–क्त। सुस्थे।
निर्वृति = स्त्री निर् + भावे क्तिन। १ स्वास्थ्ये सुखे २ मोक्षे हेमच०। “न जातु कामो लभते स्र निर्वृतिम्”। “सर्व्वर्त्तुनिर्वृतिकरे निवसन्नुपैति” माघः।
निर्वृत्त = त्रि० निर् + वृत–क्त। १ निष्पन्ने अमरः। “विप्रे न्यूने त्रिभिर्वर्षैर्मृते शुद्धिस्तु नैशिकी। निर्वृत्तचूडके विप्रे त्रिरात्राच्छुद्धिरिष्यते” शु० त० अङ्गिराः।
निर्वृत्तशत्रु = पु० द्वापरयुगीये यदुवंश्ये नृपभेदे। “वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः। गुरुमासज्य तं भारं ययौ द्वारवतीं पति” “रामे भारं समासज्य युयुधाने च वीर्य्यवान्। अक्रूरे विपृथौ चापि” इत्युपक्रमे “निर्वृत्तशत्रौ विक्रान्ते भङ्गाकारे विदूरथे” इत्यभिहितम् हरिवं० ११७ अ०।
निर्वृत्ति = स्त्री निर् + वृत–भावे क्तिन्। निष्पत्तौ “वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम्” मनुः। “न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः” सां० का०। “यथा दृष्टेन दोषेण यथा चानुविसर्पता। निर्वृत्तिरामयस्यैव संप्राप्तिर्जातिरागमैः” माधवनिदानम्। निर्गता वृत्तिर्जीविका यस्य। २ जीविकारहिते त्रि०ः
निर्वेद = पु० निर् + विद–भावे घञ्। १ स्वावमाननायाम्। स च व्यभिचारिभावभेदः “निर्वेदो वेगदैन्यश्रममदजडतेत्यादिना व्यभिचारिभावान् विभज्य सा० द० लक्षितो यथा “तत्त्वज्ञानापदीर्ष्यादेर्निवेदः स्वावमानना। दैग्थचिन्ताऽश्रुनिःश्वासवेवैवर्ण्योच्छ्वसितादिकृत्” अस्य व्यभिचारिभावत्वेऽपि क्वचित् स्थायिभावत्व द्योतनार्थं प्राग् निर्द्देशः अतएव “निर्वेदस्थायिभावोऽपि शान्तोऽस्ति नवमो रसः” काव्यप्र० उक्तम्। एतन्मते निर्वेद एव शान्तरसे स्थायिभाव इति भेदः। २ परमवैराग्ये “ततः कदाचिन्निर्वेदात् निराकाराश्रितेन च। लोकतन्त्र परित्यक्तं दुःखार्त्तेन भृशं मया” भा० शा० “तदा गन्तासि निनिर्वेदं श्रोतव्यस्य श्रुतस्य च” गीता “जातनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत्। कर्म्मनिर्वेदमुक्त्वा च धर्म्मनिर्वेदमब्रवीत्” भा० शा० २१८ अ०। ३ खेदे “अनिर्वेदः सदा कार्य्यो निर्वेदाद्धि कुतः सुखम्। प्रयत्नात् प्राप्यते ह्यर्थः कत्पाद् गच्छत निर्द्दयाः” १५३ अ०। ४ बहुकालेनाप्यसिद्धपदार्थेषु निष्प्रयोजनत्वज्ञानेनानुतापभेदे च।
निर्वेधिम = पु० मुश्रुतोक्ते कर्णवेधकारभेदे कर्णव्यधविधिशब्दे १७१२ पृ० दृश्यम्।
निर्वेश = पु० निर् + विश–घञ्। १ भोगे, २ वेतने, ३ मूर्च्छगे, मेदि०। ४ विवाहे च अमरः। “कालमेव प्रतीक्षते निर्वे(र्दे)शं भृतकी यथा” मनुः। “अर्थानुकृतनिर्वेशो जन्मकोट्यंहसामपि” माग० ६२७ श्लोकः।
निर्वेष्टन = न० नितरां वेष्टनमत्र। १ सूत्रवेष्टननलिकायां नाडीकरे हारा० प्रा० ब०। वेष्टनरहिते त्रि०।
निर्वेष्टुकाम = पु० निर्वेष्टुं कामो यस्य तुमोऽन्तलोपः। विवोढुकामे। “निर्वेष्टुकामो रोगार्त्तो यियक्षुर्व्यसने स्थितः। अभियुक्तस्तथाऽन्येन राजकर्मोद्यतस्तथा”। आसेधनिषेधे नारदः।
निर्व्यथन = न० निर् + व्यथ–भावे ल्युट्। १ नितरां व्यथने २ छिद्रे अमरः। निर्गतं व्यथनं यतः प्रा० ब०। ३ व्यथाशून्ये त्रि०।
निर्व्यापार = त्रि० निर्गतो व्यापारो यस्मात् प्रा० ब०। व्यापारशून्ये तुष्णीं स्थित्यादौ। (तं मणिम्) “दधार मैथिलीकण्ठनिर्व्यापारेण वाहुना” रघुः।
निर्व्यूढ = त्रि० निर् + वि–वह–क्त। १ निष्पन्ने २ समाप्ते ३ सुसम्पन्ने अप्रतिबन्धे ४ यथेष्टवियोगार्हे। यथा स्त्रीणां पतिपुत्रादिधने न निर्व्यूढं स्वत्वं पुंसान्तु तन्निर्व्यूढं स्वत्वम् अप्रतिबन्धकतया यथेष्टविनियोगार्हत्वात्। पुत्रिकारूपाया दुहितुश्च पुत्रोत्पत्त्यनन्तरं पितृधने निर्व्यूढं खत्वं पुत्रोत्पत्तेः पूर्वन्तु न निर्व्यूढमिति भेदः इति दायभागमतम्। मिताक्षरामते तु स्त्रीसंक्रान्तधनस्यापि स्त्रीधनतया यथेष्टविनियोगार्हत्वेन तत्र स्त्रीणां निर्व्यूढं स्वत्वम्।
निर्व्यूह = पु० निर्यूह + पृषो०। १ निर्यूहे नागदन्ताकारकाष्ठे हेमच०। “द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना” भा० व० १६० अ०। प्रा० ब०। २ व्यूहरहिते सैन्यादौ त्रि०।
निर्हरण = न० निःशेषेण हरणम्। १ दाहार्थं शवादेर्बहिर्हरणे, निःसारणे च। तस्य निर्हरणादीनि सम्परेतस्य भार्गव!। युधिष्ठिरः कारयित्वा मुहूर्त्तं दुःखितोऽभवत्” शु० त० भागवतवाक्यम्। ३ नाशने च “तस्माद्भवद्भिः कर्त्तव्यं कर्म्मणां त्रिमुणात्मनाम्। वीजनिर्हरणम्” भाग० ७७२८।
निर्हा(र्ह्रा)द = पु० निर् + हद (ह्रद) वा घञ्। शब्दभेदे खगादीनां शब्दे “सारसानाञ्च निर्हादमत्रोदकमसशयम्” भा० ब० ३११०। “सारसैः कलनिर्ह्रादैः कचिदन्नमिता ननौ” रघुः।
निर्हार = पु० निर् + हृ–घञ्। १ निखातशल्यादेः उद्धरणे २ मलमूत्रादित्यागे “आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्य्याः” आ० त०। ३ प्रेतदेहस्य दाहार्थं बहिर्नयने, ४ यथेष्टविनियोगे च। “न निर्हारं स्त्रियः कुर्युः कुटुम्बात् बहुमध्यगात्। स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया” मनुः।
निर्हारक = त्रि० निर्हरति बहिर्गमयति निर् + हृ–ण्वुल्। शवादेर्गृहात् बहिष्कारके “प्रेतनिर्हारकाश्चैव वर्ज्जनीयाः प्रयत्नतः” मनुः प्रेतनिर्हारकस्य अपाङ्क्ते यत्वोक्तिर्धनग्रहणेन तन्निर्हारकविषया। धर्म्मार्थं तन्निर्हारे तु न दोषः “एतद्वै परमं तपो यत् प्रेतमरण्यं हरन्तीवि” कुल्लूकभट्टधृतश्रुत्या तद्विधानात्।
निर्हारिन् = पु० निर्हरति दूरं गच्छति निर् + हृ–णिनि। १ दूरगामिगन्धे अमरः। २ निर्हरणकर्त्तरि। ३ शवादेर्बहिनिष्कारके त्रि० च।
निर्हिम = अव्य० हिमस्याभावः अव्ययी०। १ हिमाभावे निर्गतं हिमं वतः प्रा० ब०। २ हिमशून्ये त्रि०।
निर्ह्रास = पु० निःशेषेण ह्रासः। नितान्तह्रासे “निर्ह्रास एवैकस्मिन्” आश्व० श्रौ० ६६६।
निलय = पु० निलीयतेऽत्र ली–आधारे अच्। १ गृहे २ आवासस्थाने च अमरः। “निलयः श्रियः सततमेतदिति” माघः। ३ निःशेषेण लये ४ अदर्शने। उभयत्र “सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्। प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः” रघुः।
निलयन = न० निलीयतेऽत्र नि + ली आधारे ल्युट्। नीडादावाश्रये। “निलयनञ्चानिलयनञ्च” तैत्ति० उप० “निलयनं नीडमाश्रयो मूर्त्तस्यैव धर्मः” भा०। “विह्वलं तत् समुद्राभं सभयं भारतातुरम्। बलमासीत् तदा सर्वमृते द्रोणार्जुनावुभौ। तावेवास्तां निलयनं तावार्त्तायनमेव च” भा० द्रो० १८८ अ०। भावे ल्युट्। २ श्लेषणे सम्बन्धे “उत्तमाङ्गे निलयनं कपोतकङ्कप्रभृतीनाम्” सुश्रु०।
निलिम्प = पु० नि + लिप कर्त्तरि श। १ देवे “जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी” रावणकृतशिवस्तोत्रम्। “येऽस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषाम्” अथ० ३२६५। २ स्त्रीगव्यां स्त्री त्रिका०। स्वार्थे क। निलिम्पिका सौरभेय्यां स्त्रीगव्यां स्त्री हेम०।
निलीन = त्रि० नितरां लीनः। अत्यन्तसम्बद्धे तस्यादूरदेशादि ऋश्यादि० क। निलीनक तत्सन्निकृष्टदेशादौ त्रि०
निवचन = न० निरन्तरं वचनम् प्रा० त०। निरन्तरवचने। “तदेतन्निवचनमिवास्ति” शत० ब्रा० २४४४ “निवचनं निरन्तरवचनम्” भा०। अभावे अव्ययी०। २ वचनाभावे अव्य०।
निवचने = अव्य० निवचनं वचनाभावः एतदन्तत्वं निपातनात्। वचननियमे “मध्ये पदे निवचने च” पा० “अनत्याधानं (उपश्लेषणाभावे) एतैः सह कृञो विभाषया उप० स०। “निवचनेकृत्य निवचने कृत्वेति वा वाचं नियम्येत्यर्थः” सि० कौ०।
निवत् = त्रि० नि + “उपसर्गाच्छन्दसि धात्वर्थे” पा० “धात्वर्थविशिष्टे साधने वर्त्तमानादुपसर्गादुत्तरे स्वार्थे वतिः स्यात्” सि० कौ० वेदे वति। निम्नगताद्यर्थे “निवतः निम्नगतानित्यर्थः” सि० कौ०। “तृणं निवत्स्वपः स्वपस्यया नरः” ऋ० ११६१११ “निवत्सु प्रबणदेशेषु” भा० नीचैर्भाववति २ निम्नदेशे च “स उद्वतो निवतो याति वेविषत्” ऋ० ३२१०। “निवतः नीचैर्भाववतः प्रदेशान्” भा० “श्वघ्नीव निवता चरन्” ऋ० ८४५३८। “अस्यै रीयन्ते निवनेव सिन्धवः” ऋ० १०४०९। “निवनेव प्रवणेनेव” भा० छान्दसः तस्य नः।
निवपन = न० नि + वप–भावे ल्युट्। पित्राद्युदेशेन दाने “ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत। तर्पणञ्चाप्यकुर्वन्त” भा० अनु० ९२ अ०। “अत्र वा निवपनम्” कात्या० ७७२ “अस्मिन् काले बा उवरदेशे सोमनिवपनं भवति” कर्कः।
निवर = त्रि० नि + अन्तर्भूतण्यर्थे वृ–कर्त्तरि अच्। १ निवारके “आदु मे निवरो भुवत्” ऋ० ८९३१५। “निवरो निवारयिता” भा०। नितरां ब्रियते वृ–वरणे कर्मणि “ग्रहवृदुनिश्चिगमश्च” पा० अप्। “कुमार्य्यामविवाहितावां स्त्रियां स्त्री सि० कौ०।
निवर्त्तन = न० नि + वृत–णिच्–भावे ल्युट्। १ निवारणे “सेतुश्च द्विविधो ज्ञेयः खेयी बन्ध्यस्तथैव च। तोयप्रवर्त्तनात् खेयो बन्ध्यः स्यात् तन्निवर्तनात्” मिताक्षरा। “तथा कराणां दशकेन वंशः। निवर्त्तनं विंशतिसंख्यैः क्षेत्रं चतुर्भिश्च भुजैनिबद्धम्” लीलावतीपरिभाषिते (१ विचा) क्षेत्रभेदे “विष्णवे विषयं ग्रामं ग्रामार्द्धमपि शक्तितः” इत्युपक्रमे “निवर्त्तनसभं वा यो विष्णवे विनिवेदयेत्। सर्वगीर्वाणनिलवे स क्रीडति युगावधि। निवर्त्तनशतेनापि यः प्रोणयति केशवम्। शतयोजन- विस्तीर्णे स राजा भूतले भवेत्” हेमा० दा० वराहपु०। अन्यथाऽपि निवर्त्तनमानम् यथाह वृहस्पतिः “दशहस्तेन दण्डेन त्रिंशद्दण्डो निवर्त्तनम्”। मत्स्यपु० “दण्डेन सप्तहस्तेन त्रिंशद्दण्डो निवर्त्तनम्”। देशभेदात् शक्त्यपेक्षया वा दाने फलतारतम्यद्योतनाय मानभेदोक्तिः।
निवसति = स्त्री नि + वस–आधारे अतिच्। गृहे शब्दरत्ना०
निवसथ = पु० न्थुष्यतेऽत्र नि + वस–आधारे अथच्। ग्रामे हेमच०।
निवसन = न० न्थुष्यतेऽत्र नि + वस–निवासे आधारे ल्युट्। १ गृहे शब्दर०। नि + वस–आच्छादने ल्युट्। २ वस्त्रे हलायुधः। “प्राप्तनाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय” माघः। “हैमनैर्निवसनैः सुमध्यमा” रघुः।
निवहृ = पु० नितरामुह्यते वह–घ। १ समूहे अमरः “भाग्ये (११ ऋक्षे) शवरपुलिन्दप्रध्वंसकरोऽम्बुनिवहमोक्षाय” वृ० स० ९ अ०। नि + वह–अच्। २ सप्तवायुमध्ये वायुभेदे। अनिलशब्दे १६६ पृ० दृश्यम्। “निवहो यत्र वा वाति केषाञ्चिन्न मुखप्रदः। न प्रचण्डी न च मृदुः प्रमादी च प्रभञ्जनः” ज्यो० त०।
निवाकु = त्रि० नि + वच–बा० घुण्। निवचनशीले। ततः वाह्वा० अपत्यादौ इञ्। नैवाकवि तदपत्यादौ।
निवात = पु० निवृत्तो निरुद्धो वा वातोऽस्मात् प्रा० ब०। १ दृढकवचे शस्त्राद्यभेद्यकवचे, २ आश्रये च अमरः। निवा(र्वा)त निष्कम्पमिव प्रदीपम्” कुमा०। “निर्वा(वा)तनिष्कम्पतया विभाति” रघुः।
निवातकवच = पु० हिरण्यकशिपोः पुत्रस्य संह्रादस्य दैत्यस्य पुत्रे १ दैत्यभेदे अग्निपु०। निबातमभेद्यं कवचं येषाम्। २ दानवभेदे ते च इन्द्रप्रेरितेनार्जुनेन निहतास्तत्कथा भा० व० १६८ अध्यायादौ। “निवातकवचानाम दानवा भम शत्रवः। समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत। तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः। तांस्तत्र जहि कौन्तेय! गुर्वर्थस्ते भविष्यति” १६८ इत्युपक्रमे ५ अध्यायैस्तद्बधो वर्णितः।
निवान्या = स्त्री नितरां वाति गच्छति पातृत्वेन नि + वा– क–निवः पाता अन्यः परकीयोवत्सो यस्याः। परकीयेण वत्सेन या मृतवत्सा गौर्दुह्यते तस्यां गवि। “अभिमृशार्ङ्गमपिष्ट्वा निवान्या दुग्धे” कात्या० श्रौ० ५८१८
निवान्यवत्सा = स्त्री निवः पाता अन्यस्यावत्सः अन्यवत्सो यस्याः। स्वदुग्धपायिपरकीयवत्सयुक्तायां गवि “निवा- न्यवत्सामेष्टवै ब्रूयात् तस्यै पयसा जुहुयादार्त्तं वा एतत् पयो यन्निवान्यवत्साया आर्त्तमेतदग्निहोत्रं यन्मृतस्य तदार्त्तेनैव तदार्त्तं निष्कृत्य श्रेयान् भवति” शत०ब्रा० १२ ५ १४।
निवाप = पु० न्युप्यते नि + वप–घञ्। १ पित्राद्युद्देशेन दाने २ दानमात्रे च अमरः। “भर्तृलोकप्रपन्नानां निवापान् विदधुः पृथक्”। “अनुगृह्णीष्व निवापदत्तिभिः” रघुः
नि(नी)वार = पु० नि + वृ–“नौ वृ० धान्ये” कर्मणि घञ् वा दीर्घः। नीवाराख्ये धान्यभेदे। नीवाञ्जलिनाऽपि केवलमहो सेयं कृतार्था तनुः” सा० द०। निवारयति पापानि नि + वारि अच् बा० दीर्घः। दीर्घयुक्तः नदीभेदे स्त्री “नीवारां महितां चापि सुप्रयोगां जनाधिप!” भा० भी० ९ अ०।
निवारण = न० नि + वृ–णिच्–भावे ल्युट्। नितरां वारणे “कण्डूयनैर्दंशनिवारणैश्च” रघुः।
निवास = पु० नि + वस–आधारे घञ्। १ गृहे २ आश्रये च हेमच० “जगन्निवासो वसुदेवसद्मनि” माघः। भावे घञ्। ३ वासे “कुम्भकारस्य शालायां निवासं चक्रिरे तदा” भा० आ० १८५ अ०। ततः धान्या० चतुरर्थ्यां क। निवासक तत्सन्निकृष्टदेशादौ त्रि०।
निवासिन् = त्रि० नि + वस + णिनि। १ निवासकारके “क्रव्यादान् शकुनीन् सर्वांस्तथा ग्रामनिवासिनः” मनुः। “अथानाथा प्रकृतयो मातृबन्धुनिवासिनम्” रघुः।
निविड = त्रि० नित्ररां विडति संहन्यते नि + विड–क। १ सान्द्रे घने २ नीरन्ध्रे ३ दृढे च “गुरुनिविडनितम्बविम्बभारा” माघः। निनता नासा नि + नासायाः विडच्। ४ नतनासिकायां स्त्री हेमच० निनतनासिकायुक्ते ५ अषटीटे त्रि०।
निविद् = स्त्री नि + विद–करणे क्विप्। १ वाचि निघण्टुः। वैश्वदेवस्य शस्त्रे शंसनीये २ मन्त्रपदभेदे च “कति देवा याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे, यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा” वृ० उप०। “स याज्ञवल्क्योऽपि एतयैव वक्ष्यमाणया निविदा प्रतिपेदे, यां संख्यां पृष्टवान् शाकल्यो यावन्तो यावत्सङ्ख्याका देवा वैश्वदेवस्य शस्त्रस्य निविदि, निविन्नाम देवतासंख्यावाचकानि मन्त्रपदानि कानिचिद्वैश्वदेवे शस्त्रे शस्यन्ते तानि निवित्संज्ञकानि तस्यां निविदि यावन्तो देवाः श्रूयन्ते तावन्तो देवा इति। का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्ते। त्रयश्च त्री च शता त्रयश्च देवा देवानां त्रीणि च शतानि पुनरप्येवं त्रयश्च त्री च सहस्राण्ये तावन्तो देवाः” भा०। ३ वक्ष्यमाणन्यूङ्खशब्दार्थे “पदैराप्नोति निविदः” यजु० १९२५ “पदैः निबिदः न्यूङ्खानाप्नोति” वेददी० “सावित्र्यं शस्त्वैकाहिके निविदं दधाति” “चतुर्थकं द्यावापृथिवीयं शस्त्वैकाहिके निविदं दधाति” “अच्छेत्यार्भवं शस्त्वैकाहिके निविदं दधाति” वैश्वदेवं शस्त्वैकाहिके निविदं दधाति” इत्यादीनि शत० ब्रा० १३५१११ पठितानि।
निविद्धान = न० निबिद् न्यूङ्खो धीयतेऽस्मिन् धा–आधारे ल्युट्। ऐकाहिके यज्ञादौ “तद्यद्वैकाहिकानि निविद्धानानि भवन्ति” शत० ब्रा० १३५११२ यत्र यत्र निविद् धीयते तत् निविदितिशब्दे उक्तम् दृश्यम्।
निविरीस = स्त्री निनता नासा “नेर्विडज्विरीसचौ” पा० विरीसच् दन्त्योच्चारणसामर्थ्यात् न षत्वम्। १ नतायां नासिकायां २ तद्युक्तपुरुषादौ त्रि०। ३ सान्द्रे घने जटा० “उरुनिविरीसनितम्बभारखेदि” माघः।
निविष्ट = त्रि० नि + बिश–क्त। १ चित्ताभिनिवेशयुक्ते २ एकाग्रे च “भवन्ति साम्येऽपि निविष्टचेतसाम्” कुमा०।
निवीत = न० नि + अज–क्त व्यदिशः। १ कण्ठलम्बिते यज्ञसूत्रे। व्येञ् संवरणे क्त संप्रसारणादि। २ प्रावृतवस्त्रे अमरः “उपवीतं भवेन्नित्यं निवीतं कण्ठसञ्जनम्” कूर्मपु० “अधो वासः प्रतिमुच्योष्णीषं संवेष्ट्य निवीते” कात्या० श्रौ० १५५१३ “निवीतञ्च कण्ठेसञ्जनम्” कर्कः।
निवीतिन् = त्रि० निवीतमस्त्यस्य इनि। कण्ठलम्बितयज्ञसूत्रयुक्त “कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः। मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा” आह्नि० त० ब्रह्मपु०। “उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजैः। सव्ये तु प्राचीनावीती निवीती कण्ठसञ्जने” मनुः। स्त्रियां ङीप् “त्वगुत्तरासङ्गवतीं निवीतिनीम्” कुमा०।
निवृत् = स्त्री “ऊनाधिकेनैकेन निवृद्भुरिजौ” छन्दोऽनुक्त क्रमणिकायां कात्यायनोक्तेषु गायत्र्याद्यष्टछन्दःसु एकाक्षरन्यूनपादके छन्दोभेदे।
निवृत = न० नि + वृ–क्त। (उडनी) १ उत्तरीये स्वामी। २ परिधृते त्रि०।
निवृत्त = न० नि + वृत–भावे क्त। १ निवृत्तौ यत्नभेदे चित्तस्य विषयेभ्य २ उपरमे च। ३ अभावे न०। नञ्सूत्रभाष्ये “निवृत्तपदार्थक” इत्युक्तम्। “तस्यार्थः निवृत्तमभावः पदार्थो यस्येति नपुंसके भावे क्त इति” वैयाकरणभूषणे उक्तं, हरिण्याप्युक्त्रं यथा “अभावो वा तदर्थस्तु भाष्यस्य हि तदाशयात्”। कर्त्तरि क्त। ४ निवृत्तियुक्ते त्रि० “निवृत्ततर्षैरुपगीयमानात्” भाग० १। १ अ०। “निवृत्ते मरते धीमानत्रेरामस्तपोवनम्” भट्टिः। ५ निवृत्तिपूर्वके कर्मणि न० “प्रवृत्तञ्च निवृत्तं च द्विविधं कर्म वैदिकम्। सर्गादौ सृजता सृष्टं ब्रह्मणा वेदरूपिणा” हेमा० व्रत० भृगुः। धर्मभेदस्य निवृत्तिपूर्वकत्वादुपचारादत्र निवृत्तपदव्यपदेश्यता।
निवृत्तसन्तापन = न० निवृत्तं सन्तापनं यस्य। सन्तापविहीने। तस्मै हितम् छ। निवृत्तसन्तापनीय रसायनभेदे यथोक्तं सुश्रुते “यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः। तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः। अथ सप्त पुरुषा रसायनं नोपयुञ्जीरन् तद्यथा अनात्मवानलसो दरिद्रः प्रमादी व्यसनी पापकृद्भेषजापमानी चेति। सप्तभिरेव कारणैर्न सम्पद्यते। अज्ञानादनारम्भादस्थिरचित्तत्वाद्दारिद्र्यादनायत्तत्वादधर्मादौषघालाभाच्चेति” औषधशब्दे दृश्यम्।
निवृत्तात्मन् = त्रि० निवृत्तः विषयेभ्य उपरत आत्मा अन्तःकरणं यस्य। १ विषयरागशून्यचेतस्के २ विष्णौ० पु० “अनिवर्त्ती निवृत्तात्मा” विष्णुस० “स्वभावतो विषयेभ्यो निवृत्त आत्मायस्येति विग्रहः” भा०।
निवृत्ति = स्त्री नि + वृत भावे क्तिन्। न्यायमतसिद्धे १ यत्नभेदे “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्। एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम्। निवृत्तिश्च भवेद् द्वेषात् द्विष्टसाधनाधियः” भाषा० “द्विष्टसाधनता ज्ञानस्य दुःखसाधनविषयकनिवृत्तिं प्रति जनकत्वमन्वय व्यतिरेकाभ्यामवधारितमिति” मुक्ता० मीमांसकमते कलञ्जाधिकरणशब्दे “प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्राग्भाव एव प्रवृत्तिनिराकरणस्य साध्यमानो निवृत्तिरित्युच्यते” इत्युक्ते २ पदार्थे। अधिकं तच्छब्दे नञ्शब्दे च दृश्यम् “औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्त्तते लोकः” सा० का०।
निवृत्त्यात्मन् = त्रि० निवृत्तिः आत्मा स्वरूपं यस्य। निषेधे “निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते” ति० त०।
निवेश = पु० नि + विश–भावे घञ्। १ प्रवेशे २ उपवेशने आधारे घञ्। ३ निवेशाधारे गृहादौ अस्य क्षुभ्रा० उत्तरपदस्थस्य संज्ञायामपि न णत्वम् शरनिवेशः। “श्रीमतां हरिसखवाहिनीनिवेशः” किरा०। आधारे घञ्। ४ शिविरे भावे घञ्। ५ उद्वाहे विवाहे मेदिनिकोषः।
निवेशन = न० नि + विश–आधारे ल्युट्। १ गेहे २ नगरे हेमच०। ३ निवेशाधारे पृथिव्यां स्त्री ङीप्। “स्योना पृथिवि! नो भवानृक्षरा निवेशनी” “निविशन्ति जनायस्यां साधुप्रतिष्ठाना पृथिवी” वेददी०। भावे ल्युट्। ४ प्रवेशे ५ स्थितौ च जटाध० नि + विश + णिच्–भावे ल्युट्। ६ विन्यासे “सा गौरसिद्धार्थनिवेशवद्भिः” कुमा०।
निवेष्य = न० नि + विष–भावे ण्यत्। १ व्याप्तौ। कर्मणि ण्यत्। २ व्याप्ये त्रि० बा० कर्त्तरि ण्यत्। ३ व्यापके देवभेदे पु० “निवेष्यं (देवभेदम्) मूर्द्धा” यजु० २५। २। ४ आवर्त्ते ५ नीहारजले पु० “अथ निवेष्यं गृह्णाति” शत० ब्रा० ५। ३। ४। ११ “निवेष्य आवर्त्तः” भा० निवेष्ये भवः यत्। ६ तत्र भवे त्रि०। ७ तत्र भवे सद्रे पु० “हृदय्याय च निवेष्याय च” यजु० १६४४ “निवेष्य आवर्त्तः नीहारजलं वा तत्र भवो निवेष्यः” वेददी०।
निव्याधिन् = पु० नितरां विध्यति हन्ति शत्रून् नि + व्यघणिनि। १ रुद्रभेदे “नमः सहमानाय निव्याधिने” यजु० १६२०२ नितान्तव्याधके त्रि०।
***