धूर = बधे गतौ च दि० आ० सक० पेट्। धूर्य्यते अधूरिष्ट। दुधूरे। ईदित् धूर्त्तः।
धूर्जटि = पु० जट–संघाते इन् धुरस्त्रैलोक्यचिन्ताया जटिः सङ्घातोऽत्र। शिवे अमरः भा० द्रो० २०३ ऋ० तु अन्यथा तन्निरुक्तिर्यथा “धूम्ररूपञ्च यत्तस्य धूर्जटिस्तेन चोच्यते” अस्मिन् पक्षे धूम्रवर्णस्य जटिः सङ्घातोऽत्र पृषो०।
धूर्त्त = पु० धूर्व–धूर–वा क्त उणा० तन् वा। १ धूस्तूरवृक्षे (धूतुरा) अमरः २ चोरकवृक्षे राजनि०। ३ लौहकिट्टे न० हेमच०। ४ विड्लबणे न० राजनि० भावे क्त। ५ हिंसने तदस्यास्ति अर्श० अच् उणा० तन् वा। ६ वञ्चके ७ मायाविनि ८ द्यूतकरे त्रि० हेमच०। ८ शठनायके शठशब्दे तल्लक्षणं दृश्यम् “सार्द्धं मनोरथशतैस्तव धूर्त्त! कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या”। “दृष्ट्वेकासनसंस्थिते प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः। ईषद्वक्रितकन्धरः सपुलकः प्रेम्णोल्लसन्मानसाम् अन्वर्हासलसत्कपोलफलकां धूर्त्तोऽपरां चुम्बति” सा० तत्र द्यूतकरे “प्राप्ते नृपतिना भागे प्रसिद्धे धूर्त्तमण्डले” गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतम्” याज्ञ०। वञ्चके “नराणां नापितो धूर्त्तः पक्षिणां चैव वायसः। दंष्ट्रिणां च शृगालस्तु श्वेतभिक्षुस्तपस्विनाम्” पञ्चत० “स्वर्णकारः स्वर्णबणिक् कायस्थश्च व्रजेश्वर!। नरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले। हृदयं क्षुरधाराभं तेषां च नास्ति सादरम्। शतेषु सज्जनः कोऽपि कायस्थो नेतरौ च तौ। सुबुद्धिः शिवभक्तश्च शास्त्रज्ञो धर्ममानसः। न विश्वसेत् तेषु तात। खात्मकल्याणहेतवे” ब्रह्मवैवर्त्त जन्मख० ८५ अ०। “प्रियाश्च धूर्त्ता मम सेविनः सदा” भा० वि० ७ अ०। धूर्त्तशब्देन जातिवाचकस्य समासे पीटायुवतीत्यादि पा० परनिपाते वकधूर्त्त शृगालधूर्त्त कठधूर्त्त इत्यादि शौण्डादि० ७ त०। अक्षधूर्त्तः। धुर्व कर्मणि क्त। ९ हिंसिते त्रि०।
धूर्त्तक = पु० धूर्त्त इव वञ्चक इव इवार्थे कन्। १ शृगाले शब्दर० स्त्रियां जातित्वात् ङीष्। कौरव्यकुलजे २ नागमेदे। तदुपक्रमे “बाहुकः शृङ्गवेरश्च धूर्त्तक प्रति वातकौ” भा० आ० ७ अ०। स्वार्थे क। धूर्त्तशब्दार्थे। “स्त्रीधूर्त्ते कितवे भीरौ चण्डे पुरुषमानिनि। चौरे कृतघ्ने विश्वासो न कार्य्यो न च नास्तिके” भा० उ० ३८ अ०।
धूर्त्तकृत् = पु० धुर्व–भावे क्त धूर्त्तं हिंसनं करोति कृ + क्विप् ६ त०। १ धूस्तूरे शब्दमा० २ हिंसके त्रि०।
धूर्त्तचरित = न० धूर्त्तस्य चरितं वर्ण्यत्वेनास्त्यत्र अच्। सङ्कीर्णाख्ये १ नाटकग्रन्थभेदे सा० द०। ६ त०। २ धूर्त्तानां चरिते च।
धूर्त्तजन्तु = पु० नित्यक०। मानुषे शब्दच० तज्जन्तोर्धूर्त्ततायाः लोकसिद्धत्वात्।
धूर्त्तमानुषा = स्त्री धूर्त्तो हिंसितोमानुषो यया। १ रास्नायां शब्दच० २ हिंसितमानुषके त्रि०।
धूर्त्ति = पु० धुर्वी हिंसायां क्तिच्। १ हिंसके “मीनः सं देव अररुषो धूर्त्तिः” ऋ० १। १८। ३ “धूर्तिर्हिंसकः” भा० भावे क्तिन्। २ हिंसायां स्त्री
धूर्द्धर = त्रि० धुरोधरः। धुरन्धरे रथादौ रमानाथः
धूर्वह = त्रि० धुरं वहति वह–अच्। धुरन्धरशब्दार्थे
धूर्वी = स्त्री धुरमजति अज–क्विप् अजोवीभावः रथाग्रभागे हेमच०।
धूलक = न० धू–बा० लक धूलिराकारतयाऽस्त्यस्य अच् संज्ञायां कन् वा। विषे शब्दच०।
धूलि = स्त्री धू–लिक् वा ङीप्। धू–सं० क्विप् धुवा लीयते ली–कि लादेशे आल्लोपः। १ रजसि परागे अमरः। रेणूनां पवनचालनेन लीयमानत्वात्तथात्वम्। “गोपैर्यष्ट्या हतानां खुरपुटदलिता या तु धूलिर्दिनान्ते” वृ० सं० १०३ अ०। गोधूलिशब्दे दृश्यम्। “अनीत्वा पङ्कतां धूलीमुदकं नावतिष्ठते” “बधूरिव धूलीमुदक्षिपत्” माघः “धूलिः परगृहादपि” नीतिसारः “धूलीपटले धूमत्वभ्रमात् तत्रासता धूमत्वेनेत्यादि” अनुमानदीधितिः। २ व्याकुलीभावे अव्य० उर्य्या० उप० स०। “धूलीकृत्य व्याकुलीकृत्य” गणरत्र० टी०।
धूलिका = स्त्री धूलिरिव कायति कै–क। कुञ्झटिकायाम् शब्दर०।
धूलिकुट्टिम = न० धूलीनां कुट्टिममिव। केदारे जष्टक्षेत्रे शब्दार्थकल्प०। तस्य कर्षणादिजातधूलिमत्त्वात्तथात्वम्
धूलिकेदार = पु० धूलिप्रधानः केदारः शा० त०। कृष्टक्षेत्रे केदारे त्रिका० तस्य कर्षणजातधूलिमत्त्वात्तथात्वम्।
धूलिगुच्छक = पु० धूलीनां गच्छ इव इवार्थे कन्। फल्गुचूर्णे (फाग) त्रिका०।
धूलिध्वज = पु० धूलिरेव ध्वजोऽस्य। बायौ त्रिका०
धूलिपुष्पी = स्त्री धूलिप्रचुरं पुष्पमस्या ङीप्। केतक्याम्। स्वार्थे क ह्रस्वः। धूलिपुष्पिका तत्रार्थे राजनि०।
धूलीकदम्ब = पु० धूलीनां कदम्बं यत्र। १ कदम्बवृक्षे २ वरुणवृक्षे ३ तिनिशवृक्षे च मेदि०। ६ त०। ४ धूलीसमूहे न०
धूश(ष)(स) = शोभने चुरा० उभ० सक० सेट्। धूश(ष)(स)यति ते अद्रधुश(ष)(स)त् त।
धूसर = पुंस्त्री धू–सर किच्च न षत्वम्। १ गर्दभे २ उष्ट्रे ३ कपोते राजनि० स्त्रियां ङीष्। ४ तैलकारे पु० हेम० धूस–रक्। ५ ईषत्पाण्डुवर्णे कृष्णश्वेतवर्णे शुक्लपीतवर्णे च पु० ६ तद्वति त्रि० अमरः। “क्लान्तं रजोधूसरकेतुसैन्यम्” उत्क्रान्तवर्णक्रमधूसराणाम्” रघुः। “किरणपरिक्षयधूसरप्रदोप्राम्”। “ललाटिकाचन्दनधूसरालका” कुमा०। ७ पाण्डुरफलीक्षुपे स्त्री राजनिः टाप्। ८ किन्नरीभेदे स्त्री मेदि० गौरा० ङीष्।
धूसरच्छदा = स्त्री धूसरः छदो यस्याः। श्वेतवुह्नायां रत्नमा०
धूसरपत्रिका = स्त्री धूसरं पत्रमस्याः कप् कापि अत इत्त्वम्। हस्तिशुण्डीक्षुपे (हातशु~डा) राजनि०।
धूसी = अव्य० धूस–बा० इ। विस्तारे गणरत्नम्। ऊर्य्यादि०। धूसीकृत्व विस्तार्य्येत्यर्थः।
धूस्तरा(मा) = स्त्री अतिशयेन धूः तरप् तमप् व। “ह्रस्वात्तादौ तद्धिते” पा० ह्रस्वादेव षत्वविधानात् न षत्वम्। अतिशयभारे।
धूस्तुर = पु० धूस–क्विप् तुतोर्त्ति तुर–तुरणे क कर्म०। (धूतरा) ख्याते वृक्षे अमरः।
धूस्तूर = पु० धूस–क्विप् तूरी गतिहिंसयोः क कर्मधायः स०। (धूतरा) ख्याते वृक्षे अमरे पाठान्तरम्। “धूस्तूर। धूर्त्त! तरुणेन्दुनिवासयोम्यस्थाने पिशाचपतिना विनिवाशतोऽसि। किं कैरवाणि विकसन्ति तमः प्रयाति कि बार्द्धिरुल्लसति किं दृषदः स्रवन्ति” उद्भटः। “धूस्तूरो मदवर्णाग्निवातकृज्ज्वरकुष्ठनुत्। कषायो मधुरस्तिक्तो यूकालिक्षाविनाशकः। उष्णो गुरुर्व्रणश्लेष्मकण्डूकृमिविषापहः” भावप्र०।
धृ = स्थितौ अक० धृतौ सक० उभ० भ्वा० अनिट्। धरति ते अधार्षीत् अधृत। दधार दध्रे। धृतः धृतिः। “ततो दधार सा देवी गर्भम्” भा० उ० ७३९९ श्लो० धर्त्ता धरिष्यति ते
धृ = पतने भ्वा० आत्म० अत० अनिट्। धरते अधृत। दध्रे धर्मा धरिष्यते।
धृ = स्थितौ अक० धारणे सक० तुदा० आत्म० अनिट्। ध्रियते अधृत। दध्रे धर्त्ता करिष्यते। स्थितौ “ध्रियते यावदेकोऽपि रिपुस्तावत् कुतः सुखम्” माघः “प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत” वृ० उप० धारणे “ध्रियते कुसुमप्रसाधनम्” कुमा० “पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्द्धनि” भा० उ० १८९ अ०। उद् + उत्तोल्य धारणे “चरणं त्विदमुद्धृतम्” वेणीस०। “पदमुद्धृतमुद्वहन्ती” कुमा०। “प्रसभोद्धृतारि” रघुः।
धृ = धारणे चुरा० उभ० सक० सेट्। धारयति ते अदीधरत्त। धारयाम् बभूव आस चकार। “वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्” मनुः “समकायशिरोग्रीवं धारयन्नचलः स्थिरः” गीता। सर्वेषां धार्य्यः पूर्वेषां ण्यत् एतस्य अचो यत् इति भेदः धार्य्यशब्दे उदा० “धारेरुत्तमर्णः” पा० एतद्योगे उत्तसर्णस्य सम्प्रदानता। चैत्रस्य शतं धारयति।
धृज = गतौ भ्वा० पर० सक० सेट् इदित्। धृञ्जति अधृञ्जीत्। दधृञ्ज इदित् धृञ्ज्यते। अस्य अनिदित्त्वमपि इच्छति। धर्जति अधर्जीत् दधर्ज। “हरो महेश्वरश्चैव शूलपाणिः पिणाकधृग्” शिवपूजायां तन्नामविशेषोक्तौ।
धृत = न० धृ–स्थितौ पतने च भावे क्त। १ पतने २ स्थितौ च। धृ–धारणे कर्मणि क्त। कृतधारणे ३ गृहीते त्रि० भावे क्त। ४ धारणे ग्रहणे न०। “धृतरुद्राक्षमधुव्रतं खगः” “रूपमदर्शि धृतोऽसि यदर्थम्” नैष०। ५ त्रयोदशमनोःपुत्रभेदे पु०। “त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः। चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतः” हरिवं० ७ अ०। ६ द्रुह्युवंश्ये धर्मसुते राजभेदे “द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः। आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः” भा० ९। २३। ४ अत्र घृत इति पाठान्तरम्।
धृतदेवा = स्त्री “चत्वारो देवकात्मजाः। देववानुपदेवश्च सुदेवोदेववर्द्धनः। तेषां खसारः सप्तासन् धृतदेवादयो नृप!” भाग० ९। २४। १३ उक्ते देवकात्मजाभेदे “त्रिपृष्ठो धृतदेवायामेक आनकदुन्दुभेः” २५ श्लो०।
धृतराजन् = पु० धृतो राजा प्राशस्त्येन येन। सुराज्ञि देशे तत्र भवः अण् उपधालोपः। धार्त्तराज्ञ तत्र भवे त्रि०
धृतराष्ट्र = पु० धृतं राष्ट्रं सुपाल्यतया यत्र। १ सुराज्ञि देशे २ नागभेदे च मेदि०। २ कौरवो धृतराष्ट्रश्च शङ्कपिण्डश्च वीर्य्यवान्” भा० आ० ३५ अ०। बागनामोक्तौ “धृतराष्ट्रकूले जातान् शृणु नामान् यथातथम्” ५७ अ०। ३ गन्धर्वराजभैदे “गन्धर्वराजो यो धीमान् धृतराष्ट्र इति श्रुतः। स सव मानुषो लोके धृतराष्ट्रः पतिस्तव” भा० आश्व० ११ अ०। विचित्रवीर्य्यक्षेत्रे सत्यवत्या नियोगेन व्यासेनोत्पादिते स्वनामख्याते कौरवे ४ नृपभेदे “शान्तनुः खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतो नाम यमाहुभी~ष्ममिति। भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत् यामाहुर्गन्धकालीमिति। तस्यां पूर्वं कानीनो गर्भः पराशराद्द्वैपायनोऽभवत्। तस्यामेव शान्तनोरन्यौ द्वौ पुत्रौ बभूवतुः। विचित्रवीर्य्यश्चित्राङ्गदश्च तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः विचित्रवीर्य्यस्तु राजासीत्। विचित्रवीर्य्यः खलु कौशल्यात्मजे अम्बिकाम्बालिके काशिराजदुहितरावुपयेमे। विचित्रवीर्य्यस्त्वनपत्य एव विदेहत्वं प्राप्तः। ततः सत्यवत्यचिन्तयन्मा दौष्यन्तो वंश उच्छेदं व्रजेदिति। सा द्वैपायनमृषिं मनसा चिन्तयामास। स तस्याः पुरतः स्थितः किङ्करवाणीति। सा तामुपवाच भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्य्यः साध्वपत्यं तस्योत्पादयेति। स तथेत्युक्त्वा त्रीन् पुत्रामुत्पादयामास। धृतराष्ट्रं पाण्डुं विदुरञ्चेति” भा० आ० ९५ अ०। अस्य अन्धत्वादिकथा भा० आ० ११ अ० दृश्या। ५ पक्षिभेदे हंसे पुंस्त्री हेमच० तस्य धृतराष्ट्रीजातत्वात् तथात्वम् स्त्रियां ङीप्। सा च कश्यपस्य ताम्रायां पत्न्यां जाते ६ कन्याभेदे “काकीं श्येनीं तथा भासीं धृतराष्ट्रिं तथा शुकीम्। ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः” “धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः” भा० आ० ६६ अ०। ताम्रा तु दक्षकन्या कश्यपपत्नी ताम्रशब्दानुक्तेः अत्रोच्यते “सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा। कद्रुर्मुनिश्च राजेन्द्र! तास्वपत्यानि मे शृणु” हरिवं० ३ अ०।
धृतवर्म्मन् = पु० घृतं वर्म येन। १ गृहीतकवचे २ भारतप्रसिद्धे त्रिगर्तराजकेतुवर्म्मानुजे नृपभेदे “केतुधर्मा तु तेजखी तस्यैवावरजो युवा। युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना। तमापतन्तं सम्प्रेक्ष्य केतुधर्मा महाहवे। अभ्यर्दन्निशितैर्वाणैर्वीभत्सुः परवीरहा। केतुधर्मण्यभिहते धृतवर्मा महारथः। रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत्” भा० आ० ७४ अ०।
धृतव्रत = त्रि० धृतं व्रतं येन। १ गृहीतव्रते “संवर्त्तश्च धृतव्रतः” भा० आ० ६६ अ०। २ पुरुवंश्ये जयद्रथपुत्रविजयनृप- पौत्रे नृपभेदे। “विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः” हरिवं० ३१ अ०। धृतिशब्दे दृश्यम्।
धृतात्मन् = त्रि० धृत आत्मा येन। १ धैर्य्यान्वितचित्ते २ विष्णौ पु०। “धृतात्मा नियमो यमः” विष्णुस०। एकरूपेण स्तन्मादिरहिततया स्थित आत्मास्येति” भा०।
धृति = स्त्री धृ–क्तिन्। १ धारणे २ तुष्टौ ३ धैर्य्ये “धृतिरस्तमिता रतिश्च्युता” रघुः “धृतिर्धैर्यं प्रीतिर्वा” मल्लि०। विष्कम्भादिमध्ये ४ अष्टमे योगभेदे मेदि०। “अतिगण्डः सुकर्मा च धृतिः शूलं तथैव” ज्यो०। ५ सुखे हेमच०। गौर्य्यादिषोडशमातृमध्ये ६ मातृकाभेदे। मातृकाशब्दे दृश्यम्। अष्टादशाक्षरपादकछन्दोमात्रे उक्तात्युक्तेत्युपक्रमे धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः” वृ० र०। ७ मानसधारणाभेदे “धृतिरधृतिर्ह्रीर्वीर्भीरित्येतत् सर्वं मनएव” श्रुतिः। सा च सात्विकादिभेदेन त्रिधा यथाह गीतायाम् “धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ। सात्विकी। यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन!। प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ! राजसी। यथा स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा घृतिः सा पार्थ! तामसी”। ८ दक्षसुतारूपधर्मपत्नीभेदे “ददौ स दश धर्माय” इत्युपक्रमे धर्मपत्नीशब्दे उक्त वाक्ये ३८५७ पृ० दृश्यम्। ९ जयद्रथनृपस्य पौत्रे पु० जयद्रथस्तु राजेन्द्र! यशोदेव्याम् व्यजायत। ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः। विजयस्य धृतिः पुत्रः” हरिवं० ३१ अ०। १० मैथिले राजभेदे पु० तदुपक्रमे “शुनकस्तत्सुतो जज्ञे वीतिहव्यो धृतिस्ततः” भाग० ९। १३। १६। ११ विश्वदेवभेदे पु० तन्नामोपक्रमे “बलं धृतिर्विपाप्मा च पुण्यकृत् थाबनस्तथा” भा० अनु० ९१ अ०। सा० द० उक्ते १२ व्यभिचारि भावभेदे। सा च “सधृतिचपलनाग्लानिचिन्तावितर्काः” इत्युद्दिश्य तत्र लक्षिता यथा “ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धृतिः। सौहित्यवचनोल्लाससहास प्रतिभादिकृत्” उदाहृतं च “कृत्वा दीननिपीडनां निजजने वद्ध्वा वचोविग्रहम् नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः। द्रव्यौघाः परिसञ्चिताः खलु मया यस्याः कृते साम्प्रतं नीवाराञ्जलिनापि केवलमहो मेयं कृतार्था तनुः” भा० द०। “ता धृति- रस्ति गतास्मि सम्प्रतीयम्” माघः। “स्थिता कर्थं शैलजनाशुगे धृतिः” किरा० “अम्बरान्तधृतेः” शा० सू० १४ गुरुत्ववतां पतनाभावे हरिदासः “कार्य्यायोजन धृत्यादेः पदात् प्रत्ययतः श्रुतेः। वाक्यात् सङ्ख्याविशेषच्च साध्यो विश्वविदव्ययः कुसुमा०। धृतीति ब्रह्माण्डादि पतनप्रतिबन्धकी भूतप्रयत्नवदधिष्टितं धृतिमन्त्वात् वियति विहङ्गमधृतकाष्ठवत् धृतिश्च गुरुत्ववतां पतनाभावः” हरिदासः। मनसो भूतपञ्चकारब्धत्वात् क्षित्यंशधारणवत्त्वात् धृतिमत्त्वं बोध्यम्। धृतेर्भूमिगुणत्वञ्च भा० शा० २५५ अ० उक्तं यथा “भूमेः स्थैर्य्यं गुरुत्वं च काठिन्यं प्रसवार्धता। गन्धोगुरुत्वं शक्तिश्च संथातः स्थापना धृतिः”। “स्थैर्य्यमचाञ्चल्यं गुरुत्वं पतनप्रतियोगी गुणः प्रसवो धान्याद्युत्पत्तिस्तदर्थता, गुरुत्वं प्रथिमा पिण्डपुष्टिः शक्तिर्गन्धग्रहणसामर्थ्यं सङ्घातः श्लिष्टावयवत्वम् स्थापना मनुष्याद्याश्रयत्वं धृतिः पाञ्चभौतिके मनसि यो धृत्यंशः स पार्थिवः स्थैर्य्यशब्देनैवीपात्त इति धृतिशब्देमात्र भूतान्तरप्रवेशस्थानत्वमुच्यते” नीलकण्ठव्याख्या। तच्छन्दसोऽष्टादशसंख्यकत्वात्तत्तुल्यसंख्यायुते अष्टादशसंख्यायुक्ते च। १६ विपुलाख्य विष्कुम्भपर्वतस्थे वनभेदे विष्कुम्भपर्वतोपक्रमे “वनं तथा चैत्तरथं विचित्रं तेष्वप्सरो नन्दननन्दनञ्च। धृत्याह्वयं यद् धृतिकृत् सुराणां भ्राजिष्णु वैभ्राजमिति प्रसिद्धम्” सि० शि०। “विपुलशैलमस्तके केतुवृक्षो वटो धृतिर्वनं महाह्रदः सरः” प्रमिता०।
धृतिमत् = त्रि० धृतिरस्त्यस्य मतुप्। धैर्य्यान्विते “कृतज्ञं धृतिमन्तञ्च कृच्छ्रमाहुररिं बुधाः” मनुः स्त्रियां ङीप्। “प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे” “धृतिमतीरुपकान्तमपि स्त्रियः” पञ्चममनीः २ रैवतस्य पुत्रभेदे पु० “अथ पुत्रानिमांस्तस्य निबोध गदतो मम। धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः” हरिवं० ७ अ०। अजमीढनृपस्य पौत्रे ३ नृपभेदे पु० “अजमीढस्य दायादो विद्वान् राजा जवी नरः। धृतिमांस्तस्य पुत्रस्तु, हरिवं० २० अ०। ४ कुशद्वीपस्थे वर्षभेदे न० कुशद्वीपोपक्रमे “धृतिमत् पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम्” भा० भी० १२० अ०। ५ अग्निभेदे पु० “विष्णुर्नामेह योऽग्निस्तु धृतिमान् नाम सोऽङ्गिराः” भा० व० २२० अ० स च अग्निर्धृतिहोमाङ्गम् धृतिहोमशब्दे दृश्यम्। ६ त्रयोदशमन्वन्तरे सप्तर्षिमध्ये अङ्गिरोऽपत्यभेदे। “त्रयो- दशे तु पर्य्याये भाव्ये मन्वन्तरे मनोः। अङ्गिराश्चैव धृतिमान् पौलहो व्यापकस्तथा”।
धृतिहोम = पु० धृत्याद्यष्टकोद्देशेको होमः। विवाहाङ्गे होमभेदे “उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोति” गोभिलः “अष्टाविह धृतिहोमाः ध्रुवा आवश्यकाः। कथञ्चिद् भर्तृगृहगमनाभावेऽपि श्वशुरगृहे निवासेऽपि अवश्यं होतव्याः इति। अत्र “इह धृतिः स्वाहा” इत्यादिप्रयोगः। न तु स्वाहायोगे चतुर्थी “धृतिहोमे न प्रयुञ्ज्यात् गोनामसु तथाष्टसु। चतुर्थीमघ्र्य इत्येतद्गोनामसु हि हूयते” इति छन्दोगपरिशिष्टात्। धृतिहोमे धृत्यष्टकहोमे” स० स्का० त० रघु०। स च तत्पद्धतौ भवदेवोक्तो यथा “ततः पतिः कुमारमुत्थाप्य पूर्ववत् कुशण्डिकोक्तविधाने धृतिनामानमग्निं संस्थाप्य समित्प्रक्षेपान्तं व्यस्तसमस्तमहाव्याहृतिहोमं कृत्वा अष्टाहुतीर्जुहुयात्। अष्टानां मन्त्राणाम् ऋष्यादयः साधारणाः। प्रजापति रृषिर्वृहती छन्दो वधूर्देवता धृतिहोमे विनियोगः। ओं इह धृतिः स्वाहा १। ओं इह स्वधृतिः स्वाहा २। ओं इह रतिः स्वाहा ३। ओं इह रमस्व स्वाहा ४। ओं मयि धृतिः स्वाहा ५। ओं मयि स्वधृतिः स्वाहा ६। ओं मयि रतिः स्वाहा ७। ओं मयि रमस्व स्वाहा ८”।
धृत्वन् = पु० धृ–क्वनिप् तुक्। १ विष्णौ उज्ज्वल०। २ धर्मे ३ गगने ४ समुद्रे ५ मेधाविनि ६ विप्रे संक्षिप्तसारे उणा०। ७ धारके त्रि० स्त्रियां “वनो र च” ङीप् रश्चान्तदेशः। धृत्वरी सा च ८ भूमौ संक्षिप्तसारे उणा०।
धृष = संहतौ अक० हिंसे सक० भ्वा० पर० सेट्। धर्षति अधर्षीत्। दधर्ष उदित् धर्षित्वा धृष्ट्वा। “धृषशसी वैयात्ये” पा० वैयात्ये एव अनिटोविधनात् क्त्वो वेट्कत्वेऽपि संहत्यर्थे बधार्थे च नित्यमिट्। धर्षितः
धृष = प्रागल्भ्ये स्वा० पर० अक० सेट्। धृष्णोति अधर्षीत्। दधर्ष। “धृषशसी वैयात्ये” पा० निष्ठायामनिट्। धृष्टः अस्या आत्त्वं चिन्त्यप्रयोजनमिति स्म। भावादि कर्मणोर्वैयात्ये धृषिर्नास्ति अतएव नियमार्थमिदं सूत्रमितीत्याह वृत्तिकारः” “विभाषा भावकर्मणोरिति विकल्पे प्राप्ते सूत्रमिदं नित्यतार्थमित्याशङ्क्याह धृषिर्नास्तीति” तदर्थः” तत्त्व०। “आलोकयत् स काकुत्स्थमधृष्णोत् घोरअध्वनत्” भट्टिः। “तान् दृष्ट्वातिदृढान् धृष्टान् प्राप्तान् परिवृढाज्ञया” भट्टिः।
धृष = सामर्थ्यबन्धने चुरा० आत्म० अक० सेट्। धर्षयते अदीधृषत अदधर्षत। धर्षयाम् बभूव आस चक्रे “कस्त्वा धर्षयितुं शक्तः” हरिवं० ३१५३ श्लो०।
धृष = क्रोधे अभिभवे च वा चु० उभ० पक्षे भ्वा० प० सक० सेट्। धर्षयति ते धर्षति अदीधृषत् त अदधर्षत् त अधर्षीत्। धर्षयाम् भूव आस चकार दधर्ष। “प्रहस्तस्य पुरोऽमात्यान् जिहिंसुर्दधृषुस्तथा” मट्टिः। दधृषुरभिभूतवन्तः।
धृषज् = त्रि० धृष–अभिभवे बा० कजिन्। १ धर्षके २ अभिभवे च। “ता अस्य संधृषजो न तिग्माः” ऋ० ५। १९। ५
धृषद् = त्रि० धृष–अभिभवे बा० कर्तरि अदिक्। धर्षके “धृषद्वर्णं दिवे दिवे” ऋ० १०। ८७। २ “धृषद्वर्णं धर्षकरूपम्” भा० “स्वभूत्योजा अयसि धृषन्मनः” ऋ० १। १५२। ५२ धृषन्मनः धर्षकमनाः” भा०। भावे अदिक्। २ धर्षणायाम् “ते यामन्ना धृषद्विनः” ऋ० ५। ५२। २ “धृषद्विनः धर्षणावन्तः” भाष्यम्
धृषु = त्रि० धृष–कु। १ प्रगल्भे २ दक्षे ३ सङ्घाते पु० संक्षिप्तसारोणा०।
धृष्ट = त्रि० धृष–वैयात्ये क्त। १ निर्लज्जे २ प्रगलभे ३ निर्दये च। ४ नायकभेदे पु० तल्लक्षणोदाहरणे सा० द० उक्ते यथा “कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः। दृष्टदोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः” “शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया सपदि तं धृत्वा सहासे मयि। किञ्चित् तत्र विधातुमक्षमतया वाष्पं त्यजन्त्याः सखे! भ्रातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः”। “भूयोनिःशङ्कः कृतदोषोऽपि भूयोनिवारितोऽपि प्रश्नयपरायणः” रसमञ्जर्य्यां तल्लक्षणमुक्तम्। विदर्भराजसुतकुन्तेः ५ पुत्रभेदे पु० “भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत्। कुन्तेर्धृष्टः सुतो जज्ञे” हरिवं० ३७ अ०। ६ वन्दक्याम् असत्यां स्त्री शब्दरत्ना०। तस्य भावः तल् धृष्टता स्त्री त्व धृष्टत्व न० ष्यञ् धार्ष्ट्य न०। निर्लज्जत्वे प्रागल्भ्ये च “गुरुस्तवैवागमएव धृष्टताम्” माघः।
धृष्टकेतु = पु० सन्नतिराजवंश्ये सुकुमारस्य १ पुत्रभेदे “सुकुमारस्य दायादो धृष्टकेतुः सुधार्मिकः” हरिवं० २९ अ०। नवम मनोः रोहितस्य २ पुत्रभेदे च “दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः। मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रोनिराकृतिः” हरिवं०७ अ०। ३ जनकवंश्ये धृतिसुते पु०। सुधृतेर्धृष्टकेतुर्वै हर्य्यश्वोऽथ मरुस्ततः” भाग० ९। १३। १२ ४ कैकये नृपभेदे च “कैकयो धृष्टकेतुश्च श्रुतकीर्त्तिम- विन्दत” भाग० ९। २४। २१। काश्ये ५ सत्यकेतुसुते “धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत। धृष्टकेतुः सुतस्तस्मात्” भाग० ९। १७। धृष्टद्युम्नस्य ६ पुत्रभेदे च “धृष्टद्युम्नःसुतस्तस्य (द्रुपदस्य) धृष्टकेतुश्च तत्सुतः” हरिवं० २३ अ० “धृष्ट केतुश्चेकितानः काशिराजश्च बीर्यवान्” गीता।
धृष्टद्युम्न = पु० द्रुपदनृपस्य पुत्रमेदे तदुत्पत्तिकथा “तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः। वैताने कर्मणि तात! पावकात् समजायत। वीरो द्रोणविनाशाय धनुरादाय वीर्य्यवान्” भा० आ० ६३ अ०। “द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्। तत्कर्म कुरु मे याज! वितराम्यर्बुदङ्गवासु। तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयन्। गुर्वर्थ इति चाकाममुपयाजमचोदयत्। याजो द्रोण विनाशाय प्रतिजज्ञे तथा च सः। ततस्तस्य नरेन्द्रस्य उपयाजी महातपाः। आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै। स च पुत्रो महावीर्य्यो महातेजा महाबलः। इष्यते यद्विधो राजन्! भविता ते तथाविधः। भरद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः। आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये। याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा। प्रैहि मां राज्ञि! पृषति! मिथुनं त्वामुपस्थितम्। राज्ञ्युवाच। अबलिप्तं मुखं ब्रह्मन्! दिव्यान् गन्धान् बिभर्मि च। सुतार्थेनोपलब्धाऽस्मि तिष्ठ याज! मलप्रिय!। याज उवाच। याजेन श्रपितं हव्यमुपयाजाभिसन्त्रितम्। कथं कामं न सन्दध्यात्सा त्वं विप्रैहि तिष्ठ वा। ब्राह्मण उवाच। एवमुक्त्वा तु याजेन हुते हविषि सत्कृते। उत्तस्थौ पावकात् तस्मात् कुमारो देवसन्निभः। ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्। बिभ्रत् सखड्गः सशरो धनुष्मान्विनदन्मुहुः। तथेत्युवाच तं याजो राज्ञः प्रियचिकीर्षया। तयोश्च नामनी चक्रुर्द्विजाः संपूर्णमानसाः। धृष्टत्वादतिधृष्णुत्वाद्द्युम्नाद्युत्सम्भवादपि। धृष्टद्युम्नः कुमारीऽयं द्रुपदस्य भवत्विति”
धृष्टरथ = पु० नृपभेदे “च्यवनो जनकश्चैव तथा धृष्टरथो नृपः” भा० अनु० १६५ अ० नानानृपोक्तौ।
धृष्टि = पु० धृष–क्तिच्। हिरण्यकशियोर्ज्येष्ठस्य हिरण्याक्षासुरस्य पुत्रभेदे “हिरण्यकशिपुर्भ्रातुः संपरेतस्य दुःखितः। कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत्। शकुनिं शंवरं धृष्टिं भूतसन्तापनं वृकम्” भा० ७। २। १६ २ प्रगल्भे त्रि०। “धृष्टिरसि” यजु० १। १७ “हे उपवेष! त्वं धृष्टिरसि प्रगल्भोऽसि। तीव्राङ्गाराणामितस्ततश्चालन प्रापकत्वादस्य प्रागल्भ्यम्” वेददी० ३ यज्ञिये उपवेषरूपे पात्रभेदे पु० उपवेषशब्दे १६३० पृष्ठे दृश्यम्। यज्ञपात्रोपक्रमे “धृष्टी शतमाने” कात्या० श्रौ० २६। २। १० “धृष्टी उपवेषौ औदम्बरौ तत्र एकं रजतशतमानं द्वितीयं सुवर्णशतमानमिति” कर्कः “धृष्टिरसीमुपवेषमादाय” कात्या० श्रौ० २। ४। २६ “पलाशशाखायाः मूलदेशे च्छिन्नः काष्ठभाग उपवेषः” कर्कः। पलाशशाखाया इति यज्ञविशेषे “सामान्यतस्तु औदम्बर इति पूर्वापरमीमांसा। धृष्टिरसीति मन्त्रेणोपादीयमानत्वात् उपवेषस्य धृष्टित्वमित्याशयेन “धृष्टी शतमाने” इत्युक्तम्। “धृष्टिभ्यां भष्मना परिकीर्य्याङ्गारैश्च” कात्या० श्रौ० २६। ३। ९
धृष्ण = पु० सात्वतवंश्ये भजमानपुत्रभेदे क्रथनशब्दे २३०४ पृ० दृश्यम्।
धृष्णज् = त्रि० धृष–नजिज्। १ धृष्टे २ प्रगल्भे ३ निर्लज्जे अमरः।
धृष्णि = पु० धृष–वा० नि। किरणे अमरः।
धृष्णु = त्रि० धृष–क्नु। १ धृष्टे २ प्रगल्भे त्रिका० ३ कञ्चुकायां पु० शब्दच०। ४ रुद्रभेदे पु० “नमस्त आयुधायानातताय धृष्णये” यजु० १६। १४ “धृष्णये धर्षणशीलरिपुं हन्तुं प्रगल्भाय” वेददी०। सावर्णिमनोः ५ पुत्रभेदे पु० “सावर्णस्य मनोः पुत्राः” इत्युपक्रमे “चरिष्णुरार्यो धृष्णुश्च राजन्! सुमतिरेव च” हरिवं० ७ अ०। वैवस्वत मनोः ६ पुत्रभेदे पु० तद्वंशोपक्रमे “इक्ष्वाकुश्चैव नाभागो धृष्णुः शर्यातिरेव च” हरिवं० १० अ०। सात्वतवंश्यकुकुरसुते ७ नृपभेदे “कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयस्तथा” हरिवं० ३८ अ०। ८ पितामहपुत्रकविसुतभेदे “पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित्। तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत्। ब्रह्मणस्तु कवेः पुत्रा वारुणास्ते उदाहृताः। अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः। कविः काव्यश्च धृष्णुश्च बुद्धिमानुशनास्तथा। भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित्। अष्टौ कविसुताह्येते सर्वमेभिर्जगत्ततम्” भा० आनु० ८५ अ०। वेदे सुपां स्थाने याच् “प्रधृष्णुया नमति वस्यो अच्छ” ऋ० ४। २१। ४ “धृष्णुया धृष्णुः” भा० “भ्राजन्त्यौ यन्ति धृष्णुया” ऋ० ५। १०। ५। “धृष्णुया धृष्णवः” भा०।
धृष्णुक = पु० वैवस्वतमनुवंश्ये नृपभेदे “धृष्णुकश्चाम्बरीयश्च दण्डकश्चेति ते त्रयः” हरिव० १ अ० तद्वंशोक्तौ
धृष्ण्वोजस् = पु० कार्तवीर्यनृपपुत्रभेदे “शूरसेनश्च शूरश्च धृष्ण्वोजाः कृष्ण एव च। जयध्वजञ्च नाम्नामीदावन्त्यो नृपतिर्महान्। कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः” हरिवं० ३४ अ०।
धृष्य = त्रि० धृष–कर्मणि ऋदुपषत्वात् क्यप्। धर्षणीये “भूतानामिह यो वै त्वां मया विनिहितां सतीम्। उपा हन्यात् स मे धृष्यः” भा० शा० २२५ अ० “पश्यन्नदूरात् मनसाप्यधृष्यम्” कुमा०।
धे = पाने भ्वा० प० सक० अनिट् टित्। धयति अदधत् अधासीत्। दधौ धास्यति। खच् स्तनन्धयः स्त्रियां टित्त्वात् खचि ङीप् हरदत्तीक्तेः खच्येव ङीप्। स्तनन्धयी अन्यत्र टाप्।
धेन = पु० धयन्ति धे–नन् इच्च। १ समुद्रे २ नदे च ३ नद्यां स्त्री टष्टित्त्वेऽपि खच्येव ङीप् इति हरदत्तोक्तेः न ङीप्। ४ वाचि स्त्री निघण्टु “वायो भव प्रपृञ्चती धेनाजिगातिदाशुषे” ऋ० १। २। ३ “धेना वाक्” भा०। ५ धन्याके स्त्री गौरा० ङीष्। स्वार्थे क तत्रार्थे भावप्र०।
धेनु = स्त्री धयति सुतान्, धीयते पीयते वत्सैवां धेट्–नु इच्च। १ गोमात्रे वत्सस्य धयनात् तस्यास्तथात्वम्। २ नवसूतिकायाम् सवत्सायां गवि स्त्री अमरः वत्सैः पीयमानक्षीरत्वात् तस्यास्तथात्वम्। गोमात्रभेदाः दशविधा यथा वृह० पु० उत्तरखण्डे १५० अ० “गवां जातीस्तु वक्ष्यामि शृणुष्वैकमना द्विज!। प्रथमागौरकपिला द्वितीया गौरपिङ्गला। तृतीया रक्तकपिला चतुर्थी नीलपिङ्गला। पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु शुक्लपिङ्गला। सप्तमी चित्रपिङ्गाक्षी अष्टमी बभ्रुरोहिणी। नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला। तादृशास्तेऽप्यनड्वाहः कपिलास्तु प्रकीर्त्तिताः”। ३ दानार्थकल्पिते धेन्वाकारे गुडादिपदार्थे यथाह हेमा० दा०
“अत्र यद्यपि धेनुशब्देन स्वरूपतो गौरेवा० भिधीयते तथापि धेनुशब्दसाधारण्यादिह प्रकरणे गुडधेन्वादीनामपि सन्निवेशो युक्तः तासु च क्रमेण निरूप्यमाणासु “दशमी स्यात् स्वरूपतः” इति स्वरूपधेनोरन्ते स्थितत्वात् गुडधेन्वादय एव प्रथमतो निरूष्यन्ते। तदुक्तं मत्स्यपुराणे “यास्तु पापविनाशिन्यः पठ्यन्ते दश धेनवः। तासां स्वरूपं वक्ष्यामि नामानि च नराधिप!। प्रथमा गुडघेनुः १ स्यात् घृतधेनु २ रथापि च। तिलधेनु ३ स्तृतीया च चतुर्थी ४ जलसंज्ञिका। क्षीरधेनु ५ श्च विख्याता मधुधेनु ६ रथापि च। सप्तमी शर्कराधेनु ७ र्दधिधेनु ८ रथाष्टमी। रसधेनु ९ श्च नवमी दशमी स्यात् स्वरूपतः”। “कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः”। “सुवर्णधेनुमप्यत्र केचिदिच्छन्तिमानवाः” तत्तच्छब्दे दृश्यम्। यशोधनोधेनुमृषेर्मुमोच। “अनिन्द्या नन्दिनी नाम धेनुराववृते वनात्” रघुः।
धेनुक = पु० धेनुरिव “इये प्रतिकृतौ” पा० कन्। १ असुरभेदे “खर इत्युच्यते दैत्यो धेनुकः सोऽसुरोत्तमः” हरिवं० ५५ अ०। “दारुणो धेनुको नाम दैत्यो गर्दभरूपवान्। खरयूथेन महतावृतो बलवतां वरः। स तु तालवनं घोरं गर्दभः परिरक्षति। नृपक्षिश्वापदगणांस्त्रासयन्नतिदर्पितः” हरिवं० ७० अ०। २ रतिबन्धभेदे तल्लक्षणं रतिमञ्जर्य्यामुक्तं यथा “न्यस्तहस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा। अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदुन्नते प्रिये!।” “सुप्तां स्त्रियं समासिङ्ग्य स्वयं सुप्तोरमेत् पुनः। लघु लिङ्गं चालयेद्यो बन्धोऽयं धेनुकः स्मृतः”। ३ हस्त्रिन्यां स्त्री। संज्ञायां कन्। ४ धन्याके स्त्री मेदि०।
धेनुकसूदन = पु० धेनुकमनुपदोक्तमसुरं सूदयति सूदिल्यु। वलभद्रे तन्निसूदनकथा हरिवं० ७० अ० यथा “रौहिणेयं खरो दुष्टः सोऽदशद्दशनायुधः। पद्भ्यामुभाभ्याञ्च पुनः पश्चिमाभ्यां पराङ्मुखः। जघानोरसि दैत्योऽसौ रौहिणेयं निरायुधम्। ताभ्यामेव स जग्राह पद्भ्यां तं दैत्यगर्दभम्। आवर्जितखुरस्कन्धं प्रेरयंस्तालमूर्द्धनि। स भग्नोरुकटीग्रीवो भग्नपृष्ठोदराकृतिः। खरस्तालफलैः सार्द्धं पपात धरणीतले। तं गतासुं गतश्रीकं पतितं वीक्ष्य गर्दभम्। ज्ञातींस्ततोऽपरांस्तस्य तृणराजनि सोऽक्षिपत्” हरिवं० ७० अ० “पूतनाधेनुकारिष्टकेशिचानूरसूदनः” त्रिकाण्डशेषे विष्णुनामपर्य्याये धेनुसूदनोक्तिः रामस्य विष्ण्वंशावतारत्वात् इति बोध्यम् रामद्वारा तस्य हननात् तस्य तथात्वम्। भाग० १०१५ अ० अपि वलरामेणैव तस्य हननकथान्ते “नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे” इत्यनेन परमेश्वरकर्तृकस्य तद्धननस्य न चित्रत्वमित्युक्तम्। वलरामेण तद्धननेऽपि तस्य तद्द्वारा तद्धन्तृत्वमस्त्येवेति बोध्यम् धेनुकारिप्रभृतयोऽपि बलरामे।
धेनुदुग्ध = न० धेनोर्दुग्धमिव स्वादु फलमस्य। १ चिर्भट्टे राजनि० ६ त०। २ धेन्वाः क्षीरे च।
धेनुदुग्धकर = पु० धेनोर्दुग्धमिव किरति क–अच् धेनी दुग्धं करोति वर्द्धयति कृ–अच् वा। गर्जरे (गा~जर) राजनि०। तत्पाने धेनोर्दुग्धस्य वर्द्धनात्तस्य तथात्वम्।
धेनुमत् = त्रि० धेनुरस्त्यस्य मतुप्। १ धेनुस्वामिनि स्त्रियां ङीप्। सा च भरतवंश्यदेवद्युम्नस्य २ भार्य्यायाम् “देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी” भाग० ५। १५। ३
धेनुमूल्य = न० ६ त०। प्रायश्चित्तरूपधेनुदानस्य निष्क्रयरूपे मूल्यभेदे तच्च प्रायश्चित्ततत्त्वे व्यवस्थापितं यथा
“अथ धेनुमूल्यव्यवस्था। संवर्त्तः “प्राजापत्यव्रताशक्तौ धेनुं दद्यात् पयस्विनीम्। धेनोरभावे दातव्यं तुल्यं मूल्यं न संशयः”। पयस्विनीमिति विशेषणं दुग्धोपयोगाय सा च वत्सं विना न सम्भवति। अतः सवत्साया एव दानं मुख्यं तदभावे यथोचितं तन्मूल्यं तदभावे पुराणत्रयम्। “द्वात्रिंशत्पणिका गावोवत्सः पौराणिको भवेत्” कात्यायनवचनात्। षटुत्रिंशन्मतमिति कृत्वा पठन्ति “धेनुः पञ्चभिराद्यानां मध्यानां त्रिपुराणिकी। कार्षापणैकमूल्या हि दरिद्राणां प्रकीर्त्तिता”। अत्र पुराणत्रयलभ्यं गोतमीक्तं हिरण्यादिकमेव देयं तद् यथा “हिरण्यं गौर्वासोऽश्वोभूमिस्तिला घृतषन्नमिति देयानि”। एतान्येवानादेशे विकल्पेन क्रियेरन्निति अन्यथा इदमनर्थकं स्यात् इति” प्रायश्चित्तविवेकः। तच्चिन्त्यं हिरण्यं गौरित्यादिना गोर्विकल्पकत्वेन हिरण्यादिकमुक्तं न तु गोमूल्यत्वेन ततश्च। “द्वात्रिंशत्पणिका गावः” इत्यादिवचनात् कार्षापणत्रयदानमेव युक्तम्। तत्र “ताम्रिकः कार्षिकः पणः” इति याज्ञवल्क्यवचनेन “गुञ्जाः पञ्चाद्यमाषकः। ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयं” इत्यमरसिंहोक्तेन अशीतिरत्तिकापरिमितताम्रे पणशब्दः सङ्केतितः। स च तावत्संख्यकवराटकैर्लभ्यत इति वराटकेष्वपि तथा व्यवहारः। एतन्मूलकं भविष्यमत्स्यसूक्तयोर्वचनम्। “अशीतिभिर्वराटकैः पण इत्यभिवीयते। पुराणं ते षोडशभिः रजतं सप्तभिस्तु नैः”। गोतमोक्तपरिगणनीयनियमस्तु अनादिष्टे प्राथमिककल्पाय आदिष्टे तत्तद्रव्यप्राधान्यं हिरण्यादे रानुकल्पिकत्वमिति विशेषः। अतएव यमेन सामान्यतो दानमुक्तं यथा “शोषणेन शरीरस्य तपसाऽध्ययनेन च। पापकृन्मुच्यते पापात् दानेन च दमनन च”। अतः कार्षापणत्रयलभ्यं रजतादि दीयते। यत्तु मिताक्षरायाम् “गवासभावे निष्कः स्याचदर्द्धं पादएव च” इति स्मरणान्निष्कादिकमुक्तं तच्छक्ततमाद्यपेक्षया तत्रापि “चतुःसौवर्णिको निष्क्रः” इति मनूक्तनिष्कस्य न ग्रहणम् अत्यन्तविसदृशमूल्यत्वात् साष्टशतसुवर्णनिष्कवत्। किन्तु दीनारनिष्कस्य ग्रहणं तथा चामरः। “साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले” दीनारेऽपि च निष्कोऽस्त्री” इति। दीनार उक्तो विष्णुगुप्तेन “दीनारोरोपकैरष्टाविंशत्या परिकीर्त्तितः। सुवर्णसप्ततितमो भागोरोपक उच्यते”। सुवर्णस्त्वशीतिरत्तिकापरिमितं हेम। तथा च मनुः। “पञ्चकृष्णलकोमाषस्ते सुवर्णस्तु षोडश” इति अत्र काञ्चनं व्यक्तमाहामरसिंहः। “सुवर्णविस्तौ हेम्नोऽक्षः” इति। एवञ्च सप्तमांशाधिकहेमरत्तिका रोपकः तदष्टाविंशत्या द्वात्रिंशद्रत्तिकापरिमितोदीनारो निष्कः” प्रा० त० रघु०।
धेनुम्भव्या = स्त्री भव्या धेनुः “धेनोर्भव्यायाम्” गणसूत्रनिर्देशात् परनिपातः मुम् च। भवष्यन्त्यां धेन्वाम्
धेनुष्टरी = स्त्री अतिशयेन धेनुः तरप् ङीप् पारस्करादेराकृतिगणत्वात् सुट् षत्वञ्च। प्रशस्तधेन्वाम्। “सारस्वतीं धेनुष्टरीमालभेत” कठशाखाश्रुतिः।
धेनुष्या = स्त्री धेनु–संज्ञायां यत् सुक् च। ऋणशोधनार्थमुत्तमर्णाय बन्धकत्वेन दीयमानायां धेनौ अमरः। “गौर्महिषी वा या दुग्धबन्धके स्थिता सा धेनुष्येति” वृद्धाः। सा संजातास्य तार०इतच्। धेनुष्यित उत्तमर्णे
धेय = त्रि० धा–कर्मणि यत् १ धार्य्ये २ पोष्ये च। स आदिः स मध्यः स चान्तः प्रजानां स धाता स धेयः स कर्त्ता स कार्यम्” भा० शा० ३४२ अ० ईश्वरस्यैव सर्वरूपत्वात् तथात्वम्। धे–यत्। ३ पेये त्रि०। भावे यत्। ४ धारणे ५ पोषणे ६ पाने च।
धेष्ठ = त्रि० अतिशयेन धाता इष्ठन् तृणो लोपे गुणः। धारक तमे “मित्राणां मित्रपते धेष्ठः” ऋ० १। १७०। ५ “धेष्ठः अतिशयेन धारकः” भा०। नामधेयादौ स्वार्थे धेयप्रत्ययः।
धैनव = पुंस्त्री धेनोरपत्यम् उत्सा० विदा० वा अञ्। धेन्वपत्रे स्त्रियां ङीप्।
धैनुक = न० धेनूनां समूहः “अचित्तहस्तिधेनोष्ठक्” वा० टक् “इसुसुक्तान्तात् कः” पा० ठस्य कः। १ धेनुसमुदाये स्त्रीणां २ करणभेदे च मेदि०।
धैर्य्य = न० धीरस्य भावः कर्म वा ष्यञ्। १ धृतौ “स्थिरा चित्तोन्नतिर्या तु तद्धैर्य्यमिति संज्ञितमिति” भूपालकोषः। २ अप्रमादे ३ अत्याकुलत्वे ४ विघ्नाद्युपस्थितावपि प्रारब्धा- परित्यागहेतावन्तःकरणवृत्तिविशेषे। ५ निर्विकारचित्तत्वे। “मनसो निर्विकारत्वं धैर्य्यं सत्स्वपि हेतुषु” एतदभिप्रायेण “विकारहेतौ सति विक्रियन्ते येषां न चेतांसि तएव धीराः” इति कुमा० उक्तम्। “कुर्य्यां हरस्यापि पिनाकपाणेर्वैर्य्यच्युतिं के मम धन्विनोऽन्ये” कुमा०। “अवधीर्य धैर्यकलिता दयितम्” माघः। ६ नायकयोर्गुणभेदे धीरताशब्दे दृश्यम्। ७ पुरुषगुणभेदे यथा “शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्य तेजसी। ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषा गुणाः” इत्युद्दिश्य “व्यवसायादचलनं धैर्य्यं विघ्ने महत्यपि” सा० द० लक्षितम् उदाहृतञ्च “श्रुताप्सरोगीतिरपि क्षणेऽणिन् हरः प्रसंख्यानपरो बभूव। आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति”। स्वार्थे घ्यञ्। पुरुषमेधयज्ञे ८ हौम्यदेवभेदे पु०। तदुपक्रमे “मेधायै रथकारं धैर्य्याय तक्षाणम्” यजु० ३०। ७
धैवत = पु० धीमतामयम् अण् पृषो०। तन्त्रीकण्ठोत्थित सप्तस्वरेषु षष्ठे स्वरे तल्लक्षणं यथा “गत्वा नाभेरधोभागं वस्तिं प्राप्योर्द्धगः पुनः। धावन्निव च यो याति कण्ठं देशं स धैवतः” सङ्गीतदामो “अश्वस्तु धैवतं रौति” सङ्गीतशास्त्रीक्तेरस्याश्वस्वरतुल्यत्वम्। अस्य च वायुभवत्वेऽपि आकाशगुणत्वम् भा० शा० १८४ अ० उक्तं यथा “तत्रैकगुणमाकाशं शब्द इत्येव तत् स्मृतम्। तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्। षड्जऋषभगान्धारौ मध्यमो धैवतस्तथा। पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान्। एष सप्तविधः प्रोक्तो गुण आकाशसम्भवः। ऐश्वर्य्येण तु सर्वत्र स्थितोऽपि पटहादिषु। मृदङ्गभेरीशङ्खानां स्तनयित्नोरथस्य च। यः कश्चिच्छ्रूयते शब्दः प्राणिनोऽप्राणिनोऽपि वा। एतेषामेव सर्वेषां विषये संप्रकीर्त्तितः। एवं बहुविधाकारः शब्द आकाशसम्भवः। आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह। अव्याहतैश्चेतयते न वेत्ति विषमस्थितैः”।
धैवत्य = न० धीव्नोभावः ष्यञ् दाण्डिनायनेत्यादि० नि० नस्य तः। धीव्नोभावे।
धैवर = पुंस्त्री धीवरस्यापत्यं वा० अत इञ बाधित्वा वेदे अण्। धीवरापत्ये “सरोभ्यो धैवरम्” यजु० ३०। १६ लोके तु इञ् धैवरिरित्येव।
धोयी = पु० कविभेदे “धोयी कविः क्ष्मापतिः” गीतगो०
धोड = पुंस्त्री धुर–बधे अच रस्य लस्तस्य डः। (ढो~डा) सर्पभेदे डुण्डुभे शब्दर० स्त्रियां जातित्वात् ङीष्।
धोर = गतौ सक०चातुर्य्ये अक० भ्वा० पर० सेट। धोरति अधोरीत्। दुधोर ऋदित् णिच् चङि अदुधोरत् त।
धोरण = न० धोर–गतौ करणे ल्युट्। १ यानमात्रे हस्त्यश्वरथादौ त्रिका०। भावे ल्युट्। २ गतौ।
धोरणि(णी) = स्त्री धोर–अनि वा ङीप्। परम्परयाम् जटाधरः। “यैर्माकन्दवने मनोज्ञपवने सद्यःस्खलन्माधुरीधाराधोरणिधौतधामनि धराधीशत्वमालम्ब्यते। तेषां नित्यविनोदिनां सुकृतिनां माध्वीकपानां पुनः कालः किन्न करोति केतकि! यतस्त्वञ्चापि केलीस्थली” उद्भटः।
धोरित = न० धुर–धोर–वा भावे क्त। १ बधे २ गतौ ३ अश्वगतिभेदे हेमच०। स्वार्थे क। तत्रार्थे अमरः।
धौत = त्रि० धाव–क्त ऊठ्। १ प्रक्षालिते २ मार्जिते ३ शोधिते हेम० “ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकेन च। अधौतं तत् विजानीयात् दशा दक्षिणपश्चिमे” कर्मलोचनम्। “धौतोत्तरीयप्रतिमच्छवीनि” “परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः” माघः। ४ रौप्ये न० राजनि०। भावे क्त। ५ प्रक्षालने न०।
धौतकट = पु० नित्यकर्म०। सूत्रनिर्मितपात्रभेदे (धोकडा) जटा०
धौतकोषज = न० धौतं प्रक्षालितं कोषजं नित्यक०। कृमिकोषजाते वस्त्रभेदे शब्दर०।
धौतकौषेय = न० नित्यकर्म०। प्रक्षालिते कृषिकोषजाते वस्त्रे अमरः।
धौतबली = स्त्री धौताञ्जन्यां त्र्यङ्कटे शिक्यभेदे हारा०।
धौतमूलक = पु० १ चीनराजभेदे “अर्कजश्च बलीहानां चीनानां धौतमूलकः” भा० उ० ७३ अ०। धौतं मूलं यस्य कप्। २ प्रक्षालितमूलयुक्ते त्रि०।
धौतय = न० धौतमिव वर्णं याति या–क। सैन्धवे नैघण्टुप्रका०
धौतरि = त्रि० धूतमेव धौतं कम्पनमृच्छति ऋ–कि। कम्पन कारके स्त्रियां ङीप्। “स सवान्त्स्तौलाभिर्धौतरीभिः” ऋ० ६। ४४। ७ “धौतरीभिः कम्पनकारीभिः” भा०।
धौतशिल = न० धौता शिला यस्य। स्फटिके त्रिका०।
धौताञ्जनी = स्त्री त्र्यङ्कटे शिक्यभेदे मेदि०।
धौती = स्त्री धू–कर्तरि क्तिच् स्वार्थे अण् ङीप्। चलनकर्तरि “योधौतीनामहिहन्नारिणक् पथः” ऋ० २। १३। ५ “धौतीनां कम्पन्तीनाम्” भा०। धूति–स्वार्थे अण् ङिप्। २ हठयोगाङ्गभेदे हठयोगशब्दे दृश्यम्।
धौन्धुमार = न० धुन्धुमारमधिकृत्य कृतो ग्रन्थः अण्। भारत वनपर्वान्तर्गतोपाख्यानभेदे “ऐन्द्रद्युम्नमुपाख्यानं धौन्धु- मारं तथैव च” भा० आ० १ अ०। तच्च वनपर्वणि २०० अध्यायावधौ २०३ अध्यायान्ते दृश्यम्।
धौमक = पु० धूमे तत्प्रधानदेशे भवः धूमा० वुञ्। धूमप्रधानदेशभवे।
धौमतायन = पु० राजभेदे। तेन निर्वृत्तादि अरीहणादि० चतुरर्थ्यां वुञ्। धौमतायनक तन्निर्वृत्ते नगरादौ
धौमायनक = त्रि० धौमायनेन निर्वृत्तादि अरीहणादि० चतुरर्थ्यां वुञ्। धौमायननिर्वृत्तादौ।
धौमीय = त्रि० धूमेन निर्वृत्तादि० चतुरर्थ्याम् कुशाश्वा० छण्। धूमनिर्वृत्तादौ।
धौम्य = त्रि० धूमस्यापत्यं गर्गा० यञ्। १ धूमर्षेरपत्ये स च युधिष्ठिरपुरोहितः यथा “गन्धर्व उवाच यवीयान् देवलस्यैष वने भ्राता तपस्यति। धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ”। “तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमन्तु ते। तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत!। तान् धौम्यः प्रतिजग्राह सर्ववेदविदांवरः। वन्येन फलमूलेन पौरहित्येन चैव ह” भा० आ० १८३ अ०। व्याघ्रपादस्यर्षेः पुत्रभेदे २ उपमन्योरनुजे च। “पुरा कृतयुगे तात! ऋषिरासीनमहातपाः व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः। तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः। कस्यचित्त्वथ कालस्य धौम्येन सह माधवः” भा० आनु० १४ अ०। पश्चिमदिगाश्रिते ३ ऋषिभेदे च “उषङ्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान्। एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः। अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः। एते चैव महात्मानः पश्चिमामाश्रिता दिशम्” भा० शा० २०८ अ०
धौम्र = पु० धूम्रएव स्वार्थे अण्। ऋषिभेदे “धौम्यो विभाण्डो माण्डव्यो धौम्रः कृष्णानुभौतिकः” भा० शा० ४७ अ०। स्वार्थे अण्। २ धूम्रवर्णे ३ तद्वति त्रि० भावे अण्। ४ धूम्रवर्णत्वे धूम्रोदेवताऽस्य अण्। ५ वास्तुस्थानभेदे पु०
धौम्रायण = पुंस्त्री० धूम्रस्य गोत्रापत्यं अश्वा० फञ्। धूम्रर्षेः गोत्रापत्ये।
धौरादित्य = पु० तीर्थभेदे शिवपु०।
धौरित = न० धीरितमेव अण्। “धोरितं गतिमात्रं यद्योजितं वल्गितं पुनः। अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम्” इत्युक्ते अश्वगतिभेदे। स्वार्थे क धौरितक तत्रार्थे अमरः।
धौरेय = त्रि० धुर वहति “धुरो यड्दकौ” पा० ढक्। १ धूर्वहे अमरः। २ धुर्ये वृषे पु० राजनि०।
धौर्त्तक = न० धूर्त्तस्य भावः मनोज्ञा० वुञ्। धूर्त्तत्वे शाठ्ये
धौर्त्तेय = पुंस्त्री धूर्त्ताया अपत्यं “स्त्रीभ्यो ढक्” पा० ढक्। धूर्त्ताया अपत्ये बहुवचने योधेयादि० ततः प्रत्ययस्य न लुक्।
धौर्त्त्य = न० धूर्त्तस्य भावः कर्म वा ब्राह्मणा० ष्यञ्। १ धूर्त्तत्वे २ धूर्त्तकर्मणि च। “लेट लोट धौर्त्त्ये पूर्वभावे” कण्ड्वादिगणसूत्रम्।
धौर्य्य = न० धीर–धुर–वा ण्यत्। १ अश्वगतिभेदे धोरणे हेम०।
धौवकि = पुंस्त्री धुवकाया अपत्यं स्त्रीभ्यो ढकं बाधित्वा बाह्वादि० इञ्। धुवकाया अपत्ये।
ध्मा = अग्निसंयुतौ दीर्घश्वासहेतुके शब्दभेदे अक० तादृशशब्देन वादने सक०भ्वा० पर० अनिट्। धमति अध्मासीत्। दध्मौ ध्मातः। ध्मापयति “मुखेनैव धमेदग्निं मुखादग्निः प्रजायते” सस्कारतत्त्वम् “शङ्खान् दध्मुः पृथक् पृथक्” गीता। ध्मायते। अध्मायि। “दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः” मनुः। “वाष्वग्निभ्यां यथा लौहं ध्मातं त्यजति वै मलम्” भाग० ३। २८। ४०। आ–स्फीततायाम् आध्मानशब्दे दृश्यम्।
ध्माकार = पु० ध्मा–इत्यव्यक्रशब्दस्य कारः। १ (ध्मा) इति शब्द करणे। कृ–कर्त्तरि अण्। २ लोहकारके पु० नैघण्टुप्र०
ध्मा(ध्वा)क्ष = आकाङ्क्षे सक० धोररवे अक० भ्वा० पर० सेट् इदित्। ध्मा(ध्वा)ङ्क्षति। अध्मा(ध्वा)ङ्क्षीत्। दध्मा(ध्वा)ङ्क्ष। पा० मते वोपधः।
ध्मा(ध्वा)ङ्क्ष = पुंस्त्री ध्मा(ध्वा)क्षि–अच्। १ काके २ मत्स्यभक्षके पक्षिभेदे अमरः। ३ भिक्षुके ४ तक्षके च मेदि० ५ कक्कोलिकायां स्त्री गौ० ङीष्।
ध्मा(ध्वा)ङ्क्षजङ्घा = ध्मा(ध्वा)ङ्क्षस्येव जङ्घा अस्याः। काकजङ्घायाम् राजनि०।
ध्मा(ध्वा)ङ्क्षजम्बु = स्त्री ध्मा(ध्वा)ङ्क्षप्रिया जम्बुः। काकजम्ब्वां राजनि०।
ध्मा(ध्वा)ङ्क्षतुण्डी = ध्मा(ध्वा)ङ्क्षस्येव तुण्डमस्याः ङीष्। काकनासालतायां राजनि०।
ध्मा(ध्वा)ङ्क्षदन्ती = स्त्री ध्मा(ध्वा)ङ्क्षस्येव दन्ता अवयवोऽस्याः ङीष्। काकतुण्डीलतायां राजनि०।
ध्मा(ध्वा)ङ्क्षनखी = स्त्री ध्मा(ध्वा)ङ्क्षस्येव नखा अस्या ङीष्। काकतुण्ड्यां राजनि०।
ध्मा(ध्वा)ङ्क्षनाम्नी = स्त्री ध्मा(ध्वा)ङ्क्षं नामयति प्रियत्वात् नामि बा० मति। काकोदम्बरिकायां राजनि०।
ध्मा(ध्वा)ङ्क्षनाशिनी = स्त्री ६ त०। हपुषायां भावप्र०
ध्मा(ध्वा)ङ्क्षनासा = स्त्री ध्मा(ध्वा)ङ्क्षस्येव नासा यस्याः। काकनासिकायाम् राजनि०। वा कप् अत इत्त्वम् ध्मा(ध्वा) ङ्क्षनासिकाऽपि तत्रार्थे।
ध्मा(ध्वा)ङ्क्षपुष्ट = त्रि० ३ त०। कोकिले हारा० स्त्रियां जातित्वात् ङीष्।
ध्मा(ध्वा)ङ्क्षमाची = ध्मा(ध्वा)ङ्क्षमचते मच–अण् काकमाचीवत् साध्यम्। काकमाच्यां राजनि०।
ध्मा(ध्वा)ङ्क्षवल्ली = स्त्री तन्नामा वल्ली। काकनासायाम् राजनि०।
ध्मा(ध्वा)ङ्क्षादनी = स्त्री काकादनीवत् साध्यम्। काकतुण्ड्यां राजनि०।
ध्मा(ध्वा)ङ्क्षाराति = पु० ६ त०। पेचके हारा०। तदरिप्रभृतयोऽपि तत्रार्थे।
ध्मा(ध्वा)ङ्क्षी = स्त्री जातौ ङीष्। १ काक्यां २ काकोलिकायां च मेदि०।
ध्मा(ध्वा)ङ्क्षोली = स्त्री काकोलीवत् साध्यम्। काकोल्यां राजनि०।
ध्मात = त्रि० ध्मा–क्त। १ संधुक्षिते श्वासभूयिष्ठतया दीर्घभावेन २ लक्ष्यमाणे वर्णे च। ३ शब्दिते ४ वादिते च।
ध्मापन = न० ध्मा–णिच् भावे ल्युट्। वृंहणे शब्दार्थचि०।
ध्मापित = त्रि० धमापि–क्त। वृंहिते बहुलीकृते शब्दार्थचि०।
ध्यात = त्रि० ध्यै–क्त। चिन्तिते ध्यानविषयीभूते “तदात्मना ध्यातधवा रते च का” नैष०।
ध्यान = न० ध्यै–भावे ल्युट्। १ चिन्तने २ अद्वितीयवस्तुनि विच्छिद्यविच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहे। “शास्त्रोक्तदेवताद्यालम्बनेष्वचलो भिन्नजातीयैरनन्तरितः प्रत्ययसन्तान एकाग्रतेति यमाहुरिति” भाष्योक्तेः ३ ध्येयप्रत्ययैकतानत्वे। एकत्रधृतस्य चित्तस्य भगवदीकार वृत्तिप्रवाहोत्तरोत्तराऽन्याकारप्रत्ययाव्यवहिते ४ निदिध्यासनसंज्ञे चित्तस्यात्माकाराद्वयावृत्तौ। “ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः। ध्यानशब्देन विख्याता परमानन्ददायिनी” इत्युक्तेः ५ परमात्मचिन्तने। धारणा निरुद्धस्य त्रिनेत्रपञ्चबक्त्राद्याकारविषयायां ६ चिन्तायाम्। “चिन्ता तद्विषया ध्यान” मित्युक्तेः। “तत्र प्रत्ययैकतानता ध्यानम्” पा० सू० तत्र तस्मिन् देशे यत्र चित्तं धृतं तत्र प्रत्ययस्य ज्ञानस्य यैकतानता विसदृशपरिणामपरिहारेण यदेव धारणयावलम्बनीकृतम् तदालम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते। ध्यानपदनिरुक्त्यादिकमुक्तं महानिर्वाणतन्त्रे यथा “ध्यैचिन्तायां स्मृतो धातुः चिन्ता तत्त्वेन निश्चला। एतद् ध्यानमिह प्रोक्तं सगुणं निर्गुणं द्विधा। सगुणं मन्त्रभेदेन निर्गुणं केवलं मतम्” इति। अपि च “ध्यानं तु द्विविधं प्रोक्तं सरूपारूपभेदतः। अरूपं तत्र यद् ध्यानमबाङ्मनसगोचरम्। अव्यक्तं सर्वतो व्याप्तमिदमित्थविवर्जितम्। अगम्यं योगिभिर्गम्यं कृच्छ्रैर्बहुसमाधिभिः। मनसो धारणार्थाय शीघ्रं स्वाभीष्टसिद्धये। सूक्ष्मध्यानप्रबोधाय स्थूलध्यानं वदामि ते। अरूपायाः कालिकायाः कालमातुर्महाद्युतेः। गुणक्रियानुसारेण क्रियते रूपकल्पना” ब्रह्मचिन्तायां यथा
“व्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो धृतिः। अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः” इति गारुडे ४९ अ०। तत्कालभेदश्च “प्राणायामैर्द्वादशभिर्यावत् कालं हृतो भवेत्। यस्तावत्कालपर्यन्तं भनो ब्रह्मणि धारयेत्। तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः। द्वादशध्यानपर्यन्तं मनो ब्रह्मणि यो नरः। तिष्ठेत स यतो मुक्तः समाधिः सोऽभिधीयते। ध्येयान्न चलते यस्य मनोऽभिध्यायतो भृशम्। प्राप्यावधिकृतं कालं यावत् सा धारणा स्मृता। ध्येयसक्तं मनो यस्य ध्येयमेवानुपश्यति। नान्यं पदार्थं जानाति ध्यानमेतत् प्रकीर्तितम्। ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन्। यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः। ध्येयमेव हि सर्वत्र ध्याता तल्लयतां गतः। पश्यति द्वैतरहितं समाधिः सोऽभिधीयते” इति गारुडे २४० अ० अग्निपुराणे च तन्निरुक्त्यादिकमुक्तं यथा “अग्निरुवाच। ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहुर्मुहुः। अनाक्षिप्तेन मनसा ध्यानमित्यभिधीयते। आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च। ब्रह्मचिन्ता समासक्तिर्ध्यानं नाम तदुच्यते। ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च। प्रत्ययान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते। ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रचित्। ध्यानभेतत्समुद्दिष्टं प्रत्ययस्यैकतानता। एवं ध्यानसमायुक्तः स्वदेहं यः परित्यजेत्। कुलं स्वजनमित्राणि समुद्धृत्य हरिर्भवेत्। एवं मुहूर्त्तमर्धं वा ध्यायेद् यः श्रद्धया हरिम्। सोऽपि यां गतिमाप्नोति न तां सर्वैर्महामखैः। ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम्। एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्ववित्। योगाभ्यासाद्भवेन्मुक्तिरैश्वर्य्यञ्चाष्टधा महत्। ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः। विष्णुभक्तः सदोत्साही ध्यातेत्थं पुरुषः स्मृतः। मूर्तामूर्तं परं ब्रह्म हरेर्ध्यानं हि चिन्तनम्। सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः। अणिमादिगुणैश्वर्य्यं मुक्ति- र्ध्यानप्रयोजनम्। फलेन योजको विष्णुरतो ध्यायेत् परेश्वरम्। गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन् निमिषन्नपि। शुचिर्वाप्यशुचिर्वापि ध्यायेत् सततमीश्वरम्। स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम्। हृत्पद्मपीठिकामध्ये ध्यानयोगेन पूजयेत्। ध्यानयज्ञः परः शुद्ध्वः सर्वदोषविवर्जितः। तेनेष्ट्वा मुक्तिमाप्नोति बाह्याशुद्धैश्च नाध्वरैः। हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्तसाधनः। ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः। तस्मादशुद्धं सन्त्यज्य ह्यनित्यं बाह्यसाधनम्। यज्ञाद्यं कर्म सन्त्यज्य योगमत्यर्थमभ्यसेत्। विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितम्। चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयम्। तमः प्रच्छाद्य रजसा सत्वेन छादयेद्रजः। ध्यायेत्त्रिमण्डलं पूर्वं कृष्णं रक्तं सितं क्रमात्। सत्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः। ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत्। ऐश्वर्य्यं पङ्कजं दिव्यं पुरुषोपरि संस्थितम्। द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितम् नालमष्टाङ्गुलं तस्य नाभिकन्दसमुद्भवम्। पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम्। कर्णिकाकेसरं नालं ज्ञानवैराग्यमुत्तमम्। विष्णुधर्मश्च तत्कन्दमिति पद्मं विचिन्तयेत्। तद्धर्मज्ञानवैराग्यं शिवैश्वर्य्यमयं परम्। ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात्। तत् पद्मकर्णिकामध्ये शुद्धदीपशिखाकृतिम्। अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरम्। कदम्बगोलकाकारं तारं रूपमिव स्थितम्। ध्यायेद्वा रश्मिजालेन दीप्यमानं समन्ततः। प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्वरम्। ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरम्। मनःस्थित्यर्थमिच्छन्ति स्थूलध्यानमनुक्रमात्। तद्भूतं निश्चलीभूतं लभेत् सूक्ष्मेऽपि संस्थितिम्। नाभिकन्दे स्थितं नालं दशाङ्गुलसमायतम्। नालेनाष्टदलं पद्मं द्वादशाङ्गुलविस्तृतम्। सकर्णिके केसराले सूर्य्यसोमाग्निमण्डलम्। अग्निमण्डलमध्यस्थः शङ्खचक्रगदाधरः। पद्मी चतुर्भुजो विष्णुरथ वाष्टभुजो हरिः। शार्ङ्गाक्षवलयधरः पाशाङ्कुशधरः परः। स्वर्णवर्णः श्वेतवर्णः सश्रीवत्सः सकौस्तुभः। वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः। रत्नीज्ज्वलकिरीटश्च पीताम्बरधरो महान्। सर्वाभरणमूषाढ्यो वितस्तिर्वा यथेच्छया। अहं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओम्। ध्यानाच्छ्रान्तो जपेन्मन्त्रं जपाच्छ्रान्तश्च चिन्तयेत्। जपध्यानादियुक्तस्य विष्णुः शीघ्रं प्रसीदति। जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति षोडशीम्। जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः। भुक्तिर्मुक्तिर्मृत्युजयो जपेन प्राप्नुयात् फलम्” ३७३ अ०। ध्यानप्रकारादिकमुक्तं मिताक्षरायां यथा “ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम्। उत्तानं किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा। निमीलिताक्षः सत्वस्थो दन्तैर्दन्तानसंस्पृशन्। तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः। संनिरुद्धेन्द्रियग्रामं नातिनी चोच्छ्रितासनः। द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत्। ततो ध्येयः स्थितो योऽसौ हृदये दीपवत् प्रभुः। धारयेत्तत्र चात्मानं धारणां धारयन् बुधः” याज्ञ०। “ऊरुस्थावुत्तानचरणौ यस्य स तथोक्तो बद्धपद्मासनः। तथोत्ताने सव्यकरे दक्षिणमुत्तानं न्यस्य मुखञ्च किञ्चिदुन्नाम्यो रसा च विष्टभ्यं स्तम्भयित्वा तथा निमीलिताक्षः सत्वस्थः कामक्रोधादिरहितो दन्तैर्दन्तानसंस्पर्शयन्। तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः संवृतास्यः पिहिताननः सुनिश्चलो निष्प्रकम्पस्तथा सम्यगिन्द्रियसमूहं विषयेभ्यः प्रत्याहृत्य नातिनीचासनो नात्युच्छ्रितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः सन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासमुपक्रमेत्। ततो वशीकृतपवनेन योगिना योऽसौ हृदये दीपवदप्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्यः तत्र च हृद्यात्मानं मनोगोचरतया धारयेत्। तथा धारणाञ्च धारयेत्। धारणास्वरूपञ्च जान्वग्रभ्रमणेन छोटिकादानकालो मात्रा। ताभिः पञ्चदशमात्राभिरधमः प्राणायामस्त्रिंशद्भिर्मध्यमः। पञ्चचत्वारिंशद्भिरुत्तम इत्येवं प्राणायामत्रयात्मिकैका धारणा। तास्तिस्रो योगशब्दवाच्यास्तांश्च धारयेत्। यथीक्तमन्यत्र “संभ्राम्य छोटिकां दद्यात् कराग्रञ्जानुमण्डले। मात्राभिः पञ्चदशभिः प्राणायामीऽधमः स्मृतः। मध्यमो द्विगुणः श्रेष्ठस्त्रिगुणो धारणा तथा। त्रिभिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव चेति” मिता०। “हृदयस्थस्य योगेन देवदेवस्य दर्शनम्। ध्यानं प्रोक्तं प्रवक्ष्यामि सर्वस्मात् योगतः शुभम्” हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः। हृदि ज्योतींषि मूयश्च हृदि सर्वं प्रतिष्ठितम्। स्वदेहमरणिं कृत्वा प्रणवञ्चोत्तरारणिम्। ध्याननिर्मथनाभ्यान्तु विष्णुं पश्येद्धृदि स्थितम्। हृद्यन्तश्चन्द्रमाः सूर्य्यः सोममध्ये हुताशनः। तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितो-ऽच्युतः। अणोरणीयान् महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्। तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः” शङ्खः। “प्राणायामद्विषट्केन प्रत्याहार उदाहृतः। प्रत्याहारैर्द्वादशभिर्द्धारणा परिकीर्त्तिता। भवेदीश्वरसङ्गत्यै ध्यानं द्वादशधारणम्” काशीख० ४१ अ०। “समाहितेन मनसा चैतन्यान्तरवर्त्तिना। आत्मनोऽभीष्टदेवानां ध्यानं ध्यानमिहोच्यते” शा० ति०। ध्यायतेऽनेन ध्यै–करणे ल्युट्। देवानां ७ ध्येयरूपभेदे “ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वार्चयेदिमाम्” तन्त्रसारः। “तस्य (वटुकस्य) ध्यानं त्रिथा प्रोक्तं सात्विकादिप्रभेदतः” तत्र सात्विकं यथा “बन्दे बालं स्फटिकसदृशं कुन्तलोद्भासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः। दीप्ताकारं विशदवसनं “सुप्रसन्नं त्रिनेत्रं हस्ताब्जाभ्यां वटुकमनिशं शूलदण्डौ दधानम्”। राजसं यथा “उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजम् स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः। नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं बभ्रूकारुणवाससं मयहरं देवं सदा भावये” तन्त्रसा० तामसध्यानं तु तामसशब्दे पृ० उक्तम् देवानां स्वरूपभेदेनैव ध्येयत्वात् स्वरूपस्य ध्यानत्वम्। देवताप्रतिमाशब्दे च ३६८५ पृ० येषां मूर्त्तिभेदा यथा दर्शिताः तथैव तेषां ध्येयता। अन्यदेवताध्यानं तु तन्त्रसार कालिकापुराणादौ दृश्यम् विस्तरभयात् न लिखितम्। “ज्ञानात् ध्यानं विशिष्यते। ध्यानात् कर्मफलत्यागः गीता। “आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयेत् प्रज्ञां लभते योगमुत्तमम्” श्रुतिः। “इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः” रघुः “सर्वदेवाः प्राकृतिका यावन्तो मूर्तिधारिणः। अहमात्मा नित्यदेहो भक्तध्यानानुरूपतः” ब्रह्मवै० जन्मख०। ८ उपनिषद्भेदे उपनिषच्छब्दे १२२२ पृ० दृश्यम्।
ध्यानजप्य = पु० विश्वामित्रवंश्ये ऋषिभेदे “पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च” हरिवं० २७ अ० विश्वामित्रवंश्यर्षिकथने।
ध्यानयोग = पु० ध्यानमेव योगः। ध्यानरूपे योगे योगाङ्गभेदे “ते ध्यानयोगानुगता अपश्यन्” श्वेताश्वतरोप० “ध्यानं नाम चित्तैकाग्र्यं तदेव योगो युज्यतेऽनेन इति ध्यातव्यस्वीकारोपायस्तमनुगताः समाहिता अपश्यन्” भा० “ध्यानयोगेन संपश्येत् गतिमस्यान्तरात्मनः” मनुः।
ध्यानाभ्यास = पु० ध्यानानामभ्यासः। समाधौ “ध्यानद्वादशकेनैव समाधिरभिधीयते” काशीख० ४३ अ० उक्तेः समाधेर्ध्यानाभ्यासरूपत्वम्। “आगमेनानुमानेन ध्यानाम्यासरसेन च। त्रिधा प्रकल्पयेत् प्रज्ञां लभते योगमुत्तमम्” श्रुतिः।
ध्यानिक = त्रि० ध्यानेन निर्वृत्तं ठक्। ध्यानसाध्ये “ध्यानिकं सर्वमेवैतत् यदेतदभिशब्दितम्” मनुः।
ध्याम = न० ध्यायते पशुभिः ध्यै–कर्मणि मन्। १ गन्धतृणे २ मदनवृक्षे च संज्ञायां कन्। ध्यामक। रोहिषतृणे राजनि०।
ध्यामन् = पु० ध्यै–मनिन्। १ परिमाणे २ तेजसि च उज्ज्वलद० भावे मनिन्। चिन्तायां न० उणादिकोषः।
ध्येय = त्रि० ध्यै–कर्मणि यत्। ध्यातव्ये “ध्येयः सदा सवितृमण्डलमध्यवर्त्ती” विष्णुध्यानम् “वेद्यश्च वेदिता चासि ध्याता ध्येयञ्च यत्परम्” कुमा० ध्यानशब्दे उदा०।
ध्यै = चिन्तने भ्वा० पर० सक० अनिट्। ध्यायति अध्यासीत्। दध्यौ “ध्यायतीव लेलायतीव” श्रुतिः। ध्यानशब्दे उदा०। “ध्यायेत् नित्यं महेशम्” शिवध्यानम्।
ध्र = त्रि० कस्मिंश्चिदुपपदे धृ–मूलविभुजा० क। धारके महीध्रः कुध्र इत्यादि।
ध्रज = गतौ भ्वा० पर० सक० सेट्। ध्रजति अध्राजीत् अध्रजीत् अयमिदिच्च ध्रञ्जति अध्रञ्जीत्। दध्राज दध्रञ्ज। ध्रज्यते ध्रञ्ज्यते। “उपध्रजन्तमद्रयो विधन्नित्” ऋ० १। १४९। १ “घृणा न यो ध्रजसा पत्मना” ऋ० ६। ३। ७ ध्रजअसुन्। “ध्रजसा गतिशीलेन” भा०।
ध्रजि = त्रि० ध्रज–गतौ इन्। गतौ ततः अस्त्यर्थे मतुप् ध्रजिमत् गतियुक्ते त्रि०। “धुनिर्वात इव ध्रजीमान्” ऋ० १। ७९। १ दीर्घश्छा सः। अस्य यवादिगणे पाठश्चिन्त्यप्रयोजनः माद्युपधत्वाभावेनवस्याप्रसक्तेः।
ध्रण = ध्वाने भ्वा० पर० अक० सेट्। ध्रणति अध्रणीत् अध्राणीत् दध्राण।
ध्रस = कणश आदाने क्य्रा० पर० सक० सेट्। ध्रस्नाति अध्रसीत् अध्रासीत् दध्रास। उदित् ध्रसित्वा ध्रस्त्वा। ध्रस्तः।
ध्र(ध्रा) = गतौ निघण्टुः। भ्वा० पर० सक० सेट् ध्रा अनिट्। ध्रति ध्राति अध्रीत् अध्रासीत्। दध्र दध्रौ “ध्रयति ध्रायति” इति तत्र निर्देशात् ध्रे ध्रै इत्यपि धातू गतौ भ्वा० पर० अनिटौ। तत्र ध्रे ध्रयति ध्रै ध्रायति इति आर्द्धधातुके ध्रावत्।
ध्राक्ष = काङ्क्षे घोररवे च भ्वा० पर० सक० सेट् इदित्। ध्राङ्क्षति अध्राङ्क्षीत्। दध्राङ्क्ष इदित् ध्राङ्क्ष्यते।
ध्राक्षा = स्त्री ध्राङ्क्ष भावे अङ् यवादिगणसूत्रे ध्राक्षेति निर्देशात् उपधालोपः। १ गतौ ततोऽस्त्यर्थे मतुप यबा० न मस्य वः। ध्राक्षामत् गतियुक्ते त्रि० स्त्रियां ङीप्
ध्राख = शोधने अलमर्थे च भ्वा० पर० सक० सेट्। ध्राखति अध्राखीत् दध्राख। ऋदित् चङि अदध्राखत् त। अलमर्थः पर्याप्तिश्चेत् तत्र अक०।
ध्राघ = शक्तौ भ्वा० आत्म० अक० सेट्। द्राघते अद्राघिष्ट। दध्राघे। ऋदित् चङि अदध्राघत् त।
ध्राजि = त्रि० ध्रज–गतौ बा० भावे इण्। गतौ “ध्राजिरेकस्य ददशे न रूपम्” ऋ० १। ६४। ४४ “ध्राजिर्गतिः” भा० णिच् कर्त्तरि इन्। १ तृणादेर्वक्रगतिकारके २ वातभेदे (घुरणा वातास) उणादिकोषः।
ध्राड = विभेदे भ्वा० आत्म० सक० सेट्। ध्राडते अध्राडिष्ट। दध्राडे। ऋदित् चङि अदध्राडत् त।
ध्राडि = पु० ध्राड–इन्। पुष्पचये उणादिकोषः।
ध्रिज = गतौ भ्वा० पर० सक० सेट्। ध्रेजति अध्रेजीत् दिध्रेज
***