—ध—

धकारः = तवर्गीयः पञ्चमः व्यञ्जनवर्णभेदः। तस्योच्चारणस्थानं दन्तमूलं “दन्त्या लतुलसाः स्मृताः” इति तवर्गस्य दन्त्यत्वोक्तिः दन्तमूलपरत्वेन, अन्यथा भग्नदन्तस्य तवर्गोच्चारणानुपपत्तेः। व्यञ्जनवर्णत्वादर्द्धमात्रत्वम् तस्य। तस्योच्चारणे आभ्यन्तरप्रयत्नः स्पृष्टता जिह्वाग्रेण दन्तमूलस्य सम्यक्स्पर्शेन तस्थोच्चारणात् तथात्वम्। वाह्यप्रयत्नाश्च संवारनादवोषा महाप्राणश्च, सि० कौ० मूलं दृश्यम्। अस्य वाचकशब्दा वर्णाभिधानतन्त्रोक्ता यथा “धो धनार्थो रुचिः स्थाणुः सात्वतो योगिनीप्रियः। मीनेशः शङ्खिनी तोयं नागेशो विश्वपावनी। धिषणा धारणा चिन्ता नेत्रयुग्मं प्रियो मतिः। पीतवासास्त्रिवर्णा च धात्री धर्मः प्लवङ्गमः। सन्दर्शो मोहनो लज्जा वज्रतुण्डः सुकन्धरा। वामपादाङ्गुलीमूलं ज्येष्ठा सुर पुरं भवः। स्पर्शात्मा दीर्घजङ्घा च धनेशो धनसञ्चयः” अस्य मातृकान्यासे वामपादाङ्गुलिमूले न्यास्यता। अस्याधिष्ठातृदेवताया ध्येयरूपम्। “षड्भुजां मेषवर्णाञ्च रक्त्राम्बरधरां पराम्। वरदां शोभनां रम्यां चतुर्वर्गप्रदायिनीम्। एवं ध्यात्वा धकारन्तु तन्मन्त्रं दशधा जपेत्” अस्य स्वरूपञ्च। “धकारं परमेशानि! कुण्डली मोक्षरूपिणी। आत्मादितत्त्वसंयुक्तं पञ्चदेवमयं सदा। पञ्चप्राणमयं देवि! विसिनीसहितं सदा। त्रिविन्दुसहितं वर्णं धकारं यदि भावयेत्। पीतविद्युल्लताकारं चतुर्वर्गप्रदायकम्” कामधेनु०। अस्य काव्यादौ प्रथमन्यासफलं वृ० र० टीकायामुक्तं यथा “दोधः सौख्यं मृदं नः”।

= पु० दधाति धा–ड। १ धर्मे २ कुवेरे ३ ब्रह्मणि च। ४ धने न० मेदि०। ५ धकारवर्णे “धोधनार्थो रुचिः स्थाणुः” वर्णाभिधानम्।

धक्क = नाशने चुरा० उभ० सक० सेट्। धक्कयति–ते अदधक्कत्–त।

धट = पु० धन–शब्दे “पुंसि घः” पा० नस्य टः। १ तुलायाम् उन्मानार्थं मानदण्डभेदे अमरः। तदुपलक्षिते २ तुलाराशौ “सिंहो वृषश्च मेषश्च कन्या धन्वी धटो घटः। चर्कादीनां त्रिकोणानि मूलानि राशयः क्रमात्” ज्यो० त०। ३ परीक्षाभेदे तन्निरुक्तिः पितामहेन दर्शिता यथा धकाराद्धर्ममुद्दिष्टं टकारात् कुटिलं नरम्। धृतं धारयते यस्मात् धटस्तेनाभिधीयते”। तुलाशब्दे ३३३१ पृष्ठादौ दृश्यम्। “धटोऽग्निरुदकञ्चैव विषं कोशस्तु पञ्चमः। षष्ठन्तु तण्डुलाः प्रोक्ताः सप्तमं तप्तमाषकम्। अष्टमं फालमित्युक्तं नवमं धर्मजं तथा। दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयम्भुवेति” वृहस्पतिः। परीक्षायां नक्षत्रादिपरीक्षाशब्दे दृश्यम्। धटपरीक्षायां कालविशेषनिषेधौ “तुला स्यात् सर्वकालिकी” इति “बाते वाति विवर्जयेत्” च पितामहेनोक्तौ।

धटक = पु० “तुल्या यवाभ्यां कथितात्र गुञ्जा वल्लस्त्रिगुञ्जो धरणं च तेऽष्टौ। गद्यानकस्तद्द्वयमिन्द्रतुल्यैर्वल्लैस्तथैवो धटकः प्रदिष्टः” लीला० उक्ते द्वाचत्वारिंशद्गुञ्जापरिमाणे

धटकर्कट = पु० ६ त०। तुलायाः शिक्याधारे ईषद्वक्रे कर्कटशृङ्गनिभे आयसकीलकभेदे दिव्यत० रघु०। “कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा” वृहस्पतिः।

धटिका = स्त्री “द्व्यक्षेन्दुसंख्यैर्धटकैस्तु सेरस्तैः पञ्चभिः स्याद्धटिका च ताभिः” लीला० उक्ते पञ्चसेरात्मके (धडा पशरी) इति प्रसिद्धे परिमाणे। धटी स्वार्थे क। १ चीरवस्त्रे २ कौपीने (धडा)।

धटी = स्त्री धन० रवे अच् नस्य टः गौरा० ङीष्। १ कौपीने २ चीरबस्त्रे मेदि० गर्भाधानोत्तरं स्त्रियै देये ३ वस्त्रभेदे तद्धारणे नक्षत्रादि यथा “मूलश्रवणहस्तेषु पुष्यादित्योत्तराषु च। मृगपौष्णे धटी देया सौम्यबारे शुभे तिथौ” ज्यो० सा०।

धटिन् = त्रि० धटोऽस्त्यस्य इनि। १ तुलाधारके २ तुलाराशौ ३ शिवे च पु० “घण्ठोऽघण्टो धटी धण्टी चरुचेली मिलीमिली” भा० शा० २८६ अ०। नीलकण्ठेन तु घटीति तत्र पठित्वा व्याख्यातम् “घटयति कर्मफलैर्योजयति नरानिति घटी इति” मुद्रादोषात् धटीत्यपपाठः।

धण = शब्दे भ्वा० प० अक० सेट्। धणति अधाणीत् अधणीत्। दधाण।

धत्तूर = पु० धयति धातून् धा–ऊर पृषो०। धुस्तूरे। हेमच०

धन = धान्योत्पादने जुहो० पर० सेट्। दधन्ति अधानीत् अधनीत् दधान। गृहीतकर्मकत्वात् अकर्मकत्वम्। तेन दधन्ति भूमिः धान्यमुत्पादयतीत्यर्थः, वैदिकोऽयम्।

धन = शब्दे भ्वा० पर० अक० सेट्। धनति अधानीत् अधनीत्।

धन = न० धन–अच्। १ गोधने २ वित्ते च मेदि०। ३ स्नेहपात्रे शब्दर० ४ धनिष्ठानक्षत्रे ज्योतिषम्। अर्थशब्दे ३६ ७ पृ० धनभेदादिकमुक्तं विशेषस्तु कश्चित् शुद्धित० उक्तो यथा “धनं तु त्रिविधं ज्ञेयं शुक्लं शवलमेव च। कृष्णञ्च तस्य विज्ञेयो विभागः सप्तधा पृथकु। क्रमायातं प्रीतिदायं प्राप्तञ्च सह भार्य्यया। अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम्। वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम्। याजनाध्यापने नित्यं विशुद्धाच्च प्रतिग्रहः। त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम्। युद्धार्थलब्धं करजं दण्ड्यबध्यापहारतः। वैशेषिकं धनं दृष्टं वैश्यस्यापि त्रिलक्षणम्। कृषिगोरक्षबाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात्। कुषीदकृषिबाणिज्यं प्रकुर्वीत स्वयकृतम्। आपत्काले स्वयं कुर्वन्नैनसा युज्यते द्विजः”। तामसादिभेदेन तस्य त्रैविध्यं नारदेन उक्तं यथा “पार्श्विकद्यूतचौर्य्यार्त्तिप्रतिरूपकसाहसैः। व्याजेनोपार्जितं यत्तु तत् कृष्णं समुदाहृतम्”। पार्श्विकः पात्रतया योऽर्जयति। आर्त्त्या परपीडया प्रतिरूपकेण कृत्रिमरत्नादिना। साहसेन समुद्रयानगिर्य्यारोहणादिना। व्याजेन ब्राह्मणवेशेन शूद्रादिना। कृष्णं तामसम्। राजसधनं यथा “कुसीदकृषिबाणिज्यशुल्कगानानुवृत्तिभिः। कृतोपकारादाप्तञ्च राजसं समुदाहृतम्”। अनुवृत्त्या सेवया। सात्विकधनं यथा। “श्रुतशौर्य्यतपःकन्याशिष्ययाज्यान्वयागतम्। धनं सप्तविधं शुद्धं मुनिभिः समुदाहृतम्”। श्रुतेनाध्ययनेन शौर्य्येण जयादिना। तपसा जपहोमदेवार्चादिना। कन्यागतं कन्यया सहागतं श्वशुरादेर्लब्धम्। शिष्यागतं गुरुदक्षिणादिना। याज्यागतं आर्त्विज्यलब्धम। शुद्धं सात्विकम्” शुद्धित० दृश्यम्। ५ युक्ते ६ योज्ये च “स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः। तत् तेषु धनमित्युक्तमृणं पश्चान्मुखेषु तु” सू० सि०। “स्वोच्चजीवाकर्षिता ग्रहाः पूर्वाभिमुखं भगणैः राशिभिर्भगोलस्थ क्रान्तिवृत्तानुसृतस्वाकाशगोलान्तर्गतक्रान्तिवृत्ते द्वादशराश्यन्तिके यद्राशिविभागैरित्यर्थः। यद्यत्सङ्ख्यामितं गच्छन्ति तत्तत्सङ्ख्यामितं भागादिकं फलरूपं तेषु पूर्वावगतग्रहराश्यादिभोगेषु धनं योज्यम्” रङ्ग०। ७ लग्नात् द्वितीयस्थाने तत्र जन्मलग्नात् द्वितीयस्थाने चिन्त्यपदार्था ग्रहयोगभेदेन शुभाशुभं च जातकपद्धतावुक्तं यथा “सुवर्णरत्नविक्रयक्रयाश्च कोशसंग्रहः। धनामिधानमन्दिरे बुधैर्विचिन्त्य आदरात्। समस्तपापखेचरैर्युतेक्षितं धनाभिधम्। दरिद्रताविधायकं विशेषतः कृशानुना। शुद्धः शनिर्धनगतो धनिनं करोति दृष्टी युधेन रविजान्यखगप्रदृष्टः। सूर्य्योऽपि, सौम्यखचरा धनगा धनानि नानाविधानि न यदा खलदृष्टदेहाः। बुध- गुरुकवयश्चेद्वित्तगा वित्तलामं विदघति यदि दृष्टाः सोमसौम्येन्दुपुत्रैः। क्रमश, इह कविश्चेत् सौम्यगेहे घनाप्त्यै भवति शुभखगानां दृष्टितो मानवस्य। क्षीणः शशी ज्ञेन विलोकितोऽर्थे पूर्वार्जितार्थस्य विनाशदः स्यात्। नवीनवित्तागमरोधकौ च धने कुजेन्दू त्वचिं दोषदौ स्तः। रविर्धनेऽत्यष्टिमिते कुजोऽङ्के षड्विंशके ज्ञे धननाशदः स्यात्। भाव्दे विधुः पीडनमङ्गिराश्च भूपेऽल्पतायाञ्च कविः षडव्दे। द्वितीयस्य पतिर्नेत्रखामी शुकमतादिह। सेन्दुशुक्रोऽष्टषष्ठान्त्यस्थितो रात्र्या न्ध्यकृच्च सः। ससूर्य्यः शुक्रलग्नेशो जात्यन्धत्वायकल्पते। एमिः पित्रादिभावेशैर्युक्तश्चेत्तत्तदान्ध्यकृत्। सशुक्रलग्नपश्चेत् स्यान्नेत्रयोर्वैपरीत्यकृत्। भावाधीशः शुभैर्युक्तः केन्द्रकोणे शुभप्रदः”। वर्षलग्नात् द्वितीयस्थग्रहयोगादिफलम् नी० ता० उक्तं यथा “वित्ताधिपो जन्मनि बित्तगोऽव्दे जीवो यदा लग्नपतीत्थशाली। तदा धनाप्तिः सकलेऽपि वर्षे क्रूरेशराफे धनधान्यहानिः। जन्मन्यर्थावलोकीज्योऽव्देऽव्देशो बलवान् यदा। तदा धनाप्तिर्बहुला विनायासेन जायते। एवं यद्भावगोजन्मन्यव्दे तद्भावगो गुरुः। लग्नेशेनेत्थशाली चेत्तद्भावजसुखं भवेत्। यदा जनुषि यं पश्येत् भावमव्देऽव्दपो गुरुः। तदा तद्भावजं सौख्यमुक्तं ताजकवेदिभिः। जन्मषष्ठाधिपः सौम्यः षष्ठोऽव्दे स्वल्पलामदः। पापार्दिते गुरौ रन्ध्रेऽपवाद उपजायते। गुरुर्वित्ते शुभैर्दृष्टयुतो राज्यार्थसौख्यदः। जन्मन्यव्दे च मुथहाराशिं पश्यन् विशेषतः। एवं सितेऽव्दपे भूरिधनं धान्यं च जायते। वित्तलग्नेशसंयोगो वित्त सौख्यफलप्रदः। एवं बुधे सवीर्य्येऽस्माल्लिपिज्ञानोद्यमैर्धनम्। जन्मलग्नगताः सौम्या वर्षेऽर्थे धनलाभदाः। लाभसद्मनि वित्ते वा बुधेज्यसितसंयुते। तैर्वा दृष्टे धनं भूरि स्वकुले राज्यमाप्नुयात्। अर्थार्थसहमेशौ चेत् शुभैर्मित्रदृशेक्षितौ। बलिनौ सुखतो लाभप्रदौ यत्नादरेर्दृशा। मित्रदृष्ट्या मुथशिलेऽङ्गार्थयोः सुखतो धनम्। तयोर्भूशरिफे वित्तनाशदुर्जनभीतयः। जन्मनीज्योऽस्ति यद्राशौ तद्राशिवर्षलग्नगः। शुभस्वामीक्षितयुतो नैरुज्यस्वाम्यवित्तदः। सूतौ लग्ने रविर्वर्षे धनस्थो धनसौख्यदः। शनौ वित्ते कार्य्यनाशो लाभोऽल्पोऽथ धनव्ययः। भ्रातृसौख्यं गुरुयुते भूतयः स्युः शुभेक्षणात्। क्रूरयोगेक्षणात् सर्वं विपरीतं फलं वदेत्। वित्तेशो जन्मनि गुरुर्वर्षे वर्षेशतां दधत्। यद्भावगस्तमाश्रित्य लाभदो लग्नमात्मनः। वित्ते सुवर्णरौप्यादेः भ्रात्रादेः सहजर्क्षगः। पितृमातृक्षमादिभ्यो वित्तं सुहृदि पञ्चमे। सुहृत्तनयषष्ठेऽरिवर्गाद्धानिप्रभीतिदः। स्त्रीभ्यो द्यूनेऽष्टमे मृत्युरर्थहेतुर्यशोऽङ्कगे। खे नृपादेर्नृपकुलादायेऽन्त्ये व्ययदो भवेत्। इत्थं विमृश्य सुधिया वाच्यमित्यपरे जगुः”। तद्भावानयनं द्वादशभावशब्दोक्तदिशावसेयम्। वीजगणितोक्ते ८ ऋणभिन्ने च। तत्र धनर्णसङ्कलनादिप्रकारस्तत्रोक्तो यथा “धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम् योगे युतिः स्यात्क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः। उदाहरणम्। रूपत्रयं रूपचतुष्टयं च क्षयं धनं वा सहितं वदाशु। स्वर्णं क्षयं स्वं च पृथक् पृथङ्मे धनर्णयोः सङ्कलनामवैषि। अत्र रूपाणामव्यक्तानां चाद्याक्षराण्युपलक्षणार्थं लेख्यानि यानि ऋणगतानि तान्यूर्द्ध्वविन्दनि च। न्यासः रू ३ं रू ४ं योगे जातं रू ७ं न्यासः रू ३ रू ४ योगे जातं रू ७ न्यासः रू ३ रू ४ं योगे जातं रू १ं न्यासः रू ३ं रू ४ योगे जातं रू १ एवं विभिन्नेष्वपि। धनर्णव्यवकलने करणसूत्रं वृत्तार्द्धम् संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयस्तद्युति० रुक्तवच्च। उदाहरणम्। त्रयाद्द्वयं स्वात् स्वमृणादृणं च व्यस्तं च संशोध्य वदाशु शेषम्। न्यासः रू ३ रू २ अन्तरे जातं रू १ न्यासः रू ३ं रू २ं अन्तरे जातं रू १ं न्यासः रू ३ रू २ं अन्तरे जातं रू १ं न्यासः रू ३ं रू २ अन्तरे जातं रू १ं। इति धनर्णसङ्कलनव्यवकलने। गुणने करणसूत्रं वृत्तार्द्धम् स्वयोरस्वयोः स्वं धन स्वर्णघाते क्षयोभागहारेऽपि चैवं निरुक्तम्। उदाहरणम्। धनं धनेनर्णमृणेन निघ्नं द्वयं त्रयेण स्वमृणेन किं स्यात्”। न्यासः रू २ रू ३ धनं धनघ्नं धनं स्वादिति जातं रू ६ न्यासः रू २ं रू ३ं ऋणमृणघ्नं धनं स्यादिति जातं रू ६ न्यासः रू २ रू ३ं धनमृणगुणमृणं स्यादिति जातं रू ६ं न्यासः रू २ं रू ३ ऋणं धनगुणमृणं स्यादिति जातं रू ६ं। इति धनर्णगुणनम्। भागाहारेऽपि चैवं निरुक्तमिति। उदाहरणम्। रूपाष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम्। ऋणं धनेन स्वमृणेन किं स्याद् द्रुतं वदेदं यदि बोबुधीषि। न्यासः रू ८ रू ४ धनं धनहृतं धनं स्यातिति जातं रू २। न्यासः रू ८ं रू ४ं ऋणमृणहृतं धनं स्यादिति जातं रू २ न्यासः रू ८ं रू ४ ऋणं धनहृतं ऋणं स्यादिति जातं रू २ं। न्यासः रू ८ रू ४ं धनमृणहृतमृणं स्यादिति जातं रू २ं। इति धनर्णभागहारः। बर्गे करणसूत्रं वृत्तार्द्धम्। “कृतिः स्वर्णयोः स्वं स्वमूले धनर्णे, न मूलं क्षयस्यास्ति तस्याकृतित्वात्। उदाहरणम्। धनस्य रूपत्रितयस्य वर्गं क्षयस्य च ब्रूहि सखे! ममाशु। न्यासः रू ३ रू ३ं जातौ वर्गौ रू ९ रू ९ मूलोदाहरणम्। धनात्मकानामधनात्मकानां मूलं नवानां च पृथग्वदाशु। ८। न्यासः रू ९ मूलं रू ३ वा रू ३ं न्यासः रू ९ं एषामवर्गत्वान्मूलं नास्ति। धन–रवे अच्। ८ शब्दे च।

धनक = पु० धनस्य कामः इच्छा धन + कन्। १ धनस्येच्छायाम्। २ कृतवीर्य्यजनके नृपभेदे “धनकः कृतवीर्य्यसूः” भाग० ९। २३। ७

धनकेलि = पु० धनेन केलिरस्य। कुवेरे त्रिका०।

धनच्छू = स्त्री धनं छ्यति नाशयति छो–क। करेटुखगे। त्रिका०।

धनञ्जय = धनं जयति सम्पादयति जि–खच् मुम्। १ वह्नौ “धनमिच्छेत् हुताशनात्” इत्युक्तेस्तस्य धनदत्वात्तथात्वम् २ चित्रकवृक्षे च अमरः। “सर्वान् जनपदान् जित्वा वित्तमादाय केवलम्। मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम्” मा० विरा० ४४ अ० उत्तरं प्रति अर्जुनेन स्वनामनिर्वचनयुक्ते ३ अर्जुने “पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः” गीता। “विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः। स वल्कलवासांसि तवाधुना हरन् करोति मन्युंन कथं धनञ्जयः” किरा०। ४ तन्नामनामके अर्जुनवृक्षे रत्नमा०। ५ विष्णौ च। “अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः” विष्णुसं०। धन–रवे अच् धनस्य शब्दस्य जयनात् शब्दावाच्यत्वात् तस्य तथात्वम् “धनञ्जयस्तथा घोषे महारजतवर्णकः। ललाटे चोरसि स्कन्धे हृदि नाभौ त्वगादिषु” योगार्णवोक्ते ६ देहस्थे वायुभेदे। ७ नागभेदे च “शेषः प्रथमतो जातः वासुकिन्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ” भा० आ० ३५ अ०।

धनद = पु० धनं दयते देङ–पालने धनं ददाति दा–दाने वा क। १ कुवेरे अमरः। २ धनदातरि त्रि० मेदि० ३ देवीभेदे स्त्री ण्वुल् धनदायिकाऽपि तत्र। “ध्यायेत् कल्पतरोर्मूले देवीं तां धनदायिकाम्”। तन्त्रसारे तन्मन्त्रध्यानादिकं दृश्यम्। कुवेरश्च पुलस्त्यपुत्रस्य विश्रवसः पुत्रः तत्कथा रामा० उ० ३ अ० उक्ता। “अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः। अचिरेणैव कालेन पितेव तपसि स्थितः। सत्यवान् शीलवान् दान्तः स्वाध्यायनिरतः शुचिः। सर्वभोगेष्व संसक्तो नित्यं धर्मपरायणः। ज्ञात्वा तस्य तु तद्वृत्तं भारद्वाजो महामुनिः। ददा विश्रवसे भार्य्यां स्वसुतां देववर्णिनीम्। प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा। मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः। स तस्यां वीर्य्यसम्पन्नमपत्यं परमाद्भुतम्। जनयामास धर्मज्ञः सर्वैर्ब्रह्मर्गुणैर्वृतम्। तस्मिन् जाते तु संहृष्टः संबभूव पितामहः। दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति। नाम चास्याकरोत् प्रीतः सार्धं देवर्षिभिस्तदा। यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव। तस्माद्विश्रवणो नाम भविष्यत्येष विश्रुतः” “स तु वैश्रवणस्तत्र तपोवनगतस्तदा। अवर्धताहुतिहुती महातेजा यथाऽनलः। तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः। चरिष्ये परमं धर्मं धर्मो हि परमा गतिः। स तु वर्षसहस्राणि तपस्तप्त्वा महावने। यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः। पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत्। जलाशो मारुताहारो निराहारस्तथैव च। एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत्। अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह। गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत्। परितुष्टोऽस्मि ते वत्स! कर्मणानेन सुव्रत!। वरं वृणीष्व भद्रन्ते वरार्हस्त्वं महामते।। अथाब्रवीद्बैश्रवणः पितामहसुपस्थितम्। भगवन्! लोकपालत्वमिच्छेयं लोकरक्षणम्। अथाब्रवीद्वैश्रवणं वाढमित्येव हृष्टवत्। अहं वै लोक पालानां चतुर्थं स्रष्टुमुद्यतः। यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम्। तद्गच्छ वत्स! धर्मज्ञ! निधीशत्वमवाप्नुहि। शक्राम्बुपयमानां च चतुर्थस्त्वं मविष्यसि। एतच्च पुष्पकं नाम विमानं सूर्य्यसन्निभम्। प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज। स्वस्ति तेऽस्तु गमिष्यामः सर्वं एव यथागतम्। कृतकृत्यावयं तात! दत्त्वा तव वरद्वयम्। इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह। गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम्। धनेशः पितरं प्राह प्राञ्जलिः प्रयतात्मवान्। भगवन्! लब्धवानस्मि वरमिष्टं पितामहात्। निवासनं न मे देवो विदधे स प्रजापतिः। तं पश्य भगवन्! कञ्चिन्निवासं साधु मे प्रमो!। न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित्। एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः। वचनं प्राह धर्मज्ञ! श्रूयतामिति सत्तम!। दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः। तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा। लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा। राक्षसानां निवासार्थं यथेन्द्रस्यामरावती। तत्र त्वं वस भद्रन्ते लङ्कायां नात्र संशयः”। तस्य धनाध्यक्षत्वात् धनदत्वम्। “यथा साधारणीभूतं नामास्य ध्रनदस्य च” रघुः। ४ धनञ्जयरूपे वायौ पु० धनपतिशब्दे दृश्यम्। ५ वह्नौ ६ चित्रकवृक्षे च पु०।

धनदण्ड = पु० धनेन दण्डः। मनूक्ते धनग्रहणदण्डे “वाग्दण्डं प्रथमं कुर्य्यात् धिग्दण्डं तदनन्तरम्। तृतीयं धनदण्डं तु वधदण्डमतःपरम्”।

धनदाक्षी = स्त्री धनदस्य कुवेरस्याक्षीव पिङ्गलं पुष्पमस्याः षच्समा० ङीष्। कुवेराक्षीलतायां लताकरञ्जे राजनि०।

धनदानुज = पु० ६ त०। १ रावणे शब्द च० २ कुम्भकर्ण्णादौ च तेषां विश्रवसः कैकसीतो जातत्वात् तथात्वं तत्कथा। “सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम्। भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम्। ईदृशास्ते भविष्यन्वि पुत्राः पुत्रि! न संशयः। तेजसा भास्करसमो यादृशोऽयं धनेश्वरः। सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात्। तत्र गत्वा च सा तस्थौ विश्रवा यत्र तप्यते”। “कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः। उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम। पश्चिमो यस्तवसुतो भविष्यति शुभानक्षे!। मम वंशानुरूपः स धर्मात्मा च न संशयः। एवमुक्ता तु सा कन्या राम! कालेन केनचित्। जनयामास वीमत्सं रक्षोरूपं सुदारुणम्। दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम्। ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम्” “तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः। प्रमाणाद् यस्य किपुलं प्रमाणं नेह विद्यते। ततः शूर्पणखा नाम संजज्ञे विकृतानना। विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः” “भुजमूर्द्ध्वोरुबाहुल्यात् एकोऽपि धनदानुजः” रघुः।

धनदायिन् = त्रि० धनं ददाति दा–णिनि ६ त०। १ धनदातरि २ वह्नौ पु० शन्दरत्ना० “धनमिच्छेत् हुताशनात्” इत्युक्तेस्तस्य तथात्वम्।

धनदेश्वर = पु० काशीस्थे कुवेरस्थापिते शिवलिङ्गभेदे।

धनन्ददा = स्त्री धनं ददते दद–बा० खच् मुम्। बुद्धशक्तिभेदे त्रिका०।

धनपति = पु० ६ त०। १ कुवेरे “सन्देशं मे हर धनपतिक्रोध विश्लेषितस्य” “नत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तम्” मेघ०। २ धनञ्जयाख्ये देहस्थे वायुभेदे च तस्य धनपतित्वकथा “शृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम्। यथा वायुः शरीरस्थो धनदः संबभूव ह। आद्यं शरीरं यत्तस्मिन् वायुरन्तःस्थितोऽभवत्। प्रयोजनात् मूर्त्तिमत्त्वमादिशन् क्षेत्रदेवताः। तत्रामूर्त्तस्य वायोस्तु उत्पत्तिः कीर्त्त्यते मया। तां शृणुष्व महाभाग! कथ्यमाना मयाऽनघ!। ब्रह्मणः सृजतः सृष्टिं मुखाद्वायुर्विनिर्ययौ। प्रचण्डशर्करावर्षीतं ब्रह्मा प्रव्यषेधयत्। मूर्त्तो भवस्य शान्तश्च तत्रोक्तो मूर्त्तिमान् भवन्। सर्वेषाञ्चैव देवानां बद्वित्तं फलमेव च। तत् सर्वं बाहि येनोक्तं तस्माद्धनर्पातर्भव। तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः। तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः। तस्मै तु घनदो देवस्तुष्टः सर्वं प्रयच्छति। एषा धनपतेर्मूर्त्तिः सर्वकिल्विषनाशिनी” वराह पु०। (खाजाञ्चि) २ धनाध्यक्षे त्रि०।

धनपाल = त्रि० धनं पालयति पालि–अण्। १ धनरक्षके २ कुवेरे पु०।

धनपिशाची = स्त्री धने पिशाचीव। अतिशयधनतृष्णायां स्वार्थे क। धनपिशाचिकाऽप्यत्र हारा०।

धनप्रयोग = पु० धनस्य बुद्ध्यर्थं प्रयोगः। ऋणरूपेण अधमर्णाय धनस्य दानरूपे प्रयोगे। तन्नक्षत्रादि सुहूर्त्तचिन्तामणौ पीयूषधारायाञ्चोक्तं यथा

“स्वात्यादित्यमृदुद्विदैवगुरुभे कर्णत्रयाश्वे चरे लग्ने धर्मसुताष्टशुद्धिसहिते द्रव्यप्रयोगः शुभः। नारे ग्राह्यमृणं तु संक्रमदिने वृद्धौ करेऽर्केऽह्नि यत् तद्वंशेषु भवेदृणं न च बुधे देयं कदाचिद्धनम्”। “स्वात्यादित्येति। स्वातीपुनर्वसुचित्रानुराधामृगरेवतीविशाखापुष्यश्रवणधनिष्ठाशततारकाश्विनीष्वेकादशसु नक्षत्रेषु द्रव्य प्रयोगः शुभः द्रव्यं परस्मै ऋणत्वेन देयं यदाह भीमपराक्रमः “मृदुपुष्याश्विनी चैव विशाखाश्रवणत्रयम्। पुनर्वसौ च शंसन्ति घनादिनिधिवर्त्तनम्। वर्त्तनमृणादिरूपेण दानं मिश्रनक्षत्रत्वाद्विशाखानिषेधे प्राप्ते ऋणदाने एव न निषेध इति विशेषः। हृतनष्टादौ तु निषिद्धैव। अथ लग्ने चरे मेषकर्कतुलामकराणामन्यतमे धर्मो नवमं सुतः पञ्चमम् अष्टशब्देन लक्षणयाष्टमस्थानमुच्यते तेषां शुद्धिः नवमपञ्चमस्थानयोः शुभग्रहसत्त्वं पापग्रहराहित्यञ्च अष्टमे तूभयराहित्यमित्यर्थः। एवं रूपया शुद्ध्या सहिते लग्ने ऋणं देयम्। उक्तञ्च रत्नमालायां “शुद्धेषु धर्मात्मजनैधनेषु चरे विलग्ने द्रविणप्रयोगः” इति। अथाऽऽरे मङ्गलवार ऋण न ग्राह्यं तदुक्तं ज्योतिःप्रक्राशे “ऋणं भौमे न गृह्णीयान्न देयं बुधवासरे। ऋणच्छेदं कुजे कुर्यात् सञ्चयं सोमनन्दने”। अत्र तुर्विशेषे संक्रमः संक्रान्तिः तद्दिवसे, वृद्धौ वृद्धियोगे करेऽर्केऽह्नि हस्तनक्षत्रसहिते रविवारे हस्तार्के इति यावत्तत्रापि ऋणं न आह्यमिति प्रत्येकं सम्बन्धः। ननु कुतो न आह्यमित्यत आह यदिति यद्यस्माद्धेबोस्तदृणं तद्वंशेषु ऋणग्रहीतृकुलेषु भवेत् तदृणं तत्पुत्रपौत्रादिभिरपि परिहर्त्तुमशक्यमित्यर्थः अर्थादेषु भौमसंक्रान्त्यादिदिनेषु ऋणमवश्यं परिहर्त्तव्यमिति निष्कृष्ठोर्थः। “हस्तेऽर्कवारे संक्रान्तौ यदृणं स्यात् कुलेषु तत। वृद्धियोगे तथा ज्ञेयमृणच्छेदं तु कारयेदिति” ज्योतिः प्रकाशकारोक्तेश्च। अथ बुधे बुधवारे कदाचिदप्यृणं न देयम्। “न देयं बुधवासरे” इत्यधुनैवोक्तत्वात्। पी० धा० तत्र निषिद्धनक्षत्रादि तत्रैवोक्तं यथा

“तीक्ष्णमिश्रध्रुवोग्रैर्यद्द्रव्यं दत्तं निवेशितम्। प्रयुक्तञ्च विनष्टञ्च विष्ट्यां पाते न चाप्यते” मु० चि० “तीक्ष्णेति तीक्ष्णमिश्रध्रुवोग्रसंज्ञकैर्नक्षत्रैर्यद्द्रव्यं सुवर्णादि दक्षं कलान्तरं विनैव दत्तं न तु स्वत्वपरित्यागेन, तद्दत्तमित्युच्यते निवेशितं स्वेष्टसमीपे प्रत्ययार्थं स्थापितं प्रयुक्तं कलान्तररीतिपुरःसरोत्तमर्णाधमर्णव्यवहारेण कस्मै चिद्दत्तं, विनष्टं चौरादिना हृतं स्वयमेव वा क्वचित्त्यक्तं तद्द्रव्यं निश्चयेन कदाचिदपि नाप्यते तथा विष्ट्यां भद्रायां पाते व्यतीपाते महापाते वा हृतं द्रव्यं न प्राप्यते चकाराद्ग्रहणेऽपि न देयसिति व्याख्येयं वसिष्ठवाक्यस्वरसात् उक्तञ्च वसिष्ठेन “ध्रुवोग्रसाधारणदारुणर्क्षे निक्षिप्तमर्थं त्वथ वा प्रनष्टम्। चौरैर्हृतं दत्तमुपप्लवे वा विष्ट्याञ्च पाते न च लभ्यते तत्”। उपप्लवे ग्रहणे। यत्तु केचिद्व्याकुर्वते “निश्चयेन चौरहृतस्य द्रव्यस्य प्राप्त्यप्राप्तिविचारोऽन्धकादिनक्षत्रैरेव बालाभोऽन्धके निकट एव हृतस्य चौरैरित्युक्तत्वात्। चौरानिर्णयेत्वनेनैव विचारः” तच्चिन्त्यं वसिष्ठवाक्येऽपि चौरैर्हृतमिति साक्षाच्चौरपदोपादानाद्येन केनापि विचारः कर्त्तव्य इति युक्तमुत्पश्यामः। एवं चौरानिर्णयेऽपि स्वेच्छया विचारः तत्रोभयैक्ये प्राप्त्यप्राप्तिनिश्चय एव उभयैक्याभावे तु प्रयत्नेनेति”।

धनप्रिया = स्त्री काकजम्बुवृक्षे राजनि०।

धनर्च = पु० धनार्थमर्चा यस्य वेदे सक०। धनार्थार्चायुक्ते वह्नौ “नार्वणं धनर्चम्” ऋ० १०। ४६५।

धनवत् = त्रि० धन + अस्त्यर्थे मतुप् मस्य वः। धनस्वामिनि “रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः” “धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा” मनुः स्त्रियां ङीप्। सा च २ धनिष्ठानक्षत्रे जटा०। तस्य च धनदेवताकत्वात् तथात्वम्।

धनसनि = त्रि० सन–सम्मक्तौ इन् ६ त०। धनलाभयुक्ते “तद्य इमे वीणायां गायन्त्येनं ते गायन्ति। तस्मात्ते धनसनयः” छा० उ०। “धनसनयो धनलाभयुक्ता धनवन्तः” भा०।

धनस्थान = न० धनचिन्तनार्थं स्थानग्। लग्नात् द्वितीयस्थाने।

धनस्य = नामधातुः लालसया धनमिच्छति धन + क्यच् लालसायां सुक् अक० प० सेट्। धनस्यति अधनस्यीत्। पक्षे असुक् धनास्यति इति भेदस्तत्रार्थे।

धनस्यक = त्रि० धनस्य नामधातुः ण्वुल्। १ लालसया धनेच्छौ २ गोक्षुरे पु० शब्दच०।

धनहर = त्रि० धनं हरति हृ–ताच्छील्यादौ ट। १ धनहरणशीले चोरे स्त्रियां ङीप् सा च २ चोरनामगन्धद्रव्ये स्त्रा अमरः तस्या धनहरचोरनामतुल्यनामकत्वात्तथात्वम्।

धनहृत् = त्रि० धनं हरति हृ–क्विप् तुक्। १ धनहारिणि २ चण्डालकन्दे पु० पारस्करनि०।

धनाधिकारिन् = त्रि० धनमधिकरोति अधि + कृ–णिनि ६ त०। धनाध्यक्षे (तहविलदार) ख्याते कोशाध्यक्षे। अधि + कृ–क्विप् तुक्। धनाधिकृदप्यत्र।

धनाधिगोप्तृ = त्रि० धनमधिगोपायति अधि–गुप–वा आयाभाव तृच्। १ धनपालके (खाचाञ्चि) ख्याते कोषाध्यक्षे स्त्रियां ङीप्। २ कुवेरे पु०। “स तद्गृहस्योपरि वर्त्तमान आलोकयामास धनाधिगोप्ता” भा० उ० १९३ अ०।

धनाधिप = त्रि० धनमधिपाति अधि + पा–रक्षणे क ६ त०। १ धनरक्षके (खाजाञ्चि) कोषाध्यक्षे २ कुवेरे पु० अमरः। “धनाधिपेन विद्धस्य अनुह्रादस्य संयुगे” हरिवं० २५१ अ०।

धनाधिपति = पु० ६ त०। १ कुवेरे “अनुचरेण धनाधिपतेरथोनगविलोकनबिस्मितमानसः” किरा०। “कौवेरं प्रययौ तीर्थं यत्र तप्त्वा महत्तपः। धनाधिपत्यं संप्राप्तो राजन्नैलविलः प्रभुः” भा० शा० १८ अ०। अधिपतेर्भावः ष्यञ् आधिपत्यम् धनस्याधिपत्यमित्यर्थः।

धनाध्यक्ष = त्रि० ६ त०। (खाजाञ्चि) १ कोषाध्यक्षे “लोहवस्त्राजिनादीनां रत्नानाञ्च विधानवित्। विज्ञाता फल्गुसाराणामनाहार्य्यः शुचिः सदा। निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः। आयद्वारेषु सर्वेषु धनाध्यक्ष समा नराः। व्ययद्वारेषु च तथा कर्त्तव्याः पृथिवीक्षिता” इति मत्स्यपु० २१४ अ० तल्लक्षणमुक्तं २ कुवेरे पु०

धनाय = नामधातुः आत्मनो धनमिच्छति क्यच् गर्द्धार्थे नि०। गर्द्धेन धनेच्छायाम्। पर० अक० सेट्। धनायति अधनायीम्। “शूद्रा यदर्थजारा न पोषाय धनायति” यजु० २३। ३०। “आनन्तर्य्यञ्चारभते न प्राणानां धनायते” ना० ता० १३२ अ०। आर्षस्तङ्। अगर्द्धे तु धनीयतीत्येव।

धनायु = पु० नृपभेदे विष्णपु०।

धनार्थिन् = त्रि० धनमर्थयते अर्थ + णिनि ६ त०। धनप्रार्थके “न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः” मनुः।

धनाशा = स्त्री ६ त०। धनलोभे “जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्य्यतः। धनाशा जीविताशा च जीर्य्यतोऽपि न जीर्य्यति” हरिवं० ३० अ०।

धनाश्री = स्त्री रागिणीभेदे (धानसी) सा च हनुमन्मते श्रीरागस्य तृतीया भार्य्या। कलनाथमते मेघरागस्य चतुर्थी भार्य्या।

धनिक = त्रि० धनमादेयत्वेनाऽस्त्यस्य ठन्। उत्तमर्णे अधमर्णसकाशात् स्वप्रयुक्तधनग्राहके। “एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि” याज्ञ०। २ साधौ वणिजि। धन–बा० इक। ३ धन्याके पु० मेदि० राजनि० क्लीवत्वम्। ४ धवे स्वामिनि पु० हेमच०। धनी स्वार्थे क। धानका ५ धनिकभार्यायां बणिक् स्त्रियां स्त्री मेदि०। ६ बध्वाम् हेमच० ७ युवत्यां शब्दरत्ना० ८ प्रियङ्गुवृक्षे स्त्री शब्दच०। दशरूपकग्रन्थव्याख्यातरि ९ विष्णुसूनौ विद्वद्भेदे पु०

धनिन् = त्रि० धनमस्त्यस्य धन + इनि। धनवति “धनिनः श्रो- त्रियो राजा नदी वैद्यश्च पञ्चमः” चाणक्यः। “महापक्षे धनिन्यार्य्ये निःक्षेपं निःक्षेपेद्बुधः” मनुः।

धनिष्ठ = त्रि० अतिशयेन धनी इष्ठन् इनो लोपः। १ अतिशयधनयुक्ते स्त्रियां टाप् सा च अश्विन्यादिमध्ये २ त्रयोविंशे नक्षत्रे स्त्री तस्या वसुदेवताकत्वात् तथात्वम्। अश्लेषा शब्दे तत्स्वरूपादिकं दृश्यम्। तत्र धनिष्ठा पञ्चतारा इत्येव पाठः मुद्रादोषात् पञ्चतारेति त्रुटितम्। “मस्तकोपरिसमागते धने मर्दलाकृतिनि पञ्चतारके। यान्ति कान्तिमति मेषलग्नतः सारसाक्षिरसधस्रलिप्तिकाः” कालिदासः।

धनी = स्त्री धनमस्त्यस्याः अच् गौरा० ङीष्। १ युवत्यां स्वार्थे कापि वा न ह्रस्वः। धनीकापि तत्रार्थे शब्दच०।

धनीय = नामधातुः आत्मनोऽलोभेन धनमिच्छति क्यच् प० अक० सेट्। धनीयति अधनयीत्। गर्द्धे तु धनायतीत्येव

धनीयक = न० धनाय हितः छ संज्ञायां कन्। धन्याके रत्नमा०।

धनु = पु० धन–उन्। १ प्रियङ्गुवृक्षे २ धनुर्द्धरे त्रि० मेदि०। ३ शीघ्रगन्तरि च “शव्याहरी धनुतरौ” ऋ० ४। ३५। ५। “धनुतरौ शीघ्रगन्तृतरौ” भा०। ४ धनुषि च धन्वन्तरिः।

धनुःपट = पु० धनुष इव पटो विस्तारोदले यस्य। (पियासाल) वृक्षे वा षत्वे धनुष्पटोऽप्यत्र अमरः।

धनुःशाखा = स्त्री धनुषः शाखा यस्याः। १ मूर्वायाम् शब्दच०। धनुरवयव इव शाखा यस्याः। २ पियालतरौ शब्दच०

धनुःश्रेणी = स्त्री धनुषः श्रेणीव। १ महेन्द्रवारुण्यां २ मूर्वायाञ्च। राजनि०।

धनुर्गुण = पु० ६ त०। १ मौर्व्यां जीवायां शब्दच०। धनुषो गुणी यस्याः सकाशात् ५ व०। २ मूर्वायां स्त्री शब्दर०।

धनुर्ग्रह = पु० धनुस् + अनुद्यमने ग्रह–अच्। धनुर्द्धरे तद्ग्राहके तु अण् धनुर्ग्राह इत्येव। २ धृतराष्ट्रपुत्रभेदे। “कवची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः” भा० आ० ६७ अ० तत्पुत्रोक्तौ। ग्रह–भावे अप् ६ त०। धनुर्विद्यायाम् “गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम्” भा० शा० २१० अ०। ग्रहेर्ज्ञानार्थत्वात् तथात्वम्।

धनुर्द्रुमः = पु० धनुषः साधनं द्रुमः। वंशवृक्षे राजनि०। तस्य धनुःसाधनत्वात् तथात्वम्।

धनुर्द्धर = पु० धनुर्धरति धृञ् अच् ६ त०। धानुष्के धन्विनि अमरः “धनुर्द्धरः केशरिणं ददर्श” “क्षितावभूदेकधनुर्द्धरोऽपि सः” रघुः। २ धृतराष्ट्रपुत्रभेदे “कवची क्रथनः कुण्डी कुण्डधारी धनुर्द्धरः” भा० शा० ११७ तत् पुत्रोक्तौ। ३ विष्णौ पु०। “धनुर्द्धरो धनुर्वेदः” विष्णुसं०।

धनुर्द्धारिन् = त्रि० धरति धृ–णिनि ६ त०। धानुष्के। “शूरश्च रणदक्षस्य गजाश्वरथकोविदः। धनुर्द्धारी भवेद्राज्ञः सर्वक्लेशसहः शुचिः” मत्स्यपु० २१४ अ० तस्य लक्षणमुक्तम्।

धनुर्भृत् = पु० बिभर्त्ति भृ–कर्त्तरि क्विप् तुक् ६ त०। धनुर्द्धरे धानुष्के। “धनुर्भृतोऽप्यस्य दयार्द्रभावम्” धनुर्भृतामग्रत एव रक्षिणाम्” रघुः।

धनुर्मख = पु० धनुरुपलक्षितो मखः। कृष्णाह्वानार्थं कंसेन छलतः कृते यज्ञभेदे। “राजा धनुर्मखं नाम कारयिष्यति वै सुखी” हरिवं० ७९ अ०। धनुर्यागादयोऽप्यत्र। “आरभ्यतां धनुर्यागश्चतुर्दश्याम् यधाविधि। विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे” भाग० १०। ३६। २२। “समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः” हरिवं० ८ अ०।

धनुर्मध्य = न० ६ त०। धनुषो मध्यभागे हस्तके धन्विभिर्यत्र धनुर्गृह्यते तस्मिन् स्थाने अमरः।

धनुर्माला = स्त्री धनुषो मालः सम्बन्धो यस्याः। मूर्वालतायाम् शब्दच०।

धनुर्यास = पु० धनुरिव यासः। दुरालभायां सारसुन्दरी।

धनुर्लता = स्त्री धनुरवयवयोग्या लता। सोमवल्ल्यां राजनि०।

धनुर्वक्त्र = पु० धनुरिव वक्त्रमस्य। कुमारानुचरभेदे। “विद्युताक्षो धनुर्वक्त्रो जाठरोमारुताशनः” भा० श० ४६ अ० तदनुचरोक्तौ।

धनुर्विद्या = स्त्री धनुषो विद्या। धनुरादीनां प्रयोगसंहारज्ञापके विद्याभेदे तदारम्भनक्षत्रादि दीपिकायामुक्तं यथा “अदितिगुरुयमार्कस्वातिचित्राग्निपित्र्यध्रुवहरिवसुमूलाश्वीन्दुभाग्यान्त्यभेषु। विशनिशशिबुधाहे विष्णुबोधे विपौषे सुसमयतिथियोगे चापविद्याप्रदानमिति”।

धनुर्वृक्ष = पु० धनुः साधनं धनुरिव वा वृक्षः। १ वंशे २ धन्वनवृक्षे ३ भल्लातकवृक्षे ४ अश्वत्थवृक्षे च राजनि०।

धनुर्वेद = पु० धनूंषि तदादीन्यस्त्राणि विद्यन्ते ज्ञायन्तेऽनेन विद–ज्ञाने करणे घञ्। यजुर्वेदस्योपवेदभेदे स च लुप्तप्रायः अग्निपु० तत्र प्रतिपद्यविषयादिकमुक्तं यथा “अग्निरुवाव। चतुष्पादं धनुर्बेदं वदे पञ्चविधं द्विज!। रथनागाश्वपत्तीनां योघांश्चाश्रित्य कीर्त्तितम्। यन्त्रमुक्तं १ पाणिमुक्तं २ मुक्तसन्धारितं ३ तथा। अमुक्तं ४ बाहुयुद्धञ्च ५ पञ्चधा तत् प्रकीर्त्तितम्। तत्र शस्त्रास्त्र- सम्पत्त्या द्विविधं परिकीत्तितम्। ऋजुमायाविभेदेन भूयो द्विविधमुच्यते। क्षेपणीचापयन्त्राद्यैर्यन्त्रमुक्तं, प्रकीर्त्तितम्। शिलातोमरपत्र्याद्यं पाणिमुक्तं २ प्रकीर्त्तितम्। मुक्तसन्धारित ३ ज्ञेयं प्रासाद्यमपि यद्धवेत्। खङ्गादिकममुक्तञ्च ४ नियुद्धं विगतायुधम् ५। कृर्य्याद्योग्यानि पात्राणि योद्धुमिच्छुर्ज्जितश्रमः। धनुःश्रेष्ठानि युद्धानि प्रासमध्यानि तानि च। तानि खङ्गजघन्यानि वाहुप्रच्यवनानि च। धनुर्वेदे गुरुविप्रः प्रोक्तो वर्णद्वयस्य च। युद्धाधिकारः शूद्रस्य स्वयं वापदि शिक्षया। देशस्थैः सङ्करै राज्ञः कार्य्या युद्धे सहायता। अङ्गुष्ठगुल्फपार्ष्ण्यङ्घ्रि श्लिष्टाः स्युः सहिता यदि। दृष्टं समपदं स्थानमेतल्लक्षणतस्तथा। बाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुबलावुभौ। त्रिवितस्त्वन्तरास्थानमेतद्वैशाखमुच्यते। हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी। चतुर्वितस्तिविच्छिन्ने तदेतन्मण्डलं स्मृतम्। हलाकृतिसमं यच्च स्तब्धजानूरुदक्षिणम्। वितस्त्यः पञ्च विस्तारे तदादोढं प्रकीर्त्तितम्। एतदेव विपर्य्यस्तं प्रत्यालीममिति स्मृतम्। तिर्य्यग्भूतो भवेद्वामो दक्षिणोऽपि भवेदृजुः। गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्धरौ। स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतम्। ऋजुजानुर्भयेद्वामो दक्षिणः सुप्रसारितः। अथ वा दक्षिणञ्जानु कुब्जं भवति निश्चलम्। दण्डायतो भवेदेष चरणः सह जानुना। एवं विकटसुद्दिष्टं द्विहस्तान्तरमाथतम्। जानुनी द्विगुणे स्यातामुत्तानौ चरणाबुभौ। अनेन विधियोगेन सम्पुटं परिकीर्त्तितम्। किञ्चिद्विवर्त्तितौ पादौ समदण्डायनौ स्थिरौ। दृष्टमेव यथान्यायं षोडशाङ्गलमायतम्। स्वस्तिकेनात्र कुर्वीत प्रमाणं प्रथमं द्विज!। कार्मुकं गृह्य वामेन वाणं दक्षिणकेन तु। वैशाखे यदि वा जाते स्थितौ वाप्यथ वायतौ। गुणान्तन्तु ततः कृत्वा कार्मुके प्रियकार्मुकः। अधःकटिन्तु धनुषः फलदेशन्तु पत्रिणः। धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च। भुजाभ्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यां शुभघ्रत!। यस्य वाणं धनुःश्रेष्ठं पुङ्खदेशे च पत्रिणः। विन्यासो धनुषश्चैव द्वादशाङ्गुलमन्तरम्। ज्यया विशिष्टः कर्त्तव्यो नातिहीनो न चाधिकः। निवेश्य कार्मुकं नाभ्यां नितम्बे शरसञ्चयम्। उत्क्षिपेदुत्थितं हस्तमन्तरेणाक्षकर्णयोः। पूर्वेण मुष्टिना ग्राह्यं स्तनाग्रेदक्षिणे शरः। हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत्। नाभ्यन्तरा नैव बाह्या नोर्द्धका नाधरा तथा। न च कुब्जा न चोत्ताना न चला नातिवेष्टिता। सना स्थैर्य्यगुणीपेता मौर्वीं दण्डमिव स्थिता। छादयित्वा ततो लक्ष्यं पूर्वेणानेन मुष्टिना। उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः। स्तब्धाङ्गो निश्चलग्रीवो मयूराञ्चितमस्तकः। ललाटनासावक्त्रांसाः कुर्युरश्वसमम्भवेत्। अन्तरं त्र्यङ्गुलं ज्ञेयं चिवुकस्यांसकस्य च। प्रथमन्त्र्यङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतम्। तृतीयेऽङ्गुलमुद्दिष्टमायतञ्चिवुकांसयोः। गृहीत्वा सायकं पुङ्खात्तर्जन्याङ्गुष्ठकेन तु। अनामया पुनर्गृह्य तथा मध्यमयापि च। तावदाकर्षयेद्वेगाद्यावद्वाणः सुपूरितः। एवंविधसुपक्रम्य मोक्तव्यं विधिवत् खगम्। दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सुव्रत!। मुक्त्वा तु पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः। एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज!। कूर्परन्तदधः कार्य्यमाकृष्य तु धनुष्मता। ऊर्द्ध्वं विसुक्तके कार्य्येलक्षश्लिष्टन्तु मध्यमम्। श्रेष्ठं प्रकृष्टं विज्ञेयं धनुःशास्त्रविशारदैः। ज्येष्ठस्तु सायको ज्ञेयो भवेत्द्वादशमुष्टयः। एकादश तथा मध्यः कनीयान्दश मुष्टयः। चतुर्हस्तं घनुःश्रेष्टं त्रयः सार्द्धास्तु मध्यमम्। कनीयस्तु द्वयं प्रोक्तं नित्यमेव पदातिनः। अश्वे रथे गजे श्रेष्ठे तदेव परिकीर्त्तितम्” २४८ अ०। अग्निरुवाच। “पूर्णायतं द्विजः कृत्वा ततो मांसैर्गदायुधान्। सुनिर्धौतं घनुः कृत्वा रङ्गभूमौ निधापयेत्। ततो वाणं समागृह्य दंशितः सुसमाहितः। तूणमासाद्य बध्नीयाद्दृढां कक्षाञ्च दक्षिणाम्। विलक्ष्यमपि तद्बाणं तत्र चैव सुसंस्थितम्। ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना। तेनैव सहितं मध्ये शरं सङ्गृह्य धारयेत्। वामहस्तेन वे कक्षां धनुस्तस्मात्समुद्धरेत्। अविषण्णमतिर्भूत्वा गुणे पुङ्खं निवेशयेत्। सम्पीड्य सिंहकर्णेन पुङ्खेनापि समे दृढः। वासकर्णोपविष्टञ्च फलं वामस्य धारयेत्। वर्णान् मध्यनया तत्र वामाङ्गल्या च धारयेत्। मनो लक्ष्यगतं कृत्वा मुष्टिना च विधानवित्। दक्षिणे गात्रभागे तु कृत्वा वाणं विमोक्षयेत्। ललाटपुटसंस्थानं दण्डं लक्ष्ये निवेशयेत्। आकृष्य ताडयेत्तत्र चन्द्रकं षोडशाङ्गुलम्। मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदा तथा। निगृह्णीयान्मध्यमया ततोऽङ्गुल्या पुनः पुनः। अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्नुञ्च दक्षिणम्। चतुरस्म- गतं वेध्यमभ्यसेच्चादितः स्थितः। तस्मादनन्तरं तीक्ष्णं परावृत्तं गतञ्च यत्। निम्नमुन्नतवेधञ्च अभ्यसेत् क्षिप्रकन्ततः। वेध्यस्थानेष्वथैतेषु सन्न्यस्य पुटकं धनुः। हस्तावापशतैश्चित्रैस्तर्जयेद्दुस्तरैरपि। तस्मिन् वेध्यगते विप्र! द्वे बेध्ये दृढसञ्ज्ञके। द्वे वेध्ये दुष्करे वेध्ये द्वे तथा चित्रदुष्करे। नतनिम्नञ्च तीक्ष्णञ्च दृढवेध्ये प्रकीर्त्तिते। निम्नं दुष्करमुद्दिष्टं वेध्यमूर्द्ध्वगतञ्च यत्। लस्तकायनमध्ये तु चित्रटुष्करसञ्ज्ञके। एवं वेध्यगुणङ्कृत्वा दक्षिणेनेतरेण च। आरोहेत् प्रथमं वीरो जितलक्ष्यस्ततो नरः। एष एवंविधः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः। अधिकं भ्रमणं तस्य तस्माद्वेध्यात् प्रकीर्त्तितम्। लक्ष्यं संयोजयेत्तत्र पत्रिपत्रगतं दृढम्। भ्रान्तं प्रचलितञ्चैव स्थिरं यच्च भवेदति। समन्तात्ताडयेद् भिन्द्याच्छेदयेद्व्यथयेदपि। कर्मणां संविधानज्ञो ज्ञात्वैवं विधिमाचरेत्। मनसा चक्षुषा दृष्ट्या योगशिक्षुः श्रमं जयेत्” २४९ अ० “अग्निरुवाच। जितहस्तो जितमतिर्जितदृग् लक्ष्यसाधकः। नियतां सिद्धिमासाद्य ततो वाहनमारुहेत्। दशहस्तो भवेत् पाशो वृत्तः करमुखस्तथा। गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्क्कवर्मिणाम्। अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम्। तथा त्रिंशत्समं पाशं बुधः कुर्य्यात् सुवर्त्तितम्। कर्त्तव्यं शिक्षकैस्वस्य स्थानं कक्षासु वै तदा। वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः। कुण्डलस्याकृतिं कृत्वा भ्राम्बैकं मस्तकोपरि। क्षिपेत् तूणमये तूर्णं पुरुषे चर्मवेष्टिते। वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च। मम्प्रयोगविधिं कृत्वा प्रयुञ्जीत सुशिक्षितम्। विजित्य तु यथान्यायं ततो बन्धं समाचरेत्। कट्याम्बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम्। दृढं निगृह्य वामेन निष्कर्षेद्धक्षिणेन तु। षडङ्गुलपरीणाहं सप्तहस्तसमुच्छ्रितम्। अयोमय्यः शलाकाश्च कर्माणि विविधानि च। अर्द्धहस्ते समे चैव तिर्य्यगूर्द्ध्वगतं तथा। योजयेद्विधिना येन तथा त्वङ्गदतः शृणु। तूणचर्मावनद्धाङ्गं स्थापयित्वा नवं दृढम्। करेणादाय लगुडं दक्षिणाङ्गुलकं नवम्। उद्यम्य घातयेद्यस्य नाशस्तेन रिपोर्दृढम्। उभाभ्यामथ हस्ताभ्यां कुर्य्याद्यस्य निपातनम्। अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्त्तिता। वाहानां श्रमकरणं प्रचारार्थं पुरा तवं २५० “अग्निरुवाच। भ्यान्तमुदुभ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतम्। सम्प्रातं समुदीर्णञ्च श्येनपातमथाकुलम्। उद्धूतमवधूतञ्च सध्यं दक्षिणमेव च। अनालक्षितविस्फोटौ करालेन्द्रमहामुखौ। विकरालनिपातौ च विभीषणभयानकौ। समग्रार्द्धतृतीयांशपादपादार्द्धवारिजाः। प्रत्यालीढमथालोढं वराहं लुलितन्तथा। इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे। परावृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितम्। ऊर्द्ध्वोत्क्षिप्तमधःक्षिप्तं सन्धारितविधारितम्। श्येनपातं गजपातं ग्राहग्राह्यन्तथैव च। एवमेकादशविधा ज्ञेयाः पाशविधा रणाः। ऋज्वायतं विशालञ्च तिर्य्यग्भ्रामितमेव च। पञ्चकर्म विनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः। छेदनं भेदनं पातो भ्रमणं शमनं तथा। विकर्त्तनं कर्त्तनञ्च चक्रकर्मेदमेव च। आस्फोटः क्ष्वेडनं भेदस्त्रासान्दोलितकौ तथा। शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितम्। दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम!। ऋजुपक्षे समायातं तोमरस्य प्रकीर्त्तितम्। आहतं विहृतं चैव प्रभूतङ्कमलासनम्। ततोऽर्द्धगात्रं नमितं वामदक्षिणमेव च। आवृत्तञ्च परावृत्तं पादोद्धूतमवप्लुतम्। हंसमार्गं विमर्दञ्च गदाकर्म प्रकीर्त्तितम्। करालमवधातञ्च दंशोपप्लुतमेव च। क्षिप्तहस्तं स्थितं शून्यं परशोस्तु विनिर्दिशेत्। ताडनं छेदनं विप्र! तथा चूर्णनमेव च। सुद्गरस्य तु कर्माणि तथा प्लवनघातनम्। संश्रान्वमथ विश्रान्तं गोविसर्गं सुदुर्द्धरम्। भिन्दिपालख कर्माणि लगुडस्य च तान्यपि। अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम!। वज्रस्येतानि कर्माणि पट्टिशस्य च तान्यपि। हरणं छेदनं घातो बलोद्धारणमायतम्। कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा। त्रासनं रक्षणं घातो बलाद्धरणमायतम्। क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु। सन्त्यागमवदंशश्च वराहोद्धूतकं तथा। हस्तावहस्तमालीनमेकहस्तावहस्तके। द्विहस्तबाहुपाशे च कटिरेचितकोद्गते। उरोललाटघाते च भुजाविधमनन्तथा। करोद्धूतं विमानञ्च पादाहति विपादिकम। गात्रसंश्लेषणं शान्तं तथा गात्रविपर्य्ययः ऊर्द्ध्वप्रहारं घातञ्च गोमूत्रं सव्यदक्षिणे। पारकन्तारकं गण्डं कवचं विधमाकुलम्। तिर्य्यग्बन्धमपामार्गं भीमवेगं सुदर्शनम्। सिंहाक्रान्तं गजाक्रान्तं गर्दभाक्रान्तमेव च। गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च। आकर्षणं विकर्पञ्च बाहूनां मूलमेव च। ग्रीवाविपरिवर्त्तञ्च पृष्ठमङ्गं सुदारुणम्। पर्य्यासनविपर्य्यासौ पशुमारमजाविकम्। पादप्रहारमास्फोटं कटिरेचितकन्तथा। गात्राश्लेषं स्कन्धगतं महीव्याजनमेव च। उरोललाटघातञ्च विस्पष्टकरणन्तथा। उद्धूतमवधूतञ्च तिर्य्यङ्मार्गगतं यथा। गजस्कन्धमवक्षेपमपराङ्मुखमेव च। देवमार्गमधोमार्गममार्गगमनाकुलम्। यष्टिघातमवक्षेपो वसुधादारणन्तथा। जानुबन्धं भुजाबन्धं गात्रबन्धं सुदारुणम्। विपृष्ठं सोदकं श्वभ्रं भुजावेष्टितमेव च। सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर्गजादिभिः। वराङ्कुशधरौ चोभौ एको ग्रीवागतोऽपरः। स्कन्धगौ द्वौ च धानुष्कौ द्वौ च खड्गधरौ गजे। रथे रथे गजे चैव तुरङ्गाणां त्रयं त्रयम्। धानुष्काणान्त्रयं प्रोक्तं रक्षार्थे तुरगस्य च। धन्विनो रक्षणार्थाय चर्मिणन्तु नियोजयेत्। स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रन्त्रैलोक्यमोहनम्। यो युद्धे याति स जयेदरीन् सम्पालयेद्भुवम्”। धनूंषि धनुषः प्रयोगोपसंहारान् वेत्ति जानाति विदअण् उप० स०। २ धानुष्के त्रि० ३ विष्णौ पु०। “धनुर्द्धरो धनुर्वेदः” विष्णुसं०। भावे घञ्। ४ विद्याभेदे अष्टादशविद्याशब्दे ५४२ पृ० दृश्यम्।

धनुष = पु० धन–बा० उषन्। ऋषिभेदे “धनुषाख्योऽथ रैभ्यश्च अर्वावसुपरावसू” भा० शा० ३३८ अ०।

धनुषाक्ष = पु० ऋषिभेदे “आससाद महावीर्य्यं धनुषाक्षं मनीषिणम्” भा० व० १२५ अ०।

धनुष्कपाल = पु० धनुषः कपालमिव इसुसोः सामर्थ्ये षत्वम्। धनुरवयवे। कस्कादिषु पाठस्तु असामर्थ्यार्थः।

धनुष्कर = त्रि० धनुः करेऽस्य इसुसोः सामर्थ्ये षत्वम्। धनुर्हस्ते १ धानुष्के। धनुः करोति कृ–ट। २ चापकारके शिल्पिभेदे त्रि०। अहत्वादौ तु अण् धनुष्कार। तत्करमात्रे त्रि०। “इषुकारं हेत्यै धनुष्कारं कर्मणे ज्याकारं दिष्टाय” यजु० ३०। ७।

धनुष्पाणि = त्रि० धनुः पाणौ यस्य इसुसोः सामर्थ्ये षत्वम्। धनुर्हस्ते “युवजानिर्धनुष्पाणिः” भट्टिः।

धनुष्मत् = त्रि० धनुः धार्य्यत्वेनास्त्यस्य मतुप्। धनुर्द्धरे अमरः। “भीष्मो धनुष्मानुपजान्वरत्निः। (जामदग्न्यः) भट्टिः।

धनुस = न० धन–शब्दे उसि। १ चापे शरनिक्षेपयन्त्रभेदे अमरः। ज्याकर्षणोत्थशब्दयोगात्तस्य तथात्वम्। तल्लक्षणम्। “धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं तथैव च। कोमलं वर्णदृढता तयोर्गुण उदाहृतः। सुखसम्पत्तिकरणं सममुष्ट्यायतं घनुः। विपदो मुष्टिवैषम्ये तदङ्गे भङ्गमावहेत्” युक्तिकल्पतरुः। धनुर्वेदशब्दे तल्लक्षणादि दृश्यम्। २ पियालवृक्षे पु० मेषावधिके ३ नवमे राशौ “ना स्वर्णभाः शैलसमोदयोऽतिशब्दोदिनं प्राक् दृढसूक्ष्मपीतः। रक्तोष्णपित्तो धनुरल्पसूतिसङ्गो द्विमूर्त्तिर्द्विपदोग्निरुग्रः” नी० ता०। अयञ्च राशिः २१६०० कलात्मकस्य राशिचक्रस्य १४४०० कलोत्तरं १८०० कलात्मकः मूलपूर्वाषाढोत्तराषाढा प्रथमचरणात्मकः। “मूलं पूर्वाषाढा प्रथमश्चाप्यतारांशको धन्वी” ज्यो० त०। अस्य स्वरूपं “चापी नरोऽश्व जघनः” वृहज्जा०। “अश्वतुल्यजघनः नरस्तेन चतुष्पादित्यर्थः। यथाह यवनेश्वरः। “धन्वी मनुष्यो हयपश्चिमार्द्धस्तमाहुः” भट्टोत्पलः। ४ चतुर्हस्तमाने क्रोशशब्दे ३३४० पृ० दृश्यम्। ५ धनुर्द्धरे त्रि० शब्दार्थचि० गोलक्षेत्रस्य व्यासार्द्धात् न्यूने ६ अंशभेदे चापशब्दे क्षेत्रशब्दे च दृश्यम्। “ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम्। सङ्ख्यातत्त्वाश्विसंवर्गे संयोज्य धनुरुच्यते” सू० सि०। “यस्य धनुः कर्त्तुमिष्टं तस्मिन्न शुद्धपूर्वं ज्यापिण्डं न्यूनीकृत्य शेषं पञ्चाकृतिगुणं तद्विवरोद्धृतं तयोः शुद्धाशुद्धपिण्डयोरन्तरेण भक्तं फलं शुद्धज्या यतमा ततमसङ्ख्यातत्त्वाश्विनोः संवर्गे घाते संयोज्य सिद्धं धनुः कथ्यते। अत्रोपपत्तिः। ज्या यतमा शुद्ध्यति ततमायाश्चापकलायास्ततमसङ्ख्यागुणिततत्त्वाश्विनः ज्यान्तरेण तत्त्वाश्विकलास्तदा शेषज्यायाः केत्यनुपातागतफलयुता इति वैपरीत्येन सुगमतरा” रङ्ग०। बहु० अनङ्। धृतधन्वा इत्यादि धन्वना शब्देनैव तत्प्रयोगोपपत्तौ धृतधनुरित्यादिप्रयोगनिरासार्थमनङ्विधानम्।

धनुस्तम्भ = पु० सुश्रुतोक्ते विकृते वायुभेदे। “धनुस्तुल्यं नमेद्यस्तु स धनुस्तम्भसंज्ञकः” तत्र लक्षितम्।

धनू = स्त्री धन–ऊ। धनुषि उज्व०।

धनेयक = न० धन्याक + पृषो०। धन्याके भरतः।

धनेश = पु० ६०। १ कुवेरे “इमे चैवाष्टकलशाः निधीनामंशसम्भवाः। अक्षया राजराजस्य धनेशस्य महात्मनः” हरिवं० १०८। २ लग्नात् द्वितीयस्थानपतौ च। धनेश्वरादयोऽप्यत्र। “धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे” भा० उ० १९२ अ०। “भाग्येशराज्येशधनेश्वराणामेकोऽपि चन्द्राद्यदि केन्द्रवर्त्ती। स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसामाज्यपति- त्वमेति” ज्यो० त०। ३ विष्णौ “रत्नगर्भो धनेश्वरः” विष्णुस०।

धन्ध = न० धन–बा–ध। अल्पाकारे त्रिका०। स्वार्थे ष्यञ् धान्ध्यमप्यत्रार्थे त्रिका०।

धन्य = त्रि० धनं लब्धा “धनगणं लब्धा” पा० यत्। धनस्य निमित्तं संयोग उत्पातो वा “गोद्व्यच” पा० यत्। धनाय हितं वा यत्। १ धनस्य लब्धरि २ धननिमित्ते संयोगादौ ३ धनप्रयोजनके ४ धनाय हिते ५ श्लाघ्ये च। ६ अश्वकर्णवृक्षे पु० राजनि० ७ सुखवति ८ सुकृतिनि त्रि० अमरः। “धन्यासि वैदर्भि! गुणैरुदारैः” नैष०। “धन्यास्ता गुणरत्नरोहणभवो धन्या मृदन्यैव सा” सा० द०। “धन्योऽसि यस्य हरिरेष समक्ष एव” माघः। “धन्यं यशस्यमायुष्यं स्वर्ग्यं चातिथिपूजनम्” मनुः। ९ कृतार्थे त्रि०। १० विष्णौ पु० “सुमेधा मेधजो धन्यः” विष्णुस०। “धन्यः कृतार्थः” भा०। ११ आमलक्यां धात्र्याम् १२ उपमातरि मेदि० १३ पिण्डारकवनदेवताभेदे च स्त्री १४ धन्याके स्त्री हेमच०।

धन्यव्रत = न० धनाय हितं यत् धन्यं कर्म०। वराहपु० उक्ते व्रतभेदे।

धन्याक = पु० धन्यते भक्षार्थिभिः पिन्याकादि० नि०। (धनिया) ख्याते पदार्थे “शिलायां साधुसम्पिष्टं धन्याकं वस्त्रगालितम्। शर्करोदकसम्मिश्रं कर्पूरादिसुसंस्कृतम्। नवीने मृण्मये पात्रे स्थितं पित्तहरं परम्” भावप्र०।

धन्व = गतौ सौ० भ्वा० प० सक० सेट्। धन्वति अधन्वीत् दधन्व। “राजाय धन्याय धन्वसि” ऋ० ९। ८६। ३१ “परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः” ९। ९७। २६।

धन्व = न० धन्व–अच्। १ चापे भरतः। “धनुर्द्धराय देवाय प्रियधन्वाय धन्विने” भा० द्रो० १०३ अ०। २ धन्वन्तरिपितरि राजभेदे “काश्यस्य काश्यपः पुत्रो राजा दीर्घतपास्तथा। धन्वस्तु दीर्घतपसो धन्वात् धन्वन्तरिः सुतः” हरिवं० २९ अ०।

धन्वङ्ग = पु० धनोः धनुषोऽङ्गमिवाङ्गमस्य। (धामनि) ख्याते वृक्षभेदे “धन्वङ्गः कफपित्तास्रकासहृत् तुवरो मधुः। वृंहणो बलकृद्रूक्षः सन्धिकृद् व्रणरोपणः” भावप्र०।

धन्वचर = त्रि० धन्वना धनुषा सह चरति चर–ट। १ धानुष्के। “धन्वचरो न वंसगः” ऋ० ५। ३६। १।

धन्वज = धन्वनि मरुदेशे जायते जन–ड। १ मरुभवे “जङ्गलानां धन्वजानाञ्च पिप्पल्यासवम्” सुश्रुतः।

धन्वदुर्ग = न० धन्वना वृतं दुर्गम्। चतुर्दिशं पञ्चयोजनमरुवेष्ठिते दुर्गभेदे दुर्गशब्दे दृश्यम्।

धन्वन् = पु० धवि–कनिन्। १ अल्पोदकदेशे मरुदेशे अमरः। धन्वति शरोऽस्मात् अपादाने कनिन्। २ चापे ३ स्थलमात्रे च मेदि०। ४ आकाशे माधवः “धन्वच्युत इषां न यामनि” ऋ० १। १६८। ५। धन्वच्युतः आकाशच्युतः धन्वन्शब्दोऽन्तरीक्षस्य वचनः तेन तत्स्थमुदकं लक्ष्यते” भा०।

धन्वन = पु० धन्व–सौ० ल्यु। (धामनि) इति ख्याते धन्वङ्गवृक्षे रत्नमाला। “चन्दनैः स्यन्दनैः सालैः सरलैर्देवदारुभिः। वेतसैर्धन्वनैश्चापि ये चान्ये वलवत्तराः” भा० शा० ११५ अ०।

धन्वन्तर = न० चतुर्हस्तमिते दण्डरूपे परिमाणभेदे। “वितस्तिः स्यादतो द्वाभ्यां हस्तः स्यात्तच्चतुष्टयम्। दण्डो धन्वन्तरं तस्य सहस्रद्वितयेन तु” (क्रोशः) त्रिका०।

धन्वन्तरि = पु० धनोः तन्निमित्तशल्यस्यान्तं पारमृच्छति ऋगतौ इन् किच्च। १ समुद्रोत्थिते देववैद्यभेदे। धन्वन्तरिस्ततो देवोवपुष्मानुदतिष्ठत” भा० आ० १८ अ०। द्वापरे तस्योत्पत्तिकथा हरिवं० १९ अ० यथा। “धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ!। स सम्भूतः समद्रात्तुमथ्यमानेऽमृते पुरा। उत्पन्नः कलशात् पूर्वं सर्वतस्तु श्रिया वृतः। अभ्यसन् सिद्धिकार्य्यं हि विष्णुं दृष्ट्वा हि तस्थिवान्। अब्जस्तमिति होवाच तस्मादब्जस्तु स स्मृतः। अब्जः प्रोवाच विष्णुं वै तनयोऽस्मि तव प्रभो!। विधत्स्व भागं स्थानञ्च मम लोकेश्वरेश्वर!। एवमुक्त्वा स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः। कृतो यज्ञ विभागो हि यज्ञियैर्हि सुरैः पुरा। देवेषु विनियुक्तञ्च विधिहोत्रं महर्षिभिः। न शक्यमुपहोमो वै तुभ्यं कर्तुं कदाचन। अर्वाग्भूतोऽसि देवानां पुत्रस्त्वं हि महीश्वरः। द्वितीयायान्तु संभूत्यां लोके ख्यातिं गमिष्यसि। अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति। तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो!। चरुमन्त्रैर्व्रतैर्जप्यैर्यक्ष्यन्ति त्वां द्विजातयः। अष्टधा त्वं पुनश्चैवमायुर्वेदं विधास्यसि। अवश्यभावी ह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना। द्वितीयं द्वापरं प्राप्य भवितां त्वं य संशयः। इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः। द्वितीये द्वापरे प्राप्ते सौनहोत्रिः स काशिराट्। पुत्रकामस्तपस्तेपे धन्वो दीर्घं महत्तदा। प्रपद्ये देवतां तान्तु या मे पुत्रं प्रदास्यति। अब्जं देवं स पुत्रार्थे तदाराधितवान्नृपः। ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम्। यदिच्छसि वरं ब्रूहि तत्ते दास्यामि सुव्रत!। नृप उवाच। भगवन्! यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान् भव। तथेति समनुज्ञाय तत्र वान्तरधीयत। तस्य गेहे ममुत्षन्नो देवो धन्वन्तरिस्तदा। काशिराजो महाराजः सर्वरोगप्रणाशनः। आयुर्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियम्। तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्य पादयत्। धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः। अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः। पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः। दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत्” आयुर्वेदशब्ददर्शित वाक्ये काशिराजस्य दिवोदासस्य धन्वन्तरितोक्तिः तदपत्ये उपचारात् अतो न विरोधः। “धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिर्नाम्ना नृणाम् पुरुरुजां रुज आशु हन्ति। यज्ञे च भागममृतायुरवावरुन्ध आयुष्यवेद मनुशास्त्यवतीर्य्य लोके” भाग० २। ७। २२। “स वै भगवतः साक्षात् विष्णोरंशांशसम्भवः। धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक्”। “नारायणांशो भगवान् स्वयं धन्वन्तरिर्महान्। पुरा समुद्रमथने समुत्तस्थौ महोदधेः। सर्वबेदेषु निष्णातो मन्त्रतन्त्रविशारदः। शिष्यो हि वैनतेयस्य शङ्करस्योपशिष्यकः” व्रह्म० वैव० श्रीकृष्ण जन्मखण्डे ५१ अ०। २ दिवोदासे त्रिका०। विक्रमादित्यसभास्थनवरत्नान्तर्गते कविभेदे ज्योतिर्वि०। “धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टथटकर्परकालिदासाः। ख्यातो वराहमिहिरो नृपतेः समायां रत्नानि वै वररुचिर्नव विक्रमस्य”। अत्र वराहमिहिरौ इति शब्दकल्पद्रुमे द्विवचनान्ततया पाठः प्रामादिक एव द्विवचनान्तत्वे नवसंख्यानुपपत्तेः वराहो मिहिर इति विग्रहः वृहज्जातकटीकायां भट्टोत्पलेनोक्तः। अतएव “वराहमिहिरात्मजेन पृथुयशसा” तत्पुत्रकृतषट्पञ्चाशिकायामुक्तं वराहमिहिरात्मजत्वमात्मनो विशेषणमुपपद्यते वराहमिहिरयोर्भिन्नत्वे तदनुपपत्तेः इति सूक्ष्ममीक्षणीयम्।

धन्वन्तरिग्रस्ता = स्त्री ६ त०। कटुक्यां राजनि०।

धन्वन्य = त्रि० धन्वनि मरुदेशे भवः यत्। मरुदेशभवे “शंनो आपो धन्वन्याः शमनः सन्त्वनूप्याः” अथ० १। ६। ४।

धन्वपति = पु० ६ त०। मरुदेशपतौ। तत इदमर्थादौ अश्वपत्या० अण्। धान्वपत तत्सम्बन्धिनि त्रि०।

धन्वयवास = पु० ६ त०। मरुभवे यवासभेदे दुरालभाभेदे भरतः स्वार्थे क। धन्वयवासक तत्रार्थे राजनि०। धन्वयास तत्रार्थे अमरः।

धन्वसह = पु० धन्वं धनुर्ग्रहं सहते सह–अच्। धनुर्द्धरे, “धन्वसहा नीयते” ऋ० १। १२७। ३।

धन्वायन = त्रि० धन्वा मरुदेशोऽयत्यनेन करणे ल्युट्। मरुदेशगमनसाधने स्त्रियां ङीप्। “भीमधन्वायनी सेना धृष्टद्युम्नेन पालिता” भा० उ० १९७ अ०।

धन्वायिन् = त्रि० धन्वना सह एति गच्छति इ–णिनि ६ त०। १ धनुर्द्धरे २ रुद्रभेदे पु० इषुमद्भ्यो धन्वायिभ्यश्च वो नमो नमः” यजु० १६। २२।

धन्विन् = त्रि० धन्वं चापोऽस्त्यस्य व्रीह्या० इनि। धनुर्द्धरे अमरः। “आकर्णकृष्टमपि कामितया स धन्वी” रघुः। “पुंभिर्न कैश्चदपि धन्विभिरन्वबन्धि” माघः। २ विदग्धे ३ अर्जुने पु० विश्वः ४ अर्जुनवृक्षे ५ दुरालभायां ६ बकुलवृक्षे च पु० राजनि०। ७ विष्णौ पु० “ईश्वरो विक्रमी धन्वो” विष्णुस० ८ तामसमनोःपुत्रभेदे पु० “तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः। तामसस्य मनोरेते दश पुत्रा महाबलाः” हरिवं० ७ अ०। ९ धनूराशौ च धनुस्शब्दे दृश्यम्।

धन्विन = पुंस्त्री धन्व–बा० इनन्। शूकरे “दिव्यो धन्विन उक्तो कोलः स्यात् शूकरो गौरुस्राः” वृह० ८८ अ०।

धन्विस्थान = न० ६ त०। “वैक्लवं समपादञ्च वैशाखं मण्डलं तथा। प्रत्यालीढं तथालीढं स्थानान्येतानि धन्विनाम्” इत्युक्तेषु धानुष्कस्थितिभेदेषु। धनुर्वेदशब्दे दृश्यम्।

धम = ध्माने सौ० पर० सक० सेट्। धमति अधमीत् दधाम। “वायुना धम्यमानोऽत्र द्वश्यतेऽग्निः क्वचित् क्वचित्” भा० व० २९५ अ०। “ते बाहुभ्यां धमितमग्निमात्मनि” ऋ० १। २४। ७ “अयं बधेऽपि वरुणाऽधमत्” ताण्डब्रा०। “विक्रम्य विधमिष्यामि निवर्त्तध्वं महामुराः” हरिवं० २५१ अ०।

धम = त्रि० धम–ध्माने अच्। १ शब्दकर्त्तरि २ अग्निसंयोगकर्त्तरि च।

धमक = त्रि० ध्मा–क्वुन् धमादेशश्च। ध्मानकरे उज्ज्वल०।

धमधम = पु० धम + प्रकारे द्वित्वम्। पार्वत्याः क्रोधसंभूते कुमारानुचरगणभेदे। “उल्कामाली धमधमो ज्वालाजिह्वः प्रमर्द्दनः” हरिवं० १६८ अ०। कुमारामुचरमातृभेदे स्त्री “ख्याता दहदहा चैव तथा धमधमा नृप!” भा० श० ४७ अ०।

धमन = त्रि० धम–ध्माने सौ० युच्। १ भस्त्राध्मायके २ क्रूरे च मेदि० ३ नले तृणभेदे अमरः।

धमनि(नी) = स्त्री धम–सौ० करणे अनि वा ङीप्। नाडीभेदे सिराभेदे। २ हट्टविलासिन्याम् अमरः। ३ हरिद्रायां ४ ग्रीवायाम् हेमच० ५ पृश्निपर्ण्यां राजनि०। ६ नाडिकायां शाकभेदे भावप्र०। ७ वाक्ये निरु०। सुश्रुते धमनीभेदकार्य्यादिकमुक्तं तच्च कायशब्दे १९१६ पृष्ठादौ दृश्यम्। ततः सिध्मा० लच्। धमनील तद्युक्ते त्रि०।

धम्मिल्ल = पु० सौ० धम–विच् मिल–क पृषो० कर्म०। संयतेषु केशेषु (खो~पा)। कुसुमगर्भमौक्तिकादिना बहिर्बद्धे केशकलापे भरतः। “धम्मिल्ले नवमल्लिका समुदयो हस्ते सिताम्भोरुहम्” “धम्मिल्लमर्द्धमुक्तं कलयति तिलकं तथा शकलम्” सा० द०। पृषो० धम्मल धम्मिलावप्यत्र शब्दच०।

धय = त्रि० घेट–श। पानकर्त्तरि धेटष्टित्त्वात् स्त्रियां ङीपिप्राप्ते स्वशोऽन्यत्र नेष्यते इति हरदत्तोक्तेः न ङीप्।

***