ध्रु = स्थैर्य्यै अक० सर्पणे सक० तु० कु० पर० अनिट्। ध्रुवति अध्रुवीत् दुध्राव। अयं ञीत् ध्रुतो वर्त्तते। “बुद्धिपूर्वं ध्रुवन्न त्वा राजकृत्वा पिता खडम्” भट्टिः गतौ “तुतोदगदया चारिं तं दुध्रावाद्रिणा कपिः” भट्टिः “न स स्वो दक्षो वरुण! ध्रुतिः” ऋ० ७। ८६। ६ “ध्रुतिः दैवगतिः” भा०
ध्रु = गतौ भ्वा० प० अनिट् निघण्टुः। ध्रुवति अध्रौषीत् दुध्नाव।
ध्रुव = त्रि० कु० ध्रु–अच्। १ स्थिरे २ निश्चिते हेमच० ३ सन्तते ४ शाश्वते ५ तर्के न० मेदि०। ६ गगने न० हेम०। ७ शङ्कौ ८ विष्णौ ९ हरे १० वटे ११ उत्तानपादनृपसुतभेदे पु० मेदि० १२ वसुभेदे विष्कुम्भादिषु १३ द्वादशे योगे पु० मेदि०। १४ स्थाणौ पु० अमरः १५ शरारिखगे पुंस्त्री० त्रिका०। १६ ध्रुवके (धुया)ख्याते पदार्थे पु० संगीतदा०। १७ आकाशस्थिते ताराद्वये च पु०। ते च सर्वेषां नक्षत्रादीनामाधारभूते उत्तरदक्षिणयोः स्थिते सू० सि० उक्ते यथा “मेरोरुभयतो मध्ये ध्रुवतारे नमःस्थिते। निरक्षदेशसंस्थानामुभये क्षितिजाश्रये” मू०। “मेरोरुभयतो दक्षिणोत्तराग्रयोराकाशस्थिते ध्रुवतारे दक्षिणोत्तरे क्रमेण मध्यआकाशमध्ये भवतः। निरक्षदेशसंस्थानां प्रागुक्तनगरस्थितमनुष्याणामुभये दक्षिणोत्तरे ध्रुवतारे क्षितिजाश्रये तद्भूगर्भक्षितिजवृत्तस्ये भवत इत्यर्थः।” रङ्गना०। अतएव तेष्यक्षांगाभावलम्बांशपरमत्वमिति वदन् मेरावक्षांशपर- मत्वमित्याह “अतो नाक्षोच्छ्रयस्तासु ध्रुवयोः क्षितिज स्थयोः। नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा” मू०। “तासूक्तनगरीषु। अत उभये क्षितिजाश्रये इति कारणात् अक्षोच्छ्रयो ध्रुवौच्च्यं न। तथाच क्षितिजाद्ध्रुवौच्च्यमक्षांशा इति तदभावात् तदभाव इति भावः। तुकारात् तन्नगरीषु ध्रुवयीः क्षितिजस्थयोः सतीर्लम्बांशा नवतिः शून्याक्षांशोननवतेर्लम्बांशत्वात्। खमव्याद्ध्रुवयोः क्षितिजस्य लम्बांशस्वरूपत्वाच्च मेरावक्षांशास्तथा नवतिः, ध्रुवस्य परमोच्चत्वात्। यथा निरक्षदेशेऽक्षांशाभावाल्लम्बांशाः परमास्तथा मेरावक्षांशपरमत्वाल्लब्धांशाभाब इत्यर्थसिद्धम्।” रङ्गनाथः। “निरक्षदेशक्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणोत्तरौ। तदाश्रितं खे जलवन्त्रवत् तथा भ्रमद्भचक्रं निजमस्तकोपरि। उदग्दिशं याति यथा यथा नरस्तथा तथा स्यान्नतमृक्षमण्डलम्। उदग् ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः। योजनसंख्याभांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः। भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तम्। सौम्यं ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकोर्द्ध्वे। सष्यापसव्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम्” सि० शि०। विष्णुवरेण उत्तानपादनृपपुत्रस्यैव तदधिष्ठातृत्वं तथाभूतपदलाभकथा च काशीख० “विष्णुरुवाच “अयि! बाल! विशालाक्ष! ध्रुव! ध्रुवमते!ऽनघ!। परिज्ञातो मया सम्यक् तव हृत्स्थो मनोरथः। अन्नाद् भवन्ति भूतानि वृष्टेरन्नसमुद्भषः। तद्वृष्टेः कारणं सूर्यः सूर्य्याधारो ध्रुवो विभो!। ज्योतिश्चक्रस्य सर्वस्य ग्रहर्क्षादेः समन्ततः। गगने भ्रमगो नित्यं त्वमाधारो भविष्यसि। मेधीभूतः स वै सर्वान् वायुपाशैर्नियन्त्रितान्। आकल्पं तत्पदे तिष्ठन् भ्वामयन् ज्योतिषाङ्गणान्। आराध्य श्रीमहादेवं पुरा पदमिदं मया। आसादि यत्तदेतत्ते तपसा प्रतिपादितम्। केचिच्चतुर्युगं यावत् केचिन्मन्वन्तरं ध्रुव!। तिष्ठति त्वन्तुवै कल्पं पदमेतत् प्रशास्यसि। मनुनापि न यत् प्रापि किमन्यैर्मानवैर्ध्रुव!। तत्पदं विहितं वत्स! शक्राद्यैरपि दुर्लमम्। अन्यान् वरान् प्रयच्छामि स्तवेनानेन तोषितः। सुनीतिरपि ते माता त्वत्समीपे भविष्यति” भाग० ५। २३ अ० शनिलोकपर्यन्तवर्णनान्ते “अथ तस्मात् परतस्त्रयोदश लक्षयोजनान्तरतोयत्तद्विष्णोः परमं पदमभिवन्दन्ति। यत्र महाभागवतो ध्रुव औत्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः। सहबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्य महानुभाव उपवर्णितः। स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनाम् अनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते। यथा मेधीस्तम्भ आक्रमणपशवः संयोजिता स्त्रिभिः सवनैर्यथा स्थानमण्डलानि चरन्ति। एवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवालम्ब्य वायुनोदीर्य्यमाणा आकल्पान्तं परितः क्रामन्ति। नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्त्तन्ते। एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न पतन्ति।” “सर्वे ध्रुवे निबद्धास्ते निबद्धा वातरश्मिभिः। एते वै भ्राम्यमाणास्ते यथायोगं वहन्ति वै। वायव्याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः। परिभ्रमन्ति तद्बद्धाश्चन्द्रसूर्यग्रहादिवि। यावत्तमनुपर्येति ध्रुवं वै ज्योतिषाङ्गणः। यथा नद्युदके नौस्तु उदकेन सहोह्यते। तथा देव गृहाणि स्युरुह्यन्ते वातरंहसा। तस्माद्यानि प्रगृह्यन्ते व्योम्नि देवग्रहा इति। यावन्त्यश्चैव ताराः स्युस्तावन्त्योऽस्य मरीचयः। सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति च। तैलपीडं यथा चक्रं भ्राम्यते भ्रामयन्ति वै। तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः। अलातचक्रवद्यान्ति वातचक्रेरितानि तु। यस्मात् प्रवहते तानि प्रवहस्तेन स स्मृतः। एवं ध्रुवे नियुक्तोऽसौ भ्रमते ज्योतिषाङ्गणः। एष तारामयः प्रोक्तः शिशुमारे ध्रुवो दिवि” मत्स्यपु० १२६ अ० वसुभेदश्च “धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः” भा० आ० ६६ अ०। औत्तानपादिकथा “प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु। द्वौ पुत्रौ सुमहावीर्य्यौ धर्मज्ञौ कथितौ तव। तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः। अभीष्टायामभूद्व्रह्मन्! पितुरत्यन्तवल्लमः। सुनीतिर्नाम या राज्ञस्तस्यामून्महिषी द्विज!। स नृपीऽप्रीतिमांस्तस्यां तस्याश्चाभूद्ध्रुवः सुतः” विष्णुपु० ११ अ०।
गानाङ्गे “ध्रुवाहि नाट्यस्य प्राणाः” तच्छास्त्रम्। १८ रोमावर्त्तभेदे “आवर्त्तसाम्यादावर्त्तो रोमसंस्थानमङ्गि- नाम्” ते च दशधा “द्वावुरस्यौ शिरस्यौ द्वौ द्वौ च रन्ध्रो परन्ध्रयोः। एको भाले ललाटे च दशावर्त्ता ध्रुवाः स्मृताः” शब्दार्थचि० “उग्रः पूर्वमथान्तको ध्रुवगणस्त्रीण्युत्तराणि स्वभूः ज्यो० उक्ते १९ उत्तरात्रयरोहिणीषु नक्षत्रेषु “मित्र ध्रुवक्षिप्रभे” मु० चि०। “ध्रुवगुरुकरमूलापौष्णभान्यर्कवारे” ज्यो० त०। २० नासाग्रभागे “अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते। विष्णोः पदानि भ्रूमध्यं नेत्रयोर्मातृमण्डलम्” काशीख० ४१ अ० “अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च। आसन्नमृत्युर्नोपश्येत् चतुर्थं मातृमण्डलम्” तत्रैव। तत्र वितर्क उत्प्रेक्षा तत्र “ध्रुवं स नीलोत्पलपत्र धारया शमीलतां छेत्तुमृषिर्व्यवस्यति” शकु०। स्थिरे “ध्रुवमपाये” पा०। “अपाये यदुदासीनं चलं वा यदि वाऽचलम्। ध्रुवमेवातदावेशात्” हरिका० निश्चिते “यो ध्रुवाणि परित्यज्य अध्रुवाणि विचिन्तयेत्। ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च” हितो०। विष्णौ “व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः” विष्णुस०। २१ यज्ञिये ग्रहपात्रभेदे पु०। “ततो ग्रहग्रहणमाध्रुवात्” कात्या० श्रौ० ७। ५। १७ “आध्रुवग्रहग्रहणात्” कर्कः। २२ ग्रहनक्षत्राद्यानयनोपयोगिनि अङ्कभेदे तत्र नक्षत्रध्रुवः सू० सि० उक्तः खगोलशब्दे २४२३ पृ० दर्शितः। संक्षेपतस्तु सि० शि० प्रमिताक्षरोक्तः २४२५ पृ० दर्शितः। ग्रहध्रुवानयनन्तु “कल्पजचक्रहतास्तु गताव्दाः कल्पसमाविहृता भगणाद्याः। स्युध्रुर्वका दिनकृद्भगणान्ते पानमृदूच्चचलोच्चखगानाम्” सू० सि०। अत्र स्वार्थे क। ध्रुवनक्षत्रे “हुत्वोत्थायोपनिष्क्रम्य ध्रुवं दर्शयति” गो० सू० “ध्रुवं नक्षत्रविशेषं दर्शयति पतिः” सं० त० रघु०। “शरत्प्रससन्नैर्ज्योतिर्भिः विभावर्य इव ध्रुवम्” रघुः। “स्फुटतरमुपरिष्टादल्पमूर्त्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत्” माघः। २३ आवश्यके धृतिहोमशब्दे दर्शित गोभिलवाक्ये “ध्रुवा आहुतीर्जुहोति”। “अष्टकामाघ्यभ्युदयास्तीर्थपात्रोपत्तयः। पितॄणामतिरेकोऽयं मासिकान्नात् ध्रुवः स्मृतः” देवीपु० “मासिकान्नात् अमावस्याश्राद्धादतिरेकः अष्टकादिश्राद्धगणो ध्रुव आवश्यकः” श्रा० त० रघु०। आवश्यकत्वञ्च अवश्यकर्तव्यत्वं तेनाकरणे प्रत्यवायजनकत्वात् नित्यत्वमिति फलितम्। सन्तते निश्चिते “जातस्य हि ध्रुबोमृत्युर्ध्रुवं जन्म मृतस्य च” गीता “यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः” मनुः स्थिरे “ध्रुवोऽसि पृथिवीं दृंह ध्रुवक्षिदसि” यजु० ५। १३ “ध्रुवे स्थिरे यज्ञे क्षीयति निवसति इति ध्रुवक्षित्” वेददी० २४ सोमभेदे “उपयामगृहीतोऽसि ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तमः” यजु० ७। २५ “हे सोम! त्वमुपयामेन पात्रेण गृहीतोऽसि ध्रुवनामकोऽसि कीदृशस्त्वम् ध्रुवा स्थिरा क्षितिर्निवासो यस्य स ध्रुवक्षितिः” वेददी०। २५ शकुन्यादि करश्चतुष्के न० “ध्रुवाणि शकुनिर्नागं तृतीयं च चतुष्वदम्। किंस्तुघ्नं च चतुर्द्दश्याः कृष्णायाश्चापरार्द्धतः” सू० सि०।
ध्रुवक = पु० ध्रुव–क्वुन् स्वार्थे को वा। १ ध्रुवशब्दार्थे २ गीताङ्गविशेषे स चोक्तः सङ्गीतदामोदरे “उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः। कनिष्ठश्च चतुर्भिः स्याद् ध्रुवकोऽयं मयोदितः। उक्तं द्विखण्डमुद्ग्राहे द्विखण्डे ध्रुवके मतम्। ततो द्विखण्डमाभोगे तालमानरसैः सहः। आभोगे कविनाम स्यात् तथा नायकनाम च। उद्ग्राहं प्रथमं गीत्वा ध्रुवं गायेत् ततःपरम्। ततोऽन्तरा ध्रुवस्तस्मादाभोगध्रुवकौ ततः। उद्ग्राहः प्रथमः पादः कथितः पूर्वसूरिभिः। गीत्वा पूर्वपदं न्यासो यत्र स ध्रुवको मतः। यत्रैव कविनाम स्यात् स आभोग इतीरितः। ध्नुवकादिषु सर्वेषु भवेदेवं विधिः क्रमः”। स तु षोडशधा यथा “जयन्तो शेखरोत्साहौ मधुरो निर्मलस्तथा। कुन्तलः कमलश्चैव सानन्दश्चन्द्रशेखरः। सुखदः कुमुदो जायी कन्दर्पो जयमण्डलः। तिलकोललितश्चेति ध्रुवकाः षोडश स्मृताः। एकादशाक्षरपदादेकैकाक्षरवर्द्धितैः। खण्डैर्ध्रुवाः षोडश स्युः षड्विंशत्यक्षरावधि। द्विगुणैरंक्षरैरेव पदमेकमिहेष्यते। उद्ग्राहध्रुवकामोगैरित्थं षट्पदनिर्णयः। पञ्चपादे तु ध्रुवके पदेनैकेन तद्ध्रुवः। चतुष्पादे तु ध्रुवके पृथङ् नास्त्येव तद्ध्रुवः” इति सङ्गीतदा०। ध्रुवशब्दार्थे ध्रुवशब्ददर्शिते ग्रहाणां स्पष्टतोपयोगिनि ३ अङ्कभेदे खगोलशब्दे २४२३। २५ पृ० दृश्यम् ध्रुवशब्दे सू० सि० वाक्यमुक्तम्। स्त्रियां क्षिपका० कापि न अत इत्त्वम्। ततः पिच्छा० अस्त्यर्थे इलच्। ध्रुवकिल तद्युक्ते त्रि०। ततोऽपत्यादौ स्त्रीभ्योटकं वाधित्वा बाह्वा० इञ्। ध्रौवकि ध्रुवकापत्ये पुंस्त्री ततः चतुरर्य्यां प्रेक्ष्या० इनि। ध्रुवकिन् ध्रुवकानिर्वृत्तादौ त्रि०।
ध्रुवकेतु = पु० केतुभेदे केतुशब्दे दृश्यम् “ध्रुवकेतुर्नियतगति प्रमाणाकृतिर्भवति विष्वक्” वृ० वं० ११ अ०।
ध्रुवरत्ना = स्त्री कुमारानुचरमातृभेदे “जयावती भालतिका ध्रुवरत्ना भयङ्करी” भा० श० ४७ अ० कुमारानुचरमातृकोक्तौ।
ध्रुवलोक = पु० ध्रुवाधिष्ठितोलोकः। सत्यलोकान्तर्गते ध्रुवस्थानभेदे।
ध्रुवसन्धि = पु० कुशवंश्ये हिरण्यनाभस्य पौत्रे “पुष्यो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत्” भाम० ९। १२। ५
ध्रुवस् = त्रि० कु० ध्रु–असुन्। ध्रुवनिवासे “यत्सेदथु ध्रुवसे न योनिम्” ऋ० ७। ७०। १ “ध्रुवसे ध्रुवाय निवावाय” भा०।
ध्रुवा = स्त्री कु० ध्रु–अच्। १ यज्ञपात्रभेदे “साधारण्यान्न ध्रुवायां स्यात्” जै० ३। ५। ६ सू०। “उपांशुयाजार्थं जुहूतो यत् ध्रुवायां शिष्टं तच्छेषभूतम्” भा० “अवत्तत्वाच्च जुह्वां तस्य च होमसंयोगात्” ७ जै० “ध्रुवायां तस्य नास्ति शेषः” भाष्यम्। ध्रुवा च जुहूतो भिन्ना “तस्येयमेव जुहूरियमुपभृदात्मैव ध्रुवा आत्मन एवेमानि सर्वाण्यङ्गानि प्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति। प्राण एव स्रुवः। सोऽयं प्राणः सर्वाण्यङ्गान्यनुसञ्चरति तस्मादुस्रवः सर्वा अनु स्रुचः सञ्चरति। तस्यासावेव द्यौर्जुहूः। अयेदमन्तरिक्षमुपभृदियमेव ध्रुवा तद्वा अस्या एवेमे सर्वे लोकाः प्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति” शत० ब्रा० १। ३। २। २ “अथ जुहूपभृद्ध्रुवास्वेतस्याज्यस्य स्रुवेण ग्रहणं विधित्सुस्तत्समुदायस्य पुरुषावयवकल्पनया स्तुत्यर्थं तत्साध्यस्य यज्ञस्य पुरुषतादात्म्यमाह तादृगवयवकॢप्तिमभिनयेन दर्शयति। या जुहूः सेयमर्य दक्षिणो बाहुः योपभृत् सेयं वामबाहुः ध्रुःवा आत्मा देहमध्वः। तस्मादु ध्रुवास्यस्याज्यस्य सर्वयागसाधारण्यम्” मा०। अत्र जुहूतो ध्रुवाया भिन्नत्वं स्पष्टमवगम्यते “ध्रुवालक्षणमाह आपस्तम्बः “स्वादिरः स्रुवः पर्णमयी जुहूराश्वत्थ्युपभृछैकङ्कती ध्रुवा” मानवे “खादिरं स्फ्यस्रुवं पालाशी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवा”। काठके अरत्निमात्री स्रुगग्निहोत्रहवणी पालाशी सामान्यतया निर्वपणमितरासाम् बाहुमात्राः स्रुग्दण्डाः प्रहस्तमात्राणि प्रसवनान्यर्थपरिमाणानि पात्राणि पालाशी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवा शमीभूर्जमथ्यो वा त्वक्तोबिला हंसमुख्यो भवन्तीति” कान्या० श्रौ० १। ३। ३५ कर्कस्तु “ध्रुवा तु वैकङ्कती भवति वैकङ्कतानि पत्राणीत्यनेनैव अपवादाभावात् होमसा- वनत्वाच्च तया हि समिष्टयजुर्हूयते “तिष्ठन् ध्रुवया समिष्टयजुर्जुहोतीति” शाखान्तरश्रुतेः अवएव मैत्रकठापस्तम्बसूत्रेषु “वैकङ्कती ध्रुवेति” पठ्यते तेषां हि वैकङ्कतानि पत्राणीति सामान्यवचनं नास्ति” कर्क०। अतः कोषान्तरे अस्य जुह्वर्थकताकथनं प्रामादिकमेव। ३ मूर्वायां ४ आढ्यां ५ शालपर्ण्यां (धुया) ख्याते ६ गीतिभेदे च मेदि०। ७ साध्व्यां स्त्रियां शब्दर०।
ध्रुवावर्त्त = पु० ध्रुव संज्ञक आवर्त्तः रोमसंस्थानभेदः। ध्रुवशब्दोक्तः। अश्वानां रोमसंस्थानभेदे तस्य स्थानविशेषेण फलं वृ० सं० ६६ अ० उक्तं यथा “अश्रुपात हनुगण्डहृद्गल प्रोथ शङ्खकटिवस्ति जानुनि। मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणेषु चाशुभाः। ये प्रपाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः। ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः। तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्त्तः। रन्ध्रोपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ”।
ध्रुवाश्व = पु० वृहदश्वभेदे मत्स्यपु०।
ध्रुवि = त्रि० कु० ध्रु–इन्। १ ध्रुवेस्थिरे “शं नः पर्वताः ध्रुवयो भवन्तु” ऋ०। ३५। ८
ध्रेक = उत्साहे शब्दे च भ्वा० आत्म० अक० सेट्। ध्रेकते अध्रेकिष्ट। दिध्रेके ऋदित् चङि अदिध्रेकत् त।
ध्रै = तृप्तौ भ्वा० पर० अक० अनिट्। ध्रायति अध्रासीत्। दध्रौ गतौ तु ध्रधातौ दृश्यः।
ध्रौव = त्रि० ध्रुवायां गृहीतम् अण्। ध्रुवाया गृहीते आज्यादौ “तस्मात् साधारणं धौवमाज्यमिति “यज्ञाय गृह्यते यत् ध्रुवायामाज्यम्” श्रुतेः जै० ३। ५। ६ सू० भाष्यम्। “क्व भूतलं क्व च ध्रौवं स्थानं यत् प्राप्तवान् ध्रुवः” मार्क० पु०। ०२ आह्वायाम् ३ ध्रुवकायां स्त्री शब्दार्थचि०।
ध्रौव्य = न० ध्रुवस्य मावः ष्यञ्। १ स्थिरत्वे “ध्रौव्यगत्यर्थेत्यादि” मुग्ध०। “तत्कारणयोरविद्याकामयोश्चलत्वात् कृतक्षयध्रौव्योपपत्तिः” वृ० उ० भा०। स्वार्थे व्राह्म० ष्यञ्। २ स्थिरे त्रि० “ध्रौव्ये दशरात्रावरार्द्धे” सांख्यश्रौ० २। १६। १। ध्रुवाय हितम् ष्यञ्। ३ ध्रुवस्थानप्रापके त्रि० “स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम्। श्रुत्वैतत् (ध्रुवचरितम्) प्रयतोऽभीक्ष्णमच्युतप्रियचेष्टितम्” भा० ४। १२। ३७।
ध्वंस = पु० ध्वन्स–भावे घञ्। विनाशे अभावभेदे। “जन्याभावत्वं ध्वंसत्वमिति” मुक्तावली। जन्यत्वस्य प्रायण दुर्ज्ञेयत्वात् अभावत्वव्याप्यः अखण्डोपाधिरिति नव्यनैयायिकाः। सत्कार्य्यवादिमते तिरोभाव एव ध्वंस इति भेदः। “ध्रुवं ध्वंसो भावी जलनिधिमहीशैलसरिताम्” “तन्तूनां पक्ष्मणां लोम्नां स्याद् ध्वंसश्च विनाश्रयात्” कामन्दकी०
ध्वंसकला = अव्य० ध्वंसं कलयति कलि–डा ऊर्य्या०। हिंसायां गणर० टी०। ध्वंसकलाकृत्य हिंसित्वेत्यर्थः।
ध्वंसन = न० ध्वन्स–भावे ल्युट्। १ नाशे ध्वन्स–णिच्–ल्यु। २ ध्वंसकारके त्रि० “माहेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः” भा० उ० १५६ भावे ल्युट्। ३ ध्वंसकरणे “कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः” गीतगो०। ध्वन्स–भावे ल्युट्। ४ भ्रंसे ५ अधःपतने च।
ध्वंसिन् = त्रि० ध्वन्स–णिनि। नाशप्रतियोगिनि “जालान्तरगते सूर्य्यकरे ध्वंसी विलोक्यते। त्रसरेणुश्च स ज्ञेयः” वैद्यकप० ध्वंसीति त्रसरेणुविशेषणम् अतः शब्दकल्प० अस्य त्रसरेणुपरिमाणार्थतोक्तिः प्रामादिकी। ध्वन्स–णिच्णिनि। नाशकारके त्रि०। “क्रतुध्वंसी वृषध्वजः” अमरः।
ध्वज = गतौ भ्वा० पर० सक० सेट्। ध्वजति अध्वजीत् अध्वाजीत् दध्वाज अयमिदिदपि। धञ्जति अध्वञ्जीत् दध्वञ्ज ध्वञ्ज्यते।
ध्वज = पु० ध्वज–अच्। १ शौण्डिके (शुण्डिकोपकरणभेदे) २ मेढ्रे ३ चिह्ने ४ खट्वाङ्गे मेदि०। ५ गर्वे ६ दर्पे च शब्दर०। ७ पूर्वदिक्स्थे गृहे हेमच०। ८ चतुष्कोणकारे वंशदण्डोपरिस्थे वस्त्रखण्डभेदे च विधानपा० ९ पताकायां पु० न० अमरः। उक्तोभयवस्त्रयुक्ते १० दण्डभेदे च सामान्यतोऽस्य निर्माणप्रकारः युक्तिकल्पतरावुक्तो यथा “सेनाचिह्नं क्षितीशानां दण्डो ध्वज इति स्मृतः। सपताको निष्पताकः स ज्ञेयो द्विबिधो बुधैः। पताका सार्द्धदैर्घ्येण लम्बा तु पृथिवीभुजाम्। सपताकध्वजस्याग्रे तदा हस्तं परिन्यसेत्। जयहस्तोध्वजोनाम नैनं सामान्यमर्हति। वंशोऽथ जाङ्गलः शालः पालाशश्चाम्पकस्तथा। नैपो नैम्बोऽथ वा दण्डस्तथा वैराजवारणः। अबद्धादिकसंज्ञानां वर्णरूपप्रकाशितः। सर्षेपाञ्चैव वंशस्तु दण्डः सम्पत्तिकारकः। अ क च ट त प यशाः। प्रतापाय पताकास्तु अष्टावेव प्रकाशिताः। पञ्चहस्तायता हस्तपरिणाहा जयाभिधाः। जया ५ च विजया ६ भीमा ७ चपला ८ वैजयन्तिका ९। दीर्घा १० विशाला ११ लीला १२ च ज्ञेया हस्तैकवृद्धितः। परिणाहे पादवृद्धिरथ वर्णस्य निर्णयः। रक्तः श्वेतोऽरुणः तीतश्चित्रोनीलोऽथ कर्तुरः। कृष्णश्चेति पताकानां वर्णरूपः प्रकाशितः। अबद्धादिकसंज्ञानामष्टानामष्टकत्रयम्। कलसोदर्पणश्चन्द्रः पद्मं कोषो यथाक्रमम्। ब्रह्मक्षत्रिय विटशूद्रजातीनां संप्रकाशितः। गजादियुक्ता मा प्रोक्ता जयन्ती सर्वमङ्गला। गजो हंसादिसंयुक्तो राज्ञां सैवाष्टमङ्गला। हंसः केकी शुकश्चाषो व्रह्मादीनां यथाक्रमम्। चामरादिसमायुक्ता सा ज्ञेया सर्वबुद्धिदा। चामरश्चाषपक्ष्माणि चित्रवस्त्रं तथा सितम्। चतुर्णां वेदनयनपक्षेन्दुगणितक्रमात्। तदग्रे यदि विन्यस्तं पताका द्वितीया भवेत्। इयं हि सर्वभोगदा षताका चक्रवर्त्तिनः। तद्वर्णः पूर्ववज्ज्ञेयः प्रमाणं विधिबोधितम्। कनकं रजतं ताम्रं नानाधातुमयं क्रमात्। कुम्भादिकं प्रशंसन्ति पताकाग्रे महीभुजाम्। तत्रापि रत्नविन्यासो विधेयो राजतक्रमः। चतुर्भिर्मकरास्याद्यैर्युक्ता चेत् सर्वसिद्धिदा। तदा श्रेयस्करीनाम सा पताका विजायते। भकरोऽथ गजः सिंहो व्याघ्रो वाजी मृगः शुकः। शुकश्चेति समुद्दिष्टमादित्यादिदशाभुजाम्। इति प्रोक्तः पताकानां निर्णयः पृथिवीभुजाम्”।
देवादिप्रतिष्ठाङ्गमण्डपान्तर्गतध्वजमहाध्वजयोर्लक्षणादिकं कुण्डार्के उक्तं यथा “ध्वजान् द्विहस्तायतिकांश्च पञ्चहस्तान् सपीतारुणकृष्णनीलान्। श्वेतासितश्वेतसितान् दिगीशवाहान् वहेत् दिक्करवंशशीर्षे” सू०। “ध्वजान् द्विहस्तमितायामान् पञ्चहस्तदीर्घान् पीतारुणकृष्णनीलश्वेतकृणश्वेतश्वेतान् गैरिकादिलिखितदिक्प्रालवाहनान् दशहस्तवंशमस्तके योजितान् “हस्तद्वयनिखातांश्च ध्वजांस्ता अपि पूर्वतः” इति वक्ष्यमाणत्वात्। प्राच्यादितः वहेद्धारयेदिति” व्याख्या। प्रतिष्ठासारसंग्रहे “पोतरक्तादिवर्णाश्च पञ्चहस्ताध्वजाः स्मृताः। द्विपञ्चहर्स्तर्दण्डस्ते वंशजैः संयुता मताः” दति। क्रियासारे “मातङ्गवस्तमहिषान् सिंहमत्स्यैण वाजिनः। वृषमं च यथान्याय ध्वजमध्ये क्रमाल्लिखेत्” पञ्चमांशं निखनेदिति। अकरणे दोषः पञ्चरात्रे “चिन्तयन्त्यसुरश्रेष्ठा ध्वजहीनं सुरालयम्। ध्वजेन रहितं व्रह्ममण्डपं तु वृथा भवेत्। पूजाय गादिकं सर्वं जपाद्य यत्कृतं बुधैरिति” ध्वजारोपणफलं तत्रैव “यं कृत्वा पुरुषः सम्यक् समस्तफलमाप्नुयादिति”। अथ पताकानिवेशनं महाध्वजानिवेशनं च नवमकुण्डपताका निवेशन तत्रीक्तं यथा लोकेशवर्णस्त्रयुताः पताकाः शैलेन्दुदैर्घ्यायतिकाश्च मध्ये। चित्रं ध्वजं दिक्करदैर्घ्यवंशत्रिदोस्ततं प्रान्तगकिङ्किणीकम्। श्वेतां च नवमी पूर्वेशानयोर्मध्यतो बुधः। विन्यसेत्तु पताकां च ध्वजांस्ता अपि पूर्वतः” सू० “लोकेशानां लोकपालानां ये वर्णाः पीतादयः पूर्वश्लोकोक्ताः गैरिकादिलिखितवज्रशक्तिदण्डखडगपाशाङ्कुशगदात्रिशूलानि तैर्युताः सप्तहस्तदीर्घा एकहस्तविस्तृताः पताका दशहस्तवंशशीर्षगाः। चित्रं ध्वजं त्रिहस्तविस्तृतं प्रान्ते वर्त्तमानकिङ्किणीकं शीर्षे सचामरं दशहस्तदैर्घ्य वंशञ्च तादृशं तं मध्ये विन्यसेत्। पूर्वादितः पताकाश्च विन्यसेदित्युत्तरश्लोकेनान्वयः। नवमीं पताकां पूर्वशानयोर्मध्ये श्वेतां तादृशीमेवाचार्य्यकुण्डे विन्यमेत् ध्वजांस्ता अपि पताकाश्च पूर्वादिक्रमेण भूमौ पञ्चांशरोपणेन विन्यसेदिति”। “हयशीर्षपञ्चरात्रम्। “ध्वजवंशः प्रकर्त्तव्यो निर्व्रणः सगुणो दृढः। तदूर्द्ध्वं तान्त्रजं चक्रं सूक्ष्मं कुर्य्याद्द्विजोत्तमः। प्रासादस्य च विस्तारो मानं दण्डस्य कीर्त्तितम्। ध्वजयष्टिर्देवगृहे ऐशान्यां दिशि देशिकैः। स्थापनीयाथ वायव्ये साम्प्रतं ध्वजमुच्यते। पट्टकार्पासक्षौमाद्यैर्ध्वजं कुर्य्यात् सुशोभनम्। एकवर्णं विचित्रं वा घण्टाचामरभूषितम्। किङ्किणीजालकोपेतं बर्हिपत्रविभूषितम्। शुक्लादिवर्णैर्विप्रादिक्रमाद्वा कारयेत् ध्वजम्। दण्डाग्राद्धरणीं यावत् हस्तैकं विस्तरेण तु। महाध्वजन्तु विख्यातं सर्वकामप्रदं शुभम्। ध्वतेन रहितो विप्र! प्रासादस्तु वृथा भवेत्। पूजाहोमादिकं सर्वं जपाद्यं यत् कृतं नरैः”। शिवसर्वस्वे “देवेभ्यश्च गृहं दद्याद्वाहनैरुपशोभितम्। तुरङ्गमेण सूर्य्यस्य, हरस्य वृषचिह्नितम्। विष्णवे गरुडाङ्कन्तु, दुर्गायै सिंहचिह्नितम्। कार्य्यं ध्वजपताकाश्च अन्यथा न कथञ्चन”। वह्नि० पु० ५९ अ०। “प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्त्तितम्। शिखरार्द्धेन वा कुर्य्यात् तृतीयार्द्धेन वा पुनः। द्वारशाखाद्विगुणितं दण्डम् वा परिकल्पयेत्। ध्वजयष्टिर्देवगृहे ऐशान्यां वायबेऽथवा। नानावर्णं ध्वजं कुर्य्याद्विचित्रं चैकवर्णकम्। घण्टाचामरकिङ्किण्या मूषितं पापनाशनम्। दण्डाग्राद्धरणीं यावत् हस्तैकं विस्तरेण तु”। इन्द्रध्वजशबदे तल्लक्षणं दृश्यम्। हेमचन्द्रे पूर्वदिग्गृहे इत्यर्थोक्तिः ध्वजसंज्ञकस्यायस्य पर्वदिकस्थितत्वाभिप्रायेण” गृहशब्दे २६३५ पृ० “ध्वजी थमो हरिः श्व गौः खरेभौ वायसोऽष्टमः। पूर्वादीनान्तु काष्ठानां ध्वजादीनामवस्थितिः इत्युक्तेः ध्वजरूपायस्य पूर्वदिक् स्थत्वस्य कीर्त्तनात्। वस्तुतः ध्वजशब्द आयविशेषार्थे एव परिभाषितो न तु पूर्वदिग्गृहे। तत्र शुण्डिकोपकरणे “दशशूनासमं चक्रं दशचक्रसमो ध्वजः” मनुः। “शूनादिशब्दैस्तद्वानुपलक्ष्यते दशशूनावत्सु यावान् दोषस्तावानेकस्मिन् चक्रवति तैलिके। यावान् दशसु तैलिकेषु दोषः तावानेकध्वजवति शौण्डिके” कुल्लू०। चिह्ने “तं बव्रे वाहनं विष्णुर्गरुत्त्वन्तं महाबलम्। ध्वजं चक्रे च भगवानुपरि स्थास्यतीति तम्” भा० आ० ३३ अ०। “श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च। कूर्मो नीलोत्पलं शङ्खःफणी सिंहोऽर्हता ध्वजाः” हेमच०। “शरेण शक्रस्य महाशनिध्वजम्” रघुः “ब्रह्महा द्वादशसमाः कुटीं कृत्वा वने वसेत्। भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम्” मनुः। वृषध्वजः मकरध्वजः धूमध्वज इत्यादि ततो वाह्वा० इञ्। ध्वाजि तत्सम्बन्धिनि त्रि०।
ध्वजगृह = पु० ध्वजाययुक्तं गृहं शा० त०। ध्वजरूपाययुक्ते गृहे “ययौ स्वमेव भवनं यत्र ध्वजगृहं महत्” हरिवं० १७५ अ०
ध्वजग्रीव = पु० ध्वज इव ग्रीवास्य। राक्षसभेदे रामा० सु० १२३ स०
ध्वजद्रुम = पुः ध्वज इव दीर्घकाण्डो द्रुमः। तालवृक्षे राजनि० ध्वजवृक्षादयोऽप्यत्र।
ध्वजप्रहरण = पु० ध्वजं प्रहरति प्र + हृ–र्ल्यु। वायौ शब्दर०
ध्वजभङ्ग = पु० ध्वजस्य मेढ्रस्य भङ्गः। चरकोक्ते क्लीवताप्रयों जके रोगभेदे यथा “अत्यम्ललबणक्षारविरुद्धाशनभोजनात्। तथाम्बुपानाद्विषमात् पिष्ठान्नगुरुभोजनात्। दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात्। कल्याणीगमनाच्चापि वियोनिगमनादपि। दीर्घरोम्णीं चिरोत्सृष्टां तथैव च परिस्रुताम्। ईदृशीं प्रमदां मोहात् यदि गच्छति मानवः। चतुःपदाभिगमनाच्छेफसश्चाभिघाततः। अधावनाच्च मेढ्रस्य शस्त्रदन्तनखक्षतात्। कष्ठप्रहारनिष्पेषशूकानाञ्च निषेवणात्। रेतसश्च प्रतीघातान् ध्वजभङ्गः प्रवर्त्तते। चरकः। तस्य चिह्नं यथा “शुक्रेऽचिरात् प्रसिच्येत शुक्रं शोणितमेव वा। तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूपायतीव च” इति वाभटः।
ध्वजवत् = त्रि० ध्वजश्चिह्नमस्त्यस्य मतुप् मस्य वः। चिह्नयुक्ते “शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन्” “कृत्वा शवशिरो ध्वजमिति” मनूक्तेः “हतब्राह्मणकपालरूपचिह्नवान् इत्यर्थः” मिता०। स्त्रियां ङीप्। सा च २ रुचिमेधसः कन्यायाम् “अत्र ध्वजवती नाम कुमारी रुचिमेधसः” मा० उ० १०९ अ०। ध्वजः शुण्डिकोपकरणभेदः अस्त्यस्य भतुप् मस्य वः। २ शौण्डिके “शूनावतां ध्वजवतां वेशेनैव च जीवताम्” मनुः
ध्वजारोपण = न० ६ त०। ध्वजस्य देवप्रासादादौ आरोपणे तद्विधिः अग्निपु० १०३ अ० यथा “चूलके ध्वजदण्डे च ध्वजे देवकूले तथा। प्रतिष्ठा च यथोद्दिष्टा तथा स्कन्द! वदामि ते। तडागार्द्धप्रवेशाद्वा यद्वा सर्वार्द्धवेशनात्। ऐष्टके दारुजः शूलः शैलजे धाम्नि शैलजः। वैष्णवादौ च चक्राढ्यः कुम्भः स्यान्मूर्त्तिमानवः। स च त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः। ईशशूलः समाख्यातो मूर्ध्नि लिङ्गसमन्वितः। वीजपूरकयुक्तो वा शिवशास्त्रेषु तद्बिधः। चित्रो ध्वजश्च जङ्घातो यथा जङ्गार्द्धतो भवेत्। भवेद्वा दण्डमानस्तु यदि वा तद्यदृच्छया। महाध्वजः समाख्यातो यस्तु पीठस्य वै वृकः। शक्रै १४ र्ग्रहै ९ रसै ६ र्वापि हस्तैर्दण्डस्तु सम्पितः। उत्तमादिक्रमेणैव विज्ञेयः सूरिभिस्ततः। वंशजः शालजादिर्वा स दण्डः सर्वकामदः” इत्युपक्रमे तत्र दर्शितः
ध्वजाहृत = पु० ध्वजेन तदुपलक्षितसंग्रामेणाहृतः। दासभेदे “ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिनौ। पैतृकोदण्डदासश्च सप्तैते दासयोनयः” मनुः। “ध्वजाहृतः ध्वजे संग्रामे स्वामिसकाशात् जितः” कुल्लू० २ अविभाज्यधनभेदे न० “संग्रामादाहृतं यत्तु विजित्य द्विषतां कुलम्। स्वाम्यर्थं जीवितं त्यक्त्वा तद् ध्वजाहृतमुच्यते” दायभा० कात्यायनः। “ध्वजाहृतं भवेद्यत्तुविभाज्यं नैव तद्भवेत्” स्मृतिः।
ध्वजिन् = त्रि० ध्वजोऽस्त्यस्य इनि। १ ध्वजयुक्ते “सुरापाना पनुत्त्यर्थं बालवासा जटी ध्वजी” मनुः “उलूकपक्षि ध्वजिभिर्देवतायनैर्वृतम्” भा० शा० १४१ अ० स्त्रियां ङीप् सा च २ सेनायाम् अमरः। “मुखैः प्रवृद्धध्वजिनी रजांसिः” रघुः। ३ पर्वते ४ रथे ५ सर्पे ६ अश्वे ७ व्राह्मणै पु० मेदि०। ८ मयूरे राजनि०। १० शुण्डिके हेमच०। “प्रतिग्रहे शूनी चक्री ध्वजी वेश्या नराधिपः” मनुः।
ध्वजोत्थान = न० इन्द्रध्वजस्य उत्थानम्। १ शक्रध्वजोत्थाने तदुपलक्षिते २ उत्सवे च त्रिका०। इन्द्रध्वजशब्दे ९४७ पृ० दृश्यम्।
ध्वण = ध्वाने भ्वा० अक० पर० सेट्। ध्वणति अध्वाणीत् अध्वणीत् दध्वाण।
ध्वन = रवे भ्वा० पर० अक० सेट्। ध्वनति अध्वानीत् अध्वनीत् दध्वान। मित् वा घटादि ध्वनयति ध्वानयति।
ध्वन = शब्दे अद० चु० उभ० सक० सेट्। ध्वनयति अदिध्वनत् अध्वनयीत्। शब्द इह अव्यक्तध्वनिरूपः। मृदङ्गः ध्वनयति” इत्यादि।
ध्वन = पु० चु० “ध्वन” पा० एरच् भावे अच्। अव्यक्तशब्दे
ध्वनन = न० ध्वन्यते व्यज्यतेऽर्थोऽनेन घटा० ध्वनि–करणे ल्युट्। १ अलङ्कारोक्ते वाच्यलक्ष्यभिन्नार्थस्य बोधनात्मके व्यञ्जनावृत्तिरूपे शब्दनिष्ठे व्यापारभेदे “विरतास्वभिधाद्यासु ययार्थो बोध्यतेऽपरः। सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च”। “वृत्तिर्व्यञ्जनध्वननगमनप्रत्यायनादि व्यपदेशविषया व्यञ्जना नाम” सा० द०। भावे ल्युट्। २ अव्यक्तशब्दकरणे “पापकं गन्धमाध्रायाक्षिस्पन्दने कर्ण ध्वनने च” आश्र० श्रौ० ३। ६। ८
ध्वनमोदिन् = पु० ध्वनेन ध्वानेन मोदयति मुद–णिच्णिनि। १ भ्रमरे शब्दरत्ना०। २ मधुकर्य्यां स्त्री ङीप्
ध्वनि = पु० ध्यन–इन्। १ मृदङ्गादिशब्दे “शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभबो ध्वनिः। कण्ठसंयोगजन्मानो वर्णाद्याः कादयो मताः” माषा०। शब्दविशेषस्य ध्वन्यात्मकता शब्दार्थरत्नेऽस्माभिर्व्यवस्थापिता यथा “स च शब्दः द्विविधः बुद्धिहेतुरबुद्धिहेतुश्च। तत्राबुद्धिहेतुर्म्मेथादिशब्दः बुद्धिहेतुश्च द्विविधः। स्वाभाविकः काल्पनिकश्च उभयत्रापि ध्वनेवरुपकारकत्वात् ध्वन्यात्मकता। तत्र स्वाभाविको वर्णविशेषानभिव्यञ्जको हसितरुदितादिरूपः प्राणिमात्रसाधारणः। काल्पनिकोऽपि त्रिविधः वाद्यादिशब्दः गीतिरूपः वर्णात्मकश्च। तत्र भेरीशब्दादिरूपोवाद्यरूपः माधवादिरागाभिव्यञ्जकनिषादादिस्वररूपो गीतिरूपः ध्वनिविशेषसहकृतकण्ठताल्वाद्यभिघातजन्यश्च वर्णात्मकः। “ध्वनिर्नाम यो दूरादाकर्णवतो वर्णविशेषमनधिगच्छतः कर्णपथमवतरति प्रत्यासीदतश्च तारत्वादिविशेषमवगमयतीति” शारीरकभाष्योक्तेस्तारत्वादिधीहेतुर्ध्वनिरित्यवसेयम्। जिह्वाया ईषदन्तरपाते वर्णानामनुत्पत्तेर्ध्वन्युपलम्भात् हसितरुदितादौ वर्णोत्पत्तिमन्तरेणैव तत्प्रतीतेश्च सर्वशब्दजनकता ध्वनेरवसीयते।” तद्भेदस्वरूपादिकं तत्रैव स्थानान्तरेऽस्याभिर्निर्णीतं यथा
“तस्य स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वं चिरचिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेरिति बिवेकः। तथा च वाक्यपदीये “स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते” इति। “स्थितिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते” इति च। स्थितिभेदे चिरचिरतरकालस्थितौ ध्वनिस्तु पूर्वलक्षितः। तस्य च स्फोटस्य नित्य तया ध्वनिगतह्रस्वदीर्घादिकालस्य तत्रोपचारः। प्रतिपादितञ्च तथैव वाक्यपदीये “स्फोटस्याभिन्नकालस्य ध्वनिकालानुपातिनः। स्वभावतस्तु नित्यत्वात् ह्रस्वदीर्घप्लुतादिषु। प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्य्यते”। शब्दस्य स्फोटस्य नित्यतया अभिन्नकालस्य ह्रस्वदीर्घादिषु प्राकृतध्वनेः कालः तारत्वादिधीहेतुरुपचर्य्यते इति तदर्थः। एवञ्च विलम्बितोच्चारणस्थले तचद्वर्णानां तद्वोथजनितसंस्काराणां वा बहुक्षणपर्य्यन्त स्थायित्वकल्पनामपेक्ष्य एकस्यैव शब्दस्यामिव्यक्त्यनन्तरं जायमानेन वैकृतेन ध्वनिना बहुकालस्थितिकल्पने लाधवमित्यपि द्रष्टव्यम्। भेरीशब्दादौ च ध्वन्यभिव्यक्त्यनन्तरं जायमानप्राकृतध्वनेर्बहुकालस्थायित्वदर्शनेन अत्रापि तथाकल्पनौचित्यात्। अतएव महाभाष्ये “एवं तर्हि स्फोटः शब्दोध्वनिः शब्दगुणैत्यादिना”ऽभिव्यक्त्युपकारकत्वेन ध्वनेः स्फोटरूपशब्दगुणत्वमभिहितमभिहितञ्च ध्वनेर्ह्रस्वदीर्थत्वेनापि भानम्। यथा “ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते। ह्रस्वोमहांश्च केषाञ्चित् स्वयं नैव स्वभावत” इति। न स्वभावतस्तद्रूपेण स्फोटोलक्ष्यतैत्यर्थः। ध्वनिविकारे च वायुसंयोगविशेषस्य हेतुत्वं तस्य बहुकालस्थायित्वे विलम्बितत्वम् अल्पकालस्थायित्वे द्रुतत्वमिति विवेकः। ३ उत्तमकाव्ये “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः” काव्यप्रका० “इदं काव्यं बुधैर्वैयाकरणैः प्रथानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः ततस्तन्मतानुसारिभिरन्यैरपि न्यम्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य” वृत्तिः। “इदमिति वाच्यादतिशयिनि वाच्यादधिकास्वाद्ये व्यङ्ग्ये सति इदं काव्य मुत्तमं तदेव च बुधैर्ध्वनिः कथित इत्यर्थः। ननु ध्वनि परिमाषा क्वापि केनापि न कृता तत्कथमलङ्कार शास्त्रे सा कृतेति आकाङ्क्षायां वैयाकरणरूपबुधसंवादं दर्शयन् व्याचष्टे बुधैः वैयाकरणैरिति एवञ्च सेयं कारिकास्थबुधपदव्याख्येत्यबधेयम्। अत्रायमर्थः अनेकवर्णात्मकस्य कलसादिपदस्य प्रत्यक्षं न सम्भवति आशुविनाशिनां क्रमिकाणां वर्णानां मेलकाभावेन तन्मेलात्मनः पदस्य ग्रहीतुमशक्यत्वात्। न च प्रत्येकवर्णानुभवजन्यसंस्कारैः सकलवर्णात्मनः पदस्य समूहालम्बनस्मृतिरेव नैयामिकमतसिद्धास्त्विति वाच्यं वर्णपदयोरेकदेशैकदेशिभावेन भिन्नत्वात् वर्णविषयसंस्कारैः पदस्मरणजननस्याशक्यत्वादित्यभिप्रायवद्भिर्वैयाकरणैः पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितेनानुभूयमानचरमवर्णेन श्रोत्रे व्यञ्जनाख्योघ्यापारोजन्यते तेनैव व्यापारेण नष्टवर्णघटितमपि पदं स्फीटपरिभाषितं श्रोत्रेण साक्षात् क्रियते इत्युच्यते। तदाह बुधैः वैयाकरणैरिति अर्थप्रत्यायकत्वादेकदेशित्वाच्च पदं वर्णापेक्षया प्रधानभूतं स्फोटसंज्ञकञ्च। तद्रूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य चान्त्यवर्णात्मन इत्यर्थः। अतस्तन्मतेऽपि चरमवर्णात्मनि शब्दे तेषां ध्वनिव्यवहारः आलङ्कारिकाणामपि काव्यात्मनि शब्दे ध्वनिव्यवहार इति शब्दे व्यवहारसाम्यान्मतानुसरणम्” महेश्वरः। ध्वनिभेदाश्च काव्यशब्दे २० २४। २५ पृ० दृश्याः। शब्दभेदध्वन्याद्युत्पत्तिप्रकारादिकं सारदाति० उक्तं यथा “सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः। शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निरोधिका। ततोऽर्द्धेन्दुस्ततो विन्दुस्तस्मादासीत् परा ततः। पश्यन्ती मध्यमा वाचां वैखरी ज्ञानजन्मभूः”। सा कुण्डलिनी शक्तिं प्रसूते। ततः शक्तेर्ध्वनिरासीत् ततस्तस्माद्ध्वनेर्नाद इत्यादि ज्ञेयम्। सत्वप्रविष्टा चित् शक्तिशब्दवाच्या परमाकाशावस्था सैव सत्वप्रविष्टा रजोऽनुविद्धा सती ध्वनिशब्दवाच्या अक्षरावस्था, सैव तमोऽनुविद्धा नादशब्दवाच्या अव्यक्तावस्था सैव तमःप्राचुर्य्यात् निरोधिकाशब्दवाच्या सैव सत्वप्राचुर्य्यात् अर्द्धेन्दुशब्दवाच्या तदुभयसंयोगाद्विन्दुशब्दवाच्यः सएव विन्दुः स्थानान्तरगतः पराख्यो भवति। तत्र परा मूलाधारे, पश्यन्ती स्वाधिष्ठाने, मध्यमा हृदये, वैखरी मुखे। तदुक्तं “सूक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रस्वरूपिणी। स्वयंप्रकाशा पश्यन्ती सुषुम्णामाश्रिता भवेत्। अश्रोत्रविषया तस्मादुद्गच्छत्यूर्द्ध्वगामिनी। ततः संकल्पमात्रात् स्याद्देवि! तत्रोर्द्ध्वगामिनी। सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी। सैवोरःकण्ठतालुस्था शिरोध्राणरदादिगा। जिह्वा- मूलोष्ठनिष्णाता सैव वर्णपरिग्रहा। शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी” पदार्था० राघवभट्टः। “ध्वनिभृता निभृताक्षरमुज्जगे” माघः।
ध्वनिकाव्य = न० कर्म०। उत्तमकाव्ये काव्यशब्दे २०२४ पृ० दृश्यम्
ध्वनिकृत् = पु० ध्वनिं तत्प्रतिपादकं ग्रन्थं करोति कृ–क्विप् तुक् ६ त०। अलङ्कारग्रन्थभेदकारके पण्डितभेदे “तदुक्तं ध्वनिकृता” सा० द०।
ध्वनिग्रह = पु० ध्वनिं ध्वन्यात्मकं शब्दं गृह्णात्यनेन ग्रहकरणे अप्। कर्णे श्रोत्रियेन्द्रिये त्रिका०।
ध्वनिनाला = स्त्री ध्वनेः ध्वन्यात्मकशब्दस्य नालेव। वेणौ १ वंशीमेदे २ काहलवाद्ये च मेदि०।
ध्वनिबोधक = पु० ध्वनिं बोधयति बुध–णिच्–ण्वुल्। रोहिषतृणे नैघण्टुप्रकाशिका।
ध्वनिविकार = पु० ६ त०। शोकभयादिना ध्वनेरन्यथाभावे १ काकौ हेमच०। २ विकृतध्वनौ च।
ध्वन्य = त्रि० घटादि० ध्वन–कर्मणि यत्। १ ध्वननीये व्यङ्ग्यार्थे ऋग्वेदप्रसिद्धे २ लक्ष्मणनृपस्यात्मजे पु० “उतत्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचोयतानाः” ऋ० ५। ३३। १० “ध्वन्यस्य तन्नामकस्य लक्ष्मण्यस्य लक्ष्मणनृपपुत्रस्य” भा०
ध्वन्स = गतौ सक० भ्रंशे नाशे अधःपतने च अक० भ्वा० आत्म० सेट्। ध्वसंते दध्वसे–दध्वंसे। ऌदत् अध्वसत्। उदित् ध्वंसित्वा ध्वस्त्वा। ध्वस्तः। ध्व सस्यातीतत्वाऽभावेऽपि तदुत्पत्त्यनुकूलव्यापारस्यं कारणविशेषसंयोगस्य अतीतत्वात् तथा व्यवहारः। वैयाकरणमते सर्वत्र “फलव्यापारयोर्धातुः” हर्य्युक्तेः फलव्यापारयोर्धात्वर्थत्वात् तयोश्च सामानाधिकरण्ये धातोरकर्मकत्वम् नाशस्य प्रतियोगितया कारणसमवधानस्य एकत्र घटादौ सत्त्वादकर्मकत्वम् “फलव्यापारयोरेकनिष्ठतायामकर्मकः” इति एतन्मते “आश्रये तु तिङः स्मृताः” हर्य्युक्तेः आश्रय रूपार्थस्य कर्त्तृत्वं तच्च निरुक्तव्यापाराश्रयत्वेन घटादावव्याहतमेव तिङर्थवर्त्तमानत्वादेः कारणसमवधानरूपव्यापारेऽन्वयसम्भवान्न काचिदनुपपत्तिः। नैयामिकमते नाशमात्रस्यैव धात्वर्थत्वेऽपि तदुत्पत्तौ लक्षणा उत्पत्तिश्च आद्यक्षणसम्बन्धस्तस्य चातीतत्वादिनैव ध्वस्तः ध्वंसते इत्यादि प्रयोगः। अस्य कर्त्तृत्वं प्रतियोगित्वं त नाशान्वयि तथा च वर्त्तमानाद्युत्पत्तिकनाशप्रतियोगी घटादिरिति बोधः। व्युत्पत्तिवैचित्र्याच्च उत्पत्ते र्नाश एवान्वयः न प्रतियोगिनि इति बोध्यम्। सां- ख्यादिसत्कार्यवादे नाशः तिरोहितावस्थेति भेदः। “तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्” प्राणा दध्वंसिरे गात्रं तस्तम्भे च प्रिये हते” भट्टिः। आर्षे क्वचित् प० “भूतो देवानामब्रीदुग्ररूपो ध्वंसेत्युच्चै स्त्रिःप्लुतेन स्वरेण” भा० आ० ७९ अ०। मालिन्यादिभावे च “कृशा विवर्णा मलिना पांशुध्वस्तशिरोरुहा” भा० व० ६४ अ० “रविजेन बुधे ध्वस्ते” वृ० सं० १७ अ०
ध्वसन् = त्रि० अन्तर्भूतण्यर्थे ध्वन्स–कनिन्। ध्वंसकारके। “तेन हैतेन ध्वसा द्वैतवनईजे” शत० व्रा० १३। ५। ४। ९ “ध्वसा पापध्वंसनः” मा०
ध्वसन = न० ध्वंसतेऽत्र धन्स बा० आधारे क्यु। ध्वंसनस्थाने “मायुं ध्वसनावधिश्रिताः” ऋ० १। १६४। २९
ध्वसन्ति = पु० ध्वन्स–झिच् किच्च। ऋग्वेदप्रसिद्धे ऋषिभेदे “याभिर्ध्वसन्तिं पुरुषन्तिमारतम्” ऋ० १। १२३। १६ “ध्वसन्ति मेतत्संज्ञं पुरुषन्तिमेतन्नामानं च ऋषिमारतम्” भा०
ध्वसिर = त्रि० ध्वन्स–किरच्। नाशप्रतियोगिनि “सं भूम्या अन्ता ध्वसिरा अदृक्षत” ऋ० ७। ८३। ३ “ध्वसिराः सैनिकैर्ध्वस्ताः” भा०।
ध्वस्त = त्रि० ध्वन्स–कर्त्तरि क्त। १ नाशप्रतियोगिनि अधः२ पतिते ३ च्युते गलिते च अमरः। “येन ध्वस्तमनो भुवा” सा० द०। ध्वन्सधातौ उदा०।
ध्वस्ति = स्त्री ध्वन्स–भावे क्तिन्। ध्वंसे नाशे। कर्माणि ध्वंसन्तेऽत्र आधारे क्तिन्। कर्मक्षयाधारे विद्याभेदे। “कर्मणां शुभदुष्टानां जायते फलसंक्षयः। ध्वंसोऽपक्वकषायत्वं यत्र सा ध्वस्तिरुच्यते” मार्कण्डेयपु०
ध्वस्मन = त्रि० अन्तर्भूतण्यर्थे ध्वन्स–बा० मनिन् किच्च। ध्वंसके “न ध्वस्मानस्तन्वी रेप आधुः” ऋ० ४। ६। ६ “ध्वस्मानो ध्वंसकाः” भा० भावे मनिन् कित्। २ ध्वंसे ध्वस्मन्वत्।
ध्वस्मन्वत् = त्रि० ध्वस्मा ध्वंसोऽस्त्यस्य मतुप्। १ ध्वंसवति “स त्वा ध्वस्मन्वदभ्येतु” ऋ० ७। ४। ९। २ उदके निघ०।
ध्वस्र = त्रि० ध्वन्स–रक्। १ नष्टे अन्तर्भूतण्यर्थे ध्वन्स–रक्। ध्वंसके “कस्य ध्वस्रा भवयः कस्य बा नराः” ऋ० १०। ४० ३। “ध्वस्रा ध्वंसकौ भवयः” भा० औस्थाने आच्। “ध्वस्रा अपिण्वन् युवतीरृतज्ञाः” ऋ० ४। १९। ७ “ध्वस्राः कुलध्वंसिका युवतीः” भा०। ३ राजभेदे पु० “ध्वस्रयोः पुरुमन्त्यो वा सहस्राणि” ऋ० ९। ५८। ३ “ध्वस्रः कश्चिद्राजा पुरुमन्तिश्च क्वश्चित्, तयोः। अत्रेतरेतयोगविव क्षया द्विवचनम्” भा०।
ध्वान = पु० ध्वन–भावे घञ्। १ शब्दे अमरः। “ध्वानेन वोपांशु वा पत्नीः संयाजयन्ति” आपस्तम्बसू०। पत्नीसंयाज प्रकारश्च कात्या० श्रौ० ३। ७। १ कण्डिकादौ दृश्यः।
ध्वानायन = पुंस्त्री ध्वनस्यर्षेर्गोत्रापत्यम् अश्वा० फञ्। ध्वनर्षिगोत्रापत्ये स्त्रियां ङीप्।
ध्वान्त = न० ध्वन–क्त। क्षुब्धस्वान्तेत्यादिना पा० अन्धकारे नि०। १ तमसि अमरः। अन्यत्र ध्वनित इत्येव शब्दयुक्ते। ध्वान्तमस्त्यस्य अच्। २ तमःप्रधाने नरकभेदे च शब्दार्थचि० ३ मरुद्भेदे धुनिशब्दे यजु० वाक्यं दृश्यम् “ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्” सूर्यनतिः।
ध्वान्तवित्त = पु० ध्वान्ते वित्तः प्रथितः। खद्योते शब्दरत्ना०
ध्वान्तशात्रव = पु० ध्वान्तस्यान्धकारस्य शात्रवः। १ सूर्ये शब्दार्ण० २ अग्नौ ३ चन्द्रे च शब्दार्थचि०। तद्रूपवर्णे ४ श्वेतवर्णे पु० शब्दच०। ध्वान्तारातिप्रभृतयोऽपि सूर्य्यादौ। “ध्वान्तारिं सर्वपापघ्नम्” सूर्यनतिः।
ध्वान्तोन्मेष = पु० ध्वान्ते उन्मिषति उद्–मिष अच्। स्वद्योते हारा०।
ध्वृ = कौटिन्ये भ्वा० पर० अक० अनिट्। ध्वरति अध्वार्षीत् दध्वार दध्वर्थ। “ध्वृषीष्ठा युधि मायाभिः” भट्टिः “कुटिलीकरणे सक० “भ्रातृव्यमेवैतया ध्वरति” तैत्ति० स० २। ५। ६
ध्व्रण = शब्दे ध्रणवत् सर्वम्। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य सङ्कलिते वाचस्पत्ये धकारादिशब्दार्थसङ्कलनम।
***