निचन्द्र = पु० दानबभेदे “निचन्द्रश्च निकुम्भश्च” निकुम्भशब्दे दृश्यम्।
निचय = पु० नि + चि–भावे अच्। १ समूहे २ अवयवादीनां समुच्चये ३ निश्चये च शब्दर०। “षण्मासनिचयो वा स्यात् समानिचय एव वा” मनुः कर्मणि अच्। ४ निचीयमाने अवयवादिना वर्द्ध्यमाने “सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः” भा० स्त्री० २ अ०। श्रेण्या० कृतादिना च्व्यर्थे त० स०। निचयकृत निचयीकृते त्रि०।
निचयक = त्रि० निचये कुशलः आकर्षा० कन्। निचये कुशले
निचाय = पु० नि + चि–परिमाणाख्यायां घञ्। राशीकृते धान्यादौ “एकस्तण्डुलनिचायः अत्र राश्येकत्वेन समुदायिनां परिच्छित्तिर्गम्यते” सि० कौ०।
निचि = पु० नि + चि–बा० डि। गोकर्णशिरोदेशे रभसः।
निचिकी = स्त्री निचिना कायति शोभते कै–क गौरा० ङीष्। उत्तमायां गवि नैचिक्याम् शब्दार्थचि०।
निचित = त्रि० नि + चि–क्त। १ व्याप्ते २ पूरिते ३ सङ्कीर्णे ४ निर्मिते च हेमच०। ५ नदीभेदे स्त्री “कौशिकीं निश्चितां कृत्यां निचितां लोहतारिणीम्” भा० भी० ९ अ०।
निचिर = न० नितरां चिरः प्रा० स०। १ अत्यन्तचिरकाले २ तद्वर्त्तिनि त्रि० “प्रसू ज्येष्ठां निचिराभ्याम्” ऋ० ६। १३६। १
निचुम्प्रण = पु० निचमनेन पूर्यते नीचैरस्मिन् क्वणन्ति दधतीति या पृषो०। १ समुद्रे २ अवभृथे च “समुद्रोऽपि निचुम्पुण उच्यते निचमेन पूर्य्यते। अवभृथोऽपि निचुम्पुण उच्यते नीचैरस्मिन् क्वणन्ति नीचैर्दधतीति वा। नीचं कुणोतीति वा” निरु० ५। १८। “अवभृथो निचुम्पुणो भवति” तद्वृता श्रुतिः “अवभृथ! निचुम्पुण निचेरुरसि निचुम्पुणः” यजु० ३। ४८ “निचुम्पुण चुप मन्दायां गतौ नितरां चोपति मन्दं गच्छति निचुम्पुणः। उणप्रत्ययो मुमागमश्च। यद्वा नीचैरस्मिन् क्वणन्ति नीचशब्देन कर्म कुर्वन्त्यवभृथो निचुम्पुणः। “वोणस्थूणव्रणभ्रुणेत्यादिना नीचैः शब्दोपपदात् क्वणतेः कप्रत्ययान्तो गिपातः धातोः पुम्भाव उपपदस्य निचुम्भावश्च निपातितः। तथा विधावभृथ! यद्यपि त्वं निचेरुरसि नितरां चरतीति निचेरुः। नितरां गमनशीलोऽसि तथाप्यत्र निचुम्पुणो भव मन्दगमनो भव” वेददी०।
निचुल = पु० नि + चुल–क। १ हिज्जलवृक्षे अमरः। २ वेतसवृक्षे राजनि०। “स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खम्” मेघ०।
निचुलक = न० नि + चुल–वा० क्वुन्। १ योधादेश्चोलाकृतिसन्नाहे निचोलके हारा०। २ कुञ्चिकामत्स्ये पुंस्त्री शब्दार्थचि०।
निचेय = त्रि० नि + चि–यत्। आचीयमाने स्त्रियां टाप्। आङि तु स्त्रियां शार्द्धरवा० ङीन्। आनिचेयी
निचेरु = पु० नि + चर–उन् बा० आदेरेच्च। नितरां चरणशीले “अवभृथ निचुम्पुण निचेरुरसि निचुम्पणः” यजु० ३। ४८
निचोल = पु० नि + चुल–अच्। १ प्रच्छदपटे येन शय्यादि प्रच्छाद्यते तस्मिन् अमरः २ दोलिकाद्यावरणवस्त्रे ३ स्त्रीपिधानपटे च हेमच०। “शीलय नीलनिचोलम्” गीतगो०
निचोलक = पु० निचोल इव कायति कै–क। योधादेश्चोलाकृतिसन्नाहे कूर्पासे हेमच०।
निच्छवि = पु० निकृष्ट छविरत्र। (त्रिहोत्) तीरभुक्तदेशे त्रिका०।
निच्छ्रिवि = पु० ब्रात्यात् क्षत्रियात्सवर्णायामुत्पन्ने जातिभेदे “झल्लोमल्लश्च राजन्यात् ब्रात्यात् विच्छिविरेव च” मनुः
निज = त्रि० नितरां जायते नि + जन–ड। १ स्वकीये २ नित्ये च अमरः। “सेनागजेन मथितस्य निजप्रसूनैः” माघः। ३ स्वाभाविके “स्वाम्यं यस्य निजम्” न्याय लीला०।
निजघास = पु० पार्वत्या रोषसंभूते गणभेदे “निजघासो घसश्चैव स्थूणाकर्णः प्रशोषणः” हरिवं० १६८ अ०।
निजघ्नि = त्रि० नि + हन–कि द्वित्वम्। नितरां हननशीले “अथा निजघ्निरोदसा” ऋ० ९। ५३। २।
निजधृति = स्त्री शाकद्वीपस्थे १ नदीभेदे तदुपक्रमे “एतेषां वर्षमर्य्यादागिरयो नद्यः सप्त सप्तैव” इत्युक्त्वा “अनघा आयुर्द्धा उभयसृष्टिरपराजिता पञ्चपदी सहस्रश्रुतिर्निजधृतिरिति” भाग० ५। २०। १९। उक्तम्। निजा धृतिरस्य। २ स्वभावतो धैर्य्यान्विते त्रि०।
निजि = त्रि० निज–शुद्धौ कि। शुद्धिमति। अतोयवा० मस्य न वः। निजिमान्।
निटल = पु० नि + टल–अच्। कपाले भालस्थले शब्दार्थकल्पतरुः “राजा निटलतले चुम्बितनिजचरणाम्बुजैः” दशकु०।
निटलाक्ष = पु० निटले भाले अक्षि अस्य षच्स०। शिवे शब्दार्थकल्प० “रोषरूक्षेण निटलाक्षेण दूरीकृतचेतने मकरचेतने” दशकुमा०।
निडीन = न० नीचैर्डीनम्। भक्ष्यमाश्रयं वा दृष्ट्वा अधःपतन रूपे खगगतिभेदे खगगतिशब्दे २४१४ पृ० दृश्यम्।
निण्डिका = स्त्री सतीलायां (तेओयाडा) कलायभेदे शब्दच०।
निण्य = त्रि० अन्तर्हिते निघण्टुः “निण्यः संनद्धो मनसा चरामि” ऋ०१। १६४। ३७
नितत्नी = स्त्री ओषधिभेदे “देवी देव्यामधिजाता पृथिव्यामस्योषधे!। तां त्वा नितत्नि! केशेभ्यः” अथ० ६। १२६। १
नितम्ब = पु० नि + तम्ब–अच्, निभृतं तम्यते काम्यते कामुकैः नितरां ताम्यति सुरतमर्दाद् तम–बा० ब वा। स्त्रीणां पश्चात् १ कटितटे अमरः २ स्कन्धे ३ कूले ४ कट्या अधोभाने कटके (पर्वतवसृतिस्थाने) ५ कटिमात्रे च मेदि०। “तरुण्यालिङ्कितः कण्ठे नितम्बस्थानमाश्रितः। गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः” विदग्ध० “नितम्बमिव मेदिन्याः स्वस्तांशुकमलङ्घयत्” रघुः “गिरेर्नितम्बे सरुता विभिन्नम्” भट्टिः “सेव्यो नितम्बः किमु भूधराणां विलासिनानीम्” सा० द०।
नितम्बिन् = त्रि० नितम्ब + अस्त्यर्थे इनि। १ नितम्बयुक्ते “मेखलागुणपदैर्नितम्बिभिः” रघुः। प्राशस्त्ये इनि। २ प्रशस्तनितम्बयुक्तायां स्त्रियां स्त्री ङीप्। “नितम्बिनीमिच्छसि मुक्तलज्जाम्” कुमा०।
नितम्भू = पु० ऋषिभेदे “नितम्भूर्भवनो धौम्यः शतानन्दोऽकृतब्रणः” भा० अनु० २६ अ० नानर्षिकथने
नितराम् = अव्य० नि + तरप् आमु। १ सुतरामित्यर्थे २ अतिशये च “सुतरां तुदन्ति चेतो नितरां विवादिनाम्” ऋतुस० “तेभ्यो नितरां विरतिः” वेदा०।
नितल = न० निकृष्टं तलमधोभागः प्रा० स०। पातालभेदे शब्दरत्ना० “सुतलं वितलञ्चैव नितलञ्च गभस्तिमत्। महा- ग्रमतसञ्चापि पातालञ्चापि सप्तमम्” पुराणस० विष्णु०।
नितान्त = न० निताम्यति स्म नि + तम–क्त। १ एकान्ते २ अत्यन्ते अमरः। “निद्राविनोदितनितान्तरतिक्लमानाम्” किरा० “नितान्तदीर्षैर्जनिता तपोभिः” कुमा०।
नित्य = त्रि० नियमेन नियतं वा भवं नि + त्यप्। १ सतते अमरः। अहरहः क्रियामाणत्वेन २ विधिबोधिते ३ प्रत्यवायसाधनाभावप्रतियोगिनि कर्मणि यथा अहरहः सन्ध्यामुपासीतेति अत्र सन्ध्याभावे प्रत्यवायसाधनत्वबोधः। ४ अविच्छिन्नपरम्पराके च यथा वर्णा नित्याः। ५ उत्पत्तिविनाशरहिते ६ शाश्वते कालत्रयस्थे वस्तुनि च त्रि० ७ ससुद्रे पु० राजनि०। शास्त्रबोधितसदातनकर्त्तव्यताकं च नित्यं तद्बोधकं ति० त० समाहृत्योक्तं यथा “नित्यं १ सदा ३ यावदायु ३ र्न कदाचिदतिक्रमेत् ४। उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात्। फलाश्रुतेर्वीप्सया च तन्नित्यमिह कीर्त्तितम्”। अत्र पूर्वार्द्धोक्तार्थकशब्दाः स्वान्वितपदार्थस्य नित्यत्वबोधकाः। उत्तरश्लोकबोध्यार्थास्तु परम्परया नित्यतासमर्पका इति भेदः “तस्मादस्मिन् सदायुक्तो नित्यं स्यादात्मवाय् द्विजः” “विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु” मनुः नित्यत्वञ्च ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वम् तेन उत्पत्तिविनाशशून्यत्वात् कालत्रयस्थत्वं गम्यते।
नित्यकर्मन् = न० कर्म०। विहिते कर्मभेदे “नित्यं नैमित्तिकञ्चैव नित्यनैमित्तिकन्वथा। गृहस्थस्य त्रिधा कर्म तन्निशामय पुत्रक!। पञ्चयज्ञादिकं नित्यं यदेतत् कथितं तव। नैमित्तिकं तथा चान्यत् पुत्रजन्मक्रियादिकम्। नित्यनैमि त्तिकं ज्ञेयं पर्वश्राद्धादिं पण्डितैः” श्रा० त० मार्क० पु० तत्त्यागे दोषो यथा “नित्यानां कर्मणां विप्र! तस्य हानि रहर्निशम्। अकुर्बन् विहितं कर्म शक्तः पतति तद्दिने। प्रायश्चित्तेन महता शुद्धिमाप्नोत्यनापदि। पक्षं नित्यक्रियाहानेः कर्त्ता मैत्रेय! मानवः। संवत्सरं क्रिया हानिर्यस्य पुंसोऽभिजायते। तस्यावलोकनात् सूर्य्यो निरीक्ष्यः साधुभिः सदा। स्पृष्टे स्नानं सचेलस्य शुद्धि हेतुर्महामुने!। पुंसो भवति तस्योक्ता न शुद्धिः वापकर्मणः” इति विष्णुपु०। क्षतादौ नित्यकर्मकरणनिषेधो यथा “जानूर्द्धे क्षतजे जाते नित्यकर्म न चाचरेत्। सूतके च समुत्पन्ने क्षुरकर्मणि मैथुने। घूमोद्गारे तथा वान्तौ नित्यं कर्माणि संत्यजेत्। द्रव्ये भुक्ते त्वजीर्णे च नैव भुक्त्वा च किञ्चन। कर्म कुर्य्यान्नरो नित्यं सूतके मृतके तथा। पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पितम्। कणादिपिप्पल्यन्तञ्च फलं भुक्त्वा न चाचरेत्। जलस्यापि नरश्रेष्ठ भोजनाद्भेषजादृते। नित्यक्रिया निवर्त्तेत सह नैमित्तिकैः सदा। जलौकागूढपादञ्च कृमिगण्डूपदादिकम्। कामाद्दम्भेन संस्पृश्य नित्यकर्म्माणि संत्यजेत्। विशेषतः शिवापूजां प्रमीत पितृको द्विजः। यावद्वत्सरपर्य्यन्तं मनसापि नचाचरेत्। महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत्। आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत्। गुरुमाक्षिप्य विप्रञ्च प्रकृत्यैव च पाणिना। न कुर्य्यान्नित्यकर्माणि रेतःपाते च भैरव!” कालि० पु० ५४ अ०। नित्यकर्मणि अशक्याङ्गवैगुण्येऽपि फलनिष्पत्तिर्भवतीति कात्या० श्रौ० १। २। १८ सूत्रे याज्ञिकदेवकृतसंग्रहे च व्यवस्थापितं यथा “अथेदं विचार्य्यते द्विप्रकारं कर्म नित्यं काम्यञ्च तत्र नित्यं प्रकृत्येदं विचार्य्यते। किं सर्वाङ्गोपेतं कर्त्तव्यम् उत यावन्त्यङ्गानि कर्तुं शक्नोति तावद्भिरङ्गैरुपेतमिति। किं ताबत् प्राप्तम् सर्वाङ्गोपेतमेव कर्त्तव्यमिति कुतः भावनांशस्य कथंभाबस्य सर्वैरङ्गैः परिपूरणेन सर्वाङ्गोपेतमेव कर्त्तव्यमित्येवं प्राप्ते आह” “विगुणे फलनिर्वृत्तिरङ्गप्रघानभेदात्” सू०। “नित्ये कर्मणि अग्निहोत्रदर्शपूर्णमासादिके प्रत्यवायपरिहाररूपस्य फलस्य निष्पत्तिर्भवत्येव। अङ्गप्रधानभेदात् यतोऽङ्गानि च प्रधानानि च भिन्नानि नित्येषु चेतिकर्त्तव्यता नास्ति अपूर्वाभावात् अपूर्वप्रयुक्ता हीतिकर्त्तव्यता सा च तस्मिन्नसति न भवितुमर्हति कथमपूर्वाभावः?। फलाभावात् कालान्तरभाविफलसिद्ध्यर्थं ह्यपूर्वं कल्प्यम्। तच्चासति फले कल्पयितुं न शक्यते तस्मान्नित्येषु यागस्यैव माव्यत्वम् न फलस्य। तस्मात् पौर्णमास्याममावास्यायां वाग्निमुद्दिश्य पुरोडाशस्त्यक्तव्य इत्येतावदुपदिश्यते तेन दृष्टार्थानि यान्यङ्गानि संनिपत्योपकारकाणि यैर्विना प्रधानभूतयागनिष्पत्तिर्न भवति अन्यथानुपपत्त्या तावद्भिरुपेतं प्रधानं कर्त्तव्यम् नाङ्गानि अङ्गाम्नानं तु काम्यप्रयोगार्थम् अतोऽग्निकालपुरोडाशमात्रमादरणीयम् अन्यदङ्गजातमदृष्टार्थं नादरणीयमिति। कथं तर्हीदृशे निष्फले पुरुषस्य प्रवृत्तिरिति? चेत् उच्यते प्रत्यवायानुत्पत्त्यर्था प्रवृत्तिर्न तु फलार्था विहिताकरणाद्धि प्रत्यवायः स्मर्य्यते “अकुर्वन्विहितं कर्म प्रायश्चित्तीयते नरः” इति (मनुना)। अतो नित्यकर्मणो निष्फलत्वादपूर्वाभावादितिकर्त्तव्यता नास्तीति हीनाङ्गस्यैव प्रयोग इति केचित् सिद्धान्तमाहुः। तदेतन्नोपपद्यते कथंभावनातो हि तिस्र आकाङ्क्षा जायते किं, केन, कथमिति तत्र कथमितीतिकर्त्तव्यताकाङ्क्षा नित्येऽप्यस्ति तस्मादत्राप्यस्तीतिकर्त्तव्यता। सत्यम् अस्त्येवेहाप्याकाङ्क्षायाः समानपदोपात्तेन यागेनैव पूरणात्तन्निर्वृत्त्युपयोगिन्येनेतिकर्त्तव्यता कथमाकाङ्क्षया गृह्यते न त्वदृष्टोपयोगि प्रयाजाद्यङ्गम् अदृष्टस्य साध्यस्याभावादिति चेत् न यागस्य स्वतोऽपुरुषार्थत्वेन प्रवृत्त्यन्यथानुपपत्त्या समानपदोपात्तं यागमुत्सृज्य सर्वेषामभिमतस्य प्रत्यवाय परिहारस्येह भाव्यतया कल्पनात्। ननु चेत् सर्वेषामभिमतः स्वर्गः किमिति न कल्प्यते, तस्य शरीरारम्भहेतुतया मोक्षविरोधित्वेन मुमुक्षूणामनभिप्रेतत्वात् प्रत्यवायपरिहारस्तु तैरपीष्यत एव कथं? तस्मिन् पापे एतज्जन्मोपार्जिते भवान्तरोपार्जिते वा स्थिते सति तदुपभोगहेतुभूतशरीरारम्भावश्यंभावेन मोक्षाभावात् अतो मोक्षार्थिनाप्यवश्यं पापक्षय एषितव्य एव समीहित फलाय, इतरथाऽप्रक्षीणे पापे फलाप्राप्तेः। तस्मान्नित्यानि कर्माणि पापक्षयस्योपायत्वेन चोद्यमानानीतिकर्त्तव्यता भपेक्षन्त एव। धर्मशास्त्रेषु च यथैवाकरणे प्रत्यवायः स्मृतः तथैव करणादपि पापक्षयः स्मर्य्यते “पूर्वां सन्ध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति (मनुः) इत्यादिभिः “नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयमिति च”। तस्मान्नित्येऽप्यस्त्येव प्रत्यवायपरिहाररूपं फलम्। तस्मान्नित्यान्यपिं कर्माणि सर्वाभिमतस्य तस्य पापक्षयस्योपायत्वेन चोद्यमानानीतिकर्त्तव्यतामपेक्षन्त एव। ततश्च सर्वाङ्गोपेतानामनुष्ठानं कश्चिदपि सर्वदा कर्तुं न शक्नोति जीवनादिनिमित्ते च तानि विधीयन्ते निमित्तस्य चैतदेव रूपं यत्तस्मिन् सति नैमित्तिकमवश्यं कर्त्तव्यम्। तेन यावज्जीवं कर्त्तव्यम्। तेन यथा शक्नुयादित्युपयोध्यते तत्रावश्यमन्यतरस्मिन्नहातव्ये निमित्ते सति नैमित्तिकस्य कर्त्तव्यत्वं प्रधानवाक्ये श्रूयते तद्यदि कस्यचिदङ्गस्यानुरोधेन सति निमित्ते नैमित्तिकं न क्रियते ततः प्रधानवाक्यविरोधः स्यात् प्रधानमात्रं श्रुत्या निमित्ते विधीयते अङ्गानि तु तदर्थतया प्रकरणेन गृह्यन्ते अतस्तानि प्रधानवाक्यगतावश्यकत्वानुरोधेन यथाशक्त्युवसंहर्त्तव्यानि इतरथा प्रधानस्यावश्यकर्त्तव्यत्वं श्रुतं हीयेत तस्मात् प्रधानाविरोधेनाङ्गानि यथाशक्त्युपसंहर्तव्यानि। नन्वेवं हीनाङ्गादपि प्रधानात् फलसिद्धेरभ्युपगसात् समर्थोऽप्यङ्गानि परित्यक्ष्यतीति मैवम्। शक्तस्य कामतोऽङ्गे त्यज्यमाने वैगुण्यं स्यादेव अङ्गोपदेशं निमित्तं वालोच्योभयानुरोधेन यावन्त्यङ्गानि कर्तुं शक्नोति तावद्भिरुपेतं प्रधानमेनः क्षपयतीति शास्त्रार्थोऽवधार्य्यते तावतैव शास्त्रवशात् फलनिष्पत्तिः इति साधूक्तम् “विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदादिति”। एतच्च प्रयोगविध्यनुजीव्येष्वङ्गेषूच्यते यद्धि कुर्य्यादित्युच्यते तत् यथाशक्तीत्युपबोध्यते। यानि तु स्वभावसिद्धानि विध्यन्तरसिद्धानि वोपजीव्यन्ते यथा लोके धनार्जनादि वेदेऽपि कालो विद्याग्नयश्च तेषां स्वरूपेणौवाधिकारिविशेषणत्वम्। द्रव्यबान् विद्यावानग्निमानिति। एतदुक्तं भवति अङ्गं हि विधिबलादुपादीयते निमित्तानुरोधाद्वा त्यज्यते उभयानुग्रहार्थं वा शक्तं प्रत्युपादीयते अशक्तं प्रति त्यज्यत इति नान्या गतिरस्ति तत्रोभयानुग्रहो युक्तो यदि सम्भवति सम्भवश्चोपादेयेष्वङ्गेषु यथाशक्ति व्रीहीन् सम्पादयेत् यथाशक्त्यवहन्यादिति आहवनीयादिस्वरूपं तु नानेन विधिनोपादीयते तस्मादग्निमान् विद्यावान् द्रव्यवान् जीवंश्च यजेतेत्येवमाश्रीयते अतो विद्याग्निकालाद्यपरित्यागेनान्थेषामङ्गानां यथाशक्त्यनुष्ठानं सिद्धम्। तथाचोक्तं तन्त्ररत्ने “यानि प्रयोगविधिना कर्तुरुपादेयत्वेनाङ्गानि चोद्यन्ते तेषामेव शक्तिपरिमितत्वम् यावन्ति शक्नुयात्तावन्ति कुर्य्यादिति यानि तु विध्यन्तरप्रयुक्तानि स्वयं सिद्धानि वाङ्गत्वेन गृह्यन्ते तानि स्वरूपत एवाधिकारिविशेषणम् यथाग्न्यादीनि तेषामुपादानस्य प्रयोगविधिनानुपादानान्न यावच्छक्तीत्युपवन्धः सम्भवति किन्तु तदपेक्षो विधिस्तद्वन्तमेवाधिकरोति तेन सपत्नीकस्यार्षेयस्य (वेदस्य)व्याख्यानोपात्तसंस्कारविशिष्टस्याग्निमतो विद्यावतःप्रदोषादिकालसंयोगिनोऽधिकारो नान्यस्येति। एवं चाप्रतिसमाधेयाङ्गवैकल्येऽप्यग्न्यादिमानधिक्रियेतैव आधानं तु न कुर्य्यात्तस्यानैमित्तिकत्वादिति”। “प्रायश्चित्तविधानाच्च” सू०। “प्रायश्चित्तविधानादप्येवं कल्प्यते यद्विगुणेऽपि फलनिर्वृत्तिर्भवतीति। यदि च विगुणात् फलं न स्यात्तर्हि प्रायश्चित्तं न विदधीत नहि निष्फलस्याङ्गैः कृत्यमस्ति अस्ति च विधानम् तस्माद्विगुणादपि फलं भवतीति। येषां मते नित्येषु फलाभावेनापूर्वा भावात्तदर्थेतिकर्त्तव्यताभावेन निमित्तभेदने जाते वैगुण्यात्तत्परिहारायापरं होमाख्यमङ्गं भिन्ने जुहोतीत्यादिकमनुपपन्नं न क्रियत एव। पक्षान्तरे असत्यामितिकर्त्तव्यतायां भेदने जातेऽपि नास्ति वैगुण्यम् गुणहानिर्हि वैगुण्यम् असति गुणे कस्य हानिः स्यात् ततश्चास्मत्पक्ष एव प्रायश्चित्तविधानमुपपन्नमिति”। “तथा च दृष्टम्” सू०। “नित्यं कर्म यथा कथञ्चित् श्रुताङ्गपरित्यागेनापि यथाशक्त्यङ्गोपेतमनुष्ठातव्यत्वेन श्रुतौ दृष्टम्। तथा हि “यत्पयो न स्यात् केन जुहुया इति व्रीहियवाभ्यामित्यादि न वा इह तर्हि किं च नासीदथैतदहुत सत्यं श्रद्धायाम्” इत्यन्तेन ग्रन्थेन। तथा “तदेव यादृक्कीदृक् च होतव्यमिति” शाखान्तराच्च तस्माद्विगुणेऽपि नित्ये प्रत्यवायपरिहाररूपं फलं भवति अतएवोक्तं कर्काचार्य्यैः “उपात्तदुरितक्षयो वा उत्पत्स्यमानदुरितप्रतिवन्धो वा भवत्येवेति”। “नित्यकर्माण्यारब्धे अनारब्धे वा प्रतिनिविर्भवति अबश्यकर्त्तव्यतया यथाशक्तिप्रयोगस्य व्यवस्थापितत्वात् इति” चान्यत्र तत्रोक्तम्। “काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके हि सः” इत्युक्तेस्तत्र प्रतिनिधिरस्ति। “नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते” ब्रह्मपु०
नित्यक्षौर = न० अवैधकेशादिच्छेदने “चूडोदिते तिथावृक्षे बुधेन्द्वोर्दिवसे नरः। नित्यक्षौरं प्रकुर्वीत जन्ममासे न तु क्वचित्” जयोतिषसारः। अधिकं क्षुरकर्मन् शब्दे २३८६ पृ० दृश्यम्
नित्यगति = पु० नित्यं गतिरस्य। सदागतौ वायौ हेमच०। “यथा वायुर्नित्यगतिर्जलदान् शतशोऽम्बरे” भा० स० ४६ अ० नित्यगमनादयोऽप्यत्र।
नित्यदा = अव्य० नित्य + दाच् स्वरादि। सर्वदेत्यर्थे “त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यदा” भा० आ० ६ अ०।
नित्यदान = न० नित्यं प्रत्यहं कर्त्तव्यं दानम्। प्रत्यहकर्त्तव्ये दाने “नित्यं नैमित्तिकं काम्यं त्रिविधं दानमिष्यते। अहन्यहनि यत् विप्र! दीयतेऽनुपकारिणे। अनुद्दिश्य फलं तत् स्यात् व्राह्मणस्य तु नित्यकम्” गरुडपु०।
नित्यनैमित्तिक = न० कर्म०। नित्यत्वनैमित्तिकत्वयुक्ते कर्मभेदे पर्वश्राद्धादौ “नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादि पण्डितैः” श्राद्धत० मार्कण्डेयपु०। प्रायश्चित्तेऽपि तथात्वम्। अवश्यकर्त्तव्यत्वेन नित्यत्वं पापनिश्चयवता कर्त्तव्यत्वेन नैमित्तिकत्वं यथाह प्रा० त० रघुनन्दनः “प्रायश्चित्तस्य नित्यत्वेनाङ्गवैकल्येऽपि फलसिद्धिः। तथा च प्रायश्चित्तस्य नैमित्तिकत्वं नित्यत्वञ्च मिताक्षराकृदाह “नैमित्तिकोऽयं प्रायश्चित्ताधिकारः। अत्र चार्थवादावगतपापक्षयोऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रियते। न च दुरितपरिजिहीर्षुणानुऽष्ठीयते एतावता काम्याधिकारमात्रशङ्का कार्य्या यस्मात् “चरितव्य अतो नित्यं प्रायश्चित्तं विशुद्धये। निन्द्यैश्च लक्षणैर्युक्ता जायन्तेऽनिष्कृतै नसः” इति मनुवचनेऽकरणे दोषश्रवणेनावश्यकतावगमात्। तथा च याज्ञवल्क्यः “प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः। अपश्चात्तापिनः कृष्टान्नरकान् यान्ति दारुणान्”। प्रायश्चित्तमकुर्वाणा दुःसहान्नरकान् प्राप्नुवन्ति”।
नित्यप्रलय = पु० नित्यः प्रात्यहिकः प्रलयः। सुषुप्तौ “चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः। सदा विनाशो जातानाम्” अग्निपु० ३६७ अ० स च प्रलयचातुर्विध्यमुक्त्वा वेदान्तपरिभाषायां विवृतो यथा “स च चतुर्विधः नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति। तत्र नित्यप्रलयः सुषुप्तिः तस्याः सकलकार्य्यप्रलयरूपत्वाद् धर्माघर्मपूर्वसंस्काराणाञ्च तदा कारणात्मनावस्थानं, तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिः न वा स्मरणानुपपत्तिः। न च सुषुप्तावन्तःकरणस्यापि विनाशे तदधीनप्राणनादि क्रियानुपपत्तिः, वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुप्तशरीरोपलम्भवत्। नचैवं सुषुप्तस्य परेतादविशेषः सुषुप्तस्य हि लिङ्गशरीरं संस्कारात्मना तत्रैव वर्त्तते परेतस्य तु लोकान्तरे इति वैलक्षण्यात्। यद्वा अन्तःकरणस्य द्वे शक्तो ज्ञानशक्तिः क्रियाशक्तिश्चेति तत्र ज्ञानशक्तिविशिष्टन्तःकरणस्य सुषुप्तौ विनाशः न तु क्रियाशक्तिविशिष्टस्येति प्राणनाद्यवस्थानमविरुद्धम्। “यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राणएवैकधा भवति अथैनं वाक सर्वैर्नामभिः सहाप्येति सता सौम्य! तदा सम्पन्नो भवति स्वमपीतो भवतीत्यादि” श्रुतिरुक्तमुषुप्तौ मानम्”।
नित्यमुक्त = पु० नित्यं सुक्तः। कालत्रयेऽपि बन्धशून्थे परमात्मनि “अहं देवो नचान्योऽस्मि–इत्युपक्रमे नित्यमुक्तस्वभाववान्” आ० त०। “नित्यमुक्तत्वम्”। मां० सू०
नित्ययज्ञ = पु० कर्म०। फलयोगं विना जीवनादिमात्रनिमित्तेन विहिते यथाकथञ्चित् प्रतिनिध्यादिगा असुख्यद्रव्येण चानुष्ठेये अग्निहोत्रादौ यज्ञे।
नित्ययौवन = त्रि० नित्ययौवनमखं। १ स्थिरयौवने २ द्रौपद्यां स्त्री त्रिका०।
नित्यवैकुण्ठ = पु० सत्यलोकस्थे विष्णोः स्थानभेदे “ऊर्द्ध्वं नमसि संविष्टो नित्यवैकृण्ठण्व च। अस्त्वाकाशसमो नित्यो विस्तृतश्चन्द्रविम्बवत्। इश्वरेच्छासमुद्भूतो निर्लक्ष्यश्च निराश्रयः। आकाशवत् सुविस्तांरश्चामूल्यरत्ननिर्मितः। तत्र नारायणः श्रीमान् वनमाली चतुर्भुजः। लक्ष्मीः सरस्वती गङ्गा तुलसी पतिरीश्वरः। सुनन्दनन्दकुमुदपार्षदादिभिरन्वितः। सर्वेशः सर्वसिद्धीशो भक्तानुग्रहकारकः” ब्रह्मवै० पु० प० ख० १५ अ०।
नित्यसत्वस्थ = त्रि० नित्यमचलं यत् सत्वं धैर्य्यं गुणभेदो वा तत्र तिष्ठति स्था–क। १ नित्यधैर्य्यावलम्बिनि २ रजस्तमसी अभिभूय सदा सत्वगुणावलम्बिनि च। “नित्यसत्वस्थो निर्योनक्षेमः आत्मवान्” मीता।
नित्यसम = पु० गौ० सूत्रोक्ते जात्युत्तरभेदे नित्यानित्यकार्य्य समादीन् विभज्य “नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः नित्यसमः” इति लक्षितम् जातिशब्दे ३१०४ पृ० दृश्यम्
नित्यसमास = पु० कर्म०। व्याकरणोक्ते समस्यमानयावत्पदरहितविग्रहवाक्यसूचिते समासभेदे
नित्यहोम = पु० नित्यं प्रत्यहं कर्त्तव्यो होमः। द्विजैः प्रत्यहं कर्त्तव्ये होमे। स च होमः “यावज्जीवमग्निहोत्रं जुहोति” इति श्रुत्युक्तः विष्णुसंहितोक्तोऽन्यविधो यथा “अथाग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य्य परिषिच्य सर्वतः पाकादग्रमुद्धृत्य जुहुयात्। वाद्धदेवाय सङ्कर्षणाय प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय वासुदेवाय। अथाग्नये सोमाय मित्राय वरुणाय इन्द्रायेन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यः प्रजापतये अनुमत्यै धन्वन्तरये वास्तोष्पतये अग्नये स्विष्टिकृते च”। “वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम्। होमं कुर्य्याद्देवताभ्यो ब्राह्मणो होमभन्वहम्। अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः। विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च। कुह्वै चैवानुमत्यै च प्रजापतय एव च। सह व्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः” मनुनोक्तविधिरन्यविधः शाखाभेदात् व्यवस्था।
नित्या = स्त्री १ देव्याः शक्तिभेदे तदधिकारेणैव नित्यातन्त्रं प्रवत्तं तद्ध्यानमन्त्रादिकं तन्त्रसारे दृश्यम्। २ मनसादेव्यां शब्दरत्ना०।
नित्यानध्याय = पु० सर्वथा वर्जनीयवेदपाठकालादौ “द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः। खाध्यायभूमिञ्चाशुद्धामात्मानं चाशुचिं द्विजः” इति “इमान्नित्यमनध्यायान० घीयानो विवर्जयेत्” इति मनुना प्रदर्शितोऽनध्यायभेदः अनध्यायशब्दे १४६ पृ० दृश्यम्।
नित्यानित्यवस्तुविवेक = पु० नित्यञ्च अनित्यञ्च नित्याऽनित्ये ते ष ते वस्तुनी च नित्यानित्यवस्तुनी नित्यानित्यवस्तुनोर्विवेकः पृथगात्मता। ब्रह्मैव नित्यं वस्तु ततोऽन्यदणिलमनित्यमिति विवेचने। “ब्रह्म सत्यं जगन्मिथ्येत्येवं रूपो विनिश्चयः। सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः” शब्दार्थचि धृतवाक्यम्। अयञ्च ब्रह्मविद्यायाम् अधिकारप्रयोजकः।
नित्यानित्यसंयोगविरोध = पु० नित्यत्वस्यानित्यत्वस्य एकत्र संयोगे सम्बन्धे विरोधः। एकत्र घर्मिणि नित्यत्वस्यानित्यत्वस्व च सम्बन्धरूपे भावाभावयोरेकत्र योगरूपे विरोधे। संयोगपृथक्त्वभ्यायविषयातिरिक्त एवास्य विरोधस्य दूधकतेरित्याकारे दृश्यम्।
नित्याभियुक्त = त्रि० नित्यमभि समन्तात् युक्तः योगे व्यापृतः। देहयात्रामात्रार्थं प्रयतमाने इतरत्यागासक्ते योगिनि
निद = न० निदि–क वा० नलोपः। १ विषे शब्दच० २ निन्दक त्रि० “अर्च्चन् निदाया विश्वेभिरग्निम्” ऋ० ६। १२। ६ “निदाया निन्दिन्याः” भा०।
निदद्रु = त्रि० निवृत्तो दद्रुस्य प्रा० ब०। १ दद्रुरहिते २ मनुष्ये पुंस्त्री० शब्दच०।
निदर्शन = न० नि + दृश–ल्युट्। १ उदाहरणे दृष्टान्ते “आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितम्। घटादिवच्च सङ्घातैर्जातावेतन्निदर्शनमिति”। यदा मन्वबुद्धिप्रतिपिषादायषया श्रुत्यात्मनो जातिरुच्यते जीवादोनां तदा जातायुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदित माकाशवदित्यादीनि भाष्यम्” शब्दार्थचि०। २ अर्षालङ्कारभेदे स्त्री टाप्। अर्थालङ्कारशब्दे ३९९ पृ० दृस्यम्।
निदाघ = पु० नितरां दह्यतेऽत्र नि + दह–आधारे घञ् न्थङ्क्वादि० कुत्वम्। १ उष्णे २ घर्मे ३ घर्मकाले ज्यैष्ठाषाढमासयोः ४ घर्मजले च मेदि०। ऋतुसंहारे १ म सर्गे निदाघकाले वर्ण्याः पदार्था भङ्ग्या प्रदर्शितास्तत्रैव दृश्याः। पुलस्त्यपुत्रे ऋभुपत्नीजाते ५ ऋषिभेदे पु०।
निदाघकर = पु० निदाघ उष्णः करः अस्य। १ सूर्य्ये हारा० निदाघधानादयोऽप्यत्र “निदाघधामानमिबाधिदीधितिम्” माघः। २ अर्कवृक्षे च
निदाघकाल = पु० निदाषस्य कालः। १ ग्रीष्मर्त्तौ ज्यैष्ठाषाढमासयोः “दिनान्तरेम्योऽभ्युपशान्तमन्मयो मिदाघकालः समुपागतः प्रिये!” ऋतुसं०।
निदातृ = त्रि० नि + दो–तृच्। निरोधके “चरन्वत्सोरुशन्निह निदातारम्” ऋ० ८। ७२। ५ “निदातारं निरोधकम्” भा०।
निदान = न० नितरामसाधारणतया दयते कार्यम् नि + देङ् पालने ल्यु। १ आदिकारणे अमरः २ कारणमात्रे ३ वत्सदामनि निवृत्त दानम् प्रा० स० ४ कारणक्षये च मेदि० नि + दै शुद्धौ भावे ल्युट्। ५ शुद्धौ हेमच०। ६ रोगनिर्णये विश्वः ७ रोगहेतौ। “निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा। सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चघा स्मृतम्। निमित्त हेत्वायतनप्रत्ययोत्थानकारणैः। निदानमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते” इति माधवकरः सुश्रुते निदानप्रकरणे तद्भेदादिकं दृश्यम्। “निदानमिक्ष्वाकुकुलस्य सन्ततेः” रघुः।
निदिग्ध = ब्रि० नि + दिह–क्त। १ उपचिते २ लेपनादिना वर्द्धिते च ३ एलायां स्त्री शब्दच०। ततः संज्ञायां कन् कापि अत इत्त्वम्। निदिग्विका कण्टकारिकायां स्त्री अमरः।
निदिग्धिकादिक्वाथ = पु० चक्रदत्तोक्ते क्वाथभेदे “निदिग्धिकानागरकामृतानां काथं पिवेन्मिश्रितपिप्पलीकम्। जीर्णज्वरारोचककासशूलश्वासाग्निमान्द्यार्द्दितपीनसेषु। हन्त्यूर्द्धगामयं प्रायः सायन्तेनोपयुज्यते”
निदिध्यास = पु० नि + ध्या–सन्–भावे घञ्। श्रवणमननज्ञातस्य एकतानतासाध्ये निरन्तरचिन्तने। भावे ल्युट् निदिध्यासन तत्रार्थे न०। तल्लक्षणादि यथा “निरन्तरं विचारो यः श्रुतार्थस्य गुरोर्मुखात्। तन्निदिध्यासनं प्रोक्तं तच्चैकाग्र्येण लभ्यते। अनात्मन्यरुचिश्चित्ते रुचिश्चात्मनि चेद्भवेत्। पुण्यपुञ्जेन शुद्धं तच्चित्तमैकाग्र्यमर्हति”। विजातीयदेहादिप्रत्ययरहिताद्वितीयवस्तुनि २ सजातीयप्रत्ययप्रवाहे। विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्यय प्रवाहेण ३ श्रवणमननफलमूतेनात्मचिन्तने। निदिध्यासनं च विचारविशेषत्मकम्। स च विचारविशेषोध्यानात्मा तद्ध्यानरूपं निदिध्यासनम्। “ताभ्यां निर्विचिकित्सेऽर्थे चेतसः स्यापितस्य यत्। एकतानत्यमेतद्धि निदिध्यासनमुच्यते”। ताभ्यां श्रवणमगनाभ्याम्। ४ अपरायत्तबोधे। “अपरायत्तयोधो हि निदिध्यासनमुच्यते” इति वार्त्तिकोक्तेः “तस्य वेदान्तवेद्यस्य निदिध्यासगतो बिना” काशीण० ३० अ०। “श्रुते शतगुणं विद्यात् मननं मननादपि। निदिध्यासं लक्षगुर्णमनन्तं निर्विकल्पकम्” विवेकचू०।
निदेश = पु० नि + दिश–घञ्। १ शासने २ आज्ञायां ३ कथने अमरः ४ निकटे ५ भाजने च मेदिनिः “प्राणस्य तु शयानस्य निदेशे चैव तिष्ठतः” मनुः “निदेशात् स्वर्गिणः पितुः” रघुः।
निदेशिन् = त्रि० नि + दिश–णिनि। १ आज्ञाकारके स्त्रियां ङीप्। सा च २ दिशि काष्ठायां राजनि०।
निद्रा = स्त्री नि + द्रा–भावे अ। १ शयने स्वप्ने। निद्रा च कालाग्निरुद्रपत्नी यथा “कालाग्निरुद्रपत्नी च निद्रा सा सिद्धयोगिनी। सर्वलोकाः समाच्छन्ना यया योगेन रात्रिषु” इति। रात्रिषु योगेन सम्बन्धेन। २ तत्त्वाप्रतिबोधे। ३ अभावप्रत्ययालम्बनायां वृत्तौ चतसृणां वृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तदालम्बनावृत्तिरेव निद्रा न तु ज्ञानाद्यभावमात्रम्। सत्वरज उभयविरोधिन्यां तमोगुणालम्बनायां ४ वृत्तौ। “निद्राभिमानिनी काली तामसी शक्तिरिष्यते। यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः। विषयेभ्यो निवर्त्तन्ते तदा स्वपिति मानवः”। कर्मात्मानः उभयविधानीन्द्रियाणि “सुखं स्वपित्यनृणवान् व्याधिमुक्तश्च यो नरः। सावकाशस्तु यो भुङ्क्ते यस्तु दारैर्न शङ्कितः। कुतो निद्रा दरिद्रस्य परप्रेष्यकरस्य च। परनारीप्रसक्तस्य परद्रव्यहरस्य च” निद्रा च मेध्या नाडीसंयोगरूपेति नैयायिका चित्तवृत्तिभेद इति योगाचार्य्या यथा “वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” “प्रमाणविर्य्ययविकल्प निद्रास्मृतयः पा० सू० वृत्तीः पञ्चधा विभज्य “अभा वप्रत्ययावलम्बना वृत्तिर्निद्रा” सू० निद्रावृत्तिर्लक्षिता ५ सा च सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः कथं? सुखमहमस्वाप्सं प्रसन्नं मे मनः प्रज्ञां मे विशदीकरोति। दुःखमहमस्वाप्सं स्त्यानं मे मनोभ्रमत्यनवस्थितम्। गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मे चिचमलसं मुषितमिव तिष्ठतीति। स स्वल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यात् असति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युः। तस्मात्प्रत्ययविशेषो निद्रा। सा च समाधावितरप्रत्ययवन्निरोद्धव्येति” भा० “अधिकृतं हि वृत्तिपदमनुवादकं प्रमाणविपर्यविकल्पस्मृतीनां वृत्तित्वं प्रतिपरीक्षकाणामविप्रतिपत्तेरतस्तदनूद्यते विशेष विघानायं निद्रायास्तु वृत्तित्वे परीक्षकाणां विप्रतिपत्तेरिति वृत्तित्वं विधेयम्। न च प्रकृतमनुवादकं विधानाय कल्पत इति पुनर्वृत्तिग्रहणम् जाग्रत्स्वप्रवृत्ती- नामभावस्तस्य प्रत्ययः कारणं बुद्धिसत्वाच्छादकं तमस्तदेवालम्बनं विषयो यस्याः सा तथोक्ता वृत्तिर्निद्रा। बुद्धिसत्वे हि त्रिगुणे यदा सत्वरजसी अभिभूय समस्तकारणावरकमाविरस्ति तमस्तदा बुद्धेर्विषयाकारपरिणामाभावादुद्धूततमोमयोः वुद्धिमवबुध्यमानः पुरुषः सुषुप्तोऽन्तःसंज्ञ इत्युच्यते। कस्मात्पुनर्निरुद्धकैवल्ययोरिव वृत्त्यभाव एव न निद्रेत्यत आह। सा च सम्प्रबोधे प्रत्यवमर्शात्सोपपत्तिकात् स्मरणात्प्रत्ययविशेषः। कथं? यदा हि सत्वसचिवन्तम आविरस्ति तदेदृशः प्रत्यवमर्श सुप्तोत्थितस्य भवति। सुखमहमस्वाप्सम्प्रसन्नं मनः प्रज्ञां मे विशदीकरोति स्वच्छीकरोति इति यदा तु रजःसचिवन्तमः आविरस्ति तदेदृशः प्रत्यवमश इत्याह। दुःखमहमस्वापसं स्त्यानम् अकर्मण्यं मे मनः कस्मात् यतो भ्रमत्यनवस्थितम्। नितान्ताभिमूतरजः सत्वे तमःसमुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शमाह। गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मे चित्तमलसम्मुषितमिव तिष्ठतीति। साध्यव्यतिरेके हेतुव्यतिरेकमाह। स खल्ययमिति। प्रबुद्धस्य प्रबुद्धमात्रस्य तदाश्रिताश्चेति बोधकाले प्रत्ययानुवृत्त्यभावे कारणानुभव इत्यर्थः। ननु प्रमाणादयो व्युत्थानचित्ताधिकरणा निरुध्यन्तां समाधिप्रतिपक्षत्वान्निद्रायास्त्वेकाग्रवृत्तितुल्याया कथं समाधिप्रतिपक्षतेत्यत आह। स च समाधाविरिति। एकाग्रतुल्यापि तामसत्वेन निद्रा सवीजनिर्वीजसमाधिप्रतिपक्ष इति सापि निरोद्धव्येत्यर्थः” विवरणम्। इयञ्च वेदान्तिमिः सुषुप्ति रित्यभिधीयते।
निद्राण = त्रि० नि + द्रा–तस्य नः। निद्रायुक्तं अमरः।
निद्रालु = त्रि० नि + द्रा–शीलार्थे आलु। निद्राशीले अमरः। “अङ्गानि निद्रालुसविभ्रमाणि” ऋतुस०।
निद्रावृक्ष = पु० निद्राया वृक्ष इवाश्रयत्वात्। अन्धकारे शब्दमा०।
निद्रासंजनन = न० निद्रां संजनयति सम्–जन णिच्–ल्यु। श्लेष्मणि घातौ शब्दमाला। कफधातोर्निद्राजनकत्वं वैद्यके प्रसिद्धम्।
निधन = पु० न०। निधीयतेऽत्र नि + धा–क्यु। १ मरणे अमरः लग्नतः २ अष्टमस्थाने तत्र मरणस्य चिन्त्यत्वात्तस्य तथात्वम्। ३ स्वजन्मनक्षत्रावधिकेषु सप्तमषोडशत्रयोविंशेषु नक्षत्रेषु “निधने तिलकाञ्चनम्” ज्यो० त०। “क गन्तासि भ्रातः। कृतवसतयो यत्र धनिनः। किमर्थं प्राणानां स्थितिमनुविधातुं कथमपि। धनैर्याच्ञालभ्यैर्ननु परिभवोऽभ्यर्थनफलम् निकारोऽग्रे पश्चाद्धनमहह भोस्तद्धि निधनमिति” शान्तिश०। पञ्चावयवस्य सप्तावयवस्य वा साम्नोऽन्तिमे ४ अवयवे च तच्च यस्य कस्यचित्साम्नः अन्तिमभागरूपम् उद्गातृप्रस्तोतृप्रतिहर्त्तृभिः मिलितैर्युगपद्गेयम्। “ऋतुषु पञ्चविधं सामोपासीत वसन्तो हिङ्कारः ग्रीष्मः प्रस्तावः वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनम्” “बाचि सप्तबिधं सामोपासीत यत्किञ्चित् वाचो हुमिति स हिङ्कारः यत्प्रेति स प्रस्तावो यदेति स आदिः यदुदिति स उद्गीथः यत्प्रतीति स प्रतिहारः यदुपेति स उपद्रवः यन्नीति तन्निधनम्” छा० उ०। निवृत्तं धनं यस्यात्। ५ दरिद्रे त्रि० “निधनता सर्वापदामास्पदम्” मृच्छकटिकम्
निधनवत् = त्रि० निधन + अस्त्यर्थे मतुप् मस्य वः। १ मरणयुक्ते निधनावयवयुक्ते २ साम्नि न० “पङ्क्त्यै निधनवत्। निधनवत आग्रायणम्” यजु० १३। ५८ “निधनवत्साम” वेददी०।
निधा = स्त्री निधीयते धार्यते बन्धनेनानया नि + धा–अ। १ पाशसमूहे “निधा पाश्या भवति यन्निधीयते” निरु० ४। २ “चक्षुर्मुमुग्ध्यस्मान् निधयेव वद्धान्” ऋ० १०। ७३। ११ “निधा पाश्या पाशसमूहस्तया बद्धान्” भा० भावे अ। २ निधाने ३ अर्पणे च।
निधान = न० नि + धा–भावे ल्युट्। १ स्थापने निधीयतेऽत्र। २ आघारे आश्रये “निधानभूगतं सर्वं सद्यः समधिगच्छति” आगमः। ३ लयस्थाने “एतन्नानावताराणां निधानं वीजमव्ययम्” भाग० १। ३। ६। ४ निधिशब्दार्थे। ५ अप्रकाशे सि० कौ० निमूलशब्दे दृश्यम्। “नेरनिधाने” पा० “निधानकुम्भस्य यथैव दुर्गतः” रघुः “हत्वा निधानं पादेन सोऽर्थमिच्छति भिक्षया” काशीख० ४६ अ०। ततः ऋश्या० चतुरर्थ्यां क। त्रिधानक तत्सन्निकृष्टदेशादौ।
निधि = पु० नि + धा–आधारे कि। १ वस्तुन आषारे “निधिः श्रुतीनां धनसम्पदामिव” माघः “तदित्थमेतस्य निधेः कलानाम्” नैष०। जलनिधिः गुणनिधिरित्यादि २नलिकानामगन्धद्रव्ये ३ समुद्रे राजनि० ४ विष्णौ परेश्वरे तस्य सर्वाधारत्वात् तथात्वम्। “सर्वः शर्वः शिबः स्थाणुर्भूतादिर्निधिरव्ययः” विष्णुस० “प्रलवेऽस्मिन् सर्वं निधीयते इति निधिः” भा०। ५ भूखाताज्ञातस्वामिकधनादौ मिताक्ष० निधिविषये विधिभेदस्तत्रोक्तो यथा “अधुना मूमौ चिरनिखातस्य मुवर्णादेर्निधिशब्दवाच्यस्याधिगमे विधिमाह “राजा लब्ध्वा निधिं दद्यात् द्विजेभ्योऽर्द्धं द्विजः पुनः। विद्वानशेषमादद्यात् सर्वस्यासौ प्रभुर्यतः। इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत्। अनिवेदितविज्ञातोदाप्यस्तं दण्डमेव च” याज्ञ०। उक्तं लक्षणं निधिं राजा लब्ध्वार्द्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोषे निवेशयेत्। ब्राह्मणस्तु विद्वान् श्रुताध्ययनसम्पन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव गृह्णीयात्। यस्मादसौ सर्वस्य जगतः प्रभुः। इतरेण तु राजविद्वद्ब्राह्मणव्यतिरिक्तेनाविद्वद्ब्राह्मणक्षत्रियादिना निधौ लब्ध्वेराजा षष्ठांशमधिगन्त्रे दत्त्वा शेषं निधिं स्वयमाहरेत्” यथाह वशिष्ठः “अप्रज्ञायमानं वित्तं योऽधिगच्छेत् राजा तद्धरेदधिगन्त्रे षष्ठमंशं प्रदद्यात्” इति। गौतमोऽपि “निध्यधिगमो राजधनं न ब्राह्मणस्याभिरूपस्याब्राह्मणोऽप्याख्याता षष्ठमंशं लभेतेत्येके” इति। अनिवेदित इति कर्त्तरि निष्ठा। अनिवेदितश्चासौ विज्ञातश्च राज्ञा” इत्यनिवेदितविज्ञातः। यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राज्ञा, स सर्वं निधिं दाप्योदण्ड्यश्च शक्त्यपेक्षया। अथ निधेरपि स्वाम्यागत्य रूपसङ्ख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं द्वादशं वांशं स्वयमाहरेत्” यथाह मनुः “ममायमिति यो ब्रूयान्निधिं सत्येन मानवः। तस्याददीत षड्भागं राजा द्वादशमेव वेति”। अशविकल्पस्तु वर्णकालाद्यपेक्षया वेदितव्यः”। ३ महापद्मादिरत्नविशेषे सेवधौ स च नवविधः “महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्व खर्वश्च निधयो नव” इति शब्दार्णवः खर्वभिन्नानामष्टानामेव निधित्वं तल्लक्षणञ्च मार्कण्डेयपु० ६० अ० उक्तं यथा
“मार्कण्डेय उवाच। षष्मिनी नाम या विद्या लक्ष्मीस्तस्याश्च देवता। तदाधाराश्च निधयस्तान् मे निगदतः शृणु। तत्र पद्ममहापद्मौ तथा मकरकच्छपौ। मुकुन्दकुन्दौ नीलश्च शङ्खश्चैवाष्टमो निधिः। सत्यां वृद्धौ भवन्त्येते सद्भिः सह भवन्त्यमी। एते ह्यष्टौ समाख्याता निधयस्तव क्रोष्टुके! एभिरालोकितं चित्तं मानुषस्य महामुने!। यादृक् स्वरूपं भवति तन्मे निगदतः शृणु। पद्मो नाम निधिः पूर्वः स यस्य भवति द्विज!। स तस्य तत्सुतानां च तत्पुत्राणां ध नान्यनः। दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत्। सत्वाचारो महाभागोयतोऽसौ सात्विको निधिः। सुवर्णरूप्यताम्रादिध तूनां च परिग्रहम्। करोत्यतितरां सोऽपि तेषां च क्रयविक्रयम्। करोति च तथा यज्ञान् दक्षिणाश्च प्रयच्छति। सम्पादयति कामांश्च सर्वानेव यथाक्रमम्। सभादेवनिकेतांश्च स कारयति तन्मनाः १। सत्वाधारो निधिश्चान्यो महापद्म इति स्मृतः। सत्वप्रधानो भवति तेन चाधिष्ठितो नरः। करोति पद्मरागादि रत्नानाञ्च परिग्रहम्। स मौक्तिकप्रवालानां तेषां च क्रयविक्रयम्। ददाति योगशीलेभ्यस्तेषामावसथांस्तथा। स करोति च तच्छीलः स्वयमेव च जायते। तत्प्रसूतास्तथाशीलाः पुत्रपौत्रक्रमेण च। पर्वर्द्विमात्रः सप्तासौ पुरुषांश्च न मुञ्चति। महापद्मस्तु विप्राणां यज्ञार्थमुपजायते २। तामसो मकरो नाम निधिस्तेनावलोकितः। पुरुषोऽथ तमःप्रायः सुशीलोऽपि हि जायते। वाणखड्गर्ष्टिधनुषां चर्मणाञ्च परिग्रहम्। दंशनानाञ्च कुरुते याति मैत्रीञ्च राजभिः। ददाति शौर्य्यवृत्तीनां भूभुजां ये च तत्प्रियाः। क्रयविक्रयशस्त्राणां नान्यत्र प्रीतिमेति च। एकस्यैव भवत्येष नरस्य न सुतानुगः। द्रव्यार्थं दस्युतो नाशं संग्रामे वापि स व्रजेत् ३। कच्छपाख्यो निधिर्योऽन्यो नरस्तेनाभिवीक्षितः। तमःप्रधानो भवति यतोऽसौ तामसो निधिः। व्यवहारान् न शिष्टैश्च पण्यजातं करोति च। क्रियाः स्वा निखिलाश्चैव न विश्वसिति कस्यचित्। समस्तानि यथाङ्गानि निगृह्यास्ते हि कच्छपः। तथावष्टभ्य वित्तानि तिष्ठत्याकुलमानसः। न ददाति न वा भुङ्क्ते तद्विनाशभयाकुलः। निधानमुर्व्यां कुरुते निधिः सोऽप्येकपुरुषः ४। रजोगुणमयश्चान्यो मुकुन्दो नाम यो निधिः। नरोऽबलोकितस्तेन तद्गुणो भवति द्विज!। वीणावेणुमृदङ्गादिगीतवाद्यपरिग्रहम्। करोति गायतां वित्तं नृत्यतां च प्रयच्छति। वन्दिमागधसूतानां विटानां लास्यपाठिनाम्। ददात्यहर्निशं भोगान् भुङ्क्ते तैस्तु समं द्विज!। कुलटासु रतिश्चास्य भवत्यन्यैश्च तद्विधैः। प्रयाति सङ्गमेकं च स निधिर्भजते नरम् ५। रजःसत्वमयश्चात्यः कुन्दोनाम महानिधिः। उपैति स्तम्भमधिकं नरस्तेनावलोकितः। समस्तधातुरत्नानां पण्यधान्यादिकस्य च। परिग्रहं करोत्येष तथैव क्रयविक्रथम्। आधारः स्वजनानां चाप्यागताभ्यागतस्य च। सहते नापमानोक्तिं स्वल्पामपि महामुने!। स्तूयमानश्च महतीं प्रीतिं बध्नाति यच्छति। यं यमिच्छति वै कामं मृदुत्वमुपयाति च। बह्व्यो मार्य्या भवन्त्यस्य सूतिमत्योऽतिशोभनाः। तदन्वये सप्त नरान् निधिः कुन्दोऽनुवर्त्तते। प्रवर्द्धमानोऽनुनरमष्टभागेन सत्तम!। दीर्घायुश्चैव सर्वेषां पुरुषाणां प्रयच्छति। बन्धूनामेव भरणं ये च दूरादुपागताः। तेषां करोति वै वुन्दः परलोकेन चादृतः। भवत्यस्य न च स्नेहः सहवासिषु जायते। पूर्वमित्रैश्च शैथिल्यं प्रीतिमन्यैः करोति च ६। तथैव सत्वतमसी यो बिभर्त्ति महानिधिः। निधिः स नीलस्तत्सङ्गी नरस्तच्छीलभाम्भवेत्। वस्त्रकर्पासधान्यादि फलपुष्पपरिग्रहम्। मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां तथा मुने!। काष्ठादीनां करोत्येष यच्चान्थज्जल सम्भवम्। क्रयविक्रयमप्येषां नान्यत्र रमते मनः। तडागान् पुष्करिण्यादीन् तथाऽऽरामान् करोति च। बन्धञ्च सरितां वृक्षांस्तथारोपयते नरः। अनुलेपन पुष्पादिभोगभोक्ताऽपि जायते। त्रिपूरषश्चापि निधिर्नीलो नामेह जायते ७। रजस्तमोमयश्चान्यः शङ्ख संज्ञो हि यो निधिः। तेनापि नीयते विप्र! सद्गुणित्वं निधीश्वरः। एकस्यैव भवत्येष नरं नान्यमुपैति च। यस्य शङ्खो निधिस्तस्य स्वरूपं क्रोष्टुके! शृणु। एक एवात्मना मिष्टमन्नं भुङक्ते तथाऽम्बरम्। कदन्नभुक्परिजनो न च शोभनवस्त्रधृक्। न ददाति सुहृद्भार्य्या सुतपुत्रस्नुषादिषु। स्वपोषणपरः शङ्खी नरो भवति सर्वदा ८। इत्येते निधयः ख्याता नराणामर्थदेवताः। मिश्रावलोलिता मिश्रस्वभावफलदायिनः। यथाख्यात स्वभावस्तु भवत्येकविलोकनात्। सर्वेषामाधिपत्ये च श्रीरेषा द्विज! पद्मिनी”। ऋषीणाभृणभूतपाठयुते ३ वेदे च। निधिगोपशब्दे दृश्यम्।
निधिगोप = पु० निधिमृषीणामृणभूतपाठो वेदस्तं गोपायति गुप–अण् उप०। अनूचाने “अथ यदेवानुब्रुवीत तेन ऋषिभ्य ऋणं जायते। तद्धैभ्य एतत् करोति ऋषीणां निधिगोपं ह्यनूचानमाहुः” शत० ब्रा० १। ७। २। ३
निधिनाथ = पु० ६ त०। कुवेरे त्रिका० निधीशादयोऽप्यत्र।
निधुवन = न० नितरां धुवनं हस्तपादादिचालनमत्र। मैथुने १ सुरतलीलायाम् अमरः। “विधुवनविनोदेन च मनुम्” कर्पूरस्तवः “नवनिधुवनलीलाः कौतुकेनाभिवीक्ष्य” माघः। नितरां धुवनम्। २ अत्यन्तकम्पने च
निधेय = त्रि० नि + धा–यत्। स्थाप्ये स्त्रियां टाप्। “श्रीश्च षद्मालया देवि! निधेया वैष्णवोरसि” हरिवं० ९८ अ० आङि तु शार्द्धरबा० स्त्रियां ङीन्। आनिधेयी
निध्यान् = न० नि + ध्यै–भावे ल्युट्। निर्वर्णने दर्शने अमरः
निध्रुव = पु० नोत्रप्रवर्त्तकर्षिप्रवरर्षिभेदे “निध्रुवाणां काश्यपा वत्सारनैध्रुवेति” आश्व० श्रौ० १२। १४। ७ गोत्रप्रवरोक्तौ
निध्रुवि = त्रि० नितरा ध्रुवति ध्रु–स्थैर्य्ये कि। नितरां स्थैर्य्यान्विते। “यो मर्त्येषु निध्रुविरृतावा” ऋ० ७। ३। १
निध्वान = पु० नि + ध्वन–भावे घञ्। शब्दमात्रं शब्दरत्ना०।
निनङ्क्षु = त्रि० नष्टु मिच्छुः नश–सन्–उ नुम्। अदर्शनं प्राप्तुमिच्छौ “अविस्फवच्च वन्धूनां निनङ्क्षुर्विक्रमं मुहुः” भट्टिः।
निनद = पु० नि + नद–भाव अप्। १ शब्दे अमरः २ रथतुल्यशब्दे शब्दार्थचि०। उच्चचार निनदोऽम्भसि तस्याः” रघुः।
निनयन = न० नि + नी–ल्युट्। १ निष्पादने “नाभिव्याहारयेत् ब्रह्म स्वधानिनयनादृते” मनुः “निनयनं निष्पादनम्” कुल्लू०। २ परासेचने च निपूर्वकस्य नयतेः परिषेकार्थत्वात् तथात्वम्। “वर्हिषि पूर्णपात्रं निगयेत्” आश्व० गृ० सू० १। १०। २३ “निनयेत् सिञ्चेदित्यर्थः नारा० “एषोऽवभृथः” ४ सू० “यदिदं पूर्णपात्रनिनयनं एषोऽस्य कर्मणोऽवभृथो भवति” नारा० “उदकं चमसं निनयेयुः” द्राह्मा० सू० “निनयेयुः परासिञ्चेयुः” ताण्ड्य० ब्रा० भा०
निनर्त्तशत्रु = त्रि० देवश्रवस उद्धवस्य पुत्रभेदे “निनर्त्तशत्रु शत्रुघ्नं देवश्रवाव्यजायत” हरिवं० ३५ अ०
निनर्द = पु० नि + नर्द–भावे घञ्। वेदशब्दस्योच्चारणभेदे। तत्प्रकारः आश्व० श्रौ० ८। ३। ९ “तृतीये तु पादेष्वादितो यदक्षरं तदनुदात्तीकृत्य ब्रूयात्। एतदुक्तं भवति तृतीयेषु प्रथममादित इत्यर्थः। आदितो ये द्वे अक्षरे तयोः पूर्वमनुदात्तं तस्मात् परं द्वितीयम् उदात्तं यथा भवेत् तथा निनर्देत् नितरां ब्रूयादित्यर्थः। तदेवमुच्चारणं निनर्दशब्देनोच्यत इत्यर्थः” नारा० “तस्योत्तमावर्जं तृतीयेषु न्यूङ्खो निनर्दश्च” ७। ११९ “तस्य सूक्तस्य याः पुरस्तात् प्रागुत्तमाया ऋचस्तासां तृतीयेषु पादेषु न्यूङ्खो निनर्दश्च कर्त्तव्यः। उत्तमापि न्यूङ्खनिनर्दरहिता शस्तव्येव” नारा० “स्वरादिरन्त ओकारश्चतुर्निनर्दः” ११ अ० तृतीयेषु पादेषु निनर्द उक्तः। तेषु कस्मिन् प्रदेश इत्युच्यते। पादान्ते। स्वरादिः स्वरो वाटिप्रदेश इत्यर्थः स चौकारश्चतुष्कृत्वो वक्तव्यः स निनर्दः इत्युच्यते” नारा०।
निनाद = नि + नद–पक्षे घञ्। शब्दमात्रे अमरः “ज्यानिना दमथ शृण्वती तयोः” रघुः।
निनाह्य = पु० नीचैर्नाह्यः भूमौ निखननीयः नि + नहकर्मणि ण्यत्। भूमौ नीचैः खननीये १ मणिके २ महा घटे च “अस्तमितश्चेत् निनाह्यात् पुरेजानश्चेत्” कात्या० श्रौ० ८। ९। ५८ “निनाह्यात् मणिकात्” संग्रहः “यदि पुरेजानः स्यात् निनाह्यात् गृह्णीयात्” शत० ब्रा० ३। ९। २। ८ “निनाह्यात् स्वगृहस्थितप्रभूतघटादेः” भा०।
निनित्सु = पु० निन्दितुमिच्छुः निन्दि–सन–उ वेदे नि०। निन्दितुमिच्छौ “आरे तं शंसं कृणुहि निनित्सोः” ऋ० ७। २५। २ लोके तु निनिन्दिषु तत्रार्थे।
निन्दक = नि० निन्द–वुञ्। गर्हाकारके निन्दाकारके “परीवादात् खरो भवति श्वा वै भवति निन्दकः” मनुः
निन्दतल = पु० निन्द–कर्मणि घञ् निन्दः निन्द्यं तलमस्य। निन्दितहस्ते शब्दर०
निन्दन = न० निन्दि–भावे ल्युट्। गर्हणे शब्दरत्ना०।
निन्दा = स्त्री निन्दि–भावे अ। अविद्यमानदोषाभिधाने १ गर्हणे “वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा। द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत्। न चात्मानं प्रशंसेद्वा परनिन्दाश्च वर्जयेत्। वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत्” कौर्म पु० १५ अ०। २ अनिष्टसाघनत्वबोधनद्वारा विध्यर्थप्रशंसावचने च “न हि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते अपि तु विधेयं स्तोतुम्” न्याय०।
निन्दार्थवाद = पु० निन्दारूपोऽर्थवादः। मीमांसकोक्ते अर्थवादभेदे अर्थवादशब्दे ३६९ पृ० दृश्यम् उदाहरणान्तरं लौगाक्षिभास्करेण दर्शितं यथा “तत्र निन्दार्थवादो यथा “असत्रं वा एतद् यदच्छन्दोमम् असृजं हि रजतं यो बर्हिषि ददाति पुरास्य संवत्सराद्गृहे रुदन्ति”
निन्दास्तुति = स्त्री निन्दया स्तुतिः। व्याजेन निन्दाद्वारा स्तुतौ अलङ्कारशब्दे व्याजस्तुत्यलङ्कारे ४०५ पृ० दृश्यम्।
निन्दित = त्रि० निन्द–क्त। १ गर्हिते २ धिक्कृते जटा० “विहितस्याननुष्ठानात् निन्दितस्य च सेवनात्” याज्ञ०। निन्दितञ्च शास्त्रलोकयोर्गर्हितम्। तत्र शास्त्रे निन्दितं शूद्रप्रतिग्रहादि लोकगर्हितमतिभोजनादि। “अस्वर्ग्यं लोकबिद्विष्टं तस्मात् तत् परिवर्जयेत्” मनुः “यद्यपि शिष्टं लोकविरुद्धं नाचरणीयं नाचरणीयमिति” मिताक्षराधृतवचनम्।
निन्दु = स्त्री निन्द्यतेऽप्रजस्त्वेनासौ निन्दि–कर्मणि उ। मृतवत्सायां हेमच०।
निप = पु० न० नितरां पिबत्यनेन नि + पा–करणे घञर्थे क। १ कलसे अमरः नीप + पृषो०। २ कदम्बवृक्षे शब्दच०।
निपक्षति = स्त्री नीचा पक्षतिः प्रा० स०। अश्वस्य दक्षिणपार्श्वस्थास्थ्नां त्रयोदशानां मध्ये द्वितीये अस्थ्नि वेददी० “अग्नेः पक्षतिर्वायोः निपक्षतिः” “इन्द्राग्न्योः पक्षतिः सरस्वत्यै निपक्षतिः” यजु० २५। ४४। ४५ “पक्षस्य पार्श्वस्य मूलभूतानि अस्थीनि वङ्क्रिशब्दवाच्यानि पक्षतिशब्देनोच्यन्ते तानि च प्रतिपार्श्वं त्रयोदश भवन्ति “षड्विंशतिरश्वस्य वङ्क्रयः” इति कौषीत० ब्रा० १०। ४ श्रुतेः तेषां क्रमेण देवता। अग्नेः पक्षतिः प्रथमं दक्षिणपार्श्वास्थि, वायोर्निपक्षतिः नीचा पक्षतिः निपक्षतिः द्वितीयं दक्षिणपार्श्वास्थि” “एवं द्वितीयं वामपार्श्वास्थि सरस्वत्या इति च” वेददी०।
निप(पा)ठ = पु० नि + पठ–भावे अप् पक्षे थञ् वा। पाठे अमरः
निपठितिन् = त्रि० निपठितमनेन इष्टा० कर्त्तरि इनि। कृतपाठे
निपत्यरोहिणी = स्त्री निपत्य रोहिणी रोहितवर्णा स्त्री मयू०। निपत्यरोहितवर्णायां स्त्रियाम्
निपत्या = स्त्री निपत्यस्याम् नि + पत–आधारे क्यप् नि०। १ पिच्छिलभूमौ २ युद्धभूमौ च।
निपरण = न० निषिद्धं परणं प्रीतिः नि + (निषेधे) पृ–प्रीतौ भावे ल्युट् वा। प्रीत्यभावे तन्निरुक्तिश्च “निपरणात् पुत् नरकं ततस्त्रायते” इति पुत्रशब्दे निरुक्तिः नितरां प्रीतौ २ प्रीणने च “निपरणं पित्र्येण तीर्थेन” आश्व० श्रौ० २। ६। १५
निपलाश = त्रि० निपतितं पलाशं यस्य प्रा० ब०। निपतितपत्रे वृक्षे “साहास्मै निपलाशमिवोवाद” शत० ब्रा० ३। २। १। २०
निपाक = पु० नितरां पाकः प्रा० स०। अतिशयपाके शब्दर०।
निपात = पु० नि + पत–भावे घञ्। १ पतने २ मृतौ त्रिका० ३ अधःपतने च “पयोधरोत्सेधनिपातचूर्णिताः” कुमा० “क्व च निशितनिपाता वज्रसाराः शरास्ते” शकु०। निपतन्ति अवयववर्णविनाशादिना अन्यथा निष्पद्यन्ते नि + पत–कर्त्तरि ज्वला० ण। वर्णागमादिना अन्यथोत्पद्यमाने सूत्रानिष्पाद्ये ४ शब्दभेदे। वर्णागमादिप्रकारश्च स्मर्य्यते “वर्णागमो वर्णविपर्य्यश्च द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदर्थादिशयेन योगस्तदुच्यते पञ्चविघं निरुक्तम्”। “भवेद्वर्णागमात् हंसः सिंहो वर्ण विपर्य्ययात्। गूढोत्मा वर्णविकृते र्वर्णलोपे पृषोदरम्” निपतन्त्यर्थेषु उच्चावचेषु नि + पत–कर्त्तरि ज्वला० ण। नानाविधार्थेषु वृत्त्या स्वार्थबोधकतया पतनशीले चादौ ५ शब्दभेदे “तद्यान्येतानि चत्वारि पदजातानि नामाख्याते उपसर्गनिपाताश्चेति” विभज्य अथ निपाता उच्चावचेष्वर्थेषु निपतन्तीति उपमार्थे वा कर्मोपसंग्रहार्थे पदपूरणाये वा” विरुक्तकारः। ते च “प्राग्रीश्वरान्निपाताः” “चादयोऽसत्त्वे” “प्रादयश्च” इत्यादिषु पा० सूत्रेषु पठिताः निपातसंज्ञाः भवन्ति। उपसर्गातिरिक्तनिपातानां च द्योतकत्ववाचकत्वोभयस्वीकारः “अव्ययविभक्तीति” पा० सू० भाष्ये स्थितः। उपसर्गाणान्तुद्योतकत्वमेवेति “गतिर्गताविति” पा० सू० भाष्ये स्थितम्। उपसर्गशब्दे १२३५ पृ० वैयाकरणमतसिद्धार्थबोधकता उक्ता नैयायिकमते तल्लक्षणादि शब्दश० प्र० उक्तं यथा “निपातं लक्षयति। स्वार्थे शब्दान्तरार्थस्य तादात्म्येनान्वयाक्षमः। सुबाद्यन्यो निपातोऽसौ विविधश्चादिभेदतः। यः शब्दः केवले यादृशस्वार्थे शब्दान्तरार्थस्य तादात्म्येनान्वयबोधं प्रत्यसमर्थः सुवादिप्रत्ययेभ्यः प्रत्येकं भिन्नः स तादृशार्थः भेदेनान्वयबोधं प्रति योग्यः। न हि स्मृतमनुभूतञ्चेत्यादितः कस्यापि स्मृतः समुच्चय इत्यादिरनुभवः किन्तु स्मृतानुभूतयोः समुच्चय इत्यादिरेव। स्तोकं पचति इत्यादौ धातुरपि स्वार्थे नामार्थस्य तादात्म्यं बोधयंस्तत्समर्थ एव प्रत्ययस्तु सुबादिरेव। चः शब्द इत्यादौ नामार्थस्याभेदसाकाङ्क्षश्चकारादिः स्वपरत्वान्न निपातः किन्तु नामैव। पुरन्दरप्रभृतौ तु नाम्नि निपातव्यपदेशः सूत्रानिष्पाद्यत्वप्रयुक्तो भाक्तः। कार्त्तिक्यादौ यन्न दानं तदत्यन्तविनिन्दितम्” इत्यादौ न केवले नञर्थे यदर्थस्य तादात्म्येनान्वयः किन्तु दानाद्यवच्छिन्ने। स्वर्दिवा नक्तमाद्यव्ययमपि नामैव न तु निपातः शोभनं स्वरित्यादौ तदर्थे नामार्थस्य तादात्म्येनान्वयात्। प्रादयस्तूपसर्गा न सार्थकाः सार्थकाश्चेत् निपाता अपि”।
निपातन = न० नि + पत–णिच् ल्युट्। १ मारणे “परिचयं चललक्ष्यनिपातने” रथुः। २ अधोनयने ३ पातने च “अवगुर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने” मनुः निपातने दण्डपातने” प्रा० त० निपात्यतेऽनेन करणे ल्युट्। ४ लक्षणानुसारेणानुत्पद्यमानशब्दसाधनोपाये “यल्लक्षणेनानुत्पन्न तत्सर्वं निपातनात् सिद्धम्” महाभाष्यम्। सर्वनामसंज्ञासू० “निपातनात् णत्वाभावः” “निपातनमप्येवं जातीयकमेव अविशेषेण णत्वमुक्त्वा विशेषेण निपातनं क्रियते तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते इदं न भवतीति” महाभाष्यम्।
निपाद = त्रि० निकृष्टो न्यग्भूतो वा पादो यत्र। निम्नप्रदेशे “भवन्त्युद्वतो निपादाः” ऋ० ५। ८३। ७ “उद्वत उन्नतप्रदेशाः निपादा न्यग्भूतदेशाः” भा०।
निपान = न० निपीयतेऽस्मिन् नि + पा–आधारे ल्युट्। कुपसमीपस्थे १ जलाशये कूपोद्धृतजलाधारे कूपादिसमीपे पशूनां पानार्थमुदकाधारे अमरः। करणे ल्युट्। २ गोदोहनपात्रे त्रिका०। ३ खातादिषु च “परकीयनिपानेषु न स्नायाच्च कदाचत। निपानकर्त्तुः स्नात्वा च दुष्कृतांशेन लिप्यते” मनुः “गाहन्तां महिषा निपानसलिलम्” शकु०। भावे क्त। ४ निःशेषपाने
निपीडन = नि + पीड–भावे ल्युट्। नितरां पीडने पीडियुच्। तत्रार्थे स्त्री “कृत्वा दीननिपीडनां निजजने वद्ध्वा षचोविमहम्” सा० द०।
निपीडित = त्रि० नितरां पीडितः नि + पीड क्त। (निंगडान) कृतनिष्पीडने।
निपुण = त्रि० नि + पुण–क। १ प्रवीणे क्रियासु दक्षे “शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः” मनुः। “शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्” काव्यप्र० २ सूक्ष्मे “दुष्यं वचो मम परं निपुणं विभाव्य” रघुनाथः। श्रेण्यादि० अभूततद्भावेऽर्थे कृतादिना स०। निपुणकृत निपुणीकृते “साधु निपुणाभ्यामासेवायां सप्तम्यप्रतेः” पा० एतद्योगे अर्चायां गम्यमानायां सप्तमी मातरि निपुणः। प्रत्यादियोगे तु न, मातरं प्रति निपुणः” सि० कौ०।
निपुर = पु० निकृष्टं पूर्य्यते पॄ–कर्मणि क्विप्। लिङ्गरेहे सूक्ष्मशरोरे “परा पुरो निपुरो ये भवन्ति” यजु० २। ३० “निपुरः सूक्ष्मदेहान्” वेददी०। तस्याशितान्नादिना सूक्ष्मरूपेण पूरणेन तत्पूरणस्य निकृष्टत्वात् तथात्वम् “अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं यो मध्यमस्तन्मासं योऽणिष्ठस्तन्मनः” छा० उ० इत्यादिश्रुत्या मनसः सूक्ष्मदेहान्तर्गतस्य सूक्ष्मभूतेनानुप्रवेशेन उपचीयमानत्वात् निकृष्टपूरणमेवं प्राणादीनामपि तदन्तर्गतानां तथात्वं तत्रोक्तमतो लिङ्गदेहस्य तथात्वम्।
निफला = स्त्री निवृत्तं फलं यस्याः। जोतिष्मतीलतायाम् राजनि०।
निबन्ध = पु० नि + बन्ध–घञ्। १ काश्चविशेषे देयावेन प्रतिश्रुते वस्तुनि “दद्यात् भूमिं निबन्धं वा कृत्वा लेख्यञ्च लेखयेत्” “निबन्धो द्रव्यमेव वा” याज्ञ० २ संग्रहग्रन्थभेदे भूत्र- रोधरूपे ३ रोगभेदे ४ बन्धने च हेमच० “निबन्धायाऽऽसुरी मता” गीता। निबध्नाति कोष्ठम् अच्। ५ निम्बवृक्षे जटाध०। तत्सेवने हि कोष्ठरोधो भवति।
निबन्धन = न० निषध्यतेऽनेनात्र वा ल्युट्। १ हेतौ हेमच०। २ वीणायास्तन्त्रीनिबन्धनोर्द्धभागे च अमरः। भावे ल्युट्। ३ बन्धने ४ ग्रन्थेच “अनुत्सूत्रपदत्वासा सदृत्तिः सन्निबन्धना” माधः। ततः ऋश्यादि० चतुरर्थ्यां क। निबन्धनक तत्समीपस्थदेशादौ त्रि०। निबध्यते अनया करणे ल्युट्। ५ निबन्धसाधने स्त्रियां ङीप्। “विषय वती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी” पात० सू०
निब(व)र्हण = न० नि + (व)वर्ह–ल्युट्। मारणे “निबर्हलं धर्मधनैर्विगर्हितं विशिष्य विश्वासजुषां द्विषामपि” नैब०। अन्तस्थवमध्यमित्येके
निभ = त्रि० नि + भा–क। १ नितरां भासमाने २ सदृशे च सादृश्येऽस्य नित्यस० न पृथक् प्रयोगः। “प्रफुल्लतापिञ्छनिभैरभीषुभिः” “मुखेन पूर्णेन्ढुनिभस्त्रिलोचना” माघः “प्रकृत्यन्यो निभाद्यन्थः स वा प्रत्यस उच्यते” शब्दश०।
निभालन = न० नि + चु–भल–निरूपणे भावे ल्युट्। दर्शने त्रिका०।
निभूत = त्रि० निश्चलं भूतः। अत्यन्तभीते राजनि०। अत्यन्तभयेन हि निश्वलं भवतीति तस्य तथात्वम्।
निभूयप = पु० निभूय नितरां भूत्वा मत्स्यादिरूपेणावतीर्य्य पाति पा–क। विष्णौ “विष्णवे निभूयपाय स्वाहा” वजु० २२। २०।
निभृत = त्रि० नि + भृ–क्त। १ धृते २ विनीते ३ निलले ४ एकाग्रे ५ गुप्ते ६ निर्जने अस्तायोपस्थिते च शर्ब्दार्थचि० “नमसा निभृतेन्दुना तुलाम्” रघुः “मधुकराङ्गनया मुहुरुन्मदध्यनिभृता निभृताक्षरमुज्जमे” माघः।
***