नाथ = दवे (उपतापे) प० आशिषि आत्म० ऐश्येऽर्थने च पर० भ्वा० मक० सेट् नाथति दुनोति ईष्टे याचते इत्यर्थः नाथते आशंसते इत्यर्थः। अनाथीत् अनाथिष्ट। ननाथथे ऋदित् अननाथत्। नाथः। अणोपदेशत्वात् सति निमित्ते म णत्वम् प्रनाथति। याचने “सन्तुष्टमिष्टानि तमिष्टदेतं नाथन्ति के नाम न लोकनाथम्” नैष० “आशिषि नाथः” पा० आशीर्वादे एवात्मनेपदविधानात् उपतापयाचनादौ परस्यैपदित्वम् अतएव काव्यप्र० “दीनं त्वामनुनाथते कुचयुगम्” इति च्युतसंस्कृतिदोषे उदाहृत्योक्तं यथा अत्र अनुनाथते इति। सर्पिषो नाथते इत्यादावशिष्येव नाथतेरात्मनेपदं विहितम्। “आशिषि नाथः” इति सू० अत्र तु याधनमर्थः तस्मात् “दीनं त्वामनुनाथति स्तनयुगमिति” पठनीयम्।
नाथ = पु० नाथ ऐश्ये अच्। स्वामिनि ईश्वरे हेमच०। “अनर्घ्यमर्घ्येण तमद्रि नाथः” कुमा० “त्रिलोकनाथेन सतां मथद्विषः” रघुः।
नाथवत् = त्रि० नाथ + अस्त्यर्थे मतुप् मस्य वः। पराधीने अमरः स्त्रियां ङीप्। “विष्णुना श्रीरिवेन्द्रेण भर्त्त्रा नाथवती सती” रामा० सुन्द० ३७ अ० “याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन्” भा० मौ० ५ अ०
नाथहरि = पु० नाथं हरति स्थानान्तरं नयति ह्व–इन्। पशौ सि० कौ०।
नाद = पु० नद–घञ्। १ शब्दे अमरः। २ अनुस्वारवदुचार्य्ये अर्द्धचन्द्राकृतिवर्णभेदे ३ ब्रह्मस्वरूपघोषभेदे वर्णविशेषव्यञ्जके वाह्यप्रयत्नभेदे “कण्टमन्ये तु घोषाः स्युः संवृता नादमागिनः” पा० शिक्षा “सच्चिदानन्दविभवात् सकलात् षरमेश्वरात्। आसीच्छक्तिस्ततो नादस्तस्माद्विन्दुसमु- द्भवः। नादो विन्दुश्च वीजञ्च सएव त्रिविधो मतः। भिद्यमानात् पराद्विन्दोरुभयात्मारवोऽभवत्। स रवः श्रुतिसम्पन्नः शब्द ब्रह्माऽभवत् परम्” शार० ति०। “तत्र सत्वप्रविष्टा चित् शक्तिशब्दवाच्या परमाकाशावस्था सैव सत्वप्रविष्टा रजोऽनुविद्धा नादशब्दवाच्या अव्यक्तावस्था” पदार्थदर्शः। “नाभेरूर्द्धं हृदि स्थानान् मारुतः प्राणसंज्ञकः। नदति ब्रह्मरन्ध्रन्ते तेन नादः प्रकीर्त्तितः” “आकाशाग्निमरुज्जातो नाभेरूर्द्ध्वं समुच्चरन्। मुखेऽतिव्यक्तमायाति यः स नाद इतीरितः। स च प्राणिभवोऽप्राणिभवश्चोभयसम्भवः। आद्यः कायभवो वीणादिभवस्तु द्वितीयकः। तृतीयोऽपि च वंशादिभव इत्थं त्रिधा मतः। यदुक्तं ब्रह्मणः स्थानं व्रह्मग्रन्थिश्च यो मतः। तन्मध्ये संस्थितः प्राणः प्राणाद्वह्निसमुद्भवः। वह्निमारुतसंयोगान्नादः समुपजायते। न नादेन विना गीतं न नादेन विना स्वरः। न नादेन विना रागस्तस्मान्नादात्मकं जगत्। न नादेन विना ज्ञानं न नादेन विना शिवः। नादं रूपं परं ज्योतिर्नादरूपी परं हरिः” सङ्गीतदा० ५ स्तीतरि निघण्टुः। ६ शब्दाभिव्यञ्जके कर्णशष्कुलीसंयोगविभागे शवरस्वामी “नादवृद्धिपरा” जै० १। १। १७ सू० “यच्चैतत् बहुभिर्भेरीभाधमद्भिः शब्दमुच्चारयद्भिर्महान् शब्दः उपलभ्यते। तेन प्रतिपुरुषं शब्दावयवप्रचय इति गम्यते नैवं निरवयवोहि शब्दः अवयवभेदानवगमात् निरवयवत्वाच्च महत्त्वानुपपत्तिः अतो न वर्द्धते शब्दः। कर्णशष्कुलीमण्डलस्य सर्वां नेमिं व्याप्नुवद्भिः संयोगविभागैर्नैरन्तर्येण अनेकशोग्रहणात् महान् इव अवयववान् इवोपलभ्यते, संयोगविभागाः नैरन्तर्य्येण क्रियमाणाः शब्दमभिव्यञ्जयन्तो नादशब्दवाच्याः। तेन नादस्यैषक वृद्धिः न शब्दस्येति” शवरभा०।
नादमुद्रा = स्त्री “मुष्टिरूर्द्धीकृताङ्गुष्ठा दक्षिणा नादमुद्रिकाः” तन्त्रसारोक्ते मुद्राभेदे।
नादवत् = पु० नादो वाह्यप्रयत्नभेद उजारणे साधनतयाऽस्त्यस्य मतुप् मस्य वः। १ नादरूपबाह्यप्रयत्नोच्चार्य्यवर्ग्य द्वितीयवर्णादौ “घोषवतो नादवतो महाप्राणस्य” सि० कौ० २ शब्दयुक्ते च।
नादविन्दु = पु० उपनिषद्भेदे १ उपनिषच्छब्दे पृ० दृश्यम्। २ वर्णभेदे च।
नादिन् = त्रि० नद–णिनि। १ शब्दकारिणि स्त्रियां ङिप्। “प्रमथ्यमनावर्णवधीरनादिनी” रघुः कालञ्जरे गिणौ जातेषु जातिस्मरेषु सप्तसु मृगेषु सप्तमे २ मृगे पु०। गुरोर्गां हत्वा पितृश्राद्धं कृतवतां गर्गशिष्याणां व्याधादि जन्मप्राप्ति कथा हविवं० २१ अ० दृश्या। तेषां दशार्णे व्याधजन्मानन्तरं कालञ्जरे गिरौ मृगजन्मप्राप्तानां संज्ञा यथा “उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः। पण्डितो घस्मरो नादी नामतस्तेऽभवन्मृगाः”। ३ नादयुक्ते त्रि०
नादेय = त्रि० नद्या इदं तत्र भवो वा नद्या नदस्य वा ढक्। १ नद्याः सम्बन्धिनि २ तत्र भवे च “नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम्। नादेयमुदकं रूक्षं वातलं लघु दीपनम्। अनभिष्यन्धि विशदं कटुकं कफपित्तनुत्” भावप्र०। ३ सैन्धवलवणे न० रत्नमा०। ४ सौवीराञ्जने न० राजनि०। ५ काशतृणे ६ वानीरवृक्षे पु० राजनि०। ७ अम्बुवेतसे ८ भूमिजम्बूकायां ९ वैजयन्तिकायां स्त्री ङीप् अमरः। १० नागरङ्गजम्ब्वां ११ व्यङ्गुष्ठे स्त्री ङीप् मेदिनो। १२ अग्निमन्थरवृक्षे १३ काकजम्बूवृक्षे च स्त्री राजनि०। न आदेयम् अदेयं वा १४ अग्राह्ये १५ देये च त्रि० “नादेयं नादेयं शरदि वसन्ते च नादेयम्” वैद्यकम् शरदि नादेयं न ग्राह्यमित्यर्थः। वसन्ते तु न अदेयं देयमित्यर्थः।
नादेश्वर = न० काशीस्थे शिवलिङ्गभेदे “नादेश्वरं समभ्यर्च्य कैः कैर्णापि सुचिन्तितम्। तस्मात् काश्यां प्रयत्नेन सेव्यो नादेश्वरो नृभिः” काशीख० ३२ अ०।
नाद्य = त्रि० नद्यां भवः “नद्यादिभ्योढकं वाचित्वा “पाथो नदीभ्यां ड्यण्” पा० वेदे ड्यण्। नदीभवे “चलोदधीत नाद्यो गिरोमे” ऋ० २। ३५। १ “याश्च कूया याश्च नाद्याः समुद्रिया आपः” तैत्ति० ३। १। २। ४
नाध = नाथार्थे भ्वा० आ० सक० सेट्। नाधते अनाधिष्ट ननाधे ऋदित् चङि अननाघत् त। अयं णोपदेशोऽपीत्यन्ये तेन सति निमित्ते णत्वम्। कविकल्पद्रुमेऽस्योभयथा कीर्त्तनादस्य उभयविघत्वम् “रोदसी नाधसी वृतौ” ऋ० १०। ६५। ५ “णाधृ याच्ञौतापैश्वर्य्यादौ नाधसी याचमाने” भा०।
नाना = अव्य० न + नाञ्। २ विनार्थे “नाना नारीर्निष्फला लोक यात्रा” न नाना शम्भुना रामात्” मुग्धबोधम्। २ अनेकार्थे “नानाविध देहभृतां समाजम्” “मृत्योः स नृत्युमाप्नोति यैह नानेव पश्यति” श्रुतिः “बह्वोषु चेकजातानां नानास्त्रीषु निबोधत”। “प्रकाशरक्षकास्त्रेषां नानापण्योपजीविनाम्” मनुः।
नानाकन्द = पु० नाना कन्दोऽस्य। १ पिण्डालौ राजनि०। २ बहुमूलयुक्ते त्रि०।
नानाध्वनि = पु० ६ त०। काहलवीणादिशब्दे हारा०।
नानान्द्र = पु० ननान्दुरपत्यम् विदा० अञ्। ननान्दुरपत्ये ततः यूनि हरिता० फक्। नानान्द्रायण ननान्दुर्यून्यपत्ये।
नानारूप = न० कर्म०। १ बहुविधे रूपे “नानारूपवती मता” भाषा० नाना रूपाणि यस्य। २ बहुप्रकारे त्रि० “नानारूपाणि जायन्ते वीजानीह स्वभावतः” मनुः।
नानार्थ = त्रि० नाना अर्था यस्य। १ अनेकार्थे अक्षादिशब्दे “नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्त्तिताः” अमरः नानार्थशब्दानाञ्च यत्र शक्यतावच्छेदकतायां लाघवं तत्र शक्तिः बहूनां लाधवे निगमनाविरहेण सर्वत्रैव शक्तिः अन्यत्र लक्षणा। तत्रापि अनेकाथेस्य शब्दस्य सर्वत्र वृत्तिसाम्येन सर्वेषां पदार्थानां युगपदुपस्थितावपि संयोगादिना कस्यचिदर्थस्य शाब्दबोध इत्येकेषान्मतम् अन्यार्थोपस्थितावेव संयोगादेः प्रतिवन्धकत्वमित्यन्ये। तदेत् रसगङ्गाधरे व्यवस्थापितम्। अधिकं अनेकार्थशब्दे १९३ पृ० दृश्यम्। २ नानाप्रयोजनयुक्ते त्रि० कर्म०। ३ बहुप्रयोजने पु०।
नानावर्ण = त्रि० नानावर्णा रूपाणि यस्य। चित्रवर्णयुक्ते “उल्का मन्त्रिविनाशं नानाषर्णघनाश्च भयमतुलम्” वृह० सं० ५ अ०। कर्म०। २ ब्राह्मणादिवर्णचतुष्टये च।
नानाविध = त्रि० नाना विधाः प्रकारा अस्य। बहुप्रकारे “नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः” सां० का० “नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम्” मनुः
नान्तरीयक = न० न अन्तरा विना भवः अन्तरा + छ अव्ययस्य टिलोपः ततः स्वार्थे क। अविनाभूते तदभावे तदभावरूपव्याप्तियुते “अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्चते” कारिकाव्या० “अनिभावः सम्बन्धमात्रं न तु नान्तरीयकत्वम्” काव्यप्र०। व्याकृतञ्चेदं महेश्वरेण “नान्तरीयकत्वं तदभावे तदभावरूपा व्याप्तिः”। “प्रतिबन्ध काभावे नान्तरीयका अर्थोत्पत्तिः” नव्यन्यायवादार्थः।
नान्त्र = न० नम–ष्ट्रन् वृद्धिश्च। स्तोत्रे उणादिकोषः। संक्षिप्तसारे नान्त्रमित्येव पाठः शब्दकल्पद्रुमे नान्तेति पाठकल्पनम् लिपिकरप्रमादपाठमालोक्येति बोध्यम्।
नान्दिकर = पु० नान्दीं करोति कृ–ट ६ त० “ङ्यापोः संज्ञा छन्दसीः” पा० ह्रस्वः। नाटके नान्दीपाठकरे सूत्रधारे
नान्दी = स्त्री नन्दन्ति देवा अत्र नन्द–घञ् पृषो० वृद्भिः ङीप्। १ समृद्धा २ नाटकस्यादौ मङ्गलार्थे पाठ्ये श्लोकादौ “आशिर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रवर्त्तते। देवद्विजनृपादीनां तस्मान्नान्दीति सा स्मृता”। नाटके विघ्नविघातायादौ नान्दी कार्य्या यदाह भरतः “यद्यप्यङ्गानि भूयासि पूर्वरङ्गस्य नाटके। तथाप्यवश्यं कर्त्तव्या नान्दी विघ्नोप्रशान्तये। देवद्विजनृपादीनामाशीर्वादपरायणा। नन्दन्ति देवतायस्मात्तस्मान्नान्दी प्रकीर्त्तिता” अन्यच्च “देवद्विजनृपादीनामाशीर्वचनपूर्विका। नान्दी कार्य्या बुधैर्यत्नान्नमस्कारेण संयुता। गङ्गा नागपतिः सीमः सुधानन्दाजयाशिषः। एभिर्नामपदैःकार्य्या नान्दी धाराभिरङ्किता। प्रशस्तपदविन्यासा चन्द्रसङ्कीर्त्तनान्विता। आशीर्वादपरा नान्दी योज्येयं मङ्गलात्मिका। काचिद्दशपदा नान्दी काचिदष्टपदा तथा। सूत्रधारः पठेन्नान्दीं मध्यमस्वरमाश्रितः”। सा० द० अन्यथा उक्तं यथा “यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वङ्गः स उच्यते। प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्यपि। तथाप्यवश्यं कर्त्तव्या नान्दी विघ्नोपशान्तये” “आशीर्वचनसंयुक्ता नित्यं यस्मात् प्रयुज्यते। देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता। मङ्गल्यशङ्खचन्द्राब्जकोककैरवशंसिनी। पदैर्युक्ता द्वादशभिरष्टाभिर्वा पदैरुत”। अष्टपदा यथा। अनर्घ्यराघवे “निष्प्रत्यूहमित्यादि” द्वादशपदा यथा मम तातपादानां पुष्पमालायाम्। “शिरसिधृतसुरापगे स्मरारावरुणमुखे न्दुरुचिर्गिरीन्द्रपुत्री। अथ चरणयुगानते स्वकान्ते स्मितसरसा भवतोऽस्तु भूतिहेतुः”। एवमन्यत्र। “एतन्नान्दीति” कस्यचिन्मतानुसारेणोक्तम्। वस्तुतस्तु “पूर्वरङ्गस्य रङ्गद्वाराभिधानमङ्गमिति” उच्यते। यदुक्तम्। “यस्मादभिनयो ह्यत्र प्राथम्यादवतार्य्यते। रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकमिति” उक्तप्रकारायाश्च नान्द्या रङ्गद्वारात् प्रथमं नटैरेव कर्त्तत्यतया न महर्षिणा निर्देशः कृतः। कालिदासादिमहाकविप्रबन्धेषु च “वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः। अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः” एवमादिषु नन्दीलक्षणायोगात्। उक्तञ्च “रङ्गद्वारमारभ्य कविः कुर्य्यादिति”। अतएव प्राक्तनपुस्तकेषु “नान्द्यन्ते सूत्रधार” इत्यनन्तरमेव “वेदान्तेष्वित्यादि” श्लोकलिखतं दृश्यते। यच्च पश्चात् “नान्द्यन्ते सूत्रधार” इति लिखनं तस्यायमभिप्रायः “नान्द्यन्ते सूत्रधार इदं प्रयोजितवान् इतः प्रभृति मया नाटकमुपादीयते इति कवेरभिप्रायः सूचितः इति”। वृद्धौ “ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते” इति ब्रह्मपुराणम् “नान्दीमुखे विवाहे च प्रपितामहपूर्वकम्” इति सम्बन्धविवेकपरिशिष्टधृतवचनम्। “नान्दीमुखे पुत्रादिसमृद्धिसाधनरूपे विवाहे विशेषणं तु विवाहादेः पुत्रादिलाभविशेषज्ञापनाय नान्दीमुखपदस्य श्राद्धपरत्वे अनेकवचनप्राप्तपितृपूर्वकाभिलापस्य बाधापत्तेः” सं० त० रघुनन्दनः।
नान्दीक = पु० नान्द्यै कायति कै–क। १ तोरणस्तम्भे त्रिका० २ नान्दीमुखश्राद्धे नान्दीमुखशब्दे दृश्यम्।
नान्दीकर = त्रि० ६ त०। १ नान्दीश्लोकादिपाठकरे २ नान्दीवादिनि च अमरः।
नान्दी(न्दि)घोष = पु० नान्द्यै घोषः वा ह्रस्वः। भेर्यादिशब्दे
नान्दीपट = पु० नान्द्याः वृद्ध्यर्थः पटः। कूपादिमुखबन्धनवस्त्रे वीनाहे हेमच०।
नान्दीपुर = न० नान्द्यै पूः अच्समा०। अप्राक्स्थे पुरभेदे ततः पुरान्तत्वात् भवाद्यर्थे वुञ्। नान्दीपुरक तत्र भवे त्रि०।
नान्दीमुख = न० नान्द्या वृद्धेर्मुखम्। १ वृद्धिश्राद्धे श्राद्धभेदे नान्द्यै मुखं यस्य। २ पित्रादौ ३ मात्रादौ स्त्री ङीष्। जीवत्पित्रादित्रिकस्य ४ वृद्धप्रपितामहादौ च ६ त०। ५ समृद्धेः साधने विवाहादौ “नान्दीमुखे विवाहे च” नान्दीशब्ददर्शितवाक्ये स० त० लिखनं दृश्यम्। अथ नान्दीश्राद्धाधिकारस्वरूपादि निर्ण० सि० दर्शितं यथा अथ वृद्धिश्राद्धम् तन्निमित्तं पृथ्वीचन्द्रोदये ब्राह्मे “जन्मन्यथोपनयने विवाहे पुत्रकन्ययोः। पितॄन्नान्दी मुखान्नाम तर्पयेद्विधिपूर्वकम्। देवव्रतेषु चाधानयज्ञपुंसवनेषु च। नवान्नभोजने स्नाने ऊढायाः प्रथमार्तवे। देवारामतडागादिप्रतिष्ठासूत्सवेषु च। राजाभिषेके बालान्नभोजने वृद्धिसंज्ञकान्। वनस्थाद्याश्रमं गच्छन् पूर्वेद्युः सद्य एव वा। पितॄन् पूर्वोक्तविधिना तर्पयेत् कर्मसिद्धये” विष्णुपुराणे “यज्ञोद्वाहप्रतिष्ठासु मेखलावन्धमोक्षयोः। पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत्” तत्रैव “नामकर्मणि बालानां चूडाकर्मादिके तथा” इत्युक्तेर्निष्क्रमान्नप्राशनयोर्न श्राद्धमिति मैथिलाः तन्न पूर्वोक्तबिरोधात् नानिष्ट्वेति विरोधात् “सुतोत्पत्तौ तथा श्राद्धे अन्नप्राशनिके तथा” इति राजमार्त्तण्डाच्च बहुह्वृचकारिकायाम् “आद्याभ्युदयिकं श्राद्धं वृद्धिपूर्त्तेषु कर्मसु। पुंसःसवनसीमन्तलोकोपनयनेष्विह। विवाहे चानलाधेयप्रभृतिश्रौतकर्मणि। इदं श्राद्धं प्रकुर्वन्ति द्विजा वृद्धिनिमित्तकम्। अन्यैः षोडशसंस्कारश्रावण्यादिष्वपीष्यते। वाप्याद्युद्यापनादौ तु कुर्युः पूर्त्तनिमित्तकम्”। वोपदेवकालदर्शौ “सीमन्तव्रतचौलनामकरणान्नप्राशनोपायनस्नानाधानविवाहयज्ञतनयोत्पत्तिप्रतिष्ठासु च। पुंसूत्यावसथप्रवेशनसुताद्यास्यावलोकाश्रमस्वीकारक्षितिपाभिषेकदयिताद्यर्त्तौ च नान्दीमुखम्” यत्तु कामधेनौ “जलाशयप्रतिष्ठायां वृषोत्सर्गादिकर्मसु। वत्सराभ्यन्तरे पित्रोर्वृषस्योत्सर्गकर्मणि। वृद्धिश्राद्धं न कुर्वीत तदन्यत्र समाचरेत्” इति तत्र जलाशये वृद्धिश्राद्धस्य निषेधो न तु कर्माङ्गस्येति केचित्। अन्ये त्वस्य निर्मूलतामाहुः। श्राद्धकौमुद्यां निर्णयामृते च मात्स्ये “अन्नप्राशे च सीमन्ते पुत्रोत्पत्तिनिमित्तके। पुंसवे च निषेके च नववेश्म प्रवेशने। देववृक्षजलादीनां प्रतिष्ठायां विशेषतः। तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्तितम्”। इदं चावश्यकं “वृद्धौ न तर्पिता ये वै पितरो गृहमेधिभिः। तद्धीनमफलं ज्ञेयमासुरो विधिरेव सः” इति शातातपोक्तेः। अत्र श्राद्धत्रयं पराशर आह “मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम्। ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम्”। तत्कालमाह पृथ्वीचन्द्रोदये गार्ग्यः “मातृश्राद्धं तु पूर्वेद्युः कर्माहनि तु पैतृकम्। मातामहं चोत्तरेद्युर्वृद्धौ श्राद्धत्रयं स्मृतम्”। अत्राप्यशक्तौ स एव “पृथक् दिनेष्वशक्तश्चेदेकस्मिन् पूर्ववासरे। श्राद्धत्रयं प्रकुर्वीत वैश्वदेवं तु तान्त्रिकमिति” वृद्धमनुरपि “अलाभे भिन्नकालानां नान्दीश्राद्धत्रयं बुधः। पूर्वेद्युर्वे प्रकुर्वीत पूर्वाह्णे मातृपूर्वकम्”। अत्र “महत्सु पूर्वेद्युस्तदहरल्पेष्विति” गृह्यपरिशिष्टाद्यवस्था ज्ञेया। तच्च प्रातरेव“पार्वणं चापराह्णे तु प्रातर्वृद्धिंनिमित्तकमिति” शाता तपोक्तेः अत्र प्रातः शब्दः सार्द्धप्रहरषरः “प्रहरोऽप्यर्धसंयुक्तः प्रातरित्यभिधीयतै” इति गार्ग्योक्तेरिति पृथ्वीचन्द्रः। इदं च पुत्रजन्मातिरिक्तविषयम्। तदाहात्रिः “पूर्वाह्णे वै भवेद्वृद्धिर्विना जन्मनिमित्तकम्। पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः” इति एतदनियतनिमित्त परम् “नियतेषु निमित्तेषु प्रातर्वृद्धिनिमित्तकम्। तेपामतियतत्वे तु तदानन्तर्य्यमिष्यंते” इति लौगाक्षि स्मृतेः। आधानाङ्गं नान्दीश्राद्धं त्वपराह्णएव “आमश्राद्धं तु पूर्वाह्णे सिद्धान्नेन तु मध्यतः। पार्वणं वाऽपराह्णे तु वृद्धिश्राद्धं तथाग्निकम्” इति निर्णयामृते गालवोक्तेः “नान्दीमुखाह्वयं प्रातराव्दिकं त्वपराह्णतः” इति विष्णूक्तेश्च। इदं च मातृपितृमातामहादिक्रमेण नवदैवत्यं कार्य्यम्। तत्र मातामहाः सपत्नीकाः “वृद्धप्रमातामहप्रमातामहमातामहानां सपत्नीकानामिति” पृथ्वीचन्द्रोदये गारुडे गठ्यरूपेण पाठात्। हेमाद्रौ शङ्खः “नान्दीमुखे सत्यवसू संकीर्त्यौ वैश्वदेविके” वृद्धपराशरः “नान्दीमुखेभ्यो देवेभ्यः प्रदक्षिणकुशासनम्। पितृभ्यस्तन्मुखेभ्यश्च प्रदक्षिणमिति स्मृतिः” यत्तु वृद्धवसिष्ठः “नान्दीमुखे विवाहे च प्रपितामहपूर्वकम्। नामसंकीर्त्तयेद्विद्वानन्यत्र पितृपूर्वकम्”। यच्च स्मृत्यर्थसारे “वृद्धसुरव्यास्तु पितरो वृद्धिश्राद्धेषु भुञ्जते”। इति यच्च गारुडे व्युत्क्रमप्रतिपादनं तच्च शाखान्तरविषयम्। “पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः” इति बह्वृचपरिशिष्टे कात्यायनेन चानुलोम्याम्नानात् पृथ्वीचन्द्रोदयेऽप्येवम्। यत्तु केचित् वृद्धिपदं पित्रादिषु प्रयुञ्जते तन्न “अनस्मद्वृद्धशब्दानामरूपाणामगोत्रिणाम्। अनाम्नामतिलाद्यैश्च नान्दीश्चाद्धं तु सत्यवदिति” पृथ्वीचन्द्रोदये संग्रहोक्तेः न च निषेधादेव विधिः कल्प्यत इति वाच्यं प्रोष्ठपदीश्राद्धे प्रपितामहात् परेषां वृद्धपित्रादीनां देवतात्वान्नान्दीश्राद्धत्वसाभ्येनेहापि तत्प्राप्तौ निषेधात् गोत्रनामादिनिषेधस्तु “शुभार्थी प्रथमान्तेन वृद्धौ संकल्पमाचरेत्” इत्युपक्रम्यानस्मद्वृद्धशब्दानामित्युक्तेः संकल्पश्रद्धपरः सपिण्डके तु सर्वं भवतीति प्रयोगपारिजातः। “गोत्रनामभिरामन्त्र्य पितृभ्योऽर्घ्यं प्रदापयेदिति” छन्दोगपरिशिष्टे तद्विधानात् यत्तु ब्राह्मे “पिता पितामहश्चैव तथैव प्रपितामहः। त्रयो ह्यश्रुमुखा ह्येते पितरः परिकीर्त्तिताः। तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखै घिताः। ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते” इति यच्च मार्कण्डेयपुराणे “ये प्रपितामहादूर्द्धं ते तु नान्दीसुखाः स्मृताः” इति तज्जीवत्पित्रादित्रिककर्तृकवृद्धिश्राद्धविषयम्। तेन तस्येदमावश्यकम्। यत्तु विष्णुः “पितरि पितामहे प्रपितामहे च जीवति नैव कुर्य्यादिति” तद्दर्शादिविषयमिति कल्पतरुः। मदनपारिजातोऽप्येवम्। हेमाद्रिस्तु “नान्दीमुखानां श्राद्धं तु कन्याराशिगते रवौ। पौर्णमास्यां तु कर्त्तव्यं वराह- वचनं यथेति” प्रोष्ठपदीश्राद्धैकवाक्यत्वात् तत्रैव पूर्वेषां देवतात्वमित्याह। अत्र सत्यवसू विश्वे देवावित्युक्तं प्राग्वत्। यत्तु शातातपः “मातुः श्राद्धं तु युग्मैः स्याददैवं प्राङ्मुखैः पृथगिति” तद्भिन्नप्रयोगमातृशाद्धपरम्। यच्च मार्कण्डेयपुराणे “विश्वदेवविहीनं तु केचिदिच्छन्ति मानवाः” इति तद्भिन्नप्रयोगमातृश्राद्धे विश्वदेवविकल्पार्थं प्रयोगैक्ये तु देवनियम इति हेमाद्रिः। एतच्च मातृपूजापूर्वकं कार्यम्। “अकृत्वा मातृयागं तु यः श्रद्धं परिवेषयेत्। तस्य क्रोधतमाविष्टा हिंसामिच्छन्ति मातरः” इति शातातपोक्तेः कौर्मेऽपि “पुष्पैर्धूपैः सनैवेद्यैर्गन्धाद्यैर्मूषणैरपि। पूजयित्वा मातृगणं कुर्य्याच्छ्राद्धत्रयं बुधः” इति छन्दोगपरिशिष्टे “कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः। पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः” प्रतिमासु च शुद्धासु लिखिता वा पटादिषु अपि वाऽक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः। कुड्यलम्नां वसोर्धारां सप्तधारां घृतेन तु। कारयेत् पञ्चधारां वा नातिनीचां न चोच्छ्रिताम्। आयुष्याणि च शान्त्यर्थं जत्वा तत्र समाहितः। षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्”। अत्र सर्वेष्विति ग्रहणात् ग्रहयज्ञ तद्विकारेष्वपि नित्यं श्राद्धम्। “नानिष्ट्वा तु पितॄन् श्राद्धे कर्म किञ्चित् समाचरेदिति” शातातपोक्तेः। इयं च वसोर्धारा तच्छाखीयानां नियतान्येषां त्वनियता। बह्वल्पं वा स्वगृह्योक्तमित्युक्तेः करणे त्वभ्युदयः “यन्नाम्रातं स्वशाखायाम्” इत्युक्तेः आयुष्याणि “आनी भद्रा इत्यादीनि। षड्भ्य इति मात्रादित्रिकोपलक्षणमिति पृथ्वीचन्द्रोदयः। छन्दोगानां षड्दैवत्यमन्वेषां नवदैवत्यमित्याशार्कः। मम तु मतं कोकिलमतानुसारिणां मातृमातामहीप्रमातामही इति मात्रा सहैव मातामहश्राद्धकरणात् तद्विषयमिदं षड्भ्य इति। मातरस्तु तत्रैवोक्ताः “गौरी पद्मा शची मेघा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः।”
चन्द्रिकायां चतुर्विंशतिमते त्वन्या उक्ताः “तिस्रः पूज्याः पितुः पक्षे तिस्नो मातामहे तथा। इत्येता मातरः प्रोक्ताः पितुर्मातुः स्वसाऽष्टमी” आसां जीवने प्रत्यक्षपूजनम्। मृतानां त्वक्षतपुञ्जेष्विति हेमाद्रिः “ब्रह्मण्याद्यास्तथा सप्त दुर्गाक्षेत्रगणाधिपान्। वृड्यादौ पूजयित्वा तु पश्चान्नान्दीमुखान् पितृन्। मातृपूर्वान् पितृन् पूज्य ततो मातामहानपि। मातामहीस्ततः केचिद्युग्मा भोज्याद्विजातयः” इति। अत्र द्वादशदैवतस्य देशाचाराद्व्यवस्था। ब्रह्मण्याद्यान्तु “ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः” इत्यपरार्के उक्ताः। अत्र चौलादीनां यौगपद्ये तन्त्रतोक्ता छन्दोगपरिशिष्टे “गणशः क्रियमाणानां मातृभ्यः पूजनं सकृत्। सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु” मातृभ्य इति षष्ट्यर्थे चतुर्थी। गणशः एकानेकपुत्राणां संस्कारेष्वेकदिने एकदेशकालकर्त्रैक्यादित्यर्थः। तथा “असकृद्यानि कर्माणि क्रियेरन् कर्मकारिभिः। प्रतिप्रयोगं नैव स्युर्मातरः सगणाधिपाः” कर्मावृत्तावपि कुत्र श्राद्धं कार्यं क्वच नेत्युक्तं तत्रैव “आधाने होमयोश्चैव वैश्वदेवे तथैव च। बलिकर्मणि दर्शे च पूर्णमासे तथैव च। नवयज्ञे च यज्ञाज्ञा वदन्त्येवं मनीषिणः। एकमेव भवेच्छ्राद्धमेतेषु न पृथक पृथक्” एतेषु प्रतिप्रयोगं नावर्त्तते किन्त्वादौ, एतद्भिन्न सोमयागादौ प्रतिप्रयोगमावर्त्तते एव श्राद्धमित्यर्थः। क्वचिदादावपि निषेधमाह स एव “नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते। न सोष्यन्तीजातकर्मप्रोषितामतकर्मसु”। “विवाहादिः कर्मगणीय उक्तो गर्भाधानं शुश्रुमो यस्य चान्ते। विवाहादावेकमेवात्र कुर्य्याच्छ्राद्धं नादौ कर्मणः कर्मणः स्यात्”। सोष्यन्त्या आसन्नप्रसवायाः “सोष्य न्तीमभ्युक्ष्येत्युक्तं कर्म। कात्यायनोक्तस्य श्राद्धस्य पाकस्य प्राधान्यात्तस्य च “जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्मणेष्वपीति” निषेधान्न जातकर्मणि नान्दीश्राद्धमित्याशार्कः “आमान्नेन वा कार्यमित्यपि” तेनैवोक्तम्। गौडास्तु जातकर्मण्येव निषेधः पुत्रजन्मनिमित्तकं तु कार्यमेव “जन्मव्यथोपनयने” इत्युक्तेः “नैमित्तिकमथो वक्ष्ये श्राद्धमभ्युदयात्मकम्। पुत्रजन्मनि तत्कार्यं जातकर्मसमं नरैरिति” मार्कण्डेयपुराणाच्चेत्याहुः। हारलतायां श्राद्धविवेके चैवम्। एतेन जातकर्मणि कालान्तरे श्राद्धनिषेधो न पुत्रजन्मदिने इति वाचस्मतिमतं परास्तम्। अत्र निषेककाले इति वचनात् गर्भाधाने न निषेधः “निषेककाले सोमे च सीमन्तोन्नयने तथा। ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं विधिववत्कृतम्” इति पारस्करः। प्रोषितेति “प्रोष्यैत्य गृहानुपतिष्ठते पुत्रं दृष्ट्वा जपतीति” विहितं कर्म विवाहादिगर्भाधानान्तो यो गृहप्रवेशचतुर्थीकर्मादिकर्मसमूह उक्तः सूत्रकारेण तत्रापि प्रतिकर्म नेत्यर्थः। अन्येऽपि हलामियोगादयोऽपवादविषयास्वत्रैक ज्ञेवास्ते अप्रचारान्नोच्यन्ते। अत्राधिकारिणः विष्णुपुराणे “जातस्य जातकर्मादि क्रियाकाण्डमशेषतः। पिता पुत्रस्य कुर्वीत श्रद्धं चाभ्युदयात्मकम्”। अत्र केचित् जीवत्पिवृक साग्नेरेव वृद्धिश्राद्धेऽधिकारः न तु निरग्नेः “न जीवत्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः। येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः। पितामहेऽप्येवमेव कुर्याज्जीवति साग्निकः। साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे” इति चन्द्रिकायां सुमन्तूक्तेरित्याहुः प्रयोगपरिजातेऽप्यनाहिताग्निर्न कुर्यादितीदं व्याख्यातम्। तन्न “अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि। येभ्यएव पिता दद्यात्तानेवोद्दिश्य तर्पयेत्” इति हारीतोक्तेः सौमन्तवन्तु न वृद्धिश्राद्धपरमित्युक्तं मदनरत्ने आद्धपदं पिण्डपितृयज्ञपरमिति पृथ्वीचन्द्रोदयः। निर्णयामृते तु हारीतीयेऽनग्निको नाहिताग्निरमिप्रेतः पूर्ववचने तु साग्निः श्रौताग्निः स्मार्त्ताग्निश्चोच्यते तेनोभयाग्निहीनस्य नेत्युक्तं तन्न पूर्वोक्तदिशा गतिसम्भवेऽनग्निपदस्य स्मार्त्ताग्निपरत्वे मानामावात् वक्ष्यमाणनित्यानित्यसंयोगविरोघात् “पितरो जनकस्येज्या यावद्व्रतमनाहितम्। समाहितव्रतः पश्चात्स्वान् यजेत पितामहान्” इति पृय्यीचन्द्रोदये यमवचनविरोधाच्च अपरार्केऽपि समावर्त्तने ब्रह्मचारी स्वयमेव नान्दीश्राद्धं कृर्यादित्याह अतः पूर्वमेव साधु वोपदेवोऽप्येवमाह। यत्तुमतं जीवत्पितुः पुत्रनामकर्मादौ न वृद्धिश्राद्धम्। हारीतीये जन्मादावित्यादिशब्देन तत्प्राप्तावपि “उद्वाहे पुत्रजनने पित्रिष्ट्यां सौमिके मखे। तीर्थे व्राह्मण आयाते षडेते जीवतः पितुरिति” मैत्रपरिशिष्टे उद्वाह एव तस्योपसंहारात् एवं यत्र तु संस्कारादिपदं तदप्युद्वाहादिपरमेवेति, तन्न उद्वाहपदस्य स्वविवाहपरत्वस्यापि संभवात् पुत्रविवाहपरत्वे मानाभावात् “नामकर्भणि वालानां चूडाकर्मादिके तथा” इत्यादिमिर्नित्यश्राद्धस्य चौलाद्यङ्गत्वावगतौ नित्यानित्यसंवोगविरोधाच्च अतो जन्मादाविति सर्वसंस्कारसंग्रहः तथा च कात्यायंनः “स्वपितृम्यः पिता दद्यात् सुतसंस्कारकर्मसु। पिण्डानोद्वाहनात्तेषां तस्याभावे तु तत्क्रमात्”। सुतानां चौलादिसंस्कारेषु पिता स्वपितृभ्यः पिण्डान् श्राद्धम् “पिण्डदोऽंशहरश्चैछामिति” दर्शनात् ओद्वहनाद्विवाहपर्यन्तं दद्यात् विवाहश्च प्रथमः “नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे वचः। अत उर्द्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्” इति स्मृतेः तस्य पितुरमावे तत्क्रमात् “असंस्कतास्तु संस्कार्या भ्रातृमिः पूर्वसंस्कृतौ” इति यः कर्तृक्रमः तेन क्रमेण ज्येष्ठभ्रात्रादिर्दद्यादिति चन्द्रिकादयः हेमाद्रिस्तु “तस्य पितुरमावे यः पितृव्यमातुलादिः संस्कुर्यात्स तत्क्रमात् संस्कार्यपितृक्रमाद्दद्यात् न तु स्वपितृभ्य इति” व्याचख्यौ। समावर्त्तनस्यापि विवाहप्राचीन सुतसंस्कारत्वात्पितैव नान्दीश्राद्धं कुर्यात् तदमावे ज्येष्ठम्रात्रादि तदभावे स्वयमेव कुर्यात् उपनयनेन कर्माधिकारस्य जातत्वात् एवमाद्यविवाहेऽपीति पृथ्वीचन्द्रोदयचन्द्रिकादयः मदनरत्नेऽप्येवम्। यदा तु पितरि सन्यस्ते प्रोषिते पतिते वा घर्मार्थं तत्पुत्रमन्यः संस्कुर्यात्तदा संस्कार्यपितुः पित्रादिभ्यो दद्यात् “पितरोजनकस्येज्या यावद्व्रतमनाहितम्। समाहितव्रतः पश्चात् स्वान् यजेत पितामहान्” इति पृथ्वीचन्द्रोदये यमोक्तेः। जीवत्पितृकस्य विशेषमाह कात्यायनः “वृद्धौ तीर्थे च सन्न्यस्ते ताते च पतिते सति। येभ्यएव पिता दद्यात्तेभ्यो दद्यात् स्वयं सुतः” इति। यच्च बह्वृचपरिशिष्टे जीवत्पिता सुतसंस्कारेषु नातृमातामहयोः कुर्यात् तस्यां जीवन्त्यां मातामहस्यैवेति” तत्तच्छाखीयानामेवेति दिक्। स्मृतितत्त्वादिगौडग्रन्थेषु जीवन्मातृकः पितामह्यादिभ्यो दद्यात् “जीवन्तमति दद्याद्वा प्रेतायान्नोदके द्विजः” इति कात्यायनोक्तेः “जीवे तस्मिन् सुताः कुर्युः पितामह्यां सहैव तु। तस्यां चैव तु जीवन्त्यां तस्याः श्वश्र्वेति निश्चयः” इति हारीक्तेश्चेत्युक्तम्। तस्मिन् भर्त्तरि। दाक्षिणात्यास्तु पूर्वोक्तं सपिण्डीकरणादिविषयम् “जीवेत्तु यदि वर्गाद्यस्तं वर्गन्तु परित्यजेत्” इति वचनात्तद्वर्गस्य लोप एवेत्याहुः। यत्तु चन्द्रिकायां पारस्करः “निषेककाले सोमे च सीमन्तोन्नयगे तथा। ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवच्च तत्” इति तत्र गर्माघानादौ कर्माङ्गम् जातकर्मादावुक्तन्तु वृद्धिश्राद्धं पृथगेव विधिवत्यवधेयम्। गौडनिबन्धे मात्स्ये “अन्नप्राशे च सीमन्ते पुत्रोत्पत्तिनिमित्तके। पुंसवे च निषेके च नववेश्मप्रवेशने। बेदव्रतजलादीनां प्रतिष्ठायां तथैव च। तीर्थयात्रावृषोह्यर्गे वृद्धिश्राद्धं प्रकीर्त्तितम्” नाविनिषित्तानामङ्गत्वे वृद्धिशब्दस्तद्धर्मातिदेशार्थ इति गौडाः “अन्थे तु निषेकादौ कर्माङ्गवृद्धिश्राद्धयोः समुच्चयमाहुः नान्दीश्राद्धेतूभयानुगता। अस्येतिकर्त्तव्यता पृथ्वीचन्द्रोदये वृद्धपराशरः “मालत्याः शतपत्राया मल्लिकाकुब्जयोरपि। केतक्याः पाटलाया वा देया माला न लोहिता” श्राद्धे मालानिषेघस्यायमपवादः। तथा “सुवेषमूषणैस्तत्र सालङ्कारैस्तथा नरैः। कुङ्कुमाद्यनुलिप्त ङ्गैर्भाव्यन्तु ब्राह्मणैः सह। स्त्रियोऽपि स्युस्तथा भूता गीतनृत्यादिहर्षिताः”। हेभाद्रौ ब्रह्माण्डे “कुशस्थाने च दूर्वाः स्युर्मङ्गलस्यामिवृद्धये”। कुशा अपि वक्ष्यन्ते। छन्दोगपरिशिष्ठे “प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा”। उभयतः दैवे पित्र्ये च वैश्वदेवे द्वौ विप्रौ पित्रादीनामेकैकस्य द्वौ द्वाविति विंशतिः। त्रिके वा द्वौ द्वावित्यष्टौ विप्राः। अत्र विप्रालाभे स्त्रियोऽपि मोज्या इत्याहाशार्के वृद्धवसिष्ठः “मातृश्राद्धे तु विप्राणामलामे पूजयेदपि। पतिपुत्रान्विताभव्या योषितोऽष्टौ कुलोद्भवाः। मातृत्रिके चतस्रः मातामहीत्रिके चेत्यष्टौ” इति हेमाद्रिः। “अत्र पित्र्ये प्राङ्मुखाविप्राः पाद्ये पित्र्ये चतुरस्वं मण्डलमिति, जयन्तः” हेमाद्री ब्राह्मे “विप्रान् प्रदक्षिणावर्त्तं प्राङ्मुखानुपवेशयेत्”। छन्दोगपरिशिष्टे “गोत्रनामभिरामत्र्य पितृभ्योऽर्घ्यं प्रदापयेत्। नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते। ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपवित्रकान्। कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्र दीयते” पित्रादेर्द्वौ द्वौ विप्रौ तयोर्दक्षिणहस्तौ संयोज्य प्रथमोपवेशितविप्रकरोपरि तन्त्रेण द्वयोरर्घ्यं दद्यादत्यर्थः। बह्वृचकारिकायां तु “दत्तार्घ्यादेकदेशः स्यादर्ष्यदानं प्रतिद्विजम्। आवृत्तिरपि मन्त्रस्य प्रतिब्राह्मणमिष्यंते। प्रतिद्विजं पृथक्कुर्यान्निवीत्थर्घ्यानुमन्त्रणम्” इत्युक्तम् “मधु मध्विति यस्तत्र त्रिर्जपोऽशितुमिच्छताम्। गायत्र्यनन्तरं स्तोत्रं मधुमन्त्रविवर्जितम्। नचाश्नंस्तु जपेदत्र कदाचित् पितृसूक्तकम्” तथा “सम्पन्नमिति तृप्ताःस्य प्रश्नस्थाने विधीयते। सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत्। अक्षय्योदकदानञ्च अर्घ्यदानवदिष्यते। षष्ठ्यैव नियतं कुर्य्यान्न चतुर्थ्या कदाचन”। चन्द्रोदये व्राह्मे “पठेच्छकुनिसूक्तं तु स्वस्ति सूक्तं शुभं तथा। नान्दीमुखान् पितॄन् मक्त्या साञ्जलिश्च समाह्वयेत्” तथा “शाल्यन्नं दधि मध्वक्तं वदराणि यवांस्तथा। मिश्रीकृत्य तु चतुरः पिण्डान् श्रीफलसन्निभान्। दद्यान्नान्दीमुखेभ्यश्च पितृभ्यो विधिपूर्वकम्। द्राक्षामलकमूलानि यवांश्च विनियोजयेत्। तान्येव दक्षिणार्थन्तु दद्याद्विप्रेषु सर्वदा”। तत्रैव चतुर्विशतिमते “द्वौ द्वौ चाभ्युदये पिण्डावेकैकस्मै विनिः- क्षिपेत्। एकं नाम्ना परं तूष्णीं दद्यात्पिण्डान् पृथक् पृथक्”। वसिष्ठः “प्राङ्मुखो देवतीर्थेन प्राक्कूलेषु कुशेषु च। दत्त्वा पिण्डान्न कुर्वीत पिण्डपात्रमधोमुखम्”। “नान्दीमुखेभ्यः पितृभ्यः स्वाहेति वा पिण्डदानमन्त्रः”। इति वृत्तिः। अत्र पिण्डाः कृताकृता इत्युक्तम्। तत्रैव मविष्ये “पिण्डनिर्वपणं कुर्य्यान्न वा कुर्य्याद्विचक्षणः। वृद्धिश्राद्धे महावाहो! कुलधर्मानवेक्ष्य तु” छागलेयः “अग्नौ करणमर्घ्यं च वाहनं चावनेजनम्। पिण्डश्राद्धे प्रकुर्वीत पिण्डहीने निवर्त्तते” तेनात्र भोजनस्यैव प्रधानत्वाद्यदि विप्रस्य वमनं तदा तस्यैव पार्वकस्य पुनरावृत्तिरिति सिद्धम्”। वृद्धिश्राद्धञ्च मूतनिमित्तं यथा पुत्रजन्मनिमित्तं माविनिमित्तं च यथा विवाहादिनिमित्तमिति भेदः इति श्रा० त० रघु० समर्थितम्। तद्विधानञ्च छन्दोगपरिशिष्टादौ दृश्यम्। ६ चतुर्दशाक्षरपादके छन्दोषेदे स्त्री “स्वरमिदि यदि नौ तौ च नान्दीमुखी गौ” छन्दोम० तल्लक्षणमुक्तम्।
नान्दीवादिन् = पु० नान्दीं वदति वद–णिनि। १ नान्दीश्लोकपाठके वृद्ध्यर्थं २ भेर्य्यादिवादके च।
नान्दीश्राद्ध = पु० नान्दीनिमित्तं नान्द्यर्थं वा श्राद्धम्। वृद्धिश्राद्धे नान्दीमुखशब्दे उदा०।
नापित = पुंस्त्री शूद्रायां क्षत्रियात् जाते १ सङ्कीर्णजातिभेदे पट्टिकार्य्यां कुवेरिणो जाते २ सङ्कीर्णजातिभेदे च। “आर्द्धिकं कुलमित्रं च गोपालो दासनापितौ। एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्” मनुः। “सच्छूद्रौ गोपनापितौ” “नराणां नापितो धूर्त्तः”। “ग्रामकामञ्च गोपालं वनकामञ्च नापितम्” मा० उ० ३२ अ०। “नटी कापालिनी वेश्या कुलटा नापिताङ्गना” कुल नायिकोक्तौ तन्त्रम्। तस्य वृत्तिः क्षुरकर्म। “उपोषितस्य व्रतिनः कॢप्तकेशस्य नापितैः। श्रीस्तावत्तिष्ठति गृहे यावत् तैलं न संस्पृशेत्” स्मृतिः। शिल्पित्वात् अपत्ये फिञ्। नापितायनि तदपत्ये पुंस्त्री० पक्षे ष्यञ् नापित्य तत्रार्थे पुंस्त्री०।
नापितशाला = स्त्री ६ त०। क्षौरमृहे त्रिका०।
नाभ् = स्त्री नम–णिच्–क्विप्। नमसो बाधिकायां सोमस्य दीप्तौ “चतस्नो नाभो निहिताः” ऋ० ९। ७४। ६। नाभो नभसो वाधिकाः सोमस्य दीप्तयः कलाः” भा०।
नाभ = पु० “श्रुतात् मगीरथो जन्मे तस्य नाभोऽमवत् सुतः” भान० ९। ९। १२ उक्ते सूर्यवंश्ये नृपभेदे।
नाभक = न० नभ–ण्वुल्। वनतिक्ते वृक्षे शब्दार्थचि०।
नाभस = पु० १२ अ० वृहज्जातकोक्ते लग्नतः तत्तत्स्थानभेदस्थित ग्रहभेदेन योगभेदे ते च तत्र तद्व्याख्यायाञ्च दृश्याः। जातकपद्धतौ तु ततः संक्षिप्योक्तास्तेऽत्र दर्श्यन्ते यथा “चरादिसंस्थैर्निखिलैर्ग्रहैः स्यात् योगस्तु रज्जु १ र्मुशलं २ यल ३ श्च। माला ४ शुभैः पापखगैश्च सर्पः ५ केन्द्रस्थितैः सत्यमते दलौ तौ। समीपकेन्द्रद्वयगैर्गदाख्य ६ स्तन्वस्तगैः स्याच्छकटो ७ऽथ पक्षी ८। स्वाम्बुस्थितैः, पञ्चमनन्दलग्नस्थितैस्तु शृङ्गाट ९ कमामनन्ति। धनारिकर्मसंस्थितैस्तृतीयसप्तलाभगैः। तुरीयरन्ध्ररिप्फगैस्त्रिधा हलः १० प्रकीर्त्तितः। लग्नास्तगाः सौम्यखगाः खवन्ध्वोः पापा यदा स्यात् कुलिशं ११ विलोमात्। यवो १२ऽथ मिश्राः कमलं १३ यदा ते केन्द्रात् परे तत्परतोऽथ वापी १४। लग्नादिकेन्द्रात् सकलग्रहेषु चतुर्षु भेषु प्रवदन्ति योगान्। यूपेषुशक्ती १५। १६। १७ रपि दण्ड १८ मद्रेः स्थानेषु नौकूटकच्छत्रचापान् १९। २०२१। २२। अर्द्धचन्द्राह्वयं २३ केन्द्रबाह्यतः लप्तकैर्ग्रहैः। लग्नादेकान्तरे षड्भे चक्र २४ मर्थादपांनिधिः २५। आश्रयाकृतिजा योगा उक्ताः संख्याभवा अथ। गोल १ युग्म २ त्रिशूलानि ३ केदारः ४ पाश ५ दामकौ ६। वीणे ७ त्येकचयस्थानस्थितैः खेटैर्विहाय तान्। यववज्रौ न योगौ स्तः पूर्वोक्तत्वादिहोदितौ। क्रूरो रूपाढ्योऽटनो दुःखमावो रज्ज्वौ १ प्राप्तस्वोमवेदन्यदेशे। मानाज्ञानैः संयुतः कर्मयुक्तो राजेष्टः स्यान्मौशले २ भूरिपुत्रः। नले ३ऽतिनैपुण्ययुतो घनी स्यादूनाधिकाङ्गश्च घनी स्वबन्धोः। स्नजि ४ प्रसक्तो बहुभोगभोगे सर्पे ५ऽतिदुःखी विषमोऽतिदीनः। वज्वा नानाशास्त्रयोगातिविज्ञो नित्योद्युक्तो द्रव्ययुक् स्याद्वद्रायाम् ६। रोगार्त्तः स्यात् स्यन्दनेनोपजीवी निःस्वो मूर्खो मित्रहीनो रथाख्ये ७। योगे विहङ्गे ८ मनुजोऽतिसौख्यो दूतोऽटमः स्यात् कलिकृच्चनिःस्वः। शृङ्गाटके ९ साहसवान्नृपेष्टः सुखी सुभार्य्यः कलहप्रियश्च। हले १० दरिद्रः कृषिकारकः स्यात् प्रेष्यः सुदुःखी बहुभोजनश्च। वज्रे ११ऽतिदुःखी वयसस्तु मध्ये शूरः सुरूपः सुमगः खलद्विट्। यवे १२ व्रती १३ मङ्गसतत्परश्च दाता च मध्ये वयसः सुखाढ्यः। पद्मे १३ चिरायुर्नृपतिर्यशस्वी गुणी घनी कीर्त्तिसमृद्धियुक्तः। वाप्यां १४ स्थिरार्थसखमाक् निधिकृत् सुतप्तो गेत्रोत्सवैस्तु सहितो मनुजो न दाता। यूपे १५ व्रती नियमकृत् बहुसत्वसौख्यस्त्यागात्मवान् नरवरोऽपि च यायजूकः। वाणे १६ऽतिगुप्त्यधिकृतः शरकृच्च हिंस्रो मांसाशनश्च मृगयाघनयुक्कुशिल्पः। शक्त्यां १७ धनेन रहितो विकलोऽतिदुःखी नीचोऽलसो मृधपरः पुरुषश्चिरायुः। दण्ड १८ जातः पुत्रदारधनहीनो जनोज्झितः। निर्घृणो दुःखितो नीचः प्रेष्यश्च मनुजो भवेत्। नौयोग १९ जश्चलसुखः कृपणोऽतिकीर्त्तिर्हृष्टो जनाश्रयधनो मलिनोऽतिलुब्धः। कूटे २० शठः कृपणबन्धनपोऽतिपापो निःस्वो वनाचलगडेषु कृताधिकारः। छत्रे २१ दयाधीस्वजनाश्रयः स्याद्दीर्घायुराद्यन्तसुखी नृपेष्टः। सत्कार्मुके २२ शूरतरः सुखी स्यादाद्यन्तयोर्गुप्त्यघिपञ्च चौरः। चन्द्रार्द्ध २३ जश्चलसुखः सुमगः सुकान्तामोगी नराधिपसभश्च बली धनाढ्यः। चक्राह्वये २४ नृपतिचक्रकिरीटरत्रभाभासुराङ्घ्रियुगलो मनुजाधिनाथः। बहुरत्रार्थयुक्तः स्याद्भोगी पुत्रजनान्वितः। साधुर्वारिषियोगे २५ प्य स्थिरवैभवसंयुतः। योगे गोले १ सत्वसामर्थ्यविद्याहीनो नीतिः सर्वकालं प्रवासी। युग्मे २ निःस्वोऽतीवपाषण्डयुक्तो युक्तायुक्तज्ञानहीनान्तरः स्यात्। योगे त्रिशूले ३ विघनश्च शूरः क्रूरः क्षतो धातरुचिर्मरः स्यात्। केदार ४ जातः कृमिकर्मकर्त्ता बहूपयोज्यः सुखितश्चलश्च। पाशे ५ विशीलो बहुभृत्यबन्धुर्बहुप्रपञ्चो बहुमाषकश्च। दाम्नि ६ स्वयुक्तः पशुनायकः स्यात् सेवोपकारी च वदान्यघीरः। वीणायोगे ७ गीतनृत्यप्रियः स्यात् कीर्त्त्या युक्त्रः पोषकः स्याद्वहूनाम्। एते योगाः सर्वकालं विचिन्त्या वीर्य्यात् खेटार्ना प्रपूर्णा अपूर्णाः”।
नाभाक = पु० ऋषौ “ऋषिर्नामाको बभूव” निरु० १०। ५ “नामाकस्य प्रशस्तिभिः” ऋ० ८। ४१। २ “नामाकस्य ऋषेः” मा०।
नाभाग = पु० वैवस्वतमनोः १ पुत्रभेदे “ऐक्ष्वाकुश्चैव नामागः” हरिवं० १० अ०। वैवस्वतमनोःपुत्रोक्तौ। भगीरथसुतश्रुतनृपात्मजे २ नृपभेदे “भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः। नामागस्तु श्रुतस्यासीत् पुत्रः परमघार्सिकः। अम्बरीषस्तु नामागिः सिन्धुद्वीपपिताऽभवत्” हरिवं० १५ अ०।
नाभागारिष्ट = पु० वैवस्वतमनोः पुत्रभेदे “नारिष्टप्रांशुषष्ठाश्च नाभागारिष्टसप्तमाः” हरिवं० १० अ० तत्पुत्रोक्तौ
नाभि = पु० नह–इञ् मश्चान्तादेशः। १ क्षत्रिये २ मुख्यनृपे ३ चक्रमध्यांशे रथचक्रस्थपिण्ड्याम्। ४ आग्नीघ्रनृपपुत्रभेदे ५ तन्नामके वर्षभेदे च “तस्यानुह वा आत्मजान् स राजवर आग्नीध्रोनाभिकिंपुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुमद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत्। आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहनन वलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथामागं जन्वुद्वीपवर्षाणि बिभेजुः” भाग० ५। २। २१ “नाभिरपत्य कामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्माऽयजत्” ५। ३। १ भारतवर्षस्यैव जम्बुद्वीपवर्षमध्यस्थितत्वात् नाभिसंज्ञा नाभिवर्षशब्दे वक्तव्यकारणान्तराच्च तथा वा। ६ प्राण्यङ्गे (नाइ) पुंस्त्री मेदि० स्त्रियां ङीप् वा। ७ उदरावर्त्ते (गो~ड) राजनि०। सुषुमृणान्तर्गते नाभिख्याने च मणिपूरं चक्रं यथाह तन्त्रसारे “तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम्। मेघामं विद्युदाभञ्च बहुतेजोम ततः। मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते। दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम्। शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम्” इति। ८ मृगनाभिजाते मृगमदे मेदि०। “प्राप्तनाभिनदमज्जनमाशु” माघः “प्राप्तनाभिह्रदेति” पाठः छन्दोमञ्जरीसम्मतः। पुंस्त्वे “समुच्छ्वसत्पङ्कजकोषकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः” किरा०। श्रेष्ठनृपे “उपगतोऽपि हि मण्डलनाभिताम्” रघुः सोमधारास्रावणार्थं दशापवित्रस्य मध्ये आबध्यमानायां ७ स्रुवि च। “अवधूय पवित्रमुदग्दशमवाङ् नाभि वितनुयुः” ताण्ड्य० ब्रा० १। २। ७ भाष्यधृतद्राह्मायण सूत्रम्। संज्ञायामेतदन्तस्य अच् समा०। पद्मनामः हिरण्यनाभ इत्यादि।
नाभिकण्टक = पु० नाभेः कण्टक इव। (गो~ड) नाभेरावर्त्तभेदे शब्दर०।
नाभिका = स्त्री नाभिरिव कायति कै–क। कंटभीवृक्षे राजनि०।
नाभिगुलक = पु० नाभौ गुलक इव। (गो~ड) इति ख्याते नाभेरावर्त्तभेदे त्रिका०।
नाभिगोलक = पु० नाभौ गोलक इव। (गो~ड) नाभेरावर्त्तभेदे जटाधरः।
नाभिज = पु० नाभौ विष्णोर्नाभौ जायते जन–ड। चतुर्मुखे ब्रह्मणि त्रिका०। तस्य विष्णोर्नामिकमलजातत्वात्तथात्वम्। नाभिजन्मादयोऽप्यत्र हेमच०।
नाभिनाडी = स्त्री नाभेर्नाडा। नाभौ स्थितायां नाड्यां सिरायां नाडीभेदे “मातुस्तु रसवहायां नाड्यां गर्भनाभिनाडी प्रतिवद्धा” सुश्रु०।
नाभिनाल = न० स्त्री नाभस्थितं नालम्। नाभिस्थिते ताले “गाभिनालमृणालिनी” दुर्गाध्यानम् “तदङ्कशय्याच्युत नाभिनाला” रघुः।
नाभिभू = पु० नामौ विष्णुनाभौ मवति मू–क्विप् ७ त०। चतुर्मुखे ब्रह्मणि नाभिभ्रवादयोऽप्यत्र।
नाभिवर्द्धन = न० नाभेस्तत्स्थनाड्यावर्द्धनं छेदनम्। नाडी छेदने “प्राङ्नाभिवर्द्धनात् पुंसो जातकर्म विधीयते” संस्कारतत्त्वे धृतमनुवचनम्। संहितायान्तु नाडीवर्द्धनादित्येव पाठः।
नाभिवर्ष = पु० नाभेराग्नीध्रनृपपुत्रस्य वर्षः। जम्बुद्वीपस्थे नववर्षमध्ये वर्मभेदे नाभिशब्दे दृश्यम् तस्य नामिसंज्ञकत्वेऽपि पश्चात् तत्कुलजमरतनाम्ना तत् ख्यातं तथाहि नृसिंहपु० ३० अ० नामिपुत्रस्य ऋषमस्य पुत्रो भरतस्तेन चिरं पालितत्वादस्य भारतवर्षेति संज्ञोक्ता। नाभिवर्षस्य भारतवर्षनामता दर्शिता ऋषमशब्दे १४५१ पृ० दृश्या। अतएव विष्णुपु० “नाभिश्च प्रथसं वर्षमित्युपक्रमे मव वर्षास्पि उक्त्वा “भारतस्यास्य वर्षस्य नव भेदान्निशामय” इति। नाभिवर्षस्यैव भारतवर्षत्वेन उक्तिः।
नाभिल = त्रि० नामिरस्त्यस्य सिध्मा० लच्। दीर्घनाभियुक्ते
नाभिसम्बन्ध = पु० नाभेरेकत्र गर्भजातनाड्यां सम्बन्धः। सनाभितायां गोत्रसम्बन्धे सपिण्डानां ह्येकत्र गर्भे जायमानतया नाडीसम्बद्धत्वम्। “व्यश्नुते स्मततः शोको नाभिसम्बन्धसम्भवः” भट्टिः।
नाभ्य = त्रि० नाभये हितः शरीरावयवत्वात् यत् “नाभेर्नभञ्चेति” पा० ग० नभादेशस्तु इह न तस्य गवादियता सन्नियोगशिष्टत्वात् रथचक्रावयवार्थत्वे एव नभादेशो नेह। १ नामये हिते २ नाभिसम्बन्धिनि च ३ महादेवे पु० “नमो नामाय नाम्याय नमः कटकटाय च” भा० शा० २८ अ०
नाम = अव्य० नाम्यते नामि–ड। १ कोपे २ उपगमे ३ प्राकाश्ये ४ सम्मावनायां ५ कुत्सने च अमरः।
तत्र कोपे “ममापि नाम दशाननस्य परैरभिभवः”। उपगमः सासूयोऽङ्गीकारः “एवं नामास्तु”। प्राकाश्ये “हिमालयो नाम नगाधिराजः”। हिमालयः प्रकाश्येनातिप्रसिद्ध इत्यर्थः। सम्भावनायां “इह नाम सीता भविष्यति”। कुत्सने “कोनामायं सवितुरुदये स्वापमेवं विधत्ते”। तट्टोकायां मरतः। ५ विस्मये ६ स्मरणे ७ विकल्पे च भेदि०। विस्मये “अन्धोनाम गिरिमारोहति”। ८ अलीके च “अहञ्च मीतोनामावप्लुतः” दशकु०। मिथ्याभीत इत्यर्थः।
नामकरण = न० नाम्नः करणं यत्र। संस्कारभेदे तत्र तत्कालादिनिरूपणं ज्यो० त० यथा “एकादशे द्वादशे वाऽहवि पिता नाम कुर्य्यादिति” श्रुतिः। एकादशे इति मुख्यः कल्पः “समर्थस्य क्षेपायोगादिति” न्यायात् एतच्च परपरप्रशस्ततरतमकालोदितकर्मेतरकर्मपरम्। गोभिलः “जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामधेयकरणमिति”। व्युष्टे गते। गर्गः “आदौ घोषवदक्षरं यवरलान्मध्ये पुनः स्थापयेदन्ते दीर्षविसर्जनीयरहितं नाम प्रयत्नात् कृतम्”। “ऋक्षे तिष्यकराश्विसौम्यवसुभे चित्रानुराधोत्तरे पौष्णे चादितिरोहिणीषु शुभकृत् पुंसां समैरक्षरैः” दीपिकास्वरसात् स्वातीशतभिषाश्रवणा अत्र ग्राह्याः। गोभिलसम्मतं पूर्वार्द्धम् देवनामकम्” तेन नारायणजनार्द्दनादि नाम कुर्य्यात्। यत्तुनामकरणम् कुलदेवतानक्षत्रामिसम्बन्धं पिता नाम कुर्य्यादन्यो वा कुलवृद्धः” इति कल्पतरुधृतशङ्खलिखितवचनेनाभिवादनीयं नामधेयं कल्पयित्वा “देवताश्रयं नक्षत्राश्रयं गोत्राश्रयमप्ये वम्” इति गोभिलसूत्रेणोपनयनकाले च नक्षत्राभिसम्बन्धेन नामाधिधागं तत् शतपदचक्रानुसारात् स्वनक्षत्रपदानुसारात् ज्ञेयम्। पाश्चात्त्यानां तथैव व्यवहारः। यत्र तु न तथा कृतम्। तत्र नामाक्षरानुसारनक्षत्रादपि फलं ज्ञेयम्। अत्र कुलवृद्ध इति दर्शनात् संस्कारान्तरे तथैव व्यवहारः। मनुः “स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम्। माङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्”। गोभिलः “अयुग्दान्तं स्त्रीणामिति”। यथा यशोदा वसुदेत्यादि। नारायणपद्धतौ। “नामकरणं स्थिरलग्ने केन्द्रपञ्चनवमस्थितसौम्ये। त्र्यायषष्ठसमधिष्ठित पापे जीवशुक्रशशिसौम्यदिनेषु” ज्यो० त०। विष्णुपु० “ततश्च नाम कुर्वीत पितैव दशमेऽहनि। देवपूर्वं नराख्यं हि शर्मवर्मादिसयुतम्” इति। नरमाचष्टे इति नराख्यं नरनाम देवात् पूर्वं तच्च विशिष्टं शर्मयुतम्। “शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभुजः। भूतिर्गुप्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्” इति यमवचने समुच्चयोपलब्धेः “शर्मान्तं ब्राह्मणस्य स्यात्” इति शातातपीयेन शर्मान्तता च। गोभिलः “अयुग्दान्तं स्त्रीणाम्। अयुन्माक्षरं दान्तं यथा यशोदा इत्यादि। “देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत्” इति राघवभट्टधृतप्रयोगसारदर्शनात् स्वर्गगामित्वादिना सिद्धः अविकारो येषां नराणामित्यनेन जीवतां श्रीशब्दादित्वं नाम्नो न मृतानां तथेति शिष्टाचारः” संस्कारत०। अत्र महाभाष्यं यथा दशम्यां याज्ञिकाः पठन्ति। “दशप्युत्तरकालं पुत्रस्य जातस्य नाम् विदध्यात् घोषबदाद्यन्तरन्तस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि प्रतिष्ठितमं भवति द्व्यक्षरं चतुरक्षसं वा नाम “कृतं कुर्य्यान्न तद्धितमिति”। नचान्तरेण व्याकरणं कृतस्तद्धिता बा शक्या विज्ञातुमिति”। “दशम्या उत्तर इति पञ्चमीति योगविभागात् समासः। ततः कालशंब्देन बहुत्रोहिः क्रियाविशेषणं चैतत्। दशदिनान्याशौचं भवतीति दशभ्युत्तरकालमित्युक्तम्। यदपि गृह्यकाराः पठन्ति दशम्यां पुत्रस्येति तैरपि दशम्यामिति सामीपिकमधिकरणं व्याख्येयम्। घोषवन्तो ये वर्णाः शिक्षायां प्रदर्शितास्तदादि। अन्तरन्तस्थमिति। मध्ये यरलवा यस्य तदित्यर्थः। त्रिपुरुषानूकमिति। नामकरणे योऽधिकारी पिता तस्य ये त्रयः पुरुषास्ताननूकायत्यभिधत्त इति त्रिपुरुषानूकम् अन्येषामपि दृश्यत इति दीर्घ” इति कैयटः।
नामग्राह = त्रि० नाम–गृह्णाति ग्रह–अण् उप० स०। १ नामग्राहके। भावे घञ्। २ नामग्रहणे पु० “देवैनसात् पित्र्यात् नामग्राहात्” ऋ० १०। १। १२।
नामग्राहम् = अव्य० नाम + ग्रह–“नाम्न्यादिशिग्रहोः” पा० णमुल्। नाम गृहीत्वेत्यर्थे “नामग्राहमरोदीत् सा भ्रातरौ रावणान्तिके” भट्टिः “नामग्रहणविशिष्टस्य रोदनक्रियाया व्याप्तुमिष्टत्वाद्रुदिरिह सकर्मकः” जयम०।
नामद्वादशी = स्त्री द्वयोर्दशानां समाहारः द्वादशी ६ त०। १ गौर्य्यादिनाम्नां २ द्वादशके तन्नाम्रा देव्युद्देश्यकब्रतभेदे च तानि नामानि च “गौरी काली ष्टमा भद्रा दुर्गा कान्तिः सरस्वती। मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात्। मार्गतृतीयापारभ्य पूर्वोक्तं लभते फलम्” देवीपु०। पूर्वोक्तं फलं मार्गादिद्वादशमासेषु कृष्णाष्टमीव्रतफलम्।
नामधातु = पु० नामपूर्वको घातुः। सुवन्तनामप्रकृतिके प्रत्ययान्तधातुभेदे पुत्रकाम्यादौ धातौ आत्मनः पुत्रमिच्छतीति वाक्ये द्वितीयान्तपुत्रनाम्नः काम्यच् तत्परे विभक्तिलोपे तदन्तस्य प्रत्ययान्तत्वात् धातुसंज्ञा।
नामधारक = त्रि० नाममात्रं धरति न तदर्थं करोति धण्वुल्। नाममात्रधारके विहितक्रियावर्जिते विप्रादौ “अत ऊर्द्ध्वन्तुये विप्राः केवलं नामधारकाः। परिषन्त्व न तेषां वै सहस्रगुणितेष्वपि। यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः। ब्राह्मणास्त्वनधीयानास्त्रयस्ते नामधारकाः” पराशरः। “यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः। यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति” मनुः।
नामधेय = न० नामन् + स्वार्थे धेय। नामशब्दार्थे “नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम्”। नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम्” रघुः “नामधेयंदशम्यान्तु द्वादश्यां वाथ कारयेत्” मनुः “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” छा० उप०
नामन् = न० म्रायते अभ्यस्यते नभ्यतेऽभिधीयतेऽर्थोऽनेन वा म्ना–नम–वा। “नामन्सीमनित्यादिना” नि०। १ वाचकशब्दे २ संज्ञाशब्दे च। बमति आख्यातार्थं प्रति स्वार्थविशेषणत्वेन नम–नि०। क्रियां प्रति विशेषणतापन्नार्थके प्रातिपदिकरूपे ३ शब्दभेदे “चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवन्ति तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशन्ति भावप्रधानमाख्यातं सत्वप्रधानानि नामानि” निरु० १। १ एतल्लक्षणभेदादिकं शब्दश० प्र० उक्तं यथा “निरुक्ता प्रकृतिर्द्वेधा नामधातुप्रभेदतः। यत् प्रातिपदिकं प्रोक्तं नन्नाम्लो नातिरुच्यते” “रूढञ्च लक्षकञ्चैव योगरूढञ्च यौगिकम्। तच्चतुर्द्धा परैरूढयौगिकं मन्यतेऽधिकम्। रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते। नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा। जातिद्रव्यगुणस्पन्दैर्धर्भैः सङ्केतवत्तया। जातिशब्दादिभेदेन चातुर्विध्यं परे जगुः। जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता। जातिमात्रे हि सङ्केताद्व्यक्तेर्भानं सुदुष्करम्। उभयावृत्तिधर्मेण संज्ञा स्यात् पारिभाषिकी। औपाधिकी त्वनुगतोपाधिना या प्रवर्त्तते। यद्वाऽऽधुनिकसङ्केतशालित्वात् पारिभाषिकम्। जात्या नैमित्तिक शक्तमौपाधिकमुपाधिना”। प्रकारान्तरेण तञ्च पञ्चविधं यथा “उणाद्यन्तं कृदन्तञ्च तद्धितान्त समासजम्। शन्दामुकरणञ्चैव नाम् पञ्चविधं स्मृतम्”। “सर्वाण्येतानि नामानि परस्थ ब्रह्मणोऽनथ!। सर्वान् कामानवाप्नोति समाराध्य जगद्गुरुम्। तन्मयत्वेन गोविन्दमित्येतद्दाल्भ्य! नात्यथा। तन्मयो वाञ्छितान् कामान् यदवाप्नोति मानवः” विष्णुधर्मवचनम्। कलौ परमेश्वरनामकीर्चनादेव श्रेयःप्राप्तिः “हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्। कलौ नास्त्येव नास्त्येव नास्त्येव गतिरम्यथा” अधिकं कलिशब्दे १७९७ पृ० उक्तम्। हरेरित्युपलक्षणं देवीभागवते ६ स्कन्धे ११ अ० देव्यानाम्नः कीर्त्तनस्यापि कलौ श्रेयस्करत्वाभिधानात् यथा “न सन्त्यधानि तावन्ति यावती शक्तिरस्ति हि। नाम्नि देव्याः पापदाहे तस्माद्भीतिः कुतो नृप!। अवशेनापि यन्नाम लीलयोच्चारितं यदि। किं किं ददाति तज्ज्ञातुं समर्था न हरादयः। प्रायश्चित्तन्तु पापानां श्रीदेवीनामसंस्मृतिः। तस्मात् कलिभयाद्राजन् पुण्यक्षेत्रे वसन्नरः। निरन्तरं पराम्बाया नामसंस्मरर्ण चरेत्”। “उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत्” रघुः। ४ उदके निघण्टुः। चैत्रमैत्रादिसंज्ञायाः सर्वत्र शतपदचक्रानुसारेण कृतायाः जन्मनामता प्रसिद्धनाम तु ततोऽन्यदेव तत्र मन्त्रग्रहणादौ नाम्नो यथा ग्रहणं तन्निरूपितं तन्त्रसारे यथा तामग्रहणप्रकारमाह पिङ्गलामते “प्रसिद्धं यद्भवेन्नाम किं वास्य जन्म नामयत्। यतीनां पुष्पपातेन गुरुणा यत् कृतं भवेत्। लोकप्रसिद्धमथ वा मात्रा पित्रा च यत् कृतम्” यामले। “सुप्तो जागर्त्ति येनासौ दूरस्थश्च प्रभाषते। वदत्यन्यमनस्कोऽपि तन्नाम ग्राह्यमत्र तु”। सनत्कुमारीये “पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान्। श्रीवर्णञ्च ततो विद्वान् चक्रेषु योजयेत् क्रमात्”।
नामनामिक = पु० नाम्नि नामः नमनं प्रह्वता अस्त्यस्य ठन्। परमेश्वरे “जितमानसिक! नामनामिक!” भा० शा० २ ४० अ० विष्णुनामोक्तौ।
नाममात्र = त्रि० नाम संज्ञैव मात्रा यस्य। स्ववीर्यहीने संज्ञाधारिमात्रे “यथा काकयवाः प्रोक्ता यथाऽरण्य भवास्तिलाः। नाममात्रा न सिद्ध्यै हि धनहीनास्तथा नराः” पञ्चत०।
नाममाला = स्त्री ६ त०। कोषभेदे
नाममुद्रा = स्त्री प्रामाक्षरस्य मुद्रा यत्र। अङ्गुलौयकभेदे यत्र नामाक्षराणि अङ्कितानि सन्ति तादृशे मुद्राभेदे
नामयज्ञा = पु० नामसतिण यज्ञः नामप्रसिद्धये वा यज्ञः। दम्भकृते आत्मख्यातिलाभाय वा कृते यज्ञे यथोक्तं “आत्ममम्भावितास्तब्धा धनमानमदान्विताः। यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्” गीता “नाममात्रेण ये यज्ञास्ते नामयज्ञा यद्वा दीक्षितः सोमयाजीत्ये वमादिनाममात्रप्रसिद्धये ये यज्ञास्ते नामयज्ञास्तैः” श्रीधरः।
नामलिङ्ग = न० नाम च लिङ्गं च ते नाम्नो वा लिङ्गम्। १ शब्दलिङ्गयोः २ शब्दभेदस्य लिङ्गभेदे च “नामलिङ्गानुशासनम्” अमरः। लिङ्गञ्च शब्दश० प्र० निरूपितं यथा “स्त्रीलिङ्गमपि पुंलिङ्गं क्लीवलिङ्गमिति त्रिधा। शब्दसंस्कारसिद्ध्यर्थं भाषया नाम भिद्यते” स्त्रीलिङ्गं पुंलिङ्गं नपुंसकलिङ्गमित्यपि त्रिधा नाम भिद्यते तत्र स्त्रीलिङ्गत्वादिकं न स्त्रीत्वादिवाचकत्वं तटः तटी तटमित्यादौ प्रकृत्यर्थस्य तटादेः स्त्रीत्वाद्यवगतावयोग्यतापत्तेः। परन्तु स्त्रीलिङ्गत्वादिना परिभाषितत्वमात्रं परिभाषायाः प्रयोजनञ्चेह पदसंस्कारः सोऽपि तट इत्यादौ पुंस्त्वेन सुबादिसद्भावः। तटीत्यादौ स्त्रीत्वेन ङीबादिप्रत्ययः तटमित्यादौ क्लीवत्वेन सुबादेर्लुगादिरिति दुन्दुभी सुवर्ण इत्यादौ तु शब्दसंस्कारस्यैव फलमर्षविशेषस्य लाभो न ह्ययं दुन्दुभिरिदं सुवर्णमित्यादितोऽक्षस्याशीतिरत्तिकापरिमितस्वर्णादेश्चावगमः। यत्र त्र सम्पदादिशब्दे स्त्रीलिङ्गत्वादिषयुक्तो नास्ति संस्कारस्य विशेषस्तत्राप्यभेदेन तत्साकाङ्क्षे शोभनादिपदे एवास्ति विशेषणपदानां विशेष्यपदलिङ्गग्राहित्वस्य विना बाधकं नियमात्। यत्तु तटादिकं द्रव्यमिव तद्वतं स्त्रीत्वादिकं पदार्थान्तरमपि तटादिपदस्यार्थः प्रत्ययानान्तु तद्व्यञ्जकतामात्रमिति वैयाकरणैरुक्तं तन्न युक्तं तटादिपदेभ्यस्तटत्वादिनेव धर्मान्तरेण स्त्रीत्वादिना तटादेरननुभवेन तादृशपदार्थान्तरे प्रमाणाभावात् न विप्रा वेदमुच्चरेदित्यादौ च टाषादिना प्रत्ययेनैव स्वार्थस्य योन्यादिमत्त्वलक्षणस्त्रीत्वस्य प्रकृत्यर्थेऽनुभावनात् न प्राणि प्राप्तुयाद्दायं न विप्रोऽध्ययनं त्यजेत्” इत्यादावपि लुप्तालुप्ताभ्यां सुब्भ्यामेवोपस्थितं विलक्षणसंस्थानरूपं नपुंसकत्वं प्राणिनि पुंस्त्रञ्च विप्रेऽनुभूयते”।
नामशेष = त्रि० नाममात्रं शेषोऽस्व। कथामात्रशेषे देहशून्ये मृते हेमच०।
नामसंग्रह = पु० नाम्नां शब्दभेदानां सग्रहः। नाम्नामर्थवत्तया पर्यार्थशब्देन १ एकत्र कीर्त्तने ७ त०। २ तदाधारे अभिधाने च
नामाख्यातिक = पु० नाम च आख्यातञ्च (तत्प्रतिपादके) तयोर्व्याख्यानो ग्रन्थः नामाख्यात + ठञ्। नामाख्यातप्रतिषादकग्रन्थयोर्व्याख्याने ग्रन्थे
नामाङ्क = त्रि० नाम नामाक्षरमेवाङ्को यत्र। नामाक्षरेणाङ्किते “नामाङ्कवाणाङ्कितकेतुयष्टिम्” रघुः।
नामादेशम् = अव्य० नाम आदिश्य नामन् + आ + दिश– णमुल्। नाम आदिश्येत्यर्थे।
नामानुशासन = न० अनुशिष्यते अर्थविशेषवत्तया ज्ञाप्यतेऽनेन अनु + शास–करणे ल्युट् ६ त०। शब्दानामर्थविशेषज्ञापके अभिधाने कोषे। तेम हि इमे शब्दा एतदर्थे वृत्तिमन्तः इति प्रतिपाद्यते इति तस्य तथात्वम्।
नामापराध = पु० नाम्नि तद्विषये अपराधः। भगवदादिनामादिषु अवज्ञादिरूपे अपराधे नामापराधाश्च केचित् पाद्मोत्तरस्व० १०३ अ० दर्शिता यथा “सतां निन्दा नाम्नां परममपराधं वितनुते यतः ख्यातिं यातस्तमुपहसते गर्हयति च। तथा विष्णोरिष्टं य इह गुणनामादि सकलं धिया भिन्नं पश्येत् स खलु हरिनामाऽहितकरः। गुरोरवज्ञा श्रुतिशास्त्रनिन्दनं तथार्थवादो हरिनाम्नि कल्प्यते। नाम्नां बलाद्यस्य हि पापबुद्धिर्न विद्यते तस्य शठस्य शुद्धिः। दिवौकसां गुरोः पित्रोर्भूसराणाञ्च गर्हणम्। नामापराधं यत्तत् स्याद्वैष्णवानां तथा नृणाम्। गोऽश्वत्यतुमसीधात्रीर्नृपान्निन्दन्ति नारद!। नामापराधी स भवेन्नामगोबिन्द वैष्णवान्”।
नाम्ब = पु० नास्ति अम्बः कर्षणादिजन्यप्राणिहिंसा यत्र नशब्देन समासः। अकृष्टपच्ये स्वयंजाते व्रीहौ “अथ मित्राय सत्याय नाम्बानां चरुं निर्वपति तदेनं मित्र एव सत्यो ब्रह्मणे सुवत्यथ यन्नाम्बानां भवति वरुण्या वा एता ओषधयो याः कृष्टे जायन्ते अथैते मैत्रा यन्नाम्बास्तन्नाम्बानां भवति” शत० व्रा० ५। ३३। ८ “नाम्बा नाक अकृष्टपच्याः स्वयंजाता व्रीहयः कृष्टक्षेत्रोत्पन्ना ओषधयो वरुण्याः कर्षणादिलक्षणहिंसासम्बन्धात्” भा०।
नाय = त्रि० नी–कर्त्तरि ण। १ नेतरि २ उपाये “नायः कोऽत्र स येन स्यां वताहं विगतज्वरः” भट्टिः। भावे घञ्। ३ नीतौ नयने पु० “यात यूयं यमश्रायं दिशं नायेन दक्षिणाम्” भट्टिः।
नायक = त्रि० नी–ण्वुल्। १ प्रापके २ प्रभौ ३ श्रेष्ठे ४ प्रधाने हारमध्यमणौ च पु० मेदि० ५ आग्रसरिके सेनापतौ त्रिका० ६ शृङ्गारालम्बने च। “स च त्रिविधः पतिरुपपतिर्वैशिकश्चेति। तत्र विधिवत् पाणिग्राहकः पतिः। अतुकूल दक्षिणधृष्टशठभेदात् पतिश्चतुर्धा। सार्वकालिकपराङ्गनापराङ्मुस्वत्वे सति सर्वकालमनुरक्तोऽनुकूलः। सकलनायिकाविषयसमसहजानुरागो दक्षिणः। भूयो निःशङ्कः कृतदोषोऽपि भूयो निपारितोऽपि भूयः प्रणयपरायणो धृष्टः। कामिनीविषयकपटपटुः शठः। आचारहानि हेतुः पतिरुपपतिः। वहुलवेश्याभोगोपरसिको वैशिकः। त्रिविधोऽपि उत्तममध्यमाधमभेदात् पुंनस्त्रिबिधः। दयिताभूयःप्रकोपेऽपि उपचारपरायण उत्तमः। प्रियायाः यः प्रकोपमनुरागं वा न प्रकटयति चेष्टया मनोभावं गृह्णाति स मध्यमः। भयकृपालज्जाशून्यः कामक्रीडायामकृतकृत्याकृत्यविचारोऽधमः। भानी चतुरश्च शठ एवान्तर्भवति। वाक्चेष्टाव्यङ्ग्यसमागमश्चतुरः। प्रोषितश्च पतिरुपपतिर्वैशिकश्च भवति। अनभिज्ञनायकोनायकामास एव। तेषाञ्च नर्मसचिवपीठमर्द्दविटचेटकविदूषकभेदाच्चतुर्धा सहायाः। कुपितस्त्रीप्रसादकः पीठमर्मः। नर्मसचिवोप्ययमेव। कामतन्त्रकलाकोविदी विटः। सुसन्धानचतुरश्चेटकः। अङ्गादिवैकृत्यैर्हासकारी विदूषकः। तेषामष्ट सात्विकागुणा यथा। स्वेदस्तम्भोऽथ रोमाञ्छः सरभङ्गोऽथ वेपथुः। वैवर्ण्यमश्रु प्रलयावित्यष्टौ सात्विका गुणाः। तेषां दशावस्था यथा “अभिलाषस्तथा चिन्ता स्मृतिश्च गुणकीर्त्तनम्। उद्वेगश्च प्रलापश्च उन्मादो व्याधिरेव च। जडता निधनान्येव दशावस्थाः प्रकीर्त्तिताः” इति रसमञ्जरी। सा० द० अन्यथाभेदा दर्शिता यथा। “आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात्” तत्र नायकः। “त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्माही। दक्षोऽनुरक्तलोकस्तेजीवैदग्ध्यशीलवान् नेता। धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च। धीरप्रशान्त इत्ययमुक्तः प्रथमं चतुर्भेदः। अविकत्मनः क्षमावानतिगम्भीरो महासत्वः। स्थेयान् निगूढमानो धीरोदात्तो दृढव्रतः कथितः। मायापरः प्रचण्डश्चपलोऽहङ्कारदर्षभूयिष्ठः। आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः। निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात्। सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः स्यात्। एभिर्द्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा। एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः। कृतागा अपि निःशङ्कस्तर्ज्जितोऽपि न लज्जितः। दृष्टदोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः। अनूकूल एकनिरतः शठोऽयमेकत्र बद्धभावो यः। दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति। एषाञ्च त्रैविध्यात् सर्वेषामुत्तममध्याधमत्वेन। उक्ता नायकभेदाश्चत्वारिंशत्तथाऽष्टौ च” तत्र प्रभौ “तव वरद! क्वरो तु सुप्रातमह्नामयं नायकः” माघः शक्तिसम्पन्ने श्रेष्ठे हारमध्यमणौ च “यातव्यपार्ष्णिग्राहादिमालायामधिक द्युतिः। एकार्थतन्तुप्रोतायां नायको नायकायते” माघः “रामोहरिः करी भूभृद्भानुः कर्त्ता च चन्द्रमाः। तस्थिवान् भगवानात्मा दशैते पुंसि नायकाः”।
नायकाधिप = पु० ६ त०। नृपे शब्दरत्ना०।
नायिका = स्त्री नी–ण्वुल् कापि अत इत्त्वम्। १ प्रापिकायां स्त्रियां २ शृङ्गाररसालम्बनभूतायां स्त्रियां च तद्भेदादि सा० द० उक्तं यथा “अथ नायिका त्रिविधा स्वाऽन्या साधारणस्त्रीति। नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता। विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया। साऽपि कथिता त्रिविथा मुग्धा मध्या प्रगल्भेति। प्रथमावतीर्णयौवनभदनविकारा रतौ वामा। कथिता मृदुश्च माने समधिकलज्जावती मुग्धा। मध्या विचित्रसुरता प्ररूढस्मरयौवना। ईषत्प्रगल्भवचना मध्यमव्रीडिता मता। स्मरान्धा नाढतारुण्या समस्तरतकोविदा। भावोन्नता दरव्रीडा प्रगल्भाऽऽक्रान्तनायका। ते धीरा चाप्यधीरा च धीराधीरेति षडिविधे। प्रियं सोत्प्रासवक्रोक्त्या मध्याधीरा दहेद्रुषा। धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः। प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा। उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः। धीराधीरा तु सोल्लुण्ठभाषितैः खेदयेदमुम्। तर्जयेत्ताडयेदन्या प्रत्येकं ता अपि द्विधा। कनिष्ठज्येष्ठरूपत्वान्नायक प्रणयं प्रति। मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश कीर्त्तिताः। मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश। परकीया द्विधा प्रोक्ता परोदा कन्यका तथा। यात्रादिनिरताऽन्योढा कुलटा गलितत्रपा। कन्या त्वजातो पयमा सलज्जा नवयौवना। धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका। निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि। वित्तमात्रं समालोक्य सा रामं दर्शयेद् बहिः। काममङ्गीकृतमपि परिक्षीणधनं नरम्। मात्रा निष्क्रामयेदेषा पुनःसन्धानकाङ्क्षया। तस्कराः पण्ड्रकामूर्खाः सुखप्राप्तधनास्तथा। सिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः। एषापि मदमायत्ता क्वापि सत्यानुरागिणी। रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम्। अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः। स्वाधीनभर्तृका तद्वत् खण्डिताऽथाभिसारिका। कल- हान्तरिता विगसब्धा प्रोषितमर्तृका। अन्या वासकसज्जा स्याद्विरहोत्कण्ठिता तथा। कान्तोरतिगुणाकृष्टो म जहाति यदन्तिकम्। विचित्रविभ्रमासक्ता सा स्यात् स्ताघीनभर्तृका। पार्श्वमेति प्रियो यस्या अन्यसम्मोनचिह्नितः। सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता। अभिसारयते कान्तं या मन्मथवशंवदा। स्वयं वाऽभिसरत्येषा धीरैरुक्ताऽमिसारिका। चाटुकारमपि प्राणनाथं रोषादपास्य या। पश्चात्तापमवाप्नोति कलहान्तरिता तु सा। प्रियः कृत्वापि सङ्केतं यस्या नायाति सन्निधिम्। विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता। नानाकार्य्यवशाद् यस्या दूरदेशं गतः पतिः। सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका। कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि। सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा। आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः। तदनागमदुःखार्त्ता विरहोत्कण्ठिता तु सा। इति साष्टविंशतिशतमुत्तममध्यमाधमस्वरूपतः। चतरधिकाशीतियुतं शतत्रयं नायिकाभेदानां स्यात्”। ३ देव्याः शक्तिभेदे “ततोऽष्ट नायिका देव्याः यत्नतः परिपूजयेत्। उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम्। अतिचण्डां च चामुण्डां चण्डां चण्डवतीं तथा” ब्रह्मवै० प्रकृतिख० ६० अ०। ४ कस्तूरीभेदे “चूर्णाकृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी च कुलत्थिकाख्या। स्थूला ततः कियदियं किल पिण्डिका स्यात्तस्याश्च किञ्चिदधिकापि च नायिकैषा” राजनि०।
***