द्वियजुस् = स्त्री द्वे यजुषी उपधाने अस्याः। १ इष्टकाभेदे द्वे यजुषी इव शरीरे अस्य। २ यजमाने च यथोक्तं शत० ब्रा० “अथ द्वियजुषमुपदधाति। इन्द्राग्नी अकामयेतां स्वर्गं लोकमियावेति तावेतामिष्टकामपश्यतां द्वियजुषमिमामेव तामुपादघातां तामुपधायास्यै प्रतिष्ठायै स्वर्गं लोकमैतां तथैयैतद्यजमानो यद्द्वियजुषमुपदधाति येन रूपेण यत् कर्म कृत्वेन्द्राग्नी स्वर्गं लोकमैतां तेन रूपेण तत्कर्म कृत्वा स्वर्गं लोकमयानीति सा यद्द्वियजुर्नाम द्वे ह्येतां देवते अपश्यतां यद्ध्येव द्वियजुषमुपदधाति यजमानो वै द्वियजुः तदाहुः। यदसावेव यजमानो योऽसौ हिरण्मयः पुरुषोऽथ कतमदस्येदं रूपमिति दैवो वाअस्य स आत्मामानुषोऽयं तद्यत्स हिरण्मयो भवत्यमृतं वा अस्य तद्रूपं देवरूपममृतं हिरण्मयमथ यदियं मृदः कृता भवति मानुषं ह्यस्येदं रूपम्। स यदमूमेवोपदध्यात्। नेमामपशिंष्यात्क्षिप्रे हास्माल्लोकाद्यजमानः प्रेयादथ यदि मामपशिनष्टि यदेवास्येदं मानुषं रूपं तदस्यैतदपशिनष्टि तथेहानेनात्मना सर्वमायुरेति” शत० ब्रा० ७। ४। २। १६ यतो द्वे देवते एतामपश्यतामत एव द्वाभ्यां यजुर्भ्यामुपधीयते। स हिरण्मयः पुरुषोऽस्य यजमानस्य देवत्व प्रयुक्त आत्मा शरीरम्। द्वियजुरिष्टका मनुष्यत्वपयुक्त आत्मेत्यर्थः हिरण्मयत्वात् पुरुषस्य देवशरीरत्वं मृण्मयत्वाद् द्वियजुषो मानुषशरीरात्मत्वम्” भा०। ते च यजुषी शत० ब्रा० ७४२२१ उक्ते “यास्ते अग्ने! सूर्ये रुचः” १। “याश्च देवाः! सूर्ये रुचः” २। इति।
द्वियमुन = अव्य० द्वयोर्यमुनयोः समाहारः “नदीभिश्च” पा० “नदीभिः संख्या प्राग्वत् समाहारे चायमिष्यते” सि० कौ० “समाहारे चेति” पा० सूत्रे चकार एवकारार्थकः समाहारान्यव्यवच्छेदकस्तेन द्विगीरयमपवादोऽव्ययीमावः” मनो०। द्वयोर्यमुनयोः समाहारे।
द्विर = पु० द्वौ रौ रेफौ वाचकशब्देऽस्य। रेफद्वयघटितभ्रमरशब्दवाच्ये १ मधुकरे २ वर्वरे च।
द्विरद = पु० द्वौ रदौ प्रधानतया यस्य। १ गजे अमरः २ नागकेशरे च “सममेव समाक्रान्तं द्वयं द्विरदगामिना” रघुः “दुष्यैरिव क्षितिभृतां द्विरदैरुदारम्” माघः।
द्विरदान्तक = पुंस्त्री० ६ त०। सिंहे राजनि० स्त्रियां जातित्वात् ङीष्।
द्विरदाराति = पु० ६ त०। १ शरभे अष्टापदे जन्तुभेदे पार० नि० २ सिंहे च।
द्विरदाशन = पुंस्त्री० द्विरदमश्राति अश–भोजने ल्यु। सिंहे पार० नि० स्त्रियां जातित्वात् ङीष्।
द्विरभ्यस्त = त्रि० द्विर्वारमभ्यस्तः। द्विगुणिते द्विरुक्ते।
द्विरशन = न० द्विर्वारमशनम्। द्विवारभोजने “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम्। अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः” कात्यायनसं०
द्विरसन = पुंस्त्री द्वे रसने जिह्वे यस्य। द्विजिह्वे सर्पे हारा० स्त्रियां जातित्वात् ङीष्।
द्विरागमन = न० द्विर्द्विवारमागमनम्। विवाहात् परत्र पितृगेहात् पतिगृहे वध्वाः पुनरागमने। तत्र नक्षत्रादि तत्स्वरूपञ्च ज्यो० त० उक्तं यथा
“श्रीपतिसंहितायां प्रचेताः “पुष्यादित्यसमीरणादितिवसुस्वात्युत्तरारेवतीतारानायकरोहिणीषु शुभदामेषालिकुम्भे रवौ। वारेष्विज्यसितेन्दुवित्सु शुभदे तारे प्रशस्ते विघौ कन्यामन्मथमीनतौलिमृगभे स्यादङ्गनाद्व्यागमः”। नारायणपद्धतौ “वृत्ते पाणिग्रहे गेहात् पितुः पतिगृहं प्रति। पुनरागमनं वध्वास्तद् द्विरागमनं विदुः” ज्योतिःसारसंग्रहे “विवाहमासि प्रथमं वध्वा नागमनं यदि। तदा सर्वमिदं चिन्त्यं युम्माद्यव्दं विचक्षणैः” कृत्यचिन्तामणौ “श्वश्रूं हन्त्यष्टमे वर्षे श्वशुरञ्च दशाव्दके। संप्राप्ते द्वादशे वर्षे पतिं हन्ति द्विरागमे” मत्स्यसूक्ते “भुक्त्वा पितृगृहे कन्या भुङ्क्ते स्वामिगृहें यदि। दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः” अत्र विहितनक्षत्रादि मुहू० पी० उक्तं यथा “चरेदथौजहाथने घटालिमेषगे रवौ रवीज्यशुद्धियोगतः शुभग्रहस्य वासर। नृयुग्ममीनकन्यकातुलावृषे विल- ग्नके द्विरागमं लघुध्रुवे चरेऽस्रपे मृदूडुनि। दैत्येज्योह्यभिमुखदक्षिणे यदि स्याद्गच्छेयुर्न हि शिशुगर्भिणी नवोढाः। वालश्चेत् व्रजति विपद्यते नवोढा चेद्बन्ध्या भवति च गर्भिणी त्वगर्भा। नगरप्रवेशविषयाद्युपद्रवे करपीडने विबुधतीर्थयात्रयोः। नृपपीडने नवबधूप्रवेशने प्रतिभार्गवो भवति दोषकृन्नहि। पित्र्ये गृहे चेत् कुचपुष्पसम्भवः स्त्रीणां न दोषः प्रतिशुक्रसम्भवः। भृग्वङ्गिरोवत्सवसिष्ठकश्यपात्रीणां भरद्वाजमुनेः कुले तथा” मु० चि० “पूर्वं नववधूप्रवेशे जाते तदनन्तरं परावृत्यापि पितृगृहप्राप्तायामपि वध्वा यथेष्टवर्षाणि स्थितायाः पुनर्भर्तृगृहप्रवेशो द्विरागमशब्दवाच्यः। अयंचाचारः प्राच्योदीच्यपाश्चात्त्यानामेवेति। चरेदिति। अथ वधूप्रवेशकथनानन्तरं पुनर्वधूप्रवेशं द्विरागमनं वक्ष्यमाणनक्षत्रादिषु चरेत् कुर्यात्कदा? ओजहायने विषमवर्षे प्रथमे तृतीये पञ्चमे वा वर्षे सति। तथा घटालिमेषगे कुम्भवृश्चिकमेषस्थिते रवौ। तथा वरस्य रवीज्यशुद्धिः रवेः सूर्यस्य इज्यस्य गुरोः शुद्धिस्तयोर्योगतः। शुभग्रहस्य सानबुधगुरुशुक्राणामन्यतमस्य वासरे सति। मिथुनमीनकन्यातुलावृषाणामन्यतमे लग्ने शुभग्रहावलोकिते शुभयुक्ते वा सति। लघून्यश्विनीपुष्यहस्ताः ध्रुवाणि प्रसिद्धानि चराणि श्रवणादित्रयपुनर्वसुस्वात्यः अस्रपोराक्षसस्तद्भं मूलं मृदूनि प्रसिद्धानि एषु भेषु द्विरागमः प्रशस्त इत्यर्थः। यदाह ऋक्षोच्चयः “तिष्यादित्यसमीरणादितिवसुत्रीण्युत्तराण्यश्विनीरोहिण्यः शुभदाश्च वर्षमसमं मेषालिकुम्भे रविः। कन्यामन्मथमीनमे नववधूयानं वृषे तौलिके देवाचार्यसितेन्दुसौम्यदिवसे शुद्धे गुरौ भास्करे” इति। ग्रन्थकर्त्रात्र कानिचिद्भान्यधिकानि उक्तानि तानि राजमार्तण्डेनोक्तानि। “नीहाराशु धनोत्तरादितिगुरुब्राह्मानुराधाश्विनीमूलाहस्करवारुणानिलहरित्वाष्ट्रेषु शस्ते तिथौ। कुम्भाजालिगते रवौ शुभकरे प्राप्तोदये भार्गवे सूर्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे। हित्वा दिक्प्रतिलोमगौ बुधसितौ लालाटगं दिक्पतिं चानीता गुणशालिनी नववधूर्नित्योत्सवैर्मन्दिरम्”। लालाटगान् यात्रायां वक्ष्यति। शुक्रास्तनिषेधस्तु सामान्यतो वाप्यारामेत्यादिनोक्त एवेति न पुनरुक्तः। यद्यपि प्राक् सामान्येन कालशुद्धिरुक्ता तथाप्यावश्यकत्वे। “चैत्रे पौषे हरिस्वप्ने गुरोरस्ते मलिम्लुचे। नवोढागमनं नैव कृते पञ्च- त्वमाप्नुयादिति” बादरायणवाक्यान्नैव वधूपवेशः कार्यः। दैत्येज्य इति। यदि दैत्येज्यः शुक्रोऽभिमुखदक्षिणे गन्तव्यदिगभिमुखे गन्तुर्दक्षिणदिग्भागे वा स्थितः स्यात्तदा शिशुर्बालः गर्भिणी गर्भवती नवोढा नूतनपरिणोता व्रजेत्तदा बालः विपद्यते म्रियते। गर्भिणी त्वगर्भा गर्भरहिता स्यात् गर्भस्राववती भवेत्। नूतनपरिणीता नवोढा बन्ध्या अपत्यसम्भवरहिता स्यात्। यदाह बादरायणः “अस्तङ्गते भृगोः पुत्रे तथा सम्मुखमागते। नष्टे जीवे निरंशे वा नैव सञ्चालयेद्वधूः। गर्भिण्या कालकेनापि नववध्वा द्विरागमे। पदमेकं न गन्तव्यं शुक्रे सम्मुखदक्षिणे। गुर्विणी स्रवते गर्मं बालो वा मरणं व्रजेत्। नवा वधूर्भवेद्वन्ध्या शुक्रे सम्मुखदक्षिणे”। यदि शुक्रः पूर्वस्यामुदितस्तदा पूर्वदिशि गन्तुः सम्मुख एव पश्चिमां गन्तुः पृष्ठे, दक्षिणां गन्तुर्वाभे, उत्तरां गन्तुर्दक्षिणे स्यात्। तदा पूर्वोत्तरे दिशौ न गच्छेत् किन्तु पश्चिमदक्षिणे दिशौ गच्छेत्। यदि पश्चिमायामुदितः शुक्रः तदा पश्चिमां गन्तुः सम्मुख एव दक्षिणां गन्तुः दक्षिणः। पूर्वां गन्तुः पृष्ठे उत्तरां गन्तुर्वामः। तदा पश्चिमदक्षिणे दिशौ न यायात्। किन्तु पूर्वोत्तरे दिशौ गच्छेत्। “पृष्ठे भृगौ पुत्रवतीं प्रयाणे कान्तां कुलीनां सुभगां करोति। अग्रे सुखो वै विदधाति शुक्रो वैधव्यशोकौ खलु चास्त शुक्रः” इति। केचिद्दीपोत्सवप्रतिपदि नक्षत्रादिनियमं विनैव बधूप्रवेशं वाञ्छन्ति। उक्तञ्च “अस्तङ्गते गुरौ शुक्रे सिंहस्थे वा वृहस्पतौ। दीपोत्सवबलेनैव कन्या भर्तृगृहं विशेत्” इति तदेतच्छिष्टाचारतो ज्ञेयम्। अत्र लग्नशुद्धिमाह बादरायणः “उपचयगते जीवे भृगौ केन्द्रमुपागते। शुद्धे लग्ने शुभाक्रान्ते गन्तव्यं भर्तृमन्दिरम” नगरप्रवेशे, विषयोदेशः आदिशब्देन ग्रामः। तस्योपद्रवे अन्यराजकृतोपद्रवे सति दुर्भिक्षादिना वोपद्रवे सति। गन्तव्यदिशि प्रतिशुक्रकदोषो नास्ति। करपीडने विवाहोद्देशेन यात्रायां सत्यां विबुधा देवास्तेषां यात्रा नगरकोटयात्रा देवयात्रा तीर्थयात्रा प्रयागादियात्रा तयोः। नृपपीडने नृपाद्राज्ञः सकाशात्पीडायां दण्डादिकृतायां सत्याम् नववधूप्रवेशने नूतनपरिणीतायाः कन्यायाः भर्त्रगृहप्रवेशे एतेषामन्यतमभावे सति भार्गवः सम्भुखदोषकृन्नहि। यथाह वादरायणः “स्वभवनपुरप्रवेशो देशानां विभ्रमे तथोद्वाहे। नूतनवध्वागमने प्रतिशुक्रो न दुष्यतीति”। नूतनवधूनां स्वामिगृहगमनं प्रतिशुक्रयात्रायां महान्दोषः। तद्वाक्यं प्रागुक्तम्। अथ प्रौढस्त्रीणां द्विरागने तथा गोत्रभेदपरत्वेन प्रतिशुक्रापवादान्तरमाह पित्र्ये इति। पितुरिदं पित्र्यम्। तस्मिन् पित्र्ये गृहे कुचौ स्तनौ पुष्पमृतुः तत्सम्भवः स्यात्तदा स्त्रीणां प्रतिशुक्रसम्भवो दाषी नास्ति। उपलक्षणत्वाद्भर्तुः सूर्यगुरुशुद्धिराहित्यसम्भवेऽपि दोषो नास्तीति। तदुक्तं चण्डेश्वरेण “पित्र्यागारे कुचकुसुमयोः सम्भवो वा यदि स्यात्पत्युः शुद्धिर्न भवति रवेः सम्मुखो वाथ शुक्रः। तूले लग्ने गुणवति तिथौ चन्द्रताराविशुद्धौ स्त्रीणां यात्रा भवति सफला सेवितुं स्वामिसद्म” इति। वाशब्दाद्गुरुशुद्धिरपि चेन्न भवतीत्यर्थः। अथ भृग्वङ्गिरोवत्सवसिष्ठकश्यपात्रिभरद्वाजवंशोत्पन्नानामपि प्रतिशुक्रसम्भवो दोषो नास्ति। यदाह बादरायणः “कश्यपेषु वसिष्ठेषु चात्रिभृग्वङ्गिरःसु च। भारद्वाजेषु वात्स्येषु प्रतिशुक्रो न दुष्यति” इति। अयं चापवादो यात्रामात्रसाधारणः” न द्विरागमने, सम्मतिवाक्ये विशेषानुक्तेः। एवं प्राक्पद्योक्तोऽप्यपवादोज्ञेयः। केचिच्छुभं तेषामाहुः। यदाह महेश्वरः “नो तेषां प्रतिशुक्रपातमशुभं ये वत्सभृग्वङ्गिरोभारद्वाजवसिष्ठकश्यपकुलोत्पन्नास्तथाऽत्रेः कुले। देशानां विषयप्लवे च नियतं न स्याद्विवाहे तथा तीर्थानां गमने तथैकनगरे ग्रामे च सौम्ये तथेति”। सोमप्यापत्यं सौभ्यो बुधः। बुधसांमुख्येऽपि भृग्वादिगोत्रोत्पन्नानामपि तथा यानमशुभं नास्ति चकारात दुर्भिक्षाद्युपद्रवसद्भावेऽन्येषामपि यानमशुभं नास्तीत्यर्थः तच्चिन्त्यं मूलवाक्यस्यापवादरूपस्यानुपलम्भात। कि च यथा साधारण्येन यस्यां कस्यांचिद्दिशि यात्रायां शुक्राधिष्ठितादिनिषिद्धा सा च बादरायणादिवाक्येरपोह्यते। तथा बुधसाम्मुख्ये गमननिषेधानुक्तेरपवादस्यानुक्तत्वदर्शनात्। ननु “प्रतिशुक्रं प्रतिबुधं प्रतिभौमं गतो नृपः। बलेन शक्रतुल्योऽपि हतसैन्यो निवर्तते” इति वसिष्ठोक्तिरेव बुधसाम्मुख्यदोषनिषेधबोधिकास्तीति। किं च “कुजाय वृषभं दद्यात् स्वर्णं दद्याद्बुधाय च। तत्तत् सम्मुखजो दोषस्तत्क्षणादेव नश्यति” इति बुधसाम्मुख्यदोधनिराकरणार्था अपि तदुक्तिरेवास्ति प्रमाणमिति चेत्। सत्यम्। प्रतिशुक्रं प्रतिबुधं इत्यादिवाक्यैर्बधसाम्म- ख्यमपि दोषावहमेवेति प्रतीयते। अत्रार्थवादोऽप्यभाणि श्रीपतिना “प्रतीन्दुजं भूमिपतेर्गतस्य नान्येग्रहास्त्राणविधौ समर्थाः” इति। त्राणं रक्षणम्। नारदेनापि “प्रतीन्दुजकृतं दोषं हन्तुं शक्ता ग्रहा न हि” इति। तत्र गोत्रादिविषयत्वेन परिहारो योऽभिहितः स शुक्रसाम्मुख्ये एव नतु बुधसाम्मुख्ये गोत्रपरिहारस्तु दोषकरवाक्यान्ते प्रतिशुक्रं न विद्यते इत्युक्तम्। ननु प्रतिशुक्रमित्यादिवाक्योपात्तस्य प्रतिबुधस्याप्ययं परिहारोऽस्तु दोषकथनानन्तरमेव तस्याभिधानात् प्रतिशुक्रपदं तु मुख्यतां सूचयितुम् उपात्तं तदभिप्रायेण सौम्ये तथेति महेश्वरोक्तिः साधीयसीति चेन्न यद्येषोऽभिमतः स्यात् सौम्ये तथेतिवद्भौमे तथेति वक्तव्यं स्यात्। तच्च नोक्तम्। किं च प्रतिशुक्रपदं मुख्यतां सूचयितुम् उषात्तमित्युक्तं तदप्ययुक्तम्। कुतः “शुक्रास्तदोषस्य महत्त्वोक्तेस्तद्विषयकोऽयं गोत्रादिपरिहारः। “कामं व्रजेद्वा प्रतिशुक्रमस्तङ्गते च यायान्न जिगोषुरत्रेति” श्रीपत्युक्तेः शुक्रास्तदोषस्यापवादो बुधानुकूल्यमपि तेनैव “अस्तङ्गतेऽप्यास्फुजिति प्रयायाद्बुधो यदि स्यादनुकूलवर्तीति”। अनुकूलवर्त्ती यातव्यदिशीष्टवर्त्ती। बुधप्रातिकूल्यं तु महादोषावहमेतद्वाक्यं तैरपि प्रागभिहितम्। परन्तु बुधास्तः समीचीनो न वेति न वचनं युक्तिपदवीं वा काञ्चिदभ्यधायि। तस्माद्वाचनिकेऽर्थे न युक्तिः प्रभवेदिति। बुधमाम्मुख्ये गोत्रादिपरिहारो न शिरोमणिपदवीमारोहति। आदिशब्दात् “स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे। नूतनवध्वागमने प्रतिशुक्रविचारणा नास्ति” “एकग्रामे पुरे वापि दुर्भिक्षे राष्ट्रविप्लवे। विवाहे तीर्थयात्रायां प्रतिशुक्रो न दुष्यति” इति। तुल्यन्यायत्वाद्भौमसाम्मुख्येऽपि विशिष्यर्विवचनाभावात्। किन्तु शुक्रसाम्मुख्य एव स परिहारः। सोऽपि सर्वेषां यात्रामात्रसाधारणः। परन्तु शिशुगर्भिणीनववधूनां “अस्तङ्गते भृगोः पुत्रे” इत्यादिना बादरायणादिवाक्यात्तु विशेषफलावगतिमात्रे तत्रैषां शिश्वादीनां बुधसाम्मुख्यविचारस्तु दुरापास्त एवेत्यलमतिप्रसङ्गेनेति शिवम्” पी० धा० द्व्यागमद्विरागमादयोऽप्यत्र।
द्विरात्र = त्रि० द्वाभ्यां रात्रिभ्यां निर्वृत्तः तद्धितार्थद्वि० ठक् तस्य लुक् अच् समा०। १ रात्रिद्वयसाध्ये २ यागभेदे पु० “एकरात्रो द्विरात्रः” अथ० ११। ९। १० “व्युष्टि द्विरात्रः” कात्या० १५। ९। २२। २ व्रतभेदे न०। समा० द्विगुः अच् समा०। ३ रात्रिद्वये न०।
द्विरात्रीण = त्रि० द्वाभ्यां रात्रिभ्यां निर्वृत्तादि ख तस्य न लुक्। रात्रिद्वयसाध्ये पक्षे ठञ्। द्वैरात्रिक तत्रार्थे
द्विराप = पुंस्त्री० द्विः द्विवारमापिबति आ + पा–क। हस्तिनि शब्दमा० तस्य शुण्डेन प्रथमपानोत्तरं मुखेन पानात् द्विवारपायित्वात् तथात्वम् स्त्रियां ङीष्।
द्विराषाढ = पु० “माधवादिषु षट्केषु मासि दर्शद्वयं यदा। द्विराषाढः स विज्ञेयः शेते तु श्रावणेऽच्युतः” मिहि रोक्ते मिथुनस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तमासद्वये। स चाषाढमलमासे भवति यथा “मिथुनस्थो यदा भानुरमावस्याद्वयं स्पृशेत्। द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे। पौर्णमास्यद्वयं यत्र पूर्वाषाढाद्वयं स्पृशेत्। द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे” गारुडोक्ते मासभेदे च।
द्विरुक्त = त्रि० द्विः द्विवारमुक्तः। १ अभ्यस्ते द्वित्वप्राप्ते धात्वादौ २ द्विवारं कथिते च।
द्विरूढा = स्त्री द्विवारमूढा वह–कर्मणि क्त। द्विवारविवाह युतायां पुनर्भूस्त्रियाम् हेमच०।
द्विरेतस् = पु० द्वे रेतसी कारणमस्य। द्वाभ्यां पशुभ्यां रासभाश्वाभ्यां जाते १ अश्वतरे गोऽजाभ्यां २ जाते गर्दभे च “तएतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यन् रासभं गोश्चावेश्च तद्यदेतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यंस्तस्मादेषएकः सन्द्विरेताः” शत० ब्रा० ६। ३। १। २३। अत्र गर्दभस्य तथात्वमुक्तमश्वतरस्य तथात्वं च लोकप्रसिद्धम्।
द्विरेफ = पु० द्वौ रेफौ वाचकशब्देऽस्य। द्विरेफयुक्तभ्रमरशब्दवाच्ये १ मधुकरे अमरः २ वर्वरे हेमच० “मधु द्विरेफः कुसुमैकपात्रे” द्विरेफमालाः सविशेषसङ्गाः” कुमा०।
द्विर्वचन = न० द्विरुच्यते वच–कर्मणि ल्युट्। १ द्विरुक्ते द्विःकथिते अभ्यस्ते धात्वादौ च “द्विर्वचनेऽचि” पा० “न पदान्तद्विर्वत्वनेत्यादि” पा०।
द्विलक्षण = त्रि० द्वे लक्षणे प्रकारौ यस्य। प्रकारद्वययुते द्विधाभिन्ने “समानयानकर्म्मा च विपरीतस्तथैव च। तदात्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः” मनुः। द्विलक्षणः द्विप्रकारः” कुल्लू०।
द्विवक्त्र = पु० द्वे वक्त्रे अस्य। १ मुखद्वययुते राजसर्पे २ दानवभेदे “एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसन्निभः” हरिवं० २६३ अ० नानादानवनामरूपाद्युक्तौ।
द्विवचन = न० द्वौ द्वित्वमुच्येते अनेन वच–करणे ल्युट् कर्म षष्ठ्या समासः। द्वित्वबोधके पा० परिभाषिते औभ्यामित्यादौ तस्थस्प्रभृतौ च। “द्व्येकयोर्द्विवचनैकवचने बहुषु बहुवचनमिति” पा०।
द्विवज्रक = पु० द्विगुणितः वज्रः संज्ञायां कन्। षोडशकीणे गृहभेदे “वज्रोऽष्टास्रिर्द्विवज्रको द्विगुणः” वृ० सं० ५३ अ०।
द्विवर्ष = त्रि० द्वे वर्षे वयोमानमस्य ठक् तस्य लुक्। १ द्विवर्षवयस्के गवादौ स्त्रियां टाप्। द्वे वर्षे अधीष्टो भृतो भूतो भावी वा ठञ् तस्य चित्तवति नित्यं लुक्। द्विवर्षं २ सत्कृत्य नियोजिते ३ भृते कर्मकरे ४ स्वसत्तयाव्याप्ते ५ भाविनि च। अचेतने तु “वर्षाल्लुक् च” पा० लुक् पक्षेख ठञ् च। द्विवर्ष द्विवर्षीण अचेतने व्याध्यादौ भविष्यति तु “वर्षस्याभविष्यतीति” पा० उत्तरपदवृद्धिः। द्विवार्षिक द्विवर्षभूते धान्यादौ यागादौ च भविष्यति तु नोत्तरपदवृद्धिः। द्वैवार्षिक इत्येव। “ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः” मनुवाक्ये चित्तवत्यपि न लुक् आर्षत्वात् बोध्यम्। स्वार्थे क। द्विवर्षवयस्के त्रि० स्त्रियां टापि अतैत्त्वं द्विवर्षिका तत्रार्थे हेमच०
द्विवाहिका = स्त्री द्विप्रकारं वाहयति वाहि–ण्वुल्। दोलायां शब्दमा० तया उभयपार्श्वयोः स्वारूढस्य वाहनात्तथात्वम्।
द्विविंशतिकीन = न० द्वाविंशतिकमर्हति तत्परिमाणमस्य वा ख। द्वाविंशतिकार्हे तत्संख्यापरिमिते
द्विविद = पु० १ वानरभेदे स च रामसेनान्तर्गतः। “मैन्दश्च द्विविधश्चापि हनूमांश्चानिलात्मजः। जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः” भा० व० २७९ अ०। द्वापरयुगोये सौमद्वारस्थे २ वानरभेदे च “सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः” भा० उ० १२९ अ०। “वानरौ द्वौ महावीर्य्यौ मैन्दोद्विविद एव च। विजितौ युद्धदुर्द्धर्षौ जाम्बवांश्चापराजितः” हरिवं० १७४ अ०। “समुद्रस्योत्तरे तीरे द्विविदो नाम वानरः। ऐकाहिकज्वरं हन्ति तस्य नामानुकीर्तनात्”।
द्विविध = त्रि० द्वे विधे अस्य। द्विप्रकारे “निकामतप्ता द्विविघेन वह्निना नभश्चरेणेन्धनसम्भृतेन च” कुमा०
द्विविन्द = पु० द्वौ विन्दू लेखनाकारेऽस्य। विसर्गे वर्णभेदे।
द्विविस्त = त्रि० द्वे विस्ते अर्हति परिमाणमस्य वा आर्हीयः ठक् तस्य वा लुक्। विस्तद्वयार्हे तत्परिमिते पक्षे ठकोऽलुक्। द्वैविस्तिक तत्रार्थे।
द्विवेद = त्रि० द्वौ वेदावधीते वेद वा अण् तस्य लुक्। द्विवेदाध्यायिनि
द्विवेशरा = स्त्री द्वौ वेशौ यानस्थानरूपौ राति ददाति राक। लघुरथे नरबाह्यायां गन्त्र्यां हारा०।
द्विव्रण = पु० द्विविधो ब्रणः शाक० त०। सुश्रुतोक्ते शारीरे आग न्तुके च द्विविधे व्रणे। तस्येदम् छ। द्विव्रणीय तदधिका रेण चिकित्सितादौ। द्विविधाव्रणतद्भेदनिदानादि सुश्रुते दर्शितं यथा “अथातो द्विव्रणीयचिकित्सितं व्याख्यास्यामः। द्वौ व्रणौ भवतः शारीर आगन्तुश्चेति। तयोः शारीरः पवनपित्तकफशोणितसन्निपातनिमित्तः। आगन्तुरपि पुरुषपशुपक्षिव्यालसरीसृपप्रपतनपीडनप्रहाराग्निक्षारविषतीक्ष्णौषधशकलकपालशृङ्गचकेषुपरशुशक्तिकुन्ताद्यायुधाभिघातनिमित्तः। तत्र तुल्ये व्रणसामान्ये द्विकारणोत्थानप्रयोजनसामर्थ्याद्द्विव्रणीय इत्युच्यते। सर्वस्मिन्नेवागन्तु व्रणे तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थं पित्तवच्छीतक्रियावधारणविधिर्विशेषः सन्धानार्थञ्च मधुघृतप्रयोग इत्येतद्द्विकारणोत्थानप्रयोजनमुत्तरकालन्तु दोषोपप्लवविशेषाच्छारीरवत्प्रतीकारः। दोषोपप्लवविशेषः पुनः समासतः पञ्चदशप्रकारः प्रसरणसामर्य्याद्यथोक्तो व्रणप्रश्नाधिकारे शुद्धत्वात् षोडशप्रकार इत्येके। तस्य लक्षणं द्विविधं सामान्यं वैशेषिकञ्च। तत्र सामान्यं रुक्, व्रण गात्रविचूर्णने व्रणतीति व्रणः। विशेषलक्षणं पुनर्वातादिलिङ्गविशेषः। तत्र श्यावारुणाभस्तनुः शीतपिच्छिलाल्पस्रावीरूक्षश्चटचटायनशीलः स्फुरणायामतोदभेदवेदनाबहुली निर्मांसश्चेति वातात्। क्षिप्रजः पीतनीलाभः किंशुकोदकाभोष्णस्रावी दाहपाकरागविकारो पीतपिडकाजुष्टश्चेति पित्तात्। प्रततचण्डकण्डूबहुलः स्थूलो घनः स्तब्धसिरास्नायुजालावततः कठिनः पाण्ड्ववभासो मन्दवेदनः शुक्लशीतसान्द्रपिच्छिलास्रावी गुरुश्चेति कफात्। प्रबालदलनिचयप्रकाशः कृष्णस्फोटपिडकाजालोपचितस्तुरङ्गस्थानगन्धः सवेदनो धूमायनशीलो रक्तस्रावी पित्तलिङ्गश्चेति रक्तात्। तोददाहधूमायनप्रायः पीतारुणाभासस्तद्वर्णस्रावी चेति वातपित्ताभ्याम्। कण्डूयनशीलः सनिस्तोदो दारुणो मुहुर्मुहुः शीतपिच्छिल स्रावी चेति वातश्लेष्मभ्याम्। गुरुः सदाह उष्णः पीतः पाण्डुस्रावी चेति पित्तश्लेष्मभ्याम्। रूक्षस्तनुस्तोदबहुलः सुप्त इव च रक्तारुणाभस्तद्वर्णस्रावी चेति वातशोणिताभ्याम्। घृतमण्डाभो मीनधावनतोयगन्धिर्मृदु- र्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्याम्। रक्तोगुरुः पिच्छिलः कण्डूप्रायः स्थिरः सरक्तपाण्डुस्रावी चेति श्लेष्मशोणिताभ्याम्। स्फुरणतोददाहधूमायनप्रायः पीततनुरक्तस्रावी चेति वातपित्तशोणितेभ्यः। कण्डूस्फुरणचुम्चुमायनप्रायः पाण्डुघनरक्तस्रावी चेति वातपित्तश्लेष्मशोणितेभ्यः। दाहपाकरागकण्डूप्रायः पाण्डुघनरक्तस्रावी चेति श्लेष्मपित्तशोणितेभ्यः। त्रिविधवर्णवेदनास्रावविशेषोपेतः पवनपित्तकफेभ्यः। निर्दहननिर्मथनस्फुरणतोददाहपाकरागकण्डस्वापबहुलोनानावर्णवेदनास्रावविशेषोपेतः पवनपित्तकफशोणितेभ्यः। जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्यवस्थितो निरास्रावश्चेति शुद्धो व्रण इति।”
द्विशत = न० द्विगुणं शतम्। १ शतद्वये। पूरणे ड। २ तत्संख्यापूरणे त्रि०। ततस्तमप् द्विशततम तत्संख्यापूरणे त्रि०। द्विशतेन क्रीतम् कन्। “शताच्च ठन्यतावसमासे” पा० असमास इति विशेषणात् न ठन्यतौ द्विशतक। तत्क्रीते त्रि० द्वयोः शतयोः समाहारः ङीप्। ३ द्विशती शतद्वयसमाहारे स्त्री।
द्विशतिका = द्वे द्वे शते ददाति “पादशतस्य संख्यादेर्वीप्सायां वुन्” पा० वुन् बुन्नन्तं स्त्रियामेव। द्विद्विशतदाने
द्विशत्य = त्रि० द्विशतेन क्रीतम् “पणपादमाषशताद्यत्” पा० यत्। द्विशतेन क्रीते।
द्विशफ = पुंस्त्री द्वौ शफौ यस्य। छिन्नखुरे द्विखुरे पशुभेदे “गौरजो महिषः कृष्णः शूकरो गवयो रुरुः। द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सप्तमः” भाग० ३। १०। ३ “कार्पासकौटजोर्ण्णानां द्विशफैकशफस्य च” मनुः।
द्विशरीर = पु० द्वे चरस्थिरात्मके शरीरे अवयबे अस्य। चरस्थिरात्मके मिथुनकन्याधनुर्मीनरूपे राशिभेदे तेषां च प्रथमार्द्धस्य स्थिरसान्निध्यात् स्थिरात्मकत्वं चरमार्द्धस्य चरसान्निध्याच्चरत्वम्। द्वितनुद्विदेहादयोऽप्यत्र।
द्विशस् = अव्य० द्वौ द्वौ ददाति करोति वा शस्। एकक्रियया द्वयोर्व्याप्तौ। “द्विशः पात्राणि संसादयति” कात्या० श्रौ० २। ३। ६
द्विशाण = त्रि० द्वाभ्यां शाणाभ्यां क्रीतम्। “द्वित्रिपूर्वादण् च” पा० ठञ् तस्यैव “अध्यर्द्धपूर्वेति” पा० लुक्। शाणद्वय क्रीते पक्षे अण् “परिमाणान्तस्यासंज्ञाशाणयोरिति” पा० पर्युदासादादिवृद्धिः। द्वैशाण पक्षे यत्। द्विशाण्य तत्रार्थे
द्विशीर्ष = पु० द्वे शीर्षे अस्य। वह्नौ शब्दच०।
द्विशूर्प = त्रि० द्वाभ्यां शूर्पाभ्यां क्रीतम् “शूर्पादञन्यतरस्याम्” पा० अञ्ठञौ वा “अध्यर्द्धपूर्वद्विगोर्लुक्” पा० तयोः लुक्। द्वाभ्यां शूर्पाभ्यां क्रीते, द्वयोः शूर्पयोः समाहारः। द्विशूर्पी तया क्रीतमिति विग्रहे ठञेव न अञ् शूर्पान्तत्वेऽपि प्रत्ययविधौ तदन्तग्रहणनिषेधात्। ठञश्च न लुक् तस्य द्विगुनिमित्तत्वाभावात् “परिमाणान्तस्येति” पा० उत्तरपदवृद्धिः। द्विशौर्पिक तत्रार्थे त्रि० स्त्रियां ङीप्।
द्विशृङ्गिका = स्त्री द्वे शृङ्गे इव फले अस्याः कप् अतैत्त्वम्। मेढ्रवल्ल्यां पारस्करनिघ०।
द्विष = वैरे अदा० उभ० सक० अनिट्। द्वेष्टि द्विष्टे–अद्विषनद्विषुः। अद्विक्षत् त दिद्वेष दिद्विषे। “यः सर्वत्रानाभिस्नेहस्तत्तत् प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि” “न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते” गीता “ततोऽद्विषु र्निरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः” भट्टिः “संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिम्” मनुः आर्षत्वात् नुम्।
द्विष = त्रि० द्वेष्टि द्विष–क्विप्। शत्रौ अमरः। “रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ” रघुः।
द्विष = त्रि० द्विष–कर्त्तरि क। द्वेषकारके शत्रौ “तन्मित्रपूजा तदरिद्विषत्वम्” वृ० सं० ७८ अ०।
द्विषत् = त्रि० “द्विषोऽमित्रे” पा० प्रथमासामानाधिकरण्येऽपि द्विध–शतृ। द्वेषकारके शत्रौ अमरः “पार्थेनाथ द्विषन्मुरम्” माघः।
द्विषन्तप = त्रि० द्विषन्तं तापयति “द्विषत्परयोस्तापेः खच्” पा० खचि ह्रस्वः “अरुर्द्विषदजन्तस्य” पा० मुम् संयोगान्त्यतकारस्य लोपः। शत्रुतापके। घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या तेन द्विषतीं तापयतीत्यादौ न खच् किन्तु अण्। द्विषतीताप इत्येव सि० कौ
द्विषष् = त्रि० ब० व०। द्विगुणिताः षट्। द्वादशसु “तुष्टायां तोषमापन्नोऽजनयद्द्वादशात्मजान्। इत्युपक्रमे सुदेवोरोचनो द्विषट्” भाग० ४। १। ७
द्विषाष्टिक = त्रि० द्वे षष्टी अधीष्टो भृतो भूतो भावी वा टञ् उत्तरपदवृद्धिः। द्वे षष्टी दिनानि व्याप्य १ भृते २ भूते ३ भाविनि च।
द्विषेण्य = त्रि० द्विष–एण्वन् किच्च। द्वेषशीले अद्विषेण्यशब्दे उदा० दृश्यम्।
द्विष्ट = त्रि० द्विष–कर्मणि क्त। द्वेषविषये “निवृत्तिस्तु भवेद्द्वेषात् द्विष्टसाधनताधियः” भाषा० द्वेषशब्दे दृश्यम्। द्व्यष्ट + पृषो०। २ ताम्रे न० सारसुन्दरी।
द्विष्ठ = त्रि० द्वयोस्तिष्ठति स्था–क “अम्बाम्बेति” पा० षत्वम्। १ द्वयोः स्थिते संयोगविभागादौ २ स्थानद्वयस्थिते “द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः” सू० सि०। द्विः द्विवारं स्थितम् वा विसर्गलोपे न षत्वम्। द्विस्थ द्विवारस्थिते त्रि० “त्रिभुजे भुजयोर्योगस्तदन्तरगुणो भुवा हृतो लब्ध्या द्विस्था भूरूनयुता दलिता बाधे तयोः स्याताम्” लीला०।
द्विस् = अव्य० क्रियागणने द्वि + सुच्। द्विवारक्रियादौ “द्विः शरं नाभिसन्धत्ते द्विः स्थापयति नाश्रितान्। द्विर्ददाति न चार्थिभ्यो रामो द्विर्नैव भाषते”। “त्रिःप्राश्यापो द्विरुन्मृज्य मुखमेतान्युपस्पृशेत्” ति० त० “द्विःप्रमृज्यात्ततोमुखम्” मनुः।
द्विसम = त्रि० द्वे समे परिमाणमस्य ठञ् तस्य लुक्। १ द्विवर्षपरिमाणे। द्विसममधीष्ट इत्यादौ ठञ् “परिमाणान्तस्या संज्ञाशाणयोः” पा० सू० कालपरिमाणस्याग्रहणम् “संख्यायां संवत्संख्यस्य च” पा० संवत्सरस्य पृथग्ग्रहणात् नोत्तरपदवृद्धिः, अध्यर्द्धेत्यादिना न लुक् अस्य ठञो द्विगुनिमित्तत्वाभावात्। द्वैसमिक द्विसमव्यापके ज्वरादौ।
द्विस(सा)हस्र = त्रि० द्वाभ्यां सहस्राभ्यां क्रीतम् द्वे सहस्रे परिमाणमस्य वा अण्। ठञादेरपवादः तस्य वा लुक्। १ द्विसहस्रक्रीते २ द्विसहस्रपरिमिते च। द्विसहस्रपरोदायः स्त्रियै देयो धनस्य तु” दायभा०। २ द्विगुणितसहस्रे च
द्विसहस्राक्ष = पु० द्विरावृत्तं सहस्रं शाक० त० द्विसहस्रं द्विगुणसहस्रमक्षीणि यस्य षच् समा०। अनन्ते हेम० तस्य सहस्रवक्त्रत्वेन प्रतिमुखं द्विद्विनेत्रत्वात् तथात्वम्।
द्विसांवत्सरिक = त्रि० द्विवत्सरं भूतादि ठञ्। “संख्यायां संवत्सरसंख्यस्य च” पा० उत्तरपदवृद्धिः। द्विवर्षं व्याप्य भूतादौ।
द्विसाप्ततिक = त्रि० द्विसप्ततिं भूतादि ठञ् उत्तरपदवृद्धिः द्विसप्ततिं व्याप्य भूतादौ।
द्विसीत्य = त्रि० द्विवारं सीतया हलेन समितं “नौवयोधर्मेत्यादिना” पा० यत्। द्विवारं कृष्टक्षेत्रे।
द्विसुवर्ण = त्रि० द्वाभ्यां सुवर्णाभ्यां क्रीतं ठक् अध्यर्द्धेति लुक् १ द्वाभ्यां सुवर्णाभ्यां क्रीते। द्विसुवर्णेन क्रीतमिति विग्रहे तु न लुक् ठको द्विगुनिमित्तत्वाभावात् परिमाणान्तत्वादुत्तरपदवृद्धिः। द्विसौवर्णिक द्विसुवर्णेन क्रीते। समाहारद्विगुः। २ सुवर्णद्वये स्त्री ङीप्।
द्विस्तना = स्त्री द्वौ स्तनाविव मृदवयवौ यस्याः अखाङ्गत्वान्न ङीष्। इष्टकावृतिभेदे सा च कात्या० श्रौ० १६। ४ सुत्रे दर्शिता। इष्टकाशब्दे ९९३ पृ० दृश्यम्। “स्तनाविवाग्रेषून्नयति द्विस्तनामष्टस्तनामेके” कात्य० श्रौ० १६। ४। १, २।
द्विस्तावा = स्त्री द्विर्द्विगुणिता तावती। “द्विस्तावा त्रिस्तावा वेदिः” पा० नि०। प्रकृतौ यावती वेदिः ततो द्विगुणायां वेद्यां सि० कौ०।
द्वि(द्विः)स्विन्न = न० द्विवारं स्विन्नं वृत्तौ सुजर्थे द्विशब्दः विसर्गयुक्ते तु सुजन्तः। द्विवारपक्वे तण्डुले (उसना चाउल) एकघारं धान्यावस्थायां तस्य स्विन्नता द्वितीयवारं तण्डुलावस्थायामिति द्विःस्विन्नत्वम्। द्वि(द्विः)स्विन्नमन्नं पृथुकं शुद्धं देशविशेषके। नात्यन्तशस्तं विप्राणां भोजने च निवेदने। न भक्ष्यं तद्यतीनाञ्च विधवाब्रह्मचारिणाम्। ताम्बूलञ्च यथा ब्रह्मन्! तथैते वस्तुनी ध्रुवम्” ब्रह्मवै० पु० ब्रह्मख०। हस्तिनि शब्दर०।
द्विहन् = पु० द्विर्हन्ति हन–क्विप् वृत्तौ सुजर्थे द्विशब्दः।
द्विहल्य = त्रि० हलस्य कर्षे यत् द्विवारं हल्यः। द्विवारं हलकृष्टक्षेत्रे (दोचसा भूमि) अमरः।
द्विहायन = त्रि० द्वौ हायनौ वयःकालो यस्य। १ द्विवर्षे पश्वादौ स्त्रियां हायनान्तत्वात् ङीष्। “द्विहायनी द्विवर्षा गौः” अमरः। समाहारद्वि०। २ वर्षद्वये न० पात्रा० न ङीप्। “शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम्” मनुः। द्विहायनं व्याप्य व्रतं कुर्य्यात् इत्यर्थः।
द्विहीन = त्रि० द्वाभ्यां स्त्रीपुंसाभ्यां हीनम्। क्लीवलिङ्गशब्दे “द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्” अमरः।
द्विहृदया = स्त्री द्वे हृदये यस्याः। गर्भिण्याम् दोहदशब्दे ३७६८ पृ० दृश्यम्।
द्वीन्द्रियग्राह्य = त्रि० द्वाभ्यामिन्द्रियाभ्यां चक्षुषा त्यचा च ग्राह्यः उत्तरपदद्विगुः। “संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च। एते तु द्वीन्द्रियग्राह्याः” भाषा० उक्ते त्वक्चक्षुषोर्ग्रहणयोग्ये पदार्थे।
द्वीप = पु० न० अर्द्धर्चा० द्विर्गता द्वयोर्वा दिशोर्गता आपोऽत्र अ समा० “द्व्यन्तरुपसर्गेभ्योऽप ईत्” पा० ईत्। जलमध्यस्थस्थलभेदे वारिवेष्टिते तटभेदे अन्तरीपे अमरः। भूम्यां प्रधानद्वीपाश्च नवैव तेषां नाम स्थानभेदाश्च सि० शि० उक्ता यथा “भूमेरर्द्धं क्षारसिन्धो रुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्य्याः। अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः। शाकं ततः शान्मलमत्र कौशं क्रौञ्चञ्च गोमेदक पुष्करे च”। जम्बुद्वीपशब्दे ३०४३ पृ० दृस्यम्। “द्वीपान्तरानीतलवङ्गपुष्पम्” अन्येऽपि उपद्वीपा रमण- कादयः सन्ति तेऽपि नव मिलिता अष्टादश। “अष्टादशद्वीपनिखातयूपः” रघुः “नवद्वयद्वीपपृथग्जयश्रियाम्” नैष० तोयोत्थिते २ पुलिनमात्रे च द्वैपायनशब्दे दृश्यम्। “कूर्मग्राहझमाकीर्णां विपुलद्वीपशोभिताम्” भा० व० ६४ अ०। लक्षणया द्वीपतुल्ये ३ अवलम्बनस्थाने च। “वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम्” भा० स० ६१ अ०। “यश्चैषामभवत् द्वीपः कुन्तीपुत्रो वृकोदराः” भा० उ० ४९ अ०। द्वौ वर्णौ ईयते ई–बा० पक्। ४ व्याघ्रचर्म्मणि न० मरतः। तदस्यास्ति अच्। ५ व्याघ्रे पु०।
द्वीपकर्पूर = पु० द्वीपस्य द्वीपान्तरस्य कर्पूरः। चीनकर्पूरे राजनि०।
द्वीपखर्जूर = न० द्वीपस्य द्वीपान्तरस्य खर्जूरम्। महापारे राजनि०।
द्वीपज = न० द्वीपे द्वीपान्तरे जायते जन ड। महापारे राजनि०।
द्वीपवती = स्त्री द्वीपोऽस्त्यस्याम् मतुप् मस्य वः ङीप्। १ भूमौ २ नद्याञ्च “अलङ्कृतं द्वीपवत्या मालिन्या रस्यतीरया” भा० आ० १६७ अ०।
द्वीप(पि)शत्रु = द्वी(पिनः)पस्य व्याघ्रस्य शत्रुरिव। शतावर्य्याम् राजनि०।
द्वीपिका = स्त्री द्वीपः व्याघ्रः नाश्यतयाऽस्त्यस्याः ठन्। शतावर्य्याम् राजनि०।
द्वीपिन् = पु० द्वौ वर्णौ ईयते ईङ् गतौ बा० पक् द्वीपं चर्म तदस्यास्ति इनि। १ व्याघ्रे (चिता वाघ) २ चित्रके “सिंहद्वीपिरुरुव्याघ्रमहिषैश्च मृगैर्वृतम्” भा० व० ६४ अ०। व्याघ्रे “द्वीपिचर्मावृतकटीम्” तन्त्रम्।
द्वीपिनख = पु० द्वीपिनो नख इव। व्याव्रनखे।
द्वीप्य = त्रि० द्वीपे जलान्तर्वर्त्तिनि स्थलमूमौ भवः यत्। १ द्वीप भवे २ रुद्रे पु०। “नादेयाय च द्वीप्याय च” यजु० १६। ३१।
द्वीश = त्रि० द्वौ ईशौ यस्य। १ द्विदैवत्ये चर्वादौ २ विशाखानक्षत्रे च तस्य इन्द्राग्निदेवताकत्वात् तथात्वम्।
द्वृ(द्व्यृ)च = पु० द्वे ऋचौ यत्र अ समा०। बा० वा सम्प्रसारणम्। ऋग्द्वययुतसूक्तात्ममन्त्रभेदे “कुषुम्भकस्तदव्रवीत् आवदंस्त्वं शकुने! भद्रमावद, गृणाना जमदग्निना धामन्ते विश्वम्भुवनमधिश्रितं, गन्ता नो यज्ञं यज्ञियाः, सुशमियो नस्वो अरणः प्रचक्ष्व विचक्ष्वाग्ने या हि मरुत् सखायते राजञ्छतं हविरिति द्वृचाः” आश्व० गृ० ३। ५। ७ “एते नव द्वृचाः” नारावृ० “पतङ्गमक्तमसुरस्य मायया यो नः स नुत्यो अभिदासदग्ने भवानो अग्ने सुमना उपेताविति द्वृचाः” आश्व० श्रौ० ४। ६। ३।
द्वेष = पु० द्विष–भावे घञ्। न्यायनये आत्मवृत्तौ १ गुणभेदे स च “इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्” गौ० सू० दर्शितः “यज्जातीयस्यार्थस्य सन्निकर्षात् दुःखमात्मोपलब्धवान् तज्जातीयमेवार्थं पश्यन् हातुमिच्छति सेयं हातुमिच्छा द्वेषः। एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् दुःखहेतौ द्वेषः इति भाष्यसम्मतोऽर्थः। तत्र दुःखं प्रतिकूलवेदनीयतया स्वतोद्वेषविषयः तत्साघनन्तु द्विष्टसाधनताज्ञानात्। “अधर्म्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम्”। भाषा० “प्रतिकूलमिति दुःखत्वज्ञानादेव सर्वेषां स्वभावतो विषय इत्यर्थः” मुक्ता०। “द्विष्टसाधनताबुद्धिर्भवेत् द्वेषस्य कारणम्” भाषा०। “द्वेषं प्रति द्विष्टसाधनताज्ञानं कारणम्। बलवदिष्टसाधनताज्ञानञ्च प्रतिबन्धकं तेन नान्तरीयदुःखजनके पाकादौ न द्वेषः” मुक्ता०। द्वेषो द्विष्टसाधनज्ञानञ्च निवृत्तिकारणम् “निवृत्तिस्तु भवेत् द्वेषात् द्विष्टसाधनताधियः” तत्रोक्तेः “अयमर्थः दुःखे निवृत्तिर्द्वेषात् तदुपाये निवृत्तिस्तु द्विष्टसाधनत्वज्ञानात् द्विष्टसाधनताज्ञानस्य दुःखसाधनविषयकनिवृत्तिं प्रति जनकत्वमन्वयव्यतिरेकाभ्यां स्थितम्” इति मुक्तावली। “ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः” गौ० सू०। “अयं खलु जानीते तावत् इदं मे सुखसाधनमिदं मे दुःखसाधनमिति ज्ञातं सुखसाधनमाप्तुमिच्छति दुःखसाधनं हातुमिच्छति। प्राप्तुमिच्छाप्रयुक्तस्यास्य सुखसाधनावाप्तये समीहाविशेष आरम्भः। जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनं निवृत्तिरेवं ज्ञानेच्छाप्रयुक्तसुख दुःखानामेकेनाभिसम्बन्धः एककर्त्तृकत्वं ज्ञानेच्छा प्रवृत्तीनां समानाश्रयत्वञ्च तस्माज्जस्येच्छा द्वेषप्रयत्नसुखदुःखानि धर्माः नाचेतनस्येति आरम्भनिवृत्त्योश्च प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानं वेदितव्यमिति” भा०। सांख्यादिमते २ बुद्धिधर्मभेदे। सांख्यादिमतसिद्धस्तु द्वेषः अष्टादशविधः तामिस्रशब्दे ३२७२ पृ० दर्शितः स च बुद्धिधर्मः क्लेशविशेषः अस्मिताजन्यश्च। तल्लक्षणादिकं पात० सू० भाष्यादावुक्तम् यथा “अविद्यास्मितारागद्वेषाभिवेशाः पञ्च क्लेशाः” इत्युद्दिश्य “दुःखानुशयी द्वेषः” इति लक्षितम्। “दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेष इति” भाष्यम्। दुःखमनुशेते कश्चिदन्तःकरणवृत्तिभेदः तमोऽनुगतपरिणामः ईदृशं सर्वदा मे मा भूदित्येवं तदयं दुःखानुशयीति भाष्यार्थः। “अनभिज्ञस्य स्मृतेरभावात् दुःखाभिज्ञस्येत्युक्तं स्मर्य्यमाणे दुःखे द्वेषः दुःखानुस्मृति पूर्वकः, अनुभूयमाने तु दुःखे नानुस्मृतिमपेक्षते। तत्साधने तु स्मर्यमाणे अनुभूयमाने वा दुःखानुस्मृतिपूर्तक एव द्वेषः अनुभूयमानं हि दुःखसाधनं तज्जातीयस्य दुःखहेतुत्वं स्मृत्वा तज्जातीयतया चास्य दुःखहेतुत्वमनुमाय द्वेष्टि। प्रतिहन्तीति प्रतिघः द्वेषस्य प्रवृत्तेः प्रतिहननात् प्रतिघत्वम्” विव०। तच्च शत्रुव्याघ्रादिषु सत्सु न निवारयितुं शक्यम्। न च सर्वे ते दुःखहेतवो हन्तुं शक्यन्ते अतः स द्वेषः सदा हृदयं दहति। यदा तु स्वस्येव परेषां सर्वेषामपि दुःखं ना भूदिति करुणां दुःखिषु भावयेत् तदा वैर्यादिद्वेषनिवृत्तौ चित्तं प्रसीदति। यद्यसौ पुण्यपुरुषेषु मुदितां भावयेत् तदा तद्वासनाभावात् स्वयमेवाप्रमत्तोऽशुक्ला कृष्णे पुण्ये प्रवर्त्तते। तथा पापपुरुषेषूपेक्षां भावयन् स्वयमपि सद्वासनाभावात् पापान्निवर्त्तते। ततश्च पुण्याकरणपापकरणनिमित्तस्य पश्चात्तापस्याभावे चित्तं प्रसीदति। एवं सुखिषु मैत्रीं भावयतो न केबलं रागो निवर्त्तते। किन्त्वसूयेर्ष्यादयोऽपि निवर्त्तन्ते। तथा दुःखिषु करुणां भावयतः शत्रुबधादिकरो द्वेषो यदा निवर्त्तते तदा दुःखिप्रतियोगिकःसुखित्वप्रयुक्तो दर्पोऽपि निवर्त्तते। एवं दोषान्तरनिवृत्तिरप्यूहनीया। दुःखे तत्साधने च इदं मे मा भूदिति स्पृहाविरोधिनी चित्तवृत्तिः क्रोध इति ईर्ष्येति चोच्यते। “इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ” गीता।
द्वेषण = त्रि० द्विष–युच्। १ शत्रौ अमरः “पानपो द्वेषणः क्रोधी निर्घृणः परुषस्तथा” भा० शा० १६८ अ०।
द्वेषपक्ष = पु० ६ त०। द्वेषावान्तरभेदेषु “द्वेषपक्षाः क्रोध ईर्ष्या द्रोहोऽमर्ष इति” न्यायभाष्यम्।
द्वेष् = न० द्विष–कर्त्तरि विच्। द्वेष्टरि। “बाधतां द्वेषो अभयं कृणोतु” ऋ० ६। ४७। १२। “द्वोषोद्वेष्टृन्” भा०
द्वेषस् = न० द्विष–कर्मणि असुन्। द्वेष्ये पापादौ “द्वेषोयुतमाविवासन्ति” ऋ० ४। ११। ५ द्वेषसो पापस्य युतं पापयुतम्” भा०।
द्वेषिन् = त्रि० द्विष–णिनि। द्वेषकारके। “तथापि ववृषे तस्य तत्कारि द्वेषिणो यशः” रघुः। “मद्याजी शङ्करद्वेषी मद्द्वेषी शङ्करप्रियः। उभौ तौ नरकं यातश्छिन्नरज्जूघटाविव” पुरा० सारः। भावे असुन्। २ द्वेषे ३ अप्रीतौ च पु०। “द्वेषोयुतो न दुरिता” ऋ० ५। ०१। ६। द्वेषोयुतः अप्रीतियुतः भा०।
द्वेष्य = त्रि० द्वेष्टुमर्हः यत् कर्मणि ण्यद्वा। १ द्वेषविषये २ द्वेषार्हे च। “द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” रघुः। “यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति” मनुः। स्वकृतापकारमपेक्ष्यापकारकर्त्तरि असहने ३ शत्रौ च।
द्वै = अ० द्वृ–बा० डै। वितर्के चादिगणः।
द्वैगुणिक = त्रि० द्विगुणार्थं द्विगुणं “तत् प्रयच्छति गर्ह्यम्” पाठक्। द्विगुणलाभाय धनप्रयोक्तरि वृद्ध्याजीवे वार्द्धुषौ।
द्वैत = न० द्विधा इतं द्वीतं तस्य भावः स्वार्थे वा अण्। द्वैधीभावे २ द्वये युगले च। द्वैताद्वेतयोरुभयोरपि सप्रमाणकत्वात् न्यायादिमते द्वैतम् वेदान्तिमते अद्वैतं रामानुजमते विशिष्टाद्वैतमित्येव स्थितम्। अन्ये शुद्धाद्वैतमिच्छन्ति। तत्राचार्य्या एवमाहुः। “अद्वैतमेव सत्यं तस्मिन् द्वैतं न सत्यमध्यस्तम्। रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम्। आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते। युक्तं नैव तदा स्यात् सत्येऽध्यासो भवत्यसत्यानाम्। यद्यारोपणमुभयोस्तद्व्यतिरिक्तस्य कस्यचिद्भावः। आरोपणं न शून्ये तस्माद्द्वैतसत्यता ग्राह्या। प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम्। द्वैतं न प्रतिपाद्यं तस्य स्वयमेव लोकसिद्धत्वादिति। प्रपञ्चो यदि विद्येत निवर्त्तेत न सशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः।”
द्वैतवन = न० द्वे शोकमोहादिके इते यस्मात् द्वीतं स्वार्थे अण् कर्म्म०। १ तपोवनभेदे “युधिष्ठिरं द्वैतवने वनेचरः” किरा०। २ तादृशवनोपलक्षिते सरोवरभेदे च। “इदं द्वैतवनं नाम सरः पुण्यजलोषितम्।” “गच्छामः पुण्यं विख्यातं महद्द्वैतवनं सरः” भा० व० २४ अ०। “तेन हैतेन ध्वसा द्वैतवन ईजे मात्स्यो राजा यत्रैतत्द्वैतवनं सरस्तदेतद्गाथयाभिगीतं चतुर्दश द्वैतवने राजा संग्रामजिद्धयान् इन्द्राय वृत्रघ्नेऽबध्नात् तस्माद्द्दैतवनं सरः” शत० ब्रा० १३। ५। ४। ९।
द्वैतवाद = पु० द्वैतमधिकृत्य वादः। गौतमादिप्रणीते जीवेश्वरविभेदनिर्णायके १ कथारूपग्रन्थभेदे कपिलादिप्रणीते नानाजीवनिर्णायके २ कथाभेदे च। तत्र सांख्यमते यथा जीवानां परस्परभेदस्तथा सां० का० तत्त्वकौ० उक्तो यथा “जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च। पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव” सां० का०। “पुरुष- बहुत्वं सिद्धं कस्माज्जन्ममरणकरणानां प्रतिनियमात् निकायविशिष्टाभिरपूर्वाभिर्देहेन्द्रियमनोऽहङ्कारबुद्धिवेदनाभिः पुरुषस्याभिसम्बन्धोजन्म न तु पुरुषस्य परिणामस्तस्यापरिणामित्वात् तेषामेव च देहादीनामुपात्तानां परित्यागो मरणं न त्वात्मनोविनाशः तस्य कूटस्थनित्यत्वात्। करणानि बुद्ध्यादीनि त्रयोदश तेषां जन्ममरणकरणानां प्रतिनियमोव्यवस्था सा खल्वियं सर्वशरीरेष्वेकस्मिन् पुरुषे नोपपद्यते तदा खल्वेकस्मिन् जायमाने सर्वे जायेरन् म्रियमाणे च म्रियेरन् अन्धादौ चैकस्मिन् सर्वे एवान्धादयः विचित्ते चैकस्मिन् सर्व एव विचित्ताः स्युरित्यव्यवस्था स्यात् प्रतिक्षेत्रं पुरुषभेदे तु भवति व्यवस्था। नचैकस्याप्रि पुरुषस्य देहोपाधानभेदाद्व्यवस्थेति युक्तं पाणिस्तनाद्युपाधिभेदेनापि जन्ममरणादिव्यवस्थाप्रसङ्गात्। न हि पाणौ वृक्णे, जाते वा स्तनादौ महत्यवयवे, युवतिर्जाता मृता वा भवतीति। इतश्च प्रतिक्षेत्रं पुरुषभेद इत्याह अयुगपत्प्रवृत्तेश्च प्रवृत्तिः प्रयत्नलक्षणायद्यप्यन्तःकरणवर्त्तिनी तथापि पुरुषे उपचर्यते तथा च तस्तिन्नेकत्र शरीरे प्रयतमाने स एव सर्वशरीरेष्वेक इति सर्वत्र प्रयतेत सर्वाण्येव शरीराणि युगपच्चालयेत् नानात्वे तु नायं दोष इति। इतश्च पुरुषभेद इत्याह त्रैगुण्यबिपर्ययाच्चैव एवकारोभिन्नक्रमः सिद्धमित्यस्यानन्तरं द्रष्टव्यः सिद्धमेव नासिद्धम्। त्रयोगुणास्त्रैगुण्यं तस्य विपर्ययोऽन्यथाभावः, केचित् खलु सत्वनिकायाः सत्वबहुला यथोर्द्ध्वस्रोतसः केचिद्रजोबहुलाः यथा मनुष्याः। केचित्तमोबहुलाः यथा तिर्य्यग्योनयः। सोऽयमीदृशस्त्रैगुण्यविपर्ययोऽन्यथाभावस्तेषु सत्वनिकायेषु न भवेत् यद्येकः पुरुषः स्याद्भेदे त्वयम दोष इति” तत्त्वकौ०। “जन्मादिव्यवस्थातः पुरुषबहुत्वम्” नाद्वैत श्रुतिविरोधेः जातिपरत्वात्” सां० सू०।
द्वैतवादिन् = त्रि० द्वैतं जीवभेदं जीवेश्वरयोर्भेदं वा वदति वद–णिनि। जीवभेदवादिनि जीवेश्वरयोर्भेदवादिनि च नैयायिकादौ।
द्वैताद्वैत = न० द्वैतञ्चाद्वैतञ्च। जीवेश्वरयोर्भेदाभेदयोः। “अद्वैतञ्च तथाऽद्वैतं द्वैताद्वैतं तथैव च। न द्वैतं नापि चाद्वैतमित्येतत् पारमार्थिकम्। न हि नैवान्यसम्बन्घो ब्रह्मभावेन भावितः। ईदृक्षायामवस्थायामवाप्यं परमं पदम्। द्वैतपक्षाः समाख्याता येऽद्वैते तु व्यवस्थिताः”।
द्वैतिन् = त्रि० द्वैतं भेदः सम्मततयाऽस्त्यस्य इनि। द्वैतवादिनि नैयायिकादौ। “स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम्। परस्परं विरुध्यन्ते तैरियं न विरुध्यते”। “अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते। तेषामुभयथाद्वैतं तेनायं न विरुध्यते”।
द्वैतीयीक = त्रि० द्वितीय + स्वार्थे ईकक्। द्वितीये “द्वैतीयीकतया मितोऽयमगमत् तस्य प्रबन्धे महा” इत्यादि नैष०।
द्वैधम् = अव्य० द्वि + प्रकारे घमुञ्। प्रकारद्वये एकेन सन्धिरपरेण बिग्रह इत्येवं प्रकारद्वयमित्यादि। “श्रुतिद्वैधं यत्र तु स्यात्तत्र धर्मावुभौ स्मृतौ” मनुः। “बलस्य स्वामिनश्चैव स्थितिः कार्य्यार्थसिद्धये। द्विविधं कीर्त्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः” मनुः।
द्वैध = त्रि० धमुञन्तात् स्वार्थे बार्त्ति० स्वार्थे ड। १ द्विप्रकारे। “बहुलं परिगृह्णीयात् साक्षिद्वैधे नराधिपः” मनुः। “ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्” भा० शा० ८५ अ०। राज्ञां सन्ध्यादिषु षट्सु गुणेषु २ गुणभेदे “सन्घिर्ना विग्रहो यानमासनं द्वैधमाश्रयः” अमरः।
द्वैधीभाव = पु० अद्वैधस्य द्वैधस्य भावः। द्वैध–चि भूप्रयोगः भावे घञ्। १ द्विधाभावे षाड्गुण्यान्तर्गते २ द्वैधरूपे भावे च। स च बाह्ये एकप्रकारः आभ्यन्तरे अन्यप्रकार इत्येवं द्विप्रकाररूपः यथोक्तं वह्निपु० षाड्गुण्योक्तौ “बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन्। द्वैधीमावेन तिष्ठेत्तु काकाक्षिवदलक्षितः”। २ द्विधा भवते “अक्षरञ्च क्षरञ्चैब द्वैधीभावोऽयमात्मनः” भा० आश्व० २८ अ०।
द्वैप = त्रि० द्वीपिनी विकारः “प्राणिरजतादिभ्योऽञ् पा० अञ्। १ व्याघ्रविकारे २ तच्चर्मणि न०। द्वैपेन चर्मणा परिवृतो रथः “द्वैपवैयाघ्रादञ्” पा० पुनरञ्। २ द्वीपिचर्मपरिवृते रथे पु० द्वीपिन इदम् अण्। ३ तत्सम्बन्धिनि त्रि०।
द्वैपक = पु० द्वीपे भवः धूमा० वुञ्। द्वीपान्तरभवे।
द्वैपदिक = पु० द्विपदामृचं वेद अर्धाते वा उक्था० ठक्। १ द्विपदाध्यायिनि २ तद्वेत्तरि च।
द्वैपायन = पु० स्त्री द्वीपस्य गोत्रापत्यम् नडा० फक्। १ द्वीपर्षेः गोत्रापत्ये। द्वीपः अयनं जन्मभूमिर्यस्य स्वार्थे प्रज्ञा० वा अण्। २ व्यासे “इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्। पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा। जज्ञे च यमुनाद्वीपे पाराशर्य्यः स वीर्य्यवान्। स मातरमनुज्ञाप्य तपस्येव मनो दधे। स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्। एवं द्वैपायनो जज्ञे सत्य- वत्यां पराशरात्। न्यस्तो द्वीपे स यद्बालस्तस्माद् द्वैपायनः स्मृतः” भा० आ० ६० अ०। “द्वैपायनो विरहकातर आजुहाव” भाग० १। १ “तमहमरागमतृष्णं कृष्णद्वैपायनं वन्दे” वेणीसं०।
द्वैपारायणिक = पु० द्वयोः पारायणयोः समाहारः द्विपारायणं वर्त्तयति ठञ् प्रत्ययविधौ तदन्तग्रहणप्रतिषेधेऽपि “इतः ऊर्द्ध्वन्तु संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि” सि० कौ० उक्तेः संख्यापूर्वस्य तदन्तग्रहणम्। पारायणद्वयावर्तिनि।
द्वैमातुर = पु० द्वयोर्मात्रोरपत्यं “मातुरुत् संख्यासुपूर्वेति” पा० अण् रपरत्वम्। १ द्विमातृजे गणेशे २ जरासन्धे नृपे च। वरेण्यनृपजायापुष्पकागर्भजातत्वात् दीपवत्सलापालितत्वाच्च गणेशस्य द्विमातृकत्वं तत्कथा स्क० पु० गणेशखण्डे यथा। “आविर्भविष्ये सदने वरेण्यस्य महीपतेः। त्रैलोक्यरक्षणार्थाय विघ्नस्यास्य प्रशान्तये। पालनाय स्वभक्तानां साधुत्राणाय भूसुराः। शिव उवाच। इत्युक्त्वा पुष्पकागर्भं प्रविवेश तदैव सः। आगते नवमे मासि प्रासूत पुष्पका शिशुम्। चतुर्बाहुमिभास्यं च दन्तुरं सुन्दरेक्षणम्। आयुधानि च चत्वारि विभ्रतं तेजसान्वितम्। दृष्ट्वा सा क्रन्दनं चक्रेऽरिष्टमेतत् किमागतम्। श्रुत्वा चाक्रन्दनं तस्याः वरेण्यः सगणो ययौ। ददर्श बालकं सोऽपि विस्मितः सह तैर्गणैः। उवाच सेवकान् राजा त्यजतैनं सरोवरे। शिशुमादाय ते याताः पार्श्वस्यैवाश्रमे शुभे। कासारे तं शिशुं त्यक्त्वा ययुः सर्वे निजं पुरम्। अपरस्मिन् दिनेपार्श्वमुनिः स्नानाय चागतः। तदैव ददृशे तेन बालकोऽद्भुतदर्शनः। आश्चर्यमकरोत्तत्र मयभीतस्तथाऽभवत्। आश्रमे केन मे त्यक्तमरिष्टसुखदायिनीम्। तपसा नु फलं दातुमीदृशीं धृतवांस्तनुम्। रक्षितुं सर्वलोकानां परमात्मा निजेच्छया। सुन्दरो बालकः केन त्यक्तोऽयमीदृशो बहिः। नीत्वा स्वमाश्रमं चैनं पालयिष्ये प्रयत्नतः। इत्युक्त्वा जगृहे बालमालिलिङ्ग मुदा मुनिः। तमानीतं मुनेः पत्नी ददर्श दीपवत्सला। उवाच निजभर्त्तारं सुपसन्नाननाम्बुजा। दीपवत्सलोवाच। किमानीतं महत् स्वामिन्! मृशमाश्चर्यकारकम्। इदं वैनायकं रूपं ममाभाति द्विजर्षभ!। इदमेव श्रियः स्थानं इदमेव तपःफलम्। इदमेव परं ब्रह्म योगिध्येयं सनातनम्। इदमेव परं तेज आ- दित्ये यदधिष्ठितम्। इदमेव हि वेदान्ता नेतिनेति प्रचक्षते। शिव उवाच। इत्युक्त्वा हर्षसम्पन्ना भर्तुरादाय बालकम्। स्तनपानं ददौ तस्मै ततः सा दीपवत्सला। द्वितीयाचन्द्रवद्बालो वृद्धिं यातो दिने दिने”। जरासन्धशब्दे तस्य द्वैमातुरत्वं दृश्यम्। “हते हिडम्बरिपुणा राज्ञि द्वैमातुरे युधि” माघः।
द्वैमातृक = पु० द्वे मातराविव पालिके अस्य द्विमातृक ततः स्वार्थे अण्। नदीवृष्टिजलजनितशस्यपालिते देशे राजनि०।
द्वैयहकाल्य = त्रि० द्व्यहरूपः कालो यस्य तस्य भावः ष्यञ्। पदान्ताभ्यां य्वाभ्यां पूर्वमैच्। द्व्यहकालजातस्य भावे। “द्वैयहकाल्ये तु यथान्यायम्” जै० सू० “द्वैयहकाल्ये क्रियमाणे यथान्यायं कृतं भवति तस्मात् द्वैयहकाल्यं स्यात्। चोदकः तथा अनुगृहीतो भवति पकृतौ हि श्रूयते। “पूर्वेद्युः अग्निं गृह्णाति उत्तरमहर्देवतां यजेत्” इति। तस्मात् द्व्यहकालम् एकमभिनिर्वर्त्य तदहरेवोपक्रम्याऽपरेद्युः परिसमावयेत् भा० “वचनाद्द्वैककाल्यं स्यात्” सू० “नैतदेवं द्व्यहकाला विकृतयो भवेयुः इति सद्यस्कालाः स्युः” शवरभा०।
द्वैयह्निक = त्रि० द्वयोरह्नोर्भवः “द्विगोर्वा रात्र्यहःसंवत्सराच्च” पा० पक्षे ठञ् समासान्तविधेरनित्यत्वात् न टच् सूत्रे रात्र्यहरिति नान्वतया निर्देशात् सि० कौ०। अह्नादेशः। द्वयोरह्नोर्भवे।
द्वैयाहाविक = त्रि० द्वयोराहावयोर्निपानयोर्भवः धूमा० वुञ् ऐच्। द्वयोराहावयोर्भवे।
द्वैरथ = न० द्वौ रथौ यत्र युद्धे स्वार्थे अण्। द्वाभ्यामेव रथाम्यामुपलक्षिते युद्धे। “द्वैरथेनास्तु वै शान्तिस्तव च मम बा नृप!” भा० व० ७८ अ०। “चिकीर्षन् द्वैरथं युद्धमभ्ययान्मधुसूदनम्” हरिवं० ११८ अ०।
द्वैरात्रिक = त्रि० द्वयो रात्र्योर्भवः “द्विगोर्वा रात्र्यहःसंवत्सराच्च” पक्षे ठञ्। द्वयोरात्र्योर्भवे। अत्रापि समासान्तविधेरनित्यत्वात् न समासान्तः सूत्रे रात्रीति ढिर्देशात् पक्षे ख द्विरात्रीण तत्रार्थे त्रि०।
द्वैराश्य = न० द्वौ राशी यस्य तस्य भावः ष्यञ्। द्विविधराशियुक्तत्वे।
द्वैविध्य = न० द्विविधस्य भावः ष्यञ्। प्रकारद्वये “द्वैविध्यं तु भवेद्व्याप्तेरन्वयव्यतिरेकतः” भाषा०।
द्वैषणीया = स्त्री द्वेषणमेव स्वार्थे अण् द्वैषणं तदर्हति छ। नागवल्लीभेदे राजनि०।
द्वैसमिक = त्रि० द्वयोः समयोर्वर्षयोर्भवः समायाः यत् “द्विगोष्ठंश्च” पा० पक्षे ठञ्। वर्षद्वयभवे।
द्वैहायन = न० द्विहायनस्य भावः युवा० अण्। द्विवर्षवयस्कभावे
द्व्यंश = न० द्वयोरंशयोः समाहारः पात्रा० न ङीप्। भागद्वये “वैश्यापुत्रो हरेद्द्व्यंशम्” मनुः। “द्व्यंशहरी ह्यर्द्धहरो वा पुत्रवित्तार्जनात् पिता” दायभा०।
द्व्यक्ष = त्रि० द्वे अक्षिणी यस्य ष समा०। नेत्रद्वययुते स्त्रियां ङीष्। “द्व्यक्षीं त्र्यक्षीं ललाटाक्षीम्” र्भा० व० २७९ अ०। नानाराक्षस्युक्तौ।
द्व्यक्षर = न० द्वे अक्षरे यत्र। १ बर्णद्वयात्मके मन्त्रभेदे शक्तिमन्त्ररूपायां २ विद्यायां स्त्री गौरा० ङीष्। “रामेति द्व्यक्षरं नाम मानभङ्गः पिनाकिनः”। “यजेति द्व्यक्षरं द्व्यक्षरो वषट्कारः” तैत्ति० सं० १। ६। १२।
द्व्यङ्गुल = त्रि० द्वे अङ्गुल्यौ प्रमाणमस्य तद्धितार्थद्विगुः प्रमाणार्थकमात्रचः “प्रमाणे लोद्विगोर्नित्यम्” वा० लुक् अच् समा०। १ अङ्गुलीद्वयमिते। द्वयोरङ्गुल्योः समाहारः अच् समा०। २ अङ्गुलीद्वये न०। “फलके द्व्यङ्गुलान्तरे” कात्या० श्रौ० ८५। २५। “अर्काङ्गुला तु सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका” ज्यो० त०।
द्व्यञ्जल = त्रि० द्वयोरञ्जल्योः समाहारः अ समा०। १ अञ्जलिद्वये। द्वाभ्यामञ्जलिभ्यां क्रीतः ठञ् तस्य अध्यर्द्धपूर्वेत्यादिना लुकि न अ समा०। प्रमाणे लोद्विगोर्नित्यम् वार्त्ति० लुपि तु वा अच्। २ अञ्जलि द्वयमिते त्रि० “प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम” भट्टिः।
द्व्यणुक = न० द्वौ अणू कारणे यस्य कप्। परमाणुद्वयारब्धे कार्य्यद्रव्यभेदे “विषयोद्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः” भाषा० आरम्भवादशब्दे ७९७ पृ० दृश्यम्।
द्व्यर्थ = त्रि० द्वौ अर्थौ यस्य। १ अर्थद्वययुते शब्दादौ “द्व्यर्थः पचिः” महाभाष्यम्। २ द्विप्रयोजनके कार्य्यमेदे च “आम्रश्च सिक्तः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरीह लोके” वायुपु०। समाहारद्वि० पात्रा०। अर्थद्वये न०।
द्व्यशीति = स्त्री द्व्यधिका अशीतिः अशीतिपर्य्युदासात् न आत्। १ द्व्यधिकाशीतिसंख्यायां २ तदन्विते च एकव० ततः पूरणे डट् द्व्यशीत तमप् द्व्यशीतितम तत्पूरणे त्रि०। डटि स्त्रियां ङीप्। द्व्यशीतियुतं शतादि ड। द्व्यशीत द्व्यशीतियुते शतादौ त्रि०।
द्व्यष्ट = न० द्वे हेमरूप्ये अश्नुते कारणतया व्याप्नोति अश–क्त। ताम्रे अमरः।
द्व्यह = पु० समाहारद्विगु टच्समा०। “अह्नान्वाः पुंसि” पा० पुंस्त्वम्। दिनद्वये।
द्व्यहीन = त्रि० द्वाभ्यामहर्भ्यां निर्वृत्तादि। “द्विगोर्वा रात्र्यहः संवत्सराच्च” वा ख सूत्रे अहरिति निर्देशात् न टच्। १ दिनद्वयसाध्ये २ क्रतुभेदे पु० द्विरात्रशब्दे दृश्यम्।
द्व्याक्षायण = पु० ऋषिभेदे। तस्य विषयो देशः ऐषुका० भक्तल्। द्व्याक्षायणभक्त तदीये विषये देशे।
द्व्याचित = त्रि० द्वे आचिते सम्भवति अवहरति पचति वा “आढकाचितपात्रात् खोऽन्यतरस्याम्” पा०। द्विगोरेव ष्ठन्खौ पक्षे ठञ् तस्य अध्यर्द्धेति लुक्। आचितद्वयस्य १ स्वस्मिन् समावेशके २ अवहारके च ३ पाचके च। स्त्रियां द्विगोरिति पा० ङीप्। पक्षे ख। द्व्याचितीन तदर्थे त्रि० पक्षे ष्ठन्। द्व्याचितिक तदर्थे षित्त्वात् स्त्रियां ङीष् इति भेदः।
द्व्याढक = त्रि० द्व्याचितवत् सर्वं साधनादि। आढकद्वयस्य स्वस्मिन् १ समावेशके २ तदवहारके तत्पाचके च। स्त्रियां द्विगोरिति पा० ङीप्। पक्षे ख। द्व्याढकीन ष्ठन्। द्व्याढकिक तत्रार्थे त्रि० स्त्रियां षित्त्वात् ङीष्।
द्व्यात्मक = पु० द्वौ द्विविधौ रूपौ आत्मानावस्य कप्। द्विस्वभावे राशिभेदे “चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः” ज्यो० त०। तस्य द्विस्वभावत्वेऽपि च पूर्वार्द्धम् चरसान्निध्यात् चरात्मकम् परार्द्धन्तुस्थिरसान्निध्यात् स्थिरात्मकमिति द्विस्वभावत्वम् द्वितनुद्विस्वभावादयोऽप्यत्र।
द्व्यामुष्यायण = पु० अमुष्य प्रसिद्धस्यापत्यम् फक् आमुष्याषणः द्वयोरामुष्यायणः ६ त०। “उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः” इत्युक्ते तव, मम चायमिति समयेन परिगृहीते १ पुत्रभेदे। “केवलदत्तको जनकेन प्रतिग्रहीत्रर्थमेव दत्तस्तस्यैव पुत्रः। द्व्यामुष्यायणस्तु जनकप्रतिग्रहीतृभ्यामावयोरयमिति सम्प्रतिपन्नः स उभयोरपि पुत्रः” मिता०। विवृतिर्दत्तकग्रन्थे दृश्या।
द्व्यायुष = न० समाहारद्विगुः अचतुरेत्यादि अच्समा०। द्विगुणितायुःकाले।
द्व्याहाव = न० समा० द्वि० पात्रा०। आहावद्वये निपानद्वये।
द्व्याहिक = त्रि० द्व्यहे भवः ठञ् बा० न ऐच्। द्व्यहजाते ज्वरे पारस्करनिघण्टुः।
द्व्येक = त्रि० द्वौ वा एको वा वार्थे बहु० ड समा०। (दुइ वा एक) इति ख्याते पदार्थे “द्व्येकान्तरानुजातानां धर्म्यं विद्यादिमं विधिम्” मनुः।
द्व्योग = पु० द्वयोर्योगयोः समाहारः पृषो०। योगद्वये पञ्चभीष्मब्रा०।
द्व्योपश = पु० ईषदुपशेते आ + उप + शे–ड ओपशं शृङ्गं द्वे ओपशे यस्य। पशौ “द्व्योपशमिव द्याम्” ऋ० १। १७३। ६। “संस्तुता भवन्ति तस्मात् द्व्योपशाः पशवः” पञ्चभीष्मव्र० १३। ४। ३। ओपशशब्दार्थस्तु पूर्वं प्रमादान्न लिखितः अत्र निखित इति बोध्यम। इति श्रीतारानाथतर्कवाचस्पति सङ्कलिते वाचस्पत्ये दकारादिशब्दार्थसङ्कलनम्। द्वारकाशब्दात् परम् ३८०८ पृष्ठस्य क्रोडपत्रम्।
***