धि = धृतौ तु० पर० सक० अनिट्। धियति अधैषीत्। दिधाय।
धिक् = अव्य० धक्क–नाशने धा–धारणे वा बा० डिकन्। १ अपकारशब्दैर्भयोत्पादने २ निर्भर्त्सने ३ निन्दायाञ्च। एतद्योगे निन्दाविषयवाचकशब्दात् द्वितीया। “धिक् धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा” सा० द०। “धिगस्तु तृष्णातरलं भवन्मनः” नैष०। निन्दनीयपरत्वे न द्वितीया किन्तु प्रथमैव। “धिङ्माता मम कैकेयी यया पापमिदं कृतम्” रामा० अयो० ८२ स०।
धिक्कृ = धिक् + निन्दने कृ–करणे प्रादिस० उभ० सक० अनिट्। धिक्करोति धिगकार्षीत् धिक्चकार। धिक्कृतः (तिरस्कृतः) धिक्कारः धिक्क्रिया इत्यादि।
धिक्ष = सन्दीपने सक० क्लेशे जीवने अक० भ्वा० आत्म० सेट्। धिक्षते अधिक्षिष्ट दिधिक्षे।
धिग्दण्ड = पु० धिगिति दण्डः। निर्भर्त्सनरूपे दण्डे “वाग्दण्डं प्रथमं कुर्य्यात् धिग्दण्डं तदनन्तरम्” मनुः।
धिग्वण = पुंस्त्री मनूक्ते सङ्कीणजातिभदे “ब्राह्मणादुग्रकन्याया मावृतो नाम जायते। आभीरोऽम्बष्ठकन्यायामायोगव्यान्तु धिग्वणः” मनुः। “शूद्रेण वश्यायामुत्पन्ना आयोगवी तस्यां ब्राह्मणाद्धिग्वणो जायते” कुल्लू०। “धिग्वणानां चर्म कार्य्यं वेणानां भाण्डवादनम्” मनुना तद्वृत्तिरुक्ता।
धित = त्रि० धा–क्त छान्दसो न हिः। हिते निहिते। “श्रुष्टीवानं धितावानम्” ऋ० ३। २७। २ धृते च।
धिति = स्त्री धि–धृतौ क्तिन्। धारणे
धिप्सु = त्रि० दन्भ–सन् इडभावभक्षे “दम्भ इच्च अभ्यासलोपः ततः उ। दम्भितुमिच्छौ वञ्चयितुमिच्छौ “भूयस्तं धिप्सुमाहूय राजपुत्रं दिदम्भिषुः” भट्टिः।
धियसान = त्रि० धि–धारणे वेदे बा० असानच् किच्च। धारके “स त्वं न इन्द्र धियसानः” ऋ० ५। ३३। २ “धियसानः धारयन्” भा०।
धियाम्पति = पु० ६ त० अलुक्समा०। वृहस्पतौ त्रिका०।
धियायत् = त्रि० ई–कान्तौ (इच्छायाम्) शतृ यन् ३ त० छान्दसः अलुक्समा०। कर्मण इच्छति “एष पुरू धियायते वृहते देवतातये” ऋ० ९। १५। २ “धियायते कर्मण इच्छते द्वितीयार्थे तृतीयायाः छान्दसोऽलुक्” भा०।
धियायु = त्रि० धि–धारणे धीयते ज्ञायते अनया धि–बा० करणे श धिया तां प्रज्ञामात्मनः इच्छति क्यच् “क्यचश्छन्दसि” पा० उ। आत्मनः प्रज्ञाकामशीले। “विप्रासो वा धियायवः” ऋ० १। ८। ६।
धियावसु = त्रि० धिया कर्मणा वसु यस्मात् वेदे अलुक्स०। कर्मणा वसुनिमित्ते देवभेदे सरस्वतीरूपा देवतैव धियावसुः। “यज्ञं वष्टु धियावसुः” ऋ० १। ३। १० “कर्महेतुधननिमित्तभू ताया वागदेवतायास्तथाविधं धननिमित्तत्वमारण्यकाण्डे“वाग्वै धियावसुः” श्रुत्या व्याख्यातम्” भा०।
धिव = प्रीणने गतौ च सक० स्वा० पर० सेट् इदित् सार्वधातुके धिः आदेशः। धिनोति अधिन्वीत् दिधिन्व। इदित् धिन्व्यते। “धान्यमसि धिनुहि देवान्” यज० १। २० “भर्गगृहिणीं रुधिरैर्धिनोमि” प्रबोधच०। “धिनोति नास्मान् जलजेन पूजा” नैष०।
धिष = रवे जु० पर० अक० सेट्। दिधेष्टि अधेषीत् दिधेष। वैदिकोऽयम्। “सूरींश्चिद्यदि धिषा वेषि जनान्” ऋ० १। १७३। ८ “धिषा यदि धिषण्यन्तः सरण्यान्त्सदन्तो अद्रिमौशिजस्य गोहे” ऋ० ४। २१। ६।
धिषण = पु० धृष्णोति धृष–“धृषोधिष च संज्ञांयाम्” उणा० क्यु। १ वृहस्पतौ। धृष्णोत्यनया करणेल्यु। २ बुद्धौ स्त्री अमरः “पराय धिषणाभ्यः” ऋ० ९। ५९। २। “आर्य्यपुत्रार्य्यधिषण! प्राणनाथ! शुभव्रत” काशीख० १० अ०। ३ स्तुतौ ४ वाचि ५ पृथिव्याञ्च निघ० ६ स्थाने च “तदा विकुण्ठधिषणात्तयोर्निपतमानयोः” भाग० ३। १६। ३३। “ये पारमेष्ट्यं धिषणमधितिष्ठन्न कञ्चन प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः” भाग० ६। ७। १३।
धिषणाधिप = पु० ६ त०। १ वाक्पतौ सुराचार्य्ये मत्स्यपु०
धिषण्य = धिषणामिच्छति क्यच् छान्दसदीर्घाभावेऽल्लोपः आत्मनःस्तुतीच्छौ अक० प० सेट्। धिषण्यति अधिषण्यीत् “धिषा यदि धिषण्यन्तः” ऋ० ४। २१। ६
धिष्ट्य = न० धिष–अघ्न्या० नि०। धिष्ण्यशब्दार्थे मुकुटः
धिष्ण्य = न० धिष–“सानसिधर्णसीत्यादि” उणा० नि०। १ स्थाने २ गृहे ३ नक्षत्रे च अमरः ४ अग्नौ ५ शक्तौ च पु० मेदि०। ६ शुक्राचार्य्ये। तत्र स्थाने “न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयाण्यपि” रघुः। “स्वर्गे लोके श्ववतां नास्ति धिष्ण्यम्” भा० महा० ३ अ०। नक्षत्रे “भवन्त्यतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाः” सू० सि०। ७ प्राणाभिमानिदेवे च “देवा ऊचिषे धिष्ण्या ये” ऋ०३। २२। ३ “धियं बुद्ध्युपहितं देहमुष्णन्ति उष्णीकुर्वन्ति धिषण्याः प्राणाभिमानिनो देवाः उष–दाहे “सानसिधर्णसीत्यादि” उणा० नि० यत् णुडाममः धात्वादिलोपोपपदह्रस्वाः” भा० धिष्ण्यं स्थानमर्हति यत् यलोपाल्लोपौ। ८ स्थानार्हे स्तुत्ये त्रि०। “को धिष्ण्यां प्रति वाकं पपाद” ऋ० १०। ११४। ९ “धिषणार्हे स्तुत्यर्हे” भा० स्तुत्यस्य स्थानार्हत्वात् तथात्वम्। “आविवासन् रोदसी धि मे” ऋ० ७। ७२। ३। “रोदसी धिष्ण्ये धिषणार्हे स्तुत्ये” भा०। उष–दाहे इति धात्वर्थामुगमात्। १० उल्काभेदे स्त्री वृ० स० ३२ अ० “दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युलकाः। धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः”। “उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिमिः पक्षैः”। “तारा फलपादकरी फलार्धदात्री प्रकीर्त्तिता धिष्ण्या” सा च “धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यतेऽन्तराभ्यधिकम्। ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन” लक्षिता।
धी = अनादरे आराधने च दिवा० आत्म० सक० अनिट्। धीयते अधेष्ट। दिध्ये ओदित् धीनः। “सत्यं परं धीमहि” भाग० १। १। १ कातन्त्रमतेऽस्य ओदित्त्वं नास्ति धीत इति। वेदे तु न ओदित् “धीतः विश्वान्यश्विनायुधं प्रधीतान्यगच्छम्” ऋ० ८। ८। १० “सखीयते संधीतमश्नुतम्” ८। ४०। ३। आधारे अक० इत्यन्ये।
धी = स्त्री ध्यै सम्प० भावे–क्विप् संप्रसारणञ्च। १ बुद्धौ ज्ञाने अमरः। “प्रसीद कथयात्मानं न धियां पथि। वर्त्तसे” कुमा०। २ मानसवृत्तिभेदे “तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्” वेदान्त० “धियो योनः प्रचोदयात्” गायत्री सा च न्यायनये आत्मवृत्तिः। “बुद्ध्यादि षट्कं संख्यादिपञ्चकं भावना तथा। धर्माधर्मौ गुणा एते आत्मनः स्युश्चतुर्दश” भाषा०। वेदान्तमते मनोवृत्तिः। “कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव” श्रुतिः। ४ कर्मणि च “उधः स धियामुदञ्चनः” ऋ० ५। ११। १६। “धियां कर्मणाम्” भा० “धीभिश्चन मनसा स्वेभिरक्षभिः” ऋ० १। १३९। २५ मनसि च “धीजवनोऽसि सोम!” ऋ० ९। ८८। ३ “धीजवनः मनोवेगः” भा० धीगुणशब्दे दृश्यम्।
धीक्ष = दीक्षार्थे भ्वा० आत्म० सक० सेट्। धीक्षते अधीक्षिष्ट दिधीक्षे “स वै धीक्षते वाचे हि धीक्षते यज्ञाय हि धीक्षते यज्ञो हि वाग् धीक्षितोह वै नामैतद्यद्धीक्षते” शत० ३। २। २३०। अयञ्च वैदिकः दीक्षसमानार्थकः। लोके तु दीक्षतेइत्यादि
धीगुण = पु० ६०। “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणं तथा। ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः” कामन्दकोक्तेषु अष्टसु बुद्धिधर्मेषु “धियां समस्तैः स गुणैरुदारधीः” रघुः।
धीत = त्रि० धे–क्त। १ पीते धी–क्त। धीनः लोके। वेदे तु धीतः। २ अनादृते ३ आराधिते च त्रि०।
धीति = स्त्री धे–क्तिन्। १ पाने २ पिपासायां हेमच०। ३ अनादरे ४ आराधने च ५ अङ्गुलौ निघ०। “तमीं हिन्वन्ति धीतयो दश व्रिशः” ऋ० १। १४४। ५ “धीतयो दशसंख्यका अङ्गुलयः” भा०। “धीतिरुक्थाय शस्यते” ऋ० १। ११०। १
धीदा = स्त्री धियं ददाति दा–क। १ मनीषायां २ कन्यायां हेम० ३ बुद्धिदायके त्रि०।
धीन्द्रिय = न० धीजनकमिन्द्रियम्। श्रोत्रादौ ज्ञानेन्द्रियशब्दे ३१५१ पृ० दृश्यम्।
धीमत् = पु० धीः प्रज्ञास्त्यस्य मतुप्। १ वृहस्पतौ २ बुद्धिमति पण्डितादौ त्रि०। “स्वायम्भवो मनुर्धीमानिदं शास्त्रमकल्पयत्” भनुः स्त्रियां ङीप्।
धीर = अवज्ञायाम् नित्यमवपूर्वकोऽयम् अवधीरवत् तच्छब्दे ४२७ पृ० दृश्यम्।
धीर = त्रि० धियं राति रा–क। धियमीरयति ईर–अण् वा उप० स०। १ पण्डिते २ धैर्य्यान्विते अचञ्चले ३ स्वैरे मेदि०। ४ बलयुते शब्दर०। ५ मन्द्रे त्रिका० ६ विनीते संक्षिप्त०। ६ कुङ्कुमे न० मेदि०। ८ ऋषभौषधौ पु० राजनि०। ९ बलिराजे पु० शब्दच०। १० चिदाभासद्वारा बुद्धिवृत्तिप्रेरके चिदात्मनि पु०। ११ मनोहरे त्रि० “धीरसमीरे यमुनातीरे वसति वने वनमाली” गीतगो० “प्रवृद्धमन्द्राम्बुदधीरनादः” माघः। “मृदङ्गधोरध्वनिमन्वगच्छत्” रघुः। “अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव” रघुः। तत्र पण्डिते “धीरैर्धीरोद्धतः कथितः सा० द०। “सोपधानान्धियं धीराःस्थेयसीं खट्टयन्ति ये” माघः। १२ काकोल्यां १३ महाज्योतिष्मत्या स्त्री राजनि० १४ मानयुतायां मध्यायां प्रगल्भायां च नायिकायां स्त्री। तल्लक्षणभेदादिकं रसमञ्जर्य्यामुक्तां यथा
“मध्याप्रगल्भे मानावस्थायां प्रत्येकं त्रिबिधे धीरा अधीरा धीराधीरा च व्यङ्ग्यकोपप्रकाशिका धीरा। अव्यङ्ग्यकोपप्रकाशिका अधीरा। व्यङ्गाव्यङ्गकोपप्रकाशिका धीराधीरा। इयांस्तु विशेषः। मध्यायाधीरायाः कोपस्य गीर्व्यञ्जिका। अधीरायाः परुषवाक्। धीराधीरायास्तु वदनरुदिते कोपप्रकाशके। प्रौढाया धीरायास्तु रत्यौदास्यम्। अधीरायास्तु तर्जनताडनादिः। धीराधीरायास्तु रत्यौदास्यतर्जनताडनादि च कोपस्य प्रकाशकम्। यत्तुधीराभेदः स्वीयायामेव न तु परकीयायामिति प्राचीनलिखनम् तदाज्ञामात्रं धीरत्वमधीरत्वं तदुभयं वा माननियतं परकीयाया अपि मानश्चेत्तत्तासामप्यावश्यकम्। मानश्च स्वीयायामेव न तु परकीयाया इति वक्तुं न शक्यते”। साहित्यदर्पणे तु अन्यथोक्तम् यथा “ते धीरा चाप्यधीरा च धीराधीरेति षड्विधे” ते मध्या प्रगल्भे तत्र। “प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेद्रुषा। धीराधीरा तु रदितैरधीरा परुषोक्तिमिः। तत्र मध्याधीरा यथा “तदवितथमवादीर्य्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद् दुकूलं दधानः। मदधिवसतिमागाः, कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं बल्लभालोकनेन”। प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा। उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः। तत्र प्रिये। “एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतस्ताम्बूलानयनच्छलेन रभसाऽश्लेषो संविघ्नितः। आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः”। प्रत्येकं ता अपि द्विधा। कनिष्ठाज्येष्ठारूपत्वान्नायकप्रणयं प्रति”।
धीरता = स्त्री धीरस्य भावः। १ अचाञ्चल्ये २ धैर्य्ये ३ पाण्डित्येच “सहजामप्यपहाय धीरताम्” रघुः। “प्रत्यादेशान्न खलु भवतो धीरतां तर्कयामि” मेघ०। त्वधीरत्व तत्रार्थे न० तच्च नायकयोर्गुणभेदे। “प्रागल्भ्यौदार्य्यमाधुर्य्यं शोभा धीरत्वकान्तयः। दीप्तिश्चायत्नजाभावहावहेलाः स्त्रियोऽङ्गजाः। अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः। शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता। औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः। पूर्वे भावादयो धैर्य्यान्ता दश नायकानामपि सम्भवन्ति किन्तु सर्वेऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णन्ति” तल्लक्षणमुदाहरण च तत्रैव। “मुक्तात्मश्लाघना धैर्य्यं मनोवृत्तिरचञ्चला। यथा “ज्वलतु गगने रात्रौ रात्राव खण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति। मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्”
धीरपत्री = स्त्री धीरं मनोहरं पत्रमस्याः ङीप्। १ धरणीकन्दे राजनि० २ मनोहरपत्रयुक्ते त्रि० स्त्रियां टाप्।
धीरप्रशान्त = पु० “सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः स्यात्” सा० द० लक्षिते नायकभेदे यथा मालतीमाधवादौ माधवादिः।
धीरललित = पु० “निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात्” सा० द० १ लक्षिते नायकभेदे यथा रत्नावल्यादौ वत्सराजादि। २ षोडशाक्षरपादके छन्दीभेदे स्त्री “संकथिता भरौ नरनगाश्च धीरललिता” वृ० र० टी०।
धीरस्कन्ध = पुंस्त्री धीरः अचञ्चलः स्कन्धोऽवयवोऽस्मात्। मस्तिष्के हेमच०।
धीराधीरा = स्त्री “धीराधीरा (मध्या) तु रुदितैरधीरा परुषोक्तिभिः” “धीराधीरा (प्रगलभा) तु सोल्लुण्ठमाषितैः खेदयेदमुम्” सा० द० उक्ते नायिकाभेदे अमुं नायकम् यथा “अनलङ्कृतोऽपि सुन्दर! हरसि मनो मे यतः प्रसमम्। किं पुनरलङ्कृतस्त्वं संप्रति नखरक्षतैस्तस्याः”।
धीरावी = स्त्री धीरमवति अव–प्रीणने अण् ङीप्। शिंशपावृक्षे नैघण्टुपार०।
धीरोदात्त = पु० “अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः। स्थेयान् निगूढमानो धीरोदात्तो दृढव्रतः कथितः” सा० द० लक्षिते नायकभेदे “अविकत्थनोऽनात्मश्लाघाकरः महासत्त्वी हर्षशोकाद्यनभिभूतस्वभावः। निगूढमानो विनयच्छन्नगर्वः। दृढव्रतोऽङ्गीकृतनिर्वाहकः” सा० द० यथा रामयुधिष्ठिरादि।
धीरोद्धत = पु० “मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः। आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः” सा० द० लक्षिते १ नायकभेदे यथा भीमसेनादिः। कर्म० २ धैर्य्यान्वितोद्धते च “धीरोद्धतः पापकारी व्यसनी प्रतिनायकः” सा० द०
धीरोष्णिन् = विश्वदेवभेदे। “शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा” भा० अनु० ९१ अ०। विश्वदेवनामोक्तौ
धीर्य्य = त्रि० धीरे भवः “भवे छन्दसीति” पा० यत्। कातरे माषवः “पाक्या चिद्वसवो धीर्य्याः” ऋ० २। २७। ११। “धीर्य्याः कातराः” इति भाष्यम्।
धीलटि = स्त्री लट–बाल्योक्तौ इन् धिया कर्मणा लटिः। कर्मणा बाल्योक्तियुतायाम्। दुहितरि हारा०।
धीवत् = त्रि० धीरस्त्यस्य मतुप् वेदे मस्य वः। बुद्धियुक्ते “धीवती धीवतः सखा” ऋ० ६। ५५। ३ “धिया धीवन्तो असपन्त तृत्सवः” ऋ० ७। ८३। ८।
धीवन् = त्रि० ध्यै–क्वनिप् संप्रसारणम्। १ ध्यानयुक्ते २ कर्मयुते उणादिकोषः। स्त्रियां “वनो र च” पा० ङीप् रश्चान्तादेशः। धीवरी बहुव्रीहौ ङीप् रश्च वा। बहुधीवरी बहुधीवा।
धीवर = पुंस्त्री दधाति मत्स्यान् जित्वरेत्यादिना नि०। १ कैवर्त्ते २ तद्भार्य्यायां स्त्री ङीष। सा च बुद्धिकर्मभ्यां युतस्त्रियाम् धीवरशब्दे दृश्यम्।
धीशक्ति = स्त्री ६ त० बुद्धेर्गुणे अमरः धीगुणशब्दे दृश्यम्।
धीसचिव = पु० धियि बुद्धौ मन्त्रणादौ सचिवः धीप्रधानः सचीवो वा शाकत०। मन्त्रणानिपुणे मन्त्रिणि धीसखा धीसहायादयोऽप्यत्र।
धु = कम्पने अक० चालने सक० स्वादि० उभ० अनिट्। धुनोति धुनुते पर० सिचि इट् मुग्ध०। अधावीत् पा० निट् दुधाव दुधुविथ दुधोथ दुधुविव दुधुवे। धोष्यति “धूनोति चम्पकवनानि धुनोत्यशोकम्” कविरहस्यम्। अयं दीर्घान्तोऽपि स वेट् प० सिचि नित्येट् पा० अधावीत् अधविष्ट अधोष्ट क्त्यादिनियमात् किति लिठि नित्यमिट् दुघुविव। थलि तु दुधविथ दुधोथ। धविष्यति ते धोष्यति ते। उमयोः धू(धु)तः। “धून्वन् सर्वपथीनं खे वितानं पक्षयोरसौ” “तानधावीत् समारूढान्” मट्टिः। “अधं धुन्वन्ति कार्तस्न्येन” भाग० ६। १। १५। णिचि धावयति दीर्धान्तस्य धूनयति “आ धेनवो धुनयन्तामशिश्वीः” ऋ० ३। ५५। १६। “ह्रस्वश्छान्दसः” भा० “निशान्तनारीपरिधानधूननस्फुटागसाऽप्यूरुषु लोलचक्षुषः” माघः। दोधूयते तत्र कस्पने चलने “दोधूयमानाश्च महापताकाः” भा० भी० ६० अ०। उपसर्गपूर्वकस्तु तत्तदुपसर्गद्योत्यार्थयुते कम्पने चालने च
धु = स्त्री धु–कम्पने बा० भावे डु। कम्पने एकाक्षरकोषः।
धुक्ष = सन्दीप्तौ क्लेशे जीवने च अक० आत्म०। धुक्षते अधु- क्षिष्ट दुधुक्षे। णिचि धुक्षयति ते “निर्वाणभूयिष्ठमथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन” “करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्कलेखा” कुभा० “सत्वं समदुधुक्षच्च” भट्टिः।
धुङ्क्ष = पु० धुक्ष–अच् पृषो। पक्षिभेदे अजादेराकृतिगणत्वात् स्त्रियां टाप्। “दिशां कङ्को धुङ्क्षाग्नेयी” यजु० २४। ३१
धुत = त्रि० धु–क्त। १ त्यक्ते २ विधूते च मेदि०।
धुन = त्रि० धूनयति धूनि अच् पृषो०। कम्पके। “धुनेतयः सुप्र केतम्” ऋ० ४। ५०। २
धुनि(नी) = स्त्री धुनोति वेतसादीन् धु–निक् धूनयति वेतसान् धूनि–इन् पृषो० ह्रस्वो वा ङीप् वा। १ नदीमात्रे अमरः। “दिवे दिवे धुनयो यन्त्यर्थम्” ऋ० २। ३०। २ “धुनयोनद्यः” भा०। “स्वर्धून्यभून्नभसि सा पतती निमार्ष्टि” भाग० ८। २१। ६ २ असुरभेदे पु० “स्वप्नेनाभ्युप्य चुमुरिं धुनिञ्च” २। १५। ९। “चुमुरिं धुनिम् एतन्नामासुरौ” भा० ३ कम्पके त्रि० ४ जलप्रतिरोधके असुरभेदे पु० “त्वं धुनिरिन्द्र! धुनिमतीः” ऋ० १। १७५। ९ “हे इन्द्र! त्वं धुनिः कम्पयिता शत्रूणामसि अतो धुनिमतीः कम्पनोपेततरङ्गवती। अथ वा धुनिर्नाम जलप्रतिरोधकार्यसुरः स एव प्रतिरोघकतयास्ति यासां तादृशीरपः” भा० तरङ्गस्य कम्पनवत्त्वात् धुनित्वम्। धूनयति धू–णिच्–नुक् इन् पृषो० ह्रस्वः। सप्तानां मरुतां मध्ये ५ मरुद्भेदे। ते च मरुतः “उग्रश्च १ भीमश्च २ धान्तश्च ३ धुनिश्च ४। सासह्वां ५ श्चाभियुग्वा ६ च विक्षिपः ७ स्वाहा” यजु० ३९। ७ उक्ताः।
धुनीनाथ = ६ त० समुद्रे राजनि०। धुनीपत्यादयोऽप्यत्र।
धुन्धु = पु० मधुराक्षसस्यापत्ये “उतङ्क उवाच। भवता रक्षणं कार्य्यं तत्तावत् कर्तुमर्हसि। निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव!। ममाश्रमसमीपे वै समेषु मरुधन्वसु। समुद्रो वालुकापूर्ण उज्जानक इति श्रुतः। देवतानामबध्यश्च महाकायो महाबलः। अन्तर्भूमिगतस्तत्र बालुकान्तर्हितो महान्। राक्षसस्य मधोः पुत्रो धन्धुर्नाम महासुरः। शेते लोकविनाशाय तप आस्थाय दारुणम्। संवत्सरस्य पर्य्यन्ते स निश्वासं विमुञ्चति। यदा तदा भूश्चलति सशैलवनकानना। तस्य निश्वासवातेन रज उद्धूयते महत्। आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम्। सविस्फुलिङ्गं साकारं सधूममतिदारुणम्। तेन तात! न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे। तं मारय महाकामं लोकानां हितकाम्यया। लोकाः सुस्था भवन्त्वद्य तस्मिन् विनिहते त्वया। त्वं हि तस्य बधायैकः समर्थः पृथिवीपते!। विष्णुना च वरो दत्तो मह्यं पूर्वयुगेऽनघ!। यस्तं महासुरं रौद्रं हनिष्यति महाबलम्। तस्य त्वं वरदानेन तेज आप्याययिष्यसि। न हि धुन्धुर्महातेजास्तेजसाऽल्पेन शक्यते। निर्दग्धुं पृथिवीपाल! दिव्यवर्षशतैरपि। वीर्य्यं हि सुमहत्तस्य देवैरपि सुरासदम्। स एवमुक्तो राजर्षिरुतङ्केन महात्मना। कुवलाश्वं सुतं प्रादात्तस्मिन् धन्धुविवर्हणे” हरिवं० ११ अ०
धुन्धुमार = पु० धुन्धुं मारयति मारि–अण् उप० स०। राजभेदे “राजा हि वीर्य्यवांस्तात! इक्ष्वाकुरपराजितः। वृहदश्व इति ख्यातो भविष्यति महीपतिः। तस्य पुत्रः शुचिर्दान्तः कुबलाश्व इति श्रुतः। स योगबलमास्थायमामकम् पार्थिवोत्तमः। शासनात्तव विप्रर्षे! धुन्धुमारो भविष्यति” भा० व० २०० अ०। “वृहदश्व उवाच। भगवन्! न्यस्तशस्त्रोऽहमयन्तु तनयो मम। भविष्यति द्विजश्रेष्ठ! धुन्धुमारो न संशयः। स तं व्यादिश्य तनयं राजर्षिर्द्धुन्धुमारणे। जगाम पर्वतायैव तपसे संशितव्रतः। कुबलाश्वस्तु पुत्राणां शतेन सह पार्थिवः। प्रायादुतङ्कसहितो धुन्धोस्तस्य निवर्हणे। तमाविशत्तदा विष्णुस्तेजसा भगवान् प्रभुः। उतङ्कस्य नियोगाद्वै लोकानां हितकाम्यया। तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत्। एष श्रीमानसह्योऽद्य धुन्धुमारो भविष्यति। दिव्यैर्माल्यैश्च तं देवाः समन्तात् समवाकिरन्। देवदुन्दुभयश्चैव प्रणेदुर्भरतर्षभ!। स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान्। समुद्रं स्वानयामास बालुकापूर्णमव्ययम। नारायणेन कौरव्य! तेजसाऽप्यायितस्तदा। स वभूव महातेजा भूयो बलसमन्वितः। तस्य पुत्रैः स्वनद्भिश्च बालुकान्तर्हितस्तदा। धुन्धुरासादितो राजन्! दिशमावृत्य पश्चिमाम्। मुखजेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव। वारि सुस्राव वेगेन महोदधिरिवोदये। सोमस्य, भरतश्रेष्ठ! धारोर्मिकलिलं महत्। तस्य पुत्रशतं दग्धं त्रिभिरूनन्तु रक्षसा। ततः स राजा कौरव्य! राक्षसं तं महावलम्। आससाद महातेजा धुन्धुं धुन्धुनिवर्हणः। तस्य वारिमयं वेगमपिबत् स नराधिपः। योगी योगेन वह्निं स शमयामास वारिणा। निहत्य तं महा- कायं बलेनोदकराक्षसम्। उतङ्कं दर्शयामास कृतकर्मा नराधिपः” हरिवं० ११ अ० २१४१ पृष्ठे कुबलाश्वशब्दे अस्य चरितानीति यत् लिखितं तत् प्रमादात् किन्तु धुन्धुमारशब्द तच्चरितानि इत्येव तत्र पाठो बोध्यः। एतच्छब्दे च हरिवं० तच्चरितादिकथाऽत्रोक्ता २ शक्रगोपे ३ गृहधूमे ४ पदालिके च मेदि०।
धुर् = स्त्री धुर्व–क्विप् वा टाप्। १ चिन्तायाम्, २ रथाद्यग्रभागे, ३ यानमुखे ४ भारे च अमरः “धुर्य्याणां च धुरो मोक्षम्” रघुः। ५ अग्रे न० “अपांशुलानां धुरि कीर्तनीया” रघुः। “गौरिव गुरुणा नित्यं धूर्षु नियोज्यमानः” भा० आ० २३ अ० “तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे” रघुः। समासे अ समा० “न गर्दभा वाजिधुरां वहन्ति” मृच्छ०। “अत्रस्नुभिर्युक्तधुरं तुरङ्गैः” रघुः। नञ्समा० न अ समा०। “न मामधुरि राजेन्द्र! नियोक्तुं त्वमिहार्हसि” भा० व० ३२ अ०। अक्षस्य तु न अ समा०। अक्षधूः। “प्रतिगृह्याक्षधुरावनक्ति” का० श्रौ० ३८। ३। ३२। ५ हिंसके त्रि०। “दश धुरो दशयुक्तम् वहद्भ्याम्” ऋ० १०। ९४। ७ “धुरोधूर्भिर्हिंसितृभिः तृतीयार्थे प्रथमा” भा० असंज्ञायामपि टावन्तस्य क्वचित् तत्पुरुषे ङ्यापोरिति ह्रस्वः। “तार्क्ष्यं मारुतं रहोभिर्वाजिभि धुरवाहिभिः” भा० द्रो० ९९ अ० भावे क्विप्। ६ पीडायां च।
धुरन्धर = त्रि० धुरां धारयति खच् खचि ह्रस्वः। १ भारवाहके वृषादौ “यस्माद्देवगणाः सर्वे स्थावराणि चराणि च। धुरन्धराङ्गे तिष्ठन्ति तस्मात् भक्तिः शिवेऽस्तु मे” हेमा० दा०। २ धववृक्षे पु० मेदि०। ३ तत्तत्कर्मनिर्वाहरूप भारवाहे च। “सन्त एव सतां नित्यमापदुद्धरणक्षमाः। गजानां पङ्कमग्नानां गजा एव धुरन्धराः” हितो०। ४ श्रेष्ठे च। “धुरन्धरः पुण्यकृदेष तापसः” भा० उ० ३७ अ०।
धुरीण = त्रि० धुरं वहति सर्वधुरादित्यत्र पा० योगविभागात् ख। १ भारवाहके अमरः। २ श्रेष्ठे शब्दच०।
धुरीय = त्रि० धुरमर्हति छ। वृषे राजनि०।
धुर्य्य = त्रि० धुरं वहति “धुरो यड्ढवौ” पा० यत्। तद्धितयपरत्वान्न दीर्घः। १ धुर्वहे वृषादौ २ कार्य्यनिर्वाहके “प्रागल्भमात्मा धुरि धुर्य्यवाग्मिनम्” किरा०। “धुर्य्यः कर्मनिर्वाहकः” मल्लि०। “समस्तकार्य्येषु गतेन धुर्य्यताम” माघः। ३ भारवाहके अमरः। ४ श्रेष्ठे शब्दार्थचि०। ५ वृषभे ६ ऋषभौषधौ च पु० राजनि० वृषादौ “नाविनीतैर्व्रजेद्धुर्य्यैः” मनुः। “येनेदं ध्रियते विश्वं धुर्य्यैर्यानमिवाध्वनि” कुमा०। “रात्रिर्गता मतिमतां वर! मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता। तामेकतस्तव विभर्त्ति गुरुर्विनिद्रो यस्या भवानपरधुर्य्यपदावलम्बी” रघुः। ७ विष्णौ पु०। “स्कन्दः स्कन्दधरो धुर्य्यः” विष्णु०। समस्तजन्तुजन्मादिलक्षणकार्य्यनिर्वाहकत्वात्तस्य तथात्वम् भाष्ये उक्तम्।
धुर्व = हिंसे भ्वा० पर० सक० सेट्। धूर्वति अधूर्वीत्। दुधूर्व। ईदित् धूर्त्तः। “अधूर्वन् भूधरैर्भृशम्” भट्टिः।
धुवक = त्रि० धू–क्वुन्। १ गर्भमोचके उज्जल०। (धुया) ख्यातायां २ गीतिभेदे स्त्री। क्षिपका० पाठान्तरे न टापि अत इत्त्वम्। ततः चतुरर्थ्यां प्रेक्ष्यादि० इनि धुवकिन्। तत्सन्निहितदेशादौ त्रि०। ततः पिच्छा० अस्त्यर्थे इलच्। धुवकिल धुवकयुक्ते त्रि०।
धुवन = पु० धु–धू–वा क्युन्। १ वह्नौ उज्जलद० “ये यज्ञे धुवनं तन्वते” शत० ब्रा० १३। २। ८। ५। २ चालकमात्रे त्रि०। “अयमञ्चति पञ्चशरानुचरो नवनीपवनीधुवनः पवनः” सा० द० टी०।
धुवित्र = न० धूयते अनेन कुटा० धु–विधूनने इत्र। वह्निसंधुक्षणाय मृगचर्मादिरचिते याज्ञिकानां १ व्यजने २ तालवृन्तके अमरः।
धुस्तु(स्तू)र = पु० धूस्तूर + पृषो०। (धुतरा) ख्याते वृक्षे अमरः
धू = कम्पने भ्वा० उभ० सक० वेट्। धवति ते अधावीत् अधौषीत् मुग्ध० पा० मते प० सिचि नित्येटितिभेदः अधमविष्ट अधोष्ट। दुधाव। “यत् कानने धवति चन्दनञ्जरीश्च” कविर०।
धू = कम्पने वा० चुरा० उभ० पक्षे तुदा० कु० पर० सक० सेट्। धूनयति ते धुवति अदूधुनत् अधुवीत्। धूनयाम् बभूव आस चकार दुधाव। दुधुविथ “चूतं धुनाति धुवति स्फुरितातिमुक्तम्। वायुर्विधूनयति केशरपुष्परेणून्” कविरहस्यम्।
धू = कम्पने स्वा० क्य्रादि० प्वादिश्च उभ० सक० वेट्। धूनोति धूनुते धुनाति धुनीते। अधावीत् अधौषीत् अधविष्ट अधोष्ट “धूनोति चम्पकवतानि धुनोत्यशोकं चूत धुनाति धुवति स्फुरितातिमुक्तम्” कविरहस्यम्।
धू = स्त्री धू–क्विप्। विधूनने मेदि०।
धूः = पति पु० धुरः पतिः अहरादित्वात् पत्यादौ षत्वरत्वोपाध्मानीया वा। भारपतौ भारसहे पक्षे धुष्पति र्धूपति पति तत्रार्थे
धूक = पु० धुनोति वृक्षादीन् धु–कन् दीर्घश्च। १ वायौ उज्जलद०। २ धूर्त्ते ३ काले संक्षिप्तसा०।
धूत = त्रि० धू–क्त। १ त्यक्ते २ कम्पिते ३ भर्त्सिते मेदि०। ४ तर्किते धरणिः “पवनश्च धूतनवनीपवनः” माघः। “पादानतः कोपनयाऽवधूतः” कुमा०।
धूतपाप = त्रि० धूतं त्यक्तं पापं येन। १ त्यक्तपापे २ वेदशिरसो मुनेः शुचिनामाप्सरोजातायां कन्यायां स्त्री तस्या एव धर्मशापेन चन्द्रशिलात्मकतया नदीरूपेण प्रादुर्भावात् तद्रूपायां काशीस्थायां ३ नद्याञ्च स्त्री तत्कथा। काशीखण्ड ५१ अ० यथा “पुरा वेदशिरा नाम मुनिरासीन्महातपाः। भृगुवंशसमुत्पन्नो मूर्त्तो वेद इवापरः। तपस्यतस्तस्य मुनेः पुरोदृग्गोचरं गता। शुचिरप्सरसां श्रेष्ठा रूपलावण्यशालिनी। तस्यादर्शनमात्रेण परिक्षुब्धं मुनेर्मनः। चस्कन्द स मुनिस्तूर्णं साथ भीता वराप्सराः” इत्युपक्रमे “इदानीं शृणु कल्याणि! कर्त्तव्यं यत् त्वया शुचे। अमोघवीजा हि वयं तद्वीजमुररीकुरु। एतस्मिन् रक्षिते वीर्य्ये परिस्कन्ने त्वदीक्षणात्। त्वमावह भवित्र्यत्र कन्यारत्नं महाशुचे!। इत्युक्त्वा तेन मुनिना पुनर्जातेव साप्सराः। महाप्रसाद इत्युक्त्वा मुनेः शुक्रमजीगिलत्। अथ कालेन दिव्यस्त्री कन्यारत्नमजीजनत्। अतीव नयनानन्दि निधानं रूपजेयसाम्। शुचिरप्सरसां श्रेष्ठा जगाम त्रिदशालयम्। ताञ्च वेदशिराः कन्यां स्नेहेन समवर्द्धयत्। क्षीरेण, स्वाश्रमस्थाया हरिण्या हरिणीक्षणाम्। मुनिर्नाम ददौ तस्यै धूतपापेति चार्थवत्”। ततः पितुरुपदेशेन तपश्चरणे तस्या ब्रह्मतो वरप्राप्तिः धर्मशापेन नदीभावप्राप्तिरित्यादि कथा तत्रैवाध्याये यथा “धूतपापोवाच। पितामह! वरो मह्यं यदि देयो वरप्रद!। सर्वेभ्यः पावनेभ्योऽपि कुरु मामतिपावनीम्। स्रष्टा तदिष्टमाकर्ण्य नितरां तुष्टमानसः। प्रत्युवाच च तां बालां विमलां विमलैषिणीम्। ब्रह्मोवाच धूयपापे! पवित्रासि यानि सन्त्यत्र सर्वतः। तेभ्यः परित्रमतुलं त्वमाध वरतो मम। तिस्रः काट्यर्द्धकोटी च सन्तितीर्थान्यनेकशः। दिवि भुव्यन्तरीक्षे च पावनान्युत्तरोत्तरम्। तानि सर्वाणि तीर्थानि” त्वत्तनौ प्रतिलोम वै। वसन्तु मम वाक्येन भव सर्वातिपावनी। इत्युक्त्वान्तर्द्धधे वेधाः सापि निर्धूतकल्मषा। धूतपापोटजं प्राप्ता-ऽथोवेदशिरसः पितुः। कदाचित्तां समालोक्य खेलन्तीमुटजाजिरे। धर्मस्तत्तपसा हृष्टः प्रार्थयामास कन्यकाम्। धर्म उवाच। पृथुश्रोणि! विशालाक्षि! क्षामोदरि! शुभानने!। क्रीतः स्वरूपसम्पत्त्या त्वयाहं देहि मे रतिम्। नितरां बाधते कामस्त्वत्कृते मां सुलोचने!। इत्थं सुसाम्ना सा तेन प्रार्थितेत्यसकृद्रहः। उवाच सा पिता दाता तं प्रार्थय सुदुर्मते!। पितृप्रदेया यत् कन्या श्रुतिरेषा सनातनी। निशम्येति वचो धर्मो भाविनोऽर्थस्य गौरवात्। पुनर्निर्बन्धयाञ्चक्रेऽपधृतिर्धृतिशालिनीम्। धर्म उवाच। न प्रार्थयेऽहं सुभगे! पितरं तवसुन्दरि!। गान्धर्वेण विवाहेन कुरु मे त्वं समीहितम्। इति निर्बन्धवद्वाक्यं सा निशम्य कुमारिका। पितुः कन्या फलं दित्सुः पुनराहेति तं द्विजम्। अरे जडमते! मा त्वं पुनर्व्रूहीति याह्यतः। इत्युक्तोऽपि कुमार्य्यास नातिष्ठन्मदनातुरः। ततः शशाप तं बाला प्रबला तपसोबलात्। जडोऽस्यतितरां यस्माज्जलाधारो नदो भव। इति शप्तस्तया सोऽथ तां शशाप क्रुधान्वितः। कठोरहृदये! त्वं तु शिला भव सुदुर्मते! स्कन्द उवाच। इत्यन्योऽन्यस्य शापेन मुने! धर्मनदोऽभवत्। अवि० मुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान्। साप्याह पितरं त्रस्ता स्वशिलात्वस्य कारणम्। ध्यानेन धर्मं विज्ञाय मुनिः कन्यामथाब्रवीत्। मा भैः पुत्रि! करिष्यामि तव सर्वं शुभोदयम्। तच्छापो नान्यथा भूयाच्चन्द्रकान्त० शिला भव। चन्द्रोदयमनुप्राप्य द्रवीभूता तनुस्तव। नदी० भव सुते! साध्वि! धूतपापेति विश्रुता। स च धर्मो नदः कन्ये! तव भर्त्ता सुशोभनः। तैर्गुणैः परिपूर्णाङ्गो ये गुणाः प्रार्थितास्त्वया। अन्यच्च शृणु सद्वुद्धे! ममापि तपसोबलात्। द्वैरूप्यं भवतोर्भावि प्राकृतञ्च द्रवञ्चरम्। इत्याश्वास्य पिता तां तु धूतपापां परन्तपः। चन्द्रकान्तशिलाभूतामनुजग्राह बुद्धिमान्। तदारभ्य मुने! काश्यां ख्यातो धर्मनदो ह्रदः। धर्मोद्रवस्वरूपेण महापातकनाशनः। धुनी च धूतपापा सा सर्वतीर्थमयी शुभा”। “किरणा धूतपापा च तस्मिन् धर्मनदे शुभे। अवन्त्यौ पापसंहर्त्र्यौ वाराणस्यां शुभद्रवे। ततो भागीरथी प्राप्ता तेन दैलीपिना सह। भागीरथ्या सहायाता यमुना च सरस्वती। किरणा धूतपापा च पूर्ण्यतीर्थे सरस्वती। गङ्गा च यमुना चैव पञ्च नद्यः प्रकीर्त्तिताः”। “करीषिणीं चित्रवहां चित्रसेनाञ्च निम्नगाम्। गोमतीं धूतपापाञ्च गण्डकीञ्च महानदीम्” भा० भी० ९ अ०।
धूति = स्त्री धू–क्तिन् १ विधूनने ३ हटयोगाङ्गभेदे हठयोगशब्दे दृश्यम्।
धून = त्रि० धू–क्त ल्वादि० तस्य नः। कम्पिते
धूनक = पु० धूनयति संधुक्षयति वह्निम् चु० धू–ण्वुल् नुगागमः। (धुना) ख्याते यक्षधूपे त्रिका० २ चालके त्रि०।
धूनन = न० धू–णिच् भावे ल्युट्। चालने विधूनने।
धूनि = स्त्री धू–भावे क्तिन् ल्वादि० तस्य नः। कम्पने।
धूप = दीप्तौ चुरा० उभ० अक० दीपने सक० सेट्। धूपयति–ते अदूधुपत्–त। धूपयाम् बभूव आस चकार। धूपितः। “वसवस्त्वा धूपयन्ति” यजु० ११। ६ धूपशब्दे उदा०
धूप = तापे अक० तापने सक० भ्वा० पर० सेट्। धूपायति अधूपायीत् अधूपीत्। धूपायाम् बभूव आस चकार दुधूप। धूपायितः धूपितः। “धूपायतीव पटलैर्नवनीरदानाम्” माघः।
धूप = पु० धूपयति रोगान् दोषान् वा धूप–अच्। १ गुग्गुलुप्रभृति सुगन्धद्रव्योत्थे धूमे, २ तत्साधनदुव्ये च तन्निरुक्तिर्यथा “धूताशेषमहादोषपूतिगन्धः प्रभावतः। परमानन्दजननाद्धूप इत्यभिधीयते” धूपद्रव्यभेदः प्रपञ्चसारे “गुग्गुल्वगुरुकोशीरसिताज्यमधुचन्दनैः। साराङ्गारे विनिक्षिप्तैर्मन्त्री पीठैः प्रधूपयेत्”। योगिनीतन्त्रे “कृष्णागुरु सकर्पूरं चन्दनं सिह्लकं तथा। भगवत्यै नरो यस्तु इदं दत्त्वा महेश्वरः। इह काममवाप्नोति दुर्गालोके महीयते”। आह्नि० त० वामनपुराणे “रुहिकाख्यं कनं दारु सिह्लकं साशुरुं सितम्। शङ्खो जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै। रुहिका मांसी कनो महिषाख्यगुग्गुलुः सितं कर्पूरं सितेति पाठे सिता शर्करा। शङ्खो नखी। श्रीशे विष्णौ। विष्णुधर्मोत्तरे “धूपदः सर्वमाप्नोति धूपदः सर्वमश्नुते” वामनपुराणेऽस्य क्लीवतार्षी। तन्त्रसारे विशेषः शारदायां “गुग्ल्वगुरुकोशीरशर्करा मधुचन्दनैः। धूपयेदाज्यसंमिश्रैर्नीचैर्देवस्य देशिकः”। विशेषस्तु तन्त्रान्तरे “सिताज्यमधुसंमिश्रं गुग्गुल्वगुरुचन्दनम्। षडङ्गं धूपमेतत्तु सर्वदेवप्रियं सदा”। तथा “गुग्गुलुं सरलं दारु पत्रं मलयसम्भवम्। ह्रीवेरमगुरुं कुष्ठं गुडं सर्जरसं घनम्। हरीतकीं नखीं लाक्षां जटामांसीञ्च शैलजम्। षोडशाङ्गं विदुर्धूपं दैवे पैत्रे च कर्मणि”। “मधु मुस्तं घृतं गन्धो गुग्ल्वगुरुशैलजम्। सरलं सिह्ल सिद्धार्थं दशाङ्गो धूप इष्यते”। रोग १ रोग हर २ रोगद ३ केशाः ४ दारु ५ जातु ६ लघु ७ पत्रविशेषाः ८ वक्रविवर्जित ९ वारिजमुद्रा १० धूपवर्त्तिरिह सुन्दरिः भद्रा” अस्यार्थः कुड १ हरीतकी २ गुड ३ जटामांसी ४ देवदारु ५ लाक्षा ६ अगुरु ७ तेजपत्र ८ सरल ९ नखी १०” “यथा गन्धं तथा देवि धूपं दद्याद्विचक्षणः। मध्यमानामिकाभ्यान्तु मध्य पर्वणि देशिकः अङ्गुष्ठाग्रेण देवेशि! धृत्वा धूपं निवेदयेत्। तथा समर्पयेद्धूपं घण्टावाद्यजयस्वनैः”। तथा “धूपभाजनमस्त्रेण(फट्)प्रोक्ष्याभ्यर्च्य हृदाणुना(नमः)। अस्त्रेण पूजितां घण्ठां वादयन् गुग्गुलु” दहेत्। श्यामादौ तु भुवनेश्वरी वीजं पूर्वं दत्त्वा इमं मन्त्रं पठित्वार्पयेत्। “तथा जयध्वनिमन्त्रमातः! स्वाहेत्युदीर्य्य च। अभ्यर्च्य वादयेद् घण्टां सुधूपैर्धूपयेत्ततः”। तन्त्रान्तरे “धूपस्थानं समभ्यर्च्य तर्जन्या वामया स्पृशन्। धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना। एवं दीपदानेऽपि घण्टावादनमिति। तथाच गौतमीये “उत्तार्यदृष्टिपर्य्यन्तं घण्टां वामदिशि स्थिताम्। वादयन् वामहस्तेन दक्षहस्तेन चार्चयेत्”। यामले “निवेदयेत् पुरोभागे गन्धं पुष्पं च भूषणम्। दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः। वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे। नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः”। वामदक्षिणभागस्तु देवताया एव न तु साधकस्य। “धूपदीपौ सुभोज्यञ्च देवताग्रे निवेदयेदिति” दर्शनात् तिथितत्त्वे स्मृतिः “मधु मुस्तं घृतं गन्धो गुग्गुल्वगुरु शैलजम्। सरलं सिह्लसिद्धार्थौ दशाङ्गो धूप इष्यते। दशाङ्गो दशघटितः शैलजं स्वनामख्यातं सिद्धार्थः श्वेतसर्षपः। “तुरुष्कं ग्रन्थिकर्पूरनागरागुरु कुङ्कुमैः। मुरामांसीसितामिश्रं धूपं दद्यान् मधु प्लुतम्”। तुरुष्कं सिह्लकं” ग्रन्थिः (गा~ठीयालीति) ख्याता। सिता शर्करा नागरः शुण्ठी। भविष्ये “जलहीने तु दुर्भिक्षं गन्धहीने त्वभाग्यताम्। धूपहीने तथोद्वेगं वस्त्रहीने धनक्षयम्” प्राप्नुयादिति शेषः कालिकापुराणे ६८ अ० यथा “एवं वां कथितो दीपो धूपञ्च शृणुतं सुतौ!। नासाक्षिरन्ध्रसुखदः सुगन्धोऽतिमनोहरः। दह्यमानस्य काष्ठस्य प्रयतस्येतरस्य वा। परागस्याथ वा धूमो निस्तापो यस्य जायते। म धूप इति विज्ञेयो देवानां तुष्टिदायकः। राशीकृतैर्न चैकत्र तैर्द्रव्यैः परिधूपयेत्। तथाग्निवत्तथा कृत्वा न तत् फलमवाप्नुयात्। श्रीचन्दनञ्च सरलः सालः कालागुरुस्तथा। उदयः सुरथः कन्दो रक्त विद्रुम एव च। पीतसालः परिमलो विमर्दीकाऽसनस्तथा। नमेरुर्देवदारुश्च विल्वसारोऽथ खादिरः। सन्तानः पारिजातश्च हरिचन्दनवल्लभौ। वृक्षेषु धूपाः सर्वेषां प्रीतिदाः परिकीर्तिताः। अरालः सह सूत्रेण श्रीवासः पटवासकः। कर्पूरः श्रीकरश्चैव प्ररागः श्रीहरामलौ। सर्वौषधिरजोजातो वाराहश्चूर्ण उत्कलः। जातीकोषस्य चूर्णञ्च गन्धः कस्तूरिका तथा। क्षोदे वृत्ते च गदिता धूपा एते उदाहृताः। यक्षधूपो वृकधूपः श्रीपिष्टोऽगुरु झर्झरः। पत्रिवाहः पिण्डधूपः सुगोलकण्ठ एव च। अन्योन्ययोग निर्यासा धृपा एते प्रकीर्तिताः। एतैर्विधूपयेद्देवान् धूमिभिः कृष्णवर्त्मना। येषां धूपोद्भभैर्घ्राणैस्तुष्टिं गच्छन्ति जन्तवः। निर्य्यासश्च परागश्च काष्ठं गन्धस्तथैव च। कृत्रिमश्चेति पञ्चैते धूपाः प्रीतिकरा मताः। न यक्षधूपं वितरेत् माधवाय कदाचन। न रक्तविद्रुमं मह्यं सुरथः स्कन्दिने तथा। यक्षधूपः पत्रिबाहः पिण्डधूपः सुगोलकः। कृष्णागुरुः सकर्पूरो महामायाप्रियः स्मृतः। यक्षधूपेन वा देवीं महामायां प्रपूजयेत्। मेदोमज्जासमायुक्तान् न धूपान् विनिवेदयेत्। परकीयांस्तथा घ्रातान् स्तेनीकृत्याभिमर्दितान्। पुष्पं धूपञ्च गन्धञ्च उपचारांस्तथा परान्। घ्रातान्निवेद्य देवेभ्यो नरो नरकमाप्नुयात्। न भूमौ वितरेत् धूपं नासने न घटे तथा। यथातथाधारगतं कृत्वा तद्विनिवेदयेत्। रक्तविद्रुमसालौ च सुरथः सरलस्तथा। सन्तानको नमेरुश्च कालागुरुसमन्वितः। जातीकीषाद्यसंयुक्तो धूपः कामेश्वरीप्रियः। त्रिपुरायास्तथैवायं मातॄणामपि नित्यशः। सर्वेषां पीठदेवानां कान्त्यादीनाञ्च पुत्रकौ। एष वां कथितो धूपः शृणु तं नेत्ररञ्जनम्”
केशवार्चायां षोडशाङ्गादिधूपा यथा “मुस्तकं गुगगुलुः कुष्ठं कर्पूरं मलयोद्भवम्। देवदारु जटामांसी जातीकोषञ्च बालकम्। मुरा मांसी ह्यगुरुकं त्वगुशीरञ्च केशरम्। एला तथा तेजपत्रं सर्वमेतद् घृताक्तकम्। धूपोऽयं षोडशाङ्गः स्याद्गोविन्दप्रीतिकारकः”।
द्वादशाङ्गो यथा “गुग्गुलुञ्चन्दनं पत्रं कुष्ठञ्चागुरु कुङ्कुमम्। जातीकोषञ्च कर्पूरं जटामांसी च बाल- कम्। त्वगुशीरञ्च धूपोऽसौ द्वादशाङ्गः प्रकीर्त्तितः।
दशाङ्गो यथा “कर्पूरं कुष्ठमगुरु गुग्गुलुर्मलयोद्भवम्। केशरं बालकं पत्रं त्वग्जातीकोषमुत्तमम्। सर्वमेतद् घृताभ्यक्तं दशाङ्गो धूप ईरितः”।
अष्टाङ्गो यथा “गुग्गुल्वगुरुकं तेजपत्रं मलयसम्भवम्। कर्पूरं बालकं कुष्ठं नूतनं कुङ्कुमं तथा। अष्टाङ्गः कथितो धूपो गोविन्दप्रीतिदः शुभः”।
पञ्चाङ्गो यथा “चन्दनं कुङ्क मं नूत्नं कर्पूरं गुग्गुलोऽगुरु। धूपोऽयं वृतसंयुक्तः पञ्चाङ्गः समुदाहृतः”।
विष्णुधूपे वर्जनीयद्रव्यम् यथा “ऐक्षवं सालनिर्यासं पद्मकं सरलं जतु। वचा मधुरिका तैलं गन्धकाष्ठं कलम्बकम्। गन्धकं टङ्कणं तालं हिङ्गुलञ्च मनःशिला। कक्कोलमूषरं दार्वी गन्धमांद्री रसाञ्जनम्। अष्टवर्गः शठी मेथी शिलाजिद् गन्धचन्दनम्। कुन्दूरु रेणुकं रास्नाऽजमोदा शतपुष्पिका। हरिद्रा जीरकं वृक्षक्षीरञ्च रक्तचन्दनम्। कर्चूरकं मरुवकं यवानी ग्रन्थिका तथा। शैलजं धातकीपुष्पं नखी मोचरसादिकम्। मुकुन्दधूपे देवर्षे! सर्वमेतद्विवर्जयेत्” पाद्मोत्तरखण्डे
श्राद्धदेयो धूपो यथा ब्राह्मे “चन्दनागुरुणी चोभे तथैवोशीरपद्मकम्। तुरुष्कं गुग्गुलुञ्चैव घृताक्तं युगपद् दहेत्”। “उशीरं वीरणमूलं तुरुष्कं सिह्लकम्” श्राद्ध० त० विष्णुधर्मे “धूपस्तु गुग्गुलुर्देयस्तथा चन्दनसारजः। अगुरुश्च सकर्पूरन्तुरुष्कस्त्वक् तथैव च। विष्णुः “घृतमधुयुक्तं गुग्गुलुं श्रीखण्ड देवदारु सरलादि दद्यादिति”। देवलः “ये हि प्राण्यङ्गजाधूपा हस्तवाताहताश्च ये। न ते श्राद्धे नियोक्तव्या ये च के चोग्रगन्धयः। घृतं न केबलं दद्याद्दुष्टं वा तृणगुग्गुलुम्” निर्णयसि०। “अदत्त्वा गन्धमाल्यानि यो मे धूपं प्रयच्छति। कुणपो जायते भूमे! यातुधानो न संशयः। वर्षाणि चैकविशानि नमस्कारनिरासकः। तिष्ठतेऽत्र महाभागे! एवमेतत् न संशयः” वराहपुराणम्। विषघ्नधूपो यथा” सक्तुः सार्जरसोपेतः सर्षपा एलवालुकैः। सुवर्णातस्करतरोः कुसुमैरर्जुनस्य तु। धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम्। न तत्र कीटा न विषं न दर्दुरसरीसृपाः। न कृत्याकर्मणस्तत्र धूपोऽयं यत्र दह्यते” मत्स्यपु०।
धूपान्तरं तत्रैव “कार्पासास्थि भुजङ्गस्य तथा निर्मोचनं भवेत्। सर्पनिर्मोचनो धूपः प्रशस्तः सततं गृहे”
रोगनाशकधूपो यथा “कूर्ममत्स्याखुमहिषगोशृगालाश्ववानराः। विडालबर्हिकाकाश्च वराहोलूककुक्कुटाः। हंस एषाञ्च विण्मूत्रं मांसं वा रोमशोणितम्। धूपं दद्याज्जरार्त्तस्य उन्मत्तेभ्यश्च शान्तये। एतान्यौषधजातानि धूपितानि महेश्वर!। निघ्नन्ति रोगजातानि वृक्षमिन्द्राशनिर्यथा” गारुडपु०। “धूपोष्मणा त्यजितमार्द्रभावम्” कुमा० “दोहदधूपिनि द्रुमे” नैष० ३ सन्तापके त्रि० “मुमुचुः खधूपान्” भट्टिः
धूपन = पु० धूप–ल्यु। १ यक्षधूपे (धुना) शब्दमाला २ धूपे च “धूपनाङ्गैश्च धूपयेत्” सुश्रु० भावे ल्युट्। २ सन्तापने ३ धूपकरणे च “परीक्षिताः स्त्रियश्चैनं व्यजनोदक धूपनैः” मनुः।
धूपपात्र = न० ६ त०। (धुनची) ख्याते धूपाधारे पात्रभेदे धूपभाजनादयोऽप्यत्र। “धूपभाजनमस्त्रेण प्रोक्ष्याभ्यच्य हृदाणुना” तन्त्रसारः।
धूपमुद्रा = स्त्री धूपप्रदानार्थं मुद्रा। देवपूजाङ्गे धूपदानार्थं दर्शनीये मुद्राभेदे स च धूपशब्दोक्ते “मध्यमानामिकाभ्यान्तु” इत्यादि तन्त्रवाक्ये दर्शितः।
धूपवास = पु० धूपेन वासः सुगन्धिकरणम्। स्नानोत्तरं धूपोष्मणा आद्रीभाबमोचनेन सुगन्धीकरणे “स्नानार्द्रयुक्तेष्वनुधूपवासम्” रघुः।
धूपवृक्ष = पु० धूपसाधनं वृक्षः शा० त०। सरलवृक्षे त्रिका० स्वार्थे क। धूपवृक्षक तत्रार्थे शब्दर०।
धूपागुरु = न० धूपाय तदर्थं दाह्यम् अगुरु शा० त०। दाह्ये अगुरुभेदे राजनि०।
धूपाङ्ग = पु० धूपसाधनमङ्गमस्य। १ सरलवृक्षे राजनि०। ६ त०। २ धूपस्याङ्गे न०।
धूपार्ह = न० धूपाय अर्ह्यते पूज्यते अर्ह–कर्मणि घञ्। १ कृष्णागुरुणि राजनि०। धूपमर्हति अर्ह–अण्। उप० स०। धूपदानयोग्ये त्रि०।
धूपित = त्रि० धूप–आयाभावपक्षे क्त। १ सन्तप्ते २ अध्वादिश्रान्ते अमरः। “यवादिना दोहदधूपितो द्रुमः” वृक्षायुर्वेदः। आयपक्षे धूपायित तत्रार्थे। “प्रदीप परिदीपिते विविधधूपधूपायिते” तन्त्रम्। धूप + तार०। इतच्। ३ दत्तधूपे वृक्षादौ त्रि०।
धूम = पु० धूनीते धू–कम्पे मक्। सार्द्रेन्धनवह्निजाते मेघाञ्जनयोर्जनके (धू~या) ख्याते पदार्थे “सहजमलिनवक्रभावभाजां भवति भवः प्रभवात्मनाशहेतुः। जलधर पदवीमवाप्य धूमोज्वलनविनाशमनु प्रयाति नाशम्” प्रबो०
“सधूमदीप्ताग्निरुचीनि रेजुः” भट्टिः “धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः” मेघ० “पुनानं पवनाद्धुतैर्धूमैराहुतिगन्धिभिः” रघुः। भीमो भीमसेनवत् धूमकेतुशब्दस्योत्तरपदलोपः। २ धूमकेतौ ३ उल्कापाते च “त्रिदिनं धूमे पञ्च दिनानि गर्गः”। ४ अग्निमान्द्यसूचके वायुभेदे (चोओंया ढेकुर) “धूमोद्गारे तथा वान्ते क्षुरकर्मणि मैथुने” आह्निकत०। जाठराग्नेर्मान्द्ये हि अन्नपाकस्यासम्भवात् जठरानलस्य दीप्त्यभावेन ततो धूम इवोद्गीर्यते इति लोकप्रसिद्धिः। सुश्रुतोक्ते ५ धूमपाने च धूमपानशब्दे दृश्यम्। ६ ऋषिभेदे ततः गर्गा० गोत्रे यञ्। धौम्य धूमर्षिगोत्रापत्रे पुंस्त्री। स च युधिष्ठिरस्य पुरोहितः धौम्यशब्दे दृश्यम्। अश्वा० फञ्। धोमायन तद्गोत्रापत्ये पुंस्त्री०। ७ देशभेदे। देशबाचिनस्ततः धूमा० भवार्थे वुञ्। धौमक तत्र भवे त्रि०।
धूमकेतन = पु० धूमः केतनं लिङ्गमस्यानुमाने। १ वह्नौ वह्ने र्धूमलिङ्गेनानुमानात् तथात्वम्। २ धूमकेतौ च मेदि० “निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः” रघुः
धूमकेतु = पु० धूमः केतुर्लिङ्गमस्य। १ वह्नौ अमरः २ धूमाभतारकाभेदे उत्पातविशेषे केतुशब्दे दृश्यम्। “उपप्लवाय लोकानां धूमकेतुरिवोत्थितः” कुमा०। ३ ग्रहभेदे विश्वः केतुशब्दे २२३० पृष्ठादौ दृश्यम्। “केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश। भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम्” हरिवं० ८० अ०।
धूमगन्धि = न० धूमस्येव गन्धोऽस्य इत् समा०। १ रोहिषतृणे धूमेन गन्ध्यते गम्यतेऽसौ गन्ध–इन् ३ त०। २ धूमेनानु मीयमाने वह्नौ “माग्निर्ध्वनयीद्धूमगन्धिः” ऋ० ११६२। १५
धूमज = पु० धूमाज्जायते जन–ड। १ मेधे २ मुस्तके च।
धूमजाङ्गज = न० धूमजस्य मेघस्य अङ्गात् अङ्गरूपात् वज्रात् जायते जन–ड। वज्रक्षारे राजनि०।
धूमदर्शिन् = त्रि० धूमं धूमाकृतिं पश्यति दृश–णिनि। सुश्रुतोक्ते पित्तेन कफेन च विदग्धदर्शने मानवे। “तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्यथ धूमदर्शी”
धूमध्वज = पु० धूमः ध्वज इव यस्य। वह्नौ हेमच०।
धूमप = त्रि० धूमं धूममात्रं पिबति पा–क। तपस्यार्थं धूममात्रपायिनि तपस्विभेदे “पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः” रघुः। “पिबन्ति मुनयो यत्र हविर्धूमस्य धूमपा” भा० उ०१०७ अ० “ऊष्मपाः सोमपाश्चैव धूमपा आज्यवास्तया” भा० शा० २८ अ०
धूमपथ = पु० धूमोपलक्षितः पन्थाः अ समा०। १ पितृयाने कर्मप्राप्यमार्गे “जगर्ह सामर्षविपन्नया गिरा शिवद्विषं धूमपथश्रमस्मयम् (दक्षम्)” भाग० ४। ४। ११। पितृयानशब्दे दृश्यम्। धूममार्गादयोऽप्यत्र। २ धूमप्रचारमार्गे गवाक्षादौ च।
धूमपान = न० ६ त०। सुश्रुतोक्ते नेत्रव्रणादिरोगहरे धूमविशेषस्य पाने तद्विधिस्तत्रोक्तो यथा “अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः। धूमः पञ्चविधो भवति। तद्यथा प्रायोगिकः स्नेहनो वैरेचनः कासघ्नो वामनीयश्चेति। तत्रैलादिना कुष्ठतगरवर्ज्येण श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डं क्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्त्तिः प्रायोगिके। स्नेहफलसारमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नेहमिश्रैः स्नेहने। सिराविरेचनद्रव्यैर्वैरेचने। वृहती कण्टकारिकात्रिकटुककासमर्द्दहिंग्विङ्गुदीत्वङ्मनःशिलाच्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने। स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वामनीयैश्च वामनीये। तत्र वस्तिनेत्रद्रव्यैर्धूमनेत्रद्रव्याणि व्याख्यातानि भवन्ति। धूमनेत्रन्तु कनिष्ठिकापरिणाहमग्रे कलायमात्रं स्रोतोमूलेऽङ्गुष्ठपरिणाहं धूमवर्त्तिप्रवेशस्रोतोऽङ्गुलान्यष्टचत्वारिंशत् प्रायोनिके। द्वात्रिंशत् स्नेहने। चतुर्विंशतिर्वैरेचने। षोडशाङ्गुलं कासघ्ने वामनीये च। एते अपि कोलास्थिमात्रच्छिद्रे भवतः। व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्मं कलायपरिमण्डलं कुलत्थवाहिस्रोत इति। अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः स्नेहाक्तां प्रदीप्तां वर्तिं (प्रदीप्य) नेत्रस्रोतसि धूमं पिबेत्। मुखेन तं पिबेत्पूर्वं नासिकाभ्यां ततः पिबेत्। मुखपीतं मुखेनैव वमेत्पीतञ्च नासया। मुखेन धूममादाय नासिकाभ्यां न निर्हरेत्। तेन हि प्रतिलोमेन दृष्टिस्तत्र विहन्यते। विशेषतस्तु प्रायोगिकं घ्राणेनाददीतृ स्नेहनं मुखनासाभ्यां नासिकया वैरेचनं, मुखैनैवेतरे। तत्र प्रायोगिके वर्त्तिं व्यपगतशरकाण्डां निवातातपशुष्कामङ्गारेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात्। एवं स्नेहनं वैरेचनिकञ्च कुर्य्यादिति। इतरयोर्व्यपेत धूमाङ्गारस्थिरे समाहिते शरावे पक्षिप्य वर्त्तिं मूलच्छिद्रणान्येन शरावेण पिधाय तन्मिन् छिद्रे नेत्रमूलं संयोज्य धूममासेवत। प्रशान्ते धूमे वार्त्तमवशिष्टां प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धेरेष धूमपानोपायविधिः। तत्र शोकश्रमभयामर्षौष्ण्यबिषरक्तपित्तमदमूर्च्छादाहपिपासापाण्डुरोगतालुशोषच्छर्द्दिशिरोऽभिघातोद्गारापतर्पिततिमिरप्रमेहोदराध्मानोर्द्ध्ववातार्त्ता बालवृद्धदुर्बलविरिक्तास्थापितजागरितगर्भिणीरूक्षक्षीणक्षतोरस्कमधुघृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च न धूममासेवेरन्। अकालपीतः कुरुते भ्रममूर्च्छाशिरोरुजः। घ्राणश्रोत्राक्षिजिह्वानामुपधातञ्च दारुणम्। आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः। तद्यथा क्षतदन्तप्रक्षालननस्यस्नानभोजनदिवास्वप्नमैथुनच्छर्दिमूत्रोच्चाररुषितशस्त्रकर्मान्तेष्विति। तत्र मूत्रोच्चारक्षवथुरुषितमैथुनान्तेषु स्नैहिकः स्नानच्छर्दनदिवास्वप्नान्तेषु वैरेचनः। दन्तप्रक्षालननस्यस्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक इति। तत्र स्नेहनो वातं शमयति स्नेहादुपलेपाच्च वैरेचनः श्लेष्माणमुत्क्लेश्यापकर्षति रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च। प्रायोगिकः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति साधारणत्वात्पूर्वाभ्यामिति। भवति चात्र नरो धूमोपयोगाच्च प्रसन्नेन्द्रियवाङ्मनाः। दृढकेशद्विजश्मश्रुसुगन्धिविशदाननः। कासश्वासारोचकास्योपलेपस्यरभेदमुखास्राववमथुतन्द्रानिद्राहनुमन्यास्तम्भपीनसशिरोरोगकर्णाक्षिशूलवातकफनिमित्ताश्चास्य मुखरोगा न भवन्ति। तस्य योगातियोगौ विज्ञातव्यौ तत्र योगो रोगप्रशमनोऽतियोगो रोगाप्रशमनस्तालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममदकर्णाक्षिदृष्टिनासारोगदौर्बल्यानीत्यतियोगो जनयति। प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत। मुखनासिकाभ्याञ्च पर्य्यायांस्त्रींश्चतुरो वेति। स्नैहिकं यावदश्रुप्रवृत्तिः। वैरेचनिकमादोषदर्शनात्। तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः। ग्रासान्तरेषु कासघ्न इति। व्रणधूमं शरावसम्पुटोपनीतेन नेत्रेण व्रणमानयेत् धूमनाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति”। “शोफद्रावरुजायुक्तान् धूमपानैर्विशोधयेत्” सुश्रुतः।
धूमप्रभा = पुंस्त्री धूमस्य प्रभेव प्रभा यस्याः। धूमान्धकारयुक्तायां नरकभेदभूमौ हेमच०। “धनोदधिमल वाततनुवातनभःस्थिताः। रत्नशर्कराबालुकापङ्कधूमतमःप्रभाः। महातमःप्रभा वेत्यधोधोन नरकभूमयः” हेमच०। २ धूमवर्णे त्रि०।
धूमप्राश = त्रि० धूमं प्राश्नोति प्र + अश–अण्। धूममक्षके तपस्विभेदे। “धूमप्राशैरूष्मपैः क्षीरपैश्च सञ्जुष्टञ्च ब्राह्मणेन्द्रैः समन्तात्” भा० अनु० १४ अ०।
धूममहिषी = स्त्री धूमस्य महिषीव। कुज्झटिकायाम् त्रिका०
धूमयोनि = पु० धूमो योनिरुत्पत्तिस्थानं यस्य। १ मेघे २ मुस्तके च तत्र धूमविशेषजमेघफलं पुराणान्तरे उक्तं यथा “यज्ञधूमोद्भवं त्वभ्रं द्विजानाञ्च हितं सदा। दावाग्निधूमसम्भूतमभ्रं धनहितं स्मृतम्। मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति। अभिचाराग्निधूमोत्थं भूतनाशाय वै द्विजाः!”।
धूमल = पु० धूमं धूमवद्वर्णं लाति ला–क। १ कृष्णलोहितभे वर्णे २ तद्वति त्रि० अमरः।
धूमसी = स्त्री निस्तुषमाषाणां चूर्णे “माषाणां दालय स्तोये स्थापितास्त्यक्तकञ्चुकाः। आतपे शोषिताः पात्रे पिष्टास्ता धूमसी स्मृता। धूमसी रचिता सैव प्रोक्ता भुर्भुरिका बुधैः। भुर्भुरी कफपित्तघ्नी किञ्चिद्वातकरी स्मृता” भावप्र०।
धूमाक्ष = पु० धूम इव अक्षि अस्य षच् समा०। धूमतुल्यनेत्रयुक्ते त्रि० स्त्रियां षित्त्वात् ङीष्। “धूमाक्षी संपततु कर्णा च क्रोशतु” अथ० ११। १०। ७
धूमाङ्ग = पु० धूम इवाङ्गमस्य। १ शिंशपावृक्षे नैघण्टुपार०। २ धूमतुल्याङ्गयुक्ते त्रि० स्त्रियां ङीष्।
धूमाग्नि = पु० धूमशेषोऽग्निः शाक० त०। “विज्वालो यो धूमशिखो धूमाग्निः स उदाहृतः” इत्युक्ते वह्निभेदे
धूमादि = “धूमादिभ्यश्च” पा० वुञ् प्रत्ययनिमित्तेपा० ग० सूत्रोक्ते देशवाचकशब्दगणे स च गणः “धूम षडण्ड शशादन अर्जुनाव माहकस्थली आनकस्थली माहिषस्थली मानस्थली अट्टस्थली मद्रुकस्थली समुद्रस्थली दाण्डायनस्थली राजस्थली विदेह राजगृह सात्रासाह शष्प मित्रवर्द्ध भक्षाली मद्रकुल आजीकूल द्व्याहाव त्र्याहाव संस्फीय वर्वर वर्ज्य गर्त्त आनर्त्त माठर पाथेय घोष पल्लीआराज्ञी धार्त्तराज्ञी आवय तीर्थ (कूलात्सौवीरेषु) (समुद्रान्नावि मनुष्ये च)। कुक्षि अन्तरीय द्वीप अरुण उज्जयनी पट्टार दक्षिणापथ साकेत”। धौमकः
धूमाभ = पु० धूम इव आभाति आ + भा–क। १ धूमवर्णे शब्दमाला २ तद्वति त्रि०।
धूमाय = अधूमो धूमो भवति भृशा० च्व्यर्थे क्यङ् नामधातुः आत्म० अक० सेट्। धूमायते “अकस्मात् नगरोपान्ते कथं धूमायते चिता” हास्यार्णवः। ल्युट्। धूमायनम् “उषाचोपपरिदाहभूमायनानि पित्तस्य” सुश्रुतः। अत्र धूमशब्दः अग्निमान्द्यसूचकबायुभेदः तद्भवन धमायनम्। (चोओ~या डेकुर)
धूमावती = धूम इव वर्णोऽस्त्यस्याः मतुप् मस्य वः शरापूर्वपददीर्घः संज्ञायाम्। दशमहाविद्यान्तर्गते देवीभेदे महाविद्याशब्दे दृश्यम्। “विद्या धूमावती तथा” तन्त्रसारः। तद्ध्यानं यथा “विवर्णा चञ्चला दुष्टा दीर्घा च मलिनाम्बरा। विमुक्तकुन्तला रूक्षा विधवा विरलद्विजा। काकध्वजरथारूढा विलम्बितपयोधरा। सूर्पहस्तातिरूक्षाक्षी धूतहस्ता वरान्विता। प्रवृद्धघोणा तु भृशं कुटिला कुटिलेक्षणा। क्षुत्पिपासार्दिता नित्यं भयदा कलहास्पदा। जपेत् कृष्णचतुर्दश्यां पुरश्चरणसिद्धये” तन्त्रसारः। तन्मन्त्रादिकं तन्त्रसारे दृश्यम्।
धूमिका = स्त्री धूमोऽस्त्यस्याः ठन्। कुज्झटिकायां त्रिका०।
धूमित = त्रि० धूम–जातोऽस्य तार० इतच्। १ संजातधूमे “अविषह्यव्यसनेन धूमिताम्” कुमा० २ दीक्षणीयमन्त्रभेदे पु० “षडक्षरोजीवहीनः सार्द्धसप्ताक्षरो मनुः। सार्द्धद्वादशवर्णो वा धूमितः स तु निन्दितः” तन्त्रसा० ३ सूर्यगम्य दिग्भेदे स्त्री प्रधूमितशब्दे दृश्यम्।
धूमिन् = त्रि० धूमोऽस्त्यस्य बाहुल्येन “नैकाक्षरात् कृतो जातेः सप्तम्याञ्च न तौ स्मृतौ” इत्युक्तेः इनिठनोर्जाति वाचकात् निषेधेऽपि भूम्नि तस्यानिषेवात् इनि। १ वाहुल्येन धूमवति अबाहुल्ये तु मतुवेव धूमवान् इत्येव। स्त्रियां ङीप्। सा च अजमीढस्य २ पत्नीभेदे “अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः। नीली च केशिनी चैव धूमिनी च वराङ्गनाः” हरिवं० ३२ अ०। ३ वह्नेर्जिह्वाभेदे स्त्री धूम्रवर्णशब्दे दृश्यम्।
धूमोत्थ = न० धूमादुत्तिष्ठति परम्परया उद्–स्था–क। १ वज्रक्षारे राजनि० तस्य धूमयोनिमेधाज्जातवज्रात् उत्पन्नत्वात् परम्परया तज्जातत्वम्। २ धूमजातमात्रे त्रि०।
धूमोद्गार = पु० ६ त०। १ धूमनिर्गमे “धूमोद्गारानुकृति निपुणा जर्ज्जरानिष्पतन्ति” मेघ०। २ धूमस्य जाठराग्निमान्द्यसूचकपदार्थस्य उद्गारे (चोओ~याडेकुर) “धूमोद्गारे तथा वान्ते क्षुरकर्मणि मैथुने” आह्नि० त०
धूमोपहत = पु० ३ त०। सुश्रुतोक्ते धूमकृतोपद्रवरूपरोगभेदे तल्लक्षणादि तत्रोक्तं यथा “अत ऊर्द्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम्। श्वसिति क्षौति चात्यथमत्याधमति कासते। चक्षुषोः परिदाहश्च रागश्चैवोपजायते सधूमकं निःश्वसिति घ्रेयसन्यन्नवेत्ति च। तथैवच रसान् सर्वान् श्रुतिश्चास्योपहम्यते। तृष्णादाहज्वरयुतः सीदत्यथ च मूर्च्छति। धूमोपहत इत्येवं शृणुतस्य चिकित्सितम्”।
धूमोर्णा = स्त्री यमपत्न्याम् त्रिका०। “शक्रः शचीपतिर्देवो यमो धूमोर्णया सह। वरुणः सह गौर्य्या च सहर्द्ध्या च धनेश्वरः” भा० अनु० १६५ अ०। २ मार्कण्डेयपत्न्याञ्च “मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च” १४५ अ० अत्र मार्त्तण्डेयस्येत्येव युक्तः पाठः। मार्त्तण्डपत्न्या अपत्यम् ढक्। मार्त्तण्डेयो यमः पूर्बोक्तैकवाक्यात्।
धूमोर्णापति = पु० ६ त०। यमे हारा०।
धूम्या = स्त्री धूमानां समूहः पाशादि० य। १ धूमसमूहे धूमाय हितं यत्। २ धूमसाधने त्रि०
धूम्याट = पु० धूम्या इव अटति अट–अच्। (फिङ्गा) पक्षिमेदे अमरः स्त्रियां जातित्वात् ङीष्। धूम्राट इति पाठान्तरं तत्रार्थे
धूम्र = पु० धूमं तद्वर्णं राति रा–कपृषो०। १ सिह्लके खरलोमवर्णाभे २ कृष्णलोहिते वर्णे च ३ तद्वति त्रि० “धूमधूम्रो वसागन्धिर्ज्वालाबभ्रुशिरोरुहः” रघुः। कृष्णलोहितश्च कृष्णवर्णमिश्रो लोहितर्णः “धूम्रा बभ्रुनीकाशाः पितॄणाम्” यजु० २४। १८ “धूम्राः कृष्णवर्णमिश्रा लोहितवर्णाः” वेददी० “भूरेणवो नभसि नद्धपयोदचक्राश्चक्रीवदङ्गरुहधूम्ररुचो विसस्रुः” माघः। ५ शिवे “विलोहितस्य धूम्रस्य नीलग्रीवाय वै नमः” भा० शा० २८६ अ० ६ मेषे “अजो धूम्रो न गोधूमैः” यजु० २१। २९ “धूम्रः मेषः” वेददी० ७ कुमारानुचरभेदे “धूम्रः श्वेतः कलिन्दश्च सिद्धार्थो वरदस्तथा” भा० श० ४६ अ० तदनुचरोक्तौ। ८ बलिराजसेनाधिपासुरभेदे “समुद्रो रभसश्चण्डो धूम्रश्चैव प्रियङ्करः” हरिवं २४० अ० बलिसेनाधिप्रोक्तौ। एतेषां धूम्रवर्णत्वात् तथात्वम्। मुहूर्तचि० उक्ते आनन्दादिषु रव्यादिवारे ९ नक्षत्रविशेषेण योगभेदे यमा “आनन्दाख्यः १ कालदण्डश्च २ धूम्रो ३ धाता ४ सौम्यो ५ ध्वाङ्क्ष ६ केतू ७ क्रमेण। श्रीवत्साख्यो ८ वज्रकं ९ मुद्गरश्च १० छत्रं ११ मित्रं १३ मानसं १३ पद्म १४ लुम्बौ १५। उत्पाट १६ मृत्यू १७ किल काण १८ सिद्धी १९ शुभो २०ऽमृताख्यो २१ मुषलं २२ गदश्च २३। मातङ्ग २४ रक्ष २५ पर २६ सुस्थिराख्य २७ प्रवर्द्धमानाः २८ फलदाः स्वनाम्ना। टाम्रादर्के, मृगादिन्दौ, सार्पाद्भौमे, कराद्बुधे। मैत्रात् गुरौ, मृगौ वैश्वाद्गण्या मन्दे च वारुणात्” अस्यार्थः साभि- जित्कैः अष्टाविंशतिनक्षत्रैरष्टाविंशतिर्योगाः इष्टनक्षत्रं रविवारे अश्वनीतो गणने यत्संख्यकं ततमीयोगोभवति एवं सोमे रोहिणीतोयतमसं ख्यमृक्षं ततमोयोग इति एवमन्यत्राप्युह्यम्। तत्र वर्ज्यनाडीः तत्रैवाह। “ध्वाङ्क्षे वज्रे मुद्गरे चेषु ५ नाड्यो, वर्ज्या, वेदाः ४ पद्मलुम्बे, गदेऽश्वाः ७। धूम्रे काणे मौषले भू १ र्द्वयं, द्वे, रक्षोमृत्यूत्पाटकालाश्च सर्वे”। १० ध्रुवनामकवसोर्मातरि स्त्री “धूम्रायाश्च धरापुत्रो ब्रह्मविद्यो ध्रुवस्तथा” भा० आ० ६६ अ० वसवंशोक्तौ। शार० उक्ते आदित्यस्य द्वादशकलामध्ये ११ कलाभेदे स्त्री “तपिनी १ तापिनी २ धूम्रा ३ मरीचि ४ र्ज्वलिनी ५ रुचिः ६। सुषुम्णा ७ भोगदा ८ विश्वा ९ वोधिनी १० धारिणी ११ क्षमा १२”। १२ शशाण्डुल्यां स्त्री राजनि०।
धूम्रक = पु० धूम्र इव कायति कै–क। उष्ट्रे जटाधरः स्त्रियां ङीष्।
धूम्रकेतु = पु० भरतनृपस्यात्मजभेदे “भरतस्तु महाभागवतो यदा भगवताऽबनितलपरिपालनाय संचिन्तितः तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे। तस्यामुहात्मजान् कार्स्न्येनानुरूपानात्मनः पञ्चजनयामास भूतादिरिव भूतसूक्ष्माणि। सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति” भाग० ५। ७। ३। २ २ तृणविन्दोः पुत्रभेदे “विशालाः शसविन्दुश्च धूम्रकेतुश्च तत्सुताः” भा० ९। २। २ तत्सुताः तृणविन्दोः सुताः। ३ धूम्रवर्णध्वजयुक्ते त्रि०।
धूम्रकेश = पु० पृथुराजस्य पुत्रभेदे “वैन्यस्तु धुर्य्योजगतामित्युपक्रमे “पुत्रानुत्पादयामास पञ्चार्चिष्यात्मसंशितान्। विजिताश्वं हर्य्यक्षं धूम्रकेशं द्रविणंवृकम्” भाग० ४। २२ ५० “विजिताश्वोधिराजासीत् पृथुपुत्रः पृथुश्रवाः। यवीयोभ्योऽददात् काष्ठा भ्रातृभ्यो म्रातृवत्सलः। हर्य्यक्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम्। प्रतीचीं दृकसंज्ञाय तुर्य्यां द्रविणसे विभुः” २४। ३। २ कृशाश्वस्यार्चिपि भार्य्यायां जातपुत्रे च। “कृशाश्वोऽर्चिषि भार्य्यायां धूम्रकेशमजीजनत्” भाग० ६। ६। १८। ४ ३ धूम्रवर्णकेशयुक्ते त्रि० स्वाङ्गत्वात् वा स्त्रियां ङीष्।
धूम्रपत्रा = स्त्री धूम्रं पत्रमस्याः जातित्वेऽपि अजादेराकृति गणत्वात् टाप्। स्वयम्भुवायां क्षुपभेदे राजनि० १ धूम्रवर्णपत्रयुक्ते त्रि०।
धूम्रमूलिका = स्त्री धूम्रं मूलं यस्याः कप् अत इत्त्वम्। शूलीतृणे राजनि०।
धूम्ररोहित = पु० “वर्णो वर्णेन” पा० कर्म०। १ धूम्रवर्ण- मिश्रितरक्तवर्णे तद्वति त्रि०। “रोहितो धूम्रो रोहितः कर्कन्धुरोहितस्ते सौम्याः” यजु० २४। २।
धूम्रलोचन = त्रि० धूम्रं लोचनमस्य। १ धूम्रनेत्रयुक्ते स्त्रियां स्वाङ्गत्वेऽपि बह्वच्कत्वात् टाप्। २ शुम्भासुरसेनापतिभेदे पु०। “हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः। तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम्” देवीमा०।
धूम्रलोहित = पु० “वर्णो वर्णेन” पा० कर्म०। १ कृष्णवर्णमिश्रितरक्तवर्णे २ तद्वति त्रि० ३ शिवे पु०। “गौरः श्यामस्तथा कृष्णः पाण्डुरो धूम्रलोहितः” भा० अनु० १४ अ० शिवनामोक्तौ।
धूम्रवर्ण = पु० कर्म०। १ कृष्णलोहितवर्णे २ तद्वति त्रि०। ३ तुरुष्के सिह्लके न० राजनि०। ४ अग्नेः सप्तजिह्वान्तर्गतजिह्वाभेदे स्त्री जटा० शा० ति० ५ पटले “विन्यसेदात्मनो देहे मन्त्रैर्जिह्वा हविर्भुजः” इत्युपक्रमे “जिह्वास्तास्त्रिविधाः प्रोक्ता गुणभेदेन कर्मसु। हिरण्या १ गगना २ रक्ता ३ कृष्णा ४ऽन्या सुप्रभा ५ मता। बहुरूपा ६ऽतिरक्ता च सात्विक्यो यागककर्मसु”। “पद्मरागा १ सुवर्णाऽ २ न्वा तृतीया भद्रलोहिता ३। लोहिता ४ऽनन्वरं श्वेता ५ धूमिनी ६ च करालिनी ७। राजस्यो रसना ८ वह्नेर्विहिता काम्यकर्मसु”। “विश्वमूर्त्ति १ स्फुलिङ्गिन्यौ २ धूम्रवर्णा ३ मनोजवा ४। लोहिन्य ५ न्या करालाख्या ६ काली ७ तामस्य ईरिताः” जिह्वाशब्दे ३१२१ पृ० दर्शिते काली करालीकेत्यादिश्रुतिवाक्ये सामान्यतोऽग्निजिह्वाभिहितेति इति बोध्यम्। ६ धूमिन्यां जाते अजमीढस्य ४ पुत्रभेदे पु० “धूमिन्या स तया देव्या अजमीढः समीयिवान्। ऋक्षं संजनयामास धूम्रवर्णं सुदर्शनम्” हरिवं० ३२ अ०।
धूम्रशूक = पुंस्त्री धूम्रः शूक इव रोमास्य। उष्ट्रे हारा०। स्त्रियां जातित्वात् ङीष्।
धूम्राक्ष = त्रि० धूम्रमक्षि यस्य धच्समा०। १ धूम्रवर्णनेत्रयुक्ते स्त्रियां षित्त्वात् ङीष्। २ तृणविन्दुवंश्ये हेमचन्द्रनृपसुते पु०। “हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः” भाग० ९। २। २२। ३ रावणसैन्यान्तर्गते राक्षसभेदे। “तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम्। अभिदुद्राव धूम्राक्षो वेगेन महता कपीत्” “ततस्तमतिकोपेन साश्वं सरथसारथिम्। धूम्राक्षमबधीत् क्रुद्धो हनूमान् मारुतात्मजः” भा० व० २८५ अ०।
धूम्रानीक = पु० शाकद्वीपाधिपमेधातिथेः १ पुत्रभेदे तन्नामके २ तत्रत्येवर्षे च। चित्ररेफशब्दे धाग० ५। २०। १९ वाक्यं दृश्यम् तच्छब्दे ५। १ भाग० वाक्ये भागवताङ्कस्त्वशुद्धः।
धूम्रायण = पु० गोत्रप्रवरषिभेदे प्रवराध्यायः
धूम्रार्चिस् = स्त्री शा० ति० उक्ते वह्नेर्दशकलान्तर्गते कलाभेदे “धूम्रार्चि १ रूष्मा २ ज्वलिनी ३ ज्वालिनी ४ विस्फुलिङ्गिनी ५। सुश्रीः ६ सुरूपा ७ कपिला ८ हव्यकव्यवहे (९। १०) अपि। यादीनां दशवर्णानां कला धर्मप्रदा इमाः।
धूम्राह्वा = स्त्री धूम्रं वर्णमाह्वयते स्पर्द्धते आ + ह्वे–क”। धूम्रपत्रायां स्वयम्भुवायां क्षुपभेदे राजनि०।
***