द्वि = त्रि० द्वि० व०। द्वृ–ड। १ द्वित्वसंख्यायां “द्व्येकयोर्द्विवचनैकवचने” पा० द्वित्वार्थकताया भाष्याद्युक्तेः। २ द्वित्वसंख्यान्विते च। सर्वनामकार्यं तस्य जसादिप्राप्त्यभावात् त्यदादित्वात् अत्वम्। द्वौ द्वे। द्वयोः स्त्रियोः पुत्रः द्विपुत्र इत्यादौ सर्वनामत्वात् वृत्तिमात्रे पुंवद्भावः। अकच्। द्वके इत्यादि। स्वार्थे केनोपपत्तौ चित्स्वरार्थमकच्।
द्विक = त्रि० द्वि० व०। द्वि–अकच्। १ द्वित्वसंख्यायां तद्युते त्रि० स्त्रियां टेरकचि द्वके इत्येव स्वार्थे के तु प्रत्ययस्थकात् पूर्वमत इत्त्वम् द्विके इति भेदः। द्वयोरवयवः द्वौ अवयवौ वा यस्य कन्। २ द्वित्वे न० एकव०। ३ तद्युते त्रि० “एकं द्विकं त्रिकं चैव चतुष्कं पञ्चकं तथा। अमी पञ्चैव लिङ्गार्थाः” भर्त्तृहरिः। द्वौ दीयेते वृद्ध्यादिना अत्र शतादौ कन्। ४ वृड्यादिना दीयमानद्विरूपकादिके शतादौ। “द्विकं शतं वा गृह्णीयात् सतां धर्ममनुस्मरन्” “द्विकं शतञ्च गृह्णानो न भवत्यर्थकिल्विषी” मनुः द्वौ कौ ककारौ वाचकशब्दे यस्य। ५ काके ६ कोके च पुंस्त्री० मेदि०। तयीर्वाचकशब्दे ककारद्वयस्य सत्त्वात् तथात्वम्। स्त्रियां जातित्वात् ङीष्।
द्विककार = पुंस्त्री० द्वौ ककारौ वाचकशब्देऽस्य। १ काके २ कोके च शब्दरत्ना०। स्त्रियां जातित्वात् ङीष्। ३ ककारद्वययुते शब्दादौ त्रि०।
द्विककुद्र = पु० द्वे ककुदे यस्य अन्त्यलोपः समा०। उष्ट्रे हेमच०
द्विकर = त्रि० द्वौ करोति संख्यापूर्वकत्वात् अहेत्वादौ कृ–ट। १ द्विसख्यान्वितकारके। द्वौ करौ यस्य २ द्विभुजे च। द्वयोः करयोः समाहारः। ३ करद्वये “बुभुक्षितः किं? द्विकरेण भुङ्क्ते” उद्भटः।
द्विकार्षापण(णिक) = त्रि० द्वाभ्यां कार्षापणाभ्यां क्रीतं ठक् तस्य वा लुक्। द्वाभ्यां कार्षापणाभ्यां क्रीते पक्षे ठकोऽलोपे। द्विकार्षापणिक तत्रार्थे।
द्विकौडविक = त्रि० द्वौ कुडवौ प्रयोजनमस्य ठञ्, द्वाभ्यां कुडवाभ्यां क्रीतं वा ठक् न तस्य लुक्। उत्तरपदवृद्धिः। १ द्विकुडवप्रयोजनके २ द्वाभ्यां कुडवाभ्यां क्रीते च।
द्विगु = त्रि० द्वौ गावौ यस्य गौणत्वात् गोर्ह्रस्वः। १ द्वयोर्गवोः सम्बन्धिनि द्विगवस्वामिके पुरुषे। “द्वन्द्वो द्विगुरपि चाहं सततमस्मद्गृहे व्ययीभावः” उद्भटः। व्याकरणोक्ते तत्पुरुषान्तर्गते पा० सूत्रोक्ते २ समासभेदे पु० स च सि० कौ० मनोरमादौ च दर्शितो यथा “दिक्संख्ये संज्ञायाम्”। २। १। ५०। पा० “समानाधिकरणेनेत्यापादपरिसमाप्तेरधिकारः। संज्ञायामेवेति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। नेह उत्तरा वृक्षाः। पञ्च ब्राह्मणाः” सि० कौ०। “तद्धितार्थोत्तरपदसमाहारे च” पा०। २। १५१। पा० “तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा। पूर्वस्यां शालायाम्भवः। पौर्वशालः। समासे कृते दिक्पूर्वपदादसंज्ञायां ञैति ञः। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः। आपरशालः। पूर्वाशाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः तेन शालाशब्दे आकार उदात्तः। पूर्वशालाप्रियः। दिक्षु समाहारो नास्त्यनभिधानात्। संख्यायास्तद्धितार्थे षण्णां मातॄणामपत्यम् षाण्मातुरः। पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्” सि० कौ० “नियमार्थमिति विशेषणं विशेष्येणेत्यनेनैव सिद्धे तत्पुरुषे संज्ञायामेव दिक्संख्ये समस्येते नान्यत्रेति नियामकमिदमिति भावः। त्रिलोकनाथ इत्यादौ तु उत्तरपदद्विगुरिति असंज्ञकत्वेऽपि न क्षतिः। पूर्वसूत्रमित्यादौ संज्ञाभावेऽपि कालवाचकत्वात् समासो, न ह्यत्र दिग्विशेषबोध उदयगिर्य्यादिसम्बद्धाया एव दिक्त्वात् एवं देशवाचकेनापिं समास इति द्रष्ट- व्यम्” मनो०। “तद्धितार्थोत्तरेत्यादिसूत्रे वैषयिके आघारे सप्तमी। विषयत्वञ्चानेकविधमित्याह तद्धितार्थे विषये इत्यादि तद्धितार्थे वाच्ये इति तु नोक्तं पाञ्चनापितिरित्यादौ समासेनोक्तत्वात्तदुत्तरं तद्धितानुत्पत्तिप्रसङ्गात्। अतएव द्विगोस्तद्धितस्य लुग्वचनं चरितार्थमन्यथा तदर्थस्य समासेनोक्ततयाऽप्रयोगात् तदनुत्पत्तौ कथं लोपः स्यात्”। “समाहारः समूहः स चावयवाभिन्नो बुद्धिकल्पितभेदवान्। अतएव समूहं प्रति तस्योपसर्ज्जनत्वं तेन पञ्चखद्वीत्यादिसिद्धिः तत्र खट्वाशब्दस्योपसर्जनत्वेन ह्रस्वे कृत एवादन्तत्वे सत्येव ङीषः प्रवृत्तेरित्यन्यत्र विस्तरः। अत्रेदं बेध्यं सामूहिकस्य तद्धितस्य लुकि पञ्चगवमित्यत्र गोरतद्धित लुकीति टच् न स्यादिति विषये इत्युक्तमेवञ्च समाहारे वाच्ये इति तस्य पृथग्ग्रहणसामर्थ्यादेव समासान्त इत्याशयेन वाच्ये इति व्याख्यातमिति” “तथाच समासेनैव समाहारस्योक्तत्वात् न सामूहिकतद्धितोत्पत्तिरिति भावः” मनी० “एतद्वार्त्तिकमुत्तरपूर्वेत्यादिद्वन्द्वसिद्ध्यर्थमवश्यमारम्भणीयं तेन प्रकृते पुंवद्भावेनोपपत्तावपि न विफलतेति बोध्यम्” “उदात्त इति असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदात्तत्वमेव स्यादिति भावः” मनो० “षाणमातुर इति “मातुरुत् संख्यासंभद्रपूर्वायाः” पा० इत्युदादेशः अनपत्य इत्युक्तेर्द्विगोर्लुगिति न लुक्” “विकल्पे प्राप्ते इति महाविभाषयेति शेषः। ततश्च टजभावे पञ्चगोधन इत्यपि स्यादिति भावः” “एतच्चोभयत्रापि नित्यताबोधकमिति बोध्यम् अतएवैतद्वार्त्तिकमुक्त्वा समुदायवृत्तावयवानां कदाचिदप्यवृत्तिर्मा भूदिति प्रयोजनमुक्तं भाष्य” “द्वन्द्वोत्तरतत्पुरुषोदाहरणन्तु वाक्च दृषच्च प्रिये अस्य वाग्दृषदप्रिय एवं छत्रोपानहप्रिय इह त्रिपदे बहुव्रीहौ कर्तव्ये पूर्वं नित्यद्वन्द्वस्तेन समासान्तोऽपि नित्य एव” मनो०। शब्दशक्तिप्रकाशिकायामेतल्लक्षणादिकमुक्तं यथा
“द्विगुं लक्षयति। संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम्। अभेदेनैव यत्स्वार्थे स द्विगुस्त्रिविधो मतः। संख्यावच्छिन्नशक्तं यत्पदोत्तरत्वविशिष्टं यन्नाम स्वार्थधर्मिकं तादात्म्येन तदलक्ष्यार्थस्यान्वयबोधं प्रति समर्थं तन्नामोत्तरतापन्नं तन्नामैव तदलक्ष्यार्थामिन्नस्वार्थे द्विगुरुच्यते। त्रिकटु त्रिभुवन चतुर्युग चतुर्वर्ग पञ्चगव्य पञ्चामृत षड्रस षट्पदार्थ सप्तर्षि अष्टनाग अष्टवसु नवरस नवग्रह दशमूल एकादशरुद्र एकादशेन्द्रिय द्वादशादित्य इत्यादिकस्तु कर्मधारयः शुण्ठ्यादिपर्याप्तत्रित्वावच्छिन्नबोधकतया न पूर्वपदाल क्ष्यार्थस्य बोधकस्त्रिकटुप्रभृतिभ्यः कटुत्रयादिसामान्यस्याप्रतीतेः। पञ्चमूलीत्यादौ तु मूलपञ्चकत्वेनैव मूलविशेषेषु तात्पर्यं नतु विशेषरूपेणापि अतएव “कण्टकार्यादिकं स्वल्पं गाम्भार्यादि च यन्महत्। पञ्चमूलं तदुभयं दशमूलमुदाहृतमित्यादिकस्ताद्रूप्येण बोघस्थलीयः प्रयोगः। “वर्षाकाले मघर्क्षेण युक्ता चापि त्रयोदशी” इत्यादिवदेकवचनस्य साधुत्वसम्भवात् द्बयोरूपमित्याद्यर्थे द्विरूपादिपदं नाभेदेन द्विप्रभृतेरनुभावकम्। एकत्वसंख्याया विशिष्टं बोधयदपि एकपदं न पर्याप्तिसंसर्गेण तदवच्छिन्नस्य बोधकं, द्वितयादिपदं पर्याप्त्या द्वित्वावच्छिन्नं प्रतिपादयदपि न तत्र शक्तं वाक्यत्वादतोनैकघटद्वितयपटेत्यादिकर्मधारयेऽतिप्रसङ्गः। सप्तशती पठ्यतामित्यादौ च यद्यपि शते धर्मिणि सप्तानामभेदेन नान्वयः बाधितत्वान्नापि सप्तपदलक्षितस्य, द्विगुत्वहान्यापत्तेः तथापि शतपदार्धैकदेशे शतत्वसंख्यायां तस्याः सप्तत्वसम्भवादिति वदन्ति। द्विगार्ग्यं गच्छत इत्याद्यव्ययीभाववारणन्तु पूर्ववत्। स चायं द्विगुस्त्रिविधः तद्धितार्थोत्तरपदसमाहारभेदात्। तत्र तद्धितार्थं द्विगुं लक्षयति। तद्धितार्थान्वितस्वार्थस्तद्धितार्थद्विगुर्मतः। तद्धितार्थे लाक्षणिकस्वान्त्यनामा त्वसर्वगः। यो द्विगुः स्वोत्तरतद्धितार्था न्वतस्वार्थकः स तद्धितार्थद्विगुः। द्विमुद्रो वृष इत्यादौ द्वाभ्यां मुद्राभ्यां क्रीतस्य द्विवर्षा गौरित्यादौ द्वाभ्यां वर्षाभ्यामभिन्नवयस्कस्य द्विदलं पवित्रमित्यादौ द्वाभ्यां दलाभ्यां निर्मितस्य, द्विगुञ्जं स्वर्णमित्यादौ द्वाभ्यां गुञ्जाभ्यां तुलितस्य, त्रिकाण्डः पुरुष इत्यादौ त्रिभिः काण्डैः परिमितस्य, पञ्चकपालश्चरुरित्यादौ पञ्चभिः कपालैः संस्कृतस्य, बोधने लुप्तस्यैव ठगादितद्धितस्य क्रीताद्यभिधायकत्वात्, परिशिष्टकृताम्मतेनेदम्। उक्तप्रयोगेषु द्विगोरन्तिमनाम्नैव क्रीतादिरूपार्थो लक्ष्यते नतु लुप्तष्ठगादिरप्यपेक्ष्यतेऽतस्तद्धितार्थलाक्षणिकस्वान्त्यनासको द्विगुरेव तद्धितार्थद्विगुरिति फणिभाष्यमतन्तु न युक्तम् असर्वगत्वात् पाञ्चपुरुषिरित्यादौ पञ्चानां पुरुषाणामपत्यस्य पञ्चगार्ग्यरूप्यो गौरित्यादौ पञ्चानां गर्गाणां भूतपूर्वस्य बोधने तद्धिते नैव स्वार्थस्यापत्यप्रभृतेरुपस्थापनात् द्विस्वर्णमुद्रः पशु- रित्यादावुत्तरपदस्य शक्तिविरहेण क्रीताद्यर्थे लाक्षुणिकत्वायोगात्। उत्तरपदद्विगुं लक्षयति। स्वान्तर्निबिष्टशब्दाभ्यां शब्दान्तरसमासगः। यो द्विगुः शाब्दिकैरुक्तः स उत्तरपदद्विगुः। यो द्विगुः स्वघटकनामभ्यां सह साकाङ्क्षनामान्तरेण समासस्यान्तर्गतः स उत्तरपदद्विगुः यथा पञ्च गावो धनमस्येत्यादिविग्रहे पञ्चगवघनः पुरुष इत्यादौ बहुब्रीह्यादिनिविष्टः पञ्चगवादिः। समाहारद्विगुं लक्षयति। स्वार्थान्वितसमाहारलक्षकस्वान्त्यशब्दकः। उक्ताभ्यामितरः किं वा समाहारद्विगुर्द्विगुः। स्वोपस्थाप्यार्थस्य समाहारलक्षको यदीयान्त्यशब्दः स द्विगुः समाहारद्विगुः पञ्चपुलीत्यत्र हि योगलभ्यानां पञ्चाभिन्नपुलानां समाहारः परस्थपुलशब्देन लक्ष्यते न तु तत्र द्विगोः शक्तिरन्यलभ्ये शक्त्ययोगात् अतएव न लक्षणापि शक्यसम्बन्धस्यैव लक्षणात्वेन वाक्ये तदसम्भवात्। यदि च पञ्चपुलीत्यतः पञ्चानां पुलानामेव बोधो न तु तत्समाहारस्यापि अतएव पञ्चपुलीं छिनत्ति इत्यादिकः प्रयोगः प्रमाणम् अन्यथा समूहात्मनः समाहारस्य छिदाद्यसम्भवेन तदयोग्यत्वापत्तेः पुलादेर्द्वित्वबहुत्वेऽप्येकवचनन्त्वानुशासनिकं दारादेर्बहुवचनवदुपपद्यते। न च द्रव्यप्राधान्ये पञ्चखट्वीत्यादौ ह्रस्वो न स्यात् गोशब्दस्येव स्त्रीप्रत्ययस्यापि समामान्त्यस्योपसर्जनस्यैव तद्विधानादिति बाच्यं समाहारसंज्ञकद्विगोरप्यन्त्यस्य स्त्रीप्रत्ययस्य पृथगेव ह्रस्वविधेर्वक्तव्यत्वात् प्रयोगानुसारित्वात् कल्पनायाः, पञ्चपाचकीत्यादावव्याप्तिश्च तत्रोत्तरपदस्य वाक्यत्वेन लक्षकत्वायोगादिति सूक्ष्ममीक्ष्यते तदा पूर्वनिरुक्ताभ्यां तद्धितार्थोत्तरपदद्विगुभ्यां भिन्नोद्विगुरेव समाहारद्विगुर्बाच्यः। एवञ्च द्विगोः कर्मधारयान्तर्गतत्वेऽपि न क्षतिरिति तु विभावनीयम्”।
द्विगुण = त्रि० द्वाभ्यां गुण्यते गुण–कर्मणि अच्। द्वाभ्यां गुणिते “एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्” “सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे” इति मनुः।
द्विगुणाकृ = द्विगुण + कृ–कृष्यर्थे डाच् द्विगुणकर्षणकरणे सक० उभ० अनिट्। द्विगुणाकरोति क्षेत्रकर्मकं द्विगुणवर्षणं करोतीत्यर्थः सि० कौ०
द्विगुणाकर्ण = त्रि० द्विगुणौ कर्णौ लक्षणमस्य “कर्णे लक्षणस्य” पा० कर्णशब्दे परे पूर्वस्य दीर्घः। द्विगुणकर्णरूपलक्षणान्विते।
द्विगुणित = त्रि० द्वाभ्यां गुणितः। द्वाम्यां गुणिते। द्विगु- णितसान्द्रतराक्षिपक्ष्ममाला” माघः “क्षेत्रस्य यस्य वदनं मदनारितुल्यं बिश्वम्बरा द्विगुणिता” लीला०
द्विचरण = त्रि० द्वौ चरणौ यस्य। १ द्विपादे मनुष्यादौ “गतः कालो यत्र द्विचरणपशूनां क्षितिभुजां पुरः स्वस्तीत्युक्त्वा विषयसुखमास्वादितमहो” शान्तिश० द्विचरणा अपि पशवः पशुतुल्याः पशूनां चतुश्चरणत्वे प्रसिद्धेऽपि नृपाणां द्विपदत्वेन पशुतुल्यत्वात् अपूर्वपशुत्वमिति गम्यते। २ राशिभेदे द्विपदशब्दे दृश्यम्। ३ पदद्वये न०
द्विज = पु० द्विर्जायते सुजर्थे वृत्तौ द्विशब्दः जन–ड। १ संस्कृत ब्राह्मणे “जन्मना जायते शूद्रः संस्कारैर्द्विज उच्यते” स्मृतिः। २ ब्राह्मणक्षत्रियवैश्येषु च “मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जीवन्धनात्। ब्राह्मणक्षत्रियविशस्तस्मा देते द्विजाः स्मृताः” याज्ञ०। ३ दन्ते तस्योत्पन्नस्य पतने पुनर्जन्मनो लोकप्रसिद्धेः। ४ अण्डजे च अमरः। प्रसवानन्तरं पुनरण्डात् तस्य प्रकाशरूपोत्पत्तेर्द्विजत्वम्। ५ तुम्बुरुवृक्षे राजनि०। ६ द्विर्जातमात्रे त्रि०। तत्र दन्ते “द्विजाबलीबालनिशाकरांशुभिः शुचिस्मितां बाचमवोचदच्युतः” माघः विप्रे अण्डजे च “हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजान् जनितमीनकेतनः” माघः।
द्विजकुत्सित = पु० द्विजैः कुत्सितः। श्लेष्मातकवृक्षे (नोनाआता) राजनि०। द्विजानान्तद्भक्षणनिषेधात् तथात्वम्।
द्विजदास = पु० ६ त०। शूद्रे राजनि०।
द्विजन्मन् = पु० द्वे जन्मनी अस्य। द्विजशब्दार्थे “वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्। कार्यः शरोरसंस्कारः पारणा प्रेत्यचेह च” मनुः
द्विजपति = पु० ६ त०। १ चन्द्रे त्रिका०। “द्विजानामौषधीनाञ्च सोमं राज्येऽभ्यषेचयत्” हरिवं० २२७ अ०। २ कर्पूरे च अमरः। ३ द्विजश्रेष्ठे “प्रशान्तोपद्रवं परिपूर्ण द्विजमण्डलसनाथम्” काद०। ४ पक्षिश्रेष्ठे ५ गरुडे च
द्विजप्रपा = स्त्री द्विजार्थं पक्षिणमुहिश्य प्रपा। आलबाले त्रिका०।
द्विजप्रिया = स्त्री ६ त०। १ सोमलतायां राजनि० तस्याश्च द्विजानां सोमयागाङ्गसाधनत्वात् तथात्वम्। २ द्विजप्रियमात्रे त्रि०।
द्विजबन्धु = पु० द्विजस्य बन्धुरिव। अब्राह्मणे भट्टदैवज्ञादौ अपकृष्टद्विजे। “स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा” स्मृतिः।
द्विजब्रुव = पु० द्विजमात्मानं जात्या ब्रूते ब्रू–क। जातिमात्रेण द्विजातिमानिनि द्विजविहितकर्माकारके द्विजे ब्राह्मणब्रुवोऽप्यत्र। “सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे। अधीते शतसाहस्रमनन्तं वेदपारगे” मनुः
द्विजराज = पु० ६ त० टच् समा०। १ चन्द्रे अमरः। द्विजपतिशब्दे दृश्यम्। “इत्थं द्विजेन द्विजराजकान्तिः” रघुः। २ कर्पूरे ३ द्विजश्रेष्ठे ४ द्विजोत्तमे विप्रे ५ पक्षीन्द्रे गरुडे च।
द्विजलिङ्गिन् = पु० द्विजस्य लिङ्गमस्त्यस्य इनि। १ क्षत्रिये त्रिका०। २ विप्रयेशधारिणि च। “तान् सर्वान् घातयेद्राजा शूद्रांस्तु द्विजलिङ्गनः” मनुः।
द्विजवाहन = पु० द्विजः गरुडो वाहनमस्य। नारायणे “एवं त्वमसि देवानां मग्नानां द्विजवाहनः। तच्छरीर शतं कृष्ण! जगत्प्रकरणं त्विदम्” हरिवं ७६ अ०
द्विजव्रण = पु० न० ६ त०। दन्तार्बुदे दन्तरोगभेदे राजनि०।
द्विजशप्त = पु० ३ त०। राजमाषे (वरवटि) शब्दच०। तस्य द्विजैर्भोजनस्य निषिद्धत्वात् तथात्वम्।
द्विजसेवक = पु० ६ त०। १ शूद्रे शब्दक०। २ द्विजसेविमात्रे त्रि०।
द्विजा = स्त्री द्विर्जायते जन–ड। १ रेणुकोनामगन्धद्रव्ये अमरः २ भार्ग्यां मेदि०। ३ पालङ्क्यां (पालङ्) शाकभेदे शब्दच०। तासां कर्तनेऽपि पुनर्जायमानत्वात् तथात्वम्। ४ द्विजजातिस्त्रियां ४ तत्पत्न्यां च स्त्री ङीष्।
द्विजाग्र्य = पु० द्विजेषु अग्र्यः। विप्रे “अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते”। “व्राह्मं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम्” मनुः।
द्विजाङ्गी = स्त्री द्विजस्य दन्तस्याङ्गमिव मूलमस्याः ङीप्। कटुकायां राजनि०।
द्विजाति = पु० द्विः जातिर्जन्म यस्य। १ ब्राह्मणे अमरः। २ ब्राह्मणक्षत्रियवैश्येषु। “शूद्राद्विजातिभिर्जातो न भूमेर्भागमर्हति” स्मृतिः “ब्राह्मणक्षत्रियविशस्त्रयोवर्णा द्विजातयः। चतुर्थ एकजातिस्तु शूद्रो, नास्ति तु पञ्चमः” मनुः। तेषां द्विर्जन्मवत्त्वं द्विजशब्दे दृश्यम्। ३ अण्डजे मेदि०। ४ दन्ते च
द्विजानि = पु० द्वे जाया यस्य निङ्। द्विभार्य्यके “अन्तर्योनेव चरति द्विजानिः” ऋ० १०। १०१। ११
द्विजायनी = स्त्री द्विजः अय्यते ज्ञायतेऽनया अय–गतौ गत्यर्थस्य ज्ञानार्थत्वात् ल्युट् ङीप्। यज्ञोपवीते त्रिका०।
द्विजालय = पु० ६ त०। १ वृक्षस्थे खगालये कोटरे शब्दच० २ नीडे। ३ द्विजानां गृहे च।
द्विजिह्व = पुंस्त्री० द्वे जिह्वे नस्य। सर्पे स्त्रियां जातित्वात् ङीष्। तेषां द्विजिह्वत्वकथा भा० आ० ३४ अ० यथा
“अथ सर्पानुवाचेदं सर्वान् परमहृष्टवत्। इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः। स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः!। भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा। अदासी चैव मातेयमद्यप्रभृति चास्तु मे। यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्। ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत। शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः। अथागतास्तमुद्देशं सर्पाः सुधार्थिनस्तदा। स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः। यत्रैतदमृतं चापि स्थापित कुशसंस्तरे। तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतञ्च तत्। सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा। ततो द्विधाकृता जिह्वा सर्पाणां तेन कर्मणा। अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः। एवं तदमृतं तेन हृतमा हृतमेव च। द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना”। २ सूचके च त्रि० अमरः। ३ खले मेदि०। ४ चौरे ५ दुःसाध्ये च शब्दर०। तेषां सर्पतुल्यमर्माविधत्वात्तथात्वम्। “परस्य मर्माविधमुज्झतां निजम् द्विजिह्वतादोषमजिह्मगामिभिः”। “तमिद्धमाराधयितुं सकर्णकैः कुलैर्न्न भेजे फणिनां भुजङ्गता” माघः।
द्विजेन्द्र = पु० द्विज इन्द्र इव उपमितसमा०। १ द्विजश्रेष्ठे ६ त०। २ चन्द्रे ३ कर्पूरे च “द्विजेन्दकान्तं श्रितवक्षसंश्रिया” माघः।
द्विजेश = पु० ६ त०। १ गरुडे २ चन्द्रे हेमच० ३ कर्पूरे च। द्विजेश्वरादयोऽप्यत्र। “तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम्” हरिवं० ४५ अ०।
द्विजोपासक = पु० द्विजमुपास्ते उप + आस–ण्वुल्। द्विजसेवके शूद्रे पारस्करनिघ०।
द्विजोत्तम = पु० द्विजेषु उत्तमः। विप्रे।
द्विठ = पु० द्वौ ठकारौ लेखनाकारे यस्य। १ विसर्गे तस्य लेखनाकारस्य द्विठकाराकारत्वात्तथात्वम् शारदातिलक व्याख्याने राघवभट्टः। लक्षितलक्षणया २ स्वाहायाम् तस्याः विसर्गशब्दवाच्यत्यागार्थकत्वात् तथात्वम् समा० द्विगुः। ३ ठकारद्वये न०।
द्वित = पु० १ देवभेदे २ ऋषिभेदे च एकतशब्दे १४६५। ६६ पृ० दृश्यम्।
द्वितय = न० द्वयोरवयवः संख्याया अवयवे तयप्। द्वित्वसंख्यायां “प्रसार्य्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत्। “दृश्यन्ते पञ्चदशभिराषाढाद्वितयं तथा”। “कटाहद्वितयस्येव संपुटं गोलकाकृति” सू० सि० द्वाववयवावस्य। २ द्वित्वसंख्याविशिष्टे त्रि० अस्य जसि वा सर्वनामता द्वितये द्वितयाः। “द्रुमसानुमतोः किमन्तरं यदि वायौ द्वितयेऽपि तेऽचलाः” किरा० “अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव सङ्गतम्। पदमृद्धमजेन पैतृकं विनयेनास्य नवञ्च यौवनम्” रघुः। अस्य स्त्रीत्वमपि उभयत्र ङीप्।
द्वितीय = त्रि० द्वयोः पूरणः तीय। द्वित्वसंख्यापूरणे तस्याः ङित्सु वा सर्वनामकर्म। “एकमेवाद्वितीयं ब्रह्म” श्रुतिः। “द्वितीयगाभी न हि शब्द एष नः” रघुः “मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धनात्” मनुः २ पुत्रे पु० त्रिका०। ३ भार्य्यायां स्त्री टाप् अमरः। चन्द्रस्य द्वितीयकलायाः सूर्यकिरणप्रवेशनिर्गमयोग्ये क्रियारूपे तदुपलक्षिते कालभेदे वा ५ तिथिभेदे स्त्री तस्याः व्रताद्यङ्गकालनिर्णयः कालमा० दर्शितो यथा “प्रथमद्वितीयादीनां पञ्चदशकलानां क्रमेण चन्द्रमण्डलप्रवेशनिर्गमनाभ्यां शुक्लकृष्णपक्षयोः प्रतिपद्द्वितीयादिनामधेयास्तिथयो भवन्ति। तत्र प्रतिपदि योनिर्णयः पूर्वप्रकरणेऽभिहितः स एवोत्तरासु सर्वासु तिथिषु साम्येन सञ्चारयितव्यः। विशेषांस्तु तत्र तत्राभिधास्ये। प्रतिपदि दैवं पित्र्यं च व्यवस्थापितम्। दैवं षड्विधम् उपवासैकभक्तनक्तायाचित दानव्रतभेदेन, तीर्थस्नानजपहोमादयस्तु व्रतशब्देनैव संगृहीताः। पित्र्यं द्विविधम्। एकोदिष्टं पार्वणं चेति। तत्र सर्वत्र कर्मकालव्याप्तियुक्ताया एव तिथेरनुष्ठानाङ्गत्वं स्मृतिष्वभिप्रेतम्। कर्मकालश्च द्विविधोमुख्यो गौणश्चेति। तद्यथा एकभक्ते मध्याह्नोमुख्यः। आसायमवशिष्टो गौणः। तिथिव्याप्तिर्द्विविधा स्वाभाविकतिथिव्याप्तिः साकल्यापादिततिथिव्याप्तिश्चेति। यदा सङ्गवपर्यन्तामावास्या तदानीमुपरितनो मध्याह्नोमुख्ययैव प्रतिपदा व्याप्ता भवति। यदा त्वपराह्णादिमारभ्य तिथिक्षयवशात्परेद्युः सङ्गवान्ता प्रतिपद्ववति। तदा पूर्वेद्युर्गौणकालव्य प्तिमुपजीव्यैकक्तभानुष्ठानस्वीकारे सति मध्याह्ने तथैवानुष्ठेयत्वात्तत्र स्वाभाविकप्रतिपद्व्याप्त्यभावेऽपि साकल्यवचनापादितप्रतिपद्व्याप्तिः स्वीकृता। एवं च सति कर्मकालव्याप्तौ सर्वस्मृतीनामत्यन्तनिर्बन्धदर्शनात् कर्मकालव्याप्तिशास्त्रमितरेभ्यः प्रबलमिति निश्चीयते। तदनुसारेण द्वितीयाद्या अपि तिथय उपवासादौ दैवे, एकोद्दिष्टादौ पैत्र्ये च कर्मकालव्याप्तियुक्ताः स्वीकर्त्तव्याः। उपवासस्तु सर्वतिथिषु नारदीये दर्शितः! “शुक्लान वा यदि वा कृष्णान् प्रतिपत्प्रभृतींस्तिथीन्। उपोष्यैव वलिं दत्त्वा विधिनेत्यपरे दिने। ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते” इति। उपवासस्याहीरात्रः कर्म कालः। तस्मात्तद्व्यापिनी तिथिर्ग्राह्या। तदसम्भवे खण्डतिथिर्ग्राह्येति निरूप्यते। तत्र च सूर्य्योदयेत्रिमुहूर्त्ता ततोऽधिका वा प्रतिपद्भवति। उत्तरदिने चास्तमयादर्वाक् त्रिमुहूर्त्ता ततोऽधिका वा तृतीया भवति सेयमुमयविद्धा द्वितीया। तत्र वेधकतिथेरुदयेऽस्तमये वा त्रिमुहूर्त्तत्वं वेधप्रयोजकं न तु ततोन्यूनत्वं तदेव पैठीनसिवाक्येन पूर्वमुदाहृतम्। वेध्यतिथेश्च त्रिमुहूर्त्त सद्भावोऽपेक्षित इति “द्विमुहूर्त्तं त्रिरह्नश्चेत्यनेन सुमन्तुवचनेत दर्शितम्। उदयास्तमययोरेव वेध इत्ययमर्थः “उदये सा तिथिर्ग्राह्या विपरीता तु पैतृके” इत्यादिभिः कात्यायनवचनैरवगन्तव्यः। एवञ्च सति यथोदाहृते पूर्वविद्धोत्तरविद्धे ये द्वितीये तयोरुत्तर विद्धा द्वितीयोपोष्या युग्माग्निवाक्येनान्वयव्यतिरेकाभ्यामुत्तरविद्धायाः प्राशस्त्याभिधानात्। यद्यप्युपाष्यत्वं साक्षान्नाभिहितं तथापि कर्मान्तरविशेषस्याबुपादानात् उपवासविषयत्वं परिशिष्यते। तथाहि। न तावत्पित्र्यविषयत्वं सम्भवति व्यासेन युग्मादि शास्त्रस्य खर्वादिशास्त्रस्य च दैवपित्र्यविषयत्वेन व्यवस्थापितत्वात्। नाप्येकभक्तनक्तविषयत्वं तयोर्मध्याह्न प्रद्रोषव्याप्त्यधीनत्वेन युग्मादिशास्त्रानधीनत्वात्। अयाचितस्य तूपवासवदनुष्ठेयत्वेन न पृथग्विषयत्वं नच दानादिविषयत्वम् दानादेः पौर्वाह्णिकतिथौ कर्त्तव्यतया निर्णेयत्वात्। अत उपवासविषयत्वं परिशिष्यते। कद्राचिदेकभक्तादितिथौ युग्मादिशास्त्रस्य संवादो भवति। तदा तच्छास्त्रमुपोद्वालोकं भवतु। न वयं वारयामः। वचनान्तरे तु युग्मादितिथेरुपोष्यत्वं साक्षात् प्रतीयते। तथा च प्रतिपत्प्रकरणे प्रतिपदमावास्यायुग्मस्योपोष्यत्ववचनमुदाहृतम्। तत्रापि युग्मामिप्रायेणैव द्वितीयायाः परविद्धायाः उपोष्यत्वं भृगुस्मृतिविष्णुधर्मोत्तराभ्यां दर्शितम्। “एकादश्यष्टमी षष्ठी द्वितीया च चतुर्दशी। त्रयोदशी चतुर्थी च उपोष्याः स्युः परान्विताः” इति। यदा पूर्वेद्युरुदयमारभ्य परेद्युरुदयस्योपरि त्रिमुहूर्त्तं वर्धते। तद्रा पर्वेद्युरेवोपवासः। न चोदाहृतेन परान्विता इति वचनेन विरोधः शङ्कनीयः परान्वितापूर्वान्वितयोः प्रसक्तयोः सत्योरस्य वचनस्य नियामकत्वात्। नचात्र परान्वितत्वं प्रसक्तमस्ति। पूर्वस्य दिनस्य सम्पूर्णतिथित्वात् सम्पूर्णखण्डयोः सम्पूर्णस्यासन्देहत्वेन प्रबलत्वात्। असञ्जातविरोधित्वकृत्स्नकर्मकालव्याप्तिभ्यां पूर्वदिनस्यैव प्रावल्यम्। तस्मात्तत्रैवीपवासः। ननु पूर्वोपवामं प्रतिषेधति व्यासः “तृतीयया युता कार्या द्वितीया न तु पूर्वयेति” मैवम् अस्य वचनस्य खण्डतिथि विषयत्वेन संपूर्णतिथाबप्रवृत्तेः। खण्डतिथिविषयत्वञ्च पूर्वया युता नैव कार्येत्यभिधानादवगम्यते। ननु खण्डतिथावपि द्वितीया पूर्वविद्धैवोपोष्या “प्रतिपत्सद्वितीया स्याद्द्वितीया प्रतिपद्युता” इत्यापस्तम्बेन प्रतिपद्द्वितीययोर्युग्मत्वाभिधानात्। एतदेव वचनमुपजीव्य कृष्णप्रति पत्परविद्धैवोपोष्येति पूर्वं निर्णीत तर्हि द्वितीयापि क्वचित्पूर्वविद्धा भवतु तदुक्तं स्कन्दपुराणे “प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकी। पूर्वाह्णिकी च कत्तव्या द्वितीया तादृशी विभो!” इति। तादृशी सम्मुखी पूर्वयुतेत्यर्थः। पूर्वेद्युरुदये मुहूर्तं परित्यज्यावशिष्टपूर्वाह्णसम्बन्धिनी यदा भवति तदा वेधकारिण्याः पूर्वतिथेः मुहूर्तत्रयाभावेन वेद्धुमसामर्थ्यात्खयंखण्डापि सती सम्प्रूर्णवत्पूर्वत्रोपवासे युज्यते। अत्र द्वितीया नवधा भिद्यते पूर्वेद्युरुदयमारभ्य प्रवृत्ता १ प्रातरुदयं परित्यज्य प्रवृत्ता २ पूर्वाह्ण सर्वं परित्यज्य प्रवृत्तेति ३ त्रयोभेदास्तेष्वेकैकस्य परेद्युस्त्रिमुहूर्त्तत्वतन्न्यूनत्वशून्यत्वैस्त्रैविध्ये सति मिलित्वा नवविधत्वं सम्पद्यते। अथ पूर्वेद्युरुदयमारभ्य प्रवृत्तायाः सम्पूर्णत्वेन परेद्युर्मुहूर्त्तत्रयत्व तन्न्यूनत्वान्यूनत्वेषु त्रिष्वपि पक्षेषु विवादाविषयत्वात् पूर्वत्रैवोपवासोयुक्तः। उदयं परित्यज्य कियत्पूर्बाह्ण भागं प्रक्रम्य प्रवृत्तायाः परेद्युस्त्रिमुहूर्त्ततायां सत्यपि परयुतोपवाससम्भवे तां परित्यज्य पौर्वाह्णिकवचनेन पूर्वेद्युरेवोपवामो विधीयते। परेद्युस्त्रिमुहूर्त्तन्यून त्वे तु वेधकारिण्यास्तृतीयायाः सत्यपि वेद्धुं सामर्थ्ये वेध्याया द्वितीयायास्त्रिमुहूर्त्तत्वाभावेन वेधयोग्यत्वाभावात् तत्रोपवासो न प्रसक्तः। अतः परिशेषात् पूर्वाह्ण वाक्याच्च पूर्वत्रैवोपवासः। पूर्वेद्युः पूर्वाह्णं सर्वं परित्यज्य प्रवृत्तायाः परेद्युस्त्रिमुहूर्त्ततयोभयत्र तिथिसत्त्वात् कुत्रोपवास इति सन्देहे सति व्यासेनोत्तर विधानात् पूर्वदिननिषेधाच्चोत्तरत्रोपबासः। न चात्र शुक्लकृष्णव्यवस्था शङ्कनीया। युग्मषाक्ये शुक्लकृष्णपत्त साधारण्येन परदिनविधानात् कृष्णपक्षेऽपि तत्प्रवृत्तौवाधाभावाच्च। अन्ययोस्तु पक्षयोः पूर्ववद्वेधानर्हत्वेन पूर्वेद्युः पौर्वाह्णिकत्वाभावेऽपि परिशेषादापस्तम्बोक्त युग्भवाक्याच्च पूर्वत्रोपवास इति स्थितम्। एकभक्तादिपार्वणश्राद्धान्तेषु कर्मसु द्वितीयापयुक्तस्य विशेषस्य क्वचिदप्यस्मरणात् पूर्वोक्तन्यायो योजनीयः”। सा च अश्विनीकुमारयोर्जन्मतिथिः। यथाह वराहपु०
तयोर्जन्मोपमक्रमे “एतत् सर्वं द्वितीयायामश्विभ्यां ब्रह्मणा पुरा। दत्तं यस्मात्ततस्तेषां तिथीनामुत्तमा तिथिः। एतस्यां रूपकामस्तु पुष्पाहारो भवेन्नरः। संवत्सरं शुचिर्नित्यं सुखरूपी भवेन्नरः। अश्विभ्यां ये गुणाः प्रोक्तास्ते तस्यापि भवन्ति च”। मनोरथद्वितीया तु श्रावणशुक्लद्वितीया। “मनोरथद्वितीयायां दिवा वासुदेवार्च्चनम् रात्रौ चन्द्रोदयेऽर्घ्यदानं नक्तं भाजनादिकमुक्तम् ति० त० विष्णुधर्मोत्तरे “देवमभ्यर्च्य पुष्पैस्तु धूपदीपानुलेपनः। उद्गच्छतश्च बालेन्दोर्दद्यादर्घ्यं समाहितः। नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः। अस्तं गते न भुञ्जीत व्रतभङ्ग भयान्नरः”। स्कन्दपु० “आषाढस्य सिते पक्षे द्वितीया पुष्यसयुता। तस्यां रथे समारोप्य रासं मां भद्रया सह। यात्रोत्सवं प्रकुर्वीत प्रीणयेच्च द्विजाद्बहून्। ऋक्षाभावे तिथौ कार्या सदा सा प्रीतये मम” रथद्वितीया।
भ्रातृद्वितीया लिङ्गपुराणे “कार्त्तिके तु द्वितीयायां शुक्लायां भ्रावृपूजनम्। या न कुर्य्याद्विनश्यन्ति भ्रातरः सप्तजन्मनि”। तस्या इति शेषः। महाभारते “कार्त्तिके शुक्लपक्षे तु द्वितीयायां युधिष्ठिर!। यमो यमुनया पूर्वं भोजितः स्वगृहे स्वयम्। तस्यां निजगृहे पार्थ! न भोक्तव्यमतो बुधैः। यत्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम्। दानानि च प्रदेयानि भमिनीभ्यो विशेषतेः”। तथा “यमञ्च चित्रगुप्तञ्च यमदूताश्च पूजयेत्। अर्थश्चात्र प्रदातव्यो यमाय सहजद्वयैः” “अत्र भोक्तव्यं पुष्टिवर्द्धनमिति समभिव्याहृतफलश्रुत्या भोजननियमस्य प्राधान्यात् तस्य मुख्यकालोऽष्टधाविभक्तदिनस्य पञ्चमांशोग्राह्यः “पञ्चमे च तथा भागे संविभागो यथार्हतः पितृदेवसद्धष्याणामित्यादि” दक्षोक्तेः अत्र भोजनस्य रागप्राप्तत्वेऽपि तत्कालस्य “अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः” इति कात्यायनीये न नियमितत्वात् वैधत्वेन शास्त्रीयत्वे न सामान्यशास्त्रप्राप्त्युपजीविपर्य्युदासासङ्गतिरिति। त० त० (तेन नातिप्रगे नातिसायमित्यत्र नञर्थः पर्युदास) “तथा यमद्दितीयायां यात्रायां मरणं भवेत्”। अनध्यायद्वितीया यथा “प्रेकोचैचा द्वितीयास्ताः प्रेतपक्षे गते तु या। या च कोजागरे जाते चैत्रावल्याः परेऽपि या। चातुर्मास्ये समाप्ते च द्वितीया या भवेत् तिथिः। परास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः ति० त०। “मार्ग च फाल्गुने चैव आषाढे कार्तिके तथा। पक्षयोर्माघमासस्य द्वितीयां परिवर्जयेत्” मल० त० अयमुपनयनविषयः। पक्षयोरित्यस्योत्तरत्र श्रुतस्य सर्वत्रान्वयः। “द्वितीया मीनधनुषोः” ज्योति० त० उक्तेः रविचन्द्रयोर्मीनधनुषोः स्थितयोस्तस्या दग्धत्वम्। चन्द्रमात्रस्थितत्वे चन्द्रदग्धत्वं केचिदिच्छन्ति “द्वितीया द्वादशी यक्षे” ज्यो० त० उक्तेस्तस्यामुत्तरस्यां दिशि योगिनी।
द्वितीयक = न० द्वितीयेन रूपेण ग्रहणम् “तावतियं ग्रहणमिति लुग्वा” पा० कन् पूरणप्रत्ययस्य वा लुक्। १ चैत्रादेर्द्वितीयरूपेण ग्रहणे। पक्षेतीयभागस्य लुकि द्विकमप्यत्र। द्वितीयेऽह्नि भवः कन्। २ द्वितीयदिनभवे रोगे पु०
द्वितीयत्रिफला = स्त्री द्वितीया त्रिफला। गाम्भर्य्यां (गाम्भार) शब्दच०।
द्वितीयाकृत = त्रि० द्वितीयं कृतम् द्वितीय + डाच् कृ–क्त। द्वितीयवारकर्षणकर्मणि क्षेत्रादौ।
द्वितीयाभा = स्त्री द्वितीयेन रूपेण हरिद्रायाः आभाति आ + भा–क। दारुहरिद्रायां शब्दच०।
द्वितीयाश्रम = प्र० कर्म०। द्वितीये गार्हस्थ्ये आश्रमे “द्वितीयमायुसो भागं कृतदारो गृहे वसेत्” मनुः “कालोह्ययं मक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रम ते” रघुः।
द्वितीयिक = त्रि० द्वितीयः वृद्ध्यायशुल्कोपपदारूपः पदार्थो दीयते “पूरणार्थाद्वा ठ।” पा० ठन् वद्ध्यादिरूपेण दीयते द्वितीयो यस्मिन् तस्मिन् पदार्थे
द्वितीयिन् = त्रि० द्वितीयो भागो ग्राह्यनयाऽस्त्यस्य इनि। अर्द्धभागग्राहके अर्द्धिनि अर्द्धिनशब्दे ३७८ पृ० दृश्यम्। “षोडश षोडश द्वितीयिभ्यः” आश्व० श्रौ० ९। ४। ४ “द्वितीयिभ्यः अर्द्धिभ्यः अर्द्धमेषास्तीत्यर्द्धिनस्तेभ्यः” नारा०
द्वित्र = त्रि० ब० व०। द्वौ वा त्रयो वा० विकल्पार्थे बहु० स- ख्येयार्थत्वे ड। द्वौ त्रयोवेत्यर्थे। “द्वित्रागयहा न्यर्हस सोढुमर्हन्!” रघुः “देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः” सा० द०
द्वित्व = न० द्वयोर्भावः। अयमेकः अयगेक इत्यनेकैकत्वबोधरूपापेक्षाबोधजन्ये द्रव्यनिष्ठे गुणभेदे। तच्च समवायेन वस्तुद्वये प्रत्येकं तिष्ठति, पर्य्याप्तिसम्बन्धेन तु द्वयोरेव तिष्ठति न प्रत्येकम्। तदेवापेक्षाबुद्धिजन्यम् तेनैव इमौ द्वावित्यादि व्यवहारः। समवायेन प्रत्येकं द्वित्वसत्त्वेऽपि न तेन तथा व्यवहारः। औलुक्यशब्दे १५८७ पृ० तदुत्पत्तिविनाशप्रकारश्च दृश्यः। “द्वित्वादयः परार्द्धान्ता अपेक्षाबुद्धिजा मताः। अनेकाश्रयपर्य्याप्ता एते तु परिकीर्त्तिताः। अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः। अनेकैकत्वबुद्धिर्या साऽपेक्षाबुद्धिरुच्यते” भाषा० “द्वित्वादयो व्यासज्यवृत्तिसंख्या अपेक्षाबुद्धिजन्या”। “अनेकेति। यद्यपि द्वित्वादिसमवायः प्रत्येकं घटादावपि वर्त्तते तथाप्येको द्वाविति प्रत्ययाभावात् एको न द्वाविति प्रत्ययसम्भवाच्च द्वित्वादीनां पर्य्याप्तिलक्षणः कश्चन सम्बन्धाऽनेकाश्रयोऽभ्युपगम्यते। अपेक्षाबुद्धिनाशादिति। प्रथममपेक्षाबुद्धिस्ततो द्वित्वात्पत्तिः। ततो विशेषणज्ञानं द्वित्वत्वनिर्विकल्पकरूपम्। ततो द्वित्वविशिष्टप्रत्यक्षम्। अपेक्षाबुद्धिनाशे ततो द्वित्वनाश इति। यद्यपि ज्ञानान्तरं न किमपि त्रिक्षणस्थायि योग्यविभुविशेषगुणानां स्वोत्तरवर्त्तिगुणनाश्यत्वात् तथाप्यपेक्षाबुद्धे स्त्रिक्षणस्थायित्वं कल्प्यते अन्यथा निर्विकल्पकाले अपेक्षाबुद्धिनाशात् अनन्तरं द्वित्वस्यैव नाशः स्यात् न तु द्वित्वप्रत्यक्षं तदानीं विषयाभावात् विद्यमानस्यैव चक्षुरादिना ज्ञानजननोपगमात्। तस्माद् द्वित्वप्रत्यक्षादिकमपेक्षाबुद्धेर्नाशकं कल्प्यते। न चापेक्षाबुद्धिनाशात् कथं द्वित्वनाश इति वाच्यम्। कालान्तरेद्वित्वप्रत्यक्षाभावात्। अपेक्षाबुद्धिस्तदुत्पादिका तन्नाशस्तन्नाशक इति कल्पनात्। अतएव तत्पुरुषीयापेक्षाबुद्धिजन्थद्वित्वादिकं तेनैव गृह्यत इति कल्प्यते। न चापेक्षाबुद्धेर्द्वित्वप्रत्यक्षकारणत्वमस्त्वित वाच्यम्। लाघवेन द्वित्वं प्रति कारणत्वस्यैवोचितत्वात्। अतीन्द्रिये द्व्यण्युदावपेक्षाबुद्धिर्योगिनाम्। सर्गादिकालीनपरमाण्वादावीश्वरीयापेक्षाबुद्धिर्ब्रह्माण्डान्तरवर्त्तियोगिनामपेक्षाबुद्धिर्वा द्वित्वादिकारणमिति”। “अपक्षाबुद्धिः केत्यत आह। अनेकेति। अयमेकः अयमेकः। इत्याकारिका इत्यर्थः। इदन्तु बोध्यं यत्रानियतैकत्वज्ञानं तत्र द्वित्वादिभिन्ना बहुत्वसंख्योत्पद्यते। यथा सेनावनादाविति कन्दलीकारः। आचार्य्यास्तु त्रित्वादिकमेव बहुत्वं मन्यन्ते। तथा च त्रित्वत्वादिव्यापिका बहुत्वत्वजातिः। सेनादौ चोत्पन्ने त्रित्वादौ त्रित्वत्वाद्यग्रहो दोषात्। इत्थञ्च इतरतो बहुलेयं सेनेति प्रतीतिरुपपद्यते बहुत्वस्य संख्यान्तरत्वे तत्तारतम्याभावादित्यवधेयम्” मुक्ता०। उप० वृत्तौ विशेषः कश्चिदुक्तो यथा “तदयं द्वित्वाद्युत्पादविनाशक्रमः। समानजातीययोरसमानजातीययोर्द्रव्ययोश्चक्षुःसन्निकर्षे सति तन्निष्ठैकत्वसंख्ययोर्यत्सामान्यमेकत्वत्वं तयोनिर्विकल्पकानन्तरं तद्विशिष्टगुणबुद्धिरुत्पद्यते सैव चापेक्षाबुद्धिस्तया तयोर्द्रव्ययोर्द्वित्वमुत्पद्यते, उत्पन्नस्य च द्वित्वस्य यत्सामान्यं द्वित्वत्वं तदालोचनेनापेक्षाबुद्धेर्नाशो द्वित्वत्वविशिष्टद्वित्वगुणविषया विशिष्टबुद्धिश्चैकदा भवति, तदग्रिमक्षणे च द्वित्वगुणस्यापेक्षाबुद्धिविनाशः द्वे द्रव्ये इति द्वित्वविशिष्टद्रव्यज्ञानञ्च युगपदुत्पद्यते, ततस्तस्माद् द्वित्वविशिष्टद्रव्यज्ञानात् संस्कारः। तदयं संक्षेप, उत्पत्स्यमानद्वित्वाधारेणेन्द्रियसन्निकर्षस्तत एकत्वगुण गतसामान्यज्ञानं तत एकत्वत्वसामान्यविशिष्टैकत्वगुणसमूहालम्बनरूपाऽपेक्षाबुद्धिस्ततो द्वित्वगुणोत्पत्तिस्ततस्तद्गतसामान्यस्य ज्ञानं ततस्तत्सामान्यविशिष्टद्वित्वगुणज्ञानं ततो द्वित्वगुणविशिष्टद्रव्यज्ञानं ततः संस्कार इतीन्द्रियसन्निकर्षमारभ्य संस्कारपर्य्यन्तमष्टौ क्षणाः। विनाशक्रमस्तु एकत्वत्वसामान्यज्ञानस्यापेक्षाबुद्धितोविनाशः द्वित्वत्वसामान्यज्ञानादपेक्षाबुद्धेर्विनाशः द्वित्वत्वसामान्यज्ञानस्य च द्वित्वगुणबुद्धितोविनाशः द्वित्वगुणबुद्धेश्च द्वित्वविशिष्टद्रव्यज्ञानात् तस्य च संस्कारात् विषयान्तरज्ञानाद्वेति। नन्वेकत्वज्ञानात्तद्विशिष्टद्रव्यज्ञानमेव कथं नोत्पद्यते तत्सामग्रीसत्त्वात् न हि गुणज्ञाने सति द्रव्यज्ञाने विलम्बोऽस्ति तथा च तत एवापेक्षाबुद्धेर्विनाशे तन्नाशाच्च तदग्रिमक्षण एव द्वित्वनाश इति द्वे द्रव्ये इति विशिष्टज्ञानपूर्वक्षण एव द्वित्वविनाशापत्त्या द्वित्वविशिष्टद्रव्यज्ञानस्यानुत्पत्तिरेवेति चेन्न द्वित्वाद्युत्पत्तिसामग्य्रनभिभूताया एवापेक्षाबुद्ध्वेर्द्रव्यविशिष्टज्ञानजनकत्वनियमात् फलबलेन कथाकल्पनात्। ननु तथापि स्वजनितसंस्कारेणैवापेक्षाबुद्धिविनाशे पुनः स दोषस्तदवस्थ एव, द्वित्वविशिष्टज्ञानपूर्वक्षण एव द्वित्वनाशस्य सम्भवादिति चेन्न केवलगुणज्ञानस्य संस्काराजनकत्वात् न हि केवलोगुणः क्वापि स्मर्य्यते, सर्वत्र द्रव्योपरागेणैव गुणस्मरणात्, ननु भवत्वेवं तथापि विशिष्टबुद्धिकालेऽपि द्वित्वनाशे विशिष्टप्रतीत्यनुदयस्तदवस्थ एव न हि वर्त्तमानावभासिनी विशिष्टप्रतीतिर्विशेषणनाशकाले सम्भवति तथाऽदर्शनादिति चेन्न विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गाग्रहस्य विशिष्टज्ञानसामग्य्राः प्रकृतेऽपि सम्भवात्। यदि तु विशेषेणेन्द्रियसन्निकर्षोऽपि मृग्यते तदा पूर्वक्षणे तस्यापि सत्त्वात् पूर्वक्षणवर्त्तिन एव सन्निकर्षस्य कारणत्वेनाभ्युपगमात्, विशेषणं विशिष्टज्ञानागोचरोऽपि सम्भवति, विशिष्टज्ञानजनकज्ञानविषयत्वमात्रमेव हि विशेषणत्वे तन्त्रं नतु विशिष्टज्ञानविषयत्वमपि। उपलक्षणस्याप्येवं विशेषणत्वापत्तिरिति चेन्नाप्रत्याय्यव्यावृत्तिसामानाधिकरण्यस्य विशेषणत्वे तन्त्रत्वात् उपलक्षणन्तु तद्व्यधिकरणम्, एवं यदा देवदत्तगृहे काकवत्ता तदा काकोविशेषणं, यदा तु उपरिभ्रमन् असन् तदोपलक्षणम्। एवं सति रूपवति रस इत्यादौ रूपादेरपि विशेषणत्वापत्तिरिति चेन्न इष्टत्वात्, तर्हि तत्रापि रसोवर्त्तेतेति चेन्न विशिष्टवृत्तेर्विशेषणवृत्तित्वानावश्यकत्वात् न हि विशेषणं विशिष्टमतावेकं तन्त्रम्। द्वित्वनाशकाले विशेषणसम्बन्धो नास्ति कुतोविशिष्टप्रत्यय इति चेन्न अतद्व्यावृत्तेरेव वैशिष्ट्यपदार्थत्वात्, तद्भानन्तु तत्रापीति न किञ्चिदनुपपन्नमित्याचार्य्याः। एवं द्वित्वोत्पत्तिविनाशवत् त्रित्वोत्पत्तिविनाशावप्यूहतीयौ। द्वित्वमपेक्षाबुद्धिनाशनाश्यम्, आश्रयनाशविरोधिगुणान्तराभावे गुणस्य सतोऽविनाशित्वात् चरमज्ञानवत् चरमज्ञानस्यादृष्टनाशनाश्यत्वात्। क्वचिदाश्रयनाशादपि नश्यति यत्र द्वित्वाधारावयवकर्मसमकालैकत्वसामान्यज्ञानम्, तद्यथा अवयवकर्मसामान्यज्ञाने विभागापेक्षाबुद्धी संयोगनाशगुणोत्पत्ती द्रव्यनाशद्वित्वसामान्यज्ञाने तत्र द्रव्यनाशाद्द्वित्वनाशः, सामान्यज्ञानादपेक्षाबुद्धिनाशः, अपेक्षाबुद्धिनाशस्य द्वित्वनाशसमानकालत्वात् कार्य्यकारणसमानमावात्। यदा तु द्वित्वाधारावयवकर्मापेक्षाबुद्ध्योर्यौगपद्यं तदा द्वाभ्यामाश्रयनाशापे- क्षाबुद्धिनाशाभ्यां द्वित्वनाशः, तद्यथा अवयवकर्मापेक्षाबुद्धी विभागोत्पत्ती संयोगनाशद्वित्वत्वसामान्यज्ञाने द्रव्यनाशापेक्षाबुद्धिनाशौ ताभ्यां द्वित्वनाशः प्रत्येकं सामर्थ्यग्रहात्। इयञ्च प्रक्रिया ज्ञानयोर्बध्यघातकत्वपक्षे परमुपपद्यते स एव च पक्षः प्रामाणिकः। ननु द्वित्वत्रित्वादीनां सामग्रीसाम्ये कथं कार्य्यवैलक्षण्यं, द्वाभ्यामेकत्वाभ्यां द्वित्वं, त्रिभिरेकत्वैस्त्रित्वमिति चेन्न एकत्वे द्वित्वाद्यभावात्, समवायिकारणगतमेव द्वित्वत्रित्वादिकं तन्त्रमिति चेन्न द्वित्वाद्युत्पत्तेः पूर्वं तत्र द्वित्वाद्यभावात् तत्रापि कारणचिन्ताया अनिवारणात् अपेक्षाबुद्धावेकत्वेषु च तादृशविशेषस्यानुपलम्भवाधितत्वात् फलबलेन तत्कल्पने वा द्वित्वादिव्यवहारोऽपि तत एवास्तु किं द्वित्वादिना, अदृष्टविशेषाद्विशेष इति चेदेवं सति द्वित्वारम्भिकयाऽपि सामम्या कदाचित्त्रित्वं चतुष्ट्वञ्चोत्पद्येतेत्यनियमप्रमङ्गः इति चेत् अत्रोच्यते प्रागभावविशेषाद्विशेषोपपत्तेः। तुल्यया सामग्य्रा पाकजानां रूपरसगन्धस्पर्शानामिव। प्रागभावोऽपि साधारण एवेति चेन्न स्वस्वप्रागभावस्यैव कार्य्यं प्रति कारणत्वावधारणात्। यदा शुद्धयाऽपेक्षाबुद्ध्या द्वित्वं द्वित्वसहितया त्रित्वमिति नेयम्, (अव्यवस्था) शतं पिपीलिकानां मया हतमित्यादौ, समवायिकारणाभावे द्वित्वं ताबन्नोत्पद्यते तथा च गौणस्तत्र संख्याव्यवहारोद्रष्टव्यः। सेनावनादौ नियतापेक्षाबुद्ध्यभावाद्बहुत्वमात्रमुत्पद्यते न तु शतसहस्रादिसंख्येति श्रीधराचार्य्याः। एवं सति शतसहस्रादिकोटिकस्तत्र संशयो न स्यात् न स्याच्च महती महत्तरा सेनेति नैवमित्युदयनाचार्य्याः। अत्रैवमालोचनीयं त्रित्वादिपरार्द्धपर्य्यन्ता संख्यैव बहुत्वम्, तद्भिन्नं वा संख्यान्तरम्, नाद्यः सेनादावपि शतसहस्रादिसंख्योत्पत्तिनियमात्, न द्वितीयः त्रित्वादिविलक्षणस्य बहुत्वस्याननुभवात् तथा च प्रतिनियतैकत्वानालम्यनापेक्षाबुद्धिजनितशतादिसंख्यैव बहुत्वं शताद्यभिव्यक्तिस्तु तत्र न भवति तादृशव्यञ्जकाभावात्। वयन्तु ब्रूमः त्रित्वादिसमानाधिकरणं संख्यान्तरमेव बहुत्वं त्रित्वादिजनकापेक्षाबुद्धिजन्यं प्रागभावभेदादेव मिद्यते कथमन्यथा बहवस्तावत् सन्ति शतं वा सहस्रं येति विशिष्य न जानीम इति। यथैकद्रव्ये महत्त्वं दीर्घत्वञ्च तथैकत्रैवाधिकरणे त्रित्वादिकं बहुत्वञ्च, भवति हि शतं वा सहस्रं वा चूतफलान्यानयानीति प्रश्रे बहवस्तावदानीयन्तां किं विशेषजिज्ञासयेति। एवञ्च द्वित्वसहितापेक्षाबुद्ध्या त्रित्वं त्रित्वसहितापेक्षाबुद्ध्या चतुष्ट्वमेवमुत्तरोत्तरम्। बहुत्वोत्पत्तौ तु नापेक्षाबुद्धौ पूर्वपूर्वसंख्याविशिष्टत्वनियमः, अतएव सेनावनादिषु बहुत्वमात्रमुत्पद्यते न तु संख्यान्तरं संशयस्त्वसत्कोटिकोऽपि भवत्येवेति”।
द्विदण्डि = अव्य० द्वौ दण्डौ यस्मिन् प्रहरणे इच समा०। दण्डद्वययुक्ते प्रहरणे। तिष्ठद्गुगणे इच प्रत्ययः समासान्त इत्युक्तेः बहुब्रीह्यर्थे अव्ययीभावात् अव्ययत्वम् तेन न द्विदण्डा प्रहृतिरिति। न वा प्रहरणे इत्युक्तेः शालादौ वाच्येऽपि अव्ययीभावः।
द्विदण्ड्यादि = पु० प्रहरणार्थे इच्समासान्तनिमित्ते पा० ग० उक्ते शब्दगणभेदे स च तत्रोक्तो यथा “द्विदण्डि द्विमुसलि उभाञ्जलि उभयाञ्जलि उभादण्डि उभयादण्डि उभाहस्ति उभयाहस्ति उभाकर्णि उभयाकर्णि उभापाणि उभयापाणि उभाबाहु उभयाबाहु एकपदि प्रोह्यपदि आद्यपदि सपदि निकुच्यकर्णि संहतपुच्छि अन्तेवासि”।
द्विदत् = त्रि० द्वौ दन्तावस्य वयसि दन्तस्य दत्रादेशः। द्विदन्तोपलक्षितवयस्के वृषादौ स्त्रियां ङीप्।
द्विदल = त्रि० द्वे दले यस्य। द्विशाखायुक्ते १ दर्भपवित्रादौ “शिक्यञ्च दारवं पात्रं द्विदलान् रेणुकान् बहून्” हरिवं० २ द्विपत्रयुक्ते कमले तच्च सुषुम्णानाडीमध्ये भ्रूमध्यस्थितं (हक्ष) वर्णयुक्तं सूक्ष्मकमलम् आज्ञाख्यं चक्रम्। द्विःपनादयोऽप्यत्र “द्विःपत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे चतुष्के” तन्त्रम् आज्ञाचक्रशब्दे ६४२ पृ० दृश्यम्। द्विधा दल्यते दल–घञ्र्थे क। (डाल) ख्याते ३ पदार्थे पु०।
द्विदश = त्रि० द्व्यधिका द्विसहिता वा दशसंख्य येषाम् “संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये” पा० संख्येयार्थत्वात् डच् समा० “द्व्यष्टनः संख्यायामबहुब्रीह्यशीत्योः” पा० अबहुब्रीहीत्युक्तेर्न आत्। द्विसहित दशसंख्यायुते। “द्विःपत्रे षोडशारे द्विदशदशदले” तन्त्रम्
द्विदाम्नी = द्वे दामनी वन्घनसाधने अस्या मनन्तत्वात् ङीपीनिषेधे पक्षे डापः प्राप्तौ “दामहायनान्ताच्च” पा० ङीबेव। द्विरज्ज्वुबन्धनयोग्यायां दुष्टायां स्त्रियां गवि।
द्विदिव = पु० द्वाभ्यां दिवा दिनाभ्यां निर्वृत्तादि तद्धितार्थे द्विगुः “कालाट् ठञ्” तस्य लुक् ह्रस्वः। द्विदिनसाध्ये द्विरात्रयागभेदे “द्वितीये द्विदिवाख्योद्व्यहः” कात्या० श्रौ० २२। ७। ६। “द्वितीये पर्वस्थाने द्व्यहो भवति द्विदिव इत्याख्या तस्य” कर्कः।
द्विदेवत = त्रि० द्वे देवते यस्य ६ ब०। द्विदेवताके चर्वादौ “द्विदेवतोऽपि नियमसामर्थ्यात्” कात्या० श्रौ० ५। १८। १० “द्विदेवतोऽपि पौष्णश्चरुः प्रपिष्टानामेव भवति तत्र हीन्द्रसहितस्य पूष्णो देवतात्वम् तत्र पूष्णो नियमेन पिष्टम् प्राप्नोति (अदन्तत्वात्) इतरस्येन्द्रस्यानियमः” कर्कः इति पूर्वपक्षे “अर्द्धपिष्ट चोभयसामर्थ्यात्” ११ सू० “पूष्णः पिष्टम् इतरस्यापिष्टमिति विक्लिन्नप्रायेषुतण्डुलेषु पिष्टानामावापः करिष्यते अतः पाकद्वैधं नाशङ्क्यम्” कर्कः। इन्द्राग्निदेवताके २ विशाखानक्षत्रे च द्विदैवादयोऽप्यत्र। “त्रिकोत्तरावारुणनैरृतेन्द्रपूर्वात्रयब्रह्मभयुग्दशैव। मध्यानि नेष्टान्यनलानिलेशद्विदैवचित्राहिमधान्तकानि” वसिष्ठः
द्विदेह = पु० द्वाभ्यां देहोऽस्य। गजानने गणेशे त्रिका०। इभाननशब्दे ९८१ पृ० दृश्यम्। चरस्थिरद्यात्मकेषु २ मिथुनकन्याधनुर्मीनाख्यराशिषु। राशिविशेषाणां द्व्यात्मकत्वं द्ब्यात्मकशब्दे दृश्यम्। द्वितन्वादयोऽप्यत्र।
द्विद्वादश = पु० द्वितीयः द्वादशश्च वरकन्ययोः राशिभेदः दोषसाधनमत्र वृत्तौ संख्याशब्दस्य पूरणार्थत्वं त्रिभागशेषादिवत् ज्ञेयम्। वरकन्याराश्योर्द्वितीयद्वादशान्यतररूपे वैवाहिके अशुभसूचकदोषभेदे उपयमशब्दे १२४१ पृ० दृश्यम। “अनपत्यता त्रिकोणे द्विद्वादशे च दारिद्र्यमिति” दीपिका तत्र वरराश्यपेक्षया कन्याया द्वादशराशिकत्वे तु न दोषः। “कन्यायाः द्वादशे भर्त्ता भर्त्तुः कन्या द्वितीयगा। द्विद्वादशं विजानीयात् वर्जितं त्रिदशैरपि” विशिष्य निषेधात् “द्विद्वादशे धनगृहे धनहा च कन्या रिप्फे स्थिता धनवती पतिवल्लभा च” ज्यो० त० प्रतिप्रसवाच्च। समाहारद्विगुः। २ द्वितीये धनस्थाने द्वादशे व्यवस्थाने च न०। “द्विद्वादशे खला हानिम्” नी० ता०।
द्विधा = अव्य० द्वि + प्रकारे धाच्। द्विप्रकारे “षड्जसंवादिनीः केका द्विधा मिन्नाः शिखण्डिभिः”। “द्विधेव भिन्नं सलिले विवस्वतः” रघुः।
द्विधागति = त्रि० द्विधा गतिरस्य। १ द्विप्रकारगतियुक्ते। २ कुम्भीरे पु० हेमच०।
द्विधातु = त्रि० द्वौ धातू यत्र। १ धातुद्वयघटिते कांस्यरैत्यादौ २ गणेशे शब्दरत्ना०। तस्य देवगजदेहद्वयघटितत्वात् तथात्वम्।
द्विधात्मक = पु० न० द्विधा आत्मा यस्य कप्। १ जातीकोषे शब्दच० २ द्विस्वभावेषु मिथुनादिराशिषु पु०।
द्विधालेख्य = त्रि० द्विधा लेख्यम्। १ द्विप्रकारे लेखनीये २ हिन्तालवृक्षे पु० राजनि०।
द्विनग्नक = पु० द्विः नग्नकः। स्वाभाविकानावृतमेट्रे दुश्चर्मरोगयुते हेमच०।
द्वि(द्वा)नवति = स्त्री द्व्यधिका नवतिः वा आत्। १ द्व्यधिकनवतिसंख्यायां २ तद्युक्ते च। ततः पूरणे डट्द्वि(द्वा)नवत, तमप्, द्वि(द्वा)नवतितम ३ तत्संख्यापूरणे त्रि० डटि स्त्रियां ङीप्।
द्विनिष्क = त्रि० द्वाभ्यां निष्काभ्यां क्रीतम् तद्धितार्थद्विगुः ततः ठञ् तस्य नित्यं लुकि प्राप्ते” “द्वित्रिपूर्वान्निष्कात्” पा० तस्य वा लुक्। द्वाभ्यां निष्काभ्यां क्रीते पक्षे ठञः श्रवणे “परिमाणान्तस्यासंज्ञाशाणयोः” पा० उत्तरपदवृद्धिः। द्वैनिष्किक तत्रार्थे, द्वौ निष्कौ परिमाणमस्य अण् तस्य लुक। २ द्विनिष्क तत्परिमाणयुते त्रि०।
द्विप = पुंस्त्री० द्वाभ्यां मुखशुण्डाभ्यां पिबति पा–क। १ गजे अमरः। “विपूर्य्यमाणश्रवणीदरं द्विपाः” साघः। “स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा” मनुः २ नागकेश्रे पु०।
द्विपक्ष = पुंस्त्री द्वौ पक्षौ यस्य। १ खगमात्रे २ मासे पु०
द्विपञ्चमूली = स्त्री द्विधा पञ्चमूली। दशमूले “द्विपञ्चमूली क्षीरतगरभद्रदारुमरिचसधुविडङ्गष्ट्राक्षाद्विद्राक्षासिद्धम्” सुश्रु०। दशमूलं च दशमूलशब्दे ३४९२ पृ० दृश्यम्।
द्वि(द्वा)पञ्चाशत् = स्त्री द्व्यधिका पञ्चाशत् वा आत्। १ द्व्यधिकपञ्चाशत्संख्यायां २ तदन्विते च। ततः पूरणे डट् द्वि(द्वा) पञ्चाश, तमप् द्वि(द्वा) पञ्चाशत्तम तत् संख्यापूरणे त्रि० स्त्रियां डटि ङीप्।
द्विपण्य = त्रि० द्वाभ्यां पणाभ्यां क्रीतं “पणपादमाषशताद्यत्” पा० यत्। द्वाभ्यां पणाभ्यां क्रीते
द्विपत्रक = पु० द्वे पत्रे अस्य संज्ञायां कन्। १ चण्डालकन्दे पारस्करनिघण्टुः २ द्विदलकमले वा कप्।
द्विपथ = न० द्वयोः पथोः समाहारः समा० द्वि० अच्समा०। (दोमाथापथ) १ द्वयोः पथोः समाहारे। द्वौ पन्थानौ यत्र। २ मार्गद्वययुक्ते देशादौ त्रि०।
द्विपद = पु० द्वे पदे यस्य। “द्विपदे च चतुर्भेदा नृदेवपक्षि राक्षसाः” १ प्रश्नसारोक्ते सनुष्यादौ। २ द्विपदघटिते समासे पु०। ३ राशिभेदे च “मिथुनतुलाघटकन्या द्विपदाख्याश्चापपूर्वभागश्च” ज्यो० त० “द्विपदवशयाः सर्वे सिंहं विहाय चतुष्पदाः” ज्यो० त०। समा० द्वि०। ४ पदद्वये न०। ५ पदद्वयाद्यके वास्तुमण्डलस्थे कोष्ठभेदे।
द्विपदा = स्त्री द्वौ पादावस्य “संख्यासुपूर्येति” पा० पादस्यान्त्यलोपः “टाबृचि” टापि पादः पद्भावः। द्विपादयुक्तायामृचि
द्विपदिका = स्त्री द्वौ पादौ दण्डौ यत्र वुन् स्त्रीत्वम्। द्वौ पादौ यत्र दण्डः १ तत्रार्थे “द्वौ पादौ दण्डितो द्विपदिकां व्यवसृजति द्विगुणं ददातीत्यर्थः” सि० कौ० अत्र पादशब्दस्य गुणवाचित्वाभिप्रायेण द्विगुणमित्युक्तमिति बोध्यम्। द्विपदी स्वार्थे क ह्रस्वः। २ गोतिभेदे “शुद्धा द्विपदिका गीतिर्जम्भलेत्यभिधीयते” भरतः। “द्विपदिकया दिशोऽवलोक्य निःश्वस्य सास्रम्” विक्रमो०।
द्विपदी = स्त्री द्वौ पादौ यस्याः पादः अन्त्यलोपे कुम्भपद्या० ङीष् पद्भावः। ऋगभिन्ने १ द्विपदयुक्तगीतिभेदे २ मात्रावृत्तभेदे च “आदौ षट्कलसङ्गतमेतत् तदनु पञ्चचतुष्कलम् गुर्वन्तं द्विपदी भवतीह विंशत्यष्टकलं दलम्” तल्लक्षणम्। “गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे” शत० ब्रा० १४८। १५१०। त्रैलोक्यात्मकपादेनैकपद्री भवसि त्रैविद्यरूपपादेन त्वं द्विपदी” भा०। तेन अवयवरूपचरणवाचित्वाभावात् टावृचीत्यस्य न प्रसक्ति गायत्र्यास्त्रिपादत्त्वात् इति दृश्यम्।
द्विपर्णी = स्त्री द्वे पर्णे यस्याः जातित्वात् ङीष्। १ वनकोल्यां रत्नसा० १ पर्णद्वययुक्ते त्रि० स्त्रियां टाप्।
द्विपमद = पु० ६ त०। १ हस्तिमदे २ गन्धद्रव्यभेदे च राजनि०।
द्विपात्र = न० द्वयोः पात्रयोः समाहारः समा० द्वि० पात्रा० न ङीप्। पात्रद्वये। तद् हरति आबहति वा “द्विगोष्ठंश्च” पा० ष्ठन् पक्षे च द्विपात्रिक द्विपात्रीण खपक्षे ठञ तस्य अध्यर्द्धेति लुकि द्विगोरिति ङीपि प्राप्ते पात्रादि त्वात् न ङीप्। द्विपत्रहारके तदावाहके च
द्विपाद = पु० द्वौ पादौ यस्य वेदे नान्त्यलोपः। वानरादौ पशुभेदे “तद्ये द्विपादाः पशवस्तैरेवैनदेतदभ्यवहरति” शत० ब्रा० ६। ८। २। ५। २ ग्रहभेदे “एकपादा द्विपादाश्च तथा द्विशिरसोऽपरे” हरिवं० १६८ अ० नानाग्रहोक्तौ। लोके तु अन्त्यलोपः द्बिपाद् इत्येव। पादद्वययुक्ते मनुष्यादौ।
द्विपाद्य = त्रि० द्वौ पादौ परिमाणमस्य “पणमाषपादशताद्यत्” पा० यत् पादः पदिति न, अल्लोपस्य स्थानिवत्त्वात् “पद्यत्यतदर्थे” पा० इत्यपि न प्राण्यङ्गस्यैव तत्र ग्रहणात्। १ द्विपादपरिमाणयुते दण्डप्रायश्चित्तादौ २ द्विगुणदण्डे अमरः। तत्र पादशब्दस्य गुणवाचित्वात् द्विगुणपरतेति बोध्यम्।
द्विपाधिप = पु० ६ त०। १ ऐरावते २ गजश्रेष्ठे च “तत्पूर्वमंशद्वयसं द्विपाधिप्राः” माघः गजाधिपादयोऽप्यत्र।
द्विपायिन् = पु० द्वाभ्यां मुखशुण्डाभ्यां पिबति पा–णिनि। गजे हारा० स्त्रियां ङीप्।
द्विपास्य = पु० द्विपस्यास्यमेवास्यमस्य। गणेशे।
द्विपुट = पु० द्वे पुटे अस्य। सुगन्धिश्वेतपुष्पके वृक्षभेदे पारस्करनि०।
द्विपुरुष = त्रि० द्वौ पुरुषौ प्रामाणमस्य तद्धितार्थ द्विगुः “प्रमाणे लोद्विगोर्नित्यम्” पा० मात्रचो लुक्। पुरुषद्वयप्रमाणयुक्ते स्त्रियां वा ङीप् द्विपुरुषी (षा) वा परिखा।
द्विपृष्ठ = पु० ब्रह्मसम्भवे राजभेदे हेमच०।
द्विबन्धु = पु० द्वयोर्लोकयोर्बन्धुः। द्वयोर्लोकयोर्बन्धौ वह्नौ। “स द्विबन्धुर्वैतरणः” ऋ० १०। ६१। १७
द्विभाव = त्रि० द्वौ भावौ यस्य। द्विस्वभावयुक्ते ततः ब्राह्मणा० भावे कर्मणि च ष्यञ्। द्वैभाव्य द्वित्वे न०।
द्विभूम = त्रि० द्वे भूमी यत्र अच्समा०। भूमिद्वययुक्ते प्रासादादौ (दोताला)
द्विमातृ = पु० द्वे मातरौ यस्य समासान्तविधेरनित्यत्वात् न कप्। १ गणेशे हेमच०। कप् द्विमातृकोऽप्यत्र। २ जरासन्धे च
द्विमातृज = पु० द्वाभ्यां मातृभ्यां जायते जन–ड। १ गणेशे द्वैमातुरशब्दे दृश्यम्। २ जरासन्धनृपे च जरासन्धशब्दे ३० ६० पृ० दृश्यम्।
द्विमात्र = पु० द्वे मात्रे उच्चारणकालभेदोऽस्य। दीर्घस्वरे आ ई इत्यादौ “एकमात्रो भवेध्रस्वो द्विमात्रो दीर्घ उच्यते” शिक्षा।
द्विमाष्य = त्रि० द्वौ माषौ प्रमाणमस्य यत्। माषद्वयपरिमाण युक्ते।
द्विमास्य = त्रि० द्वौ मासौ भूतः “द्विगोर्यप्र्” पा० यप। मासद्वयं व्याप्य १ भूते २ तथाभूतवयस्के च।
द्विमीढ = पु० हस्तिनापुरकारकहस्तिनृपसुतभेदे “तेनेदं निर्मितं पूर्वं हस्तिनापुरमुत्तमम्। हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः। आजमीढो द्विमीढश्च पुरमीढस्तथैव च” हरिवं० २० अ०
द्विमुख = पुंस्त्री० द्वे मुखे यस्य। १ मुखद्वययुक्ते राजसर्पे हला०। २ मुखद्वययुक्ते त्रि० स्त्रियां स्वाङ्गत्वात् वा ङीष्। ३ कृमिरोगभेदे पु० “चूरवो द्विमुखाश्चैव सप्तैवैते पुरीषजाः” सुश्रुतः। द्वे स्वस्याः स्ववत्सस्य मुखे यस्याः ङीष्। ३ उभयतोमुख्यामर्द्धप्रसूतायां धेन्वां स्त्री। उभयतोमुखशब्दे १३६३ पृ० दृश्यम् “द्विमुखीगोप्रदातारः कपिलाद्रानतत्पराः” काशीस्व० ४ जलौकायां स्त्री टाप्।
द्विमुनि = अव्य० द्वौ मुनी पाणिनिकात्यायनौ वंश्यौ। “संख्यावंश्येन” पा० अव्ययी०। तुल्यविद्यायुक्तमुनिद्वये। “द्विमुनि व्याकरणस्य, विद्याविद्यावतारभेदात् द्विमुनि व्याकरण मित्यपि साधु” सि० कौ०
द्विमूषलि = अव्य० द्वे मूषले यत्र प्रहरणे अव्ययी० द्विदण्ड्या० इच् समा०। मूषलद्वययुक्ते प्रहरणे।
द्विमूर्द्ध = त्रि० द्वौ मूर्द्धानावस्य षच् समा०। शीर्षद्वययुक्ते “बहुमूर्द्ध्नो द्विमूर्द्धांश्च त्रिमूर्द्धांश्चाहतां मृधे” भट्टिः अस्योन्तोदात्तत्वम् स्त्रियां ङीष्। संज्ञायान्तु क्वचित् न समा०। द्विमूर्द्धन् दनुपुत्रभेदे “अभवन् दनुपुत्राश्च इत्युपक्रमे “द्विमूर्द्ध्वा शकुनिश्चैव तथा शङ्कुशिराः प्रभुः” हरिवं० ४ अ०।
***