नागयष्टि = स्त्री नागाधिष्ठानं यष्टिः। तडागादौ आरोप्ये वारुणादिकाष्ठमये नागविशेषस्याधिष्ठानरूपे स्तम्भभेदे (रैकाठ) तद्विधानं तदघिष्ठातृनागनामज्ञापनं च जलाशयोत्सर्गे उक्तं यथा कापिले “नागानामष्ट नामानि लिखितानि पृथक् पृथक्। ततः कुम्भे च निःक्षिप्य गायत्र्या च विलोड्य वै। उद्धरेत् पत्रिकामेकां तत्र वैनागमीक्षयेत्। यस्य नामोद्धरेद्वत्स! स वै जलाधिपः स्मृतः। तं वै संपूज्य गन्धाद्यैर्दद्यात् क्षीरञ्च पायसम्”। पत्राण्याम्रस्य। योगीश्वरधृतवचनात्। “यथाऽष्टौ नामान्याम्रस्य पत्रे कृत्वा तु यत्नतः” तानि च गारुडे। “अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः। कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः” ततश्च अनन्तवासुकिकर्कोटकपद्ममहापद्मतक्षकशङ्खकुलीराणां नामान्याम्रपत्रे लिखित्वा कुम्भमध्ये निक्षिप्य गायत्र्या गोमूत्रेण वा “छन्दसामथ्नामीति” रघुनाथधृतमन्त्रेणालोड्य यस्य नामोत्तिष्ठति तं यष्ट्यां समाबाह्यानेन नागेन अस्य जलाशयस्य रक्षा कर्त्तव्येति ब्राह्मणान् श्रावयेत्। हयशीर्षे “वैल्वकं वारुणञ्चैव पुन्नागं नागकेसरम्। बकुलं चम्पकञ्चैव विल्वञ्चैवाथ खादिरम्। एतेषामेव दारुणां नागयष्टिः प्रकीर्त्तिता। सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात् यथेप्सितम्”। तथा च वृहस्पतिः “शूलचक्राङ्कितं कृत्वा स्थापयित्वा जलाशये। द्वादशाङ्गुलमानन्तु वाप्यां चक्रं प्रकल्पयेत्। षोडशं पुष्करिण्यान्तु विंशतिस्तु सरोवरे। सागरे हस्तमात्रन्तु लौहं ताम्रञ्च पैत्तलम्। चक्रञ्च विविधं प्रोक्तं कुर्य्यात्तेषां यथेप्सितम्”। स्वार्थे क तत्रार्थे त्रिका०।
नागर = त्रि० नमरे भवः अण्। १ विदग्धे २ नगरोद्भवे च मेदि० स्त्रियां ङीप्। अगं राति रा–क न अगः नशब्देन(सह सुपा)पा० स०। ३ देवरे पु० त्रिका०। ५ नागरङ्गे (नारेङ्गानेवु) जम्बीरभेदे पु० शब्दरत्ना०। ६ शुण्ठ्यां न० अमरः। ८ मुस्ताभेदे (नागरमुथा) न० ९ रतिवन्धभेदे विश्वः। १० देशभेदे तद्देशीये ब्राह्मणभेदे नागराब्राह्मणाः सि० कौ० नागरखण्डशब्दे दृश्यम् तद्देशे प्रथम प्रचलिते १२ अक्षरभेदे न० “वयस्था नागरासङ्गादङ्गानां हन्ति वेदनाम्” वैद्यकम् नगराय हितम् अण्। १३ नगर हिते च “धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रञ्च नागरम्” भा० स० ५ अ० “यन्त्राण्याग्नेयौषधबलेन सीसकांस्यदृषद्गोलप्रक्षेपकाणि लोहमयानि भाषायां नालशब्दाभिधेयानि तेषां सूत्रं सूचकं शास्त्रं नागरं नगरहितम्” नीलक० “यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागरीणाम्” मेघ० १४ पौराख्ये ग्रहयुद्धभेदे ग्रहयुद्धशब्दे २१३७ पृ० दृश्यम्।
नागरक = त्रि० नगरे भवः कुत्सितः प्रविणो वा “नगरात् कुत्सनप्रावीण्ययोः” पा० वुञ्। कुत्सने १ चौरे प्रवीणे २ शिल्पिनि च “अकुत्सनादौ तु अणेव नागरा व्राह्मणाः” सि० कौ० ३ रतिबन्धभेदे “ऊरुमूलोपरि स्थित्वा योषिदूरुद्वयं रमेत्। ग्रीवां धृत्वा कराभ्याञ्च बन्धो नागरकोमतः” तल्लक्षणम् नागर + स्वार्थे क। ४ नागरशब्दार्थे
नागरक्त = न० नागकृतं रक्तम् शोणितवर्णचूर्णम्। सिन्दूरे हेमच०। तस्य सीसकेन रञ्जितचूर्णरक्तवर्णत्वात् तथात्वम्
नागरखण्ड = न० स्कन्धपुराणान्तर्गते स्वानामख्याते खण्डभेदे तत्प्रतिपाद्यविषयाश्च वृहन्नारदीये उक्ता यथा “अतः परः नागराख्यः खण्डः षष्ठोऽभिधीयते। लिङ्गोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा। विश्वामित्रस्य माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा। हाटकेश्वरमाहात्म्यं वृत्रासुरबधस्तथा। नागविलं शङ्खतीर्थं अचलेश्वरवर्णनम्। चमत्कारपुराख्यानं चमत्कारकरं परम्। गयशीर्षं बालशाख्यं बालमण्डं मृगाह्वयम्। विष्णुपादञ्च गोकर्णं युगरूपं समाश्रयः। सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्तकम्। भ्रूणगर्त्तं नलेशञ्च भैष्मं दुर्वैरमर्ककम्। शार्म्मिष्ठं सोमनाथञ्च दौर्गमानर्जकेश्वरम्। जमदग्निबधाख्यानं नैःक्षत्रियकथानकम्। रामह्रदं नागपुरं जडलिङ्गञ्च यज्ञभूः। मुण्डीरादित्रिकाकञ्च सतीपरिणयस्तथा। बालखिल्यञ्च यागेशं बालखिल्यञ्च गारुडम्। लक्ष्मीशापः सप्तविंशः सोमप्रासादमेव च। अम्बावृद्धं पादुकाख्यम् आग्नेयं ब्रह्मकुण्डकम्। गोमुखं लोहयष्ट्याख्यं अजापालेश्वरी तथा। शानैश्चरं राजवापी रामेशो लक्ष्यणेश्वरः। कुशेशाख्यं लवेशाख्यं लिङ्गं सर्वोत्तमोत्तमम्। अष्टषष्टिसमाख्यानं दमयन्त्या स्त्रीजातकम्। ततोऽम्बा रेवती चात्र भट्टिकातीर्थसम्भवम्। क्षेमङ्करी च केदारं शुक्लतीर्थं मुखारकम्। सत्यसन्धेश्वराख्यानं तथा कर्णोत्पला कथा। जटेश्वरं याज्ञवल्क्यं गौर्य्यं गाणेशमेव च। ततो वास्तुपदाख्यानम् अजामहकथानकम्। सौभाग्यान्धुक शूलेशं धर्मराजकथानकम्। मिष्टाम्रदेश्वराख्यानं गाणपत्यत्रयं ततः। जावालिचरितञ्चैव मकरेशकथा ततः। कालेश्वर्य्यन्धकाख्यानं कुण्डमाप्सरसन्तथा। पुष्यादित्यं रोहिताश्वं नागरोत्पत्तिकीर्त्तनम्। भार्गवं चरितं चैव विश्वामित्रं ततः परम्। सारस्वतं पैप्पलादं कंसारीशञ्च पैतृकम्। ब्रह्मणो थज्ञचरितं सावित्र्याख्यानसंयुतम्। रैवतं भर्तृयज्ञाख्यं तुख्यतीर्थनिरीक्षणम्। कौरवं हाटकेशाख्यं प्रभासक्षेत्रकत्रयम्। पौष्करं नैमिषं धार्ममरण्यत्रितयं स्मृतम्। वाराणसी द्वारकाख्याऽवन्त्याख्येति पुरीत्रयम्। वृन्दावनं खाण्डवाख्यं सद्वैताख्यं वनत्रयम्। कल्पः शालस्तथा नन्दो ग्रामत्रयमनुत्तमम्। असिशुक्लपितृसंज्ञतीर्थत्रयसुदा- हृतम्। श्र्यर्वुदौ रैवतश्चैव पर्वतत्रयमुत्तमम्। नदीनां त्रितयं गङ्गा नर्मदा च सरस्वती। सार्द्धकोटि त्रयफलमेकैकञ्चासृ कीर्त्तितम्। कूपिका शङ्खतीर्थञ्चामरकं बालमण्डनम्। हाटकेशं क्षेत्रफलप्रदं प्रोक्तं चतुष्टयम्। शाम्बादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्धकम्। जलाशयिचतुर्मास्यं अशून्यशयनं व्रतम्। मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम्। पृथ्वीदानं बामकेशं कपालमोचनेश्वरम्। पापपिण्डं साप्तलैङ्गं युगमानादिकीर्त्तनम्। दानमाहात्म्यकथनं द्वादशादित्य कीर्त्तनम्। इत्येष नागरः खण्डः प्रभासाख्योऽधुनोच्यते”
नागरघन = पु० नागरमेव घनः कर्पूरसाधनम्। (नागरमुथा) मुस्ताभेदे राजनि०।
नागरङ्ग = पु० नागस्य नागभवस्य सिन्दूरस्येव रङ्गोऽस्य फले। (नारेङ्गा) जम्बीरभेदे अमरः। तत् फलगुणा यथा “नागरङ्गन्तु सुरभि विपाके गुरु दुर्जरम्। अत्यम्लमीषन्मधुरं वृष्यं वातविनाशनम्। तत्केसरन्तु रुच्यं स्यात् वातहारि निगद्यते”।
नागरमर्दिन् = त्रि० नागरं मृद्नाति मृद–णिनि। नागरमर्दके ततः बाह्वा० अपत्यादौ ठञ्। नागरमर्दिनि तदपत्यादौ।
नागरमुस्ता = स्त्री नगरे भवा अण् ङीप् नागरी कर्म०। (नागरमुथा) मुस्ताभेदे राजनि०। “तिक्ता नागरमुस्ता स्यात् कषाया शीरला कटुः। कफपित्तज्वरहरी तृष्णादाहारुचि प्रणुत्। अतिसारामयहरी भिषग्भिः परिकीर्त्तिता” राजनि०।
नागराज = पु० ६ त० टच्समा०। १ शेषे नागे “अधस्तान्नागराजाय सोमायोर्द्ध्वां दिशं ददौ” हरिबं० २६५ अ०। २ छन्दोग्रन्थकारके पिङ्गलनागे च।
नागराद्यचूर्ण = न० चक्रोदत्तोक्ते चूर्णभेदे “श्रीफलशकाटुकल्को नागरचूर्णेन मिश्रितः सगुडः। ग्रहणीगदमत्युग्रं तकभुजाशीलितो जयति। जम्बूदाडिमशृङ्गाटपाठाकञ्चटपल्ववैः। पक्वं पर्युसितं बालविल्वं सगुडनागरम्। हन्ति सर्वानतीसारान् ग्रहणिमतिदुस्तराम्। नागरातिविषामुस्तक्वाथः स्यादामपाचनः। चूर्णं हिङ्ग्वष्टकं वातग्रहण्यान्तु वृतानि च। नागरातिविषामुस्तं धातकीं सरसाञ्जनम्। वत्सकत्वक्फलं विल्वं पाठां कटुकरोहिणीम्। पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना। पैत्तिक्रे ग्रहणीदोषे रक्तं यश्चोपावेश्यते। अर्शांस्यथ गुदे शूलं जयेच्चैव प्रवाहिकाम्। नागराद्यमिदं चूर्णं कृष्णात्रेयेण भाषितम्। शीतकषायमानेन तण्डुलोदककल्पना। केऽप्यष्टगुणतो येन प्राहुस्तण्डुलभावनाम्”।
नागराह्व = न० नागरेति आह्वा यस्य। शुण्ठ्याम् राजनि०।
नागरी = स्त्री नागेभ्यो राति ददाति अत्र रा–घञर्थे क गौरा० ङीप्। १ स्नुहीवृक्षे शब्दच० तस्यां नागपञ्चमीशब्दे नागपूजनस्योक्तत्वात्तस्यास्तथात्वम्। नगरे भवः अण् ङीप्। २ विदग्धायां नार्य्याञ्च “हन्ताभीरीं स्मरतु स कथं संवृतो नागरीभिः” उद्धवदूतम्।
नागरीट = पु० नागरीमेटति इट–गतौ क। १ षिड्गे २ जारे ३ नागरीकृतमङ्गलध्वनौ च शब्दार्थ०।
नागरुक = पु० नागरङ्गे जम्बीरभेदे शब्दरत्ना०।
नागरेणु = पु० नागस्य सीसकस्य रेणुः। सीसकसम्भवे सिन्दूरे राजनि०।
नागरेयक = त्रि० नगर्य्यां भवः कत्त्र्या० ढकञ्। नगर्य्यां भवे
नागरोत्था = स्त्री नागरादुत्तिष्ठति उद् + स्था–क। (नागरमुथा) ख्याते मुस्ताभेदे राजनि०।
नागर्य्य = न० नागरस्य भावः पुरो० यक्। नागरभावे विदग्धत्वे
नागलक्षण = ६ त०। नागानां भेदादिज्ञापके चिह्नभेदे अहिशब्दे ५८१ पृ० तल्लक्षणादिकं सुश्रुतोक्तं दर्शितम्। अग्निपुराणोक्तं शेषवासुकितक्षकलक्षणादिकमत्र प्रदर्श्यते तच्च तत्र २९३ अ० उक्तं यथा “अग्निरुवाच नागादयोऽथ भावादि दंशस्थानानि कर्म च। सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते। शेषवासुकितक्षाख्याः कर्कर्टोऽब्जो महाम्बुजः। शङ्खपालश्च कलिक इत्यष्टौ नागवर्यकाः। दशाष्टपञ्चत्रिगुणशतमूर्द्ध्वान्वितौ क्रसात्। विप्रौ नृपौ विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्त्तितौ। तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः। मणिमण्डलिराजीलवातपित्तकफात्मकाः। व्यन्तरा दोषमिश्रास्ते सर्पा दर्वीकराः स्मृताः। रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः। गोनसा मन्दगा दीर्घा मण्डलैर्विविधैश्चिताः। राजिलाश्चित्रिताः स्निग्धास्तिर्यगूर्द्धञ्च राजिभिः। व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेय वायवः। चतुर्विघास्ते षड्विंशभेदाः षोडश गोनसाः। त्रयोदश च राजीला व्यन्तरा एकविंशतिः। येऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः। आपाढादित्रिमासैः स्याद्गर्भो मासचतुष्टये। अण्डकानां शते द्वे च चत्व्यारिंशत् प्रसूयते। सर्पा ग्रसन्ति सूतौ तान् विना स्त्रीपुन्नपुंसकान्। उन्मीलतेऽक्षि सप्ताहात् कुक्षेर्मासाद्गवेद्बहिः। द्वादशाहात् सुरोषः स्यात् दन्ताः स्युः सूर्यदर्शनात्। द्वात्रिंशत्, दिनविंशत्या चतस्रस्तेषु दंष्ट्रिकाः। कराली मकरी कालरात्री च यमदूतिका। एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः। षण्मासान्मुच्यते कृत्त्या जीवेत् षष्टिसमाद्वयम् १२०। नागाः सूर्य्यादिवारेशाः सप्त उक्ता टिवा निशि। खेषां षट् प्रतिवारेषु कुलिकः सर्वसन्धिषु। शङ्खेन वा महाब्जेन सह तस्योदयोऽथ वा। द्वयोर्वा नाडिकामन्त्रमन्त्रकं कुलिकोदयः। दुष्टः स कालः सर्वत्र सर्पदंशे विशेषतः। कृत्तिका भरणी स्वाती मूलं पूर्वत्रयाश्विनी। विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी। हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः। षष्ठी रिक्ता शिवा निन्द्या पञ्चदशी चतुर्दशी। सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः। एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम्। अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम्। त्रयो द्व्येकक्षता दंशा वेदना रुधिरोल्वणा। नक्तन्त्वेकाङ्घ्रिकूर्माभा दंशाश्च यमचोदिताः। दाही पिपीलिकास्पर्शीकण्टशोथरुजान्वितः। सतोदो ग्रन्थिती दंशः मविषो न्यस्तनिर्विषः। देवालये शून्यगृहे वल्मीकोद्यानकोटरे। रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे। द्वीपे चतुष्पथे सौधे गृहेऽब्जे पर्वताग्रतः। बिलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके। शिग्रुश्लेष्मातकाक्षेषु जम्बूडुम्बरकेषु च। वटे च जीर्णप्राकारे स्वास्यहृत्कक्षजत्रुणि। तालौ शङ्खे गले मूर्घ्नि चिवुके नाभिपादयोः। दंशोऽशुभः शुभो दूतः पुष्पहस्तः सुवाक् सुधीः। लिङ्गवर्णसमानश्च शुक्लवस्त्रोऽमलः शुचिः। अपद्वारगतः शस्त्री प्रमादी भूगतेक्षणः। विवर्णवासाः पाशादिहस्तो गद्गदवर्णभाक्। शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः। आर्द्रवासाः कृष्णरक्तपुष्पयुक्तशिरोरुहः। कुचमर्दी नखच्छेदी गुदस्पृक् पादलेखकः। केशलुञ्ची तृणच्छेदो दुष्टा दूतास्तथैकशः। इडान्या वा वहेद्द्वेधा यदि दूतस्य चात्मनः। आभ्यां द्वाभ्यां पुष्टयाम्यान् विद्यात्स्त्रीपुन्नपुंसकान्। दूतः स्पृशति यद्गात्रं तस्मिन् दशमुदाहरेत्। दूताङ्घ्रिचलनं दुष्टमुत्थितिर्निश्चला शुभा। जीवपार्श्वे शुभो दूतो दुष्टोऽन्यत्र समागतः। जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने। दूतस्य वाक प्रदुष्ठा सा पूर्वामजार्द्धनिन्दिता। विमक्त्वै- स्तस्य वाक्यान्तैर्विषनिर्विषकालता। आद्यैः स्वरैश्च काद्यैश्च वर्गैर्भिन्नलिपिर्द्विधा। स्वरजो बसुमान्वर्गी इति ज्ञेया च मातृका। वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम्। नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयो नयः। दुष्टौ दूतस्य वाक्पादौ वाताग्नी मध्यमो हरिः। प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः। प्रस्थाने मङ्गलं वाक्यं गर्जितं मेघहस्तिनोः। प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितम्। शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये। अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम्। वेश्या क्षुतो नृपः कन्या गौर्दन्ती मुरजध्वजौ। क्षीराज्यदधिशङ्खाम्बु छत्रं भेरी फलं सुराः। तण्डुला हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी। सकाष्ठः सानलः कारुर्मलिनाम्बरभावभृत्। गलस्थटङ्को गोमायुगृध्रोलूककपर्दिकाः। तैलं कपालकार्पासा निषेधा भस्म नष्टये। विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः। बिषदंशो ललाटं यात्यतोनेत्रं ततो मुखम्। आस्याच्च चरणौ नाड्यौ धातून् प्राप्नोति हि क्रमात्”।
नागलता = स्त्री नाग इव लता। १ पुंसोलिङ्गे त्रिका० नागाकारा लता। २ नागदीर्घायां २ ताम्बूल्याञ्च।
नागलोक = पु० ६ त०। नागाधिष्ठिते लोके पाताले नागशब्दे तेषां पातालस्थितिकारणं दर्शितम्। पातालावस्थानभेदादि पुराणसर्वस्वे विष्णुपुराणाद्युक्तं यथा “पराशर उवाच विस्तार एष कथितः पृथिव्या भवतो मया। सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोऽपि कथ्यते। दशसाहस्रमेकैकं पातालं मुनिसत्तम!। सुतलं वितलञ्चैव नितलञ्च गभस्तिमत्। महाग्रमतलञ्चापि पातालञ्चापि सत्तम!। भूमयो यत्र मैत्रेय! वरप्रासादशोभिताः। तेषु दानवदैतेयजातयः शतसंघशः। निवसन्ति महानागजातयश्च महामुने!” ब्रह्माण्डे “प्रथमेऽस्मिंस्तले ख्यातमसुरेन्द्रस्य मन्दिरम्। नमुचर्देवशत्रोश्च महानादस्य चानघ!। पुरञ्च शङ्कुकर्णस्य कबन्धस्य च मन्दिरम्। किंविषयस्य च पुरं प्रहृष्टजनसङ्कुलम्। राक्षसस्य च भीमस्य शूलदन्तस्य चालयः। लोहिताक्ष कुविन्दानां नगरं श्वापदस्य च। धनञ्जयस्य सदनं नागेन्द्रस्य महात्मनः। कालियस्य च नागस्य नगरं कलसस्य च। एवं पुरसहस्राणि नागदानवरक्षसाम्। ज्ञेयानि प्रथमे चैव कृष्णभौमे तले द्विज!। द्वितीयेऽस्मि स्तले ज्ञेयं दैत्येन्द्रस्य सुरक्षसः। महाजम्भस्य च तथा नगरं प्रथसस्य च। हयग्रीवस्य कृष्णस्य निजं तस्य च मन्दिरम्। शङ्खाख्यस्य च दैत्यस्य नगरं गोमुखस्य च। राक्षसस्य च नीलस्य मेघस्य क्रथकस्य च। पुरञ्च कृष्णपादस्य महोष्णीषस्य चालयः। कम्बलस्य च नागस्य पुरमश्वतरस्य च। कद्रुपुत्रस्य च पुरं तक्षकस्य महात्मनः। एवं पुरसहस्राणि नागदानवरक्षसाम्। द्वितीयेऽस्मिंस्तले विप्राः पाण्डुभौमे न संशयः। तृतीये तु तले ख्यातं प्रह्लादस्य महात्मनः। अनुह्लादस्य च पुरं पुरमग्निमुखस्य च। तारकाख्यस्य च पुरं पुरं त्रिशिर सस्तथा। शिसुमारस्य च पुरं हृष्टपुष्टजनाकुलम्। च्यवनस्य च विज्ञेयं राक्षसस्य च मन्दिरम्। मन्दरस्योरगपतेर्विशालस्य च मन्दिरम्। एवं पुरसहस्राणि नागदानवरक्षसाम्। तृतीयेऽस्मिंस्तले ज्ञेयं रक्तभौमे न संशयः। तत्रापि दैत्यसिंहस्य कालनेमेः पुरं महत्। तथालम्बस्य च पुरं नगरं कुञ्जरस्य च। राक्षसेन्द्रस्य च पुरं सुमालेर्बहुविस्तरम्। मुञ्जस्य कोकनागस्य वृकषक्त्रस्य चालयः। बहुयोजनसाहस्रं बहुपक्षिगणाकुलम्। नगरं वैनतेयस्य चतुर्थेऽस्मिन्रसारले। पञ्चमे शर्कराभौमे बहुयोजनविस्तृतम्। विरीचनस्य नगरं दैत्यसिंहस्य वामतः। व्यायतास्याग्निजिह्वस्य हिरण्याक्षस्य चालयः। पुरञ्च विद्युज्जिह्वस्य राक्षसेन्द्रस्य धीमतः। महामेघस्य च पुरं रक्षसो देवविद्विषः। किर्भीरस्य च नागस्य स्वस्तिकस्य जयस्य च। एवं पुरसहस्राणि नागदानवरक्षसाम्। पञ्चमेऽस्मिंस्तले ज्ञेयं शर्करानिलये तथा। षष्ठे तले केशरिणो दैत्येन्द्रस्य पुरं स्मृतम्। सुपर्वणः पुलोम्नश्च नगरं महिषस्य च। राक्षसेन्द्रस्य च पुरं चुक्रोशस्य महात्मनः। तत्रास्ते सुरसापुत्रः शतशीर्षोमुदा युतः। महेन्द्रस्य सखा श्रीमान् वासुकिर्नाम नागराट्। एवं पुरसहस्राणि नागदानषरक्षसाम्। षष्ठे तलेऽस्मिन् ख्यातानि शिलाभौमे रसातले। सप्तमे तु तले ज्ञेयं पाताले पूर्वपश्चिमे। पुरं बलेः प्रमुदितं नरनारीगणायुतम्। असुराशीविवैः पर्णमुद्धतैर्देवशत्रुभिः। मुचुकुन्दस्य दैत्यस्य तत्रैव नगरं महत्। अनेकैर्दितिपुत्राणां समुदीर्णैर्महासुरैः। तथैव नागनगरैरृषिमद्भिर्महात्मभिः। दैत्यानां दानवानाञ्च समुदीर्णैर्महासुरैः। उदीर्णै राक्षसावासैरनेकैश्च समाकुलम्। स्वर्लोकादपि रम्याणि पातालानीति नारढः। प्राह स्वर्गसभामध्ये पातालेभ्यो गतो दिवि। आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः। नागाभरणभूषासु पातालं केन तत्समम्। दैन्यदारिद्र्यरहितैरितश्चेतश्च शोभिते। पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते। दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम्। शशिनश्च न शीताय निशि द्योताय केवलम्। भक्ष्यभोज्य महापानमुदितै रात्रिभोगिभिः। यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः। वनानि नद्यो रम्याणि सरांसि कमलानि च। पुंष्कोकिलादिनादाश्च मनोज्ञान्यम्बराणि च। भूषणान्यतिरम्याणि गन्धाद्यञ्चानुलेपनम्। वेणुवीणामृदङ्गानामुदितैर्नादितानि च। एतान्यन्यानि चोदारभोगभोग्यानि दानवैः। दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः। पातालागामधश्चान्ते विष्णोर्या तामसी तनुः। शेषाख्या तद्गुणान् वक्तुं न शक्ता दैत्यदानवाः। योऽनन्तः पठ्यते सिद्ध्वैर्देवदेवर्षिभूषितैः। सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः। फणामणिसहस्रेण यश्च विद्योतयन् दिशः। सर्वान् करोति निर्वीर्य्यान् हिताय जगतोऽसुरान्। मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः। किरीटी स्रग्धरो भाति साग्निः श्वेत इवर्क्षराट्। नीलवासा मदोत्सिक्तः श्वेतहारोप शोभितः। साभ्रे गङ्गाप्रपातोऽसौ कैलासाद्रिरिवोन्नतः। लाङ्गूलासक्तहस्ताग्रो बिभ्रन्मूषलमुत्तमम्। उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया। कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः। सङ्कर्षणात्मको रुद्रो निर्गम्यात्ति जगत्त्रयम्। समस्तपृथिवी भूतमशेषक्षितिमण्डलम्। आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः। तस्य वीर्यं प्रभावञ्च स्वरूपं रूपमेव च। न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि। यस्यैषा सकला पृथ्वी फणामणिशिखारुणा। आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति। यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः। तदा चलति भूरेषा साद्रितोयाब्धिकानना। यदा तु पर्वणि गजः खेदाच्चालयते शिरः। सपर्वतबना नाम तदेयं चलति क्षितिः। गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः। नान्तं गुणान्तं गच्छन्ति तेनानन्तोऽयमुच्यते। यस्य नागवधूहस्तैर्लेपितं हरिचन्दनम्। स्वनिश्वासानिलापास्तं याति दिक्पटवासताम्। यमामनति देवर्षिर्गर्गोज्योतींषितत्त्वतः। भगवान् सकलञ्चैव निमित्तं पटितं फलम्। तेनेयं नागवर्येण शिरसा विधृता मही। बिभर्त्तिमालां लोकानां सदेवासुरमानुषाम्” नागभुवनादयोऽप्यत्र।
नागवर्त्मन् = पु० तीर्थभेदे “ततः प्रायाद्वलो राजन्! दक्षिणेन सरस्वतीम्। गत्वा चैवं महाबाहुर्नातिदूरे महायशाः। धर्मात्मा नागवर्त्मानं तीर्थमागममच्युतः। यत्र पन्नग राजस्य वासुकेः सन्निवेशनम्। महाद्युतेर्महाराज! वहुभिः पन्नगैर्वृतम्। ऋषीणां हि सहस्राणि तत्र नित्यं चतुर्दश। यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्। सर्वे पन्नगराजानमभ्यसिञ्चन् यथाविधि। पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव!। तत्रापि विधिवद्दत्त्वा विप्रेभ्यी रत्नसञ्चयान्” भा० श० ३८ अ०।
नागवल्लरी = स्त्री नाग इव दीर्घा वल्लरी। ताम्बूलीलतायां भावप्र०।
नागवल्ली = स्त्री नाग इव दीर्घा वल्ली। ताम्बूलवल्ल्याम् अमरः। सा च देशभेदात् मृत्तिकाभेदेन नानाकारगुणा यथोक्तं राजनि० “एकाप्येषा देशमृत्स्नाविशेषान्नानाकारं याति काये गुणे च” इत्युपक्रमे “श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा। रसाढ्या सुरसा रुच्या विपाके शिशिरा स्मृता। स्य दम्लवाटो कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुस्वपाककर्त्री। विदाह पित्तास्रविकोपनी च विष्टम्भदा वातनिर्वहणी च। सप्तमी मधुरा तीक्ष्णा कटुरुष्णा च पाचनी। गुल्मोदराध्मानहरी रुचिकृद्दीपनी परा” अन्यच्च “गुहागरे सप्तसिरा प्रसिद्धा तत्पर्णचूर्णातिरसातिरुच्या। सुगन्धि तीक्ष्णा मघुरातिहृद्या सन्दीपनी पुंस्त्वकरी च बल्या” “नाम्ना याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत् पित्तोद्रेकहरी सुदीपनकरी बल्या मुखामोदिनी। स्त्रीसौभाग्यविवर्द्धिनी मदकरी ज्ञेया सदा वल्लभा गुल्माध्मानविबन्धजिच्च कथिता सा मालवे तूत्थिता। अन्ध्रिपुष्कलिका नाम कषायोष्णा कटुस्तथा। मलापकर्षा कण्ठस्य पित्तहृद्वातनाशिनी। द्वैषणीया कटुस्तीक्ष्णा हृद्या दीर्घदला च सा। कफवातहरी रुच्या कटुर्दीपन पाचनी” स्वार्थे क। नागवल्लिकाऽप्यत्र “पर्णमूले भवेद् व्याधिः पर्णाग्रे पापसम्भवः। जीर्णपर्णं हरेदायुः सिरा बुद्विप्रणाशिनी” आह्नि० त०।
नागवारिक = पु० नागस्य गजस्य सर्पस्य वा वारो वारणं प्रयोजनमस्य ठक्। १ हस्तिपालके २ गरुडे ३ मयूरे ४ राजकुञ्जरे ५ यूथस्थगजराजे च मेदि०।
नागवि(बिल) = न० तीर्थभेदे नागरखण्डशब्दे दृश्यम्।
नागवीट = पु० नाग इव व्येटति वि + इट–क। टाङ्गरे (ड्याकरा) त्रिका०।
नागवीथी = स्त्री आकाशमण्डलस्थे उत्तरदिक्स्थे अश्विन्यादित्रयघटितग्रहस्थानत्रयान्तर्गते मार्गभेदे वियति हि मध्यमोत्तरदक्षिणमार्गत्रयमस्ति तच्च प्रत्येकं वीथीत्रयेण त्रिधा भिद्यते। तथा हि त्रिभिस्त्रिभिरश्विन्यादिनक्षत्रैर्नागवीथी गजवीथी ऐरावती चेत्युत्तरमार्गे वीथीत्रयम्” “सर्वग्रहाणां भान्येव स्थानानि द्विजसत्तमाः। स्थानं जारद्गवं मध्ये तथैरावतमुत्तरम्” “वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः। अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता” विष्णुपु० जरद्गवशब्दे ३०५८ पृ० दृश्यम्। २ कश्यपपुत्रीभेदे च “नाग वीथी च यामिन्याम्” ब्रह्म० प्र० २ अ०।
नागवृक्ष = पु० नागाख्यो वृक्षः। नागकेसरवृक्षे शब्दार्थचि०।
नागशत = पु० नागानां शतमत्र। पर्वतभेदे “जगाम सह पत्रीभ्यां ततो नागशतं गिरिम्” भा० आ० १९९ अ०।
नागशुण्डी = स्त्री नागस्य शुण्डस्तदाकारोऽस्त्यस्य शिखायाम् अच् गौरा० ङीष्। डङ्गरीफलनामके वृक्षे राजनि०।
नागसम्भव = न० नागात् सीसकात् सम्भवति सम् + भू–अच् ५ त०। सिन्दूरे अमरः।
नागसम्भूत = न० नागात् सीसात् वासुक्यादितो वा सम्भूतम् ५ त० सीससम्भवे १ सिन्दूरे वासुक्यादिशिरस्येवर्षणःपतिते २ मुक्ताफलभेदे च “तक्षकवासुकिकुलजाः कामगमा ये च पन्नगास्तेषाम्। स्निग्धानीलद्युतयो भवन्ति मुक्ताः फणस्यान्ते। शस्तेऽवनिप्रदेशे रजतमये भाजने स्थिते च यदि। वर्षति देवोऽकस्मात् तज्ज्ञेयं नागसम्भूतम्। अपहरति विषमलक्ष्मीं क्षपयति शत्रून्यशो विकाशयति। भौजङ्गं नृपतीनां धृतमकृतार्घं विजयदं च” वृ० स० ८१ अ०
नागसरस् = व० तीर्थभेदे नागरखण्डशब्दे दृश्यम्।
नागसाह्वय = न० नागेन हस्तिना समानः आह्वयो यस्य। हस्तिनापुरे “जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्” भा० आ० १३ अ०।
नागसुगन्धा = स्त्री नागस्य सर्पस्येव सुगन्धोऽस्याः। भुजङ्गाक्षीलतायां क्षीरस्वामी।
नागस्तोक = न० नागस्य तद्विषस्य स्तोकमत्र कप्। वत्स नाभविषे राजनि०।
नागस्फोता = स्त्री नाग इव स्फोता। १ नागदन्तीवृक्षे २ दन्तीवृक्षे च राजनि०।
नागहनु = पु० नागस्य हस्तिनो हनुरिव। नखीनामगन्धद्रव्ये राजनि०।
नागहन्त्री = स्त्री नागान् सर्पान् हन्ति तृच् ङीप्। १ बन्ध्याकर्कट्याम् राजनि०। २ सर्पगजयोर्हन्तरि त्रि०।
नागाख्य = पु० नागेति आख्या यस्य। नागकेसरे त्रिका०।
नागाञ्चला = स्त्री नागस्याञ्चलमिवात्र। नागयष्टौ जटाधरः।
नागाञ्जना = स्त्री नागस्याञ्जनं यत्र। १ नागयष्ट्यां २ हस्तिन्याञ्च मेदि०।
नागाधिप = पु० ६ त०। १ अनन्ते नागे हेमच०। २ गजसर्पयोरधिपमात्रे च। नागाधिराजादयोऽप्यत्र।
नागानन = पु० नागस्येवाननमस्य। गजानने गणेशे।
नागान्तक = ६ त०। १ मरुडे क्रमेण सर्पगजयोरन्तके २ मयूरे ३ सिंहे च।
नागानन्द = पु० नामानामानन्दो वर्ण्यो यत्र। श्रीहर्षप्रणीते नाटकभेदे।
नागाराति = पु० नागस्य सर्पस्यारातिः १ बन्ध्याकर्कट्याम् राजनि० २ सिंहे ३ गरुडे ४ मयूरे च। नागारिप्रभृतयोऽप्येषु।
नागार्जुनोय = पु० नागश्च अर्जुनश्च तौ अधिकृत्य कृतोग्रन्थः “द्वन्द्वाच्छः” पा० छ। नागार्जुनाधिकारेण कृते काव्यभेदे छस्याख्यायिकात्वात् वा लुक्। नागार्जुन तत्रार्थे।
नागालाबू = स्त्री नागः नागकुम्भ इवालावूः। गजकुम्भाकारायां तुम्ब्याम् राजनि०।
नागाशन = न० नागान् अश्राति अश–ल्यु। गरुडे हारा०। २ ययूरे ३ सिंहे च।
नागाह्व = पु० नागेन युक्ताह्वा यस्य। हस्तिनापुरे। नागाह्वयादयोऽप्यत्र त्रिका०।
नागाह्वा = स्त्री नागं नागकेसरमाह्वयते स्पर्द्धते आ + ह्वे–क। लक्ष्मणायाम् राजनि०।
नागिन् = पु० नागो भूषणत्वेनास्त्यस्य इनि। सर्पभूषणे शिवे “नागोपवीतिनं नग्नं नागिनमग्निवर्चसम्” हरिवं० २७६ अ०।
नागेन्द्र = पु० नाग इन्द्र इव श्रेष्ठत्वात् उपमितस०। १ ऐरावते २ शेषादिनागे च। “नागेन्द्रहस्तस्त्वचि कर्कशत्वात्” कुमा०। “कुथेन नागेन्द्रमिवेन्द्रवाहनम्” माथः।
नागेश = पु० ६ त०। १ अनन्ते शेषनागे। पाणिनिव्याकरणभाष्यविवरणादिग्रन्थकारके २ विद्वद्भेदे “नागेशभट्टस्तनुते लघुशब्देन्दुशेखरम्”। ३ शिवलिङ्गभेदे न० नागेश्वरोऽप्यत्र विष्णुपु० उक्ते तन्निकटस्थे ४ तीर्थभेदे न०।
नागोद(र) = न० नाग इवोदर यस्मात् पृषो० वा रस्य लोपः। उदरत्राणे हेमच०। रान्तं तत्रार्थे हारा०। सुश्रुतोक्ते २ गर्भिण्या गर्भोपद्रवभेदे च “शुक्रशोणितं वायुर्नाभि प्रपन्नमवक्रान्तजीवमाध्मापयत्युदर तत्कदाचिद्यदृच्छयोपशान्तं नैगमेषापहतधिति भाषन्ते। तमेव कदाचित् प्रलीयमानं नागोदरमित्याहुस्तत्रापि तीनवत् प्रतीकारः”
नागोद्रेद = न० सरस्वतीनदीप्रकाशस्थानभेदरूपे तीर्थभेदे “गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती। चमसे च शिवोद्भोदे नागोद्भेदे च दृश्यते। नागोद्भेदे नरः स्रात्वा नागलोकमवाप्नुयात्” भा० व० ८२ अ०।
नाचिक = पु० विश्वामित्रपुत्रभेदे “अराणिर्नाचिकश्चैव” भा० अनु० ४ अ० विश्वावित्रपुत्रोक्तौ।
नाचिकेत = पु० नचिकेतशब्दार्थे १ अनले २ ऋषिभेदे ३ तदुपाख्याने च। त्रिकाण्डे नाचिकेतुरिति पाठः लिपिकरप्रमादकृतः नाचिकेत इत्येव पाठः श्रुत्यादिसंवादी। नाचिकेतोपाख्यानञ्च भा० अनु० ७१ अ० आदौ दृश्यम्।
नाचीन = पु० दक्षिणस्थे १ देशभेदे २ तन्नृपे च “नाचोनानर्वुकांश्चैब” भा० स० ३० अ० सहदेवदक्षिणदिग्विजये।
नाट = पु० नट–घञ्। १ नृत्ये २ कर्णाटदेशे च शब्दरत्ना०
नाटक = त्रि० नट–ण्वुल्। १ नर्त्तके स्त्रियां टप्। कामाख्या पर्वतान्तिकस्थे २ पर्वतभेदे। “ऐशान्यां नाटके शैले शङ्करस्य महाश्रमम्। नित्यं वसति तत्रेशस्तदधीना तु पार्वती” कालिकापु०। ३ दृश्यकाव्यरूपे रूपकभेदे न०। तद्भेदलक्षणादिकं सा० द० उक्तं यथा “नाटकमथ प्रकरणम् भाणव्यायोगसमवकारडिमाः। ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश। किञ्च, “नाटिकां त्रोटकं गोष्ठी सट्टकं नाट्यरासकम्। प्रस्थानोल्लाप्यकाव्यानि प्रेङ्क्षणं रासक तथा। संलापकं श्रीगदितं शिल्पक्तञ्च विलासिका। दुर्मल्लिका प्रकरणी हल्लीशो माणिकेति च। अष्टादश प्राहुरुपरूपकाणि मणीपिणः। विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्”। सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणाञ्च। तत्र। “नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम्। विलासर्द्ध्यादिगुणवद्युक्तं नानाविभूतिभिः। सुखदुःखसमुद्भूति नानारसनिरन्तरम्। पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः। प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान्। दिव्योऽथ दिव्यादिव्यो वा गुणवान्नायको मतः। एक एव भवेदङ्गी शृङ्गारो वीर एव वा। अङ्गमन्ये रसाः सर्वे कार्य्यनिर्वहणेऽद्भुतम्। चत्वारः पञ्च वा मुख्याः कार्य्यव्यापृतपूरुषाः। गोपुच्छाग्रसमाग्रन्तु बन्धनं तस्य कीर्तितम्”। “देवतोनां मनुष्याणां राज्ञां लोके महात्मनाम्। पूर्ववृत्तानुचारतं प्रख्यातोदात्तनायकम्। प्रवेशकविविस्कम्भादिभिः सन्धिभिरन्वितम्। इतिहासकथोद्भूतं सुखदुःखदयै- र्युतम्। षट्पञ्चदशसप्ताष्टनवाङ्कैरनुभूषितम्। नानाविलासलीलाभिः सर्वसिद्धिभिरन्वितम्। नानाभाव रसैराढ्यं नाटकं सूरयो विदुः। किञ्चिदङ्गविहीनन्तु न त्याज्यं नाटकं क्वचित्। आरम्भश्च प्रयत्नञ्च प्राप्तिः सम्भव एव च। नियता च फलप्राप्तिः फलयोगस्तथा परः। इत्यवस्थापञ्चकं स्यात् नाटके कार्य्यवस्तुनः। संस्कृतं प्राकृतं भूतभाषापभ्रंशिका गिरः। नाटके नियताः शस्ता एषा भाषा रसावहा। भाषाविभाषाभेदेन प्राकृतन्तु चतुर्दश। मागध्यावन्तिका प्राच्या शौरसेन्यर्द्धमागधी। वाह्लीका दाक्षिणात्याश्च भाषाः सप्त च प्राकृते। शकाराभीरचाण्डालशवरद्रविडौड्रजाः। वानौकसी विजातीनां विभाषाः सप्त कीर्त्तिताः। कैकेयी शौरसेनी च काञ्ची पाञ्चालमागधी। द्राविडी पाण्डुदेशी च भूतभाषाः प्रकीर्त्तिताः। वैदर्भी मागधी नाटी काम्बोजी चोपनागरी। पाञ्चाली षडपभ्रंशभाषाः स्युर्देशभेदतः। देवतादर्शनान्तञ्च कर्त्तव्यं नाटकं बुधैः। राजर्षिदर्शनान्तं वा तेऽपि देवैः समा मताः”। उदाहरणम् “मुरारिकवेरनर्घराघवं भवभूतेरुत्तरचरितं कालिदासस्याभिज्ञानशकुन्तलञ्च” सङ्गीतदा०। तच्च यथा कर्त्तव्यं नाटकादिविभागमुक्त्वा अग्निपु० ३३७ अ० तथा निरूपितं यथा “सामान्यञ्च विशेषश्च लक्षणस्य द्वयी गतिः। सामान्यं सर्वविषयं शेषः क्वापि प्रवर्त्तते। पूर्वरङ्गे निवृत्ते द्वौ देशकालावुभावपि। रसभावविभावानुभावा अभिनयस्तथा। अङ्कः स्थितिश्च सामान्यं सर्वत्रैवोपसर्पणात्। विशेषोऽवसरे वाच्यः सामान्यं पूर्वमुच्यते। त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत्। इतिकर्त्तव्यता तस्य पूर्वरङ्गो यथाविधि। नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्बरङ्गके। देवतानां नमस्कारो गुरूणामपि च स्तुतिः। गोब्राह्मणनृपादीनामाशीर्वादादि गीयते। नान्द्यन्ते सूत्रधारोऽसौ रूपकेषु निबध्यते। गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः। सम्बन्धार्थौ च काव्यस्य पञ्चैतानेष निर्दिशेत्। नटी विदूषको वापि पारिपार्श्विक एव वा। सहिताः सूत्रघारेण संलाप यत्र कुर्वते। चित्रैर्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्मिथः। आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा। प्रवृत्तकं कथोद्घातः प्रयोगातिशयस्तथा। आमुखस्य त्रयो भेदा वीजांशेषूपजायते। कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत्। तदाश्रयश्च पात्रस्य प्रवेशस्तत् प्रवृत्तकम्। सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेवात्वा। गृहीत्वा प्रविशेत् पात्रं कथोद्द्वातः स उच्यते। प्रयोगेषु प्रयोगन्तु सूत्रधृग्यत्र वर्णयेत्। ततश्च प्रविशेत् पात्रं प्रयोगातिशयो हि सः। शरीरं नाटकादीनामितिवृत्तं प्रचक्षते। सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदावुभौ स्मृतौ। सिद्धमागमदृष्टञ्च सृष्टमुत्प्रेक्षितं कवेः। वीजं विन्दुः पताका च प्रकरी कार्य्यमेव च। अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात्। प्रारम्लश्च प्रयत्नश्च प्राप्तिः सद्भाव एव च। नियता च फलप्राप्तिः फलयोगश्च पञ्चमः। मुखं प्रतिमुखं गर्भो विमर्षश्च तथैव च। तथा निर्वहणञ्चेति क्रमात् पञ्चैव सन्धयः। अल्पमात्रं समुद्दिष्टं बहुधा यत् प्रसर्पति। फलावसानं यच्चैव वीजं तदभिधीयते। यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा। काव्ये शरीरानुनतं तन्मुखं परिकीर्त्तितम्। इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः। रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव गूहनम्। आश्चर्य्यवदभिख्यातं प्रकाशानां प्रकाशनम्। अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेव च। देशकालौ विना किञ्चिन्नेतिवृत्तं प्रवर्त्तते। अतस्तयोरुपादाननियमात् पदमुच्यते। देशेषु भारतं वर्षं काले कृतयुगत्रयम्। मर्त्त्ये ताभ्यां प्राणभृतां सुखदुःखोदयः क्वचित्। सर्गे सर्गादिवार्त्ता च प्रसज्जन्ती न दुष्यति”।
नाटकलक्षण = न० नाटकस्य दशविधरूपकस्य लक्षणम्। सा० द० उक्ते षट्त्रिंशन्मिते नाटकस्य लक्षणे यथा “षटत्रिंशल्लक्षणान्यत्र नाट्यालङ्कृतयस्तथा ३६। त्रयस्त्रिंशत् प्रयोज्यानि वीथ्यङ्गानि त्रयोदश। लास्याङ्गानि दश यथालाभं रसव्यपेक्षया” इत्युद्दिश्य “भूषणाक्षरसंहातौ शोभोदाहरणं तथा। हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः। निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च। दिष्ठोपदिष्टे च गुणातिपातातिशयौ तथा। विशेषणनिरुक्ती च सिद्धिर्भ्रंशविपर्य्ययौ। दाक्षिण्यानुनयौ मालाऽर्थापत्तिगर्हणे तथा। पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्त्तनम्। लेशो मनोरथोऽनुक्तसिद्धिः प्रियवचस्तथा। लक्षणानि” इति बिभज्य क्रमेणलक्षितानि यथा
“गुणैः सालङ्कारैर्य्योगस्तु भूषणम् १। वर्णनाऽक्षरसंहात २ श्चित्रार्थैरक्षरैर्मितैः। सिद्धैरर्थैः समं यत्र प्रसिद्धोऽर्थः प्रकाशते। श्लिष्टलक्षणचित्रार्था सा शोभेत्यभिधीयते ३। यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात्। साध्यतेऽभिमतश्चार्थस्तदुदाहरणं ४ मतम्। हेतु ५ र्वाक्यं समासोक्तमिष्टकृद्धेतुदर्शनात्। संशयो ६ ज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः। दृष्टान्तो ७ यस्तु पक्षार्थसाधनाय निदर्शनम्। तुल्यतर्को ८ यदर्थेन तर्कः प्रकृतगामिना। सञ्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः ९। यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्त्तनम्। परपक्षव्युदासार्थं तन्निदर्शन १० मुच्यते। अभिप्राय ११ स्तु सादृश्यादद्भुतार्थस्य कल्पना। प्राप्तिः १२ केनचिदंशेन किञ्चिद्यत्रानुमीयते। विचारो १३ युक्तवाक्यैर्यदप्रत्यक्षार्थसाधनम्। देशकालस्वरूपेण वर्णना दिष्ट १४ मुच्यते। उपदिष्टं १५ मनोहारि वाक्यं शास्त्रानुसारतः। गुणातिपातः १६ कार्य्यं यद्विपरीतं गुणान् प्रति। यः सामान्यगुणोद्रेकः स गुणातिशयो १७ मतः। अर्थान् सिद्धान् बहूनुक्त्वा विशेषोक्तिर्विशेषणम् १८। पूर्वसिद्धार्थकथनं निरुक्ति १९ रिति कीर्त्तितम्। बहूनां कीर्त्तनं सिद्धि २० रभिप्रेतार्थसिद्धये। दृप्तादीनां भवेद्भ्रंशो २१ वाच्यादन्यतरद्वचः। विचारस्यान्यथाभावः सन्देहात्तु विपर्य्ययः २२। दाक्षिण्यं २३ चेष्टया वाचा परचित्तानुवर्त्तनम्। वाक्यैः स्निग्धैरनुनयो २४ भवेदर्थस्य साधनम्। माला २५ स्याद्यदभीष्टार्थं नैकार्थप्रतिपादनम्। अर्थापत्ति २६ र्यदन्यार्थोऽर्थान्तरोक्तेः प्रतीयते। दूषणोद्घोषणायां तु भर्त्सना गर्हणं २७ तु तत्। अभ्यर्थनापरैर्वाक्यैः पृच्छा २८ऽर्थान्वेषणं २९ मतम्। प्रसिद्धि ३० र्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम्। सारूप्य ३१ मभिभूतस्य सारूप्यात् क्षोभवर्त्तनम्। संक्षेपो ३२ यत्तु संक्षेपादात्मन्यर्थे प्रयुज्यते। गुणानां कीर्त्तनं यत्तु तदेव गुणकीर्त्तनम् ३२। स लेशो ३३ भण्यते वाक्यं यत् सादृश्य पुरःसरम्। मनोरथ ३४ स्त्वभिप्रांयस्योक्तिर्भङ्ग्यन्तरेण यत्। विशेषार्थोऽतिप्रस्तावेऽनुक्तसिद्धि ३५ रुदीर्थ्यते। स्यात्प्रमाणयितुं पूज्यं प्रियोक्ति ३६ र्हर्षभाषणम्”।
नाटकीय = त्रि० नाटके भवः तत्र वर्ण्यः “वृद्धाच्छः” पा० छ। नाटके वर्ण्ये पदार्थे “पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः” माघः।
नाटाम्र(म्ल) = पु० नटानां प्रियः अण् नाटः अम्रो (म्लो) रसोऽस्य। (तरमज) ख्याते लतापनसे त्रिका०।
नाटार = पुंस्त्री नट्या अपत्यम् वा आरक्। नट्या अपत्ये
नाटिका = स्त्री दृश्यकाव्यभेदे तल्लक्षण यथा “नाटिका कॢप्तवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका। प्रख्यातो धीरललितस्तत्र स्यान्नायकोनृपः। स्यादन्तःपुरसम्बन्धा सङ्गी- तव्यापृताऽथ वा। नवानुरागा कन्यात्र नायिका नृपवंशजा। सम्प्रवर्त्तेत नेताऽस्यां देव्यास्त्रासेन शङ्कितः। देवी पुनर्भवेज्जेष्ठा प्रगल्भा नृपवंशजा। पदे पदे मानवती तद्वशः सङ्गमो द्वयोः। वृत्तिः स्यात् कैशिकी स्वल्पविमर्षाः सन्धयः पुनः”। द्वयोर्नायकनायिकयोः। यथा रत्नावली विद्धशालभञ्जिकादि” सा० द०। सङ्गीतदामोदरेऽत्र कश्चिद्विशेष उक्तस्तत्रैव दृश्यः।
नाटित = त्रि० चु० नट–क्त। १ कृताभिनये भावे क्त २ अमिनये स्वार्थे क। नाटितक नटकृत्ये।
नाटेय = पुं स्त्री नट्या अपत्यम् क्षुद्रत्वेऽपि ष्ट्रकोऽभावपक्षे स्त्रीभ्योढक्” पा० ठक्। नट्या अपत्ये
नाटेर = पुंस्त्री नट्या अपत्यं क्षुद्राभ्यो बा ढ्रक्। नट्या अपत्ये
नाट्य = न० नटस्य इदं कृत्यस् “छन्दोगौकिथकेत्यादिना” पा० ष्यञ्। १ नटकृत्ये नृत्यगीतवाद्यात्मके २ लास्ये वाक्यार्थाभिनये च तत्फलादिकं सङ्गीतदा० उक्तं यथा
“देवर्षिक्षितिपालपूर्वचरितान्यालोक्य धर्मादयस्तत् स्ताबाश्रितभूमिकाभिनयने स्यादर्थसिद्धिः परा। सङ्गीतायुतचित्तवृत्तिहरणावश्या भवन्त्यङ्गना ज्ञानं शङ्करसेवयेति कथितं नाट्यं चतुर्वर्गदम्। यो यस्य दयितो भावः स तं नाट्ये निरीक्षते। अतः सर्वमनोहारि नाट्यं कस्य न रञ्जकम्”। नाट्योत्पत्तिर्यथा “इहानुश्रूयते ब्रह्मा शक्रेणाभ्यर्थितः पुरा। चकाराकृष्य वेदेभ्यो नाट्यवेदन्तु पञ्चमम्। उपवेदोऽथ वेदाश्च चत्वारः कथिताः स्मृतौ। तत्रोपवेदो गान्धर्वः शिवेनोक्तः सयम्भुवे। तेनापि भरतायोक्तस्तेन मर्त्ये प्रचारितः। शिवाब्जयोनिभरतास्तस्मादस्य प्रयोजकाः”। नाट्यारम्भमुहूर्त्तादिनिरूपणाय पी० धा० वसिष्ठ आह “त्रिकोत्तरामित्रगुरुश्रविष्ठाहस्तेन्द्रवारीश्वरपौष्णभेषु। सङ्गीतनृत्यादिसमस्तकर्म कार्यं विभौमार्कजवासरेषु”। श्रीपतिरपि “हस्तः पुष्यो वासवं चानुराधा ज्येष्ठा पौष्णं वारुणं चोत्तराश्च। पूर्वाचार्यैः कीर्त्तितश्चन्द्रवर्त्ती नृत्यारम्भे शोभनोऽयं भवर्गः”। काश्यपः “लग्नसंस्थे बुधे चन्द्रे बुधराशौ तु वीक्षिते। शुभग्रहैश्चतुर्थस्थैर्नाट्यारम्भः प्रशस्यते”। अतएव रतमालायाम् “बुधे विलग्ने शशिनि ज्ञराशौ शुभवीक्षिते। हिकु कस्थैः शुभैर्नाट्यप्रारम्भः सद्भिरिष्यते”।
नाट्यधर्मिका = स्त्री नाट्यस्य धर्मोऽस्त्यत्र क्रियायाम् ठन्। “सङ्गीतं प्रेक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्यधर्मिका” हेमचन्द्रोक्ते दर्शनार्थे शास्त्रोक्ते तौर्य्यत्रिकरूपे मटकृत्ये
नाट्यप्रिय = पु० नाट्यं प्रियमस्य। शिवे महादेवे हेमच०।
नाट्यभाषा = स्त्री नाट्ये प्रयोक्तव्या पात्रभेदेन भाषा। नाटके प्रयोक्तव्ये पात्रभेदेन भाषाभेदे साच सङ्गीतदा० उक्ता नाटकशब्दे दर्शिता विशेषस्तु सा० द० उक्तो यथा “पुरुषाणामनीचानां संस्कृतं स्यात् कृतात्मनाम्। शौरसेनी प्रयोक्तव्या तादृशीनाञ्च योषिताम्। आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत्। अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम्। चेटानां राजपुत्राणां श्रेष्ठिनां चार्द्धमागधी। प्राच्या विदूषकादीर्ना धूर्त्तानां स्यादवन्तिका। योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम्। शकाराणां शकादीनां शाकारीं सम्प्रयोजयेत्। वाह्लीकभाषा दिव्यानां द्राविडी द्रविडादिषु। आभीरेषु तथाऽभीरी चाण्डाली पुक्कसादिषु। आभीरी शावरी चापि काष्ठपत्रोपजीविषु। तथैवाङ्गारकारादौ पैशाची स्यात् पिशाचवाक्। चेटीनामप्यनीचानामपि स्यात् शौरसेनिका। बालानां षण्डकानाञ्च नीचग्रहविचारिणाम्। उन्मत्तानामातुराणां सैव स्यात् संस्कृतं क्वचित्। ऐश्वर्य्येण प्रमत्तस्य दारिद्र्योपस्कृतस्य च। भिक्षुबन्धधरादीनां प्राकृतं सम्प्रयोजयेत्। संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषूत्तमासु च। देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम्। यद्देशं नीचपात्रन्तु तद्देशं तस्य भाषितम्। कार्य्यतश्चोत्तमादीनां कार्य्यो भाषाविपर्य्ययः। योषित्सखीबालवेश्याकितवाप्सरसां तथा। वैदग्ध्यार्थं प्रदातव्यं संस्कृतं चान्तरान्वरा”। नाटकभाषाऽप्यत्र।
नाट्यरासक = न० दृश्यकाव्यरूपरूपकभेदे तल्लक्षणं सा० द० उक्तं यथा “नाट्यरासकमेकाङ्कं वहुताललयस्थिति। उदात्तनायकं तद्वत् पीठमर्दोपनायकम्। हास्योऽङ्ग्यत्र सशृङ्गारो नारी वासकसज्जिका। मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च। केचित् प्रतिमुखं सन्धिमिह नेच्छन्ति केवलम्”। “तत्र सन्धिद्वयवती यथा नर्मवती। सन्धिचतुष्टयवती यथा विलासवती”।
नाट्यशाला = स्त्री ६ त०। नाट्यस्य नाट्यार्थं शाला। (नाटमन्दिर) देवप्रासादसम्मुखस्थे गृहे “नाट्यशाला च कर्त्तव्या द्वारदेशसमाश्रया” गरुडपु०।
नाट्याङ्ग = न० ६ त०। सा० द० उक्ते दशविधे नाट्यस्याङ्गे यथा “गेयपदं स्थितपाद्यमासीनं पुष्पगण्डिका। प्रच्छेदकस्त्रिगूढञ्च सैन्धवाख्यं द्विगूढकम। उत्तसोत्तमकञ्चान्य- दुक्तप्रत्युक्तमेव च। लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः। तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः। शुष्कं गानं गेयपदं १ स्थितपाद्यं २ तदुच्यते। मदनोत्तापिता यत्र पठति प्राकृतं स्थिता। निखिलातोद्यरहितं शोकृचिन्तान्विताऽबला। सुप्रसारितगात्रं यदासीदासीन ३ मेव तु। आतोद्यमिश्रितं गेयं छन्दांसि विविधानि च। स्त्रीपुंसयोर्विपर्य्यासचेष्टितं पुष्पगण्डिका ४। अन्यासङ्गं पतिं मत्वा प्रेमविच्छेदमन्युना। वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको ५ मतः। स्त्रीवेशधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् ६। कश्चन भ्रष्टसङ्केतः सुव्यक्तकरणान्वितः। प्राकृतं वचनं वक्ति यत्र तत्सैन्धवं ७ विदुः। चतुरस्रपदं गीतं मुखप्रतिमुखान्वितम्। द्विगूढं ८ रसभावाढ्यमुत्तमोत्तमकं ९ पुनः। कोपप्रसादजमधिक्षेपयुक्तं रसोत्तरम्। हावहेलान्वितं चित्रश्लोकबन्धमनोहरम्। उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत्। विलासान्वितगीतार्थमुक्तप्रत्युक्त १० सुच्यते”।
नाट्यालङ्कार = पु० सा० द० उक्ते षट्त्रिंशद्विधे नाट्यस्यालङ्कारभेदे यथा “आशीराक्रन्दकपटाक्षमागर्वोद्यमाश्रयाः। उत्प्रासनं स्पृहाक्षोभपश्चास्तापोपपत्तयः। आशसाध्यवसायौ च विसर्पोल्लेखसज्ञितौ। उत्तेजनं परीवादो नीतिरर्थविशेषणम्। प्रोत्साहनञ्च साहाय्यमभिमानोऽनुवर्त्तनम्। उत्कीर्त्तनं तथा याच्ञा परीहारो निवेदनम्। प्रवर्त्तनाख्यानयुक्तिप्रहषाश्चोपदेशनम्। इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः” इत्युद्दिश्य। आशी १ रिष्टजनाशंसाऽऽक्रन्दः २ प्रलपितं शुचा। कपटं ३ मायया यत्र रूपमन्यद्विभाव्यते। अक्षमा ४ सा परिभवः स्वल्पोऽपि नाभिसह्यते। गर्वो ५ऽवलेपजं वाक्यं कार्य्यस्यारम्भ उद्यमः ६। ग्रहणं गुणवत्कार्य्यहेतोराश्रय ७ उच्यते। उत्प्रासन ८ न्तूपहासो योऽसाधौ साधुमानिनि। आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा ९ तु सा। अधिक्षेपवचःकारी क्षोभः १० प्रोक्तः स एव तु। मोहावधीरितार्थस्य पश्चात्तापः ११ स एव तु। उपपत्ति १२ र्मता हेतोरुपन्यासोऽर्थसिद्धये। आशंसनं स्यादाशंसा १३ प्रतिज्ञाध्यवसायकः १४। विसर्पो १५ यत्समारब्धं कर्मानिष्टफ लप्रदम्। कार्यग्रहणमुल्लेखः १६ उत्तेजन १७ मितीष्यते। स्वकार्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक्। भर्त्सना तु परीवादः १८ नीतिः १९ शास्त्रेण वर्त्तनम्। उक्तस्यार्थस्य यत्तु स्यादुत्कीर्त्तनमनेकधा। उपालम्भस्वरूपेण तत् स्यादर्थविशेषणम् २०। प्रोत्साहनं २१ स्यादुत्साहगिरा कस्यापि योजनम्। साहाय्यं २२ सङ्कटे यत्स्यात् सानुकूल्यं परस्य च। अभिमानः २३ स एव स्यात् प्रश्रयादनुवर्त्तनम् ७। अनुवृत्तिः भूतकार्य्याख्यानमुत्कीर्त्तनं २८ मतम्। याच्ञा २९ तु क्वापि याच्ञा या स्वयं दूतमुखेन वा। परीहार ३० इति प्रोक्तः कृतानुचितमार्जनम्। अवधीरितकर्त्तव्यकथनन्तु निवेदनम् ३१ प्रत्वर्त्तन ३२ न्तु कार्य्यस्य यत्स्यात् साधुप्रवर्त्तनम्। आख्यानं ३३ पूर्बवृत्तोक्तिर्युक्ति ३४ रर्थावधारणम्। प्रहर्षः ३५ प्रमदाधिक्यं शिक्षा स्यादुपदेशनम् ३६” लक्षितानि।
नाट्योक्ति = स्त्री नाट्ये उक्तिर्विशेषोक्तिः। लौकिकप्रसिद्धार्थकशब्दान्तरेण नाट्ये पदार्थान्तराणामुक्तौ तथा च केषाञ्चित् शब्दानामन्यार्थे पारिभाषिकत्वं नाट्ये ज्ञेयम् सा च सा० द० निर्णीता यथा
“अश्राव्यं खलु यद्वस्तु तदिह स्वगतं १ मतम्। सर्वश्राव्यं प्रकाशं २ स्यात्तद्भवेदपवारितम् ३। रहस्यन्तु यदन्यस्य परावृत्य प्रकाश्यते। त्रिपताककरेणान्यानपवार्य्यान्तरा कथा। अन्थोन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ४। किं ब्रवीषीति यन्नाट्ये विना पात्रं। प्रयुज्यते। श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाशभाषितम् ५। दत्तां सिद्धाञ्च सेनाञ्च वेश्यानां नाम दर्शयेत्। दत्तप्रायाणि बणिजां चेटचेट्योस्तथा पुनः। वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत्। नाम कार्य्यं नाटकस्य गर्भतार्थप्रकाशकम्। नायिकानायकाख्यानां संज्ञाप्रकरणादिषु। नाटिकासट्टकादीनां नायिकाभिर्विशेषणम्। प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते। राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः। राजर्षिभिर्वयस्येति तथा विदूषकेण च। राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च। स्वेच्छया नामभिर्विप्रैर्विप्र आर्येति चेतरेः। वयस्येत्यथ वा नाम्ना वाच्यो राज्ञा विदूषकः। वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परम्। सूत्रधारो भवेद्भाव इति वै पारिपार्श्विकः। सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः। वयस्येत्युचमैर्हंहो मध्यैरार्य्येति चाग्रजः। भगवन्निति वक्तव्याः सर्वैर्देवर्षिलिङ्गिनः। वदेद्राज्ञीञ्च चेटीञ्च भवतीति विदूषकः। आयुष्मन् रथिनं सूतो वदेत् तातेति चेतरः। वत्स पुत्रक तातेति नाम्ना गोत्रेण वा सुतः। शिष्योऽनुजश्च वक्तव्योऽमात्य आर्य्येति चाधमैः। विप्रैरयममात्येति सचिवेति च भण्यते। साधो इति तपस्वी च प्रशान्तश्चोच्यते बुधैः। अगृहीताभिधः पूज्यः शिष्याद्यैर्विनिनद्यते। उपाध्यायेति चाचार्य्यो महाराजेति भूपतिः। स्वामीति युवराजस्तु कुमारो भर्तृदारकः। सौम्य भद्रमुखेत्येवमधभैस्तु कुमारकः। वाच्या प्रकृतिभीराज्ञः कुमारी भर्तृदारिका। पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैस्त्रियः। हलेति सदृशी प्रेष्या हञ्जे वेश्याऽर्जका तथा। कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरतीजनैः। आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः। शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः। यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा। तेनैव नाभ्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचितम्”। “अमरे तु वासुराचार्यस्तु मारिषः” वासुरधिकः पठितः।
नाड = पु० नाल + लस्य ड। नालशब्दार्थे अमरः।
नाडपित् = न० कण्छश्रमो “शकुन्तला नाडपित्यप्सरा भरतं दधे” शत० ब्र० १२। ५। ४। १३ “नाडपिति स्थाने कण्वाश्रमे” भा०।
नाडि = स्त्री नल–इन्। नाड्याम् “कुहूः स्युः सप्त नाडयः” सा० ति० नाडीशब्दे दृश्यम्।
नाडिक = न० नाड्यां हितं ठक्। कालशाके भावप्र० तत्र स्त्री त्वमपि “कृमुम्भं नाडिकाशाकं वार्त्ताकुं पूतिकां तथा। भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः” ति० त०। अत्र नालिकाशाकमिति पाठान्तरम् श्वेतकलमीति तदर्थ इति कल्पतरुः।
नाडिका = स्त्री नाडी + स्वार्थे क। नाडीशब्दार्थे
नाडिकेल = पु० नारिकेल + रस्य डः। नारिकेले भरतः।
नाडिचीर = न० नाडी चीरमिव। १ नल्यां २ निर्वेष्टने हारा०।
नाडिन्धम = त्रि० नाडीं नलीं समति ध्मा–खश् ह्रस्वश्च। १ स्वर्नकारे अमरः। उच्चनीचाधिरोहणात् मुहुर्मुहुर्निःश्वासैर्नाडीं धमनं धमति ध्मा–खश्। उच्चनीचाधिरोहणेन २ श्वासकारके त्रि० “कथं नाडिन्धमान् मार्गान्” भट्टिः।
नाडिन्धय = त्रि० नाडीं धयति धे–खश मुम् ह्रस्वश्च। नाडीपानकर्त्तरि।
नाडिपत्र = न० नाडिप्रधानं पत्रमस्य। नाडीचे शाकभेदे
नाडी = स्त्री चु० नल–गन्धे अच् लस्य डः। चु० नड–भ्रंशे अच् वा गौरा० ङीष्। सिरायां काथस्थसिरास्वरूपभेदादिकं भावप्र० उक्तं यथा
“अथ सिरामाह सन्धिबन्धनकारिण्यो दोपष्ठातुः वहाः सिराः। नाभ्यां सर्वा निबद्धास्ताःप्रतन्वन्ति समन्ततः। शरीरं सकलञ्चैतत् सिराभिः पोष्यते सदा। प्रणालीभिरिवारामाः कुल्याभिः क्षेत्रधान्यवत्”। अत्र प्रणालीभिः कुल्याभिरिति दृष्टान्तद्वयं स्थूलसूक्ष्म सिराभेदात्। “प्रसारणाकुञ्चनादिक्रियाभिः सततं तनौ। सिरा एवोपकुर्वन्ति ताः स्युः सप्त शतानि तु। यथा द्रुमदले साक्षात् दृश्यन्ते प्रतताः सिराः”। तथैव “नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिरुपाश्रिता। सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः”। तद्यथा तासां खलु स्थूलसिराः चत्वारिंशत् तासां दश वातवहाः दश पित्तवहाः दश श्लेष्मवहाः दश रक्तवहाः। तासां खलु वातवहानां वातस्थानगतानां सपञ्चसप्ततिशतानि १७५ भवन्ति। तावत्य १७५ एव पित्तवहाः पित्तस्थानगताः। श्लेष्मवहाः तावत्यः १७५ श्लेष्मस्थानगता रक्तवहास्तावत्यः १७५ यकृत्प्लीहगता एवं सिराः सप्तशतानि भवन्ति। तत्र वात्वहाः एकस्मिन् सक्थ्नि पञ्च विंशतिः एतेनेतरसक्थि २५ वाहू च व्याख्यातौ (५०)। विशेषतः कोष्ठे चतुस्त्रिंशत् तासां श्रोण्यां मुदमेढ्रादिश्रिता अष्टौ। द्वे द्वे पार्श्वयोः ४। षट् पृष्ठे तावत्य ६ एवोदरे दश वक्षसि एवं (३४)। एकचत्वारिंशद् जत्रुण ऊर्द्ध्वम् तासां चतुर्द्दश १४ ग्रीवायां ४ चतस्रः कर्णयोः ९ नव जिह्वायां ६ षट् नासिकायां ८ अष्टौ नेत्रयोः (४१)। एवं वातवहानां सपञ्चसप्ततिशतं १७५ भवन्ति। एवं विभागः पित्तवहानामपि विशेषतस्तु पित्तवहा नेत्रयोर्दश १० कर्णयोर्द्वे २ एवं रक्तवहा श्लेष्मवहास्तु षोडश १६ ग्रीवायां कर्णयो र्द्वे एवं सिराणां सप्तशतानि व्याख्यातानि। “क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम्। करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन्”। क्रियाणां प्रसारणाकुञ्चनादीनाम्। अमोहं बुद्धिकर्मणाम् बुद्धीन्द्रियाणां मनसो बुद्धेश्च स्वे स्वे विषये ज्ञानं न करोतीत्यर्थः। अन्यान् गुणान् रसादिव्यापनद्वारा शरीरपोषणादीन्। “यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते। तदास्य विविधा रोगा जायन्ते वातसम्भवाः। भ्राजिष्णुतामन्नरुचिमग्निदीप्ति मरोगताम्। करोत्यन्यान् गुणांश्चापि पित्तमात्मसिराश्चरन्” अरोगतां पैत्तिकरोगानुत्पत्तिं करोति। अन्थान् गुणान् मेधाबुद्धिदर्शनशक्त्यादीन्। “यदा तु कुपितं पित्तं सेवते स्वबहाः सिराः। तदास्य विविधा रोगा जायन्ते पित्तसम्भवाः। स्नेहभङ्गेषु सन्धीनां स्थैर्य्यं बलमरोगताम्। करोत्यन्यान् गुणांश्चापि वलासः स्वाः सिराश्चरन्”। अरोगतां श्लैष्मिकरोगानुत्पत्तिम् अन्यान् गुणान् बलपुष्ट्यादीन्। “यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते। तदास्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः। धातूनां पूरणं सम्यक् स्पर्शज्ञानमसंशयम्। स्वसिरासु चरढ्रक्तं कुर्य्याच्चान्थान् गुणानपि” अन्यान् गुणान् बलपुष्ट्यदीन्। “यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः। तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः। तत्रारुणा वातवहाः पूर्य्यन्ते वायुना सिराः। पित्तदुष्टश्च नीलाश्च शीता गौर्य्यः स्थिराः कफात्। असृग्ष्टरास्तु ता रक्ताः स्युश्चलात्युष्णशीतलाः”। याज्ञव० नाडीसंख्या अन्यथैवोक्ता। कायशब्दे १९१० पृ० दृश्या। पदार्थादर्शे च “पूर्वोक्तायाः सुषुम्णाया मध्यस्थायाः सुलोचने। नाभिहृत्कण्ठतालुभ्रू मध्यपर्व समुद्ववाः। अधोमुख्यः सिराः काश्चित् काश्चिदूर्द्ध्वमुखास्तथा। सिरास्तिर्यग्गतास्याश्च तत्र शतत्रयाधिकाः। नाड्योऽर्द्धलक्षसङ्ल्याताः प्रधानाः समुदीरिताः। तमु सर्वासु वलवान् प्राणो नादः समन्ततः”। संस्थितः सर्वदेहान्तः” इति तत्रापि दशनाडीनां प्राधान्येनोत्कीर्त्तनं सा० ति० यथा “नाडीर्दश विदुस्तासु मुख्यास्तिस्रः प्रकीर्त्तिताः। ईडा वामे तयोर्मध्ये सुपुम्णा पिङ्गलाऽपरे। मध्ये तास्वपि नाडी स्यादग्निषोमस्वरूपिणी। गान्धारी हस्तिजिह्वा च सप्तलालङ्कृता तथा। यशस्विनी शङ्खिनी च कुहूः स्युः सप्त नाडयः। नाड्योनन्ताः समुत्पन्ना सुषुम्णापञ्चपर्वसु”। रोगविशेषज्ञानार्थं नाडीपरीक्षा मावप्र० उक्ता यथा अथ नाडीपरीक्षामाह। पुंसो दक्षिणहस्तस्य स्त्रियो वामकरस्य तु। अङ्गुष्ठमूलनां नाडीं परीक्षेत भिषग्वरः। अङ्गलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत्। तच्चेष्टया सुखं दुःखं जानीयात्कुशलोऽखिलम्। सद्यःस्नातस्य सुप्तस्य क्षुत्तृष्णातपशीलिनः। व्यायामश्रान्तदेहस्य सम्यक् नाडी म बुध्यते। वातेऽधिके भवेन्नाडी प्रव्यक्ता तर्जनीतले। पित्ते व्यक्ता मध्यमायां तृतीयाङ्गुलिगा कफे। तर्जनीमध्यमामध्ये वातपित्ताधिके स्फुटा। अनामिकायां तर्जन्यां व्यक्ता वातकफे भवेत्। मध्यमानामिकामध्ये स्फुटा पित्तकफेऽधिके। अङ्गुलि त्रितयेऽपि स्यात्प्रव्यक्ता सन्निपाततः। वाताद्वक्रगतिन्धत्ते पित्तादुत्प्लुत्य गामिनी। कफान्मन्दगतिर्ज्ञेया सन्निपातादतिद्रुता। वक्रमुत्प्लुत्य चलति धमनी वातपित्ततः। वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिकत्वतः। उत्प्लुत्य मन्दञ्चलति नाडी पित्तकफेऽधिके। कामात् क्रोधाद्वेगवहा क्षीणा चिन्ताभयप्लुता स्थित्वा स्थित्वा च लेह्या सा हन्ति स्थानच्युता तथा। अतिक्षीणा च शीता च प्राणान् हन्ति न संशयः। ज्वरकोपेन धमनी सोष्णा वेगवती भवेत्। मन्दाग्नेः क्षीण धातोश्च सैव मन्दतरा मता। चपला क्षुधितस्य स्यात् तृप्तस्य भवति स्थिरा। सुखिनोऽपि स्थिरा ज्ञेया तथा बलवती सता”। अत्र विशेषो नाडीप्रकाशे
“सार्द्धत्रिकोट्यो नाड्यो हि स्थूलाः सूक्ष्माश्च देहिनाम्। नाभिकन्दनिबद्धास्तास्तिर्य्यगूर्द्ध्वमधः स्थिताः। द्विसप्ततिः सहस्रन्तु तासां स्थूलाः प्रकीर्त्तिताः। देहे धमन्यो धन्यास्ताः पञ्चेन्द्रियगुणावहाः। तासाञ्च सूक्ष्मशुषिराणि शतानि सप्त स्य स्तानि यैरसकृदन्नरसं वहद्भिः। आप्याय्यते वपुरिदं हि नृणाममीषामम्भः स्ववद्भिरिव मिन्धुशतैः समुद्रः। आपादतः प्रततगात्रमशेषमेषामा मस्तकादपि च नाभिपुरःस्थितेन। एतन् मृगङ्ग इव चर्म च येन नद्धं कायं नृणामिह सिराशतसप्तकेन। सप्तशतानां मध्ये चतुरधिका विंशतिः स्फुटास्तासाम्। एका परीक्षणीया दक्षिणकरचरणविन्यस्ता। “तिर्य्यक्कूर्मो देहिनां नाभिदेशे वामे वक्रं तस्य पुच्छञ्च याम्ये। ऊर्ध्वे भागे हस्तपादौ च वामौ तस्याधस्तात् संस्थितौ दक्षिणौ तौ। वक्त्रे नाडीद्वयं तस्य पुच्छे नाडीद्वयं तथा। पञ्च पञ्च करे पादे वामदक्षिणभागयोः। वामे भागे स्त्रिया योज्या नाडी पुंसस्तु दक्षिणे। इति प्रोक्तो मया देवि! सर्वदेहेषु देहिनाम्”। नपुंसकस्य तु स्त्रीपुंसयोरन्यतराकारप्रकटतामपेक्ष्य परीक्षा। साम्यन्तु न स्यादेव। कृत्रिमस्य तु प्रकृतिस्थता। “अङ्गुष्ठस्य तु या मूले धमनी जीवमाक्षिणी। तस्या गतिवशाद्विद्यात् सुखं दुःखंञ्च देहिनाम्। वातं पित्तं कफं द्वन्द्वं सन्निपातन्तथैव च। साध्यासाध्यविवेकञ्च सर्वं नाडी प्रकाशयेत्। प्रातःकृतसमाचारः कृताचारपरिग्रहम्। सुखासीनः सुखासीनं परीक्षाथमुपाचरेत्। सद्यः स्नातस्य भुक्तस्य क्षुत्तृष्णातपसेविनः। व्यायामाक्रान्तदेहस्य सम्यङ्- नाडी न बुध्यते। तेलाभ्यङ्गे च सुप्ते च तथा च मोजनान्तरे। तथा न ज्ञायते नाडी यथा दुर्गतरा नदी। आदौ च वहते वातो मध्ये पित्तं तथैव च। अन्ते च वहते श्लेष्मा नाडिकात्रयलक्षणम्। भूलता गमनप्राया स्वच्छा स्वास्थ्यमयी सिरा। प्रातःसिग्धमयी नाडी मध्याह्ने चीष्णतान्विता। सायाह्ने धावमाना च चिराद्रोगविवर्जिता। वाताद्वक्रगता नाडी चपला पित्तवाहिनी। स्थिरा श्लेष्मवती ज्ञेया मिश्रिते मिश्रिता भवेत्। सर्पजलौकादिगतिं वदन्ति विबुधाः प्रभञ्जनेन नाडीम्। पित्ते च काकलावकभेकादिगतिं विदुः सुधियः। राजहसमयराणां पारावतकपोतयोः। कुक्कुटादिगतिं धत्ते धभनी कफसंवृता। मुहुः सर्पगतिं नाडीं मुहुः मेकगतिं तथा। वातपित्तद्वयोद्भूतां प्रवदन्ति विचक्षणाः। भुजगादिगतिञ्चैव राजहंस गतिं सिराम्। वातश्लेष्मसमुद्भूतां भाषन्ते तद्विदो जनाः। मण्डूकादिगतिं नाडीं मयूरादिगति तथा। पित्तश्लेष्मसमुद्भूतां प्रवदन्ति महाधियः”। “लावतित्तिरिवार्त्तीकगमनं सन्निपाततः। कदाचिन्मन्दगा नाडी कदाचिच्छीग्रगा भवेत्। त्रिदोषप्रमवे रोगे विज्ञेया हि भिषग्वरैः। यदा यं धातुमाप्नोति तदा नाडी तथा गतिः। तथाहि सुखसाध्यत्वं नाडीजानेन बुध्यते”। “नाडी यथा कालगतिस्त्रयाणां प्रकोपशान्त्यादिभिरेव भूयः”। “मन्दं मन्दं शिथिलशिथिलं व्याकुलाव्याकुलं वा स्थित्वा स्थित्वा वहति धमनी याति नाशञ्च सूक्ष्मा। नित्यं स्थानात् स्खलति प्रनरप्यङ्गुलिं संस्पृशेद्वा भावैरेवं बहुविधविधैः सन्निपातादसाध्या। सह्रातापेऽपि शीतत्वं शीतत्वे तापिता सिरा। नानाविधगतिर्यस्य तस्य मृत्युर्न संशयः। त्रिदोषे स्पन्दते नाडी मृत्युकालेऽपि निश्चला। पूर्वं पित्तततिं प्रभञ्जनगतिं श्लेष्माणमाबिभ्रतीम् सन्तानभ्रमणं सुहुर्विदधतीं चक्राधिरूढामिव। तीव्रत्व दधतीं कलापिगतिकां सूक्ष्मत्वमातन्वतीं न साध्यां धमनीं वदन्ति सुधियो नाडीगतिज्ञानिनः। यात्युच्चा च स्थिरात्यन्ता या चेथं मांसवाहिनी। या चं सूक्ष्मा च वक्रा च तामसाध्यां विदुर्बुधाः। भारप्रवाहमूर्च्छाभयशोव प्रमुस्वकारणान्नाडी। संमूर्च्छितापि गाढं पुनरपि सा जीवितं धत्ते। पातितः सन्धितो भेदी नष्टशुक्रश्च यो नरः। शाम्यते विस्मयस्तस्य न किञ्चिन्मृत्युका- रणम्”। अन्यत्रापि। “तथा भूताभिषङ्गेऽपि त्रिदोषवदुपस्थिता। समं वा वहते नाडी तथा च न क्रमं गता। अपमृत्युर्न रोगाङ्गा नाडी तत्सन्निपातवत्। स्वस्थानहीने शोके च हिमाक्रान्ते च निर्गदाः। भवन्ति निश्चला नाड्यो न किञ्चित् तत्र दूषणमिति”। अन्ये त्वाहुः “तोकवातकफैर्दुष्टं पित्तं वहति दारुणम्। षित्तस्थानं विजानीयात् भेषजं तस्य कारयेदिति”। अत्र कश्चित् “स्वस्थानच्यवनं यावद्धमन्या नोपजायते। तावच्चिकित्सासत्त्वेऽपि नासाध्यत्वमिति स्थितिरिति”। प्रसङ्गात् कालनिर्णयमाह “भूलताभुजगाकारा नाडी देहस्य संक्रमात्। विशीर्णा क्षीणतां याति मासान्ते मरण भवेत्। क्षणाद्गच्छति वेगेन शान्ततां लभते क्षणात्। सप्ताहान्मरणं तस्य यद्यङ्गं शोथवर्जितम्। हिमवद्विशदा नाडी ज्वरदाहेन तापिनाम्। त्रिदोषस्पर्शभजतां तदा मृत्युर्दिनत्रयात्। निरीक्ष्या दक्षिणे मादे तदा चैषा विशेषतः। मुखे नाडी वहेन्नित्यं ततस्तु दिनतुर्य्यकम्। गतिन्तु भ्रमरस्येव वहेदेकदिनेन तु। कम्पेन स्पन्दते नित्यं पुनर्लगति चाङ्गुलौ। मध्ये द्वादशयामानां मृत्युर्भवति निश्चितम्”। दक्षिण इति पुंसः। स्त्रियास्तु वाम एव तथेति। “स्थित्वा नाडी मुखे यस्य विद्युद् द्योतिरिवेक्ष्यते। दिनैकं जीवितं तस्य द्वितीये म्रियते ध्रुवम्। स्वस्थानविच्युता नाडी यदा वहति वा न वा। ज्वाला च हृदये तीव्रा तदा ज्वालावधि स्थितिः। अङ्गग्रहणे नाडीनां सान्निपातिकरूपेण भवन्ति सर्ववेदनाः” ज्वररूपमाह। “ज्वरकोपे च धमनी सोष्णा वेगवती भवेत्। उष्मा पित्तादृते नास्ति ज्वरो नास्त्युष्मणा विना। उष्णा वेगधरा नाडी ज्वरकोपे प्रजायते”। अन्यत्र च “ज्वरे च वक्रा धावन्ती तथाच भरुतः प्लवे। रमणान्ते निशिप्रातः तप्ता दीपशिखा यथा”। तत्रापि विशेषमाह “सौम्या सूक्ष्मा स्थिरा मन्दा नाडी सहजवातजा। स्थूला च कठिना शीघ्रा स्पन्दते तीव्रमारुते। द्रुता च सवला शोघ्रा दीर्घा पित्तज्वरे भवेत्। शीघ्रमाहननं नाड्याः काठिन्याच्च चला तथा। मलाजीर्णेनातितरां सस्पन्दञ्च प्रकीर्त्तितम् नाडी तन्तुसमा मन्दा शीतला श्लेष्मदोषजा”। द्वन्तजामाहृ “चञ्चला तरला स्यूलकठिना वातपित्तजा। ईषच्च दृश्यते तूष्णा मन्दा स्यात् शेष्मवातजा निरन्तरं खरं रूक्ष मन्दश्लेष्माति वातलम्। दक्षवातभवे तस्य नाडी स्यात् पित्तसन्निभा। सूक्ष्मा शीता स्थिरा नाडी पित्तश्लं ष्मसमुद्भवा”। “मध्ये करे वहेन्नाडी यदि सन्तर्पिता ध्रुवम्। तदा न्यूनं मनुष्यस्य रुधिरा पूरिता मलाः”। आगन्तुकरूपभेदमाह “भूतज्वरे सेक इवातिवेगा धावन्ति नाड्यो हि यथाम्बुवेगाः”। तथा “ऐकाहिके न क्वचन प्रदूरे क्षणान्तगा सा विषमज्वरेण। द्वितीयके वापि तृतीयतुर्य्ये गच्छन्ति तप्ता भ्रमिवत् क्रमेण”। अन्यत्रापि “उष्णा वेगधरा नाडी ज्वरकोपे प्रजायते। उद्वेगक्रोधकामेषु भयचिन्ताश्रमेषु च। मवेत् क्षीणगतिर्नाडी ज्ञातव्या वैद्यसत्तमैः”। “व्यायामे भ्रमणे चैव चिन्तायां श्रमशोकतः। नामाप्रभावगमना सिरा गच्छति विज्वरे”। अजीर्णरूपमाह “अजीर्णे तु भवेन्नाडी कठिना परितोजडा! प्रसन्ना च द्रुता शुद्धा त्वरिता च प्रवर्त्तते”। तत्र विशेषमाह “पक्वाजीर्णे पुष्टिहीना मन्दं मन्दं वहेज्जडा। असृक्पूर्णा भवेत् कोष्णा गुर्वी सामा गरीयसी। नाड्या भक्षितद्रव्यज्ञानम् यथा “पुष्टिस्तैलगुडाहारे मांसे च लगुडाकृतिः। क्षीरे च स्तिमितावेगा मधुरे भेकवद्गतिः। रम्भागुडवटाहारे रूक्षशुष्कादिभोजने। वातपित्तार्त्तिरूपेण नाडी वहति निष्क्रमम्”। नाड्या पीतरसज्ञानम् “मधुरे बर्हिगमना तिक्ते स्याद्भूलता गतिः। अम्ले कोष्णा प्लवगतिः कटुके भृङ्गसन्निभा। कषाये कठिना म्लाना लवणे सरला द्रुता। एवं द्वित्रिचतुर्योगे नानाधर्मवती सिरा”। तथा “द्रवेऽतिकठिना नाडी कोमला कठिनाशने। द्रवद्रव्यस्य काठिम्ये कोमला कठिनापि च। क्षौद्रे पृथग्ग्रन्थिलेव पिष्टे पुष्टैव जायते”। अग्निमान्द्यधातुक्षयलिङ्गम् “मन्दाग्नेः क्षीणधातोश्च नाडी मन्दतरा भवेत्” तदुक्तम् “क्षीणधातौ च मन्दाग्नौ नाडी क्षीणतमा ध्रुवम्”। तथा “मन्देऽग्नौ क्षीणतां याति नाडी हंसाकृतिस्तथेति” अन्ये तु “आमाचये पुष्टिविवर्द्धनेन भवन्ति नाड्योऽग्रभुजाभिवृत्ताः। आहारमान्द्यादुपवासती वा तथैव नाड्यो भुजगाग्रमाना। प्रसङ्गाद्दीप्ताग्निज्ञानमाह “लघ्वी भवति दीप्ताग्नेः करे मण्डूकसंप्लवा। तस्याग्नेर्मन्दता देहे त्वथ वा ग्रहणीगदे”। तथा “भेदेन शान्ता ग्रहणीगदेन निर्वीर्य्यरूपा त्वतिसारभेदे। विलम्बिकायां प्लवगा कदाचिदामातिसारे पुथुलाजडा च”। अथ विसूचिका ज्ञानम्। “निरोधो मूत्रशकृतोर्विड्ग्रहे त्वितराश्रिताः। विसूचिकाभिभूते च भवन्ति भेकवत्क्रमाः”। प्रसङ्गादानाहमूत्रकृच्छ्रज्ञानमाह “आनाहे मूत्रकृच्छ्रे च भवेन्नाडीगरिष्ठता”। शूलज्ञानमाह “वातेन शूलेन मरुत्प्लवेन सदैव वक्रा हि सिरा वहन्ति। ज्वालामयी पित्तविचेष्टितेन साध्या न शूले न च पुष्टरूपा”। अथ प्रमेहज्ञानम्। “प्रमेहे ग्रन्थिरूपा सा सुतप्ता त्वामदूषणे”। विषविष्टम्भगुल्मज्ञानमाह “उत्पित्सुरूपा विषरीष्टिकायां विष्टम्भ गुल्मेन च वक्ररूपा। अत्यर्थवातेन अधःस्फुरन्ती उत्तानभेदिन्यसमाप्तिकाले”। गुल्मे विशेषमाह कश्चित् “गुल्मेन कम्पोऽथ पराक्रमेण पारावतस्येव गतिं करोति” अथ भगन्दरज्ञानम् “व्रणार्थं कठिने देहे प्रयाति पैत्तिकं क्रमम्। भगन्दरानुरूपेण नाडीव्रणनिवेदने। प्रयाति वातिकं रूपं नाडी पावकरूपिणी”। अथ वान्तादिज्ञानम् “वान्तस्य शल्यामिहतस्य जन्तोर्वेगावरोधाद्गिलितस्य भूयः। गतिं विधत्ते घमनी गजेन्द्रमरालमानेव कफोल्वणेन। रोगादिकमपि रक्तादिज्ञानक्रमेण ज्ञातव्यम्। “क्वचित् प्रकरणोल्लेखात् क्वचिदौचित्यमात्रतः। क्वचित् देशात् क्वचित् कालात् सङ्कीर्ण गदनिर्णयः”। नाडीपरिचयज्ञानं प्रायशो नैव दृश्यते। तेन धार्ष्ट्यात् मयोक्तं यत्तत् समाधेयमुत्तमैः”।
“मातुस्तु खलु रसरहायां नाड्यां गर्भनामिनाडी प्रतिवद्धा” सुश्रु० “प्राग् नाडीच्छेदनात् पुंसो जातकर्म विधीयते” इति स्मृतिः “शतं चैका च हृदयस्य नाड्यः” श्रुतिः “प्रवृत्ता हृदयात् सर्वाः तिर्य्यगूर्द्धमधस्तथा। वहन्त्यन्नरसान् नाड्यो दशप्राणप्रचोदिताः” भा० व० २१२ अ०। २ व्रणान्तरे ३ गण्डदूर्वायाम् कुहकचर्य्यायाञ्च घटीरूपे दण्डात्मके ४ समयभेदे च मेदि०। “दशगुर्वक्षरः प्राणः षड्भिः प्राणैर्विनाडिका। तत्षष्ट्या तु भवेन्नाडी” सू० सि०। तत्कालज्ञाने यन्त्रादिकं घटीशब्दे दर्शितम्। “त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम्। नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति० त०। नक्षत्रविशेषज्ञापके ५ नाड्याकारे रेखाभेदे उपयमशब्दे नाडीकूटनिरूपणे १२५४ पृ० दृश्यम्। “एकराश्यादियोगे च नाडीदोषो न विद्यते” ज्यो० त० “अश्विन्यादिलिखेच्चक्रं सर्पाकारं त्रिनाडिकम्” ज्यो० त०।
चक्रशब्दे पण्णाडीनिर्णये २८१६ पृ० दृश्यम् “आर्द्रा- दिकं लिखेच्चक्र मृगान्तञ्च त्रिनाडिकम्” “एकनाडीस्थधिष्ण्यानि यत्र स्युर्वरकन्ययोः” तत्रैव। स्वरोदये षड्नाडीचक्रनवनाडीचक्रयोस्तु चक्रशब्दे दर्शितयोरपि रेखाविशेषस्यैव नाडीशब्दार्थत्वम्। सिराबोधकस्य नाडीशब्दस्य स्वाङ्गवाचकत्वात् “नीडीतन्त्र्योः स्वाङ्गे” पा० बहु० न कप्। बहुनाडिः कायः। अस्वाङ्गत्वे तु कप्। षष्टिनाडीको दिवसः। ६ प्रणाल्याञ्च सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः” रघुः नाले शाकादीनां (डाटा) ख्याते ७ अवयवभेदे च।
नाडीक = पु० नाड्या कायति प्रकाशते कै–क। (पाटशाक) काण्डप्रधाने शाकभेदे पट्टशाके “नाडीको रक्तपित्तघ्नो विष्टम्भी वातकोपनः” भावप्र०।
नाडीकलापक = पु० नाडीनां नालानां कलापः संघोऽत्र कप्। सर्पाक्षीलतायां भावप्रका०।
नाडीकूट = न० नाड्या रेखाभेदेन कूटं नक्षत्रकूटं ज्ञाप्यं यत्र। उपयमशब्ददर्शिते १२५४ पृ० विवाहाद्यङ्गे नाडीचक्रसू चितनक्षत्रसमूहे।
नाडीकेल = पु० नारिकेल + पृषो०। नारिकेले शब्दर०।
नाडीच = पु० नाड्या चीयते चि–बा० कर्मणि ड ३ त० (नालिता) शाकभेदे चुचुके “नाडीचशाकं द्विविध तिक्तं भधुरमेव च। रक्तपित्तहरं तिक्तं कृमिकुष्ठविनाशनम्। मधुरं पिच्छिलं शीतं विष्टम्भि कफवातकृत्” राजवल्लभः।
नाडीचक्र = न० वाडीनां चक्रमिव बन्धनस्थानम्। नाभिमण्डलस्वे १ चक्रभेदे “नाभिमण्डलमासाद्य कुक्कुटाण्डमिव स्थितप्। नाडीधफमिह प्राहुस्तस्मान्नाड्यः समुद्गताः” रेखाविशेषेण नक्षत्रभेदज्ञापके २ चक्रभेदे उपयमशब्दे १२५४ पृ० दृश्यम्।
नाडीचरण = पुंस्त्री नाडी नालमिव चरणौ यस्य। स्वगमात्रे त्रिका० स्त्रियां जातित्वात् ङीष्।
नाडीजङ्घ = पुंस्त्री नाडीव नालमिव जङ्गास्य। १ काके त्रिका० २ बकभेदे। स च द्विविधस्तत्र इन्द्रद्युम्रसरसि स्थितश्चिरजीवी एक। यथोक्तं भा० व० १९८ अ० “अस्ति स्वस्विन्द्रद्युम्नं नाम सरस्तस्विन्नाडीजङ्घोनाम वकः प्रतिवसति सोऽस्मत्तश्चिरजाततरस्तं पृच्छेति” अन्यः कश्यपात्मजः राजधर्भाख्यः। तत्कथा “ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते। आजगाम स्वभवनं ब्रह्मलोकात् खगोत्तमः। नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा। वकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः। राजधर्मेति विख्यातो बमूवाप्रतिमो मुवि। देवकन्यासुतः श्रीमान् विद्वान् देवसमप्रभः। मृष्टाभरणसम्पन्नो भूषणैरर्कसन्निभैः। भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन्” भा० शा० १६९ अ०। ३ मुनिभेदे “नाडीजङ्घः सुरगुरुमुनिर्वक्ति वृष्टेरकालौ मासवेतौ न शुभफलदौ पौषमासौ न शेषान्” मलमा० त०।
नाडीतरङ्ग = पु० नाडी नाला तरङ्ग इव यत्र। १ काकोले २ हिण्डके ३ रक्तहिण्डके च मेदि०।
नाडीतिक्त = पु० नाड्या तिक्तः। नेपालनिम्बे राजनि०।
नाडीदेह = पु० नाडीसारो देहोऽस्य। अतिकृशे भृङ्गिणि शिवस्य द्वारपालभेदे।
नाडीनक्षत्र = नाड्यां षड्नाडीचक्रनवनाडीचक्रयोः स्थितं नक्षत्रम्। नाडीज्ञापकरेखास्थनक्षत्रभेदे। २८१६ पृ० चक्रशब्दे षड्नड्यादिचक्रनिरूपणे दृश्यम्।
नाडीयन्त्र = न० नाडीव नालीव यन्त्रम्। सुश्रुतोक्ते शल्योद्धारणार्थे विंशतिविधे यन्त्रभेदे “तत्र मनःशरीरबाधाकराणि शल्यानि तेषामाहरणोपाया यन्त्राणि। तानि षट्प्रकाराणि तद्यथा स्वस्तिकयन्त्राणि, सन्दंशयन्त्राणि तालयन्त्राणि, नाडीयन्त्राणि, शलकायन्त्राणि, उप यन्त्राणि चेति” इत्युपक्रमे “विंशतिर्नाड्यः”। “नाडीयन्त्राण्यनेकप्रकाराण्यनेकप्रयोजनान्येकतोमुखान्युमयतोमुखानि च तानि स्रोतोगतशल्योद्धरणार्थं रोगदर्शनार्थमाचूषणार्थं क्रियासौकार्य्यार्थञ्चेति तानि स्रोतो द्वारपरिणाहानि यथायोगपरिणाहदीर्घाणि च” सुश्रु०
नाडीवलय = न० नाड्या घटिकायाः ज्ञानार्थं बलयं वलया कारं यन्त्रम्। सि० शि० उक्ते लग्नादिज्ञानार्थे नाडीरूपकालज्ञानोपाये यन्त्रभेदे “अपवृत्ते कुजलग्ने लग्नं चाथो खगोलनलिकान्तः। भूस्थं ध्रुवयष्टिस्थं चक्रं षष्ट्या निजोदयैश्चाङ्क्यम्। व्यस्तैर्यष्टीभायामुदयेऽर्कं न्यस्य नाडिका ज्ञेयाः। इष्टच्छायासूर्यान्तरेऽथ लग्नं प्रभायां च। केनचिदाधारेण ध्रुवाभिमुखकीलकेऽत्र धृते। अथ वा कीलच्छायातत्वमध्ये स्युर्नता नाड्यः” मू०। “अत्र सारदारुमयमिष्टाप्रमाणं चक्राकारं समं नेम्यां षष्टिघटिकाङ्कं यन्त्रं खगोलमध्यस्थायां ध्रुवयष्टौ पृथ्वीमध्यस्थाने प्रोतं कार्यम्। तथा स्वोदयप्रमाणैर्मेषादिराशिभिरसमैरुभयपार्श्वयोः षड्वर्गेण च बुद्धिमताङ्कनीयम्। तैश्चोदयैर्विलोमैरङ्क्यम्। मेषात् पश्चिमतो वृषो वृषात् पश्चिमतो मिथुनम् इत्थादि। स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे मया पठितः। “वृतौ चक्रभागैस्तदन्वर्घटीभिः स्वदेशोदयैश्चाङ्कयेदस्य पार्श्वम्। प्रतिस्वोदयं स्वाग्निमिः ३० क्षेत्रभागैस्त्रिभागाभिधैर्द्वादशांशै०। ३० र्नवांशैः ३। २०। त्रिभागै १० र्द्वि भागै १५ स्तथा सस्वनाथैः प्रयत्नेन षडवर्गमेवं विभज्य”। एवं यन्त्रं कृत्वा यस्मिन् दिने तेन कालज्ञानं तस्मिन् दिने यावानौदयिको रविस्तद्भुक्तान् राशीन् मेषादेर्दत्त्वा भुज्यमानराशेर्भागान् क्षेत्रभागेषु दत्त्वाग्रे रविचिह्नं कार्यम्। तस्मिन् दिन उदयकाले यष्टिच्छाया या पश्चिमतो गता तस्यां छायायां रविचिह्नं यथा भवति तथा यन्त्रं स्थिरं कार्यम्। ततोऽनन्तरं रविर्यथा यथोपरि याति तथा तथा छायाऽधो गच्छति। छायार्कचिह्नयोर्मध्ये या घटिकास्ता दिनगता ज्ञेयाः। तथा यष्टिच्छायायां यो राशिर्ये च क्षेत्रांशास्तल्लग्नं ज्ञेयम्। स च षड्वर्गः। अथ वा किं खगोलान्तःस्थेन यष्टिप्रोतेन, चक्रान्तरिष्टप्रमाणं कीलकं प्रोतं कृत्वा स कीलको घ्रुवाभिमुखो यथा भवति तथा केनचिदाधारेण चक्रं स्थिरं कार्यम्। तथा कृते इष्टकाले कीलच्छाया यत्र लगति तस्य यन्त्राधश्चिह्नस्य च मध्ये नतनाडिका ज्ञेयाः” प्रमिता०।
नाडीविग्रह = पु० नाडीमात्रसारः विग्रहो देहोऽस्य। शिवानुचरभेदे अतिकृशे भृङ्गिणि हेमच०।
नाडीव्रण = पु० न० नाडीव व्रणम्। माधवकरोक्ते ब्रणभेदे (नालीघा) “यः शोथमाममिति पक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचूरपूयमसाधुवृत्तः। अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः सपूयः। तस्यातिमात्रगमनाद्गतिरिष्यते तु नाडीव यद्वहति तेन मता तु नाडी”। वातादिदोषभेदेन तस्य रूपाणि यथा “दोषैस्त्रिभिर्भबति सा पृथगेकशश्च संमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या। तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपासु। पित्तात्तृषाज्वरकरी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसुतापि। ज्ञेया कफाद्बहुघनार्जनपिच्छिलास्रा स्तब्धा सकण्डूर रुणा रजनीप्रवृद्धा। दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यमिहितानि च लक्षणानि। तामादिशेत् पवनपित्तकफप्रकोपाद् घोरामसुक्षयकरीमिव कालरात्रिम्। दोषद्वयाभिहतलक्षणदर्शनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात्”। शल्यनिमित्तलक्षणं यथा “नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति। सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णं करोति सहसा सरुजञ्च नित्यम्”। असाध्यकृच्छ्रसाध्ययोर्लक्षणं यथा “नाडी त्रिदोषप्रभबा न सिध्येत् शेषाश्चतस्रः खलु यत्नसाध्याः”।
नाडीशाक = पु० नाडीप्रधानः शाकः। नाडीके (पाटशाक)
नाडीशोषणतैल = न० चक्रदत्तोक्ते तैलभेदे “पुटपाकविधिस्विन्नहस्तिविड्जातगोण्डकः। रसः सतैलसिन्धूत्थः कर्णस्रावहरः परः। जम्बूकस्य तु मांसेन कटुतैलं विपाचयेत्। तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति। निशागन्धपले पक्वं कटुतैलं पलाष्टकम्। धूस्तूरपत्रजरसे कर्णनाडीजिदुत्तमम्”।
नाडीस्वरसञ्चार = पु० ७ त०। नाडोभेदे वायोः वहनरूपे गतिभेदे। देहमध्ये वामभागस्थायाम् ईडायां श्वासादिधिक्येन सञ्चारे चन्द्रोदयः, दक्षस्थायां पिङ्गलायां तथा वहने सूर्य्योदयः इत्येतत् स्वरोदयग्रन्थे प्रसिद्धम्। तस्य शुभाशुभफलादिकं कालविशेषनियमश्च प्रदर्श्यते ग्रहयामले “आदौ चन्द्रः सिते पक्षे भास्करस्तु सितेतरे। प्रतिपत्क्रमतोऽहानि त्रीणि कृत्वोदयत्ययम्”। त्रिपुरासारसमुच्चये तु अमावास्यावध्युदयमाह यथा “आरभ्य दर्शं प्रथमामुदेति वामे पुटे त्रीणि दिनानि देवः। वामेतरे त्रीणि ततो दिनानि पूर्णां तिथिं यावदथैवमेवम्। एकस्य पक्षस्य विपर्ययेण रोगाभिभूतिर्भवतीह पुंसाम्। पक्षद्वये बन्धुसुहृद्विपत्तिः पक्षत्रये व्यत्ययतो मृतिः स्यात्” ब्रह्मजामले “चन्द्रोदये यदा सूर्यश्चन्द्रः सूर्य्योदये यदा। अशुभं हानिरुद्वेगः, शुभं सर्वं निवारयेत्”। चन्द्रोदये वाम नाड्यां वायुगमननिरूपितसमये एवं सूर्य्योदये दक्षिणनाड्यां वायुगमननिरूपितसमये। कर्मविशेषे नासिकयोर्वा योः प्रवेशनिर्गमाभ्याञ्च शुभत्वमपि तत्रैव “यात्राकाले विवाहे च वस्त्रालङ्कारधारणे। शुभकर्मसु सर्वेषु प्रवेशे च शशी शुभः। विग्रहद्यूतयुद्धेषु स्नानभोजनमैथुने। व्यवहारे भये भङ्गे भानुनाडी प्रशस्यते। मोहनं शान्तिकञ्चैव दिव्यौषधिरसायनम्। विद्यारम्भः स्थिरं कार्य कर्तव्यञ्च निशाकरे। दूरयुद्धे जयी चन्द्रः सुमाभन्ने दिवाकरः। वहन्नाडीपदे चैव यात्रा भवति सिदिटा”। यस्यां नासिकायां प्राणवायोर्गतिर्भवति तद्देशीयपादप्रसारणपूर्विका यात्रा सिद्धिदा भवतीत्यर्थः “शयने च प्रसङ्के वा युवत्यालिङ्गनेऽपि वा। यः सूर्य्येप्य पिबेच्चन्द्रं स भवेन्मकरध्वजः”। सूर्येण दक्षिणनासिकास्थप्राणवायुना, चन्द्रं वामनासिकागतप्राणवायुं पिबति तत्सङ्गकाले स्वीयनिःश्वासमतिनिविष्टः सन्नाकर्षयति तत्फलं तत्रैव “चन्द्रचारो विषं हन्ति सूर्य्यो बालावशं नयेत्। सुषुम्णायां भवेन्मोक्ष एको देवस्त्रिधा मतः। भुक्तमात्रेण मन्दाग्नौ स्त्रीणां वश्येऽथ कर्मणि। शयनं सूर्यवाहेन कर्त्तव्यं सर्वदा बुधैः। शान्ते शोके विवादे च ज्वरीते मूर्च्छिते तथा। सज्जनस्यापि वोधार्थे चन्द्रचारं प्रवाहयेत्”। भुक्तमात्रादौ वामपार्श्वेण, शान्तादिषु दक्षिणपार्श्वेण शयनं कार्यमिति तात्पर्य्यम्। चतुर्दिक्षूर्द्ध्वमधस्ताच्चान्यतरस्थानमाश्रित्य यदि दूतः पृच्छति तदा कस्यां नाड्यां वायुगतिः शुभेत्याह “ऊर्द्ध्ववामागतो दूतो ज्ञेयो वामपथस्थितः। पृष्ठे दक्षे तथाधस्तात् सूर्यवाहगतो मतः। पूर्वनाडी गतो दूतो यत् पृच्छति शुभाशुभम्। तत्सर्वं सिद्धमाप्नोति शून्ये शून्यं न संशयः। आदौ शून्यगतः पृच्छेत् पश्चात् पूर्णो विशेद् यदि। तदा सर्वार्थसिद्धिः स्यादिति जानीहि निश्चितम्”। इदानीं प्रणावायोः प्रवेशनिर्गमाभ्यां विशेषमाह “प्रवेशकाले यद्भूतो वाञ्छति स्वप्रयोजनम्। तत्सर्वं सिद्धिमाप्नोति निर्गमे नास्ति सुन्द्ररम्”। कर्मविशेषे नाडीविशेषगतिमाह “मारणं मोहनं स्तम्भं विद्वेषोच्चाटनं तथा। प्रेरणाकर्षणक्षोभं भानुनाड्युदये कुरु। शान्तिकं पौष्टिकं क्षेमं दिव्यौषधिरसा यनम्। योगाभ्यासादिकर्माणि कर्तव्यानि निशाकरे”। त्रिपुरासारंसमुच्चये “भूतानामुदयं द्वयोरपि बुधः संलक्षयेत् पक्षयोस्तत्रादौ वसुधोदयं निहितघीर्घ्राणस्य दण्डस्पृशि। देवेऽधस्पृशि वारिणोहुतवहस्योर्द्धा गतिश्चोदयं तिर्यक्संस्पृशि मारुतस्य परितः पृष्ठे मरुद्वर्त्मनः” देवे प्राणवायौ। फलं जामले “पृथ्वीजले शुभेतत्त्वे तेजोमिश्रफलोदयम्। हानिमृत्युकरौ पुंसामुभयौ व्योममारुतौ” कर्मविशेषे भूतोदयफलं त्रिपुरास्मरे “वश्यस्तम्भनयोः प्रशस्त उदयो भूमेर्जलस्योद्रयः शस्तः शान्तिकपौष्टिकादिषु शुभो वन्धाय वह्नेः पुनः। शत्रोर्मारणदारणदिकरणे उच्चाटनोच्छेदयोर्वायोः शान्तिकनिर्विषीकरणयोर्व्योम्नो हितश्चोदयः। कियत्कालमेकनाडीगतो वायुर्भवति तत्रापि पञ्चभूतोदयः केन ज्ञेय इत्यपेक्षायां नाडीगतिकालं स्थानक्रमेण भूतोदयञ्चाह जामसे “एकैकस्य कलाः पञ्च क्रमेणैवोदयन्ति ताः। पृथि- व्यापस्तथा तेजो वायुराकाशमेव च। मध्ये पृथ्वी त्वधश्चाप ऊर्द्धे वहति चानलः। तिर्यग्वायुप्रवाहश्च नभो वहति संक्रमे”। प्रपञ्चसारेऽपि “पुटयोरुभयोश्च दण्डसंस्था पृथिवी तोयमधःकृशानुरूर्द्धम्। पवनस्त्वथ पार्श्वगोऽपि मध्ये गगनं भूतगतिस्तनूद्भवेयम्” तत्रापि बाल्याद्यवस्थाभेदमाह रुद्रजामले उत्तरखण्डे एकादशपटले “स्वकीयनासिकाग्रन्तु पञ्चमं परिकीर्तितम्। यन्नासापृटमध्ये तु वायुर्भ्रमति भैरव!। तन्नासापथमध्ये तु भावाभावं विचारयेत्। आकाशं वायुरूपं हि तैजसंवारुणं प्रभो!। पार्थिवं क्रमशोज्ञेयं बाल्यास्तादि क्रमेण तु। वामोदये शुमा वामा दक्षिणे पुरुषः शुभः। वायूनां गमनं ज्ञेयं गगनावधिरेव च। केवलं मध्यदेशे तु गमनं पवनस्य च। तदाकाशं विजानीयाद्बाल्यभावं प्रकीर्त्तितम्। तिर्यग्गतिस्तु नासाग्रे वायोरुदयमेव च। केवलं भ्रमणं ज्ञेयं सर्वमङ्गलमेव च। किशोरं तद्विजानीयाद्वायौ तिर्यग्गतौ विभो!। केवलार्द्धनासिकाग्रे वायुर्गच्छति दण्डवत्। तत्तैजसं विजानीयात्तेजसा बलवान् भवेत्। यौवनं तद्विजानीयात् कर्मसिद्धिर्भवेद्ध्रुवम्। यदा व्याप्य गच्छतीह नासापुटमनाकुलम्। जलोदयं विजानीयात् तदाव्यामोहमेव च। तद्वृद्धगतमावञ्च विलम्बोऽधिकचेष्टया। प्राप्नोति परमां प्रीतिं वारुणार्णोदयोऽरुणम्। यद्यधोगच्छति क्षिप्रं किञ्चिदूर्द्धमगोचरम्। यदा करोति प्राग् वालं तदारोगाद्बलोदयः। पृथिव्या उन्नतं भागं रोगार्त्तं परिपीडितम्। अस्तमितं महादेव। अनुलोमविलोमतः। पवनोगच्छति क्षिप्रं वामदक्षिणभेदतः। वामनासापुटं याति पृथिवी जलमेव च। सदा फलाफलं दातुमुदिताकुलमण्डले। तयोर्वै वायवी शक्तिं फलभागं तदा लभेत्”। अवस्थाभेदे तत्फलकथनं तत्रैव “यद्येवं वाममागे तु बालायाः प्रश्नकर्मणि। यदि तत्र पुमान् प्रश्नं करोति वामगामिनी। तदा रोगमवाप्नोति कर्मार्हो न भवेद्ध्रुवम्। यदि वायूदयो वामे दक्षिणे पुरुषः स्थितः। तदा कुफलमाप्नोति द्रव्यागमनदुर्लभम्। अकस्माद्द्रव्यहानिः स्यान्मनीगतफलापहम्। सुहृद्भङ्गं विवादञ्च भिन्ने भिन्नोदयात् शुभम्। केवलं वरुणस्यैव पुरुषो दक्षिणे शुभः। अशुभं पृथिवीदक्षे भेदोऽयं वरदुर्लभः। सदोदयं दक्षिणे च वायोस्तेजसएव च। आकाशस्य विजानीयात् शुभाशुभफलं प्रभो!। यदि भाग्यवशादेव वायोर्मन्दा गतिर्भवेत्। दक्षनासा मध्यदेशेतदा वामोदयं शुभम्। तदा वामे विचारश्च वायुतेजःस्वरस्य च। ज्ञात्वोदयं विजानीयान्मित्रे हानिः स्वरे भयम्। एवं स्वभुवनागारे यदि गच्छति वायवी। तस्मिन् काले पुमान् वामदक्षभागस्थसम्मुखः। तदा कन्यादानफलं यथा प्राप्नोति मानवः। तदा वायुप्रसादेन प्राप्नोति धनमुत्तमम्। देशान्तरात् शुभा वार्त्ता आयाति पुत्रसम्पदः” इति स्त्रीपुंसभेदेन फलकथनं सूक्ष्मस्वरोदये “गुरुशुक्रबुधेन्दूनां वासरे वामनाडिकाः। सिद्ध्यन्ति सर्वकार्येषु कृष्णपक्षे विशेषतः। अर्काङ्गारकशौराणां वासरे दक्षनाडिका। स्यात्तथा चिरकालेन शुक्ले नैवोदयःस्थितः। क्रमादेकैकनाड्यास्तु तत्त्वानां पृथगुद्भवः। अहोरात्रस्य मध्ये तु ज्ञेया द्वादश संक्रमाः। वृषकर्कटकन्यालिमृगमीननिशाकरे। मेषे सिंहे च वनुषितुलायां मिथुने घटे। उदयो दक्षिणे ज्ञेयः शुभाशुभ विनिर्णयः”। वारादिभेदेन नाडीविशेषफलकथनम्। “तिष्ठेत् पूर्वोत्तरे चन्द्रोभानुः पश्चिमदक्षिणे। दक्षनाड्याः प्रवाहे तु न गच्छेद्दक्षपश्चिमे” इति नाडीविशेषेण दिग्गतिः। “वामचारप्रवाहे तु न गच्छेत् पूर्व उत्तरे। परिपन्थो भवेत्तस्य गतोऽसौ न निवर्त्तते। तस्मादत्र न गन्तव्यं बुधैः सर्वहितेप्लुभिः। तदा तत्र तु सङ्घाते मृत्युरेव न संशयः” इति वहन्नाडीकस्य दिग्विशेषगमननिन्दा। “शुक्लपक्षे द्वितीयायामर्के वहति चन्द्रमाः। प्रदृश्यते महा~ल्लाभः पुंसः सौख्यं प्रजायते सूर्य्योदये यदा सूर्य्यश्चन्द्रे चन्द्रोदयो भवेत्। सिध्यन्ति सर्वकार्य्याणि दिवारात्रिगतान्यपि” स्वस्वनाडाफलकृथनम् “चन्द्रकार्थे यदा सूर्यः सूर्यश्चन्द्रोदये भवेत्। उद्वेगः कलहो हानिः शुभं सर्वं निवारयेत्” इति विपरीतनिन्दा “सूर्यस्य वाहे प्रवदन्ति लाभं प्रकाशने युक्तमनःस्थिरञ्च। श्वासेन युक्तस्य तु शीतरश्मेः प्रवाहकाले फलमन्यदस्मात्। यदा प्रत्यूषकाले तु विपरीतोदयो भवेत्। चन्द्रस्थाने स्थिते चार्के रविस्थाने च चन्द्रमाः। प्रथमे मानसोद्वेगं धनहानिं द्वितीयके। तृतीये गमनं विद्यादिष्टनाशं चतुर्थके। पञ्चमे राज्यविभवं षष्ठे सर्वार्थनाशनम्। सप्तमे व्याधिदुःखानि अष्टमे मृत्युमृच्छति” इति दिनभेदेन विपरीतफलम् “कालत्रयं विनाऽनिष्टो विपरीतः यदा भवेत्। तदा दुष्टफलं प्रोक्तं किञ्चिन्न्यूनेऽतिशोभनम्। प्रातर्मध्याह्नयोश्चन्द्रः सायं- काले दिवाकरः। तदा नित्यं जयं लाभं विपरीतन्तु दुःखदम्” इति कालभेदेन फलम् “वामे वा दक्षिणे वापि यत्राप्याक्रम्यते स्वरः। कृत्वा तत्पदमाद्यञ्च यात्रा भवति सिद्धिदा” इति वहन्नाडीकस्य यात्राफलम्।
नाडीस्नेह = पु० नाड्यामेव स्नेहोऽस्य। नाडीमात्रसारे अति कृशे शिवद्वारपाले भृङ्गिणि शब्दर०।
नाडीहिङ्गु = पु० नाडीप्रधानी हिङ्गुः। हिङ्गुभेदे राजनि०।
नाणक = त्रि० न अणकः कुत्सितः नशब्द न “सह सुपा” स०। १ कुत्सितभिन्ने २ मुद्राचिह्नितनिष्कादौ “तुलाशासनमानानां कूटकृन्नाणकस्य च। एभिश्च व्यवहर्त्ता यः स दाप्योदण्डमुत्तमम्” याज्ञ०।
***