नश् = त्रि० नश–क्विप्। १ नाशप्रतियोगिनि। भावे क्विप् २ नाशे स्त्री। सुहा० झलि पदान्ते च वा च पक्षे षडगकाः यथाविधानम्। नक्ग् नट् ड्।

नशाक = पुंस्त्री नश–आक। काकभेदे उणादिकोषः।

नश्यत्प्रसूतिका = स्त्री नश्यन्ती प्रसूतिर्यस्याः कप्। मृतवत्सायां स्त्रियां हेमच०।

नश्वर = त्रि० नश–क्वरप्। नाशप्रतियोगिनि अवश्यनाश- शीले अशाश्वते “वदन्ति विश्वं कवयः स्म नश्वरम्” माम० ५। १८। ५ स्त्रियां ङीप्।

नष्ट = त्रि० नश–क्त। १ नाशप्रतियोगिनि २ तिरोहिते अदर्शनं गते ३ दुष्टाशये च। भावे क्त। ४ नाशे ५ अदर्शने च न० “नष्टं वर्षरवैर्मनुष्यगणनाभावादपास्य त्रपाम्” सा० द० “ध्रुवाणि तस्य नश्यन्ति अध्रुबं नष्टमेव च” हितो०

नष्टचन्द्र = पु० नष्टः दुष्टश्चन्द्रः। सौरभाद्रमासे उभयपक्षीय चतुर्थ्यामुदिते चन्द्रे तस्य तद्दिवसे दुष्टत्वकारणं ब्रह्मवै० पु० ८० अ० उक्तं यथा

“नष्टश्चन्द्रो न दृश्यश्च भाद्रे मासि सितासिते। चतुर्थ्यामुदितोऽशुद्धः प्रतिषिद्धो मनीषिभिः। चन्द्रस्तारापहरणं कलङ्कमतिदुष्करम्। तस्मै ददाति हे नन्द! कामतो यदि पश्यति। अकामतो नरो दृष्ट्वा मन्त्रपूतं जलं पिबेत्। तदशुद्धो भवेत् सद्यो निष्कलङ्की महीतले। सिंहः प्रसेनमबधीत् सिंहो जाम्बवता हतः। सुकुमारक! मा रोदीस्तव ह्येष स्यमन्तकः। इति मन्त्रेण पूतञ्च जलं साधु पिबेद्ध्रुवम्” इत्युपक्रमे “दृष्ट्वा तस्याश्च (तारायाः) सर्व्वाङ्मनङ्गवाणपीडितः। माद्रे चतुर्थ्याञ्चन्द्रश्च जहाराचेतनां व्रजन्। ज्ञानं क्षणेन संप्राप्य रथस्थो रसिको बली। रथमारोहयामास करे धृत्वा च तारकाम्। कामोन्मत्तः कामिनीन्तां समाश्लिष्य चुचुम्ब सः “यस्मात्तस्मिन् दिने वत्स! पापदृश्यो युगे युगे। मा भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्। देहत्यागेन हे वत्स! कर्मभोगो न नश्यति। प्रायश्चित्तान्न सन्देहो ह्यस्तमेव भविष्यति। तारापहरणं वत्स! कलङ्कश्चन्द्रमण्डले। मृगकृतं विलग्नञ्च भविष्यति युगे युगे”।

नष्टश्चेष्टता = स्त्री नष्टा चेष्टा यस्य तस्य भावः तल्। १ हर्षशोकादिभिः सकलचेष्टानाशे २ प्रलये अमरः ३ सात्विकभावभेदे मूर्च्छायामित्यन्ये।

नष्टजातक = न० नष्टं न ज्ञातं जातं जन्म जन्माधानकाली यत्र कप्। जन्माधानकालयोरपरिज्ञाने प्रश्नलग्ना दिना जन्मकालज्ञानार्थे उपायभेदे स च वृहज्जातके २५ अ० उक्तो यथा “अथ नष्टजातकाध्यायप्रारम्भः “आधानजन्मापरिबोधकाले संपृच्छतो जन्म बदेद्विलग्नात्। पूर्वापरार्द्धे भवनस्य विद्याद्भानावुदग्दक्षिणगे प्रसूतिम्” १ वृ० जा० “एवमाधानजन्मकालयोरपरिबोधे अज्ञाने सति संपृच्छतः प्रष्टुः विलग्नात् प्रश्नलग्नाज्जन्म वदेद्ब्रूयात् येन लग्नेन प्रष्टा पृच्छति तस्य यदि पूर्वार्द्धं प्रथमहोरा भवति तदा प्रष्टुः भानावादित्ये उदग्गते उत्तरायणस्थे जन्मवक्तव्यम्। मकरादिराशिषट्कस्थे जात इत्यर्थः। अथ लग्नस्यापरार्द्धं द्वितीया हीरा भवति तदा भानौ दक्षिणगते दक्षिणायनस्थे जन्म वक्तव्यम्। कर्कटादिराशिषट्कस्थे जात इत्यर्थः। तथा च “आधानजन्मनी यस्य न विज्ञायेत देहिनः। जन्म संपृच्छतस्तस्य प्रश्नलग्नात् विनिर्दिशेत्”। अथ वर्षर्तुज्ञानमाह लग्नत्रिकोणेष्विति भट्टो०। “लग्नत्रिकोणेषु गुरुस्त्रिभागैर्विकल्प्य वर्षाणि वयोनुमानात्। ग्रीष्मोऽर्कलग्ने कथितास्तु शेषैरन्यायनर्त्तावृतुरर्कचारात्” २ मू० “त्रिभागैद्रेष्काणैः लग्नत्रिकोणेषु प्रथमपञ्चमनवमस्थानेषु गुरुः जीवो ज्ञेयः तद्यथा प्रश्नलग्नस्य यदि प्रथमद्रेष्काणो भवति तदा यएव लग्नराशिः तत्रस्थे गुरौ जन्म वक्तव्यम्। अथ लग्नस्य द्वितीयोदेष्काणस्तदा लग्नाद्यः पञ्चमो राशिस्तत्रस्थे गुरौ जन्म वक्तव्यम्। अथ यदि लग्नस्य तृतीय द्रेष्काणस्तदा लग्नाद्यो नवमोराशिस्तत्रस्थे गुरौ जन्मवक्तव्यम्। एवं केषाञ्चिन्मतम्। अथान्येषां मतम्। यथा प्रश्नलग्नस्य यदा प्रथमोद्रेष्काणोदयो भवति तदा लग्नराशितो यावत्संख्ये राशौ वृहस्पतिस्तिष्ठति तावत्संख्यानि प्रष्टुः वर्षाणि वक्तव्यानि। अथ लग्ने द्वितीयोद्रेष्काणस्तदा लग्नात् पञ्चमराशितो यावत्संख्ये राशौ वृहस्पतिर्भवति तावत्संख्यानि प्रष्टुः वर्षाणि वक्तव्यानि अथ लग्नस्य तृतीयोद्रेष्काणो भवति तदा लग्नान्नवमराशितो यावत्संख्ये राशौ वृहस्पतिर्भवति तावत्संख्यानि प्रष्टुः वर्षाणि वक्तव्यानि। एतद्व्याख्यानं न शोभनं पूर्वमेव व्याख्यानं श्रेयः यस्माद्यवनेश्वरः “द्रेष्काणलग्ने क्रमशस्य राशौ गुरुर्विलग्नाद्यदि कोणगोऽभूत्। समुद्भवेत् तद्भवनक्रमेण स्वाच्चारभादव्दगति प्रगण्या” यद्यप्यत्र सामान्येनोक्तं वृहस्पतेरवस्थानं तथा च द्वादशभागक्रमेण प्रतिराशौ सञ्चार्य्यः। तद्यथा यदि प्रश्नलग्नस्य प्रथभद्वादशभागोदयो भवति तदा लग्नस्थे जीवे जातः द्वितीयद्वादशभागश्चेत्तदा लग्नाद द्वितीये गुरौ जातः एवं तृतीयादिद्वादशभागोदये तृतीयादिषु स्थानेषु ऊह्यम्। विकल्प्य वर्षाणि वयोनुमानादेवं वृहस्पतेरवस्थानं ज्ञात्वा तस्य एवं वयोनुमानात्तस्याकृतिं शरीरमवेक्ष्य वर्षाणि विकल्प्य वयःप्रमाणं बुद्ध्वा द्वादशसु द्वादशसु वर्षेषु विकल्पना कार्य्या। किमस्मिन्नेव भगणपरिवर्त्ते ज्ञातराशेः वृहस्पतेरवस्थानमभूदुत द्वितीय उत तृतीयादिषु एवं तस्याकृतिमवेक्ष्य वयोनुमानं वक्तव्यम्। यत्र द्वादशसु वर्षेषु भ्रान्तिर्भवति तत्र पुरुषलक्षणोक्तेन दशाविभागेन द्वादशवार्षिकीं दशां क्षेत्रेषु परिकल्प्य तत्तत्क्षेत्राङ्गसंस्पर्शाद्वर्षज्ञानं तथा च पुरुषलक्षणे पठ्यते “पादौ सगुल्फौ प्रथमं प्रदिष्टं जङ्घेद्वितीयं तु सजानुवक्त्रे। मेढ्रोरुमुष्काश्च ततस्तृतीयं नाभिं कटिं चेति चतुर्थमाहुः। उदरं कथयन्ति पञ्चमं हृदयं षष्ठमथ स्तनान्वितम्। अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे। नवमं नयने च साश्रुणी सललाटं दशम शिरस्तथा। अशुभेष्वशुभं दशाफलं चरणाद्येषु शुभेषु शोमतमिति” किं त्वत्र विंशत्याधिकं वर्षशतं यस्य जन्मनोऽतीतं तस्य नष्टजातकवर्षज्ञानोपाय एव नास्ति। एवं वर्षेषु ज्ञातेषु ऋतुज्ञानमाह ग्रीष्मोऽर्कलग्न इति येन लग्नेन प्रष्टा पृच्छति तत्र चेदर्कः सूर्य्यः स्थितस्तद्रेष्काणो वा लग्ने तदा ग्रीष्मे जात इति वक्तव्यम्। कथितास्तु शेषैरिति शेषैरन्यैश्चन्द्रादिभिर्ग्रहैर्लग्नस्थैः ऋतुः पूर्वमेव कथित उक्तः द्रेष्काणैः शिशिरादय इत्यादिना ग्रन्थेनोक्तः। तत्र यदा शनैश्चरोलग्ने भवति तद्द्रेष्काणो वा तदा शिशिरे जात इति वक्तव्यम्। एवं शुक्रे लग्नगते तद्द्रेष्काणी वा तदा वसन्ते जातः एवं भौमे ग्रीष्मे। एवमेव चन्द्रे लग्नगते तद्द्रेष्काणो वा वर्षासु, बुधे शरदि, जीवे हेमन्त इति। यदा बहवो लग्नगताः भवन्ति तदा तेषां मध्ये यो बलवान् तदुक्तर्त्तौ जात इति वक्तव्यम्। अथ न कश्चिद् यदि लग्नगतो भवति तदा तस्य सम्बंन्धी द्रेष्काणोदयो भवति तदा तदुक्तर्त्तौ जात इत्येवं वक्तव्यम। अन्यायनर्तावृतुरर्कचारादिति अन्यस्मिन्नयनेऽस्मनृतावर्कचारादृतुः अन्यस्मिन्नयने तदयना मम्भवश्चेदृतुरन्यो भवति तदर्त्तुरर्कचाण्वशेन वक्तव्यम् एतदुक्तं भवति सौरेण मानेन ऋतुर्वक्तव्यः न तु चान्द्रेण यथा शिशिरे ज्ञाते मकरकुम्भयोरन्यनमे राशौ सूर्य्यस्यावस्थानं ज्ञेयम् एवं शेषराशिष्वस्यूह्यम् अनेन लौकिकश्चान्द्रमासो निराकृतो भवतीति” भट्टो०। “चन्द्रज्ञजीवाः परिवर्तनीयाः शुक्रारमन्दैरयने विलोमे। द्रेष्काणभागे प्रथमे तु पूर्वो मासोऽनुपाताच्च तिथिर्विकल्प्यः” ३ मू०। “अथायने विलोमे ग्रहपरिज्ञानाष्टृतुपरिज्ञानं मासपरि- ज्ञानं चैन्द्रवज्रयाह चन्द्रज्ञेति। अयने बिलोमे सति चन्द्रजीवाः शुक्रारमन्दैः परिवर्त्तनीयाः शशिबुधगुरवः सितभौमशनैश्चरैः अयनव्यत्यये प्राप्ते सति परिवर्त्तनीयाः व्यत्ययेन व्यवस्थाप्याः एतदुक्तं भवति यद्युत्तरायणे ज्ञाते प्रावृट्कालो ज्ञातस्तदा वसन्ते जात इति वक्तव्यम् चन्द्राच्छुक्रेणात्र परिवर्तितः। अथोत्तरायणे शरदि प्राप्तायां ग्रीष्मे जातः। दक्षिणायने ग्रीष्मे ज्ञाते शरदि जातः। अथ बुधो रविमौमयोरपवर्त्तितो। रविभौमौ बुधेन च। उत्तरायणे हेमन्ते ज्ञाते शिशिरे जातः दक्षिणायने शिशिरे प्राप्ते हेमन्ते जातः इति वक्तव्यम् अत्र जीवमन्दौ परस्परमपवर्त्तितौ एवमृतौ ज्ञाते मासज्ञानमाह द्रेष्काणभाग इति प्रश्रलग्ने यो द्रेष्काणो वर्त्तते तस्य च द्रेष्काणस्य यदि प्रथमभागो वर्त्तते तदा ज्ञातर्तौ प्रथमे मासि जातः इति वक्तव्यम् अथ लग्ने द्रेष्काणस्य द्वितीयो भागो वर्त्तते तदा ज्ञातर्तौ द्वितीये मासि जातः तृतीयद्रेष्काणे द्वौ विभागौ पूर्वापरौ अत्रापि अर्कावस्थानतएव मासज्ञानम्। तिथिज्ञानार्थमाह। अनुपाताच्च तिथिर्विकल्प्यः अनुपातात् त्रैराशिकात् तिथिर्विकल्प्यो विकल्पनीयः लग्नस्य षट्लिप्ताः शतानि द्रेष्काणः द्रेष्काणेन च ज्ञातर्तुः ऋतुज्ञानं तदर्द्धलिप्ताः शतत्रयं लिप्ताशतत्रयेण मासज्ञानम् अत्रानुपातात् तिथिर्लिप्तादशकेनैकैको ज्ञेयः एवं च तिथिरादित्यभागा एवमादित्यराशयो भागा ज्ञेयाः मासा राशयस्तिथयो भागाः यस्मिंश्च तिथौ ज्ञातवर्षे यथाप्रदर्शितादित्यो भवति तस्मिन् तिथौ तस्य जन्म इति वक्तव्यम्” भट्टो०। अथ चन्द्रमानतिथिज्ञानोपायमिन्द्रवज्रयाह। “अत्रापि होरापटवो द्विजेन्द्राः सूर्यांशतुल्यां तिथिमुद्दिशन्ति। रात्रिद्युसंज्ञेषु विलोमजन्म भागैश्च वेलाः क्रमशो विकल्प्याः” ४ मू०। “अत्रापीति अत्रास्मिंस्तिथिज्ञाने द्विजेन्द्रा मुनयो होरा शास्त्रस्त्राः सूर्यांशतुल्याम् अंशस्थाने स्फुटार्कभागसमां तिथिमुद्दिशन्ति कथयन्ति प्रश्रकाले तात्कालिकेनादित्येन यावन्तो मागा भुक्तास्तावन्तः शुक्लप्रतिपत्प्रभृतिज्ञातमासस्य तिथयो व्यतीताः। यत चान्द्रमाने मकरमासे ज्ञाते माघमासो ज्ञेयः एवमन्यर्त्तृष्वपि मासकल्पना कार्य्या। तथा च मणित्थः “पृच्छाकाले रषिणा यावन्तोंशाः स्फुटेन सम्भुक्ताः। राशेस्तास्तिथयः स्युः शुक्लादावर्क- मासस्य” एवं दिने ज्ञाते किमयं रात्रौ जातो दिवा वेति तदर्थमाह रात्रिद्युसंस्थेष्विति रात्रिद्युसंज्ञा पूर्वं व्याख्याताः गोजाश्विकर्किमिथुना इत्यादिना। तत्र प्रश्रकाले यदि रात्रिसंज्ञो लग्नो भवति तदा तस्य विलोमतो दिवाजन्म वक्तव्यम् अथ द्युसंज्ञो लग्नो भवति तदा रात्रौ जन्म वक्तव्यम्। एवं दिनरात्रिविभागे ज्ञाते वेलाज्ञानमाह भागैश्च वेलाः क्रमशो विकल्प्याः यस्मिन् दिने पुरुषस्य जन्मज्ञानं तस्मिन् दिने अंशादित्योऽपि ज्ञातः ततस्तस्य पुरुषस्य यदि दिवाजन्म तदा तस्मादादित्याद्दिनप्रमाणं कार्य्यम् अथ रात्रौ जन्म तदा रात्रिप्रमाणं तत्र प्रश्रलग्नस्य तस्मिन् काले यावन्तश्चषका भुक्तास्तैरनुपातः कार्यः यदि पुरुषस्य दिवाजन्म तदा दिनप्रमाणेन यदा रात्रौ रात्रिप्रमाणेन तत्काललग्नभुक्तचषकाणां गणनां कृत्वा तस्यैव लग्नस्य स्वदेशराश्युदयप्रमाणेन भागमपहृत्यावाप्तां वेलां तावता कालेन गतेन दिनस्य रात्नेर्वा जन्म वक्तष्यम्। एवं लग्नभागैः क्रमशः परिपाट्या वेलाः समयाः विकल्प्या विकल्पनीयाः” भट्टो०। “केचिच्छशांकाध्युषितान्नवांशाच्छुक्लान्तसंज्ञं कथयन्ति मासम्। लग्नत्रिकोणोत्तमवीर्ययुक्तं सम्प्रोच्यतेऽङ्गालभगादिभिर्वा” ५ मू०। “अथान्तरेण मासज्ञानमिन्द्रवज्रयाह केचिदिति केचिदाचार्याः शशाङ्काध्युषिताच्चन्द्रयुक्तान्नवांशाच्छुक्लान्तसंज्ञं मासं कथयन्ति प्रश्नकाले यस्मिन्नवांशके नवमेऽंशे चन्द्रमा भवति तमपि नवांशकं त्रिधा परिकल्प्य तस्मिन्नवांशके नवमेंशे चन्द्रमा व्यवस्थित इति चन्द्रनवांशकगतं नक्षत्रमन्वेष्यम्। तन्नक्षत्रशुक्लान्तसंज्ञके मासि तस्य जन्म वक्तव्यम् अत्र यस्य नक्षत्रस्य शुक्लान्तसंज्ञो मासो नास्ति तस्य वृहस्पतिचारोक्तविधिना शुक्लान्तसंज्ञो मासः परिकल्प्यः तत्रोक्तम् “नक्षत्रेण सहोदयमस्तं वा येन याति सुरमन्त्री। तत्संज्ञं वक्तव्यम् वर्षं मासं क्रमेणैव। वर्षाणि कार्त्ति कादीन्याग्नेयाद्भद्वयाद्योज्यानि क्रमशस्त्रिभन्तु पञ्चममुपान्त्यमन्त्र्यं च यद्वर्षमिति” तत्र चन्द्रमा यदि वृषनवांशके तन्नवांशकसप्तकस्यार्वाग्भवति तदा कार्त्तिके मासि जात इति वक्तव्यम्। अथ वृषनवांशकस्योर्द्धं भवति मिथुननवांशके तन्नवांशकषट्कस्यार्वाग्यदा चन्द्रमा भवति तदा मार्गशीर्षे मासि जात इति वक्तव्यम्। अथ मिथुनवांशके तन्नवांशषट्कस्योर्द्ध्वं कर्कटनवांशके तन्नवांशकपञ्चकस्यार्वा- म्यदा चन्द्रमा भवति तदा पौषे मासि जात इति वक्तव्यम् अथ कर्कटे तन्नवांशकपञ्चकस्योर्द्ध्वं सिंहनवांशके तन्नवांशकचतुष्टयस्यार्वाग्यदा चन्द्रमा भवति तदा माघेमासि जन्म इति वक्तव्यम्। अथ सिंहनवांशके तन्नवांशकचतुष्टयस्योर्द्धं कन्यानवांशके तन्नवांशकसप्तकस्यार्वाग्यदा चन्द्रमा भवति तदा फाल्गुने मासि जात इति वक्तव्यम्। अथ कन्यानवांशकसप्तकस्योर्द्ध्वं तुलानवांशके तन्नवांशकषट्कस्यार्वाग्यदा चन्द्रमा भवति तदा चैत्रे मासि जात इति वक्तव्यम् अथ तुलानवांशके तन्नवांशकपट्कस्योर्द्ध्वं वृश्चिकनवांशके तन्नवांशकपञ्चकस्यार्वाग्यदा चन्द्रमा मवति तदा वैशाखे मासि जात इति वक्तव्यम् अथ वृश्चिके तन्नत्रांशकपञ्चकस्योर्द्ध्वं धन्विनवांशके तन्नवांशकचतुष्टयस्यार्वाग्यदा चन्द्रमा भवति तदा ज्यैष्ठेमासि जात इत्यवगन्तव्यम्। अथ धन्विनवांशके तन्नवांशकचतुष्टयस्योर्द्ध्वं मकरनवांशकत्रयस्यार्वाग्यदा चन्द्रमा भवति तदा आषाढे मासि जात इति वक्तव्यम्। अथ मकरनवांशके तन्नवांशकत्रयस्योर्द्ध्वं कुस्य नवांशके तन्नवांशकद्वयस्यार्वाग्यदा चन्द्रमा भवति तदा श्रावणे मासि जात इति वक्तव्यम्। अथ कुम्भनवांशके तन्नवांशकद्वयस्योर्द्ध्वं मीगनवांशे तन्नवांशपञ्चकस्यार्वाग्यदा चन्द्रमा भवति तदा भाद्रपदे मासि जात इति वक्तव्यम् अथ मीन नवांशके तन्नवांशकपञ्चक्रस्योर्द्ध्वं मेषनवांशे तन्नवांशषट्कत्रयस्यार्वाग्यदा चन्द्रमा भवति तदाश्वयुजि मासि जात इति वक्तव्यम्। अथ मेषनवांशके तन्नवांशाष्टकस्योर्द्ध्वं यदि चन्द्रमा भवति तदा कार्त्तिके मासि जात इत्यवगन्तव्यम्। यस्मिन् कृत्तिका रोहिणी स कार्त्तिकः सृगशिरार्द्रा च मार्गशीर्षः पुनर्वसुः पुष्यश्च पौषः” अश्लेषा मघा च माघः। पूर्वफाल्गुन्युत्तरफाल्गुनी हस्तश्च फाल्गुनः। चित्रा स्वाती च चैत्रः। विशाखा अनुराधा च वैशाखः। ज्येष्ठामूले ज्यैष्ठः। पूर्वाषाढोत्तराषाढा चाषाढः। श्रवणं घनिष्ठा च श्रावणः। शतमिषक्पूर्वभाद्रपदोत्तरभाद्रपदाश्च भाद्रपदः। रेवत्यश्विनीभरण्यश्चाश्चयुजः। यस्मादुक्तम् “त्रिभन्तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षमिति। एवं शुक्लान्तस्य मासस्य शुक्लान्तग्रहणेनैतत्प्रतिपादयति यत्तथा शुक्लपक्षान्ते येन नक्षत्रेण युक्तस्तदुपलक्षितोमासो वक्तव्यः यथा कार्तिकशुक्लपक्षान्ते कृत्तिकारोहिणीभ्यामन्यतमेन युतश्चन्द्रमा भवति तेन कार्तिकोमास उच्यते एवमन्येषामपि योज्यते। तदैतद्व्रुवते एतदुक्तं मवति न शुक्लान्तोमासः कृष्णान्त एव तथा च यवनेश्वरः “मासे तु शुक्लप्रतिपत्प्रवृत्ते पूर्वे शशीमध्यवलोदयस्थः”। तथा च “यद्राशिसंज्ञे शीतांशुः प्रश्न काले नवांशके। स्थितस्तद्राशिगः पूर्णो यस्मिन् भवति चन्द्रमाः। जन्ममासः स निर्दिष्टः पुरुषस्य तु पृच्छतः। कृष्णपक्षान्तिको मासो ज्ञेयोऽत्र तु विपश्चिता”। लग्नत्रिकोणेत्यादि लग्नस्य प्रश्रलग्नस्य त्रिकोणयोश्च नवमपञ्चमयोर्भध्याद्यस्तत्कालमुत्तमेन प्रधानवीर्येण बलेन युक्तस्तद्भं राशिः प्रोच्यते कथ्यते तस्मिन् राशौ गते चन्द्रमसि जात इति वक्तव्यम्। तथा च “यवनेश्वरः होरादिवीर्याधिकलग्नभाजि स्थानं त्रिकोणे शशिनो विधाय”। अङ्गालभनादिभिर्वा कालाङ्गानीत्यनेन प्रदर्शितोयः कालपुरुषस्याङ्गविभागस्तदालभनाद्वानेन विधिना स्प्रष्टुः स्पृशतः यदेव कालपुरुषस्याङ्गं स्पृशति तत्स्थे चन्द्रमसि जात इति वक्तव्यम् आदिग्रहणात् प्रागुक्तसत्त्वदर्शनश्रवणे गृह्येते” भट्टो०। “यावान् गतः शीतकरो विलग्नाच्चन्द्राद्वदेत्तावति जन्मराशिः। मीनोदये मीनयुगं प्रदिष्टं भक्ष्याहृताकाररुतैश्च चिन्त्यम्” ६ मू०। “अथ प्रकारान्तरेण जन्मस्थराशिज्ञानमिन्द्रवज्रयाह यावानिति बिलग्नात् पृच्छालग्नाच्छीतकरश्चन्द्रो यावान् गतो यावति राशौ व्यवस्थितस्तस्माद्यस्तावति राशिः तत्रस्थे चन्द्रमसि जात इति वक्तव्यम्। मीनोदये यदि मीनलग्नगतो भवति तदा मीनयुगमेव प्रदिष्टमुक्तम् मीनस्थश्चन्द्रमा इति वक्तव्यम् ननु दर्शितबिधिना राशिरनेकप्रकारो यत्र प्राप्तो भिन्नरूपस्तत्र को वक्तव्य इत्याशङ्क्याह भक्ष्याहृताकाररुतैरिति यस्य राशेः सम्बन्धि भक्ष्यद्रव्यं तस्मिन् काले कृत्रिममानीयते तदाकारश्च कश्चिदृश्यते यथा मार्जारादिदर्शने सिंहो महिषादिदर्शने वृष इत्यादि अथ वा राश्युक्तरूपपुरुषस्य दृष्ट्याथ वा रुतेन यस्य राशिसदृशप्राणिनो रुतं शब्दः क्रियते तत्रस्थे चन्द्रमसि जात इति वक्तव्यम्” भट्टो०। “होरानवांशप्रतिमं बिलग्नं लग्नाद्रविर्यावति च दृकाणे। तस्माद्वदेत्तावति वा विलग्नं प्रष्टुः प्रसूताविति शास्त्रमाह” ७ मू० “सुवं जन्मराशौ ज्ञाते लग्नज्ञानमिन्द्रवज्रयाह हीरेति होरायां प्रश्नलग्ने यस्य राशेर्नवांशकस्तत्कालं वर्त्तते तस्मात्तावति तमं तत्प्रतिमन्तमेवांशकराशिं तस्य जन्मलग्नं वक्तव्यम्। अथवा लग्नाल्लग्नद्रेष्काणादारभ्य रविः सूर्य्यो यावति यावत्संख्ये द्रेष्काणे व्यवस्थितस्तस्माल्लग्नादारभ्य तावति राशौ लग्नगते तस्य जन्म वक्तव्यम्। अत्र च द्वादशभ्योऽधिके द्रेष्काणे द्वादशकमपास्य संख्यानिर्देशः चतुर्विंशतेरधिके चतुर्विंशतिमपास्य शेषं वदेत् एवं शास्त्रमाह शास्त्रं कथयति न स्वमनीषयोक्तमित्ये तत्प्रतिपादयति शास्त्रग्रहणेनैतत्प्रतिपाद्यते। उक्तञ्च “पृच्छालग्ननवांशस्य यो राशिः संज्ञया समः। तस्मिन् लग्नगते राशौ प्रष्टुर्जन्म विनिर्दिशेत्”। पृच्छतस्तावत्संख्योपगते लग्नाद्दृकाणे दिनकृत् ततः प्रश्नलग्नात्तावत्संख्ये गते लग्नराशौ जन्म वक्तव्यम्” भट्टो०। “जन्मादिशेल्लग्नगे वीर्यगे वा छायाङ्गुलघ्नोऽर्कहतेऽवशिष्टम्। आसिनसुप्तोत्थिततिष्ठतां भञ्जायासुखाज्ञोदयशं प्रदिष्टम्” ८ मू०। “अथ प्रकारान्तरेण लग्नानयनमिन्द्रवज्रयाह जन्मदिशेदिति लग्नगे ग्रहे जन्मादिशेत् प्रश्नलग्ने यो ग्रहो व्यबस्थितस्तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यम् अथ बहवो लग्नगता भवन्ति तदा तेषां यो वलवान् तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यं ततः सलिल समायामवनौ द्वादशाङ्गुलेन शङ्कुना तात्कालिकानि छायाङ्गुलानि गृहीत्वा तैरङ्गुलैरेकैकं ग्रहं दर्शितकाले लिप्तापिण्डीकृतं गुणयेत् अथ वा सर्वग्रहेभ्यो यो बलवान् ग्रहस्तं तात्कालिकं कृत्वा लिप्तापिण्डं कृत्वा छायाङ्गुलाहतं चार्कशुद्धं कारयेत् द्वादशभिर्विभजेत्तत्र तावत्तत्रावशिष्टं तावत्संख्यो मेषादेरारभ्य यो राशिर्भवति तस्मिन् राशौ लग्नगते तस्य जन्म वक्तव्यम्। अथ प्रकारान्तरेणाह आसीनेत्यादि आसीन उपविष्टो यदा प्रष्टा पृच्छति तदा लग्नाद्यज्जायास्थानं सप्तमराशिस्तस्मिन् लग्नगते तस्य जन्म वक्तव्यम्। अथ सुप्तः सुप्तोऽत्र शयनपतितोऽभिहितः जातनिद्रस्य प्रश्नाभावात्। तत्र पतितो यदा पृच्छति तदा लग्नाद्यत् सुखस्थानं चतुर्थराशिस्तस्मिन् लग्नगते तस्य जन्म बक्तव्यम्। अथोत्थितः पृच्छति तदा तस्माल्लग्नाद्यदाज्ञा दशमोराशिस्तस्मिन् लग्नगते तस्य जन्म वक्तव्यम्। अथ शयनादासनाच्च नोत्थितः किन्तु उत्तिष्ठन् पृच्छति तदोदयलग्नराशौ तस्मिन्नेव जन्म वक्तव्यम्। उक्तञ्च “उत्तिष्ठतो विलग्नात्प्रष्टुः सुप्तस्य वन्धुलग्नाच्च। उपविष्टस्यास्तमये व्रजतोमेषूरणस्थानादिति” भट्टो०। “गोसिंहौ जितुमाष्टमौ क्रियतुले कन्यामृगौ च क्रमात् संवर्ग्या दशकाष्टसप्तविषयैः शेषाः स्वसंख्यागुणाः। जीवारास्फुजिदैन्दवाः प्रथमवच्छेषाग्रहाः सौम्यवत् राशीनां नियतो विधिर्ग्रहयुतैः कार्या च तद्वर्गणाः” ९ मू०। “अथ प्रकारान्तरेण सर्वमेव नष्टजातकं वक्ति ततः प्रश्रकाले तात्कालिकं लग्नं कृत्वा लिप्तापिण्डीकार्यम् ततस्तस्य लिप्तापिण्डीकृतस्य गुणकारविज्ञानार्थं शार्दूलविक्रीडितेनाह गोसिंहाविति गोसिंहादयो राशयो यथाक्रमं दशादिभिर्गुणकारैः संवर्ग्या गुणनीयाः तदयथा गोसिंहौ वृषसिंहौ दशभि १० र्गुणयेत् वृषलग्नं लिप्तापिण्डीकृतं दशभिर्गुणयेत्। एवं सिंहं दशभिरेव। जितुमाष्टमौ मिथुनवृश्चिकौ लग्नगतावष्टभि ८ र्गुणयेत्। क्रियतुले मेषतुले एतौ सप्तभिर्गुणयेत्। कन्यामृगौ कन्यामकरौ एतौ लग्नगतौ विषयैः पञ्चमिर्गुणयेत्। एवमेते यथाक्रमं संवर्ग्यागुणनीयाः शेषा अनुक्ता राशयः स्वसंख्यागुणा आत्मीयसंख्यया गुणनीयाः तत्र मेषादिगणनया चतुर्थं कर्कटमिति चतुभिर्गुणतेत् एवं घन्विन नवभिः ९ कुस्ममेकादशभिः ११ एवं मीनं द्वादशमिः १२। एवं तावल्लग्नं स्वगुणकारेणावश्यमेव गुणयेत् दशकाष्टसप्तविषयैः ततस्तत्र यदि ग्रहो भवति तदा ग्रहगुणकारेणावश्यमेव गुणयेत् तत्र ग्रहगुणकारविधिः जीवा रास्फुजिदैन्दवाः प्रथमवद्दशकाष्टसप्तविषयैरिति जीवे गुरौ लग्नगते तमेव लग्नं स्वगुणकारैराहतं दशभिर्गुणयेत् आरे भौमे लग्नगते अष्टभिः, आस्फुजिच्छुक्रः तस्मिन् लग्नगते सप्तभिः, ऐन्दवे बुधे पञ्चभिः, शेषा रविशशिसौरास्ते च सौम्यवत् बुधवत् पञ्चभिर्गुणनीया इत्यर्थः। एवं तात्कालिकं लग्नम् अवश्यं राशिगुणकारेण गुणयेत् ततः स ग्रहोक्तगुणकारैरपि तत्र च यदा ग्रहो भवति तदा ग्रहगुणकारेण गुणयेत्। यदा बहवो ग्रहा भवन्ति तदा सर्वेषां गुणकारैर्गुण थेत् एवं च तद्गुणितमेकान्ते स्थापयेत्” भट्टो०। “सप्ताहतं त्रिघनभाजितशेषमृक्षं दत्त्वाथ वा नव विशोध्यनवाथ वा स्मात्। एवं कलत्रसहजात्मजशत्रुभेभ्यः प्रष्टुर्तदेदुदयराशिवशेन तेषाम्” १० मू०। “अथ नक्षत्रानयनं वसन्ततिलकेनाह सप्ताहतमिति सप्ताहतं सप्तभिर्गुणयेत् दत्त्वाथ वेति ततस्तत्र नव देयाः शोध्या वा न किञ्चिद्वा देया इत्युच्यते यदि स चरराशिर्लग्नगतो भवति तदा नव देयाः स्थिरे न देया नापि शोध्याः, द्विःस्वभावे विलग्ने नव शोध्याः एवं केचिद्व्याचक्षते वयं पुनर्ब्रूमः यदि प्रश्रलग्ने प्रथमोद्रेष्काणो भवति तदा न देयाः, द्वितीये न देया नापि शोध्याः, तृतीये नव शोध्याः एवं कृत्वा तस्य राशेस्त्रिधनेन सप्तविंशत्या भागमप्रहृत्यावाप्तं त्याज्यं तत्र यावत्संख्योऽङ्कोऽवशेषो भवति तावत्संख्यमश्विन्यादितो यन्नक्षत्रं तन्नक्षत्रं तस्य प्रष्टुर्वक्तव्यम्। केचित् वदन्ति तथास्थितस्य राशेः सप्तविंशत्याभागमपहृत्यावशेषाङ्कनवकदानेन विशोधनेन वा यथास्थितेनाङ्केन संवाद उत्पद्यते तथा नक्षत्रं वक्तव्यम् एवमित्यादि कलत्रसहजात्मजशत्रुभेभ्य इति भार्य्याभर्तृपुत्ररिपुषु नष्टजातकं यदा पृच्छति तदा तद्भेभ्यस्तद्भावेभ्यः एवं प्रष्टुः पृच्छकस्य वदेद्ब्रूयात् तमेवोदयराशिं परिकल्पयेदित्यर्थः। एतदुक्तं भवति यदि पुरुमः स्वपत्र्या नक्षत्रं पृच्छति तदा तात्कालिके लग्ने राशिषट्कं देयम्। अथ भ्वातुः पृच्छति तदा राशिद्वयं देयमथ पुत्रस्य पृच्छति तदा राशिचतुष्क देयमथ शत्रो पृच्छति तदा राशिपञ्चकं देयम्। एवं कृत्वा यद्भवति तदेवोदयराशिं प्रकल्प्य तद्गुणकारेण गुणथेत् तत्स्थग्रहगुणकारेण च ततस्तत्र प्राम्बन्नवकदानविशोधने कृत्वा सप्तविंशत्यामागमपहृत्यावशेषाङ्कसमं यस्य प्रष्टा पृच्छति तस्य नक्षत्रं वक्तव्यम्। एतदप्युपलक्षणार्थमेव, त्रिराशिसहितात्तात्कालिकाल्लग्नात् मित्रस्य वक्तव्यम्। एतन्नक्षत्रानयनमप्युपलक्षणमेवं सकलमपि नष्टजातकं वक्तव्यम्” भट्टो०। “वर्षर्तुमासतिथयोद्युनिशं ह्युडुनि वेलोदयर्क्षनवमागविकल्पनाः स्युः। भूयो दशादिगुणितात् स्वविकल्पभक्ताद्वर्षादयो नवकदानविशोधनाभ्याम्” ११ मू०। “अथ वर्षाद्यानयनं वसन्ततिलकेनाह वर्षर्त्तुमासेति वर्षादीनि सर्वाणि स्वविकल्पेन भागे हृते यथा पाठक्रमेणानयितष्यानि तद्यथा तात्कालिकं लग्नं लिप्तापिण्डीकृतं राशिगुणकाराहतं ग्रहसंयुक्तं चेद्ग्रहगुणकारा हृतमपि यदेकान्ते स्थापितं तत्पुनरपि दशादिगुणं कार्य्यम्। एतदुक्तं भवति स राशिः स्थानचतुष्टये धार्य्यः एकत्र दशगुणोऽन्यत्र द्वितीयेऽष्टगुणोऽन्यत्र तृतीये सप्तगुणः चतुर्थे पञ्चगुणः कार्यः यत उक्तम्। भूयो दशादिगुणितात् भूयः पुनरपि दशकाष्टसप्तविषयैर्गुणनीयाः ततस्तस्मिन राशिचतुष्टये प्राग्वन्नवकदानविशोवने कृत्वा स्वविकल्पैर्भागमपहृत्यावाप्तं वर्षादयो ज्ञेयाः” भट्टो०। “विज्ञेयादशकेष्वव्दा ऋतुमासास्तथैव च। अष्टकेष्वपि मासार्द्धा तिथयश्च तथा स्मृताः” १२ मू०। “अथ न ज्ञायते कस्माद्राशेः कस्यानयनं कार्यं तदनुष्टुप्पत्रयेणाह विज्ञेयादशकेष्वव्दा इति अत्र बहुवचनं बहुधोप्तयोगि- त्वात् कृतम्। यदुक्तं लविकल्पभक्ताद्वर्षादयस्तद्व्याख्यायते एते चत्वारो राशयः स्थापितास्तेषां नवकदानविशोघनं कृत्वा कर्मयोग्याः सर्वे भवन्ति ततो दशगुणस्य पृथक्स्थस्य परमायुषा विंशत्यधिकेन वर्वशतन भागनपहृत्य योऽङ्कोऽवशिष्यते तदङ्कसमं तस्य वर्षसंख्याङ्कं वर्त्तते तस्यैव षड्भिर्भागमपहृत्य ऋतुसंख्यया तत्र योऽङ्कोऽवशिष्यते तदङ्कसमे शिशिरादारभ्यर्त्तौ जात इति वक्तव्यम्। तस्यैव तु माससंख्यया द्वाभ्यां मागमपहृत्य यद्येकोऽवशिष्यते तदा ज्ञातर्त्तौ प्रथमे मासि जात इति वक्तव्यम्। अथ शून्यमवशिष्यते तदा द्वितीये मासि जातः। एवं कृत्वा दशगुणः कर्मयोग्यो राशिरपास्यः यस्य विंशव्यधिकाद्वर्षशतादप्यधिकं जन्मनोऽतीतं तस्य नष्टजातकज्ञानोपाय एव नास्ति। अष्टकेष्वित्यादि योऽसावष्टहतो राशिस्तस्य प्रथक्स्थस्य कर्मयोग्यस्य पक्षसंख्यया द्वाभ्या भागमपहृत्य यद्येकोऽवशिष्यते तदा शुक्लपक्षे जात इति वक्तव्यम्। न किञ्चिदवशिष्यते तदा कृष्णपक्षे। तस्यैव तिथिसंख्यया पञ्चदशभिर्भागमपहृत्य योऽङ्कोऽवशिष्यते तदङ्कसमाने तिथौ जात इति वक्तव्यम् एवं कृत्वाष्टगुणः कर्मयोग्यो राशिरपास्यः” भट्टो०। “दिवारात्रिप्रसूतिञ्च नक्षत्रानयनं तथा। सप्तकेष्वपिवर्गेषु नित्यमेवोपलक्षयेत्” १३ मू०। “दिवेत्यादि योऽसौ सप्तहृतो राशिस्तत्र प्राग्वदेव नवकदानविशोधने कृत्वा तत्कर्मयोग्यं राशिं स्थापयेत् तस्य दिवारात्रिसंख्यया द्वाभ्यां भागमपहृत्य यद्येकोऽवशिष्यते तदा दिवसे जातोऽथ न किञ्चिदवशिष्यते तदा रात्रौ जात इति वक्तव्यम्। योऽसौ सप्तहतो राशिस्तस्य नक्षत्रसंख्यया सप्तविंशत्याभागमपहृत्य योऽङ्कोऽवशिष्यते तदङ्कसंख्ये नक्षत्रेऽश्विन्धादित आरभ्य जातनक्षत्रमिति वक्तव्यम्। अस्य कर्मणः पुनरभिधानं नक्षत्रानयनस्य बाहुल्योपयोगिंत्वात्” भट्टो०। “वेलामथ विलग्नञ्च होरामंशकमेव च। पञ्चकेषु विजानीयान्नष्टजातकसिद्धये” १४ मू०। “वेलेत्यादि यस्मिन् दिने पुरुषस्य जन्मज्ञानं तद्दिनप्रमाणं घटिकादिकं कर्त्तव्यं रात्रौ चेत्तदा रात्रिप्रमाणं ततः पञ्चगुणस्य राशेष्तेन दिनप्रभाणेन रात्रिप्रमाणेन भागमपहृत्य योऽङ्कोऽवशिष्यते तस्मिन् काले दिनगते रात्रिगते वा तस्य जन्म वक्तव्यम्। अथ विलग्नमित्यादि अथ शब्दः पादपूरणार्थं काले ज्ञाते राश्यादिलग्नं कर्त्तव्यं ततस्तस्य होराद्रेष्काणनवां शद्व दशांशत्रिंशांशभागाः कर्त्तव्याः तात्कालिका ग्रहाश्च कर्त्तव्याः ततो यथाभिहितेन विधिना दशान्तर्दशाष्टकवर्गादेरभिहितस्य फलस्य निर्देशः कार्य्यः एवं नष्टजातकं साधयेत्” भट्टो०। “संस्कारनाममात्राद्विगुणाच्छायाङ्गुलैः समायुक्ता। शेषं त्रिनवकभक्ता नक्षत्रं तद्धनिष्ठादि” १५ मू० “अथ प्रकारा न्तरेण नक्षत्रानयनमार्ययाह संस्कारनामेति संस्कारेण नाम संस्कारनाम तस्य मात्राः संस्कारेणागतस्य नाम्नो मात्राः संस्कारनाममात्राः संस्कारग्रहणेनैतत्प्रतिपादितं भवति संस्कारेण यत्पुरुषस्य नामकृतं तस्य मात्रा ग्राह्याः नान्यस्य कस्यचित् कुनामादेः मात्राश्चेह गृह्यन्ते। हल् अर्द्धमात्रिकः अच् मात्रिकः इत्यनया स्थित्या ताः संस्कारनाममात्राः संगृह्य द्विगुणीकार्य्याः ततस्तात्कालिकानि शङ्कुच्छायाङ्गुलानि गृहीत्वा ताद्विगुणमात्रास्तैरङ्गुलैः संयुक्ताः कार्य्याः एवं कृते यद्भवति तस्य त्रिनवकेन सप्तविंशत्याभागमपहृत्य यः शेषो भवति तदङ्कसमं तस्य धनिष्ठादित आरभ्य नक्षत्रं वक्तव्यम्” भट्टो०। “द्वित्रिचतुर्दशदशतिथि सप्तत्रिगुणानवाष्टचैन्द्राद्याः। पञ्चदशघ्नास्तद्दिग्मुखान्विताभं धनिष्ठादि” १६ मू०। “अथ नक्षत्रानयनं प्रकारान्तरेणार्य्ययाह। द्वित्रिचतुर्दशेति पूर्वाभिमुखो यदा प्रष्टा पृच्छति तदा द्वयोरङ्काः स्थाप्याः अथाग्नेयाभिमुखस्तदा त्रयाणाम्। अथ दक्षिणाभिमुखस्तदा चतुर्दशानाम् अथ नैरृत्यभिमुखस्तदा दशानाम् अथ पश्चिमाभिमुखस्तदा तिथिसंख्यानां पञ्चदशानाम् अथ वायव्याभिमुखस्तदा सप्तत्रिगुणायाः एकविंशतेः। उत्तराभिमुखस्तदा नवानाम् ऐशान्याभिमुखस्तदाष्टानां तद्यथा एवं दिगमिमुखप्रष्टृवशेनाङ्कं गृहीत्वा ततः पञ्चदशगुणः कार्यः ततस्तस्मिन् प्रदेशे यावन्तः पुरुषास्तदभिमुखाः स्थितास्तत्संख्ययान्वितो युक्तः कार्यः एवं कृते यद्भवति तस्य सप्तविंशत्या भागमपहृत्य योऽङ्कोऽवशिष्यते तदङ्कसमं तस्य धनिष्ठाद्यारभ्य नक्षत्रं वक्तव्यम्” भट्टो०। “इति नष्टजातकमिट बहुप्रकारं मया विनिर्दिष्टम। ग्राह्यमतः सच्छिष्येः परीक्ष्य यत्नाद्यथा भवति” १७ मू० “इतिशब्दः उपसंहारे मया वराहमिहिराचार्येण नष्टजातकं बहुप्रकारं बहुभेदं विनिर्दिष्टमुक्तमिदम्। अतोऽस्माद्धेतोः सच्छिष्यैः शोभनसच्छात्रैः ग्राह्यं यत्नात्परीक्ष्य विचार्य यथा येन प्रकारेण संवदति सत्यरूपं तथ ग्राह्यमिति येन प्रकारेण संवदति तथा ग्रहीतव्यमित्यर्थः बहुभिरागमैर्मया विचार्य पराशर- वशिष्ठयवनसत्यमणित्थादीनां मतानि आलोक्य कृतं तदेव भूयो निर्मलगुणनिपुणबुद्ध्या विचार्य संवादेन कार्यं येन स्फुटसिद्धोऽसौ संपद्यते” भट्टो०।

नष्टमार्गण = न० नष्टस्यादर्शनं गतस्य मार्गणम्। अदर्शनगतस्यान्वेषणे।

नष्टवीज = त्रि० नष्टं वीजं वीजभावो यस्य। निष्फले वीजभावशून्ये शाल्यादौ।

नष्टाग्नि = पु० नष्टो लुप्तः प्रमादालस्यादिना अग्निः वैतानिकोऽग्निर्यस्य। प्रमादादिना लुप्ताग्निके द्विजे।

नष्टाप्तिसूत्र = न० नष्टस्य चोरेणापहृतस्याप्तेः साधनं सूत्रं चिह्नम्। अपहृतद्रव्यस्य लाभसाधने चिह्नभेदे लोप्त्रे। (वामाल)।

नष्टेन्दुकला = स्त्री नष्टा इन्दुकला यस्याम् कुह्वाममरः। कुहूशब्दे २१६२ पृ० दृश्यम्।

नस = गतौ भ्वा० आत्म० सक० सेट् वेदनिघण्टुः। नसते अनसिष्ट कौटिल्येऽयं णोपदेशः स च सति निमित्ते णत्वं भजते। संश्लेषे च “स मोदते नसते साधते गिरा” ऋ० ९। ७१। ३ “नसते ग्रहादिषु संश्लिष्टो भवति” भा०।

नस = व्याप्तौ भ्वा० पर० सक० सेट् निघण्टुः नशदित्यत्र नसदिति माधबसम्मतः पाठः। नसति अना(न)सीत्। ननास नेसतुः “सुरभिष्टमं नरां नसन्त” ऋ० १। १८६। ७ “नसन्त व्वाप्रुवन्ति नसतिर्व्वाप्तिकर्मेति” माघवः “वृर्षणो नसीमहि” ऋ० २। १६। ८ नसीमहि व्याप्यामेति छान्दसः प्रयोगः।

नस् = स्त्री नस–क्विप्। नासिकायाम् “अविर्ना मेषो नसि वीर्य्याय” यजु० १९। १० “नसि नासिकायाम्” वेददीनासिकाशब्दस्य सप्तम्येकवचनरूपमित्यन्ये।

नसत्त = न० न + सद–क्त नसत्तनिषत्तेत्यादिना नत्वाभावः नि०। सन्नभिन्ने “नसत्तमञ्जसा” सि० कौ० धृता श्रुतिः।

नसा = स्त्री नस्–हलन्तत्वात् वा टाप्। नासिकायां त्रिका० “विनसा हतबान्धवा” भट्टिः।

नस्त = पु० नस–संज्ञायां त। १ नासिकायां शब्दमाला। नासिकायै हितः वा० त नसादेशश्च। नासिकायां हिते २ वैद्यकोक्ते पञ्चविधे नस्ये न०। नस्यशब्दे सुश्रुतवाक्ये तेषां लक्षणानि दृश्यानि। नासिकायाः ३ छिद्रे स्त्री “नस्ताभेदनदाहाभ्यां कर्णदाहास्थिभेदनैः। अतिदाहाति बाहाभ्यां बधे चान्द्रायणं चरेत्” स्मृतिः।

नस्तस् = अव्य० नासिका + विभक्त्यर्थे तसिल् “नस् नासिकाया यत्तस्छिद्रेषु” नसादेशः। नासिकायामित्याद्यर्थे “नस्तः कर्म्मणि शस्यन्ते पानाभ्यङ्गाञ्जनेषु च” सुश्रुतः “स यत् नस्तोऽभवत् ततः सिंहः समभवत्” शत० ब्रा० ५। ५४ “तस्तः प्राणा दिशं श्रोत्रात्” याज्ञ०

नस्तित = त्रि० नस्ता नासाच्छिद्र जाताऽस्य तार० इतच्। कृतनासाछिद्रे रज्वास्यूतनासिके बलीवर्द्दे अमरः। (नाकफोडा)।

नस्तोत = पु० नस्ताया नासास्थरज्वा ऊतः। नस्योते बलीवर्द्दे रमानाथः।

नस्य = त्रि० नासिकायै हितं तत्र भवो वा यत् नसादेशः। १ नासिकाभवे २ तद्धिते च ३ सुश्रुतोक्ते नासिकाहिते क्रियाभेदे यधा “नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः। औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यं तद्द्विविधं शिरोविरेचनं स्नेहनञ्च तद्द्विविधमपि पञ्चधा। तद्यथा नस्यं शिरोविरेचनं प्रतिमर्शोऽवपीडः प्रधमनञ्च तेषु नस्यं प्रधानं शिरोविरेचनञ्च नस्यविकल्पः प्रतिमर्शः शिरोविरेचनविकल्पोऽवपीडः प्रधमनञ्च। ततो नस्यशब्दः पञ्चधा निपातितः। तत्र यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां बलजननार्थं दृष्टिप्रसादजननार्थं वा स्नेहो विधीयते तस्मिन्वैशेषिको नस्यशब्दः। तत्तु नस्यं देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघातनासारोगास्यशोषाषयाहुकाकालजवलीपलितप्रादुर्भावदारुणप्रबोधेषु वातपैत्तिकेषु मुखरोगेष्वन्येषु च बातपित्तहरद्रव्यसिद्धेन स्नेहेनेति। शिरोविरेचनं श्लेष्मणाभिव्याप्ततालुकण्ठशिरसामरोचकशिरोगौरबशूलपीनसार्द्धावभेदककृमिप्रतिश्यायापस्मारगन्धाज्ञानेष्वन्थेषु चोर्द्धजत्रुनतेषु कफजेषु विकारेषु शिरोविरेचनद्रव्यैस्तत्सिद्धेन वा स्नेहेगेति। तत्रैतद्द्विविधमभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां मध्याह्रे पित्तरोगिणामपराह्णे वातरोगिणाम्। अथ पुरुषाय शिरोविरेचनीयाय दन्वकाष्ठधूमपानाभ्यां विशुद्धवक्त्रस्नेतसे पाणितापपरिस्विन्नमृदितगलकपोलललाटप्रदेशाय वातातपरजोहीनवेश्मन्थुत्तानशायिने प्रसारितकरचरणय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्धस्रोतसि दक्षिणहस्तेन स्नेहमुष्णानुतप्तं रजतसुवर्णताम्रमृत्पात्रशुक्तीनामन्थतमस्थं शुक्त्या पिचुना वा सुखोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न प्राप्तोति। स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत्। न कुप्येन्न् प्रभाषेच्च न क्ष्णुयान्न हसेत्तथा। एतैर्हि विहतः स्नेहो न सम्यक्प्रतिपद्यते। ततः कासप्रतिश्या- यशिरोऽक्षिगदसम्भवः” तस्य प्रमाणमष्टौ विन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथममात्रा, द्वितीया शुक्ति, स्तृतीया पाणिशुक्तिरित्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः। स्नेहनस्यं नचोपगिलेत्किञ्चिदपि। “शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा। कफोत्क्लेशभयाच्चैव निष्ठीवेदबिधारयन्” दत्ते च पुनरपि संस्वेद्य गलकपोलादीन्धूममासेवेत भोजयेच्चैनमभिष्यन्दि ततोऽस्याचारिकमादिशेत्। रजीधूमस्नेहातपमद्यद्रवपानशिरःस्नानातियानक्रोधादीनि च परिहरेत्। तस्य योगायोगानां विज्ञानं भवति। “लाघवं शिरसो योगे सुखस्वप्नप्रवोधनम्। विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम्। कफप्रसेकः शिरसो गुरुतेन्द्रियबिभ्रमः। लक्षणं मूर्ध्न्यतिस्निग्धे रूक्षं तत्रावचारयेत्। अयोगे चैव वैगुण्यमिन्द्रियाणाञ्च रूक्षता। रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत्। चत्वारो विन्दवः षड्वा तथाष्टौ वा यथाबलम्। शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत्। नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः। शुद्धहीनातिसज्ञानि विशेषाच्छास्त्रचिन्तकैः। लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः। चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम्। कण्डूपदेहौ गुरुता स्रोतसाङ्कफसंस्रवः। मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्त्तितम्। मस्तुलुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः। शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते। हीतातिशुद्धे शिरसि कफवातघ्नमाचरेत्। सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत्। एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः। एकविंशतिरात्रं वा यावद्वा साधु मन्यते। मारुतेनाभिभूतस्य वात्यन्तं यस्य देहिनः। द्विकालञ्चापि दातव्यं नस्यं तस्य विजानता”। अवपीडस्तु शिरोविरेचनवद मिष्यन्दसर्पदष्टविसंज्ञेभ्यो दद्याच्छिरोविरेचनद्रव्याणामन्यतममवपीड्यावसिच्य चेतोविकारकृमिविषाभिपन्नानां चूर्णं विदध्यात्। शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतसं क्षीणानां शोणितपित्ते च विदध्यात्। “कृशदुर्बलभीरूणां सुकुमारस्य योषिताम्। शृताः स्नेहाः शिरःशुद्ध्यै कल्कस्तेभ्यो यथाहितः”। नस्यदाने परिहर्त्तव्यो भुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणी पोतस्नेहोदकमद्यद्रवीऽजीर्णी दत्तवस्तिः क्रुद्धो गरार्त्तस्तृषितः शोकाभिभूतः श्रान्ता बालो वृद्धो वेगावरोधितः शिरःस्नातुकामश्चेति। अनार्त्तवे चाभ्रे नस्यधूमौ परि- हरेत्। तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानाति प्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्यापदा भवन्ति तृष्णोद्गारादयो दोषनिमित्ताः क्षयजाश्च। भवतश्चात्र “नस्ये शिरोविरेके च व्यापदो द्विविधाः स्मृताः। दोषोत्क्लेशनिमित्तांस्तु जयेच्छमनशोधनैः। अथ क्षयनिमित्तांस्तु यथास्वं वृंहणं हितम्”। प्रतिमर्शश्चतुर्द्दशसु कालेषूपादेयः। तद्यथा तल्पोत्थितेन प्रक्षालितदन्तेन गृहान्निर्गच्छता व्यायामव्यवायाध्वपरिश्रान्तेन मूत्रोच्चारकबलाञ्जनान्तेऽभुक्तवता छर्दितवता दिवास्वप्नोत्थितेन सायञ्चेति। तत्र तल्पोत्थितेनासेवितः १ प्रतिमर्शो रात्रावुपचितनासास्रोतोगतं मलमुपहन्ति मनःप्रसादञ्च करोति। प्रक्षालितदन्ते नासेवितो २ दन्तानां दृढतां वदनसौगन्ध्यं चापादयति। गृहान्निर्गच्छतासेवितो ३ नासास्रोतसः क्लिन्नतया रजोधूमो वा नाबाधते। व्यायाममैथुनाध्वपरिश्रान्तेनासेवितः ४। ५। ६ श्रममुपहन्ति। मूत्रोच्चारान्ते ७। ८ चासेवितो दृष्टेर्गुरुत्वमपनयति। कवलाञ्जनान्ते ९। १० सेवितो दृष्टिंप्रसादयति। अभुक्तवता सेवितः ११ स्रोतसां विशुद्धिं लघुतां चापादयति। वान्तेनासेवितः १२ स्रोतोविलग्नं श्लेष्माणमपोह्य भक्तकाङ्क्षामापादयति। दिवास्वप्नोत्थितेनासेवितो १३ निद्राशेषं गुरुत्वं मलं चापोह्य चित्तैकाग्र्यं जनयति। सायं चासेवितः १४ सुखनिद्राप्रबोधं चेति। “ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते। नस्ये निषिक्तं तं विद्यात्प्रतिमर्शं प्रमाणतः। नस्येन रोगाः शाम्यन्ति नराणामूर्द्ध्वजत्रुजाः। इन्द्रियाणां च वैमल्यं कुर्य्यादास्यं सुगन्धि च। हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम्। बलीपवितखालित्यव्यङ्गानां चाप्यसम्भवः। तैलं १ कफे समाते स्यात्केवलं पवने वसाम् २। दद्यात्सर्पिः ३ सदा पित्ते मज्जानं ४ च समारुते। चतुर्विधस्य स्नेहस्य विधिरेव प्रकीर्त्तितः। श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते”।

नस्योत = त्रि० आ + वे–क्त ओतः नसि ओतः अलुक्स०। नासिकायां कृतच्छिद्रायां रज्ज्वूबद्धे बलीवर्द्दे “मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः” भा० व० ३० अ०।

नह = अव्य०। न च ह च। प्रत्यारम्भे।

नहि = अव्य० न च हि च चादि०। निषेधे “नह्यस्मिन् युज्यते कर्म किञ्चिदामौञ्जिबन्धनात्” मनुः।

नहुष = पु० नह–उष। १ मरुद्गणभेदे “नहुषञ्चाहुतिञ्चैव चारित्रं ब्रह्मपन्नगम्” हरिवं० २०४ अ०। २ चन्द्रवंश्ये नृपभेदे “आयोः पुत्रस्तथा पञ्च सर्वे वीरा महारथाः। स्वर्मानुतनयायाञ्च प्रभायां जज्ञिरे नृप!। नहुषः प्रथमं जज्ञे वृद्धशर्मा ततःपरम्” २८ अ०। स चागस्त्यशापाट् सर्पतामाप्तः युधिष्ठिरेण तस्माद्मोचितः तत्कथा भा० व० १८१ अ० “अहं हि दिवि दिव्येन विमानेन चरन् पुरा। अभिमानेन मत्तः सन् कञ्चिन्नान्यमचिन्तयम्। ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसपन्नगाः। करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः। चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते!। तस्य तेजोहराम्याशु तद्धि दृष्टेर्बलं मम। ब्रह्मर्षीणां सहस्रं हि उवाह शिविकां मम। स मामपनयो राजन्! भ्रंशयामास वै श्रियः। तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया सनिः। अगस्त्येन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा। ततस्तस्माद्विमानाग्र्यात् प्रच्युतश्चुतलक्षणः। प्रपतन् युबुधे त्मानं व्यालीभूतमधोमुखम्। अयाचन्तमहं विप्रं शापस्यान्तो भवेदिति। प्रमादात् संप्रमूढस्य भगवन्! क्षन्तुमर्हसि। ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः। युधिष्ठिरो धर्मराजः शापात्त्वं मोचयिष्यति। अभिमानस्य घोरस्य पापस्य च नराधिप!। फले क्षीणे महाराज! फलं पुण्यमवाप्स्यसि” “नहुषो नाम राजाऽहमासं पूर्वस्तवानघ!। प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप!। क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च। त्रैलोक्यैश्वर्य्यमत्युग्रं प्राप्तोऽहं विक्रमेण च। तदैश्वर्य्यं समासाद्य दर्पो मामगमत्तदा। सहस्रं हि द्विजातीनामुवाह शिविकां मम। ऐर्श्वर्य्यमदमत्तोऽहमवमत्य ततो द्विजान्। इमामगस्त्येन दशमानीतः पृथिवीपते!। न तु मामजहात् प्रज्ञा याबदद्येति पाण्डव!। तस्येवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः” १८० अ०। नह्यति सर्वाणि भूतानि मायया कर्तरि उष। ३ परमेश्वरे “शिखण्डी नहुषो वृषः” विष्णुस०। नह्यते मायया कर्मणि उष। ४ मनुष्ये बा० उषि नहुष् इति मनुष्ये निघण्टुः। “आदीं विश्वा नहुष्याणि जाता” ऋ० ९। ८८। २ “नहुष्या मनुष्यसम्बन्धीनि” भा०। “नहुषः खररोमा च शेषवासुकितक्षका” इति विक्रमादित्यकोषोक्ते ५ नागराजभेदे च।

नहुषाख्य = पु० न० नहुषं शेषसर्पवर्णमाख्याति स्ववर्णेन आ + ख्या–क। तगरपुष्पे राजनि०।

नहुषात्मज = पु० ६ त०। ययातिनृपे “ययातिर्नहुषात्मजः” भारते भूरिप्रयोगः।

ना = अव्य० नह–बा० डा। निषेधे “अमानोना निषेधवाचकाः”।

नाक = पु० न कमकं दुःखं तन्नास्ति यत्र नभ्राडित्या० नि० प्रकृतिभावः। १ स्वर्गे अमरः। “यन्न दुःखेन संमिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत् सुखं स्वःपदास्पदम्” श्रुतौ हि स्वर्गस्य दुःखशून्यत्वमुक्तम्। दुःखराहित्येन २ सुखकरे त्रि०। “वैश्वानरः प्रत्नथा नाकमारुह दिवः पृष्ठे” ताण्ड्यब्रा० १। ७। ६ “नाकं दुःखराहित्येन सुखकरं रथम्” भा०। ३ नमसि निघण्टुः स्वर्गान्तरिक्षसाधारणनामसु तस्य कीर्त्तनात्। ४ राजभेदे पु० “नव् नाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः। मथुरां च पुरीं रम्यां नागाः भोक्ष्यन्ति सप्त वै” वामनपु०।

नाकचर = पु० नाके स्वर्गे नभसि वा चरति चर–ट। १ गगनचरे देवे ग्रहादौ च २ पितृदेवभेदे। “गार्हपत्या नाकचराः पितरो लोकविश्रुताः” भा० स० ११ अ०

नाकनाथ = पु० ६ त०। इन्द्रे त्रिका० नाकनायकादयोऽप्यत्र “नाकनावकपुरोहितो यदा” ज्योति० “नाकनायकनिकेतनमाप” नैष०।

नाकवनिता = स्त्री ६ त०। अप्सरःसु।

नाकसद् = पु० नाके सीदति–सद क्विप्। १ देवे “सन्तर्पणो नाकसदां वरेण्यः” भट्टिः।

नाकिन् = पु० नाकः वासस्थानत्वेनास्त्यस्य इनि। देवे हेमच०। “सदनान्युदस्मयत नाकिनामपि” “मन्यसेऽरिबधः श्रेयान् प्रीतये नाकिनामिति” माघः।

नाकु = पु० नम–उ नाक्यादेशः। १ वल्मीके २ पवेते च अमरः ३ मुनिभेदे मेदि०।

नाकुल = पु० नकुलस्य गोत्रापत्यम् “ऋष्यन्धकवृष्णिकुरुभ्यः” पा० गोत्रे अण् न तु इञ्। १ नकुलस्य गोत्रापत्ये। नकुल इव शर्करा० इवार्थे अण्। २ नकुलसदृशे च। नकुलेन दृष्टा तेन पीता वा अण् ङीप्। ३ कुक्कुटीकन्दे ४ रास्नायां ५ चविकायाञ्च स्त्री मेदि०। ६ यवतिक्तायां ७ श्वेतकण्टकार्य्यां ८ कन्दभेदे च स्त्री राजनि०। “नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत्। भोगिलतावृश्चिकाखु विषज्वरकृमिव्रणान्” शब्दार्थचि० धृतवाक्यम्।

नाकुलक = त्रि० नकुलो भक्तिरस्य “गोत्रक्षत्रियेभ्यो बहुलमिति” पा० वुञ्। नकुलभक्तिके मनुष्यादौ।

नाकुलि = पु० नकुलस्येदम् अपत्यं वा अत इञ् गोत्रे तु अणेव। १ नकुलसम्बन्धिनि २ तदपत्यै च “शतानीकस्तु नाकुलिः” भा० आ० ६३ अ०।

नाक्षत्र = न० नक्षत्राणामिदम् अण्। तद्वटितचक्रस्य परिवर्त्तनात्मके कालरूपे १ दिनभेदे तत्त्रिंशद्दिनात्मके सर्वनक्षत्र परिवर्त्तनात्मके च २ मासभेदे च “नाडीषष्ट्या तु नाक्षत्र महोरात्रं प्रकीर्त्तितम्” सू० सि०। “घटीनां षष्ट्याहो रात्रं नाक्षत्रमुक्तम्। तुकारादहीरात्रस्य नाक्षत्रत्वोक्त्योक्तघट्या अपि नाक्षत्रत्वमुक्तम्। एतत् षष्टिघटीभिर्भचक्रपरिवर्त्तनात्” रङ्ग०। “भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते” सू० सि०। “नित्यं प्रत्यहं भचंक्रभ्रमणं नाक्षत्रसमूहस्य प्रवाहवायुकृतं परिभ्रमः। नाक्षत्रं मक्षत्रमम्बन्धि नाक्षत्रमासदिनं मानज्ञैः कथ्यते” रङ्ग०। स च मासो द्विबिधः। सप्तविंशतिनक्षत्रपरिवर्त्तनात्मक एकः यथा “सर्वर्क्षपरिवर्त्तैश्च नाक्षत्र इह चोच्यते” इति “सर्वनक्षत्रभुक्त्या तु नाक्षत्रमास इष्यते” इति च अस्य प्रयोजनम्। “नक्षत्रसत्राण्ययनानि चेन्दोर्मासेन कुर्य्याद्भगणात्मकेन”। सप्तविंशतिनक्षत्रात्मकेन जन्मनक्षत्रे शनिभौमवारयोगे मनोदुःखदानम् यथोक्तं दीपिकायाम् “जन्मन्यर्क्षे यदि स्यातां वारौ भौमशनैश्चरौ। स मासः कल्मषो नाम मनोदुःखप्रदायकः” इति। द्वितीयः षष्टिदण्डात्मकनक्षत्रभोगकालरूपदिनत्रिंशदात्मकः यथोक्तं सूर्यसिद्धान्ते “नाडीषष्ठ्या तु नाक्षत्रमहोरात्रं प्रचक्षते। तत्त्रिंशता भवेन्मासः साबनोऽर्कोदयैस्तथा” अस्य प्रयोजनमायुर्गणनायाम् यथा “आयुर्दाये स्मृतं प्राज्ञैर्नाक्षत्रं षष्टिनाडिकमिति” मल० त०।

नाक्षत्रिक = त्रि० नक्षत्रादागतः ठञ्। १ नक्षत्रतःप्राप्ते नक्षत्रनिमित्ते स्त्रियां ङीष्। सा च ग्रहाणां २ दशाभेदे “सत्ये लग्नदशा चैव त्रेतायां हरगौरिका। द्वापरे योगिनी चैव कलौ नाक्षत्रिकी दशा” भट्टीत्पलधृतवाक्यम् सा च दशा “षट्सूर्यस्य दशा ज्ञेया इत्यादिका उक्ता दशाशब्दे अष्टोत्तरदशाप्रकरणे ३४९५ पृ० दृश्या।

नाग = न० नगे पर्वते भवः अण् न गच्छति अगः न अगो वा। १ वङ्गे २ सीसके ३ तिथ्यर्द्धरूपकरणभेदे च मेदि० करणशब्दे १६९० पृष्ठे दृश्यम्। सीसके पुंस्त्वमपोति वैद्यकम्। अस्योत्पत्तिर्भावप्र० दर्शिता यथा “दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत्। वीर्य्यं जातस्तती नागः सर्वरोगापहो नृणाम्। सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम्”। “नागस्तु नागशततुल्य- बलं ददाति व्याधिं विनाशयति जीवनमातनोति। वह्निं प्रदीपयति कामवलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः”। भावप्र० पाकहीनयोर्वङ्गसीसयोर्दोषो यथा “पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुल्मांश्च तथातिकष्टान्। कण्डूप्रमेहानलमान्द्यशोथभगन्दरादीन् कुरुतः प्रभुक्तौ”। नागभस्मप्रकारो यथा “ताम्बूलरससंपिष्टं शिलालेपात् पुनःपुनः। द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते”। प्रकारान्तरेण यथा “अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत्। मृत्पात्रे विद्रुतो नागो लौहदर्व्या च चालितः। यामैकेन मवेद्भस्म तत्तुल्या स्यान्मनःशिला। काञ्जिकेन समं पिष्ट्वा पचेद् दृढपुटेन च। स्वाङ्गशीतं पुनः पिष्ट्वा शिलायां काञ्जिकेन च। पुनः पुटशरावाभ्यामेवं षड्भिः पुटैः मृतिः। नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत्। सतिक्तमधुरो नागो मृतो भवति भस्मसात्। आयुः कीर्तिं वीर्यवृद्धिं करोति सेवनात् सदा। रोगान् हन्ति मृतो नागो वङ्गवद्गुणकारकः” ४ सर्पे ५ हस्तिनि ६ मेघे ७ नागकेशरे ८ पुन्नागे ९ नागदन्तिके १० मुस्तके ११ देहस्थेऽनिलभेदे च पु० १२ क्रूराकारे त्रि०। मेदि० “उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः” सा० ति० टीका पदार्थादर्शे। अत्र नागशब्दस्य सर्पगजजातिवाचकत्वे द्विलिङ्गत्वम्। तत्र जातिवाचकत्वात् स्त्रियां ङीष्। जानपदादिसूत्रे स्थौल्यगुणयोगादन्यत्र प्रयोगे स्त्रियां ङीष्। दीर्घगुणयोगादन्यत्र प्रयोगे स्त्रियां टाप् इति भेदः। १३ देशभेदे १४ ताम्बूल्यां च पु० भरतः। मनुष्याकारः फणालाङ्गूलयुक्तः कर्कोटादिर्नागः देवयोनिभेदः। तेषामुत्पत्त्यादिकं वराहपु० उक्तं यथा “सृजता ब्रह्मणा सृष्टिं मरीचिः सूतिकारणम्। प्रथमं मनसां ध्यातस्तस्य पुत्रस्तु कश्यपः। तस्य दाक्षायणी भार्य्या कद्रुर्नाम शुचिस्मिता। मारीचो जनयामास तस्यां पुत्रान् महाबलान्। अनन्तं वासुकिञ्चैव कम्बलञ्च महाबलम्। कर्कोटकञ्च राजेन्द्र! पद्मं चान्यं सरीसृपम्। महापद्मं तथा शङ्खं कुलिकञ्चापराजितम्। एते कश्यपदायादाः प्रधानाः परिकीर्त्तिताः। एतेषान्तु प्रसूत्या तु इदमापूरितं जगत्। कुटिलाहीनकर्माणस्तीक्ष्णास्योत्थविषोल्वणाः। दृष्ट्या संदृश्य मनुजान् भस्म कुर्युः क्षणाद्ध्रुवम्” एवं प्रजानाशे ब्रह्मण आदेशात् ते पातालस्थानं जन्मुः यथाह तत्रैव “अहं करोमि वो नागाः समयं मनुजैः सह। तदेक मनसः सर्वे शृणुध्वं मम शासनम्। पातालं वितलञ्चैव सुतलाख्यं तृजीयकम्। दत्तं वै वस्तुकामानां गृहं तत्र गमिष्यथ। तत्र भोगान् बहुविधान् भुञ्जध्वं मम शासनात्। तिष्ठध्वं सप्तमं यावद्रात्र्यन्ततः पुनःपुनः। ततो वैवस्वतस्यादौ काश्यपेया भविष्यथ। दायादाः सर्व देवानां सुपर्णस्य च धीमतः। तदा प्रसूतिर्वः सर्वा भोक्ष्यते चित्रभानुना। भवतां नैव दोषोऽयं भविष्यति न संशयः। ये वै क्रूरा भोगिनो दुर्विनीतास्तेषामन्तो भविता नान्यथैतत्। कालं प्राप्तं भक्षयध्वं दशध्वं तथा परान् चापकृतोमनुष्यान्। भन्त्रौधघैर्गारुड मण्डलैश्च बुद्धैर्दृष्टा मानवा ये चरन्ति। तेषां भीतैर्वर्त्तितव्यं न चान्या चिन्ता कार्या चान्यथा वो विनाशः। इतीरिते ब्रह्मणा ते भुजङ्गा जग्मुःस्थानं क्ष्मातलाख्यं हि सर्वे। तस्थुर्भोगान् भुञ्जमानाः समग्रान् रसातले लीलया संस्थितास्ते। एवं शापं ते तु लब्ध्वा प्रसादञ्च चतुर्मुखात्। तस्थुः पातालनिलये मुदितेनान्तरात्मना। एतत् सर्वञ्च पञ्चम्यां तेषां जातं महात्मनाम्। अतस्त्वियं तिथिर्धन्या सर्वपापहरी शुभा। एतस्यां संयतो यस्तु अम्लन्तु परिवर्जयेत्। क्षीरेण स्नापयेन्नागांस्तस्य यास्यन्ति मित्रताम्”। नागाश्च प्राधान्येन भा० आ० ३५ अ० दर्शिता ततएवावसेयाः। तेषां केषाञ्चित् जनमेजयस्य सर्पसत्रे नाशो भविष्यतीति मातृशापकथा भा० आ० २० अ० “ततः पुत्रसहस्रन्तु कद्रुर्जिह्मं चिकीर्षती। आह्वयामास च तदा बाला भूत्वाऽञ्जनप्रभाः। आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा। नाभ्यपद्यन्त ये वाक्यं तान् शशाप भुजङ्गमान्। सर्पसत्रे वर्त्तमाने पावको वः प्रधक्ष्यति। जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः। शापमेनन्तु शुश्राव स्वयमेव पितामहः। अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि। सार्द्धं दैवगणैः सर्वैर्वाचं तामन्वमोदत। बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया। तिग्मवीर्यविषा ह्येते दन्दशूकाः महाबलाः। तेषां तीक्ष्णविषत्वाद्धि प्रजानाञ्च हिताय च। युक्तं मात्राकृतं तेषां परपीडोपसर्पिणामु अन्येषामपि सत्वानां नित्यं दोषपरास्तु ये। तेषां प्राणान्तिकौ दण्टो देवेन विनिपात्यते। एवं सम्भाष्य देवैस्तु पूज्य कद्रूञ्च तां तदा। आहूय कश्यपं देव इदं वचनमब्रवीत्। यदेते दन्दशूकाश्च सर्पा जाता- स्त्वयाऽनघ। विषोल्वणा महाभोगा मात्रा शप्ताः परन्तप। तत्र मन्युस्त्वया तात न कर्त्तव्यः कथञ्चन। दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्। इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसादा प्रजापतिम्। प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने!” कम्बलाश्वतरनागयोः सरस्वत्या गानवरप्राप्तिर्यथा “एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती। प्रत्युवाच महात्मानं नागमश्वतरं ततः” सरस्वत्युवाच “वरन्ते कम्बलं भ्रातः ग्रयच्छाम्युरगाधिप!। तदुच्यतां प्रदास्यामि यत्ते मनसि बर्त्तते”। अश्वतर उवाच “सहायं देहि देवि! त्वं पूर्बं कम्बलमेव मे। समस्तस्वरसम्बद्धमुभयोः संप्रयच्छ च” सरस्वत्युवाच “सप्तस्वरा ग्रामरागाः सप्त पन्नगसत्तम। गीतकानि च सप्तैव तावत्यश्चापि मूर्च्छनाः। तानाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत्। एतत् सर्वं भवान् गाता कम्बलश्चैव ते सखा। ज्ञास्यते मत्प्रसादेन भुजङ्गेन्द्र! परन्तथा। चतुर्विधं ददे तालं त्रिःप्रकारं लयत्रयम्। यतित्रयं तथातोद्यं मया दत्तं चतुर्विधम्। एतद्भवान् मत्प्रसादात् पन्नगेन्दापरञ्च यत्। अस्यान्तर्गतमापन्नं स्वरव्यञ्जनयोश्च यत्। तदशेषं मया दत्तं भवतः कम्बलस्य च। यथा नान्यस्य भूर्लोके पाताले वापि गन्नग!। प्रणेतारौ भवन्तौ च सर्वस्यास्य भविष्यतः। पाताले देवलोके च भूर्लोके चैव पन्नगौ। इत्युक्त्वा सा तदा देवी सर्वजिह्वा सरस्वती। जगामादर्शनं सद्यो नागस्य कमलेक्षणा” मार्कण्डेयपुराणम्। “नार्गरिवालूनशटं मृगेन्द्रम्” किरा० “अधिनागं प्रजविनोविकशत्पिच्छचारवः” “नागं पूनर्मृदुसलीलनिमीलिताक्षम्” माथः। १६ अश्लेषानक्षत्रे

नागकन्द = पु० हस्तिकन्दे राजनि०।

नागकन्यका = स्त्री ६ त०। सर्पजातिस्त्रियां भोगिन्यां त्रिका०।

नागकर्ण = पु० नागस्य गजस्य कर्णः तदाकारः पत्रेऽस्य। १ एरण्डे राजनि० ६ त०। २ हस्तिकर्णे च।

नागकिञ्जल्क = पु० नागस्येव किञ्जल्कोऽस्य। नागकेसरे भावप्र०।

नागकुमारिका = स्त्री नागस्य कुमारीव कन्। १ गुडूच्यां २ मञ्जिष्ठायां च राजनि०।

नागकेसर = पु० नागस्येव केशरोऽस्य। स्वनामख्याते पुष्पप्रधाने वृक्षभेदे अमरः (नागेश्वरचा~पा) भावप्र० तन्नामगुणा उक्ता यथा “नागपुष्पः स्मृतो नागः केसरो नामकेसरः। चाम्पेयो नागकिञ्जलकः कथितः काञ्चना हयः। नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम्। खरकण्डुतृषास्वेदच्छर्दिहृल्लासनाशनम्। दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम्”। त्रिजातकं नागकेसरसंयुक्तं चतुर्जातकं भवति यथा “त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि स्त्रिजातकम्। नागकेसरसंयुक्तं चतुर्जातकमुच्यते। तद्द्वयं रोचकं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत्। लघुपित्ताग्निकृद्वर्ण्यं कफवातविषापहम्” भावप्र०।

नागगन्धा = स्त्री नागस्य गन्ध इव गन्धोऽस्याः वा न इच्समा०। नाकुलीकन्दे राजनि०।

नागगर्भ = न० नागः सीसकं गर्भो जन्महेतुर्यस्य। सिन्दूरे राजनि०।

नागचूड = पु० नागः सर्पः चूडायां यस्य। शिवे महादेवे

नागच्छत्रा = स्त्री नागस्य फणेव छत्रं छादनं पत्रे यस्य। नागदन्तीवृक्षे राजनि०।

नागज = न० नागात् सीसकात् जायते जन–ड। १ सिन्दूरे २ वङ्गे हेमच०। ३ सर्पगजजातमात्रे त्रि०।

नागजिह्वा = स्त्री नागस्य सर्पस्य जिह्वेवाकारेऽस्य। १ अनन्तमूले। २ शारिवोषधौ च रत्नमाला।

नागजिह्विका = स्त्री नागस्य हस्तिनो जिह्वेव रक्तता यस्याः कप्। मनःशिलायाम् अमरः।

नागजीवन = न० नागेन सीसकेन जीवनं यस्य। वङ्गे धातुभेदे।

नागदत्त = पु० धृतराष्ट्रपुत्रभेदे “आदित्यकेतुर्बहाशी नागदत्तानुयायिनौ” भा० अ० ६७ अ०।

नागदन्त = पु० नागस्य हस्तिनो दन्त इवाकारोऽस्त्यस्य अच्। गृहभित्तिर्निर्गते काष्ठादिमये हस्तिदन्ताकारे (दाण्डा) (दा~तिया) ख्याते १ पदार्थभेदे अमरः ६ त०। २ गजदन्ते च मेदि०। स्वार्थे क तत्रार्थे अमरः। “शवरवसतिरिव अवलम्बितचारुचामरनागदन्तघबलगृहाः” काद०। “द्वीपिचर्मावनद्धश्च नानदन्तकृतत्सरुः” भा० शा० ९७ अ०।

नागदन्तिका = स्त्री नागस्य सर्पस्य दन्त इव विषाघारः पत्रं यस्याः कप् कापि अत इत्त्वम्। (विछाति) वृश्चिकाल्यां रत्नमाला।

नागदन्ती = स्त्री नागस्य गजस्य दन्त इव फलाद्याकारे यस्याः ङीष्। (हातिशु~डा) ख्याते १ श्रीहस्तिन्याम्। २ कुम्भाख्योषधौ च मेदि०। “अर्कालर्ककरञ्जद्वय नागदन्ती त्यादि” अर्कादिगणोक्तौ सुश्रुतः।

नागदमनी = स्त्री नागो दम्यतेऽनया दम–ल्युट् ङीप्। १ क्षुपभेदे “विज्ञेया नागदमनी बलामोटा विषापहा। नागपुष्पी नागपत्रा महायोगेश्वरीति च। बलामोटा कटुस्तिक्ता मघुः पित्तकफापहा। मूत्रकृच्छ्रव्रणान्रक्षो नाशयेज्जालगर्दभम। सर्वग्रहप्रशमनी निःशेषविषनाशिनी। जयं सर्वत्र कुरुते धनदा सुमतिप्रदा” भावप्र०

नागदलोपम = पु० नागस्य ताम्बूल्याः दलस्योपमा यत्र। परूषफले रत्नमाला।

नागद्रु = पु० नागाकारः द्रुः (सिजु) वृक्षे समन्तदुग्धायाम् शब्दच०।

नागद्वीप = पु० नागप्रधानो द्वीपः शा० त०। द्वीपभेदे “पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे। कणौ तु नागद्वीपश्च कश्यपद्वीपएव च। ताम्रपर्णी शिला राजन् श्रीमान् मलयपर्वतः” भा० भी० ३ अ०।

नागनक्षत्र = न० नागाधिष्ठितं नक्षत्रम्। अश्लेषानक्षत्रे नागदैवतादयोऽप्यत्र “नागदैवतमस्तके” ति० त०

नागनामन् = पु० नागान् नामयति नामि–कनिन्। तुलस्यां नैघण्टुप्रकाषिका।

नागनायक = त्रि० ६ त०। १ प्रधाननागे “अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः। कर्कोटः कुलिकः शङ्ख इत्यष्टौ नागनायकाः” त्रिका० नागवर्य्यादयोऽप्यत्र। नागशब्दे उदा०। नागः नायकोऽस्य। २ अश्लेषानक्षत्रे न०।

नागनिर्यूह = पु० नाग इव निर्यूहः। नागदन्तशब्दार्थे जटा-

नागपञ्चमी = स्त्री नागपूजाङ्गं पञ्चमी। आषाढकृक्षपञ्चम्यां तत्र वागाङ्गानां पूजाविधानात् तस्यास्तथात्वम्। देवीपुराणे “सुप्ते जनार्द्धने कृष्णे पञ्चम्यां भवनाङ्गने। पूजयेन् मनसादेवीं स्नुहीविटपसंस्थिताम्। पद्मनाभे गते शथ्यां देवैः सर्वैरनन्तरम्। पञ्चम्यामसिते पक्षे समुत्तिष्ठिति पन्नगी”। मनसादेवीं विषहरीम्। स्नुही सिजवृक्षः। देवैरिति सहार्थे तृतीया। “देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात्। पञ्चम्यां पूजयेन्नागाननन्ताद्यान् महोरगान्। क्षीरं सर्पिस्तु नैवेद्यं देयं सर्पविषापहम्”। गारुडे “अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च। तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकम्। कालियं तक्षकञ्चापि पिङ्गलं मणिभद्रकम्। यजेत्तानसितान्नानान् दष्टमुक्तो दिवं व्रजेत्”।

नागपति = पु० ६ त०। शेषाद्येषु अष्टसु १ नागेषु २ गजपतौ ऐरावते च।

नागपत्रा = स्त्री नागस्तत्फण इव पत्रं यस्याः। १ नागदमन्यां भावप्र०। २ लक्ष्मणावृक्षे राजनि०।

नागपद = पु० “पादौ स्कन्धे तथा हस्ते क्षिपेल्लिङ्गं भगे लघु। कामयेत् कामुको नारीं बन्धो नागपदो मतः” रतिमञ्जर्य्युक्ते १ रतिबन्धभेदे। ६ त०। २ हस्तिपदे न०

नागपाश = पु० नागः पाश इव। १ वरुणस्यायुधभेदे “सार्द्धद्वयावर्त्तनात्तु नागपाश इति स्मृतः। ब्रह्मग्रन्थिमथो दद्यात् नागपाशमथापि वा” आगमोक्ते २ बन्धभेदे “वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम्” इति दुर्गाध्यानम्।

नागपाशक = पु० “स्वजङ्घाद्वयमध्यस्थां हस्ताभ्यां धारयन् कुचौ। रमेन्निःशङ्कितः कामी बन्धोऽयं नागपाशकः” रतिमञ्जर्युक्ते १ रतिबन्धभेदे। स्वार्थे क। २ नागपाशे च

नागपुर = न० ६ त०। १ पाताले हस्तिनानामके २ पुरभेदे तन्नामकारणं यथा “जटाजूटात् पपातोर्द्ध्वे मेरोस्तस्मात्ततोऽगमत्। देवैः परिवृता गङ्गा हेमकूटञ्च पर्बतम्। मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्वतम्। ताभायान्तीन्तु रोधाय स्वलीलो नाम दानवः। पार्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्विजाः। ततो भगीरथी राजा धारयामास कौशिकम्। स तुष्टः प्रददौ नागं वाहनं तं भगीरथः। समारुह्यागमत्तत्र यत्र रुद्धा भगीरथी। तेन नागेन तं दैत्यं संविदार्य्य सुसङ्गतः। शतधा तं समाधाय मूर्द्धन्यैरावतो गजः। महीतलं समापेदे स यावन्नागसाह्वयम्” वह्निपुराणे तच्च हस्तिनापुरस्य नामान्तरं “तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः” (पाण्डुः) भा० आ० ११३ अ०।

नागपुष्प = पु० नागः तद्दानगन्धयुक्तं पुष्पं यस्य। १ पुन्नागवृक्षे २ नागकेसरे ३ चम्पके च मेदि०। ४ नागदमन्यां स्त्री भावप्र० ङीष्।

नागपुष्पफला = स्त्री नागस्य नागकेसरस्य पुष्पमिव शुभ्रं फलं यस्याः। कुष्माण्ड्यां राजनि०।

नागपुष्पिका = स्त्री नागस्य पुष्पमिव पुष्पं यस्याः कप् कापि अत इत्त्वम्। स्वर्णयूथिकायां राजनि०।

नागफल = पु० नागः सर्प इव दीर्घं फलमस्य। पटोलभेदे (धुन्दुल) राजनि०।

नागबन्धु = पु० नागस्य हस्तिनो बन्धुरिव तत्पोषकत्वात्। अश्वत्थवृक्षे हेमच०।

नागबल = पु० नागानां हस्तिनामयुतस्य बलं यस्य। १ भीमे त्रिका०। २ हस्तितुल्यवलयुक्ते त्रि०। भीमस्य तथा बलप्राप्तिकथा भा० आ० १२८ अ०। “यदि नागेन्द्र! तुष्टोऽसि किमस्य धनसञ्चयैः। रसम्पिबेत् कुमारोऽयं त्वयि प्रीते महाबलः। बलं नागसहस्रस्य तस्मिन् कुण्डे प्रतिष्ठितम्। यावत् पिबति बालोऽयं तावदस्मै प्रदीयताम्। एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत। ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः। प्राङ्मुखश्चोपविष्टः स रसं पिवति पाण्डवः। एकोच्छासात्ततः कुण्डं पिवति स्म महाबलः। एवमष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः। ततस्तु शयने दिव्ये नागदत्ते महाभुजः। अशेत भीमसेनस्तु यथासुखमरिन्दम!” “ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः। तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली। तं दृष्ट्वा प्रत्यबुध्यन्त पाण्डवं ते भुजङ्गमाः। सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्। यत्ते पीतो महावाही! रसोऽयं वीर्यसम्भृतः। तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि” भा० आ० १२९ अ०। नागस्येव बलं यस्याः। (गोरक्षचाकुलिया) २ लताभेदे स्त्री “नागबलाफलतिन्दुकमदनफलमधूकमञ्जिष्ठाः” वृ० सं० ५७ अ०

नागबलाघृत = न० चक्रदत्तोक्ते पक्वघृतभेदे “पादशेषे जलद्रीणे पचेन्नागबलातुलाम्। तेन क्वाथेन तुल्यांशं धृतं क्षीरञ्च साधयेत्। पलार्द्धिकैश्चातिबलाबलायष्टिपुनर्नवा। प्रपौण्डरीककाश्मर्य्यपियालकपिकच्छुभिः। अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः। मृणालविषशालूकशृङ्गाटककशेरुकैः। एतन्नागबलासर्पीरक्तपित्तक्षयक्षयम्। हन्ति दाहं भ्रमं तृष्णां बलपुष्टिकरं परम्। बल्यमौजस्यमायुष्यं बलीपलितनाशनम्। उपयुञ्जीत षण्मासान् वृद्धोऽपि तरुणायते”।

नागभगिनी = स्त्री ६ त०। वासुकेर्भगिन्यां जरत्कारौ तच्छब्दे ३०५७ पृ० दृश्यम्।

नागभूषण = पु० नागो भूषणमस्य। महादेवे

नागमल्ल = पु० नागेषु मल्लः। ऐरावते शब्दच०।

नागमातृ = स्त्री नागस्य हस्तिनां मातेव भूषकत्वात्। १ मनःशिलायां शब्दर०। ३ मनसादेव्याञ्च त्रिका० तस्याः स्वपुत्रद्वारा नागरक्षकत्वात् तथात्वम्। जगत्कारुशब्दे ३५०७ पृ० दृश्यम्।

नागमार = त्रि० नागं मारयति मृ–णिच्–अण् उप० स०। १ हस्तिमारके २ केशराजे पु० त्रिका०।

***