नत = त्रि० नम–कर्त्तरि क्त। १ नम्रीभूते २ कुटिले च मेदि०। “नतभ्रुवो नव्यजनापनेयः” उद्भदः। सि० शि० प्रमिता० उक्ते येन कालेन मध्याह्नान्नतोरविस्तादृशे २ कालभेदे उन्नतशब्दे १८८। ८९ पृ० दृश्यम् “पूर्वं नतं स्याद्दिनरात्रिखण्डं दिवानिशोरिष्टघटीविहीनम्। दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रिखण्डं त्वपरं नतं स्यात्” नी० ता० उक्ते ३ इष्टघटीहीने दिवारात्रार्द्धकाले इष्टघटीतो वा हीने ४ तथाभूते काले च छायया दिनज्ञानार्थे ५ धनुःकलाभेदे च सच सू० सि० रङ्गनाथाभ्यां दर्शितो यथा
“मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका। स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे। उत्तराश्चोत्तरे याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः। दिग्भेदे मिश्रिताः सोम्ये विश्लिष्टाश्चाक्षलिप्तिकाः” सू० सि० “अभीष्टदिने माध्याह्निकी छाया भुजसंज्ञा ज्ञेया। तेन भुजेन त्रिज्या गुणिता मध्याह्नच्छायाकर्णेन भक्ता फलस्य धनुःकला नता नतसंज्ञास्ताः नतकला दक्षिणे भुजे मध्याह्नच्छायारूपभुजे प्राच्यापरसूत्रमध्याद्दक्षिणदिक्स्थे सति उत्तरदिक्वा, उत्तरे भुजे दक्षिणाः। चो विषयव्यवस्थार्थकः। ता नतकलाः सूर्यक्रान्तिनतकलाः प्रागुक्ताः, दिग्भेदस्वदिशोर्भिन्नत्वे मिश्रिताः संयुक्ताः साम्येऽभिन्नदिक्त्वे विश्लिष्टा अन्तरिताः। द्वादशाङ्गुलशङ्कुकोटौ मध्याह्नच्छायाकर्णे वा मध्यच्छाया भुज्स्तथा खस्वस्तिकान्मध्याह्नकाले सूर्यस्य याम्योतरवृत्ते यदन्तरेण नतत्वं ता नतकलास्तज्ज्या नतांशज्या मध्याह्नोन्नतांशज्यारूपशङ्कौ त्रिज्याकर्णे वा भुज इति मध्याह्नच्छायाकर्णे मध्याह्नच्छाया भुजस्तदा त्रिज्याकर्क्षे को बुज इत्यनुपातेन नतज्य तद्धनुरत्र कलात्मकत्वान्नतकलास्ता ग्रहसम्बद्धा इति छायादिग्विपरीतदिक्काः। अथ क्रान्त्यंशाक्षांशयोरेकदिक्त्वे योगेन नतांशा इति दक्षिणा नतकला दक्षिणक्रान्ति कलाभिर्हीना अक्षांशा भवन्ति। क्रान्त्यंशाक्षांशयोर्भिन्नदिक्त्वेऽन्तरेण नतांशा यदि दक्षिणास्तदा क्रान्त्यूनाक्षांशस्य नतत्वादुत्तरक्रान्तियुता अक्षांशाः यदि तूत्तरास्तदाक्षोनक्रान्तेर्नतत्वान्नतोनोत्तरक्रान्तिरक्ष इति सम्यगुपपन्नम्” रङ्ग। अधिकं नतिशब्दे दृश्यम्।
नतद्रुम = पु० नित्यक०। लताशाले रत्नमा०।
नतनासिक = त्रि० नता नासिकाऽस्य। (खा~दा) नतनासायुक्ते अमरः।
नतराम् = अव्य० न + आसु तरप्। १ अतिशयनञर्थे प्रतियोग्यसमानाधिकरणे अभावे २ नितरामित्यर्थे च “तस्माद्वेतयोः सतोर्नतरां चन्द्रमा भाति” शत० ब्रा० ११। ८। ३। १
नताङ्गी = स्त्री नतमङ्गमस्या ङीष्। नार्य्यां राजनि०।
नति = स्त्री नम–भावे क्तिन्। नमने खापकर्षबोधकव्यापारभेदे करशिरःसंयोगादौ। नमस्कारभेदाश्च कालीपु० यथा “त्रिकोण १ मथ षट्कोण २ मर्द्धचन्द्रं ३ प्रदक्षिणम् ४। दण्ड ५ नष्टाङ्ग ६ मुग्रञ्च ७ सप्तधा नतिलक्षणम्। ऐशानी वाथ कौवेरी दिक् कामाग्याप्रपूजने। प्रशस्ता स्थण्डिलादौ च सर्वमूर्त्तेस्तु सर्वतः। त्रिकोणादिव्यवस्थाञ्च यदि पूर्वमुखो भवेत्। पश्चिमाच्छाम्भवीं गत्वा व्यवस्थां निर्दिशेत् तदा। यदोत्तरामुखः कुर्य्यात् साधको देवपूजनम्। तदा याम्यात्तु वायव्यां गत्वा कुर्य्यात्तु संस्थितिम्। दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम्। ततोऽपि दक्षिणं गत्वा नमस्कारस्त्रिकोणवत्। त्रिकोणो यो नमस्कारस्त्रिपुराप्रीतिदायकः १। दक्षिणाद्वायवीं गत्वा तां त्यक्त्वाग्नौ प्रविश्य च। अग्नितो राक्षसीं गत्वा ततश्चाप्युत्तरां दिशम्। उत्तराच्च तथाग्नेयीं भ्रमणं द्वित्रिकोण (६) वत्। षट्कोणो यो नमस्कारः प्रीतिदः शिवदुर्गयोः २। दक्षिणाद्वायवीं गत्वा तस्याव्यावृत्य दक्षिणाम्। गत्वा योऽसौ नमस्वारः सोऽर्द्धचन्द्रः प्रकीर्त्तितः ३। सुकृत् प्रदक्षिणं कृत्वा वर्तुलाकृति साधकः। नमस्कारः कथ्यतेऽसौ प्रदक्षिण इति द्विजैः ४। त्यक्त्वा स्वमासनस्थानं पश्चाद् गत्वा नमस्कृतिः। प्रदक्षिणं विना या तु निपत्य भुवि दण्डवत्। दण्ड इत्युच्यते दैवैः सर्वदेवौघमोददः ५। पूर्ववद् दण्डवद् भूमौ निपत्य हृदयेन तु। चिवुकेन मुखेनाथ भासया हनुकेन च। ब्रह्मरन्ध्रेण कर्णाभ्यां यद् भूमिस्पर्शनं क्रमात्। तदष्टाङ्ग इति प्रोक्तो नमस्कारो भवीषिभिः ६। प्रदक्षिणत्रयं कृत्वा साधको वर्तुलाकृति। ब्रह्मरन्घ्रेण संस्पर्शः क्षितेर्यः स्यान्नमस्कृतौ। स उग्र इति देवौघैरुच्यते विष्णुतुष्टिदः ७। नदानां सागरो यादृग् द्विपदां ब्राह्महो यथा। नदीनां जाह्नवी यादृग् देवानामिव चक्रधृक्। नमस्कारेषु सर्बेषु तथैवोग्रः प्रशस्यते। त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तु भक्तितः। चतुर्वर्गं लभेद् भक्तो नचिरादेव साधकः। नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा। सर्वेषामपि देवानामन्येषामपि भैरव!। योऽसावुग्रो नमस्कारः प्रीतिदः सततं हरेः। महाभायाप्रीतिकरः स नमस्करणोत्तमः”। नतिविशेषस्तु यामले “त्रिकोणाकारा सर्वत्र नतिः शक्तेः समीरिता। दक्षिणाद्वायवीं गत्वादिशं तस्माच्च शाम्भवीम्। ततश्च दक्षिणं गत्वा नमस्कारस्त्रिकोणवत्। अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समीरितम्। शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रं क्रमेण तु। सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत्। (सोमसूत्रं जलनिःसरणस्थानम्) “प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः। दर्शयेद्दक्षिणं पार्श्वं मनसापि च दक्षिणः। त्रिधा च वेष्टयेत् सम्यक् देवतायाः प्रदक्षिणम्। एकहस्तप्रमाणश्च एकशोपि प्रदक्षिणम्”। “गन्धर्वतन्त्रे देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः। नमस्कारेण तुष्यन्ति महात्मानः समन्ततः। नमस्कारेण लभते चतुर्वर्गं महोदयम्। सर्वत्र सर्वसिद्ध्यर्थं नतिरेका प्रवर्त्तते। नत्या विजयते लोकान् नत्या धर्मः प्रवर्त्तते। नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः। चतुर्वर्गं लभेद्भक्तो नचिरादेव साधकः। नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा। नमस्कुरु महादेवीं प्रदक्षिणञ्च भक्तितः”। योगिनीतन्त्रे पूर्वखण्डेऽष्टभपटले “प्रदक्षिणत्रयं कुर्य्यात् पद्माकारं नमेत्ततः। दक्षिणादुत्तरं गत्वा देवस्य च महेश्वरि!” प्रदक्षिणत्रयम् आदि मध्यावसाने ज्ञेयम्। तथाच कुमारीपूजामधिकृत्य रुद्रजामले उत्तरखण्डे षष्ठपटले “प्रदक्षिणत्रयं कुर्य्यादादौ मध्ये तथान्ततः। पश्चात्तु दक्षिणां कुर्य्यात् रजतैः स्वर्णमौक्तिकैः”। “कृताञ्जलिं ततो बद्ध्वा भ्रामयित्वा नमेत्ततः। प्रत्येकभ्रमणे देवि! दण्डवत् प्रणिपातयेत्। योनो नमेद्भ्रमित्वा तु अपराधो भवेत्तदा। अबद्ध्वा ञ्जलिना यस्तु नमस्कारं करोति सः। मोहान्धकार नरके पच्यते मात्र संशयः। पातान्तरे न प्रणमेन्मूर्ध्ना न च क्षितिं स्पृशेत्। शपन्ति देवतास्तस्य विफलं तत् प्रकीर्त्तितम्। प्रणामे देवदेवस्य यावत्यो मृत्तिकाः प्रिये!। शरीरे वा महेशानि! तस्य पुण्यफलं शृणु। यावन्तोरेणवस्तस्य यावत् कालञ्च तिष्ठति। तावद्वर्षसहस्राणि ब्रह्मलोके महीयते”। योगिनी० गन्धर्वतन्त्रे “कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः। नमस्काराश्च विज्ञेया उत्तमाधममध्यमाः। कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति सर्वदा। नमस्कारेषु सर्वेषु कायिकः प्रथमः स्मृतः। जानुभ्यामवनीं गत्वा संस्पृश्य शिरसा क्षितिम्। क्रियते यो नमस्कारः प्रोच्यते कायिकस्तु सः। पुटीकृत्य करौ शीर्षे सर्वधर्मार्थसाधनम्। प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः। दर्शयन् दक्षिणं पार्श्वं भक्तिश्रद्धा समन्वितः। सकृत् प्रदक्षिणं कृत्वा वर्तुलाकृति साधकः। स तु प्रदक्षिणो ज्ञेयः सर्वदेवैकतुष्टिदः। अष्टोत्तरशतं यस्तु देव्याः कुर्य्यात् प्रदक्षिणम्। स सर्वकाममासाद्य धश्चान्मोक्षमवाप्नुयात्। त्रिकोणमथ षट्कोणमर्द्धचन्द्रं प्रदक्षिणम्। दण्डमष्टाङ्गमुग्रञ्च सप्तधा नतिलक्षणम्। दक्षिणाद्वायवीं गत्वा तस्माद्व्यावृत्य दक्षिणम्। गत्वा योऽसौ नमस्कारः सोऽर्द्धचन्द्रो मम प्रियः। नमस्कारेषु जानीयादासां प्राकृतमद्रिजे!। त्यक्त्वा स्वमासनस्थानं पश्चाद्गत्वा नमस्कृतौ। निपत्य दण्डवद्भूमौ दण्ड इत्युच्यते बुधैः। तथैव दण्डवद्भूमौ निपत्य हृदयेन च। चिवुकेन मुखेनाथ नासया हनुकेन च। चक्षुषा चाथकर्णाभ्यां ब्रह्मरन्ध्रेण चैव हि। तदष्टाङ्गमिति प्रोक्तं यद्भूमिं स्पृशते क्रमात्”। मेरुतन्त्रे “हस्ताभ्यां चरणाभ्याञ्च जानुभ्यां वक्षसा तथा। मूर्ध्ना दृष्ट्या तथा वाचा चित्तेनाष्टाङ्ग ईरितः। हस्तजानुशिरोवाक्यधीभिः पञ्चाङ्ग ईरितः”। गन्धर्वतन्त्रे ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यः स्यात् नमस्कृतौ। स उग्र इति विज्ञेयो विष्णोस्तुष्टिप्रदायकः। या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः। क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः। पौराणिकैर्वैदिकैर्वा तान्त्रिकैः क्रियते नतिः। स मध्यमो नमस्कारो भवेदाचारतः सदा। परेषां गद्यपद्याभ्यां नमस्कारो यदा भवेत्। स वाचिकोऽधमो ज्ञेयो नमस्कारेषु सर्वतः। इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं भवेत्। नमनं मानसं प्रोक्तमुत्तमाधममध्यमम्। त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः”। अन्यत्र विस्तरः २ ऊर्द्ध्वस्थितस्याधःपतनानुकूलक्रियाभेदे (नोओया) ३ चन्द्रार्ककक्षयोर्याम्योत्तरयोरन्तरे यथोक्तं सि० शि० प्रमिता० “यत् पूर्वापरभावेन लम्बनाख्यं तदन्तरम्। यद् याम्योत्तरभावे नतिसंज्ञं तदुच्यते” सि० शि० “अथ याम्योत्तरायां तु मित्तौ पूर्वोक्तमालिखेत्। ये कक्षामण्डले तत्र ज्ञेये दृक्क्षेपमण्डले। त्रिभोनलग्न दृग्ज्या या स दृक्क्षेपो द्वयोरपि। तच्चापांशैर्नतौ विन्दू कृत्वा वित्रिभसंज्ञकौ। तल्लम्बनकलाः प्राग्वज्ज्ञेयास्ता नतिलिप्तिकाः। कक्षयोरन्तरं यत् स्याद् वित्रिभे सर्वतोऽपि तत्। याम्योत्तरं नतिः सात्रं दृक्क्षेपात् साध्यते ततः” सि० शि०। “तयोर्वृत्तयोः स्वार्धात् स्वस्वदृक्क्षेप चापांशैर्नतौ बिन्दू कार्य्यौ। तौ च वित्रिभसंज्ञौ। ततः प्राग्वद्। मध्याद् भूपृष्ठाच्च सूत्रे प्रसार्य लम्बनलिप्तिका ज्ञेयास्ता नतिलिप्तिकाः। नतिर्नाम चन्द्रार्ककक्षयोर्याम्योत्तरमन्तरम् तद्वित्रिभलग्नस्थाने यावत् सर्वतोऽपि तावदेव भवति। अतो दृक्क्षेपात् साधिता नतिः” प्रमिता०
नद = अर्चायाम् निघण्टुः स्तुतौ निरु०। भ्वा० पर० सक० सेट्। नदति अन(ना)दीत् ननाद। णद शब्द इत्यस्य णोपदेशत्वात् सति निमित्ते णत्वं नास्येति भेदः। प्रणिनदति
नद = सन्तोषे भ्वा० पर० सक० सेट् इदित्। नन्दति अनन्दीत् ट्टित्। नन्दथुः “यस्यासौ तस्य नन्दथुः” भट्टिः। अणोपदेशत्वात् न णत्वम् प्रनिन्दति।
नद = पु० नदति शब्दायते पचा० अच्। भिद्ये शोणसिन्धुभैरवदामोदरब्रह्मपुत्रादौ जलप्रवाहभेदे २ समुद्रे च। नदश्च अकृत्रिखाताच्छिन्नजलप्रवाहः पुंस्त्वान्वितः। “अष्टषष्टिस्तु तीर्थानि नदाश्च तत्र कोटयः” पद्मपु०। नद–स्तुतौ कर्मणि अच्। ३ ऋषौ पु० “ऋषिर्नदो भवति नदतेः स्तुतिकर्मणः” निरु०।
नदथु = पु० नद–अव्यक्तशब्दे वा० अथुच्। वृषभकूजिते। “निनदमिव नदथुमिवाग्नेर्ज्वलन उप शृणोति” छा० उ० “नदथुमिव वृषभकूजितमिव” भा०।
नदनु = पु० नद–अनु। १ मेघे उणादिकोषः। २ सिंहे शब्दार्थचि० भावे अनु। ३ शब्दे “तुविम्रक्षो नदनुमा~ ऋजीषी” ऋ० ६१८। २ “नदनुमान् शब्दवान्” भा०
नदर = त्रि० नदस्यादूरदेशादि अश्वा० र। १ नदसन्निकृष्टदेशादौ नास्ति दरो भयं यस्य। २ भयशून्ये त्रि०।
नदराज = पु० ६ त० टच् समा०। समुद्रे “प्रथमं प्रबुद्धनदराज- सुतावदनेन्दुनेव तुहिनद्युतिना” माघः। नदपत्यादयोऽप्यत्र
नदाल = त्रि० नद बा० आल। भाग्ययुक्ते। अस्य भगालवाचित्वात् तत्पुरुषे प्रकृतिस्वरः तेन कुम्भीनदालमित्यत्र मध्योदात्तताऽस्य सि० कौ०
नदी = स्त्री नद–अच् पचादिगणे नदट् इति निर्देशात् टित्त्वेन ङीप्। अष्टसहस्रधनुरन्यूनदेशव्यापिजलायामकृत्रिमायां जलप्रवाहरूपायां गङ्गाप्रभृतौ। “धनुः सहस्राण्यष्टौ च नतिर्यासां न विद्यते। न ता नदीशब्दवहा गर्त्तास्ते परिकीर्त्तिताः” छन्दोगप० उक्तपरिमाणवतीष्वेव नदीशब्दो रूढः। द्वीपभेदे नदीभेदास्तत्तद्द्वीपशब्दे दृश्याः। जम्बूद्वीपस्था नदीभेदाश्च विस्तरेण जम्बूद्वीपशब्दे ३०४६ पृ० भा० भी० पर्वोक्ता दर्शिताः। कासाञ्चिन्नदीनामुत्पत्तिस्थानादिकं मत्स्यपुराणोक्तं प्रदर्श्यते।
“प्रागुत्तरेण कैलासाद्दिव्यं सौगन्धिकं गिरिम्। सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति। चन्द्रप्रभो नाम गिरिः स शुभ्री रत्नसन्निभः। तत्समीपे सरो दिव्यमच्छोदं नाम विश्रुतम्। तस्मात् प्रभवते दिव्या नदी ह्यच्छोदिका शुभा। तस्यास्तीरे वनं दिव्यं महच्चैत्र० रथं शुभम्”। “कैलासाद्दक्षिणप्राच्यां शिवं सर्वौषधिं गिरिम्। मनःशिलामयं दिव्यं शवलं पर्वतं प्रति। लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान्। तस्य पादे महद्दिव्यं लोहितं सुमहत्सरः। तस्मात् प्रभबते पुण्यो लौहित्यश्च नदो महान्। दिव्यारण्यं विशोकञ्च तस्य तीरे महद्वनम्”। “कैलासात् पश्चिमोदीच्यां ककुद्मानौषधीगिरिः। ककुद्मति च रुद्रस्य उत्पत्तिश्च ककुद्मिनः। तदञ्जनं त्रैककुदं शैलन्त्रिककुदं प्रति। सर्वधातुमयस्तत्र सुमहान् वैद्युतो गिरिः। तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम्। तस्मात् प्रभवते पुण्या सरयूर्लोकपावनी। तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम्” “कैलासात् पश्चिमायां तु दिव्यः सर्वौषधिर्गिरिः। अरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः। भवस्य दयितः श्रीमान् पर्वतो हेमसन्निभः। शातकौम्भमयैर्दिव्यैः शिलाजालैः समाचितः। शतसंख्यैस्तापनीयैः शृङ्गैर्दिवमिवोल्लिखन्। शृङ्गवान् सुमहादिव्यो दुर्गः शैलो महाचितः। तस्मिन् गिरौ निवसति गिरिशो धूम्रलोचतः। तस्य पादात् प्रभवति शैलोदं नाम तत्सरः। तस्मात् प्रभवते पुण्या नदी शैलोदका शुभा। सा चक्षुःसीतयोर्मध्ये प्रविष्टा पश्चिमोदधिम्। अस्त्यु- त्तरेण कैलासाच्छिवः सर्वौषधिर्गिरिः। गौरन्तु पर्वतश्रेष्टं हरितालमयं प्रति। हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयो गिरिः। तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम्। रम्यं विन्दुसरो नाम यत्र राजा भगीरथः। गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः” “दृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा। अन्तरिक्षं दिवं चैव भावयित्वा भुवङ्गता। भवोत्तमाङ्गे पतिता संरुद्धा योगमायया। तस्या ये विन्दवः केचित् रुद्धायाः पतिता भुवि। कृतन्तु तैर्बहुसरस्ततो विन्दुसरः स्मृतः”। “त्रीणि प्राचीमभिमुखं प्रतीचीन्त्रीण्यथैव तु। स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा। नलिनी ह्लादिनी चैव पाबनी चैव प्राच्यगा। सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः। सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम्। तस्मात् भागीरथी सा वै प्रविष्टा दक्षिणोदधिम्। सप्त चैताः प्लावयन्ति वर्षन्तु हिमसाह्वयम्। प्रसूताः सप्त नद्यस्तु शुभा विन्दुसरोद्भवाः। तान् देशान् प्लावयन्ति स्म म्लेच्छप्रायांश्च सर्वशः। सशैलान् कुकुरान् रौध्रान् वर्बरान् यवनान् खसान्। पुलिकांश्च कुलत्थांश्च अङ्गलोक्याम्बरांश्च यान्। कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणोदधिम्। अथ वीरमरूंश्चैव कालिकांश्चैव शूलिकान्। तुषारान् वर्वरानङ्गाननुष्णान् पारदान् शकान्। एतान् जनपदांश्चक्षुः प्लावयित्वोदधिङ्गता। दरदोर्जगुडांश्चैव गान्धारानौरसान् कुहून्। शिवपौरानिन्द्रमरून् वसतीन् समतेजसा। सैन्धवानुर्वसान् बर्बान् कुपथान् भीमरोमकान्। शुनामुखांश्चोर्द्धमरून् सिन्धुदेशान्निषेवते। गन्धर्वान् किन्नरान् यक्षान् रक्षोविद्याधरोरगान्। कलापग्रामकांश्चैव तथा किंपुरुषान्नरान्। किरातांश्च पुलिन्दांश्च कुरून् वै भारतानपि। पाञ्चालान् कौशिकान् मत्स्यात् मागधाङ्गांस्तथैव च। ब्रह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च। एतान् जनपदानार्यान् गङ्गा भावयते शुभा। ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम्। ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखा ययौ। प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः। धीवरानृषिकांश्चैव तथा भीलमुखानपि। केकरानेकर्णांश्च किरातानपि चैव हि। कालिन्दगतिकांश्चैय कुशिकान् स्वर्गभीमकान्। सा मण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः। ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ। कुप- थान् प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि। तथा खरपथान् देशान् वेत्रशङ्कुपथानपि। मध्येनोज्जानकमरून् कुथप्रावरणान् ययौ। इन्द्रद्वीपसमीपे तु प्रविष्टा लबणोदधिम्। ततस्तु पावनी प्रायात् प्राचीमाशाञ्जयेन तु। तोमरान् प्लावयन्ती च हंसमार्गान् समूहकान्। पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरिम्। वर्णप्रावरणान् प्राप्य गता साश्वमुखानपि। सिक्त्वा पर्वतमेरुं सा गत्वा विद्याधरानपि। शैलिमण्डलकोष्ठन्तु सा प्रविष्टा महत्सरः। तासां नद्युपनगद्योऽन्याः शतशोऽथ सहस्रशः। उपगच्छन्ति ता नद्यो यतो वर्षति वासवः” “हेमकूटस्य पृष्ठे तु सर्पाणां तत् सरः स्मृतम्। सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या। अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ। सरो विष्णुपदं नाम निषधे पर्वतोत्तमे। यस्मादग्रे प्रभवति गन्धर्बानुकूले च ते। मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभो महान्। जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम्। पयोदस्तु ह्रदो नीलः स शुभः पुण्डरीकवान्। पुण्डरीकात् पयोदाच्च तस्माद्द्वे संप्रसूयतः। सरसस्तु सरस्त्वेतत् स्मृतमुत्तरमानसम्। मृग्या च मृगकान्ता च तस्माद्द्वे सम्प्रसूयतः। ह्रदाः कुरुषु विख्याताः पद्ममीनकुलाकुलाः। नाम्ना ते वै जया नाम द्वादशी दधिसन्निभा। तेभ्यः शान्ता च माध्वी च द्वे नद्यौ सम्प्रसूयतः। किंपुरुषाद्यानि यान्यष्टौ तेषु देवी न वर्षति। उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः। वलाहकश्च ऋषभो वक्रो मैनाक एव च। विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम्”
भारतबर्षे नदीभेदाः वराहपु० उक्ता यथा “गङ्गा सिन्धुः सरस्वती शतद्रुः वितस्ता विपाशा चन्द्रभागा सरयूः यमुना इरावती देविका कुहूः गोमती धूतपापा बाहुदा दृषद्वती कौशिकी निःक्षीरा गण्डकी चक्षुष्मती लोहिता च इत्येता हिमवत्पादनिर्गताः। वेदस्मृती वेदवती सिन्धुः अपर्णा चन्द्रना सदाचरा रोहिपारा चर्मन्वती विदिशा वेदवती वयन्ती च इत्येताः पारिपात्रोद्भवाः! शोणा ज्योतीरथा नर्मदा सुरसा मन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला करतोया पिशाचिका चित्रोत्पला विशला वञ्जुला बालुकावाहिनी शुक्तिमती विरजा पङ्किनीरिणी च इत्येतां ऋक्षपर्वतप्रसूताः। मणिजाला शुभा तापी पयोष्णी शीघ्रोदा रेवा विपाशा वैतरणी वेदीपाला कुमुद्वती तोया दुर्गा अन्त्यगिरा च एता विन्ध्यपादोद्भवाः। गोदावरी भीमरथी कृष्णा वेण्वा वञ्जुला तुङ्गभद्रा मुप्रयोगा व्रह्मकावेरी शतमाला ताम्रपर्णी पुष्यावती उत्पलावती च इत्येता मलयभबाः। त्रियामा ऋषिकुल्या वङ्क्षुरा त्रिविदा लोकमूलिनी वंशवरा महेन्द्रतनया ऋषि काऽनुमती मन्दगामिनी पलाशिनी च इत्येताः शुक्तिमत्प्रभवाः। एताः प्राधान्येन कुलाचलनद्यः। शेषाः क्षुद्रनद्यः” वराहपुराणे मूलं दृश्यम्। “कैलासपादसम्भूतं पुण्यं शीतजलं शुभम्। मन्दोदकं नाम सरः पयस्तु दधिसन्निभम्। तस्मात् प्रभवते दिव्या नदी मन्दाकिनी शुभा। दिव्यञ्च चन्दनन्तत्र तस्यास्तीरे महद्वनम्” कालिकापु०। तत्रैव स्थानान्तरे प्रधानसप्तनदीप्रादुर्भावकथा यथा “एवं विबाह्य विधिवत् सौवर्णे मानसाचले। अरुन्धतीं वशिष्ठस्तु मोदमाप तया सह। तत्र यत् पतितं तोयं मानसाचल कन्दरे। विवाहावभृथार्थाय शान्त्यर्थं बहुधा कृतम्। व्रह्मविष्णुमहादेवपाणिभिः समुदीरितम्। तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात्। हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक्। तत्तोयं पतितं सिप्रे देवभोग्ये सरोवरे। तेन सिप्रा १ नदी जाता विष्णुना प्रेरिता क्षितिम्। महाकोशीप्रपाते च यद्वारि पतितन्तु तैः। कोशिकी २ नाम सा जाता विश्वामित्रावतारिता। उमाक्षेत्रेयत् पतितं तोयं तेन महानदी। कावेरी ३ नाम सा जाता तदा कौवेरसंसृतत्। महाकाले करःश्रेष्ठे पतितं तज्जलं गिरेः। हिमाद्रेः पार्श्वभागे तु दक्षिणे शम्भुसन्निधौ। गोमद्भिर्नाम तैर्जाता नदी गोमत्युदीरिता ४। मैनाको नाम यः पुत्रः शैलराजस्य च प्रियः। यस्तु तस्मिन् समुतपन्नो मेनकोदरतः पुरा। यत्तत्र पतितं तीयं तस्माज्जाता महानदी। देविकाख्या ५ महादेवप्रेरिता सागरं प्रति। तत्तोयं सङ्गतं हंसेरितं बण्डवसन्निधौ। तेनाभूत् सरयूर्नाम्ना नदी पुण्यतमा शुभा। यान्यम्भांसि महा पार्श्वे खाण्डवारण्यसन्निधौ। हिमवत्कन्दरे याम्ये इरावद्व्यूहमध्यतः। इरावती ७ नाम नदी तैस्तु जाता सरिद्वरा। एताः सर्वाः स्नानपानात् स्मरणैर्जाह्नवी यथा। फलं ददति मर्त्यानां दक्षिणोदधिगाः लदा। धर्माग्रकाममोक्षाणां वीजभूताः सदा च ताः। महानद्यस्तु सप्तैताः सर्वदा देवभोगदाः। एवं नद्यः सप्त जाताः सदा पुण्यतमोदकाः। अरुन्धत्या वशिष्ठस्य विवाहे देवसन्निधौ” इति नद्यादीनां रूपद्वयं यथा “नद्यश्च पर्वताः सर्वे द्विरूपाश्च खभावतः। तोयं नदीनां रूपन्तु शरीरमपरन्तथा। स्थावरं पर्वतानान्तु रूपं कायस्तथाऽपरः। शुक्तीनामथ कम्बूनां तथैवान्तर्गता तनुः। बहिरस्थिस्वरूपन्तु सर्वदैव प्रवर्तते। एवं जलं स्थावरत्वं नदी पर्वतयोस्तथा। अन्तर्वसति कायस्तु सततं नोपलभ्यते। आप्याय्यते स्थावरेण शरीरं पर्वतस्य तु। तथा नदीनां कायस्तु तोयेनाप्याय्यते सदा। नदीनां कामरूपित्वं पर्वतानां तथैव च। जगत्स्थित्यै पुरा विष्णुः कल्पयामास यत्नतः। तोयहानौ नदीदुःखं जायते सततं द्विजाः!। विशीर्णे स्थावरे दुःखं जायते गिरिकायगम्” कालिकापु० २२ अ० नदीभेदे जलगुणा राजनिघण्टौ उक्ता यथा “सर्वा गुर्वी प्राङ्मुखी वाहिनी स्याल्लध्वी पश्चाद्वाहिनी निश्चयेन। देशे देशे तद्गुणा सा विशेषान्नैषाधत्ते गौरवं लाघवञ्च। प्रायो मृदुवहा गुर्व्यो लघ्य्वः शीघ्रवहाः स्मृताः। नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः। हिमवतप्रभवा याश्च जलं तास्वमृतीपमम्। विन्ध्यात् प्राची प्राच्यवाची प्रतोची या चोदीची स्यान्नदी सा क्रमेण। वातारोधं श्लेष्मपित्तार्त्तिकोपं पित्तोद्रेकं पथ्यपाकञ्च धत्ते। पारिपात्रभवा याश्च विन्ध्याख्यप्रभवाश्च याः। शिरोहृद्रोगकुष्ठानां ता हेतुः ह्लीपदस्य च”। “वनस्पतीनां सरसां नदीनाम्” मट्टिः।
नदीकदम्ब = पु० नद्या इव कदम्बो जलसमूहोऽत्र। १ महा श्रावणिकायां राजनि० ६ त०। २ नदीसमूहे न०।
नदीकान्त = पु० ६ त०। १ समुद्रे नदी कान्ता यस्य। २ हिज्जलवृक्षे तस्य तत्समीपजातत्वेन तत्प्रियत्वात् तथात्वम्। ३ सिन्धुवारे च मेदि० ४ जम्बूवृक्षे ५ काकजङ्घावृक्षे च स्त्री मेदि० ६ लतायां स्त्री हेमच०।
नदीकूलप्रिय = पु० नदीकूलं प्रियमस्य। जलवेतसे जटाध०।
नदीज = पु० नद्याः तत्समीपे जायते जन–ड ७ त०। १ अर्ज्जुनवृक्षे रत्नसा०। २ यावनालशरे ३ हिज्जलवृक्षे राजनि०। ४ स्रोतोऽञ्जने न० हेमच०। ५ नदीजातमात्रे त्रि० ६ भीञ्जे पु० “नदीज! लङ्केशवनारिकेतुः” भा० वि० ३९ अ०। “विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ” माघः। ७ अग्निमन्यवृक्षे स्त्री राजनि० ८ निष्पावभेदे पु० राजनि०।
नदीदोह = पु० नदीतरणार्थं दोहः शाक० त०। नदीतरणाय आतररूपेण देये दोहे दोहकर्मणि दुग्धे।
नदीधर = पु० नदीं धरति धृ–अच् ६ त०। गङ्गाधरे शिवे।
नदीन = पु० ६ त०। १ समुद्रे त्रिका० “कवित्वामृतनदी नदीनः पर्यन्ते परमपदलीनः प्रभवति” कर्पूरस्तव। २ वरुणे च नशब्देन “सह सुपा” पा० स०। ३ दीनभिन्ने त्रि० “रत्नैरलङ्करणभावमितैर्नदीनः” उभयार्थे नैषधम्।
नदीनिष्पाव = पु० नद्यां तत्समीपे जातः निष्पावः। नदीजे निष्पावरूपे धान्यभेदे राजनि०।
नदीपति = पु० ६ त०। १ समुद्रे २ वरुणे च अप्पतिशब्दे दृश्यम् “अथ नदीपतिं गृह्णाति अपां पतिरसीति” शत० ब्रा० ५। ३। ४। १० समुद्रोदकग्रहणोक्तौ “प्लवो मद्गुर्मत्स्यस्ते नदीपतये” यजु० २४। ३४ अश्वमेधे षोडशावकाशे आलभ्यपशुदेवोक्तौ। नदीशनदीनाथादयोऽप्यत्र
नदीभव = न० नद्यां भवति भू–अच् ७ त०। १ सैन्धवे लवणभेदे हेमच०। २ नजीजातमात्रे त्रि०।
नदीमातृक = त्रि० नदी मातेव पोषिकाऽस्य। नदीजलसम्पन्नव्रीहिपालिते देशे अमरः।
नदीमुख = न० नदी मुखमिव निःसरणमार्गः। १ नदीरूपे समुद्रस्य वृद्धजलनिःसरणमार्गे “वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः” रघुः। २ नदीनां जलनिर्गमद्वारे (वाहा) ख्याते पदार्थे च “इन्द्रकृष्टैर्वर्त्तयन्ति धान्यैर्ये तु नदीमुखैः” भा० स० ५० अ०।
नदीवङ्क = पु० ६ त०। नद्या वक्रभावे (वा~क) ख्याते पदार्थे शब्दमाला।
नदीवट = पु० नद्यां तत्समीपे जातो वटः। वटीवृक्षे राजनि०
नदीष्ण = त्रि० नद्यां स्नातुं जानन्ति स्ना–क “निनदीभ्यां स्नातेः कौशले” पा० षत्वम्। नदीस्नानकुशले यस्यां यस्यां नद्यां यथावतरणीयं तज्ज्ञानयुक्ते पुरुषोत्तमः। “ततो नदीष्णान् पथिकान् गिरिज्ञान्” भट्टिः “आनायिनस्तद्विचये नदीष्णान्” रघुः।
नदीसर्ज = पु० नद्या सृज्यतेऽसौ सृज–कर्मणि अप्। अर्ज्जुनवृक्षे अमरः।
नद्ध = त्रि० नह–बन्धने कर्मणि क्त। बद्धे “खर्जूरीस्कन्धनद्धानाम्” रघुः।
नद्ध्री = स्त्री नह्यतेऽनया नह–करणे ष्ट्रन् ङीप्। चर्मनिर्मितरज्ज्वाम् अमरः।
नद्यादि = पु० जाताद्यर्थे ढक्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “नदी मही वाराणसी श्रावस्ती कौशाम्बी वनकोशाम्बी काशपरी काशफरी खादिरी पूर्वनगरी पाठा माया शाल्वा दार्वा सेतकी (वडवाया वृषे)”। “नद्यादिभ्योढक् पा० नादेयः इत्यादि।
नद्याम्र = पु० नद्या आम्र इव। समष्टिलावृक्षे राजनि०।
नद्या(न्द्या)वर्त्तक = पु० ज्योतिषोक्ते यात्रायोगभेदे “स्वराशिगे बुधे लग्ने सिते वा सुरवन्दिते। नद्या (न्द्या) वर्त्तकयोगोऽयं यातुरिष्टार्थसिद्धिदः”। अन्योऽपि “भूसुते स्वोच्चगे लाभे मृगकुम्भगते यमे। नद्या(न्द्या)बर्त्तकयोगोऽयं रणे रिपुतृणानलः”। ज्योतिषम्
नद्युत्सृष्ट = त्रि० नद्या उत्सृष्टं स्थानम्। (चडा) इति ख्याते नदीजलत्यक्तभूभागे। तत्र स्वामित्वं निरूपितं विवादचिन्तामणिरत्नकरादौ यथा “नद्युत्सृष्टा राजदत्ता यस्य तस्यैव सा मही। अन्यथा न भवेल्लाभो नराणां राजदविकः। क्षयोदयौ जीवनञ्च दैवराजवशान्नृणाम्। तस्मात् सर्वेषु कार्येषु तत्कृतं न विचालयेत्” तेन यस्य भूमिसन्निकृष्टं तस्यैव तत्र स्वामित्वं नान्यस्येति बोध्यम्।
ननन्द = स्त्री न नन्दति कृतायामपि सेवायां न तुष्यति नन्द–ऋन् “सह सुपा” पा० स०। भर्त्तृभगिन्याम् (ननद) “पिता माता ननन्दा ना सव्येष्ठृभ्रातृयातरः। जामाता दुहिता देवा न तृणन्ताइमे दश” इत्युक्तेः अस्य सर्वनामस्थाने परे तृणन्ततुल्यत्वाभावात् न वृद्धिः किन्तु गुणः। तेन ननन्दरौ ननन्दर इत्यादि। पृषो० दीर्घे ननान्दाप्यत्रार्थे “सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्वां भव। ननान्दरि सम्राज्ञी भव सम्राज्ञी अधिदेवेषु” ऋ० १०। ८५। ४६
नना = स्त्री न नमति नम–ड “सह सुपा” पा० स०। १ वाक्ये निघण्टुः। नम–बा० ड्यु। २ मातरि ३ दुहितरि च स्त्री “उपल प्रक्षिणी नना” ऋ० ९। ११२। ३ “नना माता दुहिता वा नमनक्रियायोग्यत्वात्। माता खल्वपत्यं प्रति स्तनपानादिना नमनशीला भवति। दुहिता वा शुश्रूषार्थम्” भा०।
ननु = अव्य० नुद–डु। १ प्रश्ने २ अवधारणे ३ अनुज्ञायाम् ४ विनये ५ आमन्त्रणे च अमरः। ६ अनुनये विश्वः। ७ विनिग्रहे ८ परकृतौ ९ अधिकारे १० सम्भ्रमे च मेदि०। ११ आक्षेपे प्रत्युक्तौ १२ वाक्यारम्भे च हेमच०। तत्र प्रश्ने “ननु गमिष्ये इत्यादि। अवधारणे “उपपन्नं ननु शिवम्” रघुः उपपन्नमेव। “त्वया नियम्या ननु दिव्यचक्षुषा” रघुः “आमन्त्रणे (सम्योधने) ननु मां प्रापय पत्युरन्तिकम्” कुमा० (ननु हे वसन्त!) आक्षेपे “ननु प्रात्यहिकभोजनस्य कुञ्जरशौचवत् दुःखानिवर्त्तकत्वे कथं तत्र प्रवृत्तिस्तत्राह” सा० प्र० भा०।
ननुच = अध्य० ननु + च + समा० द्व०। विरोधोक्तौ अमरः।
नन्त्व = त्रि० नम–बा० कर्मणि त्व। नमनीये “यो नन्त्वान्यनमन्न्योजसोत” ऋ० २। २४। २ “ननवानि नमनयीनि” भा०
नन्द = पु० नन्द–भावे घञ्। १ हर्षे आनन्दे २ तदात्मके परमेश्वरे च “आनन्दो नन्दनो नन्दः” विष्णुसं०। “सर्वाभिरुपपत्तिभिः समृद्धो नन्दः” भा०। नन्दति मेघवर्षणात् नन्द–अच्। ३ भेके शब्दरत्ना०। ४ क्षत्रियभेदे “नव नन्दा भविष्यन्ति चाणक्यो यान् हनिष्यति” स्कन्दपु०। “महानन्दिसुतो राजन्! शूद्रागर्भोद्भवो बली। महापद्मपतिः कश्चित् नन्दः क्षत्रविनाशकृत्। ततो नृपा भविष्यन्ति शूद्रप्राया ह्यधार्मिकाः। स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः। शासिष्यति महापद्मो द्वितीय इव भार्गवः। तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः। य इमां भोक्ष्यन्ति महीं राजानश्च शतं समाः। नव नन्दान् द्विजः कश्चित् प्रपन्नानुद्धरिष्यति। तेषामभावे जगतीं मौर्य्या भोक्ष्यन्ति वै कलौ। स एव चन्द्रगुप्तं वै द्विजो राज्येऽमिषेक्ष्यति” भाग० १२। १। ४ “नव नन्दान् नन्दं तत्पुत्रांश्चाष्टौ इत्येवं नव, प्रपन्नान् विश्वस्तान् विख्यातान् वा द्विजः कौटिल्यवात्स्यायनादिपर्य्यायः चाणक्य उद्धरिष्यति उन्मूलयिष्यति” श्रीधरस्वामी विस्तरेण तत्कथा वृहत्कथायां दृश्या। तेषां सपुत्राणां नवसंख्यत्वेन तत्तुल्यसंख्याके ५ नवसंख्यायुक्ते च “नन्द त्रिषड्लग्नभवर्क्षपुत्रव्यया इनाद्धर्षपदं स्वभोच्चम्” नी० ता० ६ कुमारातुचरभेदे “वृषो मेषप्रवाहश्च तथा नन्दोपनन्दकौ” भा० श० ४६ अ०। ७ मृदङ्गभेदे “मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ” भा० द्रो० २३ अ०। ८ धृतराष्ट्रपुत्रभेदे “ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ” भा० आ० ६७ अ०। ९ वसुदेवस्य मदिरायां जाते पुत्रभेदे “पौरषी रोहिणी भद्रा मदिरा रोचना इला। देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः। “वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत्। सुभद्रो वहुवाहुश्च दुर्मदो भद्र एव च। पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन्। नन्दोपनन्दकृतकशूराद्या मदिरात्मजाः” भाग० ९। २४। २४। १० क्रौञ्चद्वीपस्थ वर्षपर्वतभेदे “तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः। शुक्लो वर्द्धमानो भोजन उपवर्हणो नन्दो नन्दनः सर्वतो भद्र इति” भाग० ५। २०। १५। तद्वर्षवर्णने ११ वेणुभेदे सङ्गीतदामोदरः यथा “महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा। चत्वार उत्तमा वंशा मातङ्गमुनिसम्मताः। दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः”। वसुनामक द्रोणावतारे ब्रजस्थिते १२ गोपभेदे “द्रोणो वसूनां प्रवरो धरया सह भार्य्यया। करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह। जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ। भक्तिः स्यात् परमा लोके ययाञ्जोदुस्तरं तरेत्। अस्त्वित्युक्तः स एवेह व्रजे द्रोणो महायशाः। जज्ञे नन्द इति ख्यातो यशोदा सा धरा भवत्” भाग० १०। ८ अ० १३ यज्ञेश्वरानुचरभेदे “दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसृजां परं गुरुम्। सुनन्दनन्दाद्यनुगैर्वृतं मुदा गृणन् प्रपेदे प्रयतः कृताञ्जलिः” भाग० ४। ७। २२।
नन्दक = पु० नन्दयति नन्द–ण्वुल्। १ विद्यामये विष्णोः खङ्गे अमरः “नाम्नापि तस्यैव स नन्दकोऽभूत्” माघः। ३ भेके त्रिका०। ४ सन्तोषकारके ५ कुलपालके च त्रि० स्वार्थे क। ६ नन्दगोपे पु० ७ नागभेदे “आर्य्यको नन्दकश्चैव तथा कलसपोतकौ” भा० उ० १०२ अ०। नागोक्तौ ८ असिमात्रे च “गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम्” हरिवं० २३४ अ०। १० कुमारानुचभेदे “रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दकः” भा० स० ४६ अ०। ११ धार्त्तराष्ट्रपुत्रभेदे “नन्दको वाहुशाली च तुहुण्डो विकटस्तथा” भा० आ० १८६ अ० तत्पुत्रोक्तौ।
नन्दकि = नन्द–इन् बा० कुक्। पिप्पल्यां शब्दच०।
नन्दकिन् = पु० नन्दको विद्यामयोऽसिरस्त्यस्य इनि। विष्णौ “शङ्खभृत् नन्दकी चक्री शार्ङ्गधन्वा गदाधरः” विष्णुसं० “विद्यामयो नन्दकाख्योऽसिरस्त्यस्य” भा०।
नन्दगोपिता = स्त्री नन्दाय हर्षाय गोपिता। रास्नायां शब्दच०।
नन्दथु = पु० नन्ध–अथुच्। आनन्दे अमरः। “यस्यासौ तस्य नन्दथुः” भट्टिः।
नन्दन = पु० नन्दयति नन्दि–ल्यु। १ सुते २ दुहितरि स्त्री ३ भेके पुंस्त्री शब्दरत्ना०। ४ इन्द्रस्योद्याने न० “अमिज्ञाश्छदपातानां क्रियन्ते नन्दनद्रुमाः” कुमा०। ५ हर्षके त्रि०। ६ विष्णौ पु० “आनन्दोनन्दनोनन्दः” विष्णुसं०। “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति” श्रुतेस्तस्य नन्दहेतुत्वान्नन्दनत्वम् “शिवतुरगैस्तु नन्दनमिदं गजौ भलौ रद्वयम्” वृ० टी० उक्ते ७ अष्टादशाक्षरपादके छन्दोभेदे। “बभूव भावेषु दिलीपनन्दनः” रघुः रघुनन्दनः यदुनन्दन इत्यादि “पुरीमवस्कन्द लुनीहि नन्दनम्” माघः ८ महादेवे “नन्दीश्वरश्च नन्दी च नन्दनो नन्दिबर्द्धनः” भा० अनु० १७ अ० शिवसहस्रनामोक्तौ। ९ कुमारानुचरभेदे “बर्द्धनं नन्दनञ्चैव सर्वविद्याविशारदौ। स्कन्दाय ददतुः प्रीतावाश्विनौ भिजजां वरौ” भा० व० ४५ अ०। १० पर्वतभेदे “तीरे तु चन्द्रकुण्डस्य नन्दनो नाम वै गिरिः। तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः। न्यञ्चभावं समापेदे सर्वदैवेश्वरो हरिः। सेवितुं त्रिदशेशानीं सततं वर्तते नतः। चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः। प्रतिदर्शं तथा चन्द्रं प्रदक्षिणयति त्रिधा। चन्द्रकुण्डजले स्नात्वा समारुह्य च नन्दनम्। आराध्य शक्रं लोकेशं महाफलमवाप्नुयात्” कालिकापु० ८१ अ०। ११ षष्टिवर्षमध्ये षङ्विंशतिमे वत्सरे। “सुभिक्षं क्षेममारोग्यं शस्यं भवति शोभनम्। बहुक्षीरास्तथा गावो नन्दन्ते नन्दने प्रिये!” भविष्यपु०।
नन्दनज = न० नन्दनवने जायते जन–ड। १ हरिचन्दने राजनि०। २ हर्षजातमात्रे त्रि० ३ श्रीकृष्णे पु०।
नन्दनन्दन = पु० नन्दस्य नन्दनः आनन्दजनकः। श्रीकृष्णे वासुदेवे तस्य वासुदेवत्वेऽपि कंसभीत्या नन्दसुतां योगमायामानीय तत्स्थले रात्रौ निगूढतया कृष्णस्य स्थापनेन तस्य तत्पुत्राभिमानात् तन्नन्दनत्वम्। तत्कथा भाम० १०। ३ अ० यथा “ततश्च शौरिर्भगवत्प्रचोदितः सुतं समदाय स सूतिकागृहात्। यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाऽजनि नन्दजायया। तया हृतप्रत्ययसवैवर्त्तिषु द्वाःस्थेषु पौरेषु च शायितेष्वथ। द्वारश्च सर्वाः पिहिता दुरत्यया वृहत्कवाटायसकीलशृङ्खलैः। कृष्ण वाहे वसुदेव आगते स्वयं व्यशीर्य्यन्त यथा तमो रवेः। ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद्वारि निवारयन् फणैः। मवोनि वर्षत्यसकृद् यमानुजा गम्भीरतोयौघज वोर्मिफेनिला। भयानकावर्त्तशताकुला नदी मार्गं ददौ सिन्धुरिव श्रियः पतेः। नन्दव्रजं शौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तानुपलभ्य निद्रया। शिशुं यशोदाशयने निधाय तत्–सुतां समादाय पुनर्गृहानगात्। देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम्। प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः। यशोदा नन्दपत्नी च जातं पुत्रमबुध्यत। न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः” नन्दपुत्रनन्दसुतादयोऽप्यत्र। २ योगमायायां स्त्री।
नन्दनन्दिनी = स्त्री ६ त०। दुर्गायां योगमायायां तस्यास्ततः उत्पत्तकथा हरिवं० ५८ अ० “ताञ्चोवाच ततो निद्रां विष्णुः सत्यपराक्रमः। गच्छ निद्रे! मयोत्सृष्टा देवकीभवनान्तिकम्। इमान् प्राणेश्वरान् गृह्य षड्गर्भान्नाम देहिनः। षट्सु गर्भेषु देवक्या योजयस्व यथाक्रमम्। जातेष्वेतेषु गर्भेषु नीतेषु च यमक्षयम्। कंसस्य विफले यत्ने देवक्याः सफले क्रमे। प्रसादं ते करिष्यामि मत्पभावसमं भुवि। येन सर्वस्य लोकस्य देवि! देवी भविष्यसि। सप्तमो देवकीगर्भो योऽंशः सौम्यो ममाग्रजः। स संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम्। सङ्कर्षणात्तु गर्भस्य स तु सङ्कर्षणो युवा। भविष्यत्यग्रजो भ्राता मम शीतांशुदर्शनः। पतितो देवकीगर्भः सप्तमोऽयं भयादिति। अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति। या तु सा नन्दगोपस्य वसुदेवानुगस्य वै। यशोदा नाम भद्रन्ते भार्य्या गोपकुलोद्वहा। तस्यास्त्वं नवमो गर्भः कुलेऽस्माकं भविष्यसि। नवम्यामेव संजाता कृष्णपक्षस्य बै तिथौ। अहन्त्वभिजिते योगे निशाया यौवने स्थिते। अर्द्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम्। अष्टमस्य तु मासस्य जातावावां ततः समम्। प्राप्स्यावो गर्भव्यत्यासं प्राप्ते कंसस्य शासने। अहं यशोदां यास्यामि त्वं देवि! भज देवकीम्। आवयोर्गर्भव्यत्यसात् कंसो गच्छतु मूढताम्। ततस्त्वां गृह्य चरणे शिलायां निर सिष्यति। निरस्यमाना गगने स्थानं प्राप्स्यसि शाश्वतम्”।
नन्दनमाला = स्त्री नित्यकर्म०। मालाभेदे “भूप! नन्दनमालान्तु कुरुते कृष्णवेश्मनि। देवकन्यावृतैर्लक्षैः सेव्यते सुरनायकैः”।
नन्दन्त = पु० नन्दत्यनेन नन्द–झच्। पुत्रे उज्वलद०।
नन्दपाल = पु० नन्दं हर्षं पालयति पालि–अण् उपस०। वरुणे शब्दरत्ना०।
नन्दयन्त = पु० नन्दि–झच् णिलोप्रे अन्तपर्युदासान्न णिलोपः। पुत्रे उणा०।
नन्दा = स्त्री नन्दयति नन्दि–अच्। १ दुर्गामूर्त्तिभेदे “यथागतास्तथा जग्मुर्देवीं स्थाप्य हिमे गिरौ। संस्थात्य नन्दिता यस्मात्तस्मान्नन्दा तु या भवेत्” वराहपु० “नन्दते सुरलोकेषु नन्दने वसतेऽथ वा। हिमाचले महापुण्यो नन्दा देवी ततः स्मृता” देवीपु०। २ अलिञ्जरे (ना~दा) ख्याते पदार्थे पक्षयोः प्रतिपदेकादशीषष्ठीरूपे ३ तिथिभेदे च मेदि०। “नन्दा भद्रा जया रिक्ता पुर्णा च प्रतिपत् क्रमात्” ज्यो० त० “नन्दामन्दमहीजकाव्यदिवसे” ज्यो० त० नवान्ने कालवर्जने। “आदित्यभौमयोर्नन्दा” ज्यो० त० पापयोगोक्तौ। ४ ननान्दरि शब्दर०। ५ सम्पदि शब्दार्थचि० ६ संक्रान्तिभेदे “स्थिरे जीववारे तु नन्देति संज्ञा तदा विप्रवर्गः सुखी मासमेकम्” मु० चि०। रोहिण्युत्तरात्रयं स्थिरं तस्य गुरुवारयोगे रविसंक्रान्तिः सा विप्राणां सुखाय। अत्र वारनक्षत्रोभययोगे घोरादिसंक्रान्तीनां फलं सम्पूर्णं केवलवारवशेन केवलनक्षत्रवशेनापि घोरा दिसंज्ञाः सिद्ध्यन्ति तत्र फलं न सम्पूर्णम्। उक्तञ्च निर्णयामृते रत्नमालायाञ्च “घोरा रवौ ध्वाङ्क्ष्यमृतद्युतौ च संक्रान्तिरारे च महोदरी स्यात्। मन्दाकिनी ज्ञे च गुरौ च नन्दा मिश्रा कवौ राक्षसिकाऽर्कपुत्रे” “उग्रक्षिप्रचरैर्मैत्र ध्रुवमिश्रर्क्षदारुणैः। ऋक्षैः संक्रान्तिरर्कस्य घोराद्याः क्रमशो मता” इति। ७ नन्दाश्रमतीर्थे धर्मपुत्रहर्षस्य च पत्न्याञ्च “नन्दा तु भार्य्या हर्षस्य यासु लोकाः प्रतिष्ठिताः” भा० आ० ६६ अ०।
नन्दात्मज = पु० ६ त०। १ श्रीकृष्णे वासुदेवे यशोदागर्भजातायां २ योगमायायां स्त्री।
नन्दापुराण = नन्दां देवीमधिकृत्य पुराणम्। नान्दे उपपुराणभेदे “तृतीयं नान्दमुद्दिष्टं कुमारेण तु भाषितम्” कूर्मपु० उपपुराणोक्तौ। नन्दामधिकृत्य कृतो ग्रन्थः। अण्। नान्दम् “नन्दाया यत्र माहात्म्यं कार्त्तिकेन तु भाषितम्। नन्दापुराणं तक्लोके नन्दाख्यमिति कीर्त्त्यते” मत्स्यपु०।
नन्दाश्रम = न० न० ६ त०। तीर्थभेदे “नन्दाश्रमे महाराज! तथोलूकाश्रमे शुभे” भा० उ० १८७ अ०।
नन्दि = पु० नन्द–इन्। १ विष्णौ परभेश्वरे “स्वक्षः स्वाङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः” विष्णुसं० परमानन्द विग्रहत्वात्तस्य नन्दित्वम् भाष्ये स्थितम्। २ नन्दिकेश्वरे महादेवपार्श्वचरे च। ३ द्यूताङ्गे पु० न० भेदि०। ४ गन्धर्वभेदे “युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा” भा० आ० १२३ अ० गन्धर्वोक्तौ। ५ महादेवे “नन्दिर्नन्दिचरो हरः” भा० अनु० १७ अ० शिवसहस्रनामोक्तौ। भावे इन्। ६ आनन्दे “कौशल्यानन्दिवर्द्धनो रामः” महानाटकम्। आनन्दे स्त्रीत्वमपि। “अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि” भा० उ० १३४ अ०। तत्र वा ङीप्। नन्दीवृक्षः
नन्दिक = पु० नन्दो हेतुतयाऽस्त्यस्य ठन्। १ नन्दीवृक्षे शब्दर० नन्दि + स्वार्थे क। २ आनन्दे। ३ इन्द्रक्रीडास्थाने ४ अलिञ्जरे च (ना~दा) शब्दर० नन्दा + स्वार्थे क अत इत्त्वम्। प्रतिपदादिनन्दातिथौ स्त्री “कन्यासिंस्थे रवौ शक्र शुल्काभारभ्य नन्दिकाम्” ति० त०
नन्दिकावर्त्त = पु० मणिभेदे। “कुरुवकवृद्ध्या वज्रं वैदूर्य्यं नन्दिकावर्त्तै” वृ० सं०२९ अ० सहार्थे तृतीया।
नन्दिकुण्ड = न० नन्दिकृतं कुण्डम्। तीर्थभेदे “कालोदकं नन्दिकुण्डं तथा चोत्तरमानसम्। अभ्येत्य योजनशताद् भ्रुणहा विप्रमुच्यते” भा० अनु० २५ अ०।
नन्दिकेश्वर = पु० नन्दि + स्वार्थे क नन्दिक ईश्वर इव। १ शिवपार्श्वचरे नन्दिनि २ तेन प्रोक्ते शिवधर्माख्ये उपपुराणभेदे “चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम्” कूर्मपु०। उपपुराणोक्तौ “नन्दिकेश्वरयुग्मञ्च नन्दिकेश्वरभाषितम्” इति तत्र पाटान्तरम्।
नन्दिग्राम = पु० ग्रामभेदे रामस्य वनवासे यत्र भरतेन तत्पादुके गृहीत्वा राज्यं कृतं यथाह भा० व० २७६ अ० “विसर्जित सः (भरतः) रामेण पितुर्वचनकारिणा। नन्दिग्रामेऽकरोद्राज्यं पुरःकृत्यास्य पादुके” स च इदानीं (दौलतावाद) इति प्रसिद्धः। “नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक्” रघुः।
नन्दिघोष = पु० नन्दिः हर्षजनको घोषोऽस्य। १ अर्जुनरथे कर्म०। २ आनन्दयुक्तघोषे च मेदि०। बहु०। ३ हर्षजनकघोषयुक्तमात्रे त्रि०। “अष्टादशे यो दिवसे प्राश्नीयादेकभोजनम्। सदा द्वादश मासान् वै सप्त लोकान् स पश्यति। रथैः स नन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते” भा० अनु० १०७ अ०।
नन्दितरु = पु० नित्यक०। धववृक्षे भावप्र०।
नन्दितूर्य्य = न० नन्दिप्रियं तूर्य्यम्। वाद्यभेदे “नन्दितूर्य्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम्” हरिवं० ९० अ०।
नन्दिन् = त्रि० नन्दते नन्द–णिनि। १ हर्षयुक्ते २ शालङ्कायने शिलादिपुत्रे च शिवद्वारपाले पु० ३ मुनिभेदे नन्दीश्वरशब्दे दृश्यम्। स च शालङ्कायनमुनिपुत्रः यथा “अन्यच्च ते प्रवक्ष्यामि परं गुह्यं वसुन्धरे!। तप्यतस्तस्य तु मुनेरीश्वरेण सभं सुतम्। तं प्राप्स्यामि परं भावं ज्ञात्वा देवो महेश्वरः। सुन्दरन्तु परं रूपं धृत्वा दृष्टिसुखावहम्। शालङ्कायनपुत्रत्वं योगमायामुपाश्रितः। प्राप्तोऽपि तं न जानाति दक्षिणं पार्श्वमास्थितम्। मायायोगबलोपेतस्त्र्यक्षो वै शूलपाणिधृक्। रूपवान् गुणवांश्चैव वपुषादित्यसन्निभः। सत्वं न ज्ञायते जातं तस्यैवाराधने स्थितः। अथ नन्दी प्रहस्याह महादेवा- ज्ञया मनिम्। उत्तिष्ठ मुनिशार्दूल! सफलस्ते मनोरथः। त्वद्दक्षिणाङ्गाज्जातोऽस्मि पुत्रस्ते शाधि म प्रभो!। त्वया तपः समारब्धमीश्वरेण समं सुतम् प्राप्स्यामीति ततो मह्यं सदृशोऽन्यो न कश्चन। विचार्य्येति तवाहं वै जातोऽस्मि स्वयमेव हि” वराहपु०। स एव कल्पान्तरे शिवांशजः शिलादमुनेः पुत्रः। यथा “जजाप रुद्रमनिशं यत्र नन्दी महागणः। प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक्। दत्त्वा चात्मसमानत्वं मृत्युबञ्चनमेव च। अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित्। आराधयन् महादेवं पुत्रार्थं धृषभध्वजम्। तस्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत्। शर्वः सोमोऽघ विधृतो वरदोऽस्मीत्यभाषत। स वब्रे वरमीशानं वरेण्यं गिरिजापतिम्। अयोनिजं मृत्युहीनं त्वया चैवोमया समम्। तथास्त्वित्याह भगवान् देव्या सह महेश्वरः। पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो विभुः। ततो यियक्षुः स्वां भूमिं शिलादो घर्मवित्तमः। चकर्ष लाङ्गलेनोर्वीं भित्त्वाऽदृश्यत शोभनः। संवर्त्तकानलप्रख्यः कुमारः प्रहसन्निव। रूपलावण्यसम्पन्नस्तेजसा भासयन् दिशम्। कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा। शिलादं तात तातेति प्राह नन्दी पुनःपुनः। तं दृष्ट्वा नन्दिनं जातं शिलादः परिषस्वजे। मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः” कूर्मपु० ४० अ०। “लतागृहद्वारगतोऽथ नन्दी” कुमा०। ३ शिवगणविशेषे। स च त्रिविधः यथा “आद्यः कनकनन्दी च गिरिकाख्यो द्वितीयकः। सोमनन्दी तृतीयस्तु विज्ञेया नन्द्रिनस्त्रयः” वह्निपु०। ४ गर्दभाण्डवृक्षे ५ धववृक्षे च मेदि०। ६ विष्णौ च “भगवान् भगहा नन्दी वनमाली हलायुधः” विष्णुस० आनन्दीति पाठान्तरम्।
नन्दिनी = स्त्री नन्द–णिनि ङीप्। १ दुर्गायां २ गङ्गायां ३ नन्ददरि ४ वसिष्ठधेन्याञ्च मेदि०। ५ रेणुकागन्धद्रव्ये राजनि०। ६ कन्यायां च “नन्दगोपस्य नन्दिनी” हरिवं० वसिष्ठधेनुश्च सुरभिकन्या। “सुनां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः। आराधय सपत्रीकः प्रीता कामदुघा हि सा। इति वादिन एवास्य होतुराहुतिसाधनम्। अनिन्द्या नन्दिनी नाम धेनुरावृते वनात्” रघुः। “इह नन्दिनीसजसैर्गुरुयुक्तैः” वृ० र० टी० उक्ते ७ त्रयोदशाक्षरपादके वर्णवृत्तभेदे वसिष्टधेन्वा प्रभावो रामा० बालका० उक्तो यथा “युक्तःपरमहर्षेण बशिष्ठमिदमब्रवीत्। गवां शतसहस्रेण दीयतां शबला मम। एवमुक्तस्तु भगवान् वशिष्ठो मुनिसत्तमः। विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्। कारणैर्बहुभीराजन्न दास्ये नन्दिनीं तव। कामधेनुं बशिष्ठोऽसौ न तत्याज यदा मुनिः। ततोऽस्य शबलां राजा विश्वामित्रस्तदाहरत्। तस्याहम्बारवाज्जाताः काम्वोजा रविसन्निभाः। जधसश्चाभिसंजाताः पह्नवाः शस्त्रपाणयः। योनिदेशाच्च यवनाः शकृद्देशाच्छकास्तथा। रोमकूपेषु च म्लेच्छास्तथा राम! किरातकाः। तैस्तन्निसूदितं सैन्यं विश्वामित्रस्य तत्क्षणात्”। ८ व्याडिमातरि च।
नन्दिनीतनय = पु० ६ त०। व्याडिमुनौ हेमा०। व्याडिश्च उपवर्षमुनेः शिष्यभेदः तत्कथा वृहत्कथयां दृश्या। ततो दिङ्मात्रमत्र प्रदर्श्यते। “नन्दराजराज्यकाले उपवर्ष पण्डितस्य कात्यायनापरपर्य्यायो वररुचिर्व्याडिः पाणिनिश्चेति त्रयो मुख्याश्छात्रा बभूवुः। तेषु पाणिनिरल्पबुद्धितया सब्रह्मचारिभिर्वादे पराजितो निर्वेदमापन्नो महादेवमाराध्य तत्सकाशादधीत्य च कृतविद्यस्तत् प्रसादात् सूत्रपाठगणपाठधातुपाठलिङ्गानुशासनात्मकं चतुर्धा विभक्तं व्याकरणागमम् विदधे। अथ तद्ग्रन्थकौशतमुपलभ्य वररुचिना तदवशिष्टांशपरिपूरणेन संक्षेपार्थषिवरणरूपं वार्त्तिकं चक्रे। व्याडिना च तत्तदुक्तार्थेषु न्यायप्रदर्शनार्थं लक्षश्लोकात्मकः संग्रहाभिधोग्रन्थो निरमायि”। स च कोषविशेषकर्त्ता। नन्दिनीसुतादयोऽप्यत्र।
नन्दिपुराण = न० नन्दिना प्रोक्त पुराणम्। उपपुराणभेदे नन्दिकेश्वरशब्दे दृश्यम्।
नन्दि(न्दी)मुख = पुंस्त्री पक्षिभेदे स्त्रियां ङीष्। तल्लक्षणं “स्थूला कठोरा वृत्ता च यस्याश्चञ्चूपरि स्थिता। गुटिका चञ्चुसदृशी ज्ञेया नन्दि(न्दी)मुखीति सा” पुंसोऽपि तथा लक्षणम्। “नन्दिमुखमुखानि मसुराकृतिभिः कीलैरवबद्धानि” सुश्रुतः। नन्द्याम् आनन्दे मुखमस्याः ङीष् दीर्घमध्यः। २ तन्त्रायां हेमच० ३ महादेवे पु० “नन्दीमुखः भीममुखः सुमुखो दुर्मुखोऽमुखः” भा० शा० २८६ अ०।
नन्दिवर्द्धन = पु० नन्दिमानन्दं वर्द्धयति वृध–णिच–ल्यु। १ शिवे पु० २ पक्षान्ते च मेदि०। ३ मित्रे शब्दर०। आनन्दवर्द्धकमात्रे पुत्रादौ त्रि०।
नन्दिवारलक = पुंस्त्री सामुद्रे मत्स्यभेदे स्त्रियां ङीष्। “तिमितिमिङ्गिलकुलिशपाकमत्स्यनिवारक नन्दिवारलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः” सुश्रुतः।
नन्दि(न्दी)वृक्ष = पु० ६ त०। सन्तोषहेतौ कोङ्कणदेशप्रसिद्धे सुगन्धिवृक्षभेदे। “नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवर उष्णकः। कटुपाकरसो ग्राही विषपित्तकफास्रनुत्” राजनि०। २ अश्वत्थाकारे क्षीरयुक्ते (तु~द)ख्याते वृक्षभेदे ३ गान्धीराख्यतृणे शब्दार्थ०। ४ मेषशृङ्गीवृक्षे रत्नमा० ५ स्थालीवृक्षे भावप्र०
नन्दिवेग = पु० कलियुगीये पुरुषाधमनृपभेदे “समश्च नन्दिवेगानामित्येते कुलपांसनाः। युगान्ते कृष्ण! संभूताः कुलेषु पुरुषाधमाः” भा० उ० ७३ अ०।
नन्दिषेण = पु० ब्रह्मदत्ते कुमारानुचरभेदे। “तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातवंहसः। कामवीर्य्यधरान् सिद्धान् महापारिषदान् प्रभुः। नन्दिषेणं लोहिताक्षं घण्टाकर्णञ्च सम्मतम्। चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्” भा० श० ४६ अ०।
नन्दीश = पु० ६ त०। १ शिवे हेमच०। नन्दी ईशि इव। २ शिवपार्श्वचराधिपभेदे। ३ तालभेदे स च “सिंहनन्दननन्दीशचन्द्रविम्बद्वितीयकाः” इत्युद्दिश्य सङ्गीत० लक्षितो यथा “गोलघुर्गोलघुः प्लुतस्ताले नन्दीश्वरे मताः”।
नन्दीश्वर = पु० ६ त०। १ शिवे २ तालभेदे सङ्गीतदा०। ३ शिवगणाधिपभेदे पु० तस्य तथात्वकथा च वराहपु० उक्ता यथा “ततस्त्रेतायुगे काले नन्दी नाम महामुनिः। आरिराधयिषुः शर्वं तपस्तेपे सुदारुणम्। ततस्तु भगवान् प्रीतस्तस्मै विप्राय शङ्करः। उवाच च वचः साक्षात्तमृषिं वरदः प्रभुः। वरान् वृणीष्व विप्रेन्द्र! यानिच्छसि महामुने!। तांस्ते सर्वान् प्रयच्छामि दुर्लभानपि मारिष!। इत्युक्तोऽसौ भगवता शर्वेण मुनिषुङ्गवः। प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना। यदि प्रीतोऽसि भगवन्! अनुक्रोशतया मम। अनुग्राह्यो ह्यहं देव! त्वयावश्यं सुराधिप!। यथाऽनन्या भवेद्भक्तिस्त्वयि नित्यं महेश्वर!। तथाहं भक्तिमिच्यामि सर्वभूताशये त्वयि। एतत्तु वचनं श्रुत्वा नन्दिनः स महेश्वरः। प्रहस्योवाच तं प्रीत्या तती मधुरया गिरा। मद्रूपधारी मन्तेजा स्त्र्यक्षः सर्वगुणोत्तमः। भविष्यसि न सन्देहो देवदानवपूजितः। अनेनेव शरीरेण जरामरणवर्जितः। दुष्प्रा- प्यैवमवाप्या ते देवैर्गाणेश्वरी गतिः। पार्श्वदानां वरिष्ठश्च मामकानां द्विजोत्तम!। नन्दीश्वर इति ख्यातो भविष्यसि न संशयः। अद्य प्रभृति देवाग्र्य! देवकार्य्येषु सर्वतः। त्वं प्रभुर्भविता लोके मत्प्रसादान्मुनीश्वर!। त्वामेवाभ्यर्च्चयिष्यन्ति सर्वभूतानि सर्वतः। मत्तः समभिवाञ्छन्तः प्रसादं पार्श्वदाधिप!। यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु। नावयोरन्तरं किञ्चिदम्बरानिलयोरिव। द्वारे तु दक्षिणे नित्यं त्वया स्थेयं गणाधिप!। वामेन विभुना चापि महाकालेन सर्वदा” वराहपु०।
नन्दीसरस् = न० इन्द्रसरोवरे शब्दमा०।
नन्द्य = नन्द आनन्दे कण्ड्वादेराकृतिगणत्वात् यक् भ्वा० पर० सेट्। नन्द्यति अनन्द्यी(न्दी)त्।
नन्द्यादि = पु० ल्युप्रत्ययान्ततया पा० ग० सू० पठिते शब्दगणे यथा “नन्दनः वाशनः मदनः दूषणः साधनः वर्द्धनः शोभनः रोचनः (सहितपिदमः संज्ञायाम्)। सहनः तपनः दमनः जल्पनः रमणः दर्पणः संक्रन्दनः सङ्कर्षणः संहर्षणः जनार्दनः यवनः मधुसूदनः विभीषणः लवणः चित्तविलासनः कुलदमनः शत्रुदमनः।
नन्द्यावर्त्त = पु० नन्दी आवर्त्तो यत्र। “नन्द्यावर्त्तमलिन्दैः शालाकुड्यां प्रदक्षिणान्तगतैः। द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्य्याणि” वृ० सं० ५३ अ० उक्ते १ गृहभेदे भरतधृतसाञ्जवाक्ये तु तस्यान्यथा लक्षणमुक्तं यथा “दक्षिणानुगतालिन्दत्रयं यत् पश्चिमामुखम्। पूजनीयोत्तरोच्छायं नन्द्यावर्त्तं वदन्ति तत्”। तेन पश्चिमद्वारशून्यत्वे विकल्पः। २ तगरवृक्षे विश्वः। ३ मत्स्यभेदे राजवल्लभः। ३ यात्रायोगभेदे नद्यावर्त्तकशब्दे दृश्यम्। “स्वस्तिकान् वर्द्धमानांश्च नन्द्यावर्त्तांश्च काञ्चनान्” भा० द्रो० ८२ अ० हस्तिदन्दस्य ५ तदाकारच्छेदे च “दन्तस्य मूलपरिधिं द्विरायतं प्रोज्झ्य कल्पयेच्छेषम्” इत्युपक्रमे “श्रीवत्सवर्द्धमानच्छत्रध्वजचामरानुरूपेषु। छेदे दृष्टेष्वारोग्यविजय धनवृद्धिसौख्यानि। प्रहरणसदृशेषु जयो नन्द्यावर्त्ते प्रनष्टदेशाप्तिः” वृ० सं० ९४ अ०
नपराजित् = पु० न पराजीयते परा + जि–कर्मणि क्विप् नशब्देन “सह सुपा” पा० स०। महादेवे “विलोहिताय धूम्राय व्याध्याय नपराजिते” भा० द्रो० ८० अ०।
नपात् = त्रि० न। पाति पा–रक्षणे शतृ नभ्राडित्यादिना पा० नजः प्रकृतिभावः। १ अरक्षके “नपातो दुर्बहस्य मे” ऋ०८। ६५। १२ “नपातो अरक्षकस्य” भा०। नपात् शत्रन्तः इति सि० कौ० तेन स्वादौ नपान् नपान्तौ इत्यादि रूपम्। न पातयति पाति–क्विप्। २ अपातके च अस्य नपात् नपातौ नपातः इति भेदः। तनूनपात् तनूरक्षकः। ३ पुत्रे अपत्ये निरु०। तस्य पुन्नामनरकनिरासकत्वेन पातनाभावहेतुत्वात् तथात्वम्। “मनोर्नपातो अपसो दधन्विरे” ऋ० ३। ६०। ३ “मनोः नपातः पुत्राः” माधवः “ऋषीणां नपादवृणीतायं यजमानः” यजु० २१। ६१ “हे ऋषीणां नपात् पुत्रः” वेददी०।
नपात = पु० नास्ति पातो यत्र। देवयाने पथि “अवित्सि नपातं विक्रमणं च विष्णोः” यजु० १९। ५६ “वेवेष्टि विष्णुः तस्य विष्णोः व्यापनशीलस्य यज्ञस्य “यज्ञो वै विष्णुरिति” श्रुतेः तस्य नपातं विक्रमणं च अवित्सि वेद्मि। नास्ति पातो यत्र स नपातो देवयानपथः यत्र गतानां पातो नास्ति, विविधं क्रमणं गमनागमनं यत्र स विक्रमणः पितृयानपथः यत्र गतानां पुनर्भोगान्ते पतनम्। यज्ञसम्बन्धिनौ देवयानपितृयानौ पन्थानौ वेत्सीत्यर्थः” वेददी०
नपुंसक = पु० न० न स्त्रीपुंसौ नभ्राडित्यादि पा० स्त्रीपुंसयोः पुंसकभावः नि० नञः प्रकृतिभावश्च। क्लीवे क्लीवशब्दे २३४५ पृ० दृश्यम्। “नपुंसको भवतीति” महाभाष्यप्रयोगात् अस्य पुंस्त्वमपि। लिङ्गस्य शब्दगतत्वेऽपि शब्दार्थे तद्व्यवहारस्तु अभेदारोपात् तदेतत् शब्दार्थरत्नेऽस्माभिः समर्थितं यथा “लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मकोधर्म एव तद्विशेषश्च पुंनपुंसकत्वादिः। तथा हि सर्वेषां त्रिगुणप्रकृतिकार्यतया शब्दानामपि तथात्वेन गुणगतविशेषाच्छब्देषु विशेष इति कल्प्यते। स च विशेषः शास्त्रे इत्थमभ्यधायि। विकृतसत्वादीनां तुल्यरूपेणावस्थानात् नपुंसकत्वं, सत्वस्याधिक्ये पुंस्त्वम्, रज आधिक्ये स्त्रीत्वमिति। एवञ्च लिङ्गस्य शब्दधर्मत्वेऽपि शब्देन सहार्थाभेदारोपात् असति बाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येण वा सर्वत्र तस्य विशेषणत्वम् शाब्दबोधे शब्दभानस्येष्टत्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्गस्यापि नामार्थतौचित्यात् “न सोऽस्ति प्रत्ययोलोके यः शब्दानुगमादृते” इति हर्य्युक्तेः “शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा। नोचेत् श्रोत्रादिभिः सिद्धोऽप्यसावर्थऽवभासते” इति हर्य्युक्तेश्च शब्दानां तदर्थतावगतेः। तथा प्रातिपदिकार्थः। अभेदविबक्षायां तु श्रोत्रादिभिरेव सिद्धः ज्ञातः सन् अर्थे प्रकारतया भासते इति तदर्थः। युक्तञ्चैतत् पुंलिङ्गः शब्द इति व्यवहारात् “स्वमोर्नपुंसकादिति” पा० सूत्रे शब्दस्यैव नपुंसकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयवाधाच्च लिङ्गस्य शब्दधर्मत्वमन्यथैतेषु लिङ्गानन्वयापत्तेर्व्यवहारसूत्रनिर्देशासङ्गत्यापत्तेश्च। तथा अर्थभेदाच्छब्दभेदवत् लिङ्गभेदादपि शब्दभेद इति कल्प्यते प्रागुक्तधर्मविशेषरूपभेदकसद्भावात्। उक्तञ्च भाष्ये “एकार्थे शब्दान्यत्वाद्दृष्टं लिङ्गान्यत्वमिति”। एवञ्च तटादिशब्दानामनेकलिङ्गत्वव्यवहारः समानापूर्वीकत्वेनैव। वस्तुतस्तेषां भिन्नानामेव भिन्नलिङ्गत्वमिति दिक्। अर्थरूपनंपुसकस्योत्पत्तौ कारणं शा० ति० उक्तं यथा “विन्दुरेको विशेद् गर्भमुभयात्मा क्रमादसौ। रजोऽधिको भवेन्नारी भवेद्रेतोऽधिकः पुमान्। उभयोः समतायां तु नपुंसकमिति स्मृतम्”। “सुडनपुंसकस्य” पा० “नपुंसकमनपुंसकेनेत्यादि” पा०। तत्र पुंसि “नैव स्त्री न पुमानेष न चैवायं नपुंसकः” श्वेताश्व०। क्लीवे “न वामनाः कुब्जकुणा न खञ्जाः नान्धो जडः स्त्री न नपुंसकञ्च” भा० शा० ८३ अ०।
नपुमस् = पु० न पुमान् आर्षे न नपुंसकभावः। क्लीबे “हतास्म्यहं कुनाथेन नपुंसा वीरमानिना” भाग० ९। १४। २०
नप्तृ = न० न पतत्यनेन न + पत–तृच् नेष्ट्रित्यादि० पा० नि०। १ पौत्रे २ दौहित्रे च (नाति) हेमच०। “पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते” इति “दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवत्” मनूक्तेश्च तयोः उद्धारकत्वात् नप्तृत्वम्। “यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु। नत्वेव तु कृतोऽधर्मः कर्त्तुर्भवति निष्कलः” मनुः। ३ कन्यापुत्रयोः कन्यायां स्त्री अमरः ङीप्।
नप्तृका = स्त्री नप्तृ–संज्ञायां कन्। विष्किरे घुङ्कारकारिणीति प्रसिद्धे पक्षिभेदे “लावतित्तिरिकपिञ्जलवर्त्तीरवर्त्तिकावर्त्तकनप्तृकावातीक” इत्याद्युपक्रमे विष्किरा लघवः शीतमधुराः कषाया दोषशमनाश्च” सुश्रु०।
नभ = हिंसायां निघण्टुः भ्वा० आत्म० सक० सेट्। नमते अनभिष्ट नेभे। णभ हिंसे इत्यस्य णोपदेशत्वात् सतिनिमित्ते णत्वम् नास्येति भेदः। तत्र धातौ आर्षस्तङ् इत्यशुद्धम् तस्य अनुदात्तेत्त्वेन आत्मनेपदित्वात्।
नभ = त्रि० नभ–हिंसायां पचा० अच्। १ हिंसके २ श्रावणे मासि पु० शब्दर०। तस्य वृष्ट्या कीटादिहिंसकत्वात् तथात्वम्। ३ आकाशे न० नभौकसशब्दे दृश्यम्। हिंसितसर्वप्राणिनां तेनैव गमनात्तस्य तथात्वम्। चाक्षुषमन्वन्तरे ४ सप्तर्षिभेदे “भृगुर्नभो विबस्वांश्च” हरिवं० ७ अ० चाक्षुषमन्वतरोक्तौ। स्वारोचिषमनोः ५ पुत्रभेदे “प्रथितश्च नभस्यश्च नभ ऊर्जस्तथैव च” हरिवं० ७ अ० स्वारोचिषमन्वन्तरोक्तौ। रामवंश्ये राजभेदे “निषधस्य नलः पुत्री ननः पुत्री नलस्यतु” हरिवं० रामवंश्योक्तौ।
नभःक्रान्तिन् = पु० नभः क्रान्तमनेन इनि। सिंहे शब्दमा०
नभःप्राण = पु० नभसः प्राण इव। पवने त्रिका०।
नभःसद् = पु० नभसि सीदति सद्–क्विप् ७ त०। १ देवे २ खगादौ च। वा विसर्गस्य सत्वे नभस्सदुभयप्यत्र।
नभःसरित् = स्त्री ६ त०। गङ्गायां त्रिका० वा विसर्गस्य सत्वे नभस्सरिदप्यत्र।
नभःस्थल = पु० नभःस्थलमिव यस्य। महादेवे “ऊर्द्ध्वरेता ऊर्द्ध्व लिङ्ग ऊर्द्धशायी नभःस्थलः” भा० अनु० १७ अ० शिवनामोक्तौ। शर्परे खरि वा विसर्गलोपे नभस्थलोऽप्यत्र।
नभःस्थित = त्रि० ७ त०। १ गगनस्थिते ताराग्रहादौ २ नरकभेदे हेमच०। वा विसर्गलोपे नभस्थितोऽप्यत्र।
नभःस्पृश् = त्रि० नभः स्पृशति स्पृश–क्विन्। गगनस्पर्शिनि। वा विसर्गलोपे नभस्पृगप्यत्रार्थे। क्विन्नन्तत्वात् पदत्वे कुत्वम्। नभःस्पृक्। “भवन्ति ज्वलिता लक्ष्म्यः कीर्त्तयश्च नभस्पृशः” कामन्द०। क। नभःस्पृशोऽप्यत्र। “नभःस्पृशैर्महाघोरैः परिक्षिप्तं महावनम्” भा० द्रो० ५ अ०
नभग = पु० वैवस्वतमनोः १ पुत्रभेदे “इक्ष्वाकोर्नभगश्चैव धृष्टः गर्यातिरेव च” भा० ८। १५२ वैवस्वतवंशोक्तौ। २ गगनगे त्रि० नास्तिभगो यस्य। ३ भाग्यहीने त्रि०।
नभनु = त्रि० नभ–हिंसायां बा० अनु। १ हिंसके वेदे स्त्रियामूङ् “नभनू प्राग्रुवो नभन्वः” ऋ० ४। १९। ३। नभन्वः हिंसिकाः भन–बा० अनु पृषो०। २ शब्दकारके उदके पु० निघण्टुः “पर्वतस्य नभनू~रचुच्यवुः” ऋ० ६। ५९। ७ “नभनून् भणते शब्दकर्मणः नभ्राडितिवत् नभनवः उदकानि” भा० दीर्घान्तः २ नद्यां स्त्री निघण्ठुः नभन्वा इति तत्र पाठान्तरं “प्राग्रुवो नभन्वः” ऋ० ४। १९। ७ बहुवचनान्तः।
नभन्य = त्रि० नभ–हिंसायां कनिन् नभ्नि हिंसायां साधु यत्, नभसि हितो वा यत् पृषो०। १ आकाशभवे २ हिंसके च। “गायत् साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत्” ऋ० १। १७३। १ “हे इन्द्र! नभन्यं नभस्यं नभसि भवं नभोव्यापिनं हिंसकं वा राक्षसादिकस्य। नभतिर्बधकर्मा “नभति अर्दर्तीति बधकर्मसु गणनात्” भा०।
नभश्चक्षुस् = न० नभसश्चक्षुरिव प्रकाशकत्वात्। सूर्ये शब्दमा०।
नभश्चमस = पु० नभसश्चमस इव। १ चन्द्रे २ चित्रापूपे ३ इन्द्र जाले च मेदि०।
नभश्चर = त्रि० नभसि चरति चर–ट। गगनचारिणि १ खगे२ देव गन्धर्वग्रहादौ। ३ नभःस्थायिमात्रे च “निकामतप्ता द्विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन च” कुमा० “नभश्चरैर्गीतयशाः स लेभे” व्ययेऽष्टमे वा सुतभे विलग्ने चैकोऽपि पापश्च नभश्चराणाम्” ज्योतिषम्।
नभस् = न० नह्यते मेघैः नह–बन्धने “नहेर्भश्च” उणा० असुन् भश्चान्तादेशः। १ गगने “औमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते” माघः। २ श्रावणे मासि पु० अमरः। बाहुल्येन मेघसम्बन्धात्तस्य तथात्वम्। “नभोनभस्यत्वमलम्भितद्दृशौ” नैष० “नभाश्च नभस्यश्च वार्षिकावृतू” यजु० १४। १५। “नभोनभस्ययोर्वृष्टिमवग्रैवान्तरे” रघुः। ३ मेघे अमरः नभस्यशब्दे दृश्यम्। ४ उदके निघण्टुः। ५ घ्राणे ६ वर्षे ७ पतद्ग्रहे पु० मेदि० ८ पलितशीर्षे शब्दर० ९ लग्नतोदशमस्थाने ज्यो०
नभस = पु० नभ–शब्दे असच्। १ शब्दाश्रये गगने। दशममन्वन्तरीये २ सप्तर्षिभेदे “अङ्गिरा नभसः सत्यः सप्तैव परमर्षयः” हरिवं० ७ अ० दशमभन्वतरोक्तौ।
नभसङ्गम = पुंस्त्री नभसं गगनं गच्छति गम–खच् मुम् च। खगे अमरः। स्त्रियां जातित्वात् ङीष्।
नभस्मय = पु० नभो मयते मय–गतौ अच् वेदे अयस्मयादि० न पदत्वम्। आदित्ये “कृतोपस्तरणं नभस्मयम्” ऋ० ९। ६९। ५ “नभस्मयमादित्यम्” भा०। लोके तु नभोमय इत्येव नभोगे त्रि०।
नभस्य = पु० नभसे मेघाय उदकाय वा साधु यत्। १ भाद्रपदमासे नभःशब्दे उदा०। “प्रथमा च द्वितीया च नभस्ये मासि निग्दिता” वसिष्ठः। “अथ नभस्य इव त्रिदशायुषम्” रघुः। २ स्वारोचिषमनोः पुत्रभेदे “प्रथितश्च नभस्यश्च नभ ऊर्जस्तथैव च” हरिवं० ७ अ० तत्पुत्रोक्तौ नभसि गगने भवः यत्। ३ गगनभवे त्रि०।
नभस्वत् = पु० नभः साधनत्वेनास्त्यस्य मतुप् मस्य वा। पवने अमरः। “आकाशाद्वायुः” इति श्रुतेः वायोराकाशहेतुकत्वात् तथात्वम्। “मिलन्निमीलं विदधुर्विलोकिता नभस्वतस्तं कुसुमेषु केलयः” नैष० “नभस्वानिव दक्षिणः” रघुः। २ अन्तर्द्धानस्य पत्न्यां स्त्री ङीप्। “अन्तर्द्धानो नभस्वत्यां हविर्द्धानमविन्दत” भाग० ४। २४। ६
नभाक = पु० न० भाति भा–पिनाका० आक। १ तमसि उज्ज्व- लद०। २ राहौ च तस्यच्छायारूपत्वेन तथात्वम्। ततः शिबा० अपत्ये अण्। नाभाक तदपत्ये पुंस्त्री०।
नभीग = त्रि० नभोगच्छति गम–ड। १ नभश्चरे खगदेवग्रहादौ २ लग्नतोदशमगे ३ दशममन्वन्तरीये सप्तर्षिभेदे नभसशब्दे दृश्यम्।
नभोगज = पु० नभसि गज इव। मेघे त्रिका०।
नभोगति = स्त्री ७ त०। १ गगनगतौ नभसि गतिरस्य। २ खगादौ त्रि०।
नभोद = पु० विश्वदेवभेदे “उष्णीनाभो नभोदश्च” हरिवं० ७ अ० तद्गणोक्तौ।
नभोदुह = पु० नभसि दुहति दुह–क। १ मेघे शब्दमाला। तस्य नभसि पयोनिःसारकत्वेन तथात्वम्।
नभोद्वीप = पु० नभसि द्वीप इव। मेघे शब्दमा०।
नभोधूम = पु० नभसि धूम इव। मेघे शब्दमाला।
नभोनदी = स्त्री ६ त०। स्वर्गगङ्गायाम्।
नभोमणि = पु० नभसि मणिरिव प्रकाशकत्वात्। द्युमणौ सूर्ये हेयच०।
नभोमण्डल = न० नभोमण्डलमिव। गगनमण्डले “नैतन्नभो मण्डलमम्बुराशेः” सा० द० “अथ च यावन्नभोमण्डलं सहद्यावापृथिव्योर्मण्डलाभ्यां कात्र्स्न्येन सह भुञ्जीतम्” भाग० ५। २२। ९
नभोमण्डलदीप = पु० नभोमण्डले दीप इव रात्रौ प्रकाशकत्वात्। चन्द्रे “नभोमण्डलदीपाय शिरोरत्राय धूर्जटेः। कलाभिर्बर्द्धमानाय नमश्चन्द्राय चारवे” ति० त०
नभोऽम्बुप = पुंस्त्री नभसि अम्बु पिवति पा–क। चातकखगे हेमच०। स्त्रियां जातित्वात् ङीष्।
नभोरजस् = न० नभसि रज इव दृष्ठ्यावरकत्वात्। अन्धकारे
नभोरूप = त्रि० नभसो रूपमारोपितं रूपमिव रूपमस्य। नीलवर्णयुक्ते पश्वादौ “अप्रत्यक्षेऽपि ह्याकाशे बालास्तलजलिनताद्यध्यस्यन्ति” शा० भा० “स्वनीखनीलिमा” नैष० उक्तेः गगनस्यारोपितरूपवत्त्वेन तत्तुल्यरूपत्वात् श्याममालिन्यवर्णयुक्तस्य तथात्वम्। “नभोरूपाः पार्जन्याः” यजु० २४। ६०। “नभोवर्णा नीलवर्णाः” वेददी०।
नभोरेणु = स्त्री नभसि रेणुरिव आवरकत्वात्। कुज्झटिकायां त्रिका०
नभोलय = पु० नभसि लोयते ली–अच् ७ त०। १ धूमे शब्दरत्ना० २ गगनलीनमात्रे त्रि०।
नभोवीथी = स्त्री नभसि वीथीव। आकाशस्थे वीथीरूपे पथि। “अथ च यावतार्द्धेन नभोवीथ्याः प्रथरति तं कालमयनभाचक्षते” भाग० ५। २२। ८।
नभौकस् = त्रि० नभ आकाशम् ओकः स्थानमस्य। जन्तरिक्षचरे खगादौ “अन्ये च विविधा जीवा जलस्थलनभौकसः। ग्रहर्क्षकेतवस्तारास्तडितःस्तनयित्रवः” भाग० २। ६। १५
नभ्य = त्रि० नाभये रथचक्रावयवभेदायहितम् तामर्हति वा गवादि० यत् “नाभिर्नभञ्च” पा० ग० नभादेशः। रथादिचक्रावयवहिते १ तैलादौ २ तदर्हे च “तदेतन्नभ्यं यदयमात्मा” शत० ब्रा० १४। ४। ३। २३ “तदेव रथचक्रदृष्टान्तेन स्पष्टयति नाभिश्चक्रापण्डिका नाभ्यै हितं नाभिमर्हतीति वा नभ्यम् तदेतल्लोके प्रसिद्धं चक्रपिण्डिकास्थानीयम्, किं तत् यदयमात्मा योऽयं शरीरम्” भा०। ३ अक्षे ४ रथचक्रानुगुणे अञ्जने च। “नभ्योऽक्षः नभ्यमञ्जनं रथचक्रनाभावेवेदम्” सि० कौ०। “नभ्योऽक्ष इति सच्छिद्रो रथाङ्गावयवो नाभिस्तदनुप्रविष्टः काष्ठविशेषोऽक्षः स च तदनुगुणत्वात् नाभये हितः। अञ्जनं तैलाभ्यङ्गः तदपि स्नेहमयत्वात् नाभये हितम्” मनो०। शब्दकल्पद्रुमे नभ्यशब्दस्य नभःप्रकृतिकत्वेन साधनमन्यार्थपरत्वकथनञ्च निर्मूलम्। “पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा मग्यस्थे अभिमन्त्रयतेऽत्र रमेथामिति” कात्या० श्रौ० ८। ४। ५ “नध्यमं चक्रस्य फलकं नभ्यम् “नाभिर्नभं चेति” प्रत्ययसंनियोगेन नाभेर्नभभावः नभ्ये तिष्ठतो नभ्यस्थे मध्यमे च फलके स्थापयेदित्यर्थः” कर्कः।
नभ्राज् = पु० न भ्राजति भ्राज–क्विप् नभ्राड्नपात्” इत्यादिना पा० नञः प्रकृतिभावः। मेघ हेमच० पदत्वे षत्वडत्वे
***