निराक = पु० निर + अक–वक्रगतौ भावे घञ्। १ पाके २ स्वेदे च कर्मणि घञ्। असत्कर्मफले हेमच०।
निराकरिष्णु = त्रि० निर् + आ + कृ–शीलार्थे इष्णुच्। निराकरणशीले निवारणशीले “निराकरिष्णू वर्त्तिष्णू वर्द्धिष्णू परितो रणम्” भट्टिः “निराकरिष्णोर्वृजिना- दृतेऽपि” रघुः “निराकरिष्णुता चैव विज्ञेयाः पाशवागुणाः” सुश्रुतः।
निराकाङ्क्ष = त्रि० निर्गता आकाङ्क्षा अपेक्षा इच्छा वा यस्य प्रा० व०। १ शाब्दबोधोपयोग्यपेक्षाशून्ये २ इच्छाशून्ये च “तेषां वाक्यं निराकाङ्क्षम्” कात्या० श्रौ० १। ३। २ “यावत् पदवृन्दं निराकाङ्क्षं पूर्वापरपठितपदान्तराकाङ्क्षारहितम्” संग्रहव्याख्या। आकाङ्क्षास्वरूपञ्च आकाङ्क्षाशब्दे दृश्यम्।
निराकार = त्रि० निर्गतः आकारोऽवयवोऽस्य प्रा० ब०। १ अवयवहीने २ देहाद्याकारवर्जिते ब्रह्मणि च “तेजःस्वरूपो भगवान् निराकारो निराश्रयः” ब्रह्मवै० जन्मस्य० ७ अ०। “निराकरज्ञानवादेऽपि योग्यतावशेन प्रतिकर्मव्यवस्थायाः स्थितत्वात्” सर्वद०। आकार आह्वानम्। ३ निर्गताह्वाने च “निराकारा निरानन्दा दीना प्रतिहतस्वना” (अयोध्या) रामा० अयो० ११३ स०।
निराकुल = नितरामाकुलः प्रा० ब०। अत्यन्ताकुले “अलिकुलसङ्कुल कुसुमसमूहनिराकुलवकुलकलापे” गीतगो०। “सुपात्रनिक्षेपनिराकुलात्मना” माघः।
निराकृति = स्त्री निर् + आ + कृ–क्तिन्। १ प्रत्यादेशे निराकरणे निवारणे अमरः। “प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः” सा० द०। निर्गता आकृतिराकारोऽस्य प्रा० ब०। २ निराकारे “योऽसौ विष्णुरगाधात्मा परमात्मा निराकृतिः” हरिवं० २१८ अ०। निर् + आ + कृ–कर्त्तरि क्तिच्। ३ पञ्चयज्ञत्यागिनि पु० “यक्ष्मी च पशुशालश्च परिवेत्ता निराकृतिः” मनुः “यस्तु पञ्च महायज्ञविहीनः स निराकृतिः” कुल्लू० धृतवचनम्। “निराकर्त्तासुरादीनां स विज्ञेयो निराकृतिः” शब्दार्थचि० धृतवाक्यम्। तस्य देवयज्ञनिराकर्त्तृत्वात् तथात्वम्। ४ रोहितमनुपुत्रभेदे पु० “दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः। मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः” हरिवं० ७ अ०।
निराकृतिन् = त्रि० निराकृतमनेन इष्टा० इनि। निराकरण कर्त्तरि “अलोलुपोऽव्यथोदान्तो न कृती न निराकृती” भा० शा० २३६ अ०।
निरातङ्क = त्रि० निर्गता आतङ्का यस्य यस्माद्वा प्रा० ब०। १ भयशून्ये २ रोगरहिते राजनि० “पुरुषायुषजोविन्यो निरातङ्का निरीतयः” रघुः। ३ शिवे पु०।
निरातप = त्रि० निर्गत आतपो यस्मात् प्रा० ब०। १ आतपशून्ये २ रात्रौ स्त्री शब्दच०।
निराबाध = त्रि० निर्गता आबाधा यस्य। १ आबाधाशून्ये २ व्यथाशून्ये ३ प्रतिवन्धशून्ये च “दवीयान् महीधरो नेदीयान् दीर्घो बहुरिति व्यवहारश्च निराबाधं जागरूकत्वत्वात्” सर्वदर्शनसं०। ४ पक्षाभासभेदे पु० “अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम्। असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत्” मिता० धृतवचनम्। “निराबाधम् अस्मद्गृहप्रदीपप्रकाशेनायं स्वगृहे व्यवह रतीति” मिताक्षरा।
निरामय = त्रि० निर्गत आमयात् प्रा० त०। १ आमयरहिते रोगशून्ये अमरः। २ वनच्छगले पुंस्त्री० मेदि० ३ शूकरे शब्दमाला उभयत्र स्त्रियां जातित्वात् ङीष्।
निरामालु = पु० नितरां रमतेऽत्र रम–आलु। कपित्यवृक्षे शब्दच०।
निरामिष = त्रि० निर्गतमामिमभिलाषो मांसाद्यामिषं वा यस्मात् प्रा० ब०। १ लोभशून्ये “अध्यात्मरतिरासनो निरप्रेक्षो निरामिषः” मनुः २ र्मासाद्यामिषहीने च “सामिषं कुररं दृष्ट्वा बध्यमानं निरामिषैः। आमिषस्य परित्यागात् कुररः सुखमेधते” भा० शा० ११९ अ०। ३ आमिषरहिते अन्नादौ। “नैवेद्यैश्च निरामिषैः” ति० त०।
निरालक = पु० स्त्री निर् + अल–ण्वुल्। सामुद्रे मत्स्यभेदे “तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरालकनन्दिवारलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः” सुश्रु०।
निरालम्ब = त्रि० निर्गत आलम्बः अवलम्बनं यस्य प्रा० ब०। १ अवलम्बनशून्ये “एवं मयि निरालम्बे शापात् शिथि लतां गते” हरिव० १७ अ० “निरालम्बो लम्बोदरजननि! कं यामि शरणम्” जगन्नाथः। २ आकाशमांस्यां स्त्री राजनि०। तस्या मूलरूपालम्बनशून्यत्वात्तथात्वम् ३ ब्रह्मणि न० तदधिकारेण प्रवृत्ते ४ उपनिषद्भेदे न उपनिषच्छब्दे १२२२ पृ० दृश्यम्।
निरालोक = त्रि० निर्गत आलोक उद्द्योतो दृष्ठिर्वा यस्मात् प्रा० व०। आलोकशून्ये १ अन्धकारे २ आलोकनरहिते च “कृत्वा लोकान् निरालोकात्” भा० आ० ३२ अ०।
निराश = त्रि० निर्गता आशा यस्य प्रा० ब०। आशारहिते “निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्” ति० त० “सनो बभूवेन्दुमतीनिराशम्” रघुः। तस्य भावः प्यञ्। नैराश्य आशाशून्यत्वे “आशा बलवती राजन्! नैराश्यं परमं सुखम्। आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला” भा० शा० १७८ अ०।
निराशिष् = त्रि० निर्गता आशी राशंसनं यस्य प्रा० ब०। १ आशंसनशून्ये “जगच्छरण्यस्य निराशिषः सतः” कुमा० “निराशीर्निममो भूत्वा युध्यस्व विगतज्वर” गीता। वैराग्यदार्ढ्येन २ विगततृष्णे च।
निराश्रय = त्रि० निर्गत आश्रय आधारोऽवलम्बनं वा यस्य। १ आश्रयरहिते २ आलम्बनरहिते च “चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया। तद्वद्विना विशे षैर्न तिष्ठति निराश्रयं लिङ्गम्” सां० का० “निराश्रयं मां जगदीश! रक्ष” उद्भटः “त्यक्त्वा कर्मफलासङ्गं नित्यवृप्तो निराश्रयः” गीता “निराश्रयः योगक्षेमार्थमाश्रयणीयरहितः” श्रीधरः। ३ अद्वैतदर्शनेन देहेन्द्रियाद्यभिमानशून्ये शब्दार्थचि०।
निरास = पु० निर + अस–भावे घञ्। १ प्रत्याख्याने निराकरणे “तथा विज्ञानपक्षनिरासहेतुर्बाह्यप्रतीत्यादि” सां० प्रभा०। निर + आ + अस–अच्। २ निरासके त्रि० “निरासैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः” भा० शा० २७० अ०।
निराहार = त्रि० निर्गत आहारो यस्य प्रा० ब०। १ आहारशून्ये “निराहाराश्च ये जीवाः” तर्पणमन्त्रः। निवृत्त आहारः प्रा० स०। २ निवृत्ते आहारे “पश्चात्तापो निराद्वारः सर्वेऽमी शुद्धिहेतवः” याज्ञ० अव्ययी०। ३ आहाराभावे न०
निरङ्गिणी = स्त्री निभृतमङ्गं निरङ्गं तदस्त्यस्या आच्छाद्यत्वेन इनि ङीप्। तिरस्करिण्यां प्रच्छदपटे त्रिका०
निरिन्द्रिय = त्रि० निर्गतं निवृत्तमिन्द्रियं यस्य प्रा० ब०। इन्द्रियशून्ये “ये च केचिन्निरिन्द्रयाः” मनुः।
निरीति = त्रि० निर्गता ईतिर्यत्र। अतिवृष्ठ्यादीतिशून्ये “निरीतिभावं गमितेऽतिवृष्टयाः” नैष० “निरातङ्का निरीतयः” रघुः।
निरीष = न० निर्गतमीषायाः निरा० त०। फाले अमरः।
निरीश्वर = त्रि० निस्त्यक्त ईश्वरो यत्र प्रा० व०। १ ईश्वररहिते वादे “निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम्” सां० प्र० भा० पद्मपु०। २ तद्वादयुने नास्तिके। निरीशादयोऽप्यत्र।
निरीह = त्रि० निर्गता ईहा यस्य प्रा० ब०। चेष्टाशून्ये “निरीहस्य हतद्विषः” रघुः निवृत्ता ईहा प्रा० त०। चेष्टाविरोधिव्यापारे स्त्री “शमो निरीहावस्थायामात्मविश्रावजं सुखम्” सा० द०।
निरुक्त = न० निर्–वच–भावे क्त। १ निर्वचने पदानामववयवार्थाः सम्भाविता निःशेषेण निश्चयेन उच्यन्वे यत्र आधारे बा० क्त। पदानामवयवार्थनिर्वएनरतिपादके यास्कादिप्रणीते २ ग्रन्थभेदे तदेतत् ऋग्वेदभाष्योपक्रमे उक्तं यथा
“पञ्चध्यायरूपकाण्डत्रयात्मके एतस्मिन् ग्रन्थे परनिरपेक्षितया पदार्थस्योक्तत्वात्तस्य ग्रन्थस्य निरुक्तत्वम्। तद्व्याख्यानं च “समाम्नायः समाम्नातः” इत्यारभ्य “तस्यास्तस्यास्ताद्भाव्यमनुभवत्यनुभवति” इत्यन्तैर्द्वादशभिरध्यायैर्यास्को निर्ममे। तदपि निरुक्तमित्युच्यते एकैकस्य पदस्य सम्भाविता अवयवार्थास्तत्र निःशेषेणोच्यन्त इति व्युत्पत्तेः। तथा हि “चत्वारि पदजातानि नामाख्याते चोपस्वर्गनिपाताश्चेति” प्रतिज्ञाय “उच्चावचेष्वर्थेषु निपतन्तीति” निपातस्वरूपं निरुच्यैवमुदाहृतम् “नेति प्रतिषेघार्थीयो भाषायामुभयमन्वव्यायम् “नेन्द्रं देवममंसतेति” प्रतिषेधार्थीय इति। “दुर्मदासो न सुरायाम्” इत्युपमार्थीयः इति च। तच्च लोके केवलप्रतिषेधार्थकस्यापि नकारस्य वेदे प्रतिषेधोपमालेक्षेणार्थोदाहरणमस्मिन् ग्रन्थेऽवगम्यते। एवं ग्रन्थकारेणोक्तास्तत्तत्पदनिर्वचनविशेषास्तत्तन्मन्त्रव्याख्यानावसरे एवास्माभिरुदाहरिष्यन्ते। म च निर्वचनानां निर्मूलत्वं शङ्कनीयम् एतद्व्युत्पत्त्यर्थमेव ब्राह्मणेषु पदनिर्वचनानां केषाञ्चिदुक्तत्वात्। “तदाहुतीवामाहुतित्वमिति” “तमिदन्द्रं सन्तमिन्द्रम् इत्याचअते” इति “यदप्रथयत्तत् पृथिव्याः पृथिवीत्वमिति च”। ग्रन्थकारोऽपि तत्र तत्र स्वीक्तनिर्बचनमूलभूतब्राह्मणान्युदाहरिष्यति केषाञ्चिन्निर्ववचानागां व्याकरणवलेन सिद्धावपि न सर्वेषां सिद्धिरस्ति। अतएव अन्थकार आह “तदिदं विद्यास्थानं व्याकरणस्य कात्र्स्न्यं स्वार्थसाधकं चेति”। तस्माद्वेदार्थावबोधायोपयुक्तं निरुक्तम्”। तत्र निर्वचने पदसाधनप्रकारश्च “वर्णागमो वर्णविपर्यवश्चेत्यादिनोक्तो निपातशब्दे दृश्यः। “शिक्षामल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति” मुण्डकोप० “छन्दः पादौ तु नेदस्य हस्तौ कल्पोऽध पठ्यते। ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते” तस्यैतत् निरुक्तं हृद्ययमिति हृदयम्” छा० उप०। हेमचन्द्रे तु पदभञ्जनं निरुक्तमित्युक्तं तेनावयवार्थज्ञापनार्थं तत्तद्घटकपदस्य विभागकरणमेव निरुक्तमिति तदर्थः। ३ नियोगेन उक्ते ४ नियुक्ते च निरुक्तजशब्दे दृश्यम्।
निरुक्तकार = पु० निरुक्तं ग्रन्थं करोति कृ–अण् उपस०। १ यास्के मुनौ २ शाकपूणिनामकमुनौ च। कृ–क्विप् निरुक्तकृदपि तयोरर्थयोः।
निरुक्तज = पु० निरुक्तः नियुक्तः अस्यां पुत्रमुत्पादयेत्युक्तः अन्यस्तस्मात् जायते जन–ड। क्षेत्रजपुत्रे “आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः। निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा” भा० अनु० ४९ अ०। “निरुक्तजः स्वक्षेत्रेऽन्योरेतःसेकार्थमुक्तस्तज्जः” नीलक०।
निरुक्ति = स्त्री निर् + वच–क्तिन्। १ निर्वचने प्रकृतिप्रत्ययाद्यवयवार्थकथनद्वारा समुदितार्थबोधने “किं कारणं जरत्कारोर्नामैतत् प्रथितं भुवि। जरत्कारुनिरुक्तिं त्वं यथावत् वक्तुमर्हसि” सौतिरुषाच “जरेति क्षयमाहुर्वै दारणं कारुसंज्ञितम्। शरीरं कारु तस्यासीत्तत्स धीमाञ्छनैः शनैः। क्षपयामास तीव्रेण तपसेत्यत उच्यते। जरत्कारुरिति ब्रह्मन्! वासुकेर्भगिनी तथा” भा० आ० ४० अ०। ३९९ पृ० अलङ्कारशब्दोक्ते २ अलङ्कारभेदे
निरुत्सुक = त्रि० नितरामुत्सुकः प्रा० स०। १ अत्यन्तोत्सुके निर्गतमुत्सुकम् उत्सुकता यस्य प्रा० ब०। २ औत्सुक्यहीमे च “ममापि कण्वशुतामनुस्मृत्य मृगयां प्रति निरुत्सुकं चेतः” रैवतकमनोः ३ पुत्रभेदे पु० “धृतिमानव्यथोवक्रस्तत्त्वदर्शी निरुत्सुकः” हरिवं० ७ अ० रैवतपुत्रोक्तौ। त्रयोदशमन्वन्तरे सप्तर्षिमध्ये मार्गवे ऋषिभेदे “पौलहस्तत्त्वदर्शी तु मार्गवश्च निरुत्सुकः” तत्रैव त्रयोदशमन्वन्तरे सप्तर्षिकथने।
निरुदकादि = पु० पा० न० सू० उक्ते अन्तोदात्ततानिमित्ते शब्दगणभेदे स च “निरुदक निरुपल निर्मक्षिक निर्मशक निष्कालक निष्कालिक निर्वुषदुस्तरीप निस्तरीप निस्तरी निरजिन उदजिन उपाजिन (परेर्हस्तपादकेशकर्षाः)” “निरुदकादिराकृतिगणः” सि० कौ०।
निरुद्ध = त्रि० नि + रुध–कर्मणि क्त। १ संरुद्धं कृतगमनादिप्रतिरोधे “यत्ननिरुद्धवाहैः” माघः। पात० भा० उक्ते ३ चित्तस्यावस्थारूपभूमिभेदे तच्च तत्रोक्तं यथा “क्षिप्तं मूदं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तममयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्त्तते यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान् कर्मबन्धनानि श्लथयति निरोधमभिमुखं करोति स सम्प्रज्ञातो योग इत्याख्यायते” वा० “क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरम्। मूढन्तु तमःसमुद्रेकान्निद्रावृत्तिमत्। विक्षिप्तं क्षिप्ताद्विशिष्टं विशेषो हि स्थेमवहुलस्य कादादित्कः स्थे मा सा चास्या स्थेमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यन्तरायजनिता वा। एकाग्रमेकतानम्। निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम्। तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनिरोधे पारम्प्रर्येणापि निश्चेयहेतुभावाऽभावात् तदुपघातकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति नतथोर्योगत्वं निषिद्धम्। विक्षिप्तस्य तु कादाचित्क सद्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वामिति निषेधति तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कः सद्भूतविषयस्य चित्तस्य स्थेमा न योगपक्षे वर्त्तके। कस्माद्यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं प्रागेव कायकरणात्। न खलु दहनान्तर्गतं वीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पते इति भावः। यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः कस्तर्हि इत्यत आह यस्त्वेकाग्रे चेतसि इति। भूतमिति समारोपितमर्थं निवर्त्तयति। निद्रावृत्तिरपि स्वालम्बने तससि भूते भवत्येकाग्रेत्यत उक्तम् सदिति। शोभनं नितान्तमाविर्भूततत्त्वं, तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति। द्योतनं हि तत्त्वज्ञानमागमाद्वाऽनुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यामुच्छिनत्ति द्विचन्द्रदिङ्मोहादिष्वनुच्छेदकत्वादत आह प्रेति प्रशब्दो हि प्रकर्षं द्योतयन् साक्षात्कारं सूचयति। अविद्यामूलत्वादस्मितादीनां क्लेशानां विद्यायाश्च अविद्याच्छेदरूपत्वात् विद्योदये चाविद्याक्लेशसमुच्छेदो विरोधित्वात् कारण विनाशाच्चेत्याह क्षिणोति चेति। अतएव कर्म्म रूपाणि वन्धनानि श्लथयति। कर्म चात्रापूर्वमभिमतं कार्ये कारणत्वोपचारात्। श्लथयति स्वकार्य्यादवसादयति। वक्ष्यति हि “सति मूले तद्विपाकः”। इति किञ्च निरोधमभिमुखं करोत्थभिमुखीकरोति” विव०
निरुद्धप्रकष(स) = न० सुश्रुतोक्ते क्षुद्ररोगभेदे “वातोपसृष्टमेवन्तु चर्म संश्रयते मणिम्। गणिश्चर्म्मोपनद्धस्तु मूत्रस्रोतोरुणद्धि च। निरुद्धषकषे(स) तस्मिन् मन्दधारे सवदनम्। मूत्रं प्रवर्त्तते जन्तीर्मणिर्न च विदीर्य्यते। निरुद्धप्रकषं(सं) विद्याद्दुरूढां चावपाटिकाम्”।
निरुपाख्य = त्रि० निर्गता उपाख्या यस्मात् प्रा० ब०। असत्पदार्थे १ बन्ध्यापुत्रादौ २ अभावपदार्थे च वाचोमनसश्च विषयतयोल्लेखनायोग्ये अस्फुटस्वरूपे ३ ब्रह्मणि च। “ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना। केवल्या या नतिर्देव! परमा सा गतिर्भवान्” भा० अनु० १७ अ०। ४ निःस्वरूपे “त्रयमपि चैतदवस्तु अमावमात्रं निरुपाख्यमिति” शारी० भा० “निरुपाख्यं निःस्वरूपम्” रत्नप्र०।
निरुपाय = त्रि० निर्गत उपायोयस्य प्रा० ब०। १ उपायरहिते “उच्छिद्यमानोबलिना निरुपायप्रतिक्रियः” कामन्द०।
निरुप्त = त्रि० निर् + वप–कर्मणि क्त। यज्ञादौ भागशः पृथक्कृत्य दत्ते “न च मुष्टिमात्रेण निरुप्तेन प्रयोजनम्” कात्या० श्रौ० १५। १९ सू० कर्कः।
निरूढ = त्रि० निर्–रुह–क्त। १ नितरां रूढे २ शक्तितुल्यतक्षणयाऽर्थबोधके शब्दे “पूर्वस्वामिसम्बन्ध धीनं तत्स्वाम्युपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढोदायशब्दः” इति दायभागः। २ पशुयागभेदे “निर्मित ऐन्द्राग्नः” आश्व० ० ३। ८। ४ “ऐन्द्राग्नो निरूढो नाम वशुः कर्त्तव्यः। कयमपि पशूनां प्रकृतिः। तेनाङ्गभूतानामग्नीषोमीयः प्रकृतिः। स्वतन्त्राणां निरूढः प्रकृतिरिति तेष्वेव पश्विष्टिर्नाङ्गभूतेष्वित्येवमर्थं निरूढप्रकृतित्वाभ्रानम्” नारा०। “षाण्मास्यः सांत्वत्सरो वा” ५ सू० “सोऽयं निरूढः पशुः षट्सु षट्सु भासेषु कर्त्तव्यः संवत्सरे संवत्सरे वा। अतोऽयं वीप्सावचमान् नित्योऽयं पशुरिति गम्यते” नारा०।
निरूढलक्षणा = स्त्री निरूढा शक्तितुल्या लक्षणा। व्याणरणकोपादिहेतुतः प्रसिद्धार्थे शक्तितुल्यायां लक्षणारूपायां शब्दस्वार्थबोधनाशक्तौ।
निरूढि = स्त्री नि + रुह–क्तिन्। १ प्रसिद्धौ “नृप! विद्यासु निरूढिमागता” किरा०। २ निरूढलक्षणायाञ्च।
निरूपक = त्रि० निरूपयति नि + रूप–ण्वुल्। निसूपणकर्त्तरि तस्य भावः तल्। निरूपकता स्वरूपसम्बन्धभेदे यथाऽऽधारतानिरूपकताऽऽधेयत्वे इत्यादि।
निरूपण = न० नि + रूप–ल्युट्। तत्त्वज्ञानानुकूलशब्दप्रयोगे १ विचारे २ निदर्शने ३ आलोके च “निरूपणं लक्षणादिप्रकारेण ज्ञानानुकूलवचनम्” दाय० भा० श्रीकृष्णः।
निरूपित = त्रि० नि + रूप–क्त। निरूपणकर्मणि तस्य भायः त्व। निरूपितत्वं न्यायोक्ते स्वरूपसम्बन्धविशेषे।
निरूह = पु० निर् + ऊह–करणे घञ्। सुश्रुतोक्ते दोषनिर्हरणोपावे वस्तिभेदे “तत्र द्विविधो वस्तिः नैरूहिकः स्वैहिकञ्च। आस्थापयं निरूह इत्यनर्थान्तरम्। तस्य विकल्पोमाधुतैलिकः। तस्य पर्य्यायशब्दो यापनोयुक्तरयः सिद्धवस्तिरिति। स दोषनिर्हरणाच्छरीररोगहरणाद्वा निरूहः वयःस्थापनादायुःस्थापनद्वाऽऽस्थापनम्। माधुतैलिकविधानञ्च निरूहक्रमचिकित्सिते वक्ष्यामः”। “तत्र यथाप्रमाणगुणविहितः स्नेहवस्तिविकल्पोऽनुवासनः पादावकृष्टः। अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयते इत्यनुवासनः। तस्यापि विकल्पोऽर्द्धार्द्धमात्रावकृष्टोऽपरिहार्य्यो मात्रावस्तिरिति”। “निरूहः शोधनोल्लेखी स्नेहनो वृंहणो मतः। निरूहशोधितान्मार्गान् सम्यक्स्नेहोऽनुगच्छति। अपेतसर्वदोषासु नाडीष्विव वहज्जलम्। सर्वदोषहरश्चासौ शरीरस्य च जीवनः। तस्माद्विशुद्धदेहस्य स्नेहवस्तिर्विधीयते। तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शःपाण्डु रोगभ्रममदमूर्च्छा{??}र्दिकुष्ठमहोदरस्थौल्यश्वासकासकण्टशोषशोफोपसृष्टक्षत क्षीणचतुस्त्रिमासगर्भिणीदुर्वलाग्न्यसहाबालवृद्धौ च वा० तरोगादृते क्षीणा नानुवास्या नास्थापयिव्याः”। उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः अवश्यं स्थापनीयाश्च नानुवास्याः कथञ्चन। असाध्यता विकाराणां स्यादेषामनुवासनात्”। तत्प्रयोगप्रकारश्च तत्रैवीक्तो यथा
“अथातो निरूहोपक्रमचिकित्सितं व्याख्यास्यामः। अथानुवासितमास्थापयेत्स्वभ्यक्तस्विन्नशरीरमुत्सृष्टवहिर्वेषमप्रवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायाप्रधःसुपरिग्रहायां श्रोणिपदेशव्यूढायामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिं सुमनसं जीर्णान्नं वाग्यतं सुनिषस्मदेहं विदित्वा ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां कर्णिकामुपरि निष्पीड्य सव्यपाणिकनिष्ठिकानामिकाभ्यां वस्तेर्मुखार्द्धं सङ्कोच्य मध्यमप्रदेशिन्यङ्गुष्ठैरर्द्धन्तु विवृतास्यं कृत्वा वस्तावौषधं प्रक्षिप्य दक्षिणहस्ताङ्गुष्ठप्रदेशिनीभ्यां चानुसिक्तमनायतमबुद्बुदमसङ्कुचितमवातमौषधासन्नमुपसंगृह्य पुनरितरेण गृहीत्वा दक्षिणेनावसिञ्चेत्ततः सूत्रेणैवषौधान्ते द्विस्त्रिर्वावेष्ट्य बध्नीयात्। अथ दक्षिणेनोत्तानेन पाणिना वस्तिं गृहीत्वा वामहस्तमध्यमाङ्गलिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गुष्ठेन नेत्रद्वारं पिधाय धृताभ्यक्ताग्रनेत्रं घृताक्तगुदाय प्रयच्छेदनुपृष्ठयंशं सममुन्धुखमाकर्णिकं मेत्रं प्रणिधत्स्नेति ब्रूयात्। वस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत्। एकेनैवा- पपीडेन न द्रुतं न बिलम्बितम्” ततो नेत्रमपनीय त्रिशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात्। आतुरमुपवेशयेदुत्कटुकं वस्त्यागमनार्थम। निरूहप्रत्याग मनकालस्तु मुहूर्त्तो भवति। “अनेन विधिना वस्तिं दद्याद्वस्तिविशारदः। द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः। सम्यग्निरूढलिङ्गे तु प्राप्ते वस्तिं निवारयेत्। अपि हीनक्रमं कुर्य्यान्न तु कुर्य्यादनिक्रमम्। विशेषात्सुकुमाराणां हीनएव क्रमो हितः। यस्य स्याद्वस्तिरत्यल्पवेगो हीनमलानिलः। दुर्निरूढः स विज्ञेयो मूत्रार्त्त्यरुचिजाड्यवान्। यान्येव प्राक्प्रयुक्तानि लिङ्गान्यतिविरेचिते। तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता। यस्य क्रमेण गच्छन्वि विट्पित्तकफवायवः। लाघवं चोपजायेत सुनिरूढं तमादिशेत्। सुनिरूढं ततोजन्तुं स्नानवन्त तु भोजयेत्। पित्तक्लेस्मानिलाविष्टं क्षीरयूषरसैः क्रमात्। सर्वं वा जाङ्गलरसैर्भोजयेदविकारिभिः। त्रिभागहीनमर्द्धं वा हीनमात्रमथापि वा। यथाग्निदोषं मात्रेयं भोजनस्य विषीयते। अनन्तरं ततो युञ्ज्याद्यथास्वं स्नेहवस्तिना। विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः। आस्थापनस्नेहवस्त्योः सम्यग्दाने तु लक्षणम्। तदहस्तस्य पवनाद्भयं बलवददिष्यते। रसौदनस्तेन शस्तस्तदहश्चानुवासनम्। पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम्। अन्नोपस्तम्भिते कोष्ठे स्नेहवस्तिर्विधीयते। अनायान्तं मुहूर्त्तात्तु निरूहं शोधनैर्हरेत्। तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः। विगुखानिलविष्टव्यं चिरं तिष्ठन्निरूहचम्। शूलाऽरतिज्वरानाहं मरणं वा प्रवर्त्तयेत्। तत्तु भुक्तवते देयमास्थापनमिति स्थितिः। विसूचिकां वा जनयेच्छर्दिं वापि सुदारुणम्। कोपयेत्सर्वदोषान्वा तस्य हद्यादमोजिने। जीर्णान्नस्याशये दोषाः पुंसः प्रव्यक्तिमागताः। निःशेषाः सुशृमायान्ति भोजनेनाप्रपीडिताः। न वास्थापनविक्षिप्तमक्षमग्निः प्रधावति। तस्मादास्थापनं देयं निराहाराय जानता। आवस्थिकं क्रमञ्चापि मत्वा कायं निरूहणम्। मलेऽपकृष्टेऽदोषाणां बलवत्त्वं न विद्यते”। वस्तिभेदश्च (पिचकारी) ख्यातः “वस्तिर्द्विधानुवास्याख्योनिरूहश्चेति संज्ञितः। यः स्नेहैर्दीयते स स्यादनुवासननामकः। कषायक्षीरतैलैश्च निरूहः स निगद्यते” इति वेद्यसारकौ०। ल्युट्। निरूहणमप्यत्र न०
निऋ(रृ)ति = पु० नियता ऋतिर्घृणा यत्र प्रा० व० रमध्यो वा। १ दक्षिणपश्चिमविदिक्पतौ। “मृगव्याधश्च सर्पश्च निरृतिश्च महायशाः” भा० आ० ६६ अ०। २ अलक्ष्म्याम् स्त्री ३ निरुपद्रवे त्रि०। ४ अधर्मस्य भार्य्यायां स्त्री “अधर्सस्तत्र संजातः सर्वशुभविनाशकः। तस्यापि निरृतिर्भार्य्या नैरृता येन राक्षसाः” भा० आ० ६६ अ०। ५ अधर्मस्य कन्यायाञ्च स्त्री “हिंसा भार्य्या त्वधर्मस्य तस्यां जज्ञे तथाऽनृतम्। कम्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम्” मार्कण्डेयपु० ५ अ०। ६ मृत्युभार्य्यायाम्। “निरृतिश्च तथा चान्या मृत्योर्भार्य्याऽभवनुमुने!” तत्रैवाध्याये। अलक्ष्मीश्च लक्ष्म्या ज्येष्ठा भगिनी अश्वत्थशब्दे ५०६ पृ० दृश्यम्। ७ मूलानक्षत्रे तस्य तद्देवताकत्वात् तथात्वम्। निरृतिर्लोकपालश्च पिङ्गाक्षव्याधः कार्पटिकादीनां रक्षर्थं यतमानस्ताराक्षण तत्पितृव्येन धातितः मरणकाले तेषामाधिपत्यं लभेयमितीच्छया प्राणविमोचनात् तदीशतामाप तत्कथा काशीख० १२ अ० यथा “असूदयिष्यमेतांस्तदभविष्यं यदीश्वरः। अभिलव्योन्नतिं प्राणानत्याक्षीत् स परार्थतः। या मतिस्त्वन्तकाले स्याद्गतिस्तदनुरूपतः। दिगीशत्वमतः प्राप्तो नैरृत्यां नैरृतेश्वरः” इति। एतल्लोकप्राप्तिकारणादिकं तत्रैव यथा “दिक्पतेनैरृतस्यासौ पुण्यापुण्यजनोषिता। राक्षसा निवसन्त्यस्यामपरद्रोहिणः सदा। जातिमात्रेण रक्षांसि वृत्तैः पुण्यजना इमे। अत्यक्तश्रुतिवर्त्मानो जाता वर्णा वरेष्यपि। नाद्रियन्तेऽन्नपानानामस्मृत्युक्तं कदाचन। परदारपरद्रव्यपरद्रोहपराङ्मुखाः। जाता जातौ निकुष्टायामपि पुण्यानुसारिणः। द्विजातिभक्त्युत्पन्नान्नैरात्मानं पोषयन्ति ये। सदा सङ्कुचिताङ्गाश्च द्विजसम्भाषणादिशु। आहूता हृष्टवदना वदन्ति द्विजसन्निधौ। जय जीव भगोनाथ स्वामिन्निति हि वादिनः। तीर्थ स्नानपरानित्यं नित्यदेवपरायणाः। द्विजेषु नित्यं प्रणताः स्वनामाख्यानपूर्वकम्। दमदानदयाक्षान्तिशौचेन्द्रियविनिग्रहाः। अस्तेयसत्याऽहिंसाश्च सर्वेषां धर्महेतवः। नवस्वेषु सदोद्युक्ता ये जातायत्र कुत्रचित्। सर्वभोगसमृद्धास्ते वसन्त्यत्र पुरोत्तमे। म्लेच्छा अपि मुतीर्थेषु ये मृता नात्मघातकाः। विहाय काशीं निर्वाण विश्राणान्तेऽत्र भोमिनः। अन्धन्तमो विशेयुस्ते ये चैवात्यहनो जनाः। भुक्त्वा निरयसाहस्रं ते च स्युर्ग्रामश्रूकराः। आत्मथातो न कर्त्तव्यस्तस्मात् क्वापि विप- श्चिता। इहापि च परत्रापि न शुभान्यात्मधातिनाम्। यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः। प्रयागे सर्वतीर्थानां राज्ञि सर्वाभिलाषदे। अन्त्यजा अपि ये केचिद्दयाधर्मानुसारिणः। परोपकृतिनिष्ठास्ते वसन्त्यत्र तु सत्तमाः। अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतः शृणु। मध्येविन्धाटवि पुरा पक्वणस्य जनाग्रणीः। पल्लीपतिरभूदुग्रः पिङ्गाक्ष इति विश्रुतः। निर्विन्ध्यायास्तटे शूरः क्रूरकर्मपराङ्मुखः”।
निरृथ = पु० निर + ऋ–घक्। सामभेदे उज्ज्वलद०।
निरोद्धव्य = त्रि० नि + रुध–कर्मणि तव्य। १ आवरणीये लोकानां यथेष्टप्रचारवारणाय रक्षणीये “आशयाश्चोदपानाश्च प्रभूतसलिलाकराः। निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुजाः” भा० शा० ८६ अ०। यथेष्टावगाहनादिभिर्जलमालिन्यसम्भवात् तन्निवारणार्थं तस्यावरणादिना रक्षणं कार्यम्। २ प्रतिरोधनीये च
निरोध = पु० नि + रुध–भावे घञ्। १ नाशे २ गव्यादिप्रतिरोधे मेदि० ३ निग्रहे च तत्र नाशे (प्रलये) “न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता” सां० प्र० भा० धृता श्रुतिः। ४ निरुद्धाख्यचित्तावस्थाभेदे निरुद्धशब्देऽस्य स्वरूपादिकमुक्तम्। “योगश्चित्तवृत्तिनिरोधः” पात० सू० “अनयोर्द्वयोरेकाग्रनिरुद्धयोर्भूम्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं भवति एकाग्रे बहिर्वृत्तिनिरोधः निरुद्धे च सर्वासां वृत्तीनां संस्कारशेषाणां प्रविलय इत्यनयोरेव भूम्योर्योगस्य सम्भवः” भोजवृत्तिः। तस्य कारणञ्च तत्र दर्शितं यथा “अभ्यासवैराम्याभ्यां तन्निरोधः” पात० सू० “अथासां निरोधे क उपायः? इति चित्तनदी नामोभवतोवाहिनी वहति कल्याण्याय वहति पापाय च। या तु कैवल्य प्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा। संसार प्राग्भाराऽविवेकविषयनिम्ना पापवहा। तत्र वैराम्येण विषयस्वोतः खिलीक्रियते विवेकदर्शनाभ्यासेन विवेकस्तोत उद्घाट्यते इत्युभयाधीनश्चित्तवृत्तिनिरोधः” ना०। “अभ्यासवैराम्ये वक्ष्यमाणलक्षणे ताभ्यां प्रकाशप्रवृत्तिनियमरूपा या वृत्तयस्तासां निरोधो भवतीत्युक्तं भवति तासां विनिवृत्तगाह्याभिनिवेशानाम् अन्तर्मुखतया खकारण एव चित्ते शक्तिरूपतयाऽवस्थानम्। तत्र विषयदोषदर्शनजेन वैराम्येण तद्वैमुख्यमुत्पाद्यते। अभ्यासेन च मुखजनकं शान्तप्रवाहप्रदर्शनद्वारेण दृढस्थैर्यमुत्प- द्यते। इत्यं ताम्यां भवति चित्तवृत्तिनिरोधः” भोजवृचिः। “अवातो विपरीता। विवेकख्यातिरित्यतस्तस्यां विरक्तं चित्तं तामपि निरुणद्धि। तदवस्थं चित्तं संस्कारोपगं भवति। स निर्वीजः समाधिः, न तत्र किञ्चित् सम्पज्ञायत इत्यसम्प्रज्ञातः द्विविधः स योगश्चित्तवृत्तिनिरोध इति। तदवस्थे चेतसि विषयाभावात् बुद्धिबोधात्मा पुरुषः किं स्वभावः इति” पात० भा० “अतश्चितिशक्तेर्विपरीतेति। यदा च विवेकख्यातिरपि हेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति भावः। ततस्यद्वेतोर्निरोधसमाधेरवतारो युज्यते इत्याह अतस्तस्यामिति। ज्ञानप्रसादमात्रेण हि परेण वैराग्येण वियेकख्यातिमपि निरुणद्धीत्यर्थः। अथ अनिरुद्धाऽशेषवृत्तिचित्तं कीदृशमित्यत आह तदवस्थमित्यादि। स निरोधः व्यवस्था यस्य तत्तथोक्तम्। निरोधस्य स्वरूपमाह स निर्वीज इति। क्लेशसहितः कर्माशयो जात्यायुर्भोनवीजम् तस्मान्निर्गत इति निर्धीजः। अस्यैव योगिजनप्रसिद्धामन्वर्थसंज्ञामादर्शयति न तत्रेति। उपसंहरति। द्विविधः सःयोभश्चित्तवृत्तिनिरोध इति। संप्रत्युत्तरसूत्रमवतारयंश्चोदयति। तदवस्थे चेतसीति। किमाक्षेपे तत्तदाकारपरिणतबुद्धिबोधात्मा त्वयं पुरुषः सदानुमूयते नतु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्य बुद्धिबोधस्वभावः सवितुरिव प्रकाशः न च संस्कारशेषे चेतसि सोऽस्ति न च स्वभावमपहाय भावो वर्त्तितुमर्हति इति भावः। स्यादेतत् संस्कारशेषामपि बुद्धिं कस्मात् पुरुषो न बुध्यते इत्यत आह विषयाभावादिति। न बुद्धिमात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती बुद्धिः विवेकख्यातिविषयमोगौ च पुरुषार्थौ तौ च निरुद्धासस्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः” विव०। “तदा द्रष्टुः स्वरूपेऽवस्थानम्” पात० सू० “स्वरूपप्रतिष्ठा तदार्नी चितिशक्तिर्यथा कैवल्ये, व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा” भा० “मूत्रेण परिहरतिं तदा द्रष्टुः स्तरूपेऽवस्वानम्। स्वरूप इत्यारोपितम् शान्तधोरमूढस्वरूपं निवर्त्तयति। पुरुषस्य हि चैतन्यं स्तरूपमनौवाचिकम्। न तु बुद्धिबोधः शान्तादिरूपः। चोपाधिकी हि सः, स्फटिकस्येध स्वमावस्वच्छधबलस्य जपाकुसुमसन्निधानोपाधिररुणिमा, न चोपाजिनिवृत्तावुपहितनिवृत्तिरतिप्रसङ्गादिति भावः। स्वरूपस्य चाभेदेऽपि भेदं विकल्प्य कधिकरणभाव उक्त इति। अयमेवार्थोभाव्यकृता द्योत्यते स्वरूपप्रतिष्ठेति। तदार्नी निरोधावस्थायां न व्युत्यानावस्थायाभिति भावः। स्वादेतत् व्युत्थानावस्थायामप्रतिष्ठिता स्वरूपे, चिति शक्तिः निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्याद् व्युत्थाने वा स्वरूपप्रतिष्ठाने सति व्युत्थाननिरोधयोरविशेष इत्यत आह व्युत्थानचित्ते त्विति। न जातु कूटस्थनित्या चितिशक्तिः स्वरूपात् च्यवते। तेन यथा निरोधे तथैव व्युत्थानेऽपि। न खलु शुक्तिकायाः प्रमाण विपर्य्ययज्ञाननोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः प्रतिपत्ता तु तथाभूतमप्यतथात्वेनाभिमन्यते। निरोधसमाधिमपेक्ष्य सम्प्रप्रज्ञातोऽपि व्युत्थानमेवेति” विवरणम् २ निरुध्यते यस्मै सम्प्रदाने घञ्। निरोधजनिते वशीकरणे च “निरोधश्छर्दिविधारणाभ्याम्” सां० सू० “प्राणस्येति प्रसिद्ध्या लभ्यते “प्रच्छर्द्दनविधारणाभ्यां प्राणस्येति” योगसूत्रे भाष्यकारेण प्राणायामस्य व्याख्यातत्वात्। छर्दिश्च वमनम्, विधारणं त्याग इति यावत्। तेन पूरणरेचनयोर्लाभः। विधारणं च कुम्भकम्। तथा च प्राणस्य पूरकरेचककुम्भकैर्योनिरोधो वशीकरणं सा धारणेत्यर्थः” सां० प्र० भा०।
निरोधक = त्रि० नितरां रुणद्धि नि + रुध–ण्वुल्। १ निरोधकारके स्त्रियां टप् अत इत्त्वम्। सा च सत्वप्रविष्ट चिच्छक्तेः तमःप्राचुर्य्यात् २ निरोधकारिण्यां स्त्री राधवमट्टः। ध्वनिशब्दे ३९२३ पृ० दृश्यम्।
निरोधन = न० नि + रुध–ल्युट्। कारागारादौ प्रवेशनेन १ गतिरोधने २ विषयसंप्रचाररहितकरणे च।
निर्ग = त्रि० नितरां गच्छत्यत्र “सुदुरोरधिकरणे” वार्त्ति० “अन्यत्रापि दृश्यते इति वक्तव्यम्” निर + गम–अधिकरणे ड। देशे हेमच०।
निर्गत = त्रि० निर् + गम–कर्त्तरि क्त। निष्क्रान्ते गहिर्भूते निःसूते।
निर्गन्ध = त्रि० निर्गतो गन्धोऽस्य। गन्धशून्ये “निर्गन्धा इव किंशुकाः” चाणक्यः।
निर्गन्धन = न० निर् + बन्ध–अर्दने–भावे ल्युट्। नितान्तार्दने मारणे शब्दार्थचि०।
निर्गन्धपुष्पौ = स्त्री निर्गन्धं गन्धशून्यं पुष्पं यस्याः ङीप्। शाल्मलिवृक्ष शब्दच०।
निर्गमन = न० निर् + नम–करणे ल्युट्। १ द्वारे २ प्रतिहारिणि शब्दार्थचि०। भावे ल्युट्। ३ निःसरणे
निर्गुण = पु० निर्गतो गुणेभ्यः। सत्वरजस्तमोरूपगुणत्रयशून्ये निर्धर्मके १ परमान्धनि। “साकारञ्च निराकारं सगुरूं निर्गुणं विभुम्” ब्रह्म० वै० पु०। “गुणभृन्निर्गुणो महान्” विष्णुस०। निर्गताः गुणाः शौर्य्यादयोरूपादयो वा यस्मात् प्रा० व०। २ गुणहीने त्रि० वैशेषिकमते ३ गुणादौ “गुणादिर्निर्गुणक्रियः” भाषा०।
निर्गुण्ठी = स्त्री निर्गता गुण्ठात् गुण्डनात् निरा० त० गौरा० ङीष्। (निसिन्दा) वृक्षे अमरटीकायां मघुसूदनः।
निर्गुण्डी = स्त्री निर्गुडति गुड–रक्षायां क पृषो०। निर्गता गुडात् वेष्टनाद्वा ङीष्। नीलशेकालिकायां (निसिन्दा) वृक्षे अमरः। “श्वेतनीलपुष्पभेदात् निर्गुण्डी द्विविधा मता” २ करहाटे ३ पद्मकन्दे विश्वः। “समूलफलपत्रायाः निर्गुण्ड्याः स्वरसैर्धृतम्। सिन्नं पीत्वा क्षयक्षीणो निर्व्याधिर्भाति देववत्” चक्रद०।
निर्गूढ = त्रि० निर् + गुह–क्त। १ संवृते २ नितान्तगूढे ३ वृक्षकोटरे पु० शब्दरत्रा०।
निर्ग्रन्थ = पु० निर्गतो ग्रन्थेभ्यः निरा० त०। १ क्षपणके दिगम्परे ३ बौद्धभेदे २ द्यूतकरे ३ मुनिभेदे च मेदि०। ४ निर्द्धने ५ भूर्स्ने ६ निःसहाये ७ निर्वेदं गते त्रि० हेमच०। तत्र क्षपणस्य वस्त्रग्रन्धिशून्यत्वात् मुनेर्हृदयग्रन्थशून्यत्वात् च तथात्वम् “आत्मरामाश्च मुनयोनिर्ग्रन्था अप्युरुक्रमे” भाग० १। ७। ४ “शाक्योपाध्यायार्हममिर्ग्रन्थनिमित्तनितमकैवर्त्तैः” वृ० सं० ५१ अ०। स्वार्थे क। निर्ग्रन्थक क्षपणे पु० निष्फले वस्त्ररहिते त्रि० जटाधरः।
निर्ग्रन्थन = न० निर् + ग्रधि–कौटिल्ये ल्युट्। मारणे अमरः
निर्ग्रन्थिक = पु० निर्गतो ग्रन्धिर्वस्त्रग्रन्धिर्यस्य कप् प्रा० ब०। १ अपणके २ निर्गुणे ३ ग्रन्धिहीने च त्रि० शब्दरत्ना० “सोऽपि कथञ्चित् निर्ग्रन्धिकग्रहमोचितात्मा मदनुशिष्टोहृष्टतमः स्वधर्ममेव प्रत्यपद्यत” दशकुमा० ४ जैनसन्न्थसिन्यां स्त्रियां स्त्री “वृक्षवाटिकायां गतो नितम्बवतीं निर्ग्रन्थिकाप्रयत्नेनोपनीतां पादे परामृशन्निव” दशकुमा०।
निर्ग्राह्य = त्रि० निर् + ग्रह–कर्मणि ण्यत्। निश्चयेन ग्रहीतुंशक्ये “अस्थूकमनण्वह्रस्वमद्रेश्यमनिर्ग्राह्यम्” वृ० उप०।
निर्घट = त्रि० निर्गतो घटो यस्मात् प्रा० व०। १ घटशून्यदेशे ३ राजकरशून्यहट्टे शब्दच०। ३ बहुजनसंकीर्णहट्टे हारा०। अभावे अव्ययी०। ४ घटाभावे अव्य०।
निर्घण्ट = निर् + घटि–अच्। १ ग्रन्धानां सूचीपत्रे २ निघण्टौ च शब्दार्थचि०।
निर्घात = पु० निर् + हम–घञ्। पवनाहतपवनस्य गगनाद्- मूमौ पतयजन्ये शब्दभेदे तल्लक्षणादिकं वृ० सं० ३९ अ० उक्तं यथा “पवनः एवनाभिहतो गगनादवनौ यदा समापतति। भवति तदा निर्घातः स च पापो दीप्तविहगरुतः। सर्कोदयेऽधिकरणिकनृपधनियोधाङ्गनावणिग्वेश्याः। आ प्रहरात्सोऽजाविकमुपहन्याच्छूद्रपौरांश्च। आ मध्याह्नाद्राजोपसेविनो ब्राह्मणांश्च पीडयति। वैश्यजलदांस्तृतीये चौरान् प्रहरे चतुर्थे च। अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि। रात्रौ द्वितीययामे पिशाचसङ्गान्निपीडयति। तुरनकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च। भैरवजर्जरशब्दो याति यतस्तां दिशं हन्ति”। “निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्जने। एतानाकालिकान् विद्यादनध्यायानृतावपि” मनुः। “निर्घातोग्रैः कुञ्जलीनान् जिघांसुः” रघुः। “उल्कापाते च निर्घात तथैवाकालवर्षणे। छिद्रे सूर्ये विनिर्दिष्टे न कुर्य्यान् मङ्गलक्रियामृ” ज्योतिषतत्त्वे गर्गः।
निर्घातन = न० निर् + हन–स्वार्ये णिच्–भावे ल्युट्। मुश्रुतोक्ते यन्त्रनिष्याद्ये क्रियाभेदे यन्त्रकर्माणि तु निर्घातनपूरणबन्धनेत्यादिना उद्दिश्य निर्घातनञ्च कथं कार्य्यं तत्राह “उत्तुण्डितं छित्त्वा निर्घातयेत् छेदनीयसुखम्। छेदनोयमुक्षान्थपि कुक्षिवक्षःकणावङ्क्षणपर्शुकान्तर पतितानि च हस्तशक्यं यथामार्गं हस्तेनैवापहर्त्तुं प्रयतेत। अनुत्तुण्डितशल्यानि छेदनीयमुखानि च। अनिर्थात्यानि जानीयात् भूबश्छेदामुबन्धतः”।
निर्घृण = त्रि० निर्गता घृणा दया यस्मात्। निर्दये “याजीवाम्यतिनिर्घृणः” मार्कण्डेयपु०।
निर्घोष = पु० निर् + थुष–घञ्। शब्दमात्रे अमरः “ज्यानिर्घोषैः क्षोभयामास सिंहान्”। “स्निग्धगम्भीरनिर्घोषम्” इति च रघुः।
निर्जन = त्रि० निर्गतो जनो यस्मात् प्रा० व०। जनैरनाकीर्णे विजने।
निर्जरं = पु० निर्गता जरा यस्मात्। १ देवे २ जराशून्ये त्रि०। ५ ब०। ३ अमृते न०। जराशब्दस्य गौणत्वेऽपि अजादौ प्रत्यये परे वा जरसादेशः निर्जरसौ निर्जरौ। आर्हतमतसिद्धे जीवाजीवादिषु सप्तसु पदार्षेषु ४ पदार्थभेदे आर्हतशब्दे ३९५ पृ० दृश्यम्। ५ गुडूच्यां ६ तालपर्ण्यां च स्त्री मेदि०।
निर्जरसर्षप = पु० निर्जरप्रियः सर्षपः शा० त०। देवसर्षपे राजनि०।
निर्जरायु = पु० निर्मतो जरायुतः निरा० त०। जरानुतो निर्गते नृगवादौ। निर्गतो जरायुर्यस्य। ३ जरायुहाने त्रि०। “अभूः पारे पृदाक्कस्त्रिषप्तानिर्जरायवः। तासां जरायुभिर्वयमक्ष्यावपि” अथ० १। २७। १
निर्जर्जल्प = पु० नितरां जर्जरः पृषो०। अत्यन्तजर्जरीभूते “निरृतिं निर्जर्जल्पेन शीर्ष्णा (प्रीणामि) यजु० २५। २ “नितरां जर्जरीभूतेन शिरोभागेन” वेददी०।
निर्जल = त्रि० निर्गतं जलं यस्मात् प्रा० ब०। जलशून्ये देशे “कोषञ्च जनयेद्राजा निर्जलेभ्यो यथा जलम्” भा० शा० १३० अ०।
निर्जलैकादशी = स्त्री कर्म०। ज्यैष्ठस्य शुक्लैकादश्याम् यथाहपाद्मे भीमसेनं प्रति व्यासः। “वृषस्थे मिथुगस्थेऽर्के शुक्ला ह्येकादशी हि या। ज्यैष्ठे मासि प्रयत्नेन सोपास्या जलवर्जिता। स्नाने चाचमने चैव वर्जयित्वो दकं बुधः। उपयुञ्जीत नैवान्यद् व्रतभङ्गोऽन्यथा भवेत्। उदयादुदयं यावद् वर्जयित्वा जलं बुधः। अप्रयत्नादवाप्नोति द्वादशद्वादशी फलमिति”।
निर्जित = त्रि० निर् + जि–क्त। १ पराजिते २ वशीकृते “निर्जितैरावता गजाः” कुमा०। निर्जितेन्द्रियग्रामः अमरः।
निर्जिह्व = त्रि० निर्गता मुखान्निःसृता जिह्वा यस्य। १ मुखाद्वहिर्गतरमने। “निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतामुभिः। हयैर्वभौ नरश्रेष्ठ!” भा० भी० ९० अ०। २ जिह्वाशून्ये भेके च अजिह्वशब्दे ९२ पृ० दृश्यम्।
निर्जीव = त्रि० निर्गतो जीवो यस्मात् प्रा० व०। जीवाजरहिते देहे “वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोचितोक्षितैः” मा० द्रो० ४९ अ०। निर्जीवतुल्यैरित्यर्थः। “चिता दहति निर्जीवं चिन्ता दहति जीवितम्” प्राचीनमाथा।
निर्झर = पु० निर् + भृ–अप्। १ पर्वतान्निःसूतजलप्रवाहे (झरणा) अमरः। २ सूर्याश्वे ३ तुमानले च मेदि० “भागीरथीनिर्झरशीकराणाम्” कुमा०। “पृक्तस्तुषारैर्गिरिनिर्झराणाम्” रघुः। स कारणत्वेनास्त्यस्या अच् गौरा० ङीष्। ४ नद्याम् स्त्री शब्दर०। “जढाकटाहसम्भ्रमम्रमन्निलिम्पनिर्झरी” इत्यादि रावणकृतशिवस्तवः।
निर्झरिणी = स्त्री निर्झरः पर्वतान्निःसृतजलप्रवाहः कारणत्वेनाख्यस्या इनि ङीप्। नद्याम् त्रिका०। “स्स्वलनमुखरभूरिस्वोतसो निर्झरिण्यः” महावीरचरितम्।
निर्णय = पु० निर् + नी–भावे अच्। १ निश्चये तदमावाग्राहिणि तद्ग्राहिणि ज्ञाने। सन्देहे यथा भावाभावौ द्वावेव विषयतया भासेते नैवं निश्चये किन्तु तत्र एकविध एवावभासते। निश्चयत्वं च न जातिः प्रत्यक्षत्वादिना लाङ्कुर्व्यात् किन्तु विषरिताविशेष इत्याकरे स्थितम्। २ विरोधप रहारे मीमांसोक्ते पञ्चावयवन्यायमध्ये ३ चरमावयवे न्यायोक्ते सन्दिह्य पक्षप्रतिपक्षयोः ४ साधनबाधनाभ्यामर्थावधारणे स च गौतमोक्तेषु षोडशसु पदार्थेषु पदार्थभेदः तल्लक्षणादिकं गौ० सू० मा० उक्तं यथा “विमृश्य पक्षप्रतिपक्षाभ्याषर्थावधारणं निर्णयः” सू० “स्थापना साधनं, प्रतिषेध उपालम्भः, तौ साधनोपालम्भौ पक्षपतिपक्षाश्रितौ व्यतिषक्तावनुबन्धेन प्रवर्त्तमानौ षक्षपतिपक्षावित्युच्यते, तयोरन्थतरस्य निवृत्तिरेकतरस्यावस्थानम् अवश्यम्भावि, यस्यावस्थानं तस्यावधारणं निर्णयः। नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीति एको हि प्रतिज्ञातमर्थं हेतुतः स्थापयति प्रतिषिद्धं चोद्धरतीति द्वितीयेन स्थापनाहेतुः प्रतिषिध्यते तस्यैव प्रतिषेघहेतुवोद्ध्रियते स निवर्त्तते तस्य निवृत्तौ योऽवतिष्ठते तेनार्थवधारणं निर्णय इति उभाभ्यामेवार्थावधारणनित्याह। यथा युक्त्या एकस्य सम्भवो द्वितीयस्वासम्भवः तावेतौ सम्भवासम्भवौ विमर्शं सह निवर्त्तयतः, उभयसम्भवे उभयासम्भवे त्वनिवृत्तो विमर्श इति। विमृश्येति विमर्शं कृत्वा, सोऽयं विमर्शः पक्षप्रतिपक्षाभावद्योत्यं न्थायं प्रवर्त्तयतीत्युपादीयते इति। एतच्च विरुद्धयोरेकधर्मिस्थयोर्नोदव्यं यत्र तु धर्मिसामान्यमतौ विरुद्धौ धर्मौ हेतुतः सम्भवतः तत्र समुच्चयहेतुतोऽर्थस्य तत्त्वामावोपपत्तेः, यथा क्रियावद्द्रव्यमिति सक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति तत् क्रियावत् यस्य न सपावति तदतियमिति, एकधर्मिस्थयोश्च विरुद्धयोर्युगपङ्गाविनोः कालविकल्पः यथा तदेव द्रव्यं क्रियायुक्तं क्रियावत् अनुत्पन्नोपरतक्रियं पुनरक्रियमिति। न चायं निर्णये नियमो विमृश्यैव पक्षप्रतिपक्षाभ्यामर्थावधराणं निर्णय इति किन्त्विन्द्रयार्थसन्निकर्षोत्पन्नप्रत्यक्षेऽर्थावधारणं निर्णय इति। परीक्षाविषये तु विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः शास्त्रे वादे च विमर्शवर्जम्”। मीमांसकोक्तस्याधिकरणस्यावयवाश्च “विषयोऽविषयश्चैव पूर्वपक्षस्तथोत्तरम्। निर्णय श्चेति सिद्धान्तः शास्त्रेऽधिकरखणं स्मृतम्” इत्युक्ताः। “तत्र निर्णयः सिद्धान्तसिद्धविचार्य्यवाक्यतात्पर्य्यावधारणम्” तत्त्वकौ०।
निर्णयपाद = पु० चतुष्पाद्व्यवहारस्य निर्णयात्मके सिद्धि पादापरपर्थाये अंशभेदे “भाषोत्तरक्रियासाध्यसिद्धिभिः व्रमवृत्तिभिः। आक्षिप्तचतुरशस्तु चतुष्पादमिधीयते” मिता० घृतवचनम्। स च वीरमि० विस्तरतो दर्शितो यथा
“अथ निणयापरपर्य्यायः सिद्धिपादः। येषां प्रत्याकलित व्यवहारपाद इत्यभिसतं तेषां सिद्धेः फलत्वाद्व्यवहारपृथग्भावोऽन्येषां प्रत्याकलितस्य चत्त्वमेव तु सर्वमते ध्यवहारस्य। याज्ञवल्क्यः “तत्सिद्धौ सिद्धिमाप्नोति विपरीतमथोऽन्यथा” इति। तस्य प्रमाणस्य सिद्धौ नि शङ्कप्रामाण्यव्यवस्थितौ सत्यां प्रमाणोपन्यासवर्त्ता सिद्धिं जया क्षणामाप्नोति। अन्थथा प्रामाण्यासिद्धौ विपरीतमसिद्धिं पराजयलक्षणमाप्नोति। नारदः सारस्तु ध्यवहाराणां प्रतिज्ञा समुदाहृता। तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत्”। तरन्निर्वाहयन्। उत्तरः उत्कृष्टो विजर्यीति यावत्। निर्णयप्रकारानाह व्यासः “प्रमाणैर्हेतुचरितैः शपथेन नृपाज्ञया। वादि सम्प्रतिपत्त्या वा निर्णयोऽष्टविधः स्मृतः। विवृतवानेतत् स एव “लिणितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्। अनुमानं विदुर्हेतुस्तर्कश्चेति मनीषिणः। देशस्थितिः पूर्वकृताञ्चरितं समुदाहृतम्। अर्थानुरूपाः शपथाः स्मृताः सत्यघटादयः। तेषामभावे राजाज्ञां निर्णयन्तु निदुर्बुधाः”। इति प्रमाणत्रयं सतर्कोपष्टब्धमनुमानं चरितादिचतुष्टयमित्यष्टविधहेतुकत्वान्निर्णयस्याप्यष्टविधत्वं यद्यपि भुक्तिरप्यनुमानमेव। तथापि प्रत्याकलितकालीनं सम्यानामनुमानमिहानुमानपदेन विवक्षितम्। “धर्मेण व्यवहारेण चरित्रेण मृपाज्ञया। चतुःप्रकारोऽभिहितः सन्दिग्धेऽर्थे विनिर्णयः” इति वृहस्मत्युक्तानां धर्मादीनां निर्णयहेतुत्वं प्रागेव “तत्र सत्ये स्थितो धर्म” इत्यादिना तेनैव विवृतं प्रागेव निरू पितम्। स एव “एकैको द्विविधः प्रोक्तः क्रियाभेदाम्भनीषिभिः”। क्रियाभेदात् धर्मनिर्णयस्य द्वैधमाह। स एव “सम्यग्विचार्य्य कार्य्यन्तु युक्त्या संपरिकल्पितम्। परीक्षितन्तु शपथैः स ज्ञेयो धर्मनिर्णयः। प्रतिवादी प्रपद्येत यत्र धर्मः स निर्णयः। दिव्यैर्विशोधितः सम्यक् द्वितीयः स उदाहृतः”। प्रतिवादी प्रपद्येतेत्यस्य काकाक्षिवदुभयत्र सम्बन्धः। यत्र प्रतिवादी युक्त्या सम्यग्विचार्य सम्परिकल्पितं निर्धारितं पुनः शपथैः पुत्रशिरः- स्पर्शादिभिः परौक्षितं कार्यं प्रपद्येताङ्गीकर्थ्यात् स आद्यो धर्मनिर्णयः दिव्यैर्षटादिभिर्बिशोधितः प्रतिवादी यत्र कार्यं प्रपद्येग स द्वितीयो धर्माख्यो निर्णयः इत्यर्थः। व्यवहारनिर्णयस्यापि द्वैविध्यमाह स एव “प्रमाणैर्निश्चयो यस्तु व्यवहारः स उच्यते। वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्त्तितः” प्रमाणपदेनात्र साक्षिणो लिस्यितञ्च व्यक्त्यभिप्रायेण च बहुवचसम्। भुक्तेरनुमानत्थाद्दिव्यस्य धर्मनिर्णयान्तर्भावात्। वाक्छलानुंत्तरत्वेन वाक्छलेनानुत्तरत्वेन च यो निश्चयो द्वितीयो व्यवहारः स इत्यर्थः। चरित्रनिर्णयस्यापि भेदद्वयन्तेनैवाभिहितम् “अनुमानेन निर्णीतं चरित्रमिति कीर्त्तितम्। देशस्थित्या द्वितीयन्तु शास्त्रविद्भिरुदाहृतम्” अनुमानेन भुक्तिस्वरूपेण यो निर्णयस्तदेकं चरित्रम्। देशस्थित्या यो निर्णयस्तद्द्वितीयं चरित्रमित्यर्थः। राजाज्ञानिर्णयस्यापि द्विभेदताभिहिता तेनैव “प्रमाणसहिताद्यस्तु राजाज्ञा निर्णयः स्मृतः। शास्त्रसभ्यविरोधे च तथान्यः परिकीर्त्तितः” प्रमाणसहिता राजाज्ञा आद्यो निर्णय इत्यन्वयः। शास्त्राणां सभ्यानाञ्च विरोधे परस्परं विप्रतिपत्तौ या राजाज्ञा स द्वितीयो राजाज्ञानुरूपो निर्णय इत्यर्थः। ननु शास्त्राणां सभ्यानाञ्च विरोध एवासम्भवी स्मृत्यपेतानामधिकारिणां सभ्यानां दण्ड्यत्वात्। न च शास्त्राणां परस्वर विरोधे सभ्यानाञ्चेत्यर्थ इति वाच्यम् सम्यविरोधोपभ्यासानर्थक्यात्। शास्त्रविरोधे न्यायोपष्टब्धशास्त्रानुसारेण निर्णयः कार्य इत्यस्यार्थस्य “स्मृत्योर्विरोधे न्यायस्तु वसवान् व्यवहारतः। धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिःस्मृतः। केबलं शास्त्रमाश्रित्य न कर्त्तव्यो हि निर्णयः। युक्तिहीनविचारे हि धर्महानिः प्रजायते” “न्यायाधिगमे तर्कोऽभ्युपायस्तेनाभ्यूह्य यथास्थानं गमयेदित्यादि” योगीश्वरनारदवृहस्पतिनीतमोदिवचोभिर्निर्धारितत्वात्। तदृशि विषये राजाज्ञानवसरात् अनीदृशराजाज्ञाया निषिद्धत्वाच्चेति चेत् उच्यते यत्र शास्त्रविरोधे बलवान्न्यायोऽन्यतरार्थविनिर्णायकः सलभ्यप्राड्विवाकस्य सभापतेर्न हृदयमारोहति चिरतरं मीमांसितोऽपि तादृशशास्त्रविरोधे तन्मूलक वा समाधेये सभ्यविरोधे राजकृतव्यवस्था वादिप्रतिवादिभ्यां जन्तव्येत्येतदर्थकमिदं वचनम्। अतएव पिताबहः “वचनं प्राग्लिखितन्निश्चेतुं येन शक्याः स्युः” इत्यादि धर्मादोनां चतुर्णां पूर्वयोत्तरोत्तरापेक्षया दुर्बलत्वमाह नारदः “धर्मश्च व्याहारश्च चरितं राजशासनम्। चतुष्पाद्व्यवहारोऽयमुनरः पूर्ववाधकः” इति। व्यवहारस्य धर्मबाधकतामाह वृहस्पतिः “शास्त्रं केवलमाश्रित्य क्रियते यत्र तिर्णयः। व्यवहारः स विज्ञेयो धर्मस्तेनावहीयत”। शास्त्रशब्देन शास्त्रीकं साक्ष्यादिप्रमाणं तेन यो निर्णयः क्रियते स व्यवहारः। तेन धर्मः शपथादिकतो निर्णयोऽवहीयते बाध्यते मानुषप्रमाणे सति दिव्यानवसरात्। अतएवाह कात्यायनः “युक्तियुक्तन्तु कार्यं स्याद्विव्यं यत्र विवर्जितम्। धर्मस्तु व्यवहारेण बाध्यते तत्र नान्यथा” चरित्रस्य व्यवहारबाधकतामाह वृहस्पतिः “देशस्थित्यानुमानेन नैगमानुमतेन वा। क्रियते निर्णयस्तत्र व्यवहारस्तु वाध्यते”। नैगमाः वौरबणिजः। नैगमानुमतेनानुमानेनेति सम्बन्धः सामानाधिकरण्येन शब्दाद्देशस्थित्यपेक्षः। अमुमेवार्थं स्फुटयति कात्यायनः “प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु। विरुद्धन्नियनं प्राहुस्तं धर्मं न विचालयेत्। निर्णयन्तु यदा कुर्य्यात्तेन धर्मेण पार्थिवः। व्यरहारश्चरित्रेण तदा तेनैव वाध्यते” इति। स्मृतिविरुद्धमपि नियतत्वान्न विचालवेद्राजा। राजशासनस्य चरित्रबाधकतामाह वृहस्पतिः “विहाय चरिताचारं यत्र कुर्य्यात् पुनर्नृपः। निर्णयं सा तु राजाज्ञा चरित्रं वाध्यते तया” इति चरिताचारं पूर्वपूर्वाचरितमाचारम्। यद्यपि तं धर्मं न विचालयेदित्युक्तभत्र तु विहाय चरिताचार नित्युच्यते तेन विरोधः प्रतिभाति। तथापि यदि तद्विचालने पुरराष्ट्रादिक्षोभो न भवति तदा स्मृत्यादिविरुद्वत्वात्तं दूरीकृत्य स्मृत्याद्यविराधो राजाज्ञया निर्णयः कार्य इति तात्पर्यम्। अतएव पुरराष्ट्रस्य विरुद्धस्य विवादस्यानादेयत्वमुक्तम् पुरराष्ट्रक्षोमापादकतया तदनापादकतया तु स्मृत्याद्यनुरोध एव कार्य्यो राज्ञेति। अतएवाह कात्यायनः “विरुद्धं न्यायतो यत्तु चरित्रं कल्प्यते बुधैः। एवन्तत्र निरस्येत चरित्रन्तु नृपाज्ञया” इति नृपैर्यन्न्यायविरुद्धं चरित्रं न तद्ग्राह्यमिति कल्प्यते। तत्र नृपाज्ञया तच्चरित्रं निरस्यते बाध्यत इत्यर्थः। यथोक्तप्रकारातिरिक्तप्रकारेणैषां बाध्यवाधकताकल्पने दोषमाह कात्यायनः “अनेन विधिना युक्तं बाधकं यद्यदुत्तरम्। अत्यथा बाधनं यत्र तत्र धर्मो विहन्यते”।
निर्ण्णाम = पु० नितरां नामो नमनम् प्रा० स० णत्वम्। नितरां नमते “अथ निर्णामौ पक्षयोः करोति। निर्णामौ हि वयसः पक्षयोर्भवतो विवृतीये, वितृतीये हि वयसः पक्षयोर्निर्णामौ भवतोऽन्तरे वितृतीयेऽन्तरे वयसः पक्षयोर्निर्णामौ भवतः स चतुरङ्गुलमेव पुरस्तादुदूहति चतुरङ्गुलं पश्चादुपसमूहति तद्यावदेवोदूहति तावदुपसमूहति तन्नाहैवातिरेचयति नो कनीयः करोति। स तस्मिन्निर्णामे एकामिष्टकामुपदधाति तर्ह्येवं वयसः पततो निर्णामादेका नाड्युपशेते तां तत्करोति” शत० ब्रा० १०। १। २। ५।
निर्ण्णायन = न० निर् + नी–णिच्–ल्युट्। १ निर्णयकरणे २ गजापाङ्गदेशे निर्याण शब्दरत्ना०।
निर्णिक्त = त्रि० निर् + निज–क्त। १ शोधिते २ अपगतपापे च। “एनस्विभिरनिर्णिक्तैर्न्नार्थं किञ्चित् सहाचरेत्” मनुः।
निर्णिज् = पु० निर + निज–शौचपोषणयोः क्विप्। १ रूपे निघण्टुः “बिभ्रद्द्रापिं हिरण्ययं वरुणोवस्त निर्णिजम्” ऋ० १। २५। १३। २ शोधके त्रि०। क। निर्णिज तत्रार्थे त्रि०
निर्णेक = पु० निर् + निज–घञ्। नितरां शुद्धौ “दानेन बधनिर्णेकं सर्पादीनामशक्नुवन्”। “अपामग्नेश्च संयोगात् हेम रूप्यञ्च संबभौ। तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तयः” मनुः।
निर्णेजक = पु० निर् + निज–ण्वुल्। रजके (धोपा) अमरः। “श्ववतां शौण्डिकानाञ्च चेलनिर्णेजकस्य च”। “कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च” मनुः।
निर्णेजन = न० निर् + निज–भावे ल्युट्। १ शुद्धौ करणे ल्युट्। २ शोधहेतौ प्रायश्चिचे “कृतनिर्णेजनांश्चैव न विगर्हेत कर्हचित्” मनुः।
निर्णेतृ = त्रि० नि + णी–तृच्। निश्चयकर्त्तरि विवादपदनिर्णायके च।
निर्द(र्दि)ग्धिका = स्त्री निर् + दह–दिह–वा क्तसंज्ञायां कन् कापि अत इत्त्वम्। निदिग्धिकायाम् हेमच०।
निर्दट = त्रि० निर्दय(र) + पृषो०। १ दयाहीने २ परापवादके ३ निष्प्रयोजने च मेदि०। ४ मन्त्रे ५ तीव्रे च शब्दरत्रा०।
निर्दण्ड = त्रि० निःशेषेण दण्डो यस्य प्रा० ब०। सर्वप्रकारद ण्डार्हे १ शूद्रे “वाचा दण्डो ब्राह्मणानां क्षत्रियाणा भुजार्पणम्। दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते” भा० शा० १५ अ०। २ दण्डनार्हे च
निर्दर = पु० निर् + दॄ–कर्मणि अप्। १ निर्झरे २ निर्भरे च “गिरिनिर्दरवासिनाम्” रामा० अयो० २८ स०। निर्गतोदरो यस्मात् प्रा० व० ३ निर्भये त्रि० ४ सारे न० ५ कठिने ६ अपत्रपे च त्रि० मेदि०।
निर्दश = त्रि० निर्गतानि दश दिनानि यस्य डसमा०। अतिक्रान्तदशाहे “निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च” मनुः “यथा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति” ऐत० ब्रा० ७१४
निर्दहस् = अव्य० निर् + दह–तुमर्थे “ईश्वरे तोसुन्कसुनौ” पा० कसुन्। निर्दग्धुमित्यर्थे “अपशव्येव तु वा ईश्वरा पशून्निर्दहः” ता० ब्रा० २७३
निर्दहन = पु० नितरां दहति निर् + दह–ल्यु। १ भल्लातके शब्दर०। २ मूर्वालतायां स्त्री राजनि०। निर्गतोदहनो वह्निः दहनं वा यस्मात् प्रा० ब०। ३ वह्निशून्ये ४ दाहशून्ये च त्रि०।
निर्दातृ = त्रि० निर् + दो–खण्डने दा–दाने दै–शोधने तृच्। नितरां १ छेत्तरि २ दातरि ३ शोधके च “यथोद्धरति निर्दाता कक्षं घान्यञ्च रक्षति” मनुः।
निर्दिग्ध = त्रि० निर् + दिह–क्त। १ बलवति मांसले हेमच०। २ निर्लिप्ते च।
निर्दिष्ट = त्रि० निर् + दिश–क्त। १ उपदिष्टे २ प्रदर्शिते २ कथिते च “निर्दिष्टविषयं किञ्चित् उपात्तरिषयं तथा” हरि०
निर्देश = पु० निर् + दिश–भावे घञ्। १ शासने आज्ञायां २ कथने ३ उपदेशे च। निर्दिश्यतेऽभिधीयतेऽनेन करणे घञ्। ४ प्रतिपादकशब्दभेदे नाम्नि “ओ~ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः” गीता। ५ वेतने च “कालमेव प्रतीक्षेत निर्द्देशं भृतको यथा” इति पुराणम्। निर्गत्रो देशात् निरा० त०। २ देशान्निर्गते त्रि० ६ उपान्ते च मेदि०।
निर्दोष = त्रि० निर्गतो दोषी यस्मात् प्रा० ब०। दोषरहिते “निर्दोषे पितरि स्थिते” दायभा० “निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति”। मता० धृतवचनम्।
निर्द्वन्द्व = त्रि० निर्गतो द्वन्द्वात् निरा० त०। शीतोष्णादिद्वन्द्वरहिते “निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान्” गीता
निर्द्धन = त्रि० निर्गतं धनमस्य। १ धनशून्य दरिद्रे “शशिनस्तुल्यवंशोऽपि निर्द्धनः परिभूयते” चाणक्यः। २ जरद्गवे पु० शब्दच०।
निर्द्धर्म = त्रि० निर्गतो धर्मात् निरा० त०। धर्मबहिर्भूते “निर्द्धर्म्मार्थ कर्म कुर्य्युश्च पार्थाः” भा० उ० २४ अ०।
निर्द्धार = पु० निर् + धृ–णिच्–भाव घञ्। निश्चये ज्ञानभेदे।
निर्द्धारण = न० निर् + धृ–णिच्–ल्युट्। १ निश्चये जातिगुणक्रि- याभिः समुदायादेकदेशस्य २ पृथक्करणे “यतश्च निर्द्धारचम्” पा० तदर्थे षष्ठी सप्तमी च भवति। तत्स्वरूपान्वयादिकं शब्दश० प्र० उक्तं यथा
“विशेषस्य स्वेतरसामान्यव्यावृत्तधर्मवत्त्वं निर्धारणं तच्च समुदितं न षष्ठ्यर्थः सामान्यतन्निष्ठधर्मयोः स्वपदोपात्तत्वात्। किन्तु विशेषान्यत्वं व्यावृत्तं च। विशेषस्तत्समभिव्याहृतक्षत्रियादिर्विशेष्य ग्राह्यः। व्यावृत्तत्वञ्च भेदप्रतियोगित्वं तथा च नराणां क्षत्रियः शूरतम इत्यत्र क्षत्रियस्य नरविशेषतया षष्ठ्यर्थेन क्षत्रियान्यत्वेन विशिष्टस्य तत्प्रकृत्यर्थस्य नरस्य तादृशनरत्वावच्छिन्नाधेयत्वसंसर्गेण भेदेऽन्वयलब्धस्य क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकभेदप्रतियोगित्वस्य शूरतमे शूरतमस्य च क्षत्रिये तादात्म्येनान्वय इति क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकभेदप्रतियोगित्ववच्छूरतमाभिन्नः क्षत्रिय इत्याकारकस्तत्र बोधः। क्षत्रियान्यनरस्याघेयतामात्रेण भेदेऽन्वये नराणां क्षत्रियः सुन्दर इत्यपि प्रयोगापत्तेः क्षत्रियान्यकुरूपनरनिष्ठभेदप्रतियोगित्वस्य सुन्दरे सत्त्वात्। एवञ्च नरत्वातच्छिन्नवृत्तिकभेदप्रतियोगित्वस्य शूरतमे बाधादुक्तवाक्यस्यायोग्यतापत्तिरतः षष्ठ्यर्थेन क्षत्रियान्यत्वेन तत्प्रकृत्यर्थो नरो विशेषितः। नच घटानां क्षत्रियः शूर इत्यपि स्यात् क्षत्रियान्यघटत्वावच्छेदेन शूरभेदस्य सत्त्वादिति वाच्यं राहोः शिर इत्यादाविव प्रकृते क्षत्रियान्वयिनः स्वप्रकृत्यर्थतादात्म्यस्य षष्ठ्या बोध्यत्वात्। न च सङ्ख्यान्यसुवर्थस्य प्रकृत्यर्थविशेष्यत्वनियमात् क्षत्रियान्यत्वरूपस्य षष्ठ्यर्थस्य प्रकृत्यर्थनरे प्रकारत्वायोग इति वाच्यं सम्बोध्यत्वादौ व्यभिचारेण तादृशव्याप्तेः प्रायिकत्वस्य प्रागुक्तत्वात्। न च नराणां क्षत्रियो द्रव्यमित्यपि स्यात् क्षत्रियान्यनरत्वावच्छेदेन द्वित्वाद्यवच्छिन्नद्रव्यप्रतियोगिताकभेदसत्त्वादिति वाच्यं द्रव्यत्वादिविशिष्टे धर्मिणि द्रव्यत्वाद्यवच्छिन्नस्यैव भेदप्रतियोगित्वस्य बोधने निर्द्धारण षष्ठ्याः तमर्थत्वात्। यद्यपि भेदः प्रतियोगित्वञ्च द्वयमेव निर्द्धारणषष्ठ्यथः चत्रियशब्देनैवोपस्थापितस्य क्षत्रियस्य षष्ठ्यर्थभेदे तस्य च नरे नरस्य च पुनर्भेदे पुनर्भेदस्य प्रतियोगित्वेऽन्वयादेव क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकभेदप्रतियोनित्वस्य शूरतमऽन्वयसम्भवः। तथापि क्षत्रियादिनामोपस्थाप्यस्य क्षत्रियादेस्तादृशनामोत्तरविभक्त्यर्थ एव भेदान्वयस्य व्युत्पन्नत्वात् नरपदोत्तरषष्ठ्यर्थे तदन्वयासम्भवात् क्षत्रियान्यत्वं विशिष्टमेव षष्ठ्यर्थो नत्व- न्यतामात्रम् न च नरस्य क्षत्रियः शूर इत्यपि स्यात् पाणिपादस्य पाणिः पवित्र इत्यत्रेवान्यत्रापि एकवचनस्य निर्द्धारणार्थकत्वे क्षत्यभावात्। अतएव द्वन्द्वः सामासिकस्य चेति गीतापि सङ्गच्छते। एकवचनभिन्नयोरेव षष्ठीसप्तम्योरुक्तनिर्द्धारणबोधकत्वव्युत्पत्तिस्वीकाराद्वा। ननु पाथः पृथिव्योजल स्नेहवदित्यादौ जलभिन्नयोः पाथःपृथि व्योरप्रसिद्ध्या पाथःपृथिव्युभयवृत्तिभेदप्रतियोगित्वस्य स्नेहवति बाधेन च जलान्यपाथःपृथिव्युभयत्वावच्छिन्नवृत्तिकभेदप्रतियोगिनः स्नेहवतो वोधासम्भवः। न च द्विपदद्वन्द्वोत्तरनिर्द्धारणषष्ठ्या अन्यतरवृत्तिभेदप्रयोगित्वमेवार्थः तन्निविष्टे चान्यतरस्मिन्नेकपदोपात्तत्वेन जलान्यत्वादेः षष्ठार्थान्तरस्यान्वयः तथाच जलान्यो यः पाथ पृथिव्योरन्यतरस्तन्निष्ठस्य भेदस्य प्रतियोगित्वं स्नेहवति वर्त्तत एवेति वाच्यं तावतापि पाथःपृथिव्युभयतादात्म्यस्य जले बाधादुक्तवाक्यस्यायोम्यतातादवस्थ्यात् पाथःपृथिव्योस्तेज उष्णमित्याद्यप्रयोगेन निर्द्धारणषष्ठ्यास्तादात्म्यवाचिताध्रौव्यात् घटतद्भिन्नयोर्घटः कम्बुग्रीवादिमानित्यादौ घटतद्भिन्नान्यतरत्वाप्रसिद्ध्या तादृशान्यतरवृत्तिभेदस्य बोधयितुमशक्यत्वाच्चेति चेन्न द्वन्द्वोत्तर निर्द्धारणषष्ठ्याः पर्य्याप्तसंख्यायामपि शक्तत्वेन तस्मि न्नेवैकपदोपात्तत्वेन षष्ठ्यर्थस्य जलाद्यन्यत्वरूपनिर्द्धार्य्यभेदस्यान्वयेन सर्वसामञ्जस्यात्। पाथःपृथिव्योर्जलं स्नेहवदित्यादौ जलभिन्नो यः पाथःपृथिवीपर्य्याप्तसंख्याश्रयस्तत्त्वावच्छिन्नवृत्तिकभेदप्रतियोगिसस्नेहाभिन्नं पाथः पृथिवीपर्य्याप्तसख्याश्रयो जलमित्यन्वये वाधकभावात्। पटघटमठानां घटः कम्बुग्रीवादिमानित्यादावप्युक्तरीत्यै बान्वयधीः। इदन्तु बोध्यं यत्रोद्देश्यविधेययोस्तादात्म्येनान्वयबोधसामग्री तत्रैव निर्द्धारणषष्ठ्या भेदपतियोगित्वमर्थः यत्र तु सम्बन्धान्तरेण, तत्रात्यन्ताभावप्रतियोगित्वमतो नराणां क्षत्रिये शौर्य्यमित्यादौ क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकस्यात्यन्त्यभावस्यैव प्रतियोगित्वं शौर्य्यादौ प्रतीयते न तु तादृशभेदस्य नराणां क्षत्रिये रूपमित्यपि प्रयोगापत्तेः। नरणां मध्ये क्षत्रियः शूर इत्यादौ तु निर्द्धारणवाचिनो मध्ये इत्यव्ययस्य तदर्थकषष्ठ्या सह सम्भेदे देहे चैत्र इत्यादाविव नान्यतरवैयर्थ्यम्। नरेषु क्षत्रियः शूर इत्यादौ निर्द्धारणसप्तमीस्थलेऽप्युक्तदिशैवान्वयो द्रष्टव्यः। यत्तु नराणां क्षत्रिय, शूरतम इत्याद्रौ राहोः शिर इत्यत्रेवाभेदएव षष्ठ्यर्थस्तादात्म्यं वा तथा च नराभिन्नक्षत्रियत्वाच्छेदेन शूरतमम्याभेदस्तत्र वाक्यार्थस्तेन नराणां क्षत्रियोऽर्जुन इत्यादिकोन प्रयोमः नरभिन्नक्षत्रियत्वावच्छेदेनार्ज्जुनाभेदस्यासत्त्वात् न वा नराणां वानरः पशुरित्यादिकः” कीशे पश्वभेदसत्त्वेऽपि मानुषाभेदस्य विरहादिति तत्तुच्छं नराणां क्षत्रियः प्राणी क्षत्रियाणां नरः शूरैत्यादिबाक्यस्य दुर्वारतापत्तेः। केचित्तु नराणां क्षत्रियः शूर इत्यादौ क्षत्रियान्यो नरः शूरभिन्नो नराभिन्नः क्षत्रियश्च शूरैत्येवमन्वयितावच्छेदकधर्मावच्छेदेन धियमुरीकुर्वन् भेदमभेदञ्च निर्द्धारणवाचिषष्ठीसप्तम्योरर्थमाहुस्तच्चिन्त्यं नामार्थमुख्यविशेषकान्वयबोधे नाम्नः प्रथमान्तत्वापेक्षायाः परित्यागापत्तेः स्वप्रकृत्यर्थाबच्छिन्नस्यैव संख्यान्यसुबर्थस्य शब्दान्तरार्थेन सहान्वयस्य व्युत्पन्नत्वेन षष्ठ्यर्थे केवलभेदे शूरादेर न्वयायोगाच्चेत्यास्तां विस्तरः”। “पञ्चमी विभक्ते” पा० यत्र निर्द्धार्य्यमाणस्य भेदएव प्रतीयते तत्र पञ्चमी स्यात् सिकौ० पञ्चम्यास्तु भेदएवाथः यथा माथुरा पाटलिपुत्रेभ्य आढ्यतर इति “यतश्च निर्द्धारणमित्यनुवर्त्तते विभागोऽत्र भेदः तत्र निर्द्धारणे सर्वत्र यथा कथञ्चित् भेदस्य सत्त्वेऽपि विभक्तग्रहणसामर्थ्यात् यत्र भेद एव न तु केनाप्युपाध्यादिरूपेणाभेदस्तत्रैवास्याः प्रवृत्तिरित्याह भेदएवेति न तु शब्दान्तरोपात्ते सामान्याक्रान्ततेति भावः। अत्र पञ्चम्यर्थो निर्द्धारणविषयरूपएव तत्र च अवधिमत्त्वसम्बन्धन पाटलिपुत्रस्यान्वयः तेन पाटलिपुत्रावधिकनिर्द्धारणविषया माथुरा आढ्यतरा इति बोधः। न ह्यत्र निर्द्धा णाबधेर्निर्द्धार्य्यमाणस्य च गोषु कृष्णेत्यादाविव सामान्यविशेषभावोऽस्ति प्रत्युत शब्दोपात्तयोधर्मयोर्विरोध एव” मनोरमा।
निर्द्धारित = त्रि० निर + धारि–क्त। १ निर्द्धारणविषये २ निश्चिते च “निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु नाचिकम्” माघः।
निर्द्धार्य्य = त्रि० निर् + धारि–कर्मणि ण्यत्। १ निर्द्धारणकर्मणि सामान्यतः पृथक्कार्य्ये विशेषे यथा नराणां क्षत्रियः शूरतमः इत्यत्र शूरत्वेन नरान्तरेभः पृथक् कार्यरूपविशेषः क्षत्रियः। २ निश्चेये च। भावे ण्यत्। ३ अवश्यनिर्द्धारणे न०। तावद्यतेऽस्य अच्। ४ निःशङ्ककर्मकर्त्तरि रमानाथः। “निर्द्धार्य्यः कर्मकर्त्ता च संयतः सत्वसम्पदा। व्यसनेऽभ्युदये वापि ह्यविकारं सदा मनः। तत्तु सत्वकिति प्रोक्तम्” शब्दार्थचि० धृतवाक्यम्।
निर्द्धूत = त्रि० निर् + धू–कर्मणि क्त। निरस्ते “निर्धूतवीतमपि बालकमुल्ललन्तम्” माघः।
निर्ध्मापन = निर् + ध्मा–णिच्–भावे ल्युट्। सुचुतोक्ते शल्योद्धरणार्थे व्यापारभेदे “शल्योद्धारेणहेतूपक्रमे “प्रमार्जनं निर्ध्मापनं वमनम्” इत्यादिना विभज्य “आहारशेषश्लेध्महीनानुशल्यानि श्वसनोत्कासनप्रधमैर्निर्धमेत्” सुश्रु०।
***