धान = न० धा–भावे ल्युट्। १ धारणे २ पोषणे च आधारे ल्युट्। ३ धारणाधारे स्त्रियां ङीप् राजधानी मत्स्यधानी

धानक = न० धन्याक + पृषो०। १ धन्याके राजनि० २ मानभेदे पु० भावप्र०। “षड्भिस्तु रत्तिकाभिः स्यात् माषको हेमधानकौ”। अत्र हेमधामकौ पाठान्तरम्।

धाना = स्त्री व०। धा–न टाप्। (वहुरी) ख्याते १ भृष्टयवे अमरः। २ धन्याके ३ अभिनवोद्भिन्ने अङ्कुरे ४ चूर्णमक्तुषु च मेदि०। “यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम्। धानाः स्युर्दुर्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः। तथा मेदःकफच्छर्दिनाशिन्यः सम्प्रकीर्त्तिताः” राजनि०। “धाना मत्स्यान् पयोमांसं शाकञ्चैव न निर्णुदेत्” मनुः। स्वार्थे क धानाका तत्रार्थे व० ब० शब्दर०।

धानाचूर्ण = न० ६ त०। सक्तुषु।

धानी = स्त्री धा–आधारे ल्युट् ङीप्। १ आधारे राजधानी २ पीलुवृक्षे स्त्री राजनि०। स्वार्थे क धानिका तत्रार्थे “अङ्गारधानिका” अमरः।

धानुर्दण्डिक = पु० धनुर्दण्ड इव तेन जीवति वेतना० ठक्। धनुरुपजीविनि धानुष्के।

धानुष्क = पु० धनुःप्रहरणमस्य धनुषा जीवति वा वेतना० ठक् इसुसुक्तान्तात् ठस्य कः। १ धनुषा युध्यमाने २ धनुषा जीविनि च अमरः। “पारश्वधिकधानुष्कशाक्तीकप्रासिकान्वितौ” भट्टिः। धनुरिवावयवोऽस्य वा० ठक्। ३ अपामार्गे स्त्री शब्दच०।

धानुष्य = व० धनुषि साधुः बा० ञ्य। वंशे राजनि०।

धानेय = न० धानैव स्वार्थे ढक्। धन्याके राजनि० स्वार्थे क धानेयक तत्रार्थे न० जटाधरः।

धान्धा = स्त्री (एलाइच) एलायां शब्दच०

धान्य = न० धाने पोषणे साधु यत्। १ सतुषे(धान)ख्याते ब्रीह्यादौ “शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते” स्मृतिः। धान्यवर्गः सगुणोऽभिहितो भावप्र० यथा “शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम्। शिम्बीधान्यं क्षुद्रधान्यमित्युक्तं धान्यपञ्चकम्। शालयो रक्तशाल्याद्या व्रीहयः षष्ठिकादयः। यवादिकं शूकधान्यं मुद्गाद्यं शिम्बिधान्यकम्। कङ्ग्वादिर्क क्षुद्रधान्यं तृणधान्यञ्च तत् स्मृतम्”। तत्र शालिधान्यस्य लक्षणं गुणाश्च “कण्डनेन विना शुक्ला हैमन्ताः “शालयः स्मृताः”। अथ शालीनां नामानि। रक्तशालिः सकलमः पाण्डुकः शकुनाहृतः। सुगन्धकः कर्द्दमको महाशालिश्च दूषकः। पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः। दीर्घशूकः काञ्चनको हायनो लोघ्रपुष्पकः। इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः। ग्रन्थविस्तरभीतेस्ते समस्ता नात्र भाषिताः”।

अथ तेषां गुणाः “शालयो मधुराः स्निग्धा बल्या बद्धाल्पबर्च्चसः। कषाया लघवो रुच्याः स्वर्य्या वृष्याश्च वृंहणाः। अल्पानिलकफाः शीताः पित्तघ्ना मूत्रलास्तथा। शालयो दग्धमृज्जाताः कषाया लघुपाकिनः। सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षणाः। कैदारा वातपित्तव्नाः गुरवः कफशुक्रलाः। कषाया अल्पवर्च्चस्का मेध्याश्चैते बलावहाः”। कैदाराः कृष्टक्षेत्रजाः उप्ताः। “स्थलजाः स्वादवः पित्तकफघ्ना वातपित्तदाः। किञ्चित्तिक्ताः कषायाश्च विपाके कटुका अपि। स्थलजाः अकृष्टभूमिजाताः स्वयंजाता। बापिता मघुरा वृष्या बल्याः पित्तप्रणाशताः। श्लेष्मलाश्चाल्पवर्च्चस्काः कषाया गुरवो हिमाः”। वाप्रिताः कृष्टक्षेत्रे अकृष्टक्षेत्रे च। “वापितेभ्यो गुणैः किञ्चित् हीनाः प्रोक्ता अवापिताः”। कृष्टक्षेत्रे अकृष्टक्षेत्रे वा। “रोपितास्तु नवा वृष्याः पुराणा लघवः स्मृताः। तेभ्यस्तु रोपिता भूयः शीघ्रपाका गुणाधिकाः। छिन्नरूढाः हिमा रूक्षा बल्याः पित्तकफापहाः। बद्धविष्ट्काः कषायाश्च लघवश्चाल्पतिक्तकाः”।

अय रक्तशालेर्गुणाः “रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित्। चक्षुष्यो मूत्रलःस्वर्य्यः शुक्रलस्तृड्ज्वरापहः। विषव्रणश्वासकासदाहनुद्वह्निपुष्टिदः। तस्मादल्पान्तरगुणाः शालयो महदादयः”। रक्तशालिः (दाउदखानी) इति लोके मगधदेशे प्रसिद्धः।

अथ व्रीहिधान्यस्य लक्षणं गुणाश्च। “वार्षिकाः कण्डिताः शुक्ला व्रीहयश्चिरपाकिनः। कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि। शालामुखो जतुसुख इत्याद्याः व्रीहयः स्मृताः। कृष्णव्रीहिः स विज्ञेयो यः कृष्णतुषतण्डुलः। पाटलः पाटलापुष्पवर्णको व्रीहिरुच्यते। कुक्कुटाण्डाकृतिर्व्रीहिः कुक्वटाण्डकौच्यते। शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते। लाक्षावर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः। व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिताः। अल्पाभिष्यन्दिनो वद्धवर्च्चस्काः षष्टिकैः समाः। कृष्णब्रीहिर्वरस्तेषां तस्मादल्पगुणाः परे”।

अथ षधिकानां लक्षणं गुणाश्च। “गर्भस्था एव ये पाकं यान्ति ते षष्टिका मताः”। अथ षष्टिकानां नामानि। “षष्टिका शतपुष्पश्च प्रमोदकमुकुन्दकी। महाषष्टिक इत्याद्याः षष्टिकाः समुदाहृताः। एतेऽपि व्रीहयः प्रोक्ता व्रीहिलक्षणदर्शनात्। षष्टिका मधुराः शीता लघवो बद्धवर्च्चसः। वातपित्तप्रशमनाः शालिभिः सदृशाः गुणैः”।

तत्र षष्टिकाया गुणाः। “षष्टिका प्रवरा तेषां लध्वी स्निग्धा त्रिदोषजित्। स्वाद्वी मृद्वी ग्राहिणी च बलदा ज्वरहारिणी। रक्तशालिगुणैस्तुल्या ततः स्वल्पगुणाः परे। षष्टिका (षाठी) इति लोके।

अथ शूकधान्यानि। तेषु यवाः प्रसिद्धाः। अतियवः पोतशूकः कृष्णारुणवर्णो यवः। तोक्यो हरितो निःशूकः स्वल्पो यवः यवेति प्रसिद्धः। तेषां नामानि गुणाश्च। “यवस्तु पीतशूकः स्यान्निःशूकोऽतियवः ऋतः। तोक्यस्तद्वत्सहरितस्ततः स्वल्पश्च कीर्त्तितः। यवः कषायो मधुरः शीतलो लेखनो मृदुः। व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निबर्द्धनः। कटुपाकोऽनभिष्यन्दी स्वर्यो बलकरो गुरुः। बहुबातमलो वर्णस्थैर्य्यकारी च पिच्छिलः। कण्ठत्वगामयश्लेष्मपित्तमेदप्रणाशनः। पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत्। अस्मादतियवो न्यूनस्तोक्यो न्यूनतरस्ततः।

अथ गोधूमस्य नामानि लक्षणं गुणाश्च। “गोधूमः सुमनोऽपि स्यात् बिविधः स च र्कार्त्तितः। महागोधूम इत्याख्यः पश्चाद्देशात् समागतः। महागोधूमः। (बडगोहुम) इति लोके। “मधूली तु ततः किञ्चिदल्पा सा मध्यदेशजा। निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखामिधः। गोधूमो मधुरःशीतो बातपित्तहरो गुरुः। कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत् सरः। जीवनी वृंहणो वर्ण्यो व्रण्यो रुच्यः स्थिरत्वकृत्। कफप्रदो नवीनो नतु पुराणः। पुराणयवगोधूमक्षुद्रजाङ्गलशूलभागिति” वाग्भटेन वसन्ते गृहीतत्वात्। “मधूली शीतला स्निग्धा पित्तघ्नी मधुरा लधुः। शुक्रला वृंहणी पथ्या तद्वम्मन्दीमुखः स्मृतः”।

अथ शिम्बीधान्यानि तत्पर्य्यायानाह। “शमीजाः शिम्बिजाः शिम्बीभवाः सूर्य्याश्च वैदलाः। तेषां गुणाः। “वैदलामधुरा रूक्षाः कषायाः कटुपाकिनः। वातलाः कफपित्तघ्नबद्धमूत्रमला हिमाः। ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारिणः। मुद्गमसूरयोरनाध्मानकारित्वमन्यवैदलापेक्षया न तु सर्वथा एतयोरपि किञ्चिदाध्मानकारित्वात्।

तत्र मुद्गस्य गुणाः। “मुद्गो रूक्षो लघुर्ग्राही कफपित्तहरोहिमः। स्वादुरल्पानिलो नेत्र्यो ज्वरघ्नो वनजस्तथा। मुद्गो बहुविधः श्यामो हरितः पीतकस्तथा। श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो लघुः स्मृतः। सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः। चरकादिभिरप्युक्त एव एब गुणाधिकः।

अथ माषः (उरद)। माषो गुरुः स्वादुपाकः स्निग्धो रुच्योऽनिलापहः। स्रंसनस्तर्पणो बल्यः शुक्रलो वृंहणः परः। भिन्नमूत्रमलस्तन्यो मेदःपित्तकफप्रदः। गुदकीलार्द्दितश्वासपङ्क्तिशूलानि नाशयेत्। कफपित्तकरा माषा वृन्ताकं कफपित्तकृत्”।

अथ राजमाषस्य (वरवटी) राजमाषो महामाषश्चपल श्चबलः स्मृतः। राजमाषो गुरुःस्वादुस्तुवरस्तर्पणः सरः। रूक्षो वातकरो रुच्यः स्तन्यो भूरिबलप्रदः। श्वेतो रक्तस्तथा कृष्णस्त्रिविधः स प्रकीर्त्तितः। यो महांस्तेषु भवति स एवोक्तो गुणाधिकः”।

अथ निष्पावः। स तु राजशिम्बीवीजं (भेटवासु) इति लोके। “निष्पाबो राजशिम्बिः स्याद् बल्लकः श्वेतशिम्बिकः। निष्पावो मधुरो रूक्षो विपाकेऽम्ली गुरुः सरः। कषायःस्तन्यपित्तास्नमूत्रवातविबन्धकृत्। विदाह्युष्णो विषश्लेष्मशोथहृच्छुक्रनाशनः”।

अथ मकुष्ठः। मकुष्ठोवनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ। मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः। वह्निजिन् मधुरः पाके कृमिकृज्ज्वरनाशनः”।

अथ मसूरः। “मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका। मसूरो मधुरः पाके संग्राही शीतलो लघुः। कफपित्तास्रजिद्रूक्षो वातलो ज्वरनाशनः।

अथ आढकी (रहरी)। “आढकी तुवरी चापि सा प्रोक्ता शणपुष्पिका। आढकी तुवरा रूक्षा मधुरा शीतला लघुः। ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्”।

अथ चणकः (छोला)। “चणको हरिमन्थः स्यात् सकलप्रिय इत्यपि। चणकः शीतलो रूक्षः पित्तरक्तकफापहः। लघुः कषायो विष्टम्भी वातलो ज्वरनाशनः। स चाङ्गारेण सम्भृष्टस्तैलभृष्टश्च तद्गुणः। आर्द्रभृष्टो बलकरो रोचनश्च प्रकीर्त्तितः। शुष्कभृष्टोऽतिरूक्षश्च वातकुष्ठप्रकोपणः। स्विन्नः पित्तकफं हन्यात् सूपः क्षोभकरो मतः। आर्द्रोऽति कोमलो रुच्यः पित्तशुक्रहरो हिमः। कषायो वातलो ग्राही कफपित्तहरो लघुः।

कल्ययः (केराव)। कलायो वर्त्तुलः प्रोक्तः सतीनश्च हरेणुकः। कलायो मधुरः स्वादुः पाके रूक्षश्च शीतलः। अथ त्रिपुटः (खेसारी)। त्रिपुटः खण्डिकोऽपि स्यात् कथ्यन्ते तद्गुणा अथ। त्रिपुटो मधुरस्तिक्त स्तुवरो रूक्षणो भृशम्। कफपित्तहरो रुच्यो ग्राहकः शीतलस्तथा। किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः।

अथ कुलत्थी। कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ। कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत्। लघुर्विदाही वीर्योष्णः श्वासकासकफानिलान्। हन्ति हिक्काश्मरीशुक्रदाहानाहान् सपीनसान्। स्वेदसंग्राहको मेदोज्वरकृमिहरः परः।

अथ तिलः। तिलः कृष्णः सितो रक्तः स वर्ण्योऽल्प- तिलः स्मृतः। तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः। विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत्। बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः। दन्त्योऽल्पमूत्रकृद् ग्राही वातघ्नोऽग्निमृतिप्रदः। कृष्णः श्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः। अन्ये हीनतराः प्रोक्तास्तज्ज्ञैरक्तादयस्तिलाः।

अथ अतसी (तिसि)। अतसी नीलपुष्पी च पार्वती स्यादुमा क्षुमा। अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरुः। उष्णासृक्शुक्रवातघ्नी कफपित्तविनाशिनी। अथ तुवरी (तोरी तोडीति) लोके। तुवरी ग्राहिणी प्रोक्ता लघ्वी कफविषास्रजित्। तीक्ष्णोष्णा वह्निदा कण्डूकुष्ठकोष्ठकृमिप्रणुत्।

अथ सर्षप (रक्तसरीसो पिअरी सरीसो)। सर्षपः कटुकः स्नेहस्तुन्दुभश्च कदम्बकः। गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते। सर्षपस्तु रसे पाके कटुः स्निग्धः सतिक्तकः। तीक्ष्णोष्णः कफवातघ्नोरक्तपित्ताग्निवर्द्धनः। रक्षोहरो जयेत् कण्डूं कुष्ठकोष्ठकृगिग्रहान्। यथा रक्तस्तथा गौरः किन्तु गौरो वरो मतः।

अथ राजी (कृष्णा राइ)। राजी तु राजिका तीक्ष्णगन्धा कुञ्जनिकासुरी। क्षवः क्षवाभिजनकः कृमिकृत् कृष्णसर्षपः। राजिका कफपित्तघ्नी तीक्ष्नोष्णा रक्तपित्तकृत्। किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोष्ठकृमीन् हरेत्। अतितीक्ष्णा विशेषेण तद्वत् कृष्णापि राजिका।

अथ क्षुद्रधान्यम्। क्षुद्रधान्यं कुधान्यञ्च तृणधान्यमिति स्मृतम्। क्षुद्रधान्यमनुष्णं स्यात् कषायं लघु लेखनम्। मधुरं कटुकं पाके रूक्षञ्च क्लेदशोषकम्। वातकृत् बद्ध्वविट्कञ्च पित्तरक्तकफापहम्।

तत्र कङ्गुः (काङ्नी)। स्त्रियां कङ्गुप्रियङ्गू द्वे कृष्णा रक्ता सिता तथा। पीता चतुर्विधा कङ्गुस्तासाम्पीता वरास्मृता। कङ्गुस्तु भग्नसन्धानवातकृत् वृंहणी गुरुः। रूक्षा श्लेष्महरातीव वाजिनां गुणकृद् भृशम्।

अथ चीना। चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गुवद्गुणैः।

अथ श्यामा। श्यामाकः शोषणो रूक्षो वातलः कफपित्तहृत्।

अथ कोद्रवः। कोद्रवः कोरदूषः स्यादुद्दालो वनकोद्रवः। कोद्रवो वातलो ग्राही हिमपित्तकफापहः। उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम्।

अथ चारुकः (सरवीज)। चारुकः सरवीजः स्यात् कथ्यन्ते तद्गुणा अथ। चारुको मधुरो रूक्षो रक्तपित्तकफापहः। शीतलो लघुवृष्यश्च कषायो वातकोपनः।

अथ वंशवीजम्। यवा वंशभवा रूक्षाः कषायाः कटुपाकिनः। बद्धमूत्राः कफघ्नाश्च वातपित्तकराः सराः।

अथ कुमुम्भवीजम्। कुसुम्भवीजं वरटा सैव प्रोक्ता वरट्टिका। वरटा मधुरा स्निग्धा रक्तपित्तकफापहा। कषाया शीतला गुर्वीस्यादवृष्याऽनिलापहा।

अथ गवेधुका (गरहेडुआ)। गवेधुका तु विद्वद्भिर्गवेधुः कथिता स्त्रियाम्। गवेधुः कटुका स्वाद्वी कार्श्यकृत् कफनाशिनी।

अथ नीवारः। प्रसाधिका तु नीवारस्तृणधान्यमिति स्मृतम्। नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत्।

अथ (पुनेरा)। पवनालोहिमः स्वादुर्ल्लोहितः श्लेष्मपित्तजित्। अवृष्यस्तुवरो रूक्षः क्लेदकृत् कथितो लघुः। धान्यं सर्वं नवं स्वादु गुरु श्लेष्मकरं स्मृतम्। तत्तु वर्षोषितं पथ्यं यतो लघुतरं हितम्। वर्षोषितं सर्वधान्यं गौरवं परिमुञ्चात। न तु त्यजति वीर्यं स्वं क्रमान्मुञ्चत्यतः परम्। एतेषु यवगोधूमतिलमाषा नवा हिताः। पुराणा विरसा रूक्षा न तथा गुणकारिणः। पुराणा वर्षद्वयादुपरिस्थिताः। यवादयो नवाः स्वस्थान् प्रति हिताः। पय्याशिनान्तु पुराणा हिताः। “पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुगिति वसन्ते वाग्भटेनोक्तत्वात्”। स्मार्त्तादिकर्मोपयोगिधान्यभेदाश्च हेमा० दा० उक्ता यथा मार्क्कण्डेयपुराणे “जज्ञिरे तानि बीजानि ग्राम्यारण्याभिधानि च। ओषध्यः फलपाकान्ताः सर्वे सप्तदश स्मृताः। व्रीहयश्च यवाश्चैव गोधूमाः कङ्गुकास्तिलाः। प्रियङ्गवः कोविदाराः कोरदूषाः सतीनकाः। माषमुद्गामसूराश्च निष्पावाः सकुलोत्यकाः। आढक्यश्चणकाश्चैव चीनाः सप्तदश स्मृताः। इत्येता ओषधीनान्तु ग्राम्याणां जातयः स्मृताः। ओषध्यो यज्ञिया ज्ञेया ग्राम्यारण्याश्चतुर्दश। व्रीहयश्च यवाश्चैव गोधूमाः कङ्गुसर्षपाः। माषामुद्गाः सप्तमाश्च अष्टमाश्च कुलोत्थकाः। श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः। कोविदारसमायुक्तास्तथा वेणुयवाश्च ये। ग्राम्यारण्याः स्मृता ह्येता ओषध्यश्च चतुर्दश” “स्कन्दपुराणे “यवगोधूमधान्यानि तिलाः कङ्गुकुलोत्थकाः। माषामुद्गामसूराश्च निष्पावाः श्यामसर्षपाः। गवेधुकाश्च नीवारा आढक्योऽथ सतीनकाः। चणकाश्चीनकाश्चैव धान्यान्यष्टादशैवं तु” धान्यानि व्रीहयः। नीवाराः आरण्यव्रीहयः। सतीनका वर्त्तुलकलायाः। चीनकाः षष्टिकविशेषाः। षट्त्रिंशन्मतात् “यवा गोधूमधान्यानि तिलाः कङ्गुस्तथैव च। श्यामाकश्चीनकश्चैव सप्तधान्यमुदाहृतम्”।

“एकादश्यां विशेषेण ह्यन्नमात्रं परित्यजेत्। फलं मूलं जलादीनि किञ्चिद्भक्ष्वं प्रकल्पयेत्। अन्नं तु धान्यसम्भूत गिरिजे! भुवि जायते। धान्यानि विविधानीह जगत्यां शृणु तान्यथ। श्यामामाषमसूराश्च धान्यकोद्रव सर्षपाः। मकुष्ठो राजमाषाश्च तुवरोजुमरस्तथा। यव गोधूममुद्गाश्च तिलकङ्गुकुलत्थकाः। गवेधुकाश्च नीवारा आढकश्च कलायकाः। माण्डूको वज्रको रङ्कः कीचको वडकस्तथा। तिलकाश्चणकाद्याश्च धान्यानि कथितानि वै। एतद्धान्य समद्भूतमन्नं भवति शोभने!। अन्नत्यागे ब्रते भक्ष्यमेतदेव विवर्जयेत्” पाद्मोत्तरखण्डम्।

धान्यमानन्तु हेमा० दा० उक्तं यथा भविष्यपुराणे “पलद्वयन्तु प्रसृतं द्विगुणं कुडवं मतम्। चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः। आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितोबुधैः। कुम्भो द्रोणद्वयं सूर्पः खारी द्रोणास्तु षोडश”। विष्णुधर्मोत्तरे “पलञ्च कुडवः प्रस्य आढको द्रोण एव च। धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः। द्रोणैः षोडशमिः खारी विंशत्या कुम्भ उच्यते। कुम्भैस्तु दशभिर्वाधो धान्यसंख्या प्रकीर्त्तिता”। वाराहपुराणे “पलद्वयन्तु प्रसृतम् मुष्टिरेकं पलं स्मृतम्। अष्टमुष्टि र्भवेत् कुञ्चिः कुञ्चयोऽष्टौ तु पुष्कलम्। पुष्कलानि च चत्वारि आढकः परिकीर्त्तितः। चतुराढको भवेत् द्रोण इत्येतन्मानलक्षणम्। चतुर्भिः सेतिकाभिस्तु प्रस्थ एकः प्रकीतितः” मुष्टिर्यजमानस्येति केचित्। पाद्मे “चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः। चतुराढको भवेद्रोण इत्येतन्मानलक्षणम्”। अथ गोपथब्राह्मणे। “पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम्। पलैर्द्वात्रिंशद्भिःप्रस्थो मागधेषु प्रकीर्त्तितः। आदकस्तैःश्चतुर्भिश्च द्रोणः स्याच्चतुराढकः”। धान्यच्छेदनादिविहितनक्षत्रादि ज्यो० द० उक्तं दीपिकायां “याम्याजपादहिधनानलतोयशक्रचित्रेतरेषु च कुजार्कजवारवर्जम्। शस्तेन्दुयोगकरणेषुतिथौ विरिक्ते वा- न्यच्छिदिः स्थिरनरर्क्षमृगोदयेषु। बलभद्रः “रेवतीहस्तमूलेषु श्रवणे नागयाम्ययोः। पितृदेवे तथा सौम्ये धान्यच्छेदं मृगोदये” अथ धान्यच्छेदनप्रकारः। “सपत्रौ मासमुद्गौ च यवधान्ये सकाण्डके। छिन्द्यात्तिलञ्च निष्पत्रमेतत् पाराशरं मतम्” पराशरः। “न मुष्टिग्रहणं कुर्यात् कदाचिद्धटपौषयोः। ईशाने लवनं कुर्यात् सार्द्धमुष्टिद्वयं शुचिः। पौष्णे पुष्ये शुभाहे बा पूजयित्वेष्टदेवताम्। शस्यविघ्नप्रशान्त्यर्थं क्षेत्रे वा हव्य भोजनम्”। बौधायनः “रथाश्वगजधान्यानां गवां चैव रजः शुभम्। अथाशस्तं समूहिन्याः श्वाजाविखर वायसाम्”। समूहिनी संमार्जनी। कृत्यचिन्तामणौमेधिरुक्ता यथा। “वटश्च सप्तपर्णश्च गाम्भारी शाल्ली तथा औदुम्बरी तथा धात्री या चान्या क्षीरधारिणी। स्त्रीनाम्नी कर्षकैर्नित्यं मेधिः कार्या फलप्रदा”। अधिकं कृषिशब्दे दृश्यम्।

धान्यकोष्ठक = न० ६ त०। धान्यस्थापनार्थे गृहे (गोला) हला०

धान्यचमस = पु० चग्यते चम–कर्मणि असन्। धान्यविकारभेद एव चमसः। चिपिटके त्रिका०।

धान्यत्वच् = स्त्री ६ त०। तुषे अमरः।

धान्यधेनु = स्त्री दानार्थे धान्यकल्पितायां गव्याम्। तद्विधिः “विषुवे चायने वापि कार्त्तिक्यान्तु विशेषतः। तमिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम्। यां दत्त्वा सर्वपापेभ्यः शशाङ्क इव राहुणा” (मुच्यते इति शेषः)। दशधेनुप्रदानेन यत्फलं राजसत्तम!। तत्सर्वमेव प्राप्नोति व्रीहिधेनुप्रदो नरः। कृष्णाजिनं ततः कृत्वा प्राग्वद्वत्संन्यसेद्बुधः। गोमयेनानुलिप्ताङ्गीं शोभनां वस्त्रसंयुताम्। पूजयेद्वेदिमध्ये स्याद्रोणैश्चापि चतुष्टयैः। मध्यमा च तदर्द्धेन वित्तशाठ्यं न कारयेत्। चतुर्थांशेन धेन्वा वै वत्सन्तु परिकल्पयेत्। कर्त्तव्ये रुक्मशृङ्गे तु राजतक्षुरसंयुता। गोरूधः पूर्ववद्घ्राणमगुरुचन्दनन्तथा। मुक्ताफलमया दन्ता घृतक्षौद्रमयं मुखम्। प्रशस्तपत्रश्रवणा कांस्यदोहनकान्विता। इक्षुयष्टिमयाः पादाः क्षौमपुच्छसमन्विता। नानाफलसमोपेता रत्नगर्भसमन्विता। पादुकोपानहौछत्रे भाजमं दर्पणं तथा। इत्येवं रचयित्वा तां कृत्वा दीपार्चनादिकम्। पुण्यकालञ्च संप्राप्य स्नातः शुक्लाम्बरो गृही। त्रिःप्रदक्षिणमावत्य मन्त्रेणानेन कीर्त्तयेत्। तव विप्र! महाभाग! वेदवेदाङ्गपारग!। या मेताञ्च मया दत्तां गृह्णीष्व त्वं द्विजोत्तम! प्रीयतां मम देवेशो भगवान् मधुसूदनः। त्वमेका लक्ष्मीर्गोविन्दे स्वाहा चासि विभावसोः। शक्रे शचीतु विख्याता मेधा मुनिषु सत्तमा। तस्मात् सर्वमयी देवी धान्यरूपेण संस्थिता। एवमुच्चार्य्य तां धेनुं ब्राह्मणाय निवेदयेत्। दत्त्वा प्रदक्षिणं कृत्वा तं क्षमाप्य द्विजोत्तमम्। यावच्च पृथिवी सर्वा वसुरत्नानि भूपते!। तावत् पुण्यमयाधिक्यं व्रीहिधेनोश्च तत्फलम्। तस्मान्नरेन्द्र! दातव्या भुक्तिमुक्तिफलप्रदा। इह लोके च सौभाग्यमायुरारोग्यवर्द्धनम्। विमानेनार्कवर्णेन किङ्किणीरत्नमालिना। स्तूयमानोऽप्सरोभिश्च प्रयाति शिवमन्दिरम्। यावच्च स्मरते जन्म तावत् स्वर्गे महीयते। ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत्। एवं हरेण प्रोद्गीर्णं श्रुत्वा वाक्यं नरोत्तमः। सर्वपापविशुद्धात्मा रुद्रलोके महीयते”। वराहपुराणोक्तः।

धान्यपञ्चक = न० ६ त०। भावप्र० उक्ते धान्यविशेषाणां पञ्चके। धान्यशब्दे भावप्र० वाक्यं दृश्यम्। २ अतिसारे पाचनविशेषे यथा “धान्यपञ्चकविल्वाभ्रं नागरैः पाचितं जलम्। आमशूलविबन्धघ्नं पाचनं नित्यसेवितमिति” भावमिश्रः।

धान्यमातृ = त्रि० धान्यं माति मा–तृच्। धान्यमापके “मातुरुत् संख्यासंभद्रपूर्वायाः पा० सूत्रे पूर्वाया इति स्त्रीत्वनिर्देशात् स्त्रीत्वविशिष्टमातृशब्दस्यैव उत् नेतरस्येति सि० कौ०। तेन धान्यमातुरपत्यम् धन्यमात्र इत्येव

धान्यमाय = त्रि० धान्यं माति मा–अण् युक्। १ धान्यमानकारके २ तद्विक्रेतरि च तस्य धान्यमानेनैव विक्रेतृत्वात्।

धान्यराज = पु० धान्यानां राजा–टच् समा०। यवे राजनि०

धान्यवनि = पु० धान्यस्य वनिः राशिः। धान्यराशौ उज्ज्वल०

धान्यवर्द्धन = न० धान्यस्य ऋणपयुक्ततया वर्द्धनं यत्र। (वाडी) वृद्धिभेदे त्रिका०।

धान्यवीर = पु० धान्येषु वीर इव वलहेतुत्वात्। माषे (कलाइ)।

धान्यशीर्षक = न० ६ त०। धान्यस्त मञ्जर्य्याम् धान्याग्रादयीऽप्यत्र। जटाधरः।

धान्यशैल = पु० दानार्थकल्पिते धान्यमये पर्वते तद्विधानादि हेमा० दा० पद्मपु० उक्तं यथा। “तस्माद्विधानं वक्ष्यामि पर्वतानामनुत्तमम्। प्रथमो धान्यशैलः स्यात् द्वितीयो लवणाचलः। गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः। पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः। सप्तमो घृतशैलश्च रत्नशैलस्तथाऽष्टमः। राजतो नवमस्तद्वद्दशमः शर्कराचलः। वक्ष्ये विधान मेतेषां यथावदनुपूर्वशः। अयने विषुवे चैव व्यतीपाते दिनक्षये। शुक्लपक्षे तृतीयायामुपरागे शशिक्षये! विवाहोत्सवयज्ञे वा द्वादश्यामथ वा पुनः। शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे च विधानतः। धान्यशैलादयो देया यथाश्रद्धं विधानतः। तीर्थे वायतने वापि गोष्ठे वापि भवाङ्गणे। मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम्। प्रागुदक्प्रवणं तद्वत्प्राङ्मुखं वा विधानतः”। मण्डपलक्षणन्तु, परिभाषायां प्रतिपादितम्। अत्र चायं विधानक्रमः दानदिवसात् पूर्वेद्युः पूर्वाह्णे कृत स्नानादिक्रियो यजमानः अमुकपर्वतदानमहं श्वः करिष्ये इति कृतसंकल्पो वृद्धिश्राद्धमाभ्युदयकं विधाय पूर्ववत् पुण्याहवाचनं कुर्य्यात्, तदनन्तरम् अद्य अमुकस्पिन् देशे अमुकस्मिन् काले अमुकपर्वतदानेनाहं यक्ष्ये तत्र तदङ्गभूतहोमादिके अमुकशर्माणं अमुकवेदाध्यायिनम् ऋत्विजं त्वामहं दृणे इति। पुराणवेदविदाञ्चतुर्णामृत्विजां वरणं, तथा ओम् अद्य अमुकस्मिन् देशे अमुकस्मिन् काले अमुकपर्वतदानेनाहं यक्ष्ये तत्र तदङ्गभूतानि कर्माणि कर्तुं कारयितुं च अमुकगोत्रं अमुकशर्माणं अमुकवेदाध्यायिनं गुरुं त्वामहं वृणे इत्याचार्यं वृणुयात् घृतोऽस्मीति सर्वत्र प्रतिवचनं तत्र तावत् मधुपर्केणार्च्चयेदितिसर्वपर्वतदानसाधारणोऽयं विधिः। “गोमयेनोपलिप्तायां भूमावास्तीर्य्य वै कुशान्। तन्मध्ये पर्वतं कुर्यात् विष्कम्भपर्वतान्वितम्। धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः। भध्यमः पञ्चशतिकः कनिष्ठः स्यात् त्रिभिः शतैः”। द्रोणलक्षणमुक्तं परिभाषायाम्। प्रमाणस्थकरचरणस्य पुंसो द्वादशभिः प्रसृतिभिः कुडवो भवति अनेन कुडवेन चतुगुर्णोत्तरं प्रस्थाढकद्रोणा भवन्ति अतः चतुःषष्ट्या कुडवैर्द्रोणो भवतीति कल्पतरुणा व्याख्यातम्। “मेरुर्महाब्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयमंयुतः स्यात्। पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः। पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैदूर्यसरोजरागैः। श्रीखण्डखण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलः स्यात्। ब्रह्माऽथ विष्णुर्भगवान् पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात्। मूर्द्धव्यवस्था गतमत्सरेण कार्याः सुवर्णेन तथा द्विजौघाः। चत्वारि शृङ्गाणि च राजतानि नितम्बभागेष्वपि राजतः स्यात्। आर्द्रेक्षुवंशावृतकन्दरस्तु घृतोदकः प्रस्रवणश्च दिक्षु। शुक्लाम्बराण्यम्बुधरावली स्यात् पूर्वेण पीतानि च दक्षिणेन। वासांसि पश्चादथ कर्वुराणि रक्तानि चैबोत्तरतोघनाली। रौप्यान्महेन्द्रप्रमुखानथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण। नानाफलाली च समन्ततः स्यात् मनोरमं माल्यविलेपनं च। वितानकं चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितञ्च”। मेरुरित्यादि, महाव्रीहयो, राजान्नशालयः, वृक्षत्रयसंयुत, इति दक्षिणे मन्दारः, उत्तरे पारिजातो, मध्ये कल्पतरुरिति वृक्षत्रयं, तथा पूर्वतो हरिचन्दनं, पश्चिमे सन्तान इति तरुद्वयं च कुर्यात्, एते सर्वपर्वतेषु कर्त्तव्या इति शर्कराचले वक्ष्यमाणत्वात् सर्वेषाञ्च पञ्चशाखत्वमवधेयमिति। वज्रं, हीरकं। गारुत्मतं, मरकतं। सरोजरागः, पद्मरागः। मुक्ताफलादोनि च यथादिशं वक्ष्यमाणराजतशृङ्गेषु निवेशनीयानि। पुरारिः, महेश्वरः। ब्रह्मादिलक्षणमुक्तं ब्रह्माण्डदाने। मूर्द्धव्यवस्था उपरिदेशस्थिताः। गतमत्सरेण, वित्तशाठ्यरहितेन। द्विजौघाः, पक्षिसमूहाः। दिवीशा इति क्वचित्पाठः। तत्र आदित्यावसवोरुद्रा दिवीशाः। तेषु, वस्वादिलक्षणमुक्तं ब्रह्माण्डदाने, रुद्रलक्षणं विश्वचक्रे। इक्षुरेव वंशः, घृतमेवोदकं, वस्त्राण्येव मेघसमूहाः कर्वुराणि, चित्राणि। लोकपाललक्षणमुक्तं ब्रह्माण्डदाने। “इत्थंनिवेश्यामरशैलमग्र्यं मेरोश्च विष्कम्भगिरीन् क्रमेण। तुरीयभागेण चतुर्द्दिशन्तु संस्थापयेत् पुष्पविलेपनाट्यान्। पूर्वेण मन्दरमनेककलैश्च युक्तं युक्तं गणैः कनकभद्रकदम्बचिह्नम्। कामेन काञ्चनमयेन विराजमानमाकारयेत् कुसुमवस्त्रविलेपनाढ्यम्। क्षीरारुणोदसरसाऽथ वनेन चैव रौप्येण शक्तिघटितेन विराजमानम्। याम्येन गन्धमदनश्च निवेशनीयो गोधूमसञ्चयमयः कलधौतजम्बा। हैमेन यक्षपतिना घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात्। पश्चात्तिलाचलमनेकसुगन्धिपुष्पसौवर्ण पिप्पल-हिरण्मयहंसयुक्तम्। आकारयेद्रजतपुष्पवनेन तद्वद्वस्वन्वितं दधिसितोदसरस्तथाग्रे। संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सवस्त्रम्। पुष्पैश्च हेमवटपादपशेखरन्तमाकारयेत्कनकधेनुविराजमानम्। माक्षीकरद्रसरसा च वनेन तद्वद्रौप्येण भास्करवता च युतं विधाय”। इत्थन्निवेश्येत्यादि, एवं मेरुं निवेश्य तच्चतुर्थभागपरिमेतेन पृथग्द्रव्येण एकैकं विष्कम्भगिरिं कुर्यात् न तु चगुर्थभागेन चतुरोऽपीति, तथाच लवणाचले वक्ष्यति “चतुर्थांशेन विष्कम्भपर्वतान् कारयेत्, पृथगिति”। पूर्वेण मन्दरमिति, सन्निधानान्मन्दरोऽपि व्रीहिमय एव, गणैर्युक्तमिति, पुरुषाकृतिगणत्रयान्वितमित्यर्थः। अनेकफलालीयुक्तं यवैरिति क्वचित्पाठः। तस्य समूलत्वे यवानुष्ठानमपि कार्यम्। कनकघटितेन भद्रकदम्बाख्येन वृक्षेण लक्षितम्। कामलक्षणमाह विश्वकर्मा “चापवाणधरः कामो रतिप्रेयान् सुमध्यमः। आलीढो नन्दनी वाजी चापवान् विश्वमादकः” इति। क्षीरपूरितेन, अरुणोदसंज्ञितेन रूप्यघटितेन, सरसा वनेनापि रूप्यघटितेन विराजमानमिति सम्बन्धः। याम्येनेत्यादि, गन्धमदनो, गन्धमादनः, कलधौतजं येति, सुवर्णजम्बुवृक्षेण। यक्षपतिरूपमुक्तं श्रीप्रश्ने “ह्रस्वमापिङ्गाक्षञ्च गदिनं पीतविग्रहम्। पुष्पकस्थन्धनाध्यक्षं ध्यायेत् शिवसखं सदेति”। घृतमानसेनेति घृतपूरितेन मानसाभिधानेन राजतेन सरसा। पश्चादिति, पश्चिमदेशे दधिपूरितसितोदं नाम रजतनिर्मितं सर इति, विपुलशैलं, विपुलं नाम पर्वतं माक्षीकभद्रसरसेति, माक्षीकं, मधु तत्पूरितेन रजतमयेन भद्राभिधानेन सरसा युतमित्यर्थः। अत्र च कामदेवस्य प्रत्यङ्मुखत्वं हंसस्य प्राङ्मुखत्वं कनकधेनोर्दक्षिणामुखत्वं यक्षपतेरुदङ्मुखत्वं च शर्कराचलस्थितदिग्विशेषापेक्ष्यं दैवतेषु सर्वशैलेषु वेदितव्यं, चरमव्यवस्था कुतोऽपि शास्त्राद्व्यवस्थितिरिति। एते च कामदेवादयः कदम्बादीनां निजपर्वतवृक्षाणामधस्तात्कर्त्तव्याः। “होमैश्चतुर्भिरथ वेदपुराणविद्भिर्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः। पूर्वेण हस्तमितमत्र विधाय कुण्डं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च। रात्रौ च जागरमनुद्धतगीततूर्यैरावाहनञ्च कथयामि शिलोच्चयानाम्”। पूर्वेणेत्यादि मण्डपस्य पूर्वभागे हस्तमात्रं कुण्डं विधाय तस्य पूर्वोत्तरदिग्विमागे तुलापुरुषोक्तलक्षणां देवतावेदिं कृत्वा तत्र विनायकादिदेवताभ्यः पूर्बवत् पूजां विदध्यात् अनन्तरमृत्विजाऽग्निस्थापनान्ते ग्रहाणां लोकपालानामित्यादिवक्ष्यमाण देवताभ्यस्तत्तल्लिङ्गमन्त्रैस्तिलादिद्रव्येण होमं कुर्युः। “सहस्रे त्वथ होतव्ये कुर्यात् कुण्डं करात्मकम्” इत्युक्तेरत्र हस्तपरिमितकुण्डोपदेशादाहुतिसहस्रं होतव्यमिति दानविवेककारः। अत्र विनायकादयो द्वात्रिं शद्देवा, द्वादशादित्याः, एकादशरुद्राः, दश लोकपालाः, अष्टौ वसवः, ब्रह्म–विष्णु–शिव- सूर्याश्चत्वारः काम धनद–हंस–कामधेनव श्चत्वारः इत्येवमेकाशीतिसंख्यकेभ्यो देवेभ्यः ग्रहादीनां प्रतिदैवतं त्रयोदशाहुतिहोमे त्रिपञ्चाशदधिकमाहुतिसहस्रं सम्पद्यते। अष्टशतन्तु होतव्यमिति ब्रह्माण्डपुराणे वक्ष्यति। तिलादीनि चत्वार्येव हविर्द्रव्याणि घृताक्तानीत्यवगन्तव्यम्। समिधः, साधारण्यादुदुम्बरस्य। होमादनन्तरं पुष्पोपहारानादाय वक्ष्यमाणमन्त्रैर्यथाक्रमं पर्वतानावाहयेत्, तत्र मेरोरावाहनमन्त्रः। “त्वं सर्वदेवगणधामनिधे! विरुद्धमस्मद्गृहेऽप्यमरपर्वत! नाशयाशु। क्षेमं विधत्स्व कुरुशान्तिमनुत्तमां नः सम्पूजितः परमभक्तिमता मया हि। त्वमेव भगवानीशो ब्रह्मा विष्णुर्द्दिवाकरः। मूर्त्तामूर्त्तपरं वीजमतः पाहि सनातनः। यस्मात्त्वं लोकपालानां विश्वमूर्त्तेश्च मन्दिरम्। रुद्रादित्यवसूनाञ्च तस्माच्छान्तिं प्रयच्छ मे। यस्मादशून्यममरैर्नारीभिश्च समं तथा। तस्मान्मामुद्धराशेषदुःखसंसारसागरात्। एवमभ्यर्च्य तं मेरुं मन्दरञ्चाभिपूजयेत्। अथ मन्दरस्य। यस्माच्चैत्ररथेन त्वं भद्राश्ववर्षकेण च। शोभसे मन्दर! क्षिप्रमतः पुष्टिकरो भव। अथ गन्धमादनस्य। यस्माच्चूडामणिर्जम्बुद्वीपे त्वं गन्धमादन!। गन्धर्ववनशोभावानतः कीर्त्तिर्दृढास्तु मे। अथ विपुलपर्वतस्य। यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च। हिरण्मयाश्वत्थशिखस्तस्मात् पुष्टिर्ध्रुवास्तु मे। अथ सुपार्श्वस्य। उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च। सुपार्श्व! राजसे नित्यमतः श्रीरक्षयास्तु मे। एवमामन्त्र्य तान् सर्वान् प्रभाते विमले पुनः। स्नात्वाथ गुरवे दद्यात् मध्यमं पर्वतोत्तमम्। विष्कम्भपर्वतान् दद्यादृत्विग्भ्यः क्रमशो नृप। गावोदद्याच्चतुर्विंशादथ वा दश पार्थिव!। शक्तितः सप्त वाष्टौ वा पञ्च दद्यादशक्तिमान्। एकां वा गुरवे दद्यात् कपिलाञ्च पयस्विनीम्”। एवमामन्त्र्येति, दानदिनात् पूर्वदिवसे सर्वमिदमामन्त्रणादि विधाय गीतवादित्रादिभिर्निशामतिबाह्य ततः प्रभाते गुरुप्रभृतयो विहितस्नानादिक्रियाः पूर्णाहुतिपर्यन्तं सकलकर्म्मशेषं समाप्य कुण्डसमीपस्थापितकलसजलेन पूर्ववद्यजमानं स्नपयेयुः। यजमानोऽपि शुक्लाम्बरपरिधानः प्रदक्षिणीकृत्य वक्ष्यमाणमन्त्रेण यथाक्रमं पर्वतान् प्रतिपादयेत्। “पर्वतानामशेषाणामेष एव विधिः स्मृतः। त एव पूजने मन्त्रास्त एवोपस्कराः स्मृताः। ग्रहाणां लोकपालानां ब्रह्मादीनाञ्च सर्वशः। स्वमन्त्रेणैव सर्वेषु होमः ५- लेषु पठ्यते। उपवासो भवेन्नित्यमशक्तौ नक्तमिष्यते” सर्वत्राक्षारलवणमश्नीयादिति वक्ष्यमाणत्वादक्षारलवणं नक्तं वेदितव्यम्” “विधानं सर्वशैलानां क्रमशः शृणु पार्थिव! दानकालेषु ये मन्त्रा पर्वतेषु च यत्फलम्” अथ मन्त्रः “अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः। अन्नाद्भवन्ति भूतानि जगदन्नेन वर्त्तते। अन्नमेव यतोलक्ष्मीरन्नमेव जनार्दनः। धान्यपर्वतरूपेण पाहि तस्मान्नमोनमः”। एवमाचार्यादीन्, सम्पूज्य तदनुज्ञया अन्येभ्योऽपि दद्यात् ततोयजमानो वेद्यां पूर्ववद्देवताः सम्पूज्य नमस्कुर्यात्। गुरुस्तान्विसर्जयेत्, ततो “यथाशक्ति ब्राह्मणभोजनम् कृतोपवासस्य यजमानस्य दानदिने क्षारलवणवर्जनं सर्वपर्वतोपस्कराणाञ्च ब्राह्मणगृहप्रापणं शर्कराचलोक्तं सर्वत्र द्रष्टव्यम्। “अनेन विधिना यस्तु दद्याद्धान्यमयङ्गिरिम्। मन्वन्तरशतं सार्द्धं देवलोके महीयते। अप्सरोगणगन्धर्वैराकीर्णेन विराजितः। विमानेन दिवः पृष्ठमायाति सुरसेवितः। कर्मक्षयाद्राजराज्यं प्राप्नोतीह न संशयः”। इत्थमेव मत्स्यपु०। धान्यपर्वतादयोऽप्यत्र। ब्रह्माण्डभविष्यपुराणोक्तो विधिश्च ततःपरं तत्र दृश्यः।

धान्या = स्त्री धन्याक + पृषो०। (धनिया)ख्याते पदार्थे हेमच०।

धान्याक = न० धन्याक + स्वार्थे अण् धान्यमकति अक–कुत्सितायां गतौ अण् उप० स० वा। (धनिया) ख्याते पदार्थे “धान्याकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु। तिक्तं कदुष्णवीर्य्यञ्च दीपनं पाचनं स्मृतम्। ज्वरघ्नं रोचनं ग्राहि स्वादु पाके, त्रिदोषनुत्। तृष्णादाहवमिश्वासकासामार्शःकृमिप्रणुत्। आर्द्रन्तु तद्गुणं स्वादु विशेषात् पित्तनाशनम्” भावप्र०।

धान्याकृत् = त्रि० धान्यं कर्षणादिना करोति कृ–क्विप् वेदे पूर्वपददीर्घः। कर्षके “रूपन्तु वीजमिव धान्याकृतः” ऋ० १०। ९४। १३।

धान्याम्र = न० “पादांशशालिसंयुक्तमभ्र” बद्ध्वाथ कम्बले। त्रिरात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेत् करैः। कम्बलाद्गालितं सूक्ष्मं वालुकारहितञ्च यत्। तद्धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये” भावप्र० उक्ते अभ्रमारणोपयोगिवस्तुभेदे।

धान्याम्ल = न० धान्येष्वभिषुतमम्लम्। काञ्चिके (आमानि)। “धान्याम्लं शालिचूर्णोत्थं कोद्रवादिकृतं भवेत्। धान्याम्लं धान्ययोनित्वात् प्रीणनं लघु दीपनम्। अरुचौ वातरागेषुसर्वेष्वास्थापने हितम्” भावप्र०।

धान्यायन = पुंस्त्री धन्यस्य गोत्रापत्यम् कण्वा० फक्। धन्यगोत्रापत्ये।

धान्यारि = पु० ६ त०। धान्यशत्रौ अस्मिन्नर्थे शब्दकल्पद्रुमे त्रिलिङ्गतोक्तिः प्रामादिकी अरिशब्दस्य पुंलिङ्गत्वेन “परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः” पा० सूत्रेण तत्पुरुषे परवल्लिङ्गस्यैवानुशासनात्।

धान्यार्थिन् = त्रि० “अर्थाच्चासन्निहिते” पा० “तदन्ताच्च” वार्त्ति० उक्तेः पुष्करा० अस्त्यर्थे इनि। धान्यरूपार्थविशिष्टे स्त्रियां ङीप्। “कालत इहासन्निधिर्न देशतः” तथात्वे अस्तीत्यधिकरणान्वयाभावात् न इनिप्रसक्तिः।

धान्यास्थि = न० ६ त०। तुषे।

धान्योत्तम = पु० धान्येषूत्तमः। शालिधान्ये राजनि०।

धान्व = पु० धन्वदेशे भवः अण् वोपधत्वेऽपि वेदे नि० टिलोपः। धन्वदेशोद्भवे। “असितो धान्वो राजेत्याह” शत० व्रा० १६। ४। १४। लोके तु धान्वन इत्येव “उदकं पार्वतं वार्क्षमैरिणं धान्वनं तथा” कामन्दकी०।

धान्वन्तर्य्य = त्रि० धन्वन्तरिर्देवताऽस्य बा० ण्यत्। धन्वन्तरिदेवताके होमादौ “अग्नीषोमं वैश्वदेवं धान्वन्तर्य्यमनन्तरम्। प्रजानां पतये चैव पृथक् होमो विधीयते” भा० आनु० ९७ अ०।

धाम = पु० धा–बा० मन्। गणदवर्भदे “देवाः साध्यास्तथा विश्वे तथैव च महर्षयः। यामा धामाश्च मौद्गल्या गन्धर्वाप्सरोगणाः” भा० व० २६ अ०। “पितरो जगतः श्रेष्ठो देवानामपि देवताः। तेऽपि तत्र समाजग्मर्यामा धामाश्च सर्वशः” भा० श० ४५ अ०।

धामक = पु० धानक + पृषो०। माषपरिमाणे भावप्र० हेमधानकौ इत्यत्र हेमधामकौ इति पाठान्तरम् धानकशब्दे दृश्यम्।

धामकेशिन् = पु० धाम ज्योतीरूपः केशीऽस्त्यस्य इनि। ज्योतिर्मयकिरणयुक्ते सूर्य्ये “दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः” भा० व० ३ अ०।

धामच्छद् = पु० धामानि छादयति छादि–क्विप् ह्रस्वः। न्यूनानां पूरके अतिरिक्तानां समीकारके। “धामच्छदग्निरिन्द्रः” यजु० १८। ७६। “वाग् वा अनुष्टुव् वाग धामच्छद्वाचैवास्य तदाप्नोति” शत० व्रा० १०। १। ३। १०।

धामन् = म० धा–मनिन्। १ गेहे २ देहे ३ त्विषि ४ प्रभावे अमरः। ५ रश्मौ ६ स्थाने ७ जन्मनि मेदि०। “आ ये धामानि दिव्यानि तस्थुः” ऋ० १०। १३। १ “पुत्रं जनय सुश्नोणि धाम क्षत्रियतेजसाम्” भा० आ० १२३ अ०। ८ तेजसि “कार्शानवं धाम पतङ्गकान्तेः”। “पतत्यधो धाम विसारि सर्वतः” माघः। तत्र स्थाने “योगधारणयाऽग्नेय्या दग्ध्वा धामाविशत् स्वकम्” भाग० ११। ३। ६। ९ दामोपलक्षिते च “धाम्नो धाम्नो राजंस्ततो वरुण! नो मुञ्च” यजु० ६। २२। १० परमेश्वरे न०। “गुरुर्गुरुतमो धाम” विष्णुस०। “धाम ज्योतिः “नारायणः परं ज्योतिरिति” मन्त्रवर्णात्” भा० ११ धने च “धामसाचमभिषाचं स्वर्विदम्” ऋ० ३। ५१। २। “धाम धनं तदर्थिभिः सह योजयितारम” भा०।

धामनिका = स्त्री धामन्येव स्वार्थे क। धमन्याम् रत्नमाला। धमनी स्वार्थे अण् ङीप्। धामनी धमन्यां शब्दच०।

धामनिधि = पु० धामानि निधीयन्तेऽस्मिन् नि + धा–आधारे किप् ६ त०। सूर्य्ये जटाधरः।

धामभाज् = पु० धाम यज्ञस्थानं भजते भज–ण्वि ६ त०। यज्ञस्थानभागिनि देवे। “धाममाजो देवाः पाथोभाग् वनस्पतिः। धाम वै देवा यज्ञस्याभजन्त पाथः पितरः” सांख्यब्रा० १०। ६।

धामशस् = अव्य० धाम्नि धाम्नि इत्यर्थे शस्। स्थाने स्थाने इत्यर्थे “तेषामिष्टानि विहितानि घामशः” ऋ० १। १६४। १५

धामार्गव = पु० धाम्नोऽर्गं वाति–वा क। १ अपामार्गे अमरः २ पीतघोषायाम्, मेदि० ३ घोषके च रत्नमा०। “धामार्गवस्यापि मदनफलमज्जवदुषयोगो विशेषतस्तु परं गुल्मोदरकासश्वासश्लेष्मामयेषु” सुश्रुतः।

धाय = त्रि० धा–ण। धारके “ददैर्दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्” भट्टिः। “अनित्यत्वात् न कृद्योगे षष्ठी दुःखस्य धायैः पोषकैरित्यन्वयो वा” जयमङ्गलः।

धायस् = त्रि० वसेर्णित तोऽनुवृत्तौ “बहिहाधाञ्भ्यश्छन्दसि” उणा० असुन् युक् माषवः १ धारके “भूरसि भूमिरस्यदितिरसि विश्वधायाः विश्वस्य भुवनस्य धर्त्री” यजु० १३। १८। धेटभावे असुन्। २ पाने च “तुविष्टमाय धायसे” ऋ० १। १३०। २ “तुविष्टमाय प्रभूताय पानाय धायसे” भा०।

धायु = त्रि० धा–उण् युक्। धारके “यस्मै धायुरदधाः” ऋ० ३। ३०। ७।

धाय्य = पु० धा–कर्मणि ण्यत् युक्। १ पुरोहिते धीयते समिदनया करणे नि० ण्यत्। २ सामधेन्यामृचि स्त्रा ततो दिगा० भवादौ यत् यलोपाल्लोपौ। ३ धाय्य तत्र भवे त्रि० “यजेति धाय्यारूपं प्रगाथा यजामहाः” यजु०१९। २४।

धार = न० धाराया इदम् अण्। १ वर्षोद्भवजले दिव्यपानीयप्रभेदे। तद्गुणभेदादि भावप्र० उक्तं यथा “धाराभिः पतितं तोयं गृहीतं स्फीतवाससा। शिलायां वसुधायां वा धौतायां पतितञ्च यत्। सौवर्णे राजते ताम्रे स्फाटिके काचनिर्मिते। भाजने मृणमये वापि स्थापितं धारमुच्यते। धारं नीरं त्रिदोषघ्नमनिर्देश्यरसं लघु। सौम्यं रसायनं बल्यं तर्पणं ह्लादि जीवनम्। पाचनं मतिकृन्मूर्च्छा तन्द्रादाह श्रमक्लमान्। तृष्णां हरति तत् पथ्यं विशेषात् प्रावृषि स्मृतम्”। राजनि० तु अन्यथोक्तं यथा “यदा स्यादाश्विने मासि सूर्य्यः स्वातीविशाखयोः। तदाम्बुजलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः। अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः। अभिवृष्टमिदं तोयं सामुद्रमिति संज्ञितम्। तयोर्गुणाः। “गाङ्गं जलं स्वादु सुशीतलञ्च रुचिप्रदं पित्तकफापहञ्च। निर्दोषमिष्टं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतमाहुः। सामुद्रं सलिलं शीतं कफवातकरं गुरु। चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत्। पतितं भुवि तत्तोयं गाङं सामुद्रमेव वा। स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकम्”। धृ–णिच् अच्। २ ग्रावान्तरे ३ ऋणे च मेदि० भावे अप्। ४ जलधारावर्षणे हेमच०। ५ खड्गादेरन्तभागे ६ गम्भीरे पु० शब्दा०।

धारक = त्रि० धारयति धारि–ण्वुल्। १ अधमर्णे २ धारणकर्त्तरि च। ३ कलसे तस्य नामनिरुक्तिः देवीपु० “ग्रहान् धारयते यस्मात् मातराविविधास्तथा। दुरितानि च निघ्नन्ति तन ते धारकाः स्मृताः” ४ यौनौ स्त्री कापि वेदे अत इत्त्वं न। “निगल्गलीति धारका” यजु० २३। २२ “धरति लिङ्गं धारका योनि” वेददी०।

धारण = न० धारि–ल्युट्। १ धरणे २ विचारणे भावे युच्। ३ बुद्धिभेदे ४ राज्ञां न्यायपथस्थितो च स्त्री अमरः। ४ योगाङ्गभेदे स्त्री तल्लक्षणादिकं पात० सू० भा० उक्तं यथा “योगाङ्गानुष्ठानन्तु द्विधैव कारणत्वं लभते इति योगाङ्गान्यवधार्य्यन्ते” भा० “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि” पा० सू०। “यथाक्रमं एतेषाम् अनुष्ठानं स्वरूपञ्च वक्ष्यामः” भा० इति उद्देश्य तेषां मध्ये पञ्चानां लक्षणानि पात० सू० समाधिपादे दर्शयित्वा धारणादेर्लक्षणानि विभूतिपादे उक्तानि तत्र धारणायाः लक्षणं दर्शितं यथा “उक्तानि पञ्च बहिरङ्गानि साधनानि धारणा वक्तव्या” भा० आभासः

“देशबन्धश्चित्तस्य धारणा” पा० सू०। “नाभिचक्रे हृदयपुण्डरीके मूर्द्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्रे इत्येवमादिषु देशेषु वाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति बन्धोधारणा” भा०। “प्रथमद्वितीयपादाभ्यां समाधिस्तत्साधनं चोक्तम् तृतीयपादे तत्प्रवृत्त्यनुगुणाः श्रद्धोत्पादहेतवो विभूतयो वक्तव्याः ताश्च संयमसाध्याः संयमश्च धारणाध्यान समाधिसमुदाय इति विभूतिसाधनतया पञ्चभ्यश्च योगाङ्गेभ्यो बहिरङ्गेभ्योऽस्याङ्गत्रयस्यान्तरङ्गतया विशेषज्ञापनार्थमत्र त्रयस्योपन्यासः तत्रापि च धारणाध्यानसमाधीनां कार्यकारणभावेन नियतपौर्वापर्यत्वात्तदनुरोधेनोपन्यासक्रम इति प्रथमं धारणा लक्षणीयेत्याह उक्तानीति देशेति” आध्यात्मिकदेशमाह। नाभिचक्र इति। आदिशब्देन ताल्वादयो ग्राह्याः बन्धः सम्बन्धः। बाह्यदेशमाह बाह्यैति। बाह्ये च न स्वरूपेण चित्तस्य सम्बन्धः सम्भबतीत्युक्तं वृत्तिमात्रेण इति अत्रापि पुराणम् “प्राणायामेन पबनं प्रत्याहारेण चेन्द्रियम्। वशीकृत्य ततः कुर्याच्चित्तस्थानं शुभाश्रये” शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापति प्रभृतयः इदञ्च तत्रोक्तम्। “मूर्त्तं भगवतोरूपं सर्वोपाश्रयनिष्पृहम्। एषा वै धारणा ज्ञेया यच्चितं तत्र धार्यते। तच्च मूर्त्तं हरेरूपं तद्विचिन्त्य नराधिप!। तत् श्रूयतामनाधारा धारणा नोपपद्यते। प्रसन्नवदनं चारु पद्मपत्रनिभेक्षणम्। सुकपोलं सुविस्तीर्णललाट फलकोज्वलम्। समकर्णान्तविन्यस्तचारुकुण्डलभूषणम्। कम्बुग्रीवं सुविस्तीर्णं श्रीवत्साङ्कितवक्षसम्। वलीविभङ्गिना मग्रनाभिना चोदरेण च। प्रलम्बाष्टभूजं विष्णु मथ वापि चतुर्भुजम्। समस्थितोरुजङ्घञ्च स्वस्तिकाङ्घ्रि कराम्बुजम्। चिन्तयेद् ब्रह्मभूतं तं पीतनिर्मलवाससम्। किरीटहारकेयूरकटकादिविभूषितम्। शार्ङ्गचक्रगदाखड्गशङ्खाक्षवलयान्वितम्। चिन्तयेत्तन्मयो योगी समाधायात्ममानसम्। तावत् यावत् दृढीभूता तत्रैव नृप! धारणा। एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म सर्वतः। नापयाति यदा चित्तं सिद्धां मन्येत तां तदेति” विवृतिः। सां० सूत्रोक्ते पूरणरेचककुम्भकाख्यप्राणनिरोधरूपे चित्तवशीकरणे ५ प्राणायामभेदे च। यथा “ध्यानस्यापि साधनान्याह” भा० “धारणामनस्वकर्मणा तत्सिद्धिः” सां० सू० “वक्ष्यमाणेन धारणादित्रयेण ध्यानं भवतीत्यर्थः। धारणादित्रयं क्रमात् सूत्रत्रयेण लक्षयति। “निरोधश्छर्दिविधारणाभ्याम्” सू० “प्राणस्येति प्रसिद्ध्या लभ्यते। प्रच्छर्दनविधारणाभ्यां वा प्राणस्येति योगसूत्रे भाष्यकारेण प्राणायामस्य व्याख्यातत्वात्। छर्दिश्च वमनम्। विधारणं त्याग इति यावत्। तेन पूरणरेचन योर्लाभः। धारणञ्च कुम्भकम्। तथा च प्राणस्य पूरकरेचककुम्भकैर्यो निरोधो वशीकरणं सा धारणेत्यर्थः। आसनादेः स्वशब्देन पश्चाल्लक्षणीयतयासूत्रे परिशेषत एव धारणायालक्ष्यत्वलाभाद्धारणापदं नोपात्तम्। चित्तस्य धारणा तु समाधिवद्ध्यानशब्देनैव गृहीतेत्युक्तम्” प्र० भा०। “धारयेत्तत्र चात्मानं धारणां धारयन् बुधः” याज्ञ० प्राणायमविशेषरूपस्य धारणात्मकत्वमुक्तम् व्याख्यातञ्चैतत् “तत्र च हृद्यात्मानं मनीगोचरतया धारयेत्। तथा धारणाञ्च धारयेद्धारणास्वरूपञ्च जान्वग्रभ्रमणेन छोटिकादानकालोमात्रा ताभिः पञ्चदशमात्राभिरधमः प्राणायामस्त्रिंशद्भिर्मध्यमः। पञ्चचत्वारिशद्भिरुत्तम इत्येवम्प्राणायामत्रयात्मिकैका धारणा। तास्तिस्रो योगशब्दवाच्यास्तांश्च धारयेत्। यथोक्तमन्यत्र “संभ्राम्य छोटिकान्दद्यात्कराग्रञ्जानुमण्डले। मात्राभिः पञ्चदशभिः प्राणायामोऽधमः स्मृतः। मध्यमोद्विगुणः श्रेष्ठस्त्रिगुणोधारणा तथा। त्रिभिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव चेति”। धारणात्मकयोगाभ्यासे प्रयोजनमाह “अन्तर्द्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा। निजं शरीरमुत्सृज्य परकायप्रवेशनम्। अर्थानाञ्छन्दतः सृष्टिर्योगसिद्धेश्च लक्षणम्। सिद्धे योगे त्यजन्देहममृतत्वाय कल्पते” मिताक्षरा कृता। वह्निपु० धारणास्वरूपभेदादिकमन्यथोक्तं यथा अग्निरुवाच “धारणा मनसोध्येये संस्थितिध्यनिवद्द्विधा। मूर्त्तामूर्त्तहरिध्यानं मनोधारणतो हरौ। यद्बाह्यावस्थितं लक्ष्यं तस्मान्न चलते मनः। तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः। कालाबधि परिच्छिन्नं देहे संस्थापितं मनः। न प्रच्यवति यल्लक्ष्याद्धारणा साऽभिधीयते। धारणा द्वादशायामा ध्यानं द्वादश धारणाः। ध्यानं द्वादशकं यावत्समाधिरभिधीयते। धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते। कुलैकविंशमुत्तार्य्य स्वर्य्याति परमं पदम्। यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः। तत्तदङ्गं धिया व्याप्य धारयेत्तत्त्वधारणम्। आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका। साग्निः शिखा फडन्ता च विष्णोः कार्या द्विजोत्तम!। नाडीभिर्विकटं दिव्यं शूलाग्रं वेधयेच्छुभम्। पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डलमावृतम्। तिर्य्यक् चाधोर्द्धभागेभ्यः प्रयान्त्योऽतीव तेजसा। चिन्तयेत् साधकेन्द्रस्तं यावत् सर्वं महामुने!। भस्मीभूतं शरीरं स्वन्ततश्चैवोपसंहरेत्। शीतश्लेष्मादय स्तापा विनश्यन्ति द्विजाऽसमाः। शिरोग्रीवाकरे चैव कण्ठे चोरोमुखे स्मरेत्। ध्यायेदच्छिन्नचित्तात्मा पयो भूतेन चात्मना। स्फुरच्छोकरसंस्पर्शप्रभूते हिमगाम्बुभिः। धाराभिरखिलं विश्वमापूर्य्य भुवि चिन्तयेत्। ब्रह्मरन्ध्राच्च संक्षोमाद्यावदाधारमण्डलम्। सुषुम्णान्तर्गतो भूत्वा संपूर्णेन्दुकृतालयम्। संप्लाव्य हिमसंस्पर्शतोयेनामृतमूर्त्तिना। क्षुत्पिपासाक्रमप्रायसन्तापपरिपीडितः। धारयेद्वारुणीं मन्त्री तुष्ट्यर्थं चाप्यतन्त्रितः। वारुणी धारणा प्रोक्ता ऐशानीं घारणां शृणु। व्योम्नि ब्रह्ममये पद्मे प्राणापाने क्षयङ्गते। प्रसादं चिन्तयेद् विष्णोर्यावच्चिन्ता क्षयं गता। महातारञ्जपेत् सर्वं ततो व्यापक ईश्वरः। अर्द्धेन्दुं परमं शान्तं निराभासन्निरञ्जनम्। असत्यं सत्यमाभाति तावत्सर्वं चराचरम्। यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः। दृष्टे तस्मिन् परे तत्त्वे आब्रह्म सचराचरम्। प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनम्। मातृमोदनकृत् सर्वं जपहोमार्चनादिकम्। विष्णुमन्त्रेण वा कुर्य्यादमृतां धारणां वदेत्। संपूर्णेन्दुनिभं ध्यायेत् कमलं तत्त्रिमूर्त्तिकम्। शिरःस्थं चिन्तयेद् यत्राच्छशाङ्कायुतवर्चसम्। सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितम्। तथा हृत्कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत्। साधको विगतक्लेशो जायते घारणादिभिः”। ३७४ अ०। काशीख० ४२ अ० विशेषोऽत्रोक्तो यथा “प्राणायामद्विषट्केन प्रत्याहार उदाहृतः। प्रत्याहारैर्द्वादशभिर्धारणा परिकीर्त्तिता। भवेदीश्वरसङ्गत्यै ध्यानं द्वादशधारणम्” “प्रत्याहारेण सम्पन्नो धारणामथ चाभ्यसेत्। हृदये पञ्चभूतानां धारणं यत् पृथक् पृथक्। मनसो निश्चलत्वेन धारणा साऽभिधीयते। हरितालनिभां भूमिं सालङ्कारां समेधसम्। चतुष्कोणां हृदि ध्यायेदेषा स्यात् क्षितिधारणा। कण्ठेऽम्बु तत्त्वमर्द्धेन्दुनिभं विष्णुसमन्वितम्। वकारवीजं कुन्दाभं ध्यायेन्नम्बु जयेदिति। तालुस्थमिन्द्रगोपाभं त्रिकोणं रेफसंयुतम्। रुद्रेणाधिष्ठितं तेजोध्यात्वा वह्निं जयेदिति। वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमञ्जनसन्निभम्। यं वीजमीशदैवत्यं ध्यायेद्वायुं जयेदिति। आकाशञ्च मरीचिधारसदृशं यद्व्रह्मरन्ध्रस्थितं यन्नाथेन सदाशिवेन सहितं शान्तं हकाराक्षरम्। प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारयेदेषा मोक्षकपाटनपटुः प्रोक्ता नभोधारणा। स्तम्भनी प्लावनी चैव शोधनी भामनी तथा। शमनी च भवन्त्येता भूतानां पञ्च धारणाः” वृ० सं० उक्ते जलसूचके वायुविशेषधारणाद्यात्मके ६ योगभेदे च “ज्यैष्ठसितेऽष्टम्याद्याश्चत्वारो वायुधारणादिवसाः। मृदुशुभपवनाः शस्ताः स्निग्धवनस्थगितगगनाश्च। तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः। श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणास्ताः स्युः। यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय। तस्करभयदाः प्रोक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः। सविद्युतः सपृषतः सपांशूत्करमारुताः। सार्कचन्द्रपरिच्छन्ना धारणाः। शुभधारणाः। यदा तु विद्युतः श्रेष्ठाः शुभाशाप्रत्युपस्थिताः। तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः। सपांशुवर्षाः सापाश्च शुभा बालक्रिया अपि। पक्षिणां सुखरा वाचः क्रीडा पांशुजलादिषु। रविचन्द्रपरिवेषाः स्निग्धा नात्यन्तदूषिताः। वृष्टिस्तदापि विज्ञेया सर्वसस्याभिवृद्धये। मेघाः स्निग्धा संहताश्च प्रदक्षिणगतिक्रियाः। तदास्यान्महती वृष्टिः सर्वसस्यार्थसाधिका” २२ अ०

धारणी = स्त्री धारि–ल्युट्। १ स्थैर्य्ये “शारीरिकधारणी शिथिलान्” दशकु०। २ नाडिकायां ३ बुद्धानां मन्त्रभेदे मेदि० ४ श्रेण्याम् हेमच०।

धारणीय = त्रि० धारि–कर्मणि अनीयर्। १ धार्य्ये २ धरणीकन्दे पु० राजनि०।

धारणीययन्त्र = न० धार्य्यते धारि–कर्मणि अनीयर् कर्म०। धार्य्ये देवताभेदानां यन्त्रभेदे तच्च पूजायन्त्राद्विलक्षणं सारदायां २४ पटले दृश्यम्। तल्लेखनद्रव्यादि तत्रोक्तं यथा “काश्मीररोचनालाक्षामृगेभमदचन्दनैः। विलिखेद्धेमलेखन्या यन्त्राण्येतानि देशिकः”। निषिद्धयन्त्रमुक्तम् “भूमिस्पृष्टं शवस्पृष्टं दग्धं निर्माल्यसङ्गतम्। विशीर्णं लङ्घितं मन्त्री यन्त्रं जातु न धारयेत्” मन्त्रमहीदधौ १९ तरङ्गे। तल्लेखनप्रकारद्रव्यादिकमुक्तं तत्रैव दृश्यम्। विस्तरभयात् न लिखितं कर्मभेदे सामान्यतोलेखनद्रव्यादिकं २५ तरङ्गे तत्रोक्तं यथा “चन्दनं राचना रात्रिर्गृहधूमश्चिताभवः। अङ्गारोऽष्टविषाणीति शान्त्यादौ यन्त्रलेखने। पूर्वोक्तलेखनद्रव्यं गृह्णीयात्तदपि ध्रुवम्। पिप्पलं मरिचं शुण्ठी श्येनविष्ठाथ चित्रकः। गृह धूमोन्मत्तरसौ लवणञ्च विषाष्टकम्। शान्तौ वश्ये लिखेद्भूर्जे स्तम्भने द्वीपिचर्मणि। खरचर्मणि विद्वेषे उच्चाटे ध्वजवाससि। नरास्थनि लिखेद्यन्त्रं मारण मन्त्रवित्तमः। ये त्वाधाराः स्मृता यन्त्रतरङ्गे तेऽपि सम्मताः”।

धारय = त्रि० धारि–ण। धारके “धारयैः कुसुमोर्म्मीणाम्” भट्टिः।

धारयितृ = त्रि० धारि–तृच्। १ धारणकर्त्तरि “त्वं हि धारयिता श्रेष्ठ! कुरूणां कुरुसत्तम!” भा० उ० ९४ अ०। स्त्रियां ङीप्। सा च २ पृथिव्यां स्त्री शब्दरत्ना०।

धारयिष्णु = त्रि० धृ–णिच् वेदे नि० इष्णुच्। धारणशीले “दृषदः धारयिष्णपः” सि० कौ० लोकेऽपि क्वचित् इष्णुच्। “शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता। उत्साहो वाग्मिता दार्द्यमापत्क्लेशसहिष्णुता। प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता। दया शीलं दमश्चेति गुणाः सम्पत्तिहेतवः” काम०।

धारयु = त्रि० धारमभिषवमिच्छति क्यच् वेदे० नि० न दीर्घः “क्यश्छन्दसि” पा० उ। १ अभिषवणकामे “त्वं सोमासि धारयुर्मन्द्रः” ऋ० ९। ६७। १ “धारयुरभिषवणकामः” भा० धारयुधांरावान् मत्वर्थीयोयुरिति भाष्ये पक्षान्वरे व्याख्यानात् २ धारावति च।

धारवाक = त्रि० धार्य्यते धारि–कर्मणि अच् धारो धार्य्यो वाकः स्तोत्रं येन। स्तोत्रधारके ऋत्विगादौ “धारवाकेष्वृजुगाथ” ऋ० ५। ४४। ५।

धारा = स्त्री धार्य्यन्ते अश्वा अत्र अनया वा धारि–अङ्। अश्वानां १ गतिभेदे अमरः। अश्वशब्दे दृश्यम् अन्यत्र च “अश्वानान्तु गतिर्धारा बिभिन्ना सा च पञ्चधा। आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम्। धौरितं वल्गितं धाराप्लुतमुत्तेजितं क्रमात्। उत्तारितं चेति पञ्च शिक्षयेत् तुरगं गतीः। उत्तेरितोऽतिवेगान्धो न शृणोति न पश्यति। धौरितं गतिमात्रे यद्योजितं बल्गितं पुरः। अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम्। उत्तेजितं मध्यवेगं योजनं श्लथवल्गया। पूर्वापरोन्नमनतः क्रमादुत्तारणं प्लुतम्” अश्वशास्त्रे तु संज्ञान्तरेणोक्ताः। गतिः पुला चतुष्का च तद्वन्मध्य जवा परा। पूर्णवेगा तथा चान्या पञ्च धारा प्रकीर्त्तिताः। एकैका त्रिविधा धारा हयशिक्षाविधौ मता। लम्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमादिति” “धाराः प्रसाधयितुमव्यतिकीर्णरूपाः” माघः। ३ सैन्याग्रिमस्कन्धे ४ अविच्छिन्नसन्तत्या द्रवद्रव्यस्य प्रपाते ५ खडगादेर्निशितमुखे ६ पाषाणभेदे ७ ऋणे च पु० मेदि०। ८ यशसि ९ अतिवृष्टौ १० समूहे च शब्दरत्ना० ११ प्रशान्ते १२ उत्कर्षे १३ रथचक्रे स्त्री हेम०। १४ दाक्षिणात्यपुरभेदे स्त्री “विश्वा उत त्वया वयं धारा उदन्या इव” ऋ० २। ७। ३ “घृतस्य धारा उपयन्ति विस्रुतः” ऋ० १। १२५। ४ “धारां शितां रामपरश्वधस्य” रघुः। “ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति” शकु०। “धारा जवेन पतिता जलदोदरेभ्यः” मृच्छ०। “तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ” रामा० ६। १९ अ०। “अथ माहेश्वरीं घारां समासाद्य धराधिपः” भा० व० ८५ अ०। “वसोः पवित्रमसि शतधारम्” यजु० १। ३ धाराधरशब्दे दृश्यम्। १५ जनप्रवादे १६ वाचि निरु० वृषा० आद्युदात्तता १७ वर्षणे पु० धारयुः।

धाराकदम्ब = पु० धाराकालोपलक्षितः कदम्बः। प्रावृट्काले पुष्पवति कदम्बभेदे हेमच०।

धारागह = न० जलधारायुक्तं गृहम्। (फोआरा) जलस्रावयन्त्रयुक्ते गृहे “धारागृहेष्वातपमृद्धिमन्तः” रघुः। “धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ” सुश्रुतः।

धाराङ्कुर = पु० धाराया अङ्कुर इव। १ शीकरे २ करकाख्ये घनोपले ३ नाशीरे च मेदि०।

धाराङ्ग = पु० धारा अङ्गमिवास्य। १ खड्गे २ तीर्थभेदे च हेमच०

धाराट = पुंस्त्री धारायै अटति धारया वा अटति अट–अच् १ चातकखगे २ अश्वे च स्त्रियां जातित्वात् ङीष्। ३ मेघे पु० च शब्दरत्ना०।

धाराधर = पु० धारां धरति धृ–अच्। १ मेघे २ खड्गे च मेदि०। “धाराधर! धरा वारिधारया परिपूर्य्यते। खगचञ्चुपुटद्रोणीपूरणे तव कः श्रमः” चातकाष्टकम् “प्रत्यगृह्णात् प्रहृष्टात्मा धाराधरमिवाचलः” भा० वि० ६४ अ०

धारापात = पु० ६ त०। जलधारायाः पतने। “धारापातैस्त्वमिव कमलान्यभ्यवर्षन् मुखानि” मेघ०।

धारापूप = न० धाराख्यम् अपूपम्। अपूपभेदे “घृतमिश्रा कनिक्या या दुग्धेनालोडिता तु सा। धाराख्यापूपक साज्ये पक्वं खण्डेन योजयेत्। धारापूपं सुमधुरं वृष्यं पित्तहरं परम्। सुस्निग्धं रोचनं हृद्यमत्यर्थं वातनाशनम्” भावप्र०।

धाराफल = पु० धारा असिधारेव फलेऽस्य। मदनवृक्षे राजनि०

धारायन्त्र = न० धाराया जलधारायाः प्रस्रवार्थं यन्त्रम्। (फोआरा) इति ख्याते जलप्रस्रवयन्त्रभेदे “धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने” अमरुशतकम्।

धाराल = त्रि० धारा अस्त्यस्य सिध्मा० लच्। धारायुक्ते खड्गादौ

धारावनि = स्त्री धाराया अवनिरिव। वायौ त्रिका०। परवल्लिङ्गत्वात् स्त्रीत्वमेव युक्तं पुंस्त्वोक्तिः प्रामादिकी।

धारावर = पु० धारया जलधारया आवृणोत्याकाशम् वृअच् ३ त०। मेघे “धारावरा मरुतो धृष्ण्वोजसः” ऋ० २। ३४। १।

धारावर्ष = पु० धारया सन्तत्या अविच्छेदेन वर्षः। अविच्छेदेन वर्षणे। “अधारावर्षदुर्दिनम्” रघुः।

धारावाहिन् = त्रि० धारया सन्तत्या वहति वह–णिनि। १ सन्तत्या पातुके क्रमेणाविच्छेदेन २ जायमाने च। स्वार्थे क। धारावाहिकोऽप्यत्रार्थे “किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न ज्ञानभेदः” वेदान्तप०।

धाराविष = पु० धारायां विषमस्य धारैव विषमस्य प्राणहारकत्वात् वा। खड्गे त्रिका०।

धारासम्पात = पु० धाराणां सम्यक् पातः। महावृष्टौ अविच्छिन्नवर्षणे अमरः।

धारास्नुही = स्त्री धारायुता स्नुही शाकत०। त्रिधारायां स्नुह्याम् (तेका~टा सिजु)। राजनि०।

धारिन् = पु० धृ–णिनि। १ पीलुवृक्षे। २ धारणकर्त्तरि। जटाधरः। ३ ग्रन्थार्थधारणावुक्ते च त्रि० “अज्ञेभ्यो ग्रन्थिनः श्रेष्ठाग्रन्थिभ्यो धारिणो वराः” मनुः। स्त्रियां ङीप्। सा च ४ धरण्यां शब्दर०। ५ शाल्मलीवृक्षे स्त्री शब्दच०। धार ऋणमस्त्यस्य शोध्यत्वेन इनि। ६ अधमर्णे त्रि स्त्रियां ङीप्।

धारु = त्रि० धेट–रु। पानशीले जटाधरः।

धारेश्वरी = स्त्री धाराख्यपुर्य्या ईश्वरी। धारापुरीस्थे देवीभेदे

धारोष्ण = न० धारायां दोहनेन निर्गमकाले उष्णम्। “दोहनेनोष्णधारया सद्यः पतिते दुग्धे। “धारोष्णन्त्वमृतं पयो भ्रमहरं निद्राकरं कान्तिदं वृष्यं वृंहणमग्निवर्द्धनमतिस्वादु त्रिदोषापहमिति” राजनि०।

धार्त्तराज्ञ = पुंस्त्री धृतराज्ञोऽपत्यम् अण् उपधालोपः। धृतराष्ट्रापत्ये स्त्रियां ङीप्।

धार्त्तराष्ट्र = पुंस्त्री धृतराष्ट्रस्यापत्यम् अण्। १ दुर्योघनादौ २ दुःशलायां स्त्री ङीप्। ३ धृतराष्ट्रसर्पवंशोद्भवे नागभेदे पु० स्त्री। धृतराष्ट्रे सुराजदेशे भवः अण्। ४ कृष्णवर्णचञ्चचरण- युते श्वेतवर्णे हंसभेदे पु० स्त्री (ग~डोहा~स) अमरः सर्वतः स्त्रियां ङीप्। “सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः। निपतन्ति धार्त्तराष्ट्राः कालवशान्मेदिनीपृष्ठे” वेण्याम्। अत्र “शरत्समयवर्णनाशंसया हंसा धार्त्तराष्ट्रा इति व्यपदिश्यन्ते” वेणी० दुर्योधनादयस्तत्र व्यङ्ग्यार्थाः। “धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय” इति जनमेजयप्रश्ने “दुर्योघनोयुयुत्सुश्चेत्याद्युपक्रमे” “वैश्यापुत्रो युयुत्सुश्च धार्त्तराष्ट्रः शताधिकः। एतदेकशतं राजन्! कन्या चैका प्रकीर्त्तिता” भा० आ० ६७ अ०। उक्तेस्तेषां तत्सुतत्वम्।

धार्त्तराष्ट्रपदी = स्त्री धार्त्तराष्ट्रस्य हंसभेदस्य पाद इव मूलमस्याः अन्तलोपे कुम्भप० ङीषि पद्भावः। हंसपदीलतायां राजनि०।

धार्त्रेय = पुंस्त्री घृताया अपत्यम् “द्व्यचः” पा० ढक्। धृताया अपत्ये स्त्रियां ङीप्। ततः यौधेयादि० स्वार्थे अञ्। तत्रार्थे

धार्म्म = त्रि० धर्मस्येदम् अण्। १ धर्मसम्बन्धिनि स्त्रियां ङीप् “धार्मी तनुरकिल्विषी” भा० आ० ६० अ०। प्राचुर्य्ये अण्। २ धर्ममये च। “यश्चादाय यस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषः” शत० ब्रा० १४। ५। ५। ११।

धार्म्मपत = त्रि० धर्मपतेरपत्यादि अश्वपत्या० अण्। १ धर्मपतिसम्बन्धिनि स्त्रियां ङीप्।

धार्म्मपत्तन = त्रि० तत्र भवः अण्। १ धर्मपत्तनभवे २ कोलके गन्धद्रव्ये न० हेमच०।

धार्मिक = त्रि० धर्मं वेद तच्छास्त्रमधीते वा धर्मं चरति आसेवते वा ठक्। १ धर्मशीले २ धर्मासेवके। “चरणमिहासेवा तेन दैववशात् धर्मे प्रवृत्तोऽपि दुर्वृत्तो न धार्मिक इति” सि० कौ०। “विभागशीलो यो नित्यं क्षमायुक्तोदया परः। देवतातिथिभक्तश्च गृहस्थः स तु धार्मिकः” इति दक्षोक्तलक्षणयुक्तस्यैव धर्मिकपदवाच्यत्वनिर्णयः। “आचार्य्यपुत्रः १ शुश्रूषु २ र्ज्ञानदी ३ धार्मिकः ४ शुचिः ५ आप्तः ६ शक्तो ७ऽर्थदः ८ साधुः स्वो १०ऽध्याप्या दश धर्मतः” मनुः। ततः पुरोहिता० भावे यक्। धार्मिक्य धर्मानुशीलने न०।

धार्मिण = न० धर्मिणां ममूहः भिक्षादिगणे धर्मन् धर्मिन् इति पाठान्तरस्य सत्त्वात् अण् “इनण्यनपत्ये” पा० इनः प्रकृतिभावे न नलोपः। धर्मवतां समूहे।

धार्मिणेय = पुंस्त्री धर्मिण्याः अपत्यम् शुभ्रा० ढक्। धर्मिण्याः अपत्ये स्त्रियां ङीप्।

धार्म्यायण = पुंस्त्री धर्म्यस्य गोत्रापत्यम् अश्वा० फञ्। धर्म्यस्य गोत्रापत्ये स्त्रियां गोत्रत्वेन जातित्वात् ङीष्।

धार्य्य = त्रि० धारि–ण्यत्। धारणीये “धार्य्यः कथङ्कारमहं भवत्या वियद्विहारी वसुधैकगत्या” नैष०। “कार्य्यञ्च तस्य दशधा हार्य्यं धार्य्यं प्रकाश्यञ्च” सा० का० “एवं धार्य्यम् अप्यन्तःकरणादित्रिकस्य प्राणादिलक्षणया वृत्त्या शरीरं तच्च पार्थिवादि पाञ्चभौतिकं शब्दादीनां पञ्चानां समूहः पृथिवीति ते च पञ्च दिव्यादिव्यतया दशेति धार्य्यमपि दशधा” सा० कौ०।

धार्ष्ट्य = न० धृष्टस्य भावः कर्म वा ष्यञ्। प्रागल्भ्ये निर्लज्जत्वे। “धार्ष्ट्यमेतत्तयोर्विप्र! मत्तो यत्तु करग्रहः। अहो धार्ष्ट्यमहो धार्ष्ट्यं तयोः क्षत्रियवीरयोः” हरिवं० ३०६ अ०

धार्ष्णक = न० धृष्णोर्नृपस्य पुत्रभेदे “धृष्णोस्तु धार्ष्णकं क्षत्रं रणे धृष्टं बभूव ह” हरिवं० १५ अ०।

धाव = जवे शुद्धौ अक० शुद्धीकरणे संमार्जने च सक० भ्वा० उभ० सेट्। स्वरितेत् पा०। धावति धावते अधावीत् अधाविष्ट दधाव–वे। सार्वधातुके परतः वेगगतौ सर्त्त्यादेशस्तु पर०। अनेनैवोपपत्तौ तदादेशविधानं वेगगतौ सरतेः सार्वधातुके प्रयोगवारणार्थं शब्दस्तोमे आत्मनेपदत्वोक्तिः मुद्रादोषात्। “गच्छति पुरःशरीरं घावति पश्चादसंस्थितं चेतः” शकु०। “रेतः सिक्तमधावत्” ऐ० ब्रा०। “अधावीच्चारिसंमुखम्” भट्टिः। “यथा पराञ्चं धावन्तमनुलिप्सेत” शत० ब्रा० ३। २। १। ३६। “दिवस्पृष्टे धावमानं सुपर्णम्” अथ० १३। २। ३७ “सततं धावमानश्च चिन्तमानो विशाम्पते!” भा० व० १८८ अ०। जवे अस्य न उदित्त्वम् तेन धावित्वा धावित इत्यादि “दिशश्चतस्रः सहसा प्रधाविताः” भा० श० २० अ०। “वनान्तरे तोयमिति प्रधाविताः”। ऋतुसं० अन्यत्रार्थे उदित् धावित्वा धौत्वा धौत इत्यादि। “बाह्योद्यानस्थित् हरशिरश्चन्द्रिकाधौतहर्म्या” “धौतापाङ्गं हरशशिरुचा” मेघ०। “तुषारस्रुतिधौतरक्तम्” कुमा०। प्राद्युपसर्गपूर्वकस्तु तत्तदुपसर्गद्योतार्थयुक्ते धावने।

धावक = पु० धावति वस्त्रादिकं मार्ष्टि धाव–ण्वुल्। १ रजके २ वस्त्रादिप्रक्षालके ३ शीघ्रगामिनि (धाउडिया) च त्रि० ४ नागानन्दरत्नावलीकारके कविभेदे पु० “श्रीहर्षादेर्धावकादीनामिव धनम्” काव्यप्र०। “प्रथितयशसां धावकसौमिल्ल कविपुत्रादीनां प्रबन्धानतिक्रम्येति” मालविकाग्निमित्रम्।

धावन = न० धाव–भावे ल्युट्। १ शीघ्रगमने २ प्रक्षालने च। “सुरसादिहिंतस्तत्र धावने पूरणे तथा” सुश्रुतः। “उच्छिष्टं नेव भुञ्जीयां न कुर्य्यात् पादधावनम्” भा० व० ६५ अ०।

धावनि = स्त्री धाव–अनि। १ पृश्निपर्ण्याम् अमरः। २ कण्टकार्य्यां राजनि०। स्वार्थे क धावनिका तत्रार्थे रत्नमा० वा ङीप्। धावनी तयोरर्थयोः मेदि० ३ धातक्यां राजनि०

धासस् = पु० धा–“वहिहाधाञ्भ्यश्छन्दसि” उणा० असुन् “पचिवचिभ्यांसुट् च” उणा० युटोऽनुवृत्तिः उज्जलदत्तः साधवस्तु “वसेर्णित्” उणा० इत्यतो णितोऽनुवृत्तिमाह न युट इति भेदः तेन तन्मते धाया इत्येव। घायस्शब्दे दृश्यम्। पर्वते उज्जलदत्तः।

धासि = पु० धारयति प्राणान् धा–वा असि। अन्ने निरु० सद्यश्चिद्या दुदुहे भूरि धासेः” ऋ० ३। ५७। १ “धासेरन्नस्यः” भा० “महीं मित्रस्य वरुणस्य धासिम्” १०। ३०। १।

***