द्वादश = त्रि० द्वादशानां पूरणः द्वादशन् + उट्। द्वादशसंख्यापूरणे स्त्रियां ङीप्। सा च द्वादश्याः चन्द्रकलायाः सूर्यकिरणप्रवेशनिर्गमयोग्यायां क्रियारूपायां तद्पलक्षित कालरूपायां वा तिथौ तस्यां व्रतकालनिर्णयः कालमा० उक्तो यथा “अथ द्वादशी निर्णीयते। सा च युग्मादिशास्त्रेण पूर्वविद्धा ग्राह्या। स्कन्दपुराणेऽपि “द्वादशी च प्रकर्त्तव्या एकादश्या युता विभो!। सदा कार्य्या च बिद्वद्भिर्विष्णु भक्तैश्च मानवैः” इति। उत्तरविद्धां प्रतिषेधति वृहद्वसिष्ठः। “द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी। चतुर्द्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी” इति। नन्वेवं सत्यमेकादश्युपवासो द्वादश्युपवासश्चेत्युभयमेकस्मिन्दिने प्राप्नोति सत्यम् तथापि चोभयस्यान्योऽन्यं विरोधाभावात् सहैवानुष्ठानं भविष्यति। नन्वेकं व्रतमसमाप्य व्रतान्तरमनुष्ठातुमशक्यम्। असमाप्ते व्रते पूर्वे नैव कुर्याद्व्रतान्तरम्” इति शास्त्रात् मैवम् इदं हि शास्त्रमेकव्रतस्य मध्ये व्रतान्तरोपक्रमं निषेधति प्रकृते तु व्रतद्वयस्यापि सहैवीपक्रम इति तन्त्रेणानुष्ठानं भविष्यति। नन्वस्त्वेवं खण्डतिथौ, सम्पूर्णतिथौ त्वेकादशी द्वादग्यु पवासौ द्वौ नैरन्तर्येण प्राप्नुतः। तत्र पारणमन्तरेण प्रथमोपवासस्यासमाप्तत्वात्। द्वितीयोपवासस्य प्रक्रमो न सम्भवतीति चेत् मैवम् अद्भिः पारणं कृत्वा द्वितीयोपवासस्य प्रक्रमयितुं। शक्यत्वात्। तादृशं तु पारणमशितानशितोभयात्मकम्। तत्राशितरूपत्वात् पूर्वोपवासं परिसमापयति। अनशितरूपत्वेनोत्तरोपवासं न विहन्ति। एतच्च द्व्यात्मकत्वं दर्शपूर्णमासप्रकरणे याजमानव्राह्मणे श्रूयते “यदानश्ननुपवसेत् क्षौधुकःस्याद्यदश्नीयात् रुद्रोस्य पशूनभिमन्येतापोऽश्नाति तन्नैवाशितं न क्षौधुको भवति नास्य रुद्रः पशृनभिमन्यते” इति। तस्मादुदकपारणेनोपवासद्वयनिर्वाहः। एतच्च सर्वतिथिसाधारणम्। प्रकृते ह्येकादशीद्वादश्योर्दैवतैक्यादुदकपारणमन्तरेणापि न कश्चिद्दोषः। अतएव स्मर्यते “एकादशीमुपोष्यैव द्वादशीं समुपीषयेत्। न तत्र विधिलोपः स्यादुभयोर्दैवतं हरिः” इति। उपवासद्वयाशक्तो केवलद्वादश्युपवासेनोभयोः फलं सिध्यति तथा च स्मृतिः “एवमेकादशीं मुक्त्वा द्वादशीं समुपोषयेत्। पूर्वोपवासजं पुण्यं सर्वं प्राप्तोत्यसंशयम्” इति। द्वादश्यां तु काम्योपवासो मार्कण्डेयेन दर्शितः “द्वादश्यामुपवासेन सिद्धार्था मूप! सर्वशः। चक्रवर्तित्वमतुलं संप्राप्ता अतुलाः श्रियः” इति। अथाष्टौ महाद्वादश्यः, शुद्धैकादशीयुता द्वादशी उन्मीलिनोसंज्ञा १ द्वादश्येव शुद्धाधिका वर्द्धते चेत् सा वञ्जुली २ वासरत्रयस्पर्शिनी त्रिस्पृशा ३ अग्रे पर्वणः सम्पूर्णाधिकत्वे पक्षवर्द्धिनी ४। जयादयश्चतस्र इत्यष्टौ निर्ण० सि० उक्ता जयादिकाश्चतस्रश्च हेमा० व्र० उक्ता यथा “जया १ च विजया २ चैव जयन्ती ३ पापनाशिनी ४। सर्वपापहरा चैषा कर्तव्या फलकाङ्क्षिभिः। एकादश्यां शुक्लपक्षे यदा ऋक्षं पुनर्वसुः। सा नाम्ना च जया १ ख्याता तिथोनामुत्तमा तिथिः। समुपोष्य व्रती पापात् मुच्यते नात्र संशयः। अग्निष्टोमस्य यज्ञस्य फलमाप्नोति मानवः १। यदा शुक्ले तु द्वादश्यां नक्षत्रं श्रवणं भवेत्। विजया २ सा तथा प्रोक्ता तिथीनामुत्तमा तिथिः। तस्यां स्वातः सर्वतीर्थे स्नातो भवति मानवः। दानं सहस्रगुणितं तथा चैव पयोव्रतम्। होमजपोववासैश्च सहस्राणां फलं लभेत्। यदा च शुक्लद्वादश्यां रोहिणी च प्रजायते। जयन्ती ३ नाम सा प्रोक्ता सर्वपापहरातिथिः। सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु। तत् क्षालयति गोविन्दस्तस्थामभ्यर्चितस्तथा। यदा च शुकृद्बादश्या पुष्यं भवति कर्हिचित्। तदा साऽतिमहापुण्या कथिता पापनाशिनी ४। यो ददाति च यत्पुण्यं नित्यं संवत्सरे नरः। उपवासन्तु तस्यां च यः करोति महत्फलम्। तस्यां जगत्पर्तिदेवः सर्वलोकेश्वरो हरिः। प्रत्यक्षतां प्रयात्याशु तदनन्तफलं स्मृतम्” एकादशीव्रतयोः साङ्कर्य्यादौ पारणे च विशेषः नि० सि० उक्तो यथा “एकादशीद्वादश्योरेकत्वे तन्त्रेणोपवासः पार्थक्ये तु शक्तस्योपवासद्वयम् “एकादशीमुपोष्यैव द्वादशीं समुपोषयेत्” इति विष्णुरहस्यात् अशक्तौ तु द्वादश्यामेव “एवमेकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्। पूर्ववासरजं पुण्यं सर्वं प्राप्नोत्यसंशयम्” इति तत्रैवोक्तेः यदात्वल्पा द्वादशी तदोक्तं मात्स्ये “यदा भवति अल्पापि द्वादशी पारणादिने। ऊषःकाले द्वयं कूर्य्यात् प्रातर्माव्याह्निकं तदा” नारदीयेऽपि “अल्पायामथ विप्रेन्द्र! द्वादश्यामरुणोदये। स्नानार्चनक्रियाः कार्य्या दानहोनादि संयुताः” इति सङ्कटे तु माधवीये देवलः “संकटे विषमे प्राप्तं द्वादश्यां पारवेत्कथम्। अद्भिस्तु पारणं कुर्य्यात् पुनर्भक्तं न दोषकृत्” इति सङ्कटे त्रयोदशीश्राद्ध- प्रदोषादौ अत्र केचिदाहुः “अपकर्षवाक्यान्यनाहिताग्निविषयाणि अग्निहोत्रादीनां श्रौतत्वेनापकर्षायोगादिति। द्वादश्यां च प्रथमपादमतिक्रम्य पारणं कार्यम् “द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः। तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः” इति निर्णयामृते मदनरत्ने च विष्णुधर्मोक्तेः। अत्र केचित् सङ्गिरन्ते “यदा भूयसी द्वादशी तदापि प्रातर्मुहूर्त्तत्रये पारणं कार्यम् “सर्वेषामुपवासासां प्रातरेव हि पारणमिति वचनादिति”। अस्मद्गुरवस्तु बहूनां कर्मकालानां विना कारणं बाधापत्तेः प्रागुदग्वचनैश्च अल्पद्वादश्यामेवापकर्षविधानादपराह्व एव कार्यम् प्रातः शब्दस्तु “सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितमिति” वदपराह्णषाचित्वेऽप्युपपन्नः न च वाक्यवैयर्थ्यं पुनर्भोजनसायंपारणनिवृत्त्यर्थत्वात्तस्येत्याहुः। प्रमादेन एकादश्युपवासातिक्रमे अपरार्के वाराहे “एकादशी विप्लुता चेद्द्वादशी परतःस्थिता। उपोष्या द्वादशी तत्र यदीच्छेत्परमं पदम्”। नि० सि० स्थानान्तरे भाद्रपदशुक्लद्वादश्यां श्रवणयोगरहितायां पारणं कुर्य्यात् आभाकासितपक्षेष्विति दिवोदासोदाहृतवचनात्। “उपोष्येकादशीं मोहात् पारणं श्रवणे यदि। करोति हन्ति तत्पुण्यं द्वादशद्वादशीभवम्” इति तत्रैव स्कान्दाच्च। अस्य तत्रैव प्रतिप्रसवः मार्कण्डेयोक्तः “विशेषेण महीपाल! श्रवणं वर्द्धते यदि। तिथिक्षयेण भोक्तव्यं द्वादशीं लङ्घयेन्न हि” इति। केचित्तु यदा त्वपरिहार्य्योयोगस्तदा श्रवणनक्षत्रे त्रेधाविभक्ते मध्यमविंशतिघटिकायोगं त्यक्त्वा पारणं कार्यं तदुक्तं विष्णुधर्मे “श्रुतेश्च मध्ये परिवर्तमेति सुप्तिप्रबोधपरिवर्तनमम्बुवर्ज्यमिति”। केचिच्चतुर्धा विभज्य मध्यपादद्वयं वर्ज्यमाहुः अत्र मूलं चिन्त्यम्। अत्रैव विष्णुपरिवर्तनोत्सवं कुर्य्यात्। सन्ध्यायां विष्णुं संपूज्य प्रार्थयेत मन्त्रस्तु तिथितत्त्वे उक्तः। ओं “वासुदेव! जगन्नाथ! प्राप्तेयं द्वादशी तव। प्रार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव!” इति अत्रैव शक्रध्वजोत्थापनमुक्तमपरार्के गर्गेण “द्वादश्यां तु सिते पक्षे मासि प्रौष्ठपदे तथा। शक्रमुत्थापयेद्राजा विश्वश्रवणवासवे” इयमेव श्रवणद्वादशी तत्रैकादश्यां द्वादशीश्रवणयोगे सैवोपाष्या “एकादशी द्वादशी च वैष्णव्यमपि तत्र चेत्। तद्विष्णुशृङलं नाम विष्णुसायुज्यकृद्भवेत्” इति विष्णुधर्मोक्तेः नारदीयेऽपि “संस्पृश्यै- कादशीं राजन् द्वादशीं यदि संस्पृशेत्। श्रवणं ज्योतिषां श्रेष्ठं ब्रह्महत्यां व्यपोहति। द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदि। स एव वैष्णवोयोगो विष्णुशृङ्कलसंज्ञितः” इति हेमाद्रौ दिनद्वये द्वादशीश्रवणयोगेऽपि पूर्वा, निर्णयामृते त्वस्य पूर्वार्द्धमन्यथा पठितम्। “द्वादशी श्रवणर्क्षं च स्पृशेदेकादशीं यदि” इति तेन हेमाद्रिमते एकादश्याः श्रवणयोगाभावेऽपि तद्युक्त द्वादशीयोगमात्रेण विष्णुशृङ्खलं भवति निर्णयामृतमते तु श्रवणस्यैकादशीद्वादशीभ्यां योग एव विष्णुशृङ्गलं नान्यथेति। यदा निशीथानन्तरं सूर्योदयावधि द्विकलामात्रमपि श्रवणर्क्षं भवति तदापि पूर्वैव तदुक्तं तत्रैव नारदीये इमां प्रकृत्य “तिथिनक्षपयोर्योगोयोगश्चैव नराधिप!। द्विकलो यदि मभ्येत स ज्ञेयो ह्यष्टयामिकः” इति “द्वादशी श्रवणस्पृष्टा कृत्स्ना पुण्यतमा तिथिः। न तु सा तेन संयुक्ता तावत्येव प्रशस्यते” इति मदनरत्ने मात्स्याच्च। दिवदोसीये तु “रात्रेः प्रथमपादे चेच्छ्रवणं हरिवासरे। तदा पूर्वामुपवसेत्प्रातर्भान्ते च पारणम्” इत्युक्तम्। इदं तु निर्मूलत्वात् पूर्वविरोधाच्चोपेक्ष्यं इयं बुधवारेऽतिप्रशस्ता “बुधश्रवणसंयुक्ता सैव चेद्द्वादशी भवेत्। अत्यन्तमहती सा स्याद्दत्तं भवति चाक्षयम्” इति हेमाद्रौ स्कान्दात्। यानि तु पठन्ति “उत्तराषाढसंयुक्ता श्रोणामध्याह्नगापि वा। आसुरी सैव तारा स्याद्धन्ति पुण्यं पुराकृतम्। उदयव्यापिनी ग्राह्या श्रोणाद्वादशिका युता। विश्वर्क्षसंयुता सा च नैवोपोष्या शुभेप्शुभिः” इत्यादीनि विष्णुधर्मस्कान्द मविष्यादीनि वचनानि तानि निर्मूलानि। यदपि स्मृत्यर्थसारे उदयव्यापिनी ग्राह्येत्युक्तं यच्च वृहन्नारदीये “उदयव्यापिनी ग्राह्या श्रवणद्वादशीव्रते” इति तद्यदा शुद्धाधिका द्वादशी परदिन एवोदये श्रवणयोगः पूर्वेऽह्नि च तद्भिन्ने काले योगस्तत्परम्। दिनद्वये उदययोगे पूर्वैव बहुकर्मकालव्याप्तेरित्युक्तं मदनरत्ने। यदा त्वेकादश्येव श्रवणयुता न द्वादशी तदापि पूर्वैव “यदा न प्राप्यत ऋक्षं द्वादश्यां वैष्णवं क्वचित्। एकादशी तदोपोष्या पापघ्नी श्रवणान्विता” इति मदनरत्नेनारदीयोक्तेः यदा परैवर्क्षयुता तदा परा तत्र शक्तेनोपवासद्वयं कार्यम् “एकादशीमुपोष्यैव द्वादशीं समुपोषयेत्। न चात्र विधिलोपः स्यादुभयोर्दैवतं हरिः” इति भविष्योक्तेः यत्तु विष्णुधर्मे “पारणान्तं व्रतं ज्ञेयं व्र- तान्ते विप्रभोजनम्। असमाप्ते व्रते पूर्वे नैव कुर्याद्व्रतान्तरम्” इति तदेतद्भिन्नपरम् अत्र गौडाः “शृणु राजन् परं काम्य श्रवणद्वादशीव्रतम्” इति स्थूलशीर्षवचनात् काम्यमेवेदम् तेनाशक्तस्य नित्यैकादशीव्रतमेवेति मन्यन्ते “द्वादश्यामुषवासेन शुद्धात्मा नृप सर्वशः। चक्रवर्तित्वसतुलं संप्राप्नोत्युत्तमां श्रियम्” इति गौडनिबन्धे मार्कण्डेयोक्तेश्च। दाक्षिणात्यास्तु “एकादश्यां नरो भुक्त्वा द्वादश्यां समुपोषणात्। व्रतद्वयकृतं पुण्यं सर्वं प्राप्तोत्यसंशयम्” इति वराहवामन पुराणोक्तेः श्रवणद्वादशीव्रतमेवेत्याहुः भुक्त्वेति फलाद्याहारपरम् नत्वन्नपरम् “अन्नाश्रितानि पापानीति” निषेधात् “उपवासद्वयं कर्तुं न शक्नोति नरो यदि। प्रथमेऽह्नि फलाहारी निराहारी परेऽहनि” इति दिबोदासीये भविष्योक्तेश्च अशक्तौ तु गृहीतैकादशीव्रतोयस्तं प्रत्युक्तं मात्स्ये “द्वादश्यां शुक्लपक्षे तु नक्षत्रं श्रवणं यदि। उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्धरिम्” इति पूजयेन्न तूपवसेदित्यर्थः। अगृहीतैकादशीव्रतश्चेदेकादश्यां भुक्त्वा द्वादश्यामुपवसेत् “एवमेकादशीं भुक्त्वा द्वादशीं समुपोषयेत्। पूर्ववासरजं पुण्य सर्वं प्राप्नोत्यसंशयम्” इति नारदीयोक्तेः। पारणं तूभयान्तेऽन्यतरगते वा कुर्यात् “तिथिनक्षत्रनियमे तिथिभान्ते च पारणमिति” स्कान्दात् “तिथिनक्षत्रसंयोगे उपवासो यदा भवेत्। पारणं तु न कर्तव्यं यावन्नैकस्य संक्षयः” इति नारदीयादिति हेमाद्रिः। यद्यप्यत्र नक्षत्रमात्रान्तेऽपि पारणं प्रतिभाति तथापि तिथिमात्रान्ते ज्ञेयम् नत्वृक्षान्ते तिथिमध्येऽपि “याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः। ऋक्षान्ते पारणं कुर्य्याद् विना श्रवणरोहिणीम्” इति विष्णुधर्मे श्रवणान्तमात्रे पारणनिषेधात् “रोहिण्यान्तु भान्ते कुर्यात्तिथेर्वापि” इति वह्निपुराणात् तदन्तेऽप्यस्तु न त्वत्रैवमस्तीति न, ऋक्षान्तोऽनुकल्प इति मदनरत्ने। असम्भवे तु “तिथ्यन्ते तिथिभान्ते वा पारणं यत्र चोदितम्। यामत्रयोर्द्धगामिन्यां प्रातरेव हि पारणम्” इति ज्ञेयम्। यत्तु मदनरत्ने द्वादशीवृद्धौ श्रवणवृद्धौ वा श्रवणान्त एव पारणं कुर्यात् “पारणं तिथिवृद्धौ तु द्वादश्यामुडुसंक्षयात्। वृद्धौ कुर्य्यात्त्रयोदश्यां तत्र दोषो न विद्यते” इति वह्निपुराणादित्युक्तम् तत्प्रकरणादेतस्यामेव श्रवणयुक्तैकादश्यां विहितविजयैकादशीव्रतप्ररं न तु श्रवण- द्वादशीपरमिति मदनरत्ने। गौडास्तु श्रवणद्वादशीपरमाहुः अत्रविधिर्मदनरत्ने विष्णुधर्मे “तस्मिन् दिने तथा स्नानं यत्र क्वचन सङ्गमे। दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे। वस्त्रसंवेष्टितं दत्त्वा छत्रोपान हमेव च। न दुर्गतिमवाप्नोति गतिमग्र्यां च विन्दति”। दशावतारद्वादश्यो हेमा० व्र० उक्तो यथा विष्णुपु०

“मार्गशीर्षे सिते पक्षे द्वादश्यां समजायत। मत्स्यो विष्णुः समाहात्म्यः तस्येष्टेयं सदा तिथिः। एकादश्यामुपोष्यादौ पठन् मत्स्यावतारकम्। शृण्वन् सौपर्ण मन्त्रं च कारयित्वा वदेदिदम्।” विष्णुर्मे प्रीयतां मत्स्य इत्युक्त्वा ब्राह्मणाय तम्। यो दद्यात् स सुखी भूत्वा विष्णुलोकं व्रजेच्छुभम्। पौषे मासि सिते पक्षे द्वादश्यां समजायत। कूर्मरूपी स भगवान् तस्येष्टेयं सदा तिथिः। एकादश्यामुपोष्यादौ पठन् कूर्मञ्च तारकम्। शृण्वन् सौवर्णं कूर्मञ्च कारयित्वा वदेदिदम्। विष्णुर्मे प्रीयतां कूर्म इत्युक्त्वा ब्राह्मणाय तम्। यो दद्यात्स सुखी भूत्वा विष्णुलोके महीयते। यो मर्त्यो माघशुक्लस्य द्वादश्यां तु विशेषतः। उपोष्प भक्त्या वाभ्यर्च्य वराहं रुक्मनिर्मितम्। दद्यात्पठेच्च चरितं बाराहं हरिमुत्तमम्। वराहजन्मदिबसे विप्राय श्रद्धयान्वितः। सुरमेतं समासाद्य मोदते कालमक्षयम्। वराहविष्णुपीतिञ्च कूर्मदेवं यथातथम्। नारसिंहं काल्गुने तु एकादश्यां सिते शुचिः। उपोष्याभ्यर्चयेद्भक्त्या नारसिंहभवे दिने। सौवर्णं नारसिंहं च कृत्वा शक्त्या द्विजाय तु। दद्यान्नृसिंहचरितमिदं शृण्वन् पठंश्च वा। शत्रून् विजित्येह लक्ष्मीं प्राप्य नित्यं नरोत्तमः। पातालस्वर्गमाप्नोति नागदैत्याङ्गनायुतम्। चैत्रे मासि सिते पक्षे एकादश्यामुपोषितः। वामनस्य दिनेऽभ्यर्च्य वामनं पुरुषोत्तमम्। सौवर्णं वामनं दद्यात् पठेद्भक्त्या च यो नरः। स चिरं वामनस्येदं शृणुयाद्वाप्युपोषितः। स धनैरन्वितो भुक्त्वा भोगानिह च मानुषान्। ब्रह्मलोकमवाप्नोति विद्वान्नामानुतत्परः। वैशाखशुक्लैकादश्यामुपोष्याभ्यर्चयेच्छुचिः। जामदग्न्यं तथा रामं दद्याद्विप्राय रुक्मजम्। ज्यैष्ठशुक्लैकादश्यामुपोष्य द्वादशीदिने। रामं दाशरथिं रौक्मं पूजयेद्भक्तिभावतः। इदं च रामचरितं शृणुयाद्वा पठेन्नरः। रामस्य जन्मदिवसे (कल्पभेदादविरुद्धम्) तथा दाशरथेर्द्विजः। सीतारामन्तु सौवर्णं यो विप्राय प्रयच्छति। द्वादश्यां रामचरितमिदं शृण्वन् पठंश्च वा। स इन्द्रलोकं लभते रामस्यैव प्रसादतः। इह कीर्त्तिमवाप्नोति धनं पुत्रांश्च जीवितम्। आषाढमासि शुक्लां य उपोष्यैकादशीं द्विजः। द्वादश्यामर्च्चयेद्रामं रौहिणेयं महाबलम्। रौहिणेयस्य रामस्य तिथौ जन्मनि सूत्तमे। सौवर्णं ब्राह्मणायापि रामं दद्यात्सपात्रकम्। स नागलोकमाप्नोति योवदिन्द्राश्चतुर्दश। इह स्त्रीभोगमाप्नोति वलवान्नीरुजो भवेत्। श्रावणे मासि शुक्लां य उपोष्यैकादशीं द्विजः। द्वादश्यामर्चयेत् कृष्णं रुक्मिणीसहितं शुचिः। रुक्मप्रतिकृति कृत्वा दद्याच्च ब्राह्मणाय च। पठेच्च कृष्णचरितं कृष्णजन्मदिने (कल्पभेदादविरुद्धम्) शुचिः। श्रावणे शृणुयाद्वापि य इदं पुरुषोत्तमः। स मुच्यतेऽस्मात् संसारात् भुक्त्वा भोगमनुत्तमम्। यस्तु भाद्रपदे मासि एकादश्यामुपीषितः। शुक्लायामर्चयेत् कल्किं विष्णुं सौवर्णमच्युयम्। द्वादश्यां जन्मदिवसे कल्किविष्णुः सुरेश्वरः। दद्याद्विप्राय तं वापि भक्त्यानुष्ठानती मुदा। पठेदिदं कल्किविष्णोश्चरितं शृणुयात्ततः। जनलोकमवाप्नोति कृते जन्म लभेद्युगे। तस्मि~स्तस्मिंस्तु दिवसे दत्तं बिष्ण्ववतारकम्। अर्चयन्तु सुराः सर्वे भवेयुः सर्वदार्चिताः”। ति० त० नारदीये ‘वैशाखशुक्लपक्षे तु द्वादशी वैष्णवी तिथिः। तस्यां शीतलतोयेन स्नापयेत् केशवं शुचिः’। इयं पिपीतकी द्वादशी। अत्र ‘षष्ठीसमेता कर्तव्या सप्तमी नाष्टमीयु ता। पतङ्गोपासनायेह षष्ठ्यामाहुरुपोषणम्। एकादश्यां प्रकुर्वन्ति उपवामं मनीषिणः। उपासनाय द्वादश्यां विष्णोर्यद्वदियं तथा’। इति भविष्यपुराणेन एकादश्युपवासानन्तरं द्वादश्यां विष्णूपासनाया उक्तत्वादत्रापि तथा व्यवहरन्तीति नात्र युग्मादरः। द्वादशीक्षयेतूपवामानन्तर्य्यं विनापि पूजेति। इयं पूर्ववचनोक्तषष्ठीयुता सप्तमीवत्। आषाढद्वादश्यादिषु शयनादिकं प्रागुक्तवचनात् भविष्यांत्तरे ‘द्वादशी श्रवणोपेता सर्वपापहरा तिथिः। वुधवारसमायुक्ता ततः शतगुणा भवेत्। तामुपोष्य समाप्नोति द्वादशद्वादशीफलम्’। उभयदिने तल्लाभे तु एकादशीयुता ग्राह्या। ‘द्वादशी च प्रकर्तव्या एकादश्यायुता विभो। सदा कार्य्या च विद्वद्भिर्विष्णुभक्तैश्च मानवैः” इति स्कान्दात्। यदा त्वकादश्यामेव श्रवणा तदा तामुपवसेत् तथाच नारदः “याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः। तास्वेव तद्वतं कुर्य्यात् श्रवणद्वादशीं विना”। भविष्योत्तरे ‘एकादशी यदा तु स्यात् श्रवणेन समन्विता। विजया सा तदा प्रोक्ता भक्तानां विजयप्रदा। तिथिनक्षत्रसंयोगे उपवासो यदा भवेत्। तावदेव न भोक्तव्यं यावन्नैकस्यसंक्षयः। विशेषेण महीपाल! श्रवणं वर्द्धते यदि। तिथिक्षयेण नोक्तव्यं प्तादशीं नैव लङ्घग्येत्’। तिथिक्षयेण एकादशीक्षयेण भोक्तव्यं द्वादश्यां पारयेदित्यर्थः। अत्र हेतुः द्वादशीमित्यादिः। यदा त्वेकादश्युपवासदिने श्रवणं नास्ति परदिने द्वादश्यां तत् तदोपवासद्वयमाह ब्रह्मवैवर्त्तः ‘एकादशीमुपोष्यैव द्वादशी समुपोषयेत्। न चात्र विधिलोपः स्यादुभयोर्देवता हरिः’। अत्र च ‘असमाप्ते व्रते पूर्वे नैव कुर्यात् व्रतान्तरम्’ सति स्मृतेः वारणस्याकरणेन पूर्वोपवासासमाप्तावुपवासान्तरारम्भे विधिलोपेन भवेदित्यर्थः। हेतुमाह उभयोरित्यादिः। उभयोपवालासामर्थ्ये तु श्रवणद्वादश्येवोपोष्या तथाच स्मृतिः ‘वरमेकादशीं भुक्ता द्वादशीं समुपोषयेत्। पूर्वोपवासजं पुण्यं सर्कं प्राप्नोत्यसंशयः’। तथा ‘उपोष्य दादशीं पुण्यां विष्णुऋक्षेण संयुताम्। एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम्”। द्वादश्युपवासःवाम्यः। तथाह मार्कण्डेयः “द्वादश्यामुपवासेन सिद्धात्मा नृप सर्वशः। चक्रवर्त्तित्वमतुलं संप्राप्नोत्यतुलां श्रियम्” तिथित० कश्चिद्विशेषोऽनयोर्देशभेदाद्व्यवस्था। मासभेदे द्वादशद्वादशीव्रतभेदा अग्निपु० १८८ अ० उक्ता यथा अग्निरुवाच। द्वादशीव्रतकं वक्ष्ये भुक्तिनुक्तिप्रदायकम्। एकभक्तेन नक्तेन तथैवायाचितेन च। उपवासेन भैक्ष्येण चैवं द्वादशिकव्रती। चैत्रे मासि सिते पक्षे द्वादश्यां मदनं हरिम्। पूजयेद् भुक्तिमुक्त्यर्थी मदनद्वादशीव्रती १। माघशुक्ले तु द्वादश्यां भीमद्वादशिकव्रती। नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् २। फाल्गुने च लिते पक्षे गोविन्दद्वादशीव्रती ३। विशोकद्वादशीकारी यजेदाश्वयुजे हरिम् ४। सगणं मार्गशीर्षे ५ तु कृष्णमम्पर्च्च्य यो नरः। ददाति शुक्लद्वादश्यां स सर्वरसदायकः। गोवत्सं पूजयेद् भाद्रे गोवत्सद्वादशीव्रती ६। माध्यान्तु समतीतायां श्रवणेन तु संयुता। द्वादशी ७ या भनेस् कृष्णा प्रोक्ता सा तिलद्वादशी। तिलैः स्नानन्तिलैर्होमो नैवेद्यन्तिलमोदकम्। दीपश्च तिलतैलेन तथा देयं तिलोदकम्। तिलाश्च देया विप्रेभ्यः फलं होमोपवासतः। ओं नमो भगवतेऽथो वासुदेवाय वै यजेत्। सकुलः स्वर्नमाप्नोति षट्तिलद्वादशीव्रती। मनोरथद्वादशीकृत् फाल्गुने तु सितेऽर्च्चयेत् ८। नामद्वादशीव्रतकृत् केशवाद्यैश्च नामभिः। वर्षं यजेद्धरिं स्वर्गी न भवेन् नारकी नरः। फाल्गुनस्य सितेऽभ्यर्च्च्य सुमतिद्वादशीव्रती ९। मासि भाद्रपदे शुक्ले १० अनन्तद्वादशीव्रती। अश्लेषर्क्षे तु मूले वा माघे ११ कृष्णाय वै नमः। यजेत्तिलांश्च जुहुयात्तिलद्वादशीकृन्नरः। सुगतिद्वादशीकारी फाल्गुने तु सिते यजेत्। जय कृष्ण नमस्तुभ्यं वर्षं स्याद् भुक्तिमुक्तिगः। पौषशुक्ले तु द्वादश्यां १२ सम्प्राप्तिद्वादशीव्रती”। द्वादशीनियमा तद्धर्मभेदनिषेधाश्च एका० त० उक्ता यथा “द्वादशीनियमाः। द्वादश्यामपि विष्णुपूजनम् “एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः। उपालनाय द्वादश्यां विष्णोर्यद्वदियन्तथा” इति भविष्यपुराणात्। यद्वत् यथा द्वादश्यां विष्णूपासनाय एकादश्यामुपवासं प्रकुर्वन्ति तथा इयमपि षष्ठीयुक्ता सप्तमी उपोष्या सप्तम्यां सूर्य्योपासनायेत्यर्थः। तत्र ब्रह्माण्डपुराणम्। “कांस्यं मांसं सुरां क्षौरं लोभं वितथमाषणम्। व्यायामञ्च व्यवायञ्च दिवास्वप्नं तथाञ्जनम्। शिलापिष्टं मसूरांश्च द्वादशैतानि वैष्णवः। द्वादश्यां वर्ज्जयेन्नित्यं सर्वपापैः प्रमुच्यते। पुनर्भोजनमध्यानं यानमायालमैथुने, उपवासफलं हन्युर्दिवा निद्रा च पञ्चमी”। वृद्धशातातपः “उपवासं द्विजः कृत्वा ततोब्राह्मणभोजनम्। कुर्य्यात्तथास्य सगुण उपवासो हि जायते”। सगुणः साङ्गः। नारायणमन्त्रजपश्च पाश्चात्यनिर्णयामृते कात्यायनः “मिथ्यावादे दिवास्वप्ने वहुशोजलसेवने। अष्टाक्षरं वती जत्सा शतमष्टोत्तरं शुचिः” तथा “मन्त्रं निवेद्य हरये निवेद्योपोषणं व्रती। द्वादश्यां पारणं कुर्य्याद्वर्जयित्वा प्युपोदकीम्”। उपोदकीम् पूतिकाशाकम्। कूर्मपुराणे “कांस्यं मांसं सुरां क्षौद्रं हिंसां तैल मसत्यताम्। द्यूतक्रीडां दिवानिद्रां व्यायामं क्रोघ मैथुनम्। द्बादश्यां द्वादशैतानि वैष्णवः परिवर्जयेत्” सवत्सरप्रदीपे “अभ्यङ्गञ्च परान्नञ्च तैलं निर्माल्यलङ्घनम्। तुलसीचयनं द्यूतं पुनर्भोजनमेव च। वस्त्रपीडां तथा क्षारं द्वादश्यां वर्जयेद्बुधः”। अभ्यङ्गोयेन केनापि, तैलं तिलतैलं मार्ष्टावपि निषिद्धम्। स्मृतिः “घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम्। अदुष्टं पक्वतैलञ्च स्नानाभ्यङ्गेषु नित्यशः” इति अभ्यङ्गो द्वादशीतरपरः। नित्यश इति पर्ववारादाबपि। वारे द्रव्यदानेनापि प्रतिप्रसवमाह स्मृतिः “रवौ पुष्पं गुरौ दूर्वां भूभिं भूमिजवासरे। भार्गवे गोमयं दद्यात्तैलदोषोपशान्तये”। दद्यात्तैले इति शेषः। सूरिसन्तोषे “कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम्। शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम्”। निर्माल्यलङ्घनमन्यत्रापि निषिद्धमत्राधिकदोषकरं व्रतहानिकरं वा। क्षारं वस्त्रस्य। “मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्धवासरे! वस्त्राणां आरसंयोमोदहत्यासप्तमं कुलम्”। इति यमवचनात्”।

द्वादशक = त्रि० द्वादश संख्याऽस्य कन्। १ द्वादशसंख्यान्विते पणरूपे दण्डादौ “वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्वादशकोदमः” मनुः द्वादशानां संख्या कन्। २ द्वादशसंख्यायाञ्च “ब्राह्मणस्य परित्राणाम् गबां द्वादशकस्य च” मनुः

द्वादशकर = पु० द्वादश करा भुजा यस्य। १ कार्तिकेये त्रिका० “स्वामी शाखी विशास्वश्च द्विभुजो बालरूप धृक्। दक्षे शक्तिः कुक्कुटोऽथ एकवक्त्रोऽथ षण्मुखः। षडभुजो वा द्वादशभिर्ग्रामेऽरण्ये द्विबाहुकः। शक्तीषुपाशनि स्त्रिंशतोत्रदीस्तर्जनीयुतः। शक्त्या दक्षिणहस्तेषु, षट्सु, वामे करे तथा। शिखिपिच्छं धनुः स्वेटं पताकाभयकुक्कुटे। कप्रालकर्तरीशूलपाशभृद्याम्य सौम्ययोः” हेमा० व्र०। २ शूलयोगे ३ हर्षणयोगे च तयोर्द्वादशहस्तत्वम् ३७९ पृ० दृश्यम्। द्वादशभुजादयोऽप्यत्र। ४ कुमारानुचरगणभेदे “अनन्तो द्वादशभुजस्तघा कृष्णोपकृष्णकौ” भा० शल्य० ४६ अ० तद्गणोक्तौ। द्वादशकराः किरणा यस्य। ५ द्वादशार्चिषि जीवे “ध्यात्वा पीताम्बरं पीतं सरोजस्यं चतुर्भुजम्” इत्युक्तेश्चतुर्भुजत्वस्यैव प्रतीतेर्नात्रकरस्य हस्तपरता “भैरवीरूपविद्या च भुजैर्द्वादशभिर्युताः” हेमा० व्र० उक्ते ६ भैरवीभेदे स्त्री।

द्वादशन् = त्रि० द्वौ च दश च द्व्यधिका वा दश। १ द्व्यधिकायां द्वियुतायां वा दशसंख्यायां २ तद्युते च “द्वादश प्रतिमास्यानि आद्यं षाण्माषिके तथा” ति० त०

द्वादशपत्र = न० द्वादशाक्षराणि पत्राणीव यस्य। “वैशाखादिरूपतया कल्पित द्वादशाक्षरयुक्ते भगवतो मन्त्रभेदे स च मन्त्रः ओं नमो भगवते वासुदेवाय” यथोक्तं बामनपु० “पितामहोऽपि तं पुत्रं साध्यं सद्विनये रतम्। सनत्- कुमारं प्रोवाच योगं द्वादशपत्रकम्। शिखासंज्ञस्तु ओंकारो मेषोऽस्य शिरसि स्थितः। मासो वैशाखनामा च प्रथमं पत्रकं स्मृतम्। नकारः शिरसि प्रोक्तो वृषोसस्य शिरसि स्थितः ज्यैष्ठमासश्चन्तत्पत्रं द्वितीयं परिकीर्तितम्। मोकारो भुजयोर्युग्मं मिथुनं तत्र संस्थितम्। मास आषाड्नामा च तृतीयं प्यत्रकं स्मृतम्। भकारं नेत्रयुगलं कर्कटस्तत्र संस्थितः। मासः श्रावण इत्युक्तश्च तुर्थं पत्रकं स्मृतम्। कारं दयं प्रोक्तं सिंहो बसति तत्र च। गासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम्। वकारं कवचं विद्यात् कन्या तत्र प्रतिष्ठिता। मासश्चाश्वयुजो नाम षष्ठं तत्पत्रकं स्मृतम्। तेकारमन्त्रग्रामश्च तुलाराशिकृताश्रयः। मासश्च कार्तिको नाम सप्तमं पत्रकं स्मृतम्। वाकारं नाभिसंयुक्तं स्थितं तत्र च वृश्चिकः। मासो मार्गशिरा नाम त्वष्टकं पत्रकं स्मृतम्। सुकारं जघनं प्रोक्तं तत्रस्थश्च धनुर्धरः। पुष्येति गदितो मासो नवमं परिकीर्त्तितम्। देकारश्चोरुयुगलं मकरस्तत्र संस्थितः। माघो निगदितो मासः पत्रकं दशमं स्मृतम्। बाकारो जानुयुगलं कुम्भस्तत्रापि संस्थितः। पत्रकं फाल्गुनं प्रोक्तं तदेकादशमुत्तमम्। पादौ अकारो मीनो हि स मैत्रे च वसेत् मुने!। इदन्तु द्वादशं प्रौक्तं पत्रं वै केशवस्य हि। द्वादशारन्यथा चक्रं यन्नाभि द्विभुजन्तथा। त्रिव्यूहस्त्वेकमूर्त्तिश्च तथोक्तः परमेश्वरः। एतत्तवोक्तं देवस्य रूपं द्वादशपत्रकम्। यस्मिन् ज्ञाते मुनिश्रेष्ठ! न भूयो मरणं भवेत्”

द्वादशपुत्र = पु० ब०। संज्ञात्वात् कर्म०। औरसादिद्वादशविधेषु पुत्रेषु यथाह विष्णुस०

“अथ द्वादश पुत्राभवन्ति। स्वे क्षेत्ने संस्कृतायामुत्पादितः स्वयमौरसः प्रथमः १। नियुक्तायां सपिण्डनोत्तमवर्णेन वोत्पादितः क्षेत्रजोद्वितीयः २। पुत्रिकापुत्रस्तृतीयः ३। यस्त्वस्याः पुत्रः स मे पुत्रोजवेदिति या पित्रा दत्ता सा पुत्रिका। पुत्रिकाविधिगा प्रतिपादिता पितृभ्रातृविहीना पुत्रिकैव। पौगर्भवश्चतुर्थः ४। अक्षता भूयःसंस्कृता, पुनर्भूः भूयण्यसंस्कृतापि परपूर्वा। कानीनः पञ्चमः ५। पितृगृहेऽणंस्कृतयैवोत्पादितः। स च पाणिग्राहस्य। गृहे च गूढोत्पन्नः षष्ठः ६। यस्य तल्पजस्तस्यासौ। सहोष्टः सप्तमः ७। गर्भिणी या संस्क्रियते तस्याः पुत्रः। स च पाणिग्राहस्य। दत्तकश्चाष्टमः ८। स च मातापितृभ्यां यस्य दत्तः। क्रीतश्च नवमः ९। स च येन क्रीतः। स्वयमुपगतोदशमः १०। स च यस्योपगतः। अपविद्धस्त्वेकादशः ११। पित्रा मात्रा च परित्यक्तः। स च येन गृहीतः। यत्र क्वचनोत्पादितश्च द्वादशः १२। एतेषां पूर्वः पूर्वः श्रेयान्। स एव दायहरः”।

‘वह्वीनां द्वादश ह्येव पुत्राः पुराणदृष्टाः। स्वयमुत् पादितः स्वक्षेत्रे संस्कृतायां प्रथमः १ तदलाभे नियुक्तायां क्षेत्रजो द्वितीयः २। तृतीयः ३ पुत्रिका विज्ञायते अभ्रांवृका पुंसः पितृलभ्येति प्रतीचीनं गच्छति पुत्रत्वम्। श्लोकः। अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम्। अस्यां यो जायते पुत्रः स मे पुत्रोभवेदिति। पौनर्भवश्चतुर्थः ४ पुनर्भूः कौमारं भर्त्तारमुत्सृज्यान्यैः सह चरित्वा तस्यैव कुटुम्बमाश्रयति सा पुनर्भू र्भवति। या च क्लीवं पतितमुन्मत्तं वा भर्त्तारसुत्सृज्यान्यं पतिं विन्दति मृते वा, सा पुनर्भूर्भवति। कानीनः पञ्चमो या पितु र्गृहेऽसंस्कृता कामाटुत्पादयेन्मातामहस्य पुत्रोभवतीत्याहुः। अथाप्युदाहरन्ति। अप्रत्ता दुहिता यस्य पुत्रं विन्दति तुल्यतः। पुत्री मातामहस्तेन दद्यात् पिण्डं हरेद्धनमिति। गूढे च गूढोत्पन्नः षष्ठ इत्येते दायादा बान्घवास्त्रातारोमहतोभयादित्याहुः। अथादायादास्तत्र सहोढएव प्रथमो या गर्भिणी संस्क्रियते तस्यां जातः सहोढः पुत्रोभवति। दत्तकोद्वितीयो यं मातापितरौ दद्याताम्। क्रीतस्तृतीयस्तच्छुनःशेफेन व्याख्यातं हरिश्चन्द्रोह वै राजा सोऽजीगर्त्तस्य सोपवत्सैः पुत्रं विक्राय्य स्वयं क्रीतवान्। स्वयमुपागतश्चतुर्थः तच्छुनःशेफेन व्याख्यातं शुनःशेफो ह वै यूपे नियुक्तो देवतास्तुष्टाव तस्येह देवताः पाशं बिमुमुचुन्तमृत्विजऊचुर्ममैवायं पुत्रोऽस्त्विति तानाह न सम्पदे ते सम्पादयामासुरेष एव वं कामयेत तस्य पुत्रोऽस्त्विति तस्येह विश्वामित्रोहोतासीत्तस्य पुत्रत्वमियाय। अपविद्धः पञ्चमो यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात्। शूदापुत्रएव षष्ठोभवतीत्याहुरित्येतेऽदायादा बान्धवाः। अथाप्युदाहरन्ति। यस्य पूर्वेषां वर्णानां न कश्चिद्दायादः स्यादेते तस्यापहरन्ति’ वसिष्ठसंहिता १७ अ०। अत्र कानीनस्य मातामहसुतत्वमुक्तं विष्णु० सूत्रे च पाणिग्राहस्य पुत्रत्वं मिथःसमयभेदेनात्र व्यवस्था

द्वादशप्रसृत = त्रि० द्वादश प्रसृतयः सन्त्यत्र अच्। द्वादशप्रसृतियुक्ते सुश्रुतोक्ते वस्तिभेदे यथा “दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्। विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतित्रयम्। एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्। संमूर्च्छिते कषायन्तु चतुःप्रसृतिसम्पितम्। वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम्। एवं प्रकल्पितो वस्तिर्द्वादशप्रसृतो भवेत्। ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम्। अपह्रासे भिषक्कुर्य्यात्तद्वत्प्रसृतिहापनम्। यथावयो निरूहाणां कल्पनेयमुदाहृता। सैभ्रयादिद्रवान्तानां सिद्धिकामैर्मिषग्वरैः”।

द्वादशभाव = पु० द्वादशगुणितो भावः। ज्यो० उक्तेषु तन्वादिषु द्वादशसु भावेषु तदानयनाटि तत्रस्थितग्रहफलञ्च नी० ता० उक्तं यथा “पूर्वं नतं स्याद्दिनरात्रिखण्डं दिवानिशोरिष्टघटीविहीनम्। दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रिखण्डं त्वपरं नतं स्यात्। तत्काले सायनार्कस्य भुक्तभोग्याऽंशसंगुणात्। स्वोदयात् खाग्निलब्धं यत् भुक्तं भोग्यं रवेस्त्यजेत्। इष्टनाडीपलेभ्यश्च गतगम्यान्निजोदयात्। शेषं खत्र्याहतं भक्तमशुद्धेन लवादिकम्। अशुद्धशुद्धभे हीनयुक् तनुर्व्ययनांशकम्। एवं लङ्कोदयैर्भुक्तं भोग्यं शोध्यं पलीकृतात्। पूर्वपश्चान्नतादन्यत् प्राग्वत्तद्दशमं भवेत्। सषड्भे लग्नखे जायातुर्य्यौ लग्नोनतुर्य्यतः। षष्ठांशयुक् तनुः सन्धिरग्रे षष्ठांशयोजनात्। त्रयः ससन्धयोभावाः षष्ठांशेनैकयुक सुखात्। अग्रे त्रयः षडेवं ते भार्द्धयुक्ताः परेऽपि षट्। खेटे भावसमे पूर्ण्णं फलं सन्धिसमे तु खम्। हीनेऽधिके द्विसन्धिभ्यां भावे पूर्वापरे फलम्। मुक्तं भोग्यं स्वेष्टकालान्न शुद्ध्येत् त्रिंशन्निघ्नाद्भोदयाप्तं लवाद्यम्। हीनं युक्तं भास्करे तत्तनुः स्याद्रात्रौ लग्नं भार्द्धयुक्ताद्रवेस्तु। खेटे सन्घिद्वयान्तःस्थे फलं तद्भावजं भवेत्। हीनेऽधिके द्विसन्धिभ्यां भावे पूर्वापरे फलम्। ग्रहसन्ध्यन्तरं कार्य्यं विंशत्या गुणितं भवेत्। भावसन्ध्यन्तरेणाप्तं फलं विंशोपकाः स्मृताः”। अयमर्थः। मेषादिराशीनामुदयकालोलग्नं तस्य च त्रिंशदंशरूपतया जन्मकाले मेषादीनां यतमोऽंशो गतः तदारभ्य तदुत्तरराशेस्ततोर्वाचीनाशान्तः तनुभावः एवं धनभावादि एवं तन्वादिद्वादशभावास्तेषां सन्धयोऽपि तथैव ज्ञेयाः। राशिमात्रगणनया फलं स्थूलं भावगणनया तु सूक्ष्मं फलादिकं भवतीति ज्ञेयम्। ते च तनुभावः, धनरावः, सहजभावः, बन्धुभावः, पुत्रभावः, रिपुभावः, कलत्रभावः, मृत्युभावः, धर्मभावः, कर्मभावः, आयभावः, व्यवभावश्चेति द्वादश। तेषां सन्धयश्च द्वादशेत्यवधेयम्।

द्वादशमद्य = न० द्वादशविधं मद्यम्। “पानसं द्राक्षमाधूकं खार्जुरं तालमैक्षवम्। माध्वीकं टङ्कमाध्वीकं मैरेयं नारिकेलजम्। समानानि विकाराय मद्यान्येकादशैव तु। द्वादशं तु सुरामद्यं सर्वेषामधमं स्मृतम्” पुलस्त्योक्ते द्वादशविधे मद्ये।

द्वादशमल = पु० द्वादशगुणितो मलः। “वसाशुक्रमसृङ्मज्जं मूत्रविट्कर्णविड्नखाः। श्लेष्मास्थि दूषिका स्वेदो द्वादशैते नृणां मलाः” अत्रिसंहितोक्ते नृणां द्वादशविधे मले। तत्र “षण्णां षण्णां क्रमेणैव शुद्धिरुक्ता मनीषिनिः। मृद्वारिभिश्च पूर्तेषामुत्तरेषान्तु वारिभिः” शुद्धिप्रकारमाह तत्रैवं।

द्वादशमास = पु० द्वादशगुणितो मासः। १ चैत्रवैशाखज्यैष्ठाषाढश्रावणभाद्राश्विनकार्तिकमार्गशीर्षपौषमाघफाल्गुनसंज्ञकेषु द्वादशसु मासेषु “क्वचित् द्वादश मासाः संवत्सरः क्वचित् त्रयोदश मासाः” श्रुतिः ६ ब०। २ वर्षे पु०

द्वादशमासकर्म्मन् = न० द्वादशसु मासेषु कर्तव्यं कर्म। विष्णुस० उक्ते मार्गादिमासेषु तिथिभेदे दानहोमादिकर्मभेदे यथा

“मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरःसंयुक्तायां चूर्णित लबणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रदापयेत्। अनेन कर्मणा रूपसौभाग्यवानभिजायते। पोषी चेत् पुष्ययुक्ता स्यात्तस्यां गौरसर्षपकल्कोद्वर्त्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधीभिः सर्वगन्धैः सर्ववीजैश्च स्नाती घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिश्चाभ्यर्च्य वैष्णवैः शाक्रैर्वाहस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन ब्राह्मणान् स्वस्ति वाचयेत्। वासोयुगं कर्त्रे दद्यात्। अनेन कर्मणा पुष्यते। माघी मघायुता चेत्तस्यां तिलैः श्राद्धं कृत्वा पूतोमवति। फाल्गुनी फल्गुनीयुता चेत्स्यात्तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्य्यां मनोज्ञां रूपवतीं द्रविणवतीञ्चाप्नोति। नार्यपि भर्त्तारम्। चैत्री चित्रायुता स्यात्तस्यां चित्रवस्त्रप्रदानेन सौभाग्यमाप्नोति। वैशाखी विशाखायुता चेत्तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः सन्तर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतोभवति। ज्यैष्ठी ज्येष्ठायुता चेत्तस्यां छत्रीपानंहप्रदानेन गवामाधिपत्यं प्राप्नोति। आषाद्यामाषाढायुक्तायामन्नपानदानेन तदेवाक्षव्यमाप्नोति। श्रावण्यां श्रवणयुक्ताया जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गमाप्नोति। प्रौष्ठ- पद्यां प्रौष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तोभवति। आश्वयुज्यामश्विनीगते चन्द्रमसि घृतपूर्णं भाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति। कार्त्तिकी कृत्तिकायुता चेत्तस्यां सितमुक्षाणमन्यवर्णं वा शशाङ्कोदये “सर्वशस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा कान्तारभयं नश्यति। वैशाखशुक्लतृतीयायामुपोषितोऽक्षतैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतोभवति। यच्च तस्मिन्नहनि प्रयच्छति तदक्षय्यमाप्नोति। पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातस्तिलोदकं दत्त्वा तिलैर्वासुदेवमभ्यर्च्य तानेव हुत्त्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतोभवति। माघ्यां समतीतायां कृष्णद्वादश्यां सोपवासः श्रवणं प्राप्य वासुदेवाग्रतोमहावर्त्तिद्वयेन दीपद्वयं दद्यात्। दक्षिणपार्श्वे महारजतरक्तेन समग्रेण वाससा वृततुलामष्टाधिकां दत्त्वा वामपार्श्वे तिलतैलतुलां साष्टां दत्त्वा श्वेतेन सनग्रेण वाससा एतत्कृत्वा कृतकृत्योयस्मिन् राष्ट्रेऽभिजायते यस्मिन् देशे यस्मिन् कुले स तत्रोज्ज्वलोभवति। आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदद्यादश्विनौ प्रीणयित्वा रूपभाग्भवति। तस्मिन्नेव मासि प्रत्यहं गोरसैर्ब्राह्मणान् भोजयित्वा राज्यभाग्भवति। प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं रेवतीप्रीत्यै परमान्नं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा रूपभाग्भवति। माघे मासेऽग्निं प्रत्यहं तिलैर्हुत्वा सघृतं कुल्माषं ब्राह्मणान् भोजयित्वा दीप्ताग्निर्भवति। सर्वां चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा सर्वपापेभ्यः पूतोभवति। यदिच्छेद्विपुलान् भोगान् चन्द्रसूर्यग्रहोपमान्। प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ”। कृत्यतत्त्वे दर्शितानि अन्यानि च मासभेदकार्य्याणि दृश्यानि।

द्वादशमासिक = न० मासिभवं ठञ् मासिकम् कर्म०। मृतदिनावधिद्वादशसंख्यापूरणे मासे कर्तव्ये प्रेतोद्देश्यके श्राद्धभेदे।

द्वादशयात्रा = स्त्री द्वादशसु मासेषु द्वादशविधा यात्रा। यात्रातत्त्वे स्कन्दपुराणोक्ते मासभेदे देवोत्सवे यात्राभेदे ताश्च तत्र दर्शिता यथा

“इन्द्रद्युम्न उवाच वैशाखादिषु मासेषु यात्रापूजाविधिं मुने!। श्रोतुमिच्छामि देवेशे यथावद्वक्तुमर्हसि। जैमिनिरुवाच। वैशाखादिषु भासेषु देवदेवम्य शार्ङ्गिणः। या या द्वादश यात्राः स्युस्ता हि वक्ष्यामि ते शृणु। वैशाखे चान्दनी यात्रा ज्यैष्ठे स्नापन्युदीरिता। आषाढे रथयात्रा स्यात् श्रावणे शयनी तथा। भाद्रे दक्षिणपार्श्वी सा आश्विने वामपार्श्विका। उत्थानी कार्तिके मासि छादनी मार्गशीर्षके। पौषे पुष्याभिषेकः स्यान्माघे शाल्योदनी तथा। फाल्गुने दोलयात्रा स्यात् चैत्रे मदनभञ्जिका। एकैका मुक्तिदा सर्वा धर्मकामार्थसाधनाः”। तद्विधिस्तु तत्रैव दृश्यः।

द्वादशराजमण्डल = न० द्वादशानां राज्ञां मण्डलम् उत्तरपदद्विगुः। द्वादशानां राज्ञां मण्डले तच्च अग्निपु० २३९ अ० उक्तं यथा

“राम उवाच। मण्डलं चिन्तयेत् मुख्यं राजा द्वादशराजकम्। अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः। पाष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरम्। आसारावनयोश्चैवं विजिगीषोश्च मण्डलम्। अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः। अनुग्रहे संहतयोर्न्निग्रहे व्यस्तयोः प्रभुः। मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः। अनुग्रहे संहतानां व्यस्तानां च बधे प्रभुः”।

द्वादशरात्र = पु० द्वादशभिः रात्रिभिः निर्वृत्तः तद्धितार्थद्विगुः अच् समा०। द्वादशदिनसाध्ये १ द्वादशाहनामके अहीनयागभेदे २ रात्रिसत्रभेदे स च यागः कात्यायनेनोक्तः “ज्योतिष्टोमधर्मा एकाहद्वादशाहयोस्तद्गुणदर्शनात्” कात्या० श्रौ० १२ १। १ “द्वादशाहः सत्रमहीनश्च” ४ सू० “अत्र विशेषमाह द्वादशाहमृद्धिकामा उपेयुरिति”। “तथा त्रयोदशरात्रमासीरन्निति सत्रलिङ्गम् द्वादशाहेन प्रजाकामं याजयेदित्यहीनलिङ्गम्। अखानुकथनप्रयोजनम्, सत्रे सत्रात्मको धर्मो दातृत्वेन प्रवर्तते, अहीने चाहीनात्मकः” कर्कः “उक्ता अहीनाः इदानीं सत्राण्यभिधीयन्ते” कर्कः “द्वादशरात्रादीनि रात्रिसत्राणि” कात्या० श्रौ० २४। १। ३ “रात्रिसत्राणि इति नाम तच्च द्वादशरात्रप्रभृतीनाम् पूर्वपदप्रधानोऽयं बहुव्रीहिः एकोच्चयेन चत्वारिंशदन्तानि। तत्र द्वादशरात्रं द्वादशाह एव मत्रात्मकः स च पूर्वमुक्त एव ततो द्वादशरात्रादारभ्य एकैकाहर्वृद्ध्या चत्वारिंशद्रात्रान्तानि सत्राणि भवन्ति” कर्कः। द्वादशानां रात्रीणां समा० द्वि० अच् समा०। ३ समाहृतासु द्वादशरात्रिषु न० “अत ऊर्द्ध्वं त्रिरात्रं द्वादशरात्रं वा” आश्व० गृ० ११। ८। ११ “अतः गृहप्रवेश- नीयहोमादूर्द्ध्वं त्रिरात्रं द्वादशरात्रं वा नियतौ” नारा० द्वादश रात्रयः साधनकालत्वेन सन्त्यस्य अर्श आद्यच्। ४ द्वादशरात्रिसाध्ये सत्रभेदे उदा० पूर्वमुक्तम्।

द्वादशलोचन = पु० द्वादश लोचनान्यस्य। कार्तिकेये त्रिका० तस्य षड्वक्त्रत्वात् तथात्वम्।

द्वादशवर्गी = स्त्री द्वादशानां वर्गाणां समाहारः समा० द्वि० ङीप्। नीलकण्ठताजकोक्ते वर्षकाले ग्रहाणां बलसाधने द्वादशमिते वर्गे सा च

“क्षेत्रं होरा त्र्यब्धिपञ्चाङ्गसप्तवस्वङ्काशेशार्कभागाः सुधीभिः। विज्ञातव्या लग्नसंस्थाः शुभानां वर्गाः श्रेष्ठाः पापवर्गा अनिष्टाः। ओजे रवीन्द्वोः सम इन्दुरव्योर्होरे गृहार्द्धप्रमिते विचिन्त्ये। द्रेष्काणपाः स्वेषुनवर्क्षनाथास्तुर्यांशपाः स्वर्क्षजकेन्द्रनाथाः। ओजर्क्षे पञ्चमांशेशाः कुजार्कीज्यज्ञभार्गवाः। समभे व्यत्ययाज् ज्ञेया द्वादशांशाः स्वभात् स्मृताः। लवीकृतो व्योमचरोऽङ्गशैलवस्वङ्कदिग्रुद्रगुणः खरामैः। भक्तो गतास्तर्कनगाष्टनन्ददिग्रुद्रभागाः कुयुतात् क्रियात् स्युः। एवं द्वादशवर्गी स्यात् ग्रहाणां बलसिद्धये। स्वोच्च“मत्रशुभाः श्रेष्ठाः नीचारिक्रूरिणोऽशुभाः। एवं ग्रहाणां शुभपापवर्गपङ्क्तिद्वयं वीक्ष्य शुभाधिकत्वे। दशाफलं भावफल च वाच्यं शुभं त्वनिष्टं त्वशुभाधिकत्वे। क्रूरोऽपि सौम्याधिकवर्गशाली शुभोऽतिसौम्यः शुभखेचरश्चेत्। सौम्योऽपि पापाधिकवर्गयोगान्नेष्टोऽतिनिन्द्यः खलु पापखेटः। राशीशमित्रोच्चरिपुक्रमेण चिन्त्यं तनोरप्यनयैव रीत्या। भावेषु सर्वेष्वपि वर्गचक्रं विलोक्य तत्तत् फलमूहनीयम्” इति द्वादशवर्गी।

द्वादशवार्षिक = त्रि० द्वादश वर्षान् अधीष्टः भृतो भूतो वा उत्तरपदवृद्धिः। द्वादश वर्षान् व्याप्य १ अधीष्टे सत्कृत्यनियोजिते २ भृते कर्मकरे ३ भूते स्वसत्तयाव्यापके ब्रह्महत्यानोदके व्रतभेदे च तच्च प्रा० वि० दर्शितं यथा

तत्र मनुः “ब्रह्महा द्वादशाव्दानि कुटीं कृत्वा वने वसेत्। भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम्”। संवर्त्तः “ब्रह्महा तु वनं गत्वा वनवासो जटी ध्वजी। वन्थान्येव फलान्यंश्नन् सर्वकामविवर्जितः। भिक्षार्थी विचरेद्ग्रामं वन्यैर्यदि न जीवति। चातुर्वर्ण्यं चरेद्भैक्ष्यं खट्वाङ्गी संयतः पुमान्। भिक्षित्वैवं समादाय वनं गच्छेत्ततः पुनः। वनवासी स पापात्मा सदाकाल मतन्द्रितः। ख्यापयन्नेव तत् पापं ब्रह्मघ्नः पापकृत्तमः। अनेनैव विधानेन द्वादशाव्दं समाचरेत्”। “तस्मादुक्तनिष्कृतिकेष्वपि प्राजापत्यादयो योजनीयाः। तत्र द्वादशवार्षिकव्रते द्वादशदिनान्येकैकं प्राजापत्यम्परिकल्प्य गण्यमाने प्राजापत्यानां षष्ठ्यधिकशतत्रयं द्वादशवार्षिकवैकल्पिकमनुष्ठेयं भवति। तदशक्तौ तावत्यो वा धेनवोदातव्याः” मिता०। रघु० मते तदर्द्धमिति भेदः। भाविनि तु “वर्षस्याभविष्यति” पा० नीत्तरपदवृद्धिः। द्वादशवर्षिक द्वादशवर्षान् भाविनि ज्वरादौ

द्वादशशुद्धि = स्त्री द्वादशगुणिता शुद्धिः। तन्त्रसारोक्ते वैष्णवानां कायिकादिद्वादशशुद्धिभेदे “अथ द्वादशशुद्धिर्वै वैष्णवानामिहोच्यते। गृहोपसर्पणञ्चैव तथा चागमनं हरेः। भक्त्या प्रदक्षिणञ्चैव पादयोः शोधनं पुनः। पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः। करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते। तन्नामकीर्त्तनञ्चैव गुणानामपि कीर्त्तनम्। भक्त्या श्रीकृष्ण देवस्य वचसः शुद्धिरिष्यते। तत्कथाश्रवणञ्चैव तस्योत्सवनिरीक्षणम्। श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते। पादोदकस्य निर्माल्यमालानामपि धारणम्। उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः। आघ्राणङ्गन्घपुष्पादेनिर्माल्यस्य तपोधन!। विशुद्धिः स्यादनन्तस्य घ्राणस्यापि विधीयते। पत्रपुष्पादिकं यच्च कृष्णपादयुगार्पितम्। तदेकं पावनं लोके तद्धि सर्वं विशोधयेत्। ललाटे च गदा कार्य्या मूर्घ्नि चापं शरांस्तथा। नन्दकञ्चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये। शङ्खचक्रान्वितो विप्रः श्मशाने म्रियते यदि। प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य गौतम!”।

द्वादशशोधित = न० द्वादशं व्ययस्थानं ग्रहराहित्येन शोधितम्। व्ययस्थाने ग्रहराहित्येन शुद्धियुक्ते लग्ने “गुरुशुक्रोदये शुद्धलग्ने द्वादशशोधिते” दीक्षातत्त्वम्।

द्वादशसंग्राम = द्वादशविधः संग्रामः। देवानामसुरैः सह द्वादशविधे युद्धे ते च संग्रामभेदा अग्निपु० २७५ अ० उक्ता यथा “देवासुराणा सङ्ग्रामा दायार्थं द्वादशाऽभवन्। प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः। सङ्ग्रामस्त्वथ वाराहश्चतुर्थोऽमृतमन्थनः। तारकामयसङ्ग्रामः ५ षष्ठो ह्याजीवको ६ रणः। त्रैपुर ७ श्चान्धकवधो ८ नबमी वृत्रघातकः। जितो १० हालाहल ११ श्चाथ घोरः कोलाहलो १२ रणः। हिरण्य- कशिपोश्चोरोवि दार्य्य च नखैः पुरा। नारसिंहो १ देवपालः प्रह्लादं कृतवान् नृपम्। देवासुरे २ वामनश्च छलित्वा बलिमूर्जितम्। महेन्द्राय ददौ राज्यं पुरुषोऽदितिसम्भवः। वराहस्तु ३ हिरण्याक्षं हत्वा देवानपालयत्। उज्जहार भुवं मग्नां देवदेवैरभिष्टुतः। मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्। सुरासुरैश्च मथितं देवेभ्यश्चामृतं ददौ ४। तारकामयसङ्ग्रामे ५ तदा देवाश्च पालिताः। निवार्येन्द्रं गुरून् देवान् दानवान् सोमवंशकृत्। विश्वामित्रवशिष्ठात्रिकवयश्च रणे सुरान्। अपालयन्त निर्वार्य रागद्वेषादिदानवान् ६। पृघ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः। ददाह त्रिपुरं देवपालको दैत्यमर्दनः ७। गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः। अनुरक्तश्च रेवत्यां चक्रे चान्धासुरार्दनम् ८। अपां फेनमयो भूत्वा देवासुररणे हरन्। वृत्रं देवहरं विष्णुर्देवधर्मानपालयत् ९। शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः। अपालयत् सुरादींश्च दुष्टक्षत्रं निहत्य च १०। हालाहलं ११ विषं दैत्यं निराकृत्य महेश्वरात्। भयं निर्णाशयामास देवानां मघुसूदनः। देवासुरे रणे यश्च दैत्यः कोलाहलो जितः १२। पालिताश्च सुराः सर्वे विष्णुना धर्मपालनात्। राजानो राजपुत्राश्च मुनयो देवता हरिः। यदुक्तं यच्च नैवोक्तमवतारा हरेरिमे”।

द्वादशसप्तमीव्रत = न० हेमा० व्र० भविष्यपुराणोक्ते माघादिपौषान्तेषु द्वादशसु मासेषु सप्तम्योः कर्तव्ये सूर्यव्रतभेदे

“अथान्यन्ते प्रवक्ष्यामि सप्तमीकल्पमुत्तमम्। माघमासात् समारभ्य शुक्लपक्षे युधिष्ठिर!। सप्तम्यां कृतसङ्कल्पो वर्षमेकं व्रती भवेत्। वरुणं माघमासे तु भानुं संपूज्य कारयेत्। ब्रह्मकूर्चविधानेन यथा शक्त्या नृपोत्तम!। अष्टम्यां भोजयेद्विप्रान् तिलपिष्टगुडोदनैः। अग्निष्टोमस्य यज्ञस्य फलं कृत्स्नमवाप्यते। तपनं फाल्गुने मासि सूर्यमित्यभिपूजयेत्। वाजपेयस्य यज्ञस्य फलं प्राप्नोति दुर्लभम्। सप्तम्यां चैत्रमासे तु वेदांशुरिति पूजयेत्। उञ्छाध्वरसमं पुण्य नरः प्राप्नोत्यसंशयम्। वैशाखस्य तु सप्तम्यां धाता इत्यभिपूजयेत्। पशुबन्धाध्वरं पुण्यं सम्यक् प्राप्नोति मानवः। सप्तम्यां ज्यैष्ठमासस्य इन्द्रमित्यभिपूजयेत्। अश्वमेधफलावाप्तिर्जायते नात्र संशयः। तथाषाढस्य सप्तम्यां पूजयित्वा दिवाकरम्। बहुस्वर्णस्य यज्ञस्य फलं प्राप्नोति पुष्क- लम्। श्रावणे मासि सप्तम्यामर्यमाणं प्रपूजयेत्। सौत्रामणीफलं पार्थ! नरः प्राप्नोति भक्तितः। रविं भाद्रपदे मासि सप्तम्यार्चयेच्छुचिः। तुलापुरुषदानस्य गुडेन फलमाप्नुयात्। अश्वयुक्शुक्लसप्तम्यां सवितारं पपूजयेत्। गोसहस्रप्रदानस्य फलमाप्नोति भक्तितः। कार्तिके शुक्लसप्तम्यां सप्ताश्वं नाम पूजयेत्। योऽभ्यर्चयति पुण्यात्मा पौण्डरीकं फलं लभेत्। मार्गशीर्षे तथा भानुं पूजयित्वा विधानतः। राजसूयस्य यज्ञस्य फलमाप्नोति वै नरः। भास्करं पुष्पमासे तु पूजयित्वा विधानतः। चतुर्णामपि वेदानां स्वाध्यायस्य फलं लभेत्। तथैव कृष्णसप्तम्यां नामपूजादिकन्तु यो। सोपवासः प्रयत्नेन वर्षमेकं समाचरेत्। पारिते नियमे चाथ सूर्ययागं समारभेत्”।

द्वादशसाहस्र = त्रि० द्वादश सहस्राणि परिमाणमस्य अण् उत्तरपदवृद्धिः। द्वादशसहस्रसंख्यायुक्ते “एतद् द्वादशसाहस्रं देवानां युगमुच्यते”। “यत् प्राक् द्वादशसाहस्रमु दितं दैविकं युगम्” इति च मनुः। स्त्रियां ङीप्। द्वादशसाहस्री संहिता। अत्र पक्षे ठञ्। द्वादशसाहस्रिक तत्रार्थे।

द्वादशांशु = पु० द्वादश अंशवोऽस्य। वृहस्पतौ “शुक्रः षोडशरश्मिस्तु यस्तु देवो ह्यपोमयः। लोहितो नवरश्मिस्तु स्थानमाप्यन्तु तस्य वै। वृहद्द्वादशरश्मीकं हरिद्राभन्तु वेधसः। अष्टरश्मिः शनिस्तत्तु कृष्णं वृद्धमयस्मयम्” मत्स्यपु० १२७ अ०। द्वादशरश्मिप्रभृतयोऽप्यत्र त्रिका०।

द्वादशाक्ष = पु० द्वादशाक्षीणि यस्य षच् समा०। १ कार्तिकेये। द्वादश मनोबुद्धिसहितज्ञानेन्द्रियादीनि अक्षिणीव यस्य। २ बुद्धे च हेमच०। “एकाक्षो द्वादशाक्षश्च तथा चैकजटः प्रभुः” भा० ग० ४६ अ० उक्ते ३ कुमारानुचरभेदे च।

द्वादशाक्षर = पु० द्वादश अक्षराणि अस्य। द्वादशाक्षरयुक्ते मन्त्रभेदे यथा विष्णोः ओं नमो भगवते बासुदेवाय” “नमो भगवते वासुदेवायोङ्कारपूर्वकम्। महामन्त्रमिदं प्राहुस्तत्त्वज्ञा द्वादशाक्षरमित” पद्म० पु० क्रिया०। कृष्णस्य ओं क्लींगोपीजनवल्लभाय स्वाहा” इत्येवं ३ तावत्यां शक्तिविषयविद्यायां स्त्री गौरा० ङीष्। ४ द्वादशाक्षरयुक्तपादके जगतीच्छन्दसि न० “विश्वे देवा द्वादशाक्षरेण जगतीमुदजयंस्तामुज्जेषम्” यजु० ९। ३३

द्वादशाख्य = पु० द्वादश ज्ञानकर्मेन्द्रियनमोबुद्धिरूपाः पदार्थाः पूजनीयत्वेनाख्याति आ + ख्या–क। बुद्धे हेमच०। वौद्धशब्दे द्वादशायतनशब्दे च विस्तरतो दृश्यम्।

द्वादशाङ्गी = स्त्री द्वादशानामङ्गानां समाहारः ङीप्। १ जिनाभिमते आचाराङ्गाद्येकादशोपाङ्गसहिते दृष्टिवादरूपे द्वादशानामङ्गानां समाहारे “आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक्। पञ्चमं भगवत्यङ्गं ज्ञाता धर्मकथापि च। उपासकाऽन्तकृदनुत्तरोपपातिका दश। प्रश्नव्याकरणं चैव विपाकश्रुतमेव च। इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः। दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया” हेमच०। दृष्टिवादश्च पञ्चविधः दृष्टिवादशब्दे दर्शितः। द्वादशाङ्गान्यस्य। २ धूपभेदे पु० “गुग्गुलुश्चन्दनं पत्रं कुष्ठञ्चागुरु कुङ्कुमम्। जातीकोषञ्च कर्पूरं जटामांसी च बालकम्। त्वगुशीरञ्च धूपोऽसौ द्वादशाङ्गः प्रकीर्तितः” तन्त्रम्।

द्वादशाङ्गुल = पु० द्वादश अङ्गुलयः प्रमाणमस्य तद्धितार्थे द्वि० “द्विगोर्नित्यम्” मात्रचो लुक् अच् समा०। वितस्तौ परिमाणभेदे अमरः।

द्वादशात्मन् = पु० द्वादशात्मानो मूर्त्तयो यस्य। सूर्ये। आदित्यशब्दे ६९६ पृ० धात्रादयो विष्णुपर्यन्ताः तस्य मूर्तय उक्ताः। द्वादशमेषादिराशयश्चास्य मूर्तयः सू० सि० उक्ता यथा सूर्य इत्युपक्रमे “पुनर्द्वादशधात्मानं विभजन् राशिसंज्ञकम्”। २ अर्कवृक्षे च।

द्वादशादित्य = पु० संज्ञात्वात् कर्म०। १ धात्रादिषु विष्णुपर्यन्तेषु द्वादशसु आदित्येषु २ काशीस्थेषु द्वादशसु लोलार्कादिषु च “इति काशीप्रभावज्ञोजगच्चक्षुस्तमोनुदः। कृत्वा द्वादशधात्मानं काशीपुर्यां व्यवस्थितः। लोलार्क उत्तरार्कश्च शाम्बादित्यस्तथैव च। चतुर्थो द्रुपदादित्यो मयूखादित्य एव च। खखोल्कश्चारुणादित्यो वृद्धकेशवसङ्गकौ। दशमो विमलादित्यो गङ्गादित्यस्तथैव च। द्वादशश्च रमादित्यः काशीपुर्य्यां घटोद्भव!। तमोऽधिकेभ्योदुष्टेभ्यः क्षेत्रं रक्षन्त्यमी सदा” काशी० ख० ४६ अ०

द्वादशाध्यायी = स्त्री द्वादशानामध्यायानां समाहारः ङीप्। जैमिनीयसूत्ररूपायां द्वादशलक्षण्याम् “घर्मो द्वादशलक्षण्यां व्युत्पाद्यस्तत्र लक्षणैः। प्रमाणभेदशेषत्वप्रयुक्ति क्रमसंज्ञकाः। अधिकारोऽतिदेशश्च सामान्येन विशेषतः। ऊहोऽबाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात्” जैमिनीय न्थायमाला जैमिनिशब्दे ३१४६ पृ० दृश्यम्। द्वादशलक्षण्यप्यत्र। २ मन्वादिसंहितायाञ्च तयोर्द्वादशाध्यायात्मकत्वात्तथात्वम्।

द्वादशान्यिक = त्रि० द्वादश अन्ये अन्यथाभूता अपपाठा जाता अस्य “कर्मण्यध्ययने वृत्तम्” इत्युपक्रमे “बह्वृच् पूर्वपदाट्ठञ्” पा० ठञ्। जातद्वादशापपाठके कुत्सिताध्ययन कर्तृभेदे।

द्वादशायतन = न० द्वादशविधमायतनम्। बौद्धमतसिद्धेषु द्वादशसु पूजास्थानेषु मनोबुद्ध्यादिषु यथा “अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै। परितः पूजनीयानि किमन्यैरिह पूजितैः। ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाणि च। मनो बुद्धिरिति प्रोक्तं द्वादशायतनं बुधैरिति”।

द्वादशायुस् = पु० द्वादश वर्षाः आयुःकालोऽस्य। कुक्कुरे शब्दमाला। आयुस्शब्दे ७९३ पृ० शुनः त्रयोदशवर्षायुष्कालत्वोक्तावपि प्रायिकत्वादत्र द्वादशवर्षोक्तिरिति विवेच्यम्।

द्वादशार = न० द्वादश अरा रथाङ्गावयवभेदा इव यस्य। १ द्वादशकोणे राशिचक्रादौ “द्वादशारं न हि तज्जराय वर्वत्ति चक्रं परि द्यामृतस्म” ऋ० १। १६३। ११ “ऋतस्योदकस्य सत्यात्मकस्य वादित्यस्य चक्रं पुनःपुनः क्रमणशीलं मण्डलाख्यं रथचक्रं वर्वर्ति पुनःपुनर्वर्तते। सञ्चरति। कुत्र। द्यां परि। द्युलीकस्यान्तरिक्षस्य परितः। कीदृशं तत्। द्वादशारम्। द्वादशसंख्याकै० र्मेषादिराश्यात्मकैर्वाऽरै रथाङ्गावयबैर्युक्तम्” भा० २ तन्त्राक्ते सुषुम्णानाडीमध्ये हृदयस्थे ककारादिठान्त द्वादशवर्णयुक्ते द्वादशदलकमले च द्वादशदलादयोऽप्यत्र।

द्वादशाशन = न० द्वादशविधमशनम् शाक० त०। सुश्रुतोक्ते अधिकारिभेदेन द्वादशविधे अशनभेदे यथोक्तं तत्र उत्तरतन्त्रे।

“अत ऊर्द्ध्वं द्वादशाशनप्रविमागान्वक्ष्यामः। तत्र शीतोष्णस्निग्धरूक्षद्रवशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः। तृष्णोष्णमददाहार्त्तान् रक्तपित्तविषातुरान्। मूर्च्छार्त्तान् स्त्रीषु च क्षीणान् शीतै १ रन्नैरुपाचरेत्। कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः। प्रक्लिन्नदेहांश्च नरानुष्णै २ रन्नैरुपाचरेत्। वातिकान् रूक्षदेहांश्च व्यायामोपहतांस्तथा। व्यवायिनश्चापि नरान् स्निग्धै ३ रन्नैरुपाचरेत्। मेदसाभिपरीतांस्तु स्थूलान्मेहातुरानपि। कफाभिपन्नदेहांश्च रूक्षै ४ रन्नैरुपाचरेत्। शुष्कदेहान् पिपासार्त्तान् दुर्बलानपि च द्रवैः ५। प्रक्लिन्नकायान् व्रणिनः शुष्कै ६र्म्मेहिनमेव च। एककालं ७ भवेद्देयो दुर्बलाग्नि- विवृद्धये। समाग्नये तथाहारो देयः कालमथोभयम् ८। औषधद्वेषिणे देयस्तथौषधसमायुतः ९। मन्दाग्नये रोगिणे च मात्राहीनः १० प्रशस्यते। यथार्थदत्तश्चाहारो दोषप्रशमनः ११ स्मृतः। अतःपरन्तु स्वस्थानां वृत्त्यर्थं १२ सर्वमेव च। द्वादशान्नप्रविचारानेतानेव प्रचक्षते”।

द्वादशाह = पु० द्वादशभिरहोभिर्निर्वृत्तः ठञ् तस्य लुक्, द्वादशमहः कर्म०, द्वादशानामह्नां समाहारो वा टच् समा० अह्नाहान्तत्वात् पुंस्त्वम्। १ द्वादशभिरहोभिः साध्ये यागभेदे द्वादशरात्रशब्दे दृश्यम्। २ द्वादशे दिने “द्वादशाहः प्रशस्यते” स्मृतिः। ३ द्वादशदिनसमाहारे “मुख्यं श्राद्धं मासि मासि अपर्य्याप्तावृतुं प्रति। द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथ वा” ति० त०। अत्र अपवर्गे तृतीया द्वादशानां श्राद्धाणां मध्ये प्रत्यहमेकैककरणेन द्वादशदिनव्यापकता बोध्या” द्वादश दिनानि च आद्यमाससम्बन्धीनि ग्राह्याणीति बोध्यम्। द्वादशाहम् अधीष्टो भूतोभूतो भावी वा” पा० ठञ् तस्य लुक्। द्वादशदिनं व्याप्य ४ सत्कृत्यनियोजिते ५ भृते कर्मकरे स्वसत्तया तद्व्यापके ६ यागादौ ७ तत्र भाविनि ज्वरादौ च “ऐकाहिकेषु विकारेषु द्वादशाहिकेषु च यथार्थं प्रयोगः” कात्या० श्रौ० १२। ६। २५ सूत्रे कर्कः।

द्वापर = पु० द्वौ परौ प्रकारौ विषयौ यस्य पृषो०। १ संशये। द्वाभ्यां सत्यत्रेताभ्यां परः पृषो०। २ सत्यत्रेतायुगानन्तरे युगभेदे च। ३ द्व्यङ्कसंख्यान्वितपार्श्वकपाशके न० अयशब्दे ३३४ पृ० दृश्यम्। द्वापरयुगमानञ्च “अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु। चतुःषष्टिः सहस्राणि वर्षाणां द्वापरं युगय्” मत्स्यपु० १४१ अ०। तद्धर्मभेदश्च तत्र १४३ अ० उक्तो यथा

“अत ऊर्द्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः। तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते। द्वापरादौ प्रजानान्तु सिद्धिस्त्रेतायुगे तु या। परिवृत्ते युगे तस्मिंस्ततः सा वै प्रणश्यति। ततः प्रवर्त्तिते तासां प्रजानां द्वापरे पुनः। लोभोधृतिर्बणिग्युद्धं तत्त्वानामविनिश्चयः। प्रध्वंसश्चैव वर्णानां कर्मणान्तु विपर्य्ययः। यात्रा बधः परोदण्डोमानोदर्पोऽक्षमा बलम्। तथा रजस्तमोभूतः प्रवृत्ते द्वापरे पुनः। आद्ये कृते नाधर्मोऽस्ति स त्रेतायां प्रवर्त्तितः। द्वापरे व्याकुलोभूत्वा कलौ धर्मः प्रणश्यति। वर्णानां द्वापरे धर्माः सङ्कीर्यन्ते तथाऽऽश्रमाः। द्वैधमुत्पद्यते चैव युगे तस्मिन् श्रुतिस्मृतौ। द्विधा श्रुतिः स्मृतिश्चैव निश्चयो नाधिगम्यते। अनिश्चयावगमनाद्धर्मतत्त्वं न विद्यते। धर्मतत्त्वे ह्यविज्ञाते मतिभेदस्तु जायते। परस्परं विभिन्नास्ते दृष्टीनां विभ्रमेण तु। अतो दृष्टिविभिन्नैस्तैः कृतमत्याकुलन्त्रिदम्। एको वेदश्चतुष्पादः संहृत्य तु पुनः पुनः। संक्षे पादायुषश्चैव व्यस्यते द्वापरेत्विह। वेदश्चैकश्चतुर्द्धा तु व्यस्यते द्वापरादिषु। ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः। ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः। संहिता ऋग्यजुःसाम्नां संहृतास्तैर्महर्षिभिः। सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित् क्वचित्। ब्राह्मणं कल्पसूत्राणि भाष्यविद्यास्तथैव च। अन्ये तु प्रस्थितास्तान्वै केचित्तान् प्रत्यवस्थिताः। द्वापरेषु प्रवर्तन्ते भिन्नार्थैस्तैः स्वदर्शनैः। एकमाध्वर्यवं पूर्वमासीद्द्वैधन्तु तत् पुनः। सामान्यविपरीतार्थैः कृतं शास्त्राकुलन्त्विदम्। आध्वर्यवञ्च प्रस्थानैर्बहुधा व्याकुलीकृतम्। तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः। व्याकुलो द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः। द्वापरे सन्निवृत्ते ते वेदा नश्यन्ति वै कलौ। तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः। अवृष्टिर्भरणं चैव तथैव व्याध्युपद्रवाः। वाङमनःकर्मभिर्दुःखैर्निर्वेदो जायते ततः। निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा। विचारणायां वैराग्यं वैराग्याद्दोषदर्शनम्। दोषाणां दर्शनाच्चैव ज्ञानोत्पत्तिस्तु जायते। तेषां मायाविनां पूर्वं मर्त्ये स्वायम्भुवेऽन्तरे। उत्पत्स्यन्तीह शास्त्राणां द्वापरे परिपन्थिनः। आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च। अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम्। प्रक्रिया कल्पसूत्राणां भाष्यविद्याविकल्पनम्। स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक्। द्वापरेष्वभिवर्त्तन्ते मतिभेदास्तथा नृणाम्। मनसा कर्मणा वाचा कृच्छाद्वार्त्ता प्रसिध्यति। द्वापरे सर्वभूतानां कालः क्लेशपरः स्मृतः। लोभो धृतिर्बणिग्युद्धन्तत्त्वानामविनिश्चयः। वेदशास्त्रप्रणयनं वर्णानां सङ्करस्तथा। वर्णाऽऽश्रमपरिध्वंसः कामद्वेषौ तथैव च”। “कारिष्यते परिभवः कलिना नलस्य। तां द्वापरस्तु मतनूमदुनोत् पुरस्तात्। भैमीनलोपयमनं पिशुनौ सहेते न द्वापरः किल कलिश्च युगे जगत्याम्” नैष०

द्वापराय = पु० पाशकस्य द्व्यङ्कसंख्यान्वितं पार्श्वं द्वापरं तस्य अय उत्तानतया पतनम्। द्यूतभेदे द्व्यङ्कान्वितपार्श्वकपाशकस्योत्तानतया पतने अयशब्दे ३३४ पृ० दृश्यम्।

द्वामुष्यायण = पु० द्व्यामुष्यायण + पृषो०। १ द्वयोः पुत्रे द्व्यामुष्याय णशब्दे दृश्यम् २ उद्दालके गौतमे मुनौ च शब्दार्थचि०।

द्वार् = स्त्री द्वारयति क्विब्वचीत्या० उणा० क्विप्। १ गृहनिर्गमनस्थाने अमरः। २ उपाये च “आद्यहेतुता तद्द्वारा” सां० सू० “मरुद्भ्य इति तु द्वारि” मनुः “विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः” याज्ञ० “वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः” ऋ० १। १३। ६ “यथाविवृतायां द्वारि द्वारा प्रपद्येत” शत० ब्रा० ११। १। १२२ द्वाःस्थ द्वाःस्थितः अमरः। उपाये ज्ञानद्वारा भवेन्मुक्तिः” ज्ञानशास्त्रम्।

द्वार = न० द्वृ–णिच् अच्। १ गृहनिर्गमस्थाने। गृहभेदे द्वारभेदास्तत्फलभेदाश्च गृहशब्दे २६३७ पृ० उक्ताः “मनोनवद्वारनिषिद्धवृत्ति” कुमा० “उटजद्वाररोधिभिः” रघुः। ३ मुखे च “भुजङ्गपिहितद्वारं पातालमधितिष्ठति” रघुः। ४ शेषे अङ्गे च “सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात्। तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि” सां० का० “द्वारि प्रधानं, शेषाणि करणानि बाह्येन्द्रियाणि तैरुपनीतं सर्वं विषयं समनोहङ्कारा बुद्धिर्यस्मादवगाहतेऽध्यवस्यति तस्माद् बाह्येन्द्रियाणि द्वाराणि द्वारवती च सान्तःकरणा बुद्धिरिति” त० कौ०। “तद् (व्याकरणम्) द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्” हरिः।

द्वारक = न० द्वारेण प्रशस्तेन कायति कै–क। द्वारकापुर्य्याम् त्रिका०।

द्वारकण्टक = पु० न०। द्वारस्य कण्टक इव। कपाटे त्रिका०

द्वारका = स्त्री प्रशस्तेन द्वारेण कायते कै–क टाप् धातुस्थक पूर्बत्वात् न अत इत्त्वम्। द्वारवत्याम् पुर्य्या द्वारवतीशब्दे दृश्यम् “पैवृकी तीर्थतुल्या सा किं तीर्थं द्वारका परम्। सर्वतीर्थपरा श्रेष्ठा द्वारका बहुपुण्यदा। यस्याः प्रवेशमात्रेण नराणां जन्मखण्डनम्। दानञ्च द्वारका याञ्च श्राद्धञ्च देवपूजनम्। चतुर्गुणञ्च तीर्थानां गङ्गादीनाञ्च भूमिप!” ब्रह्मवै० श्रीकृष्णजन्मखण्डे।

द्वारगोप = पु० द्वारं गोपायति गुप–अण्। द्वारपाले

द्वारकेश = पु० ६ त०। वासदेवे शब्दच, द्वारकानाथादयोऽप्यत्र

द्वारदातु = द्वारं ददाति दा–तुन्। भूमीसहवृक्षे भावप्र०

द्वारप = पु० द्वारं पाति पा–क। १ द्वारपाले “स्वर्गस्य लोकस्य द्वारपाः” छा० उ०२ विष्णौ पु० “विष्णुर्वैदेवानां द्वारपः” इति श्रुतिः।

द्वारपाल = त्रि० द्वारं पालयति पालि–अण्। १ द्वाररक्षके दौवारिकशब्दे ३७७१ पृ० अस्य लक्षणम् “ततो मङ्कणकं गत्वा द्वारपालं महाबलम्। तं यक्षमभिवाद्यैव गोसहस्रं फलं लभेत्” भा० व० ८३ अ०। ततोऽर्घपात्रं विन्यस्य द्वारपालान् समर्चयेत्” तन्त्रसा० देवताभेदे द्वारपालभेदाः तत्र तत्र प्रकरणे तन्त्रोक्ता ज्ञेयाः। २ तीर्थभेदे च “ततो गच्छेत राजेन्द्र! द्वारपालं तरण्डकम्। तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः। तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्” भा० व० ८३ अ० स्त्रियां ङीप्। अस्या अपत्यं रेबत्या० ठक् न ढक्। द्वारपालिक द्वारपाल्या अपत्ये पुंस्त्री०। स्त्रियां ङीत्

द्वारपालक = त्रि० द्वारं पालयति ण्वुल्। दौवारिके स्त्रियां टाप्।

द्वारपिण्डी = स्त्री द्वारस्य पिण्डीव। देहल्यां जटा०।

द्वारबलिभुज् = पु० द्वारदत्तं बलिं भुङ्क्ते भुज–क्विप्। वक खगे त्रिका०।

द्वारयन्त्रं = द्वारे स्थितं यन्त्रम्। (ताला) (कुलुप) ख्याते पदार्थे हेमच०।

द्वार(रा)वती = स्त्री द्वाराणि चतुर्वर्णमोक्षद्वाराणि प्रशस्तान्यत्र मतुप् मस्य वः संज्ञात्वेन वा पूर्वपददीर्घः। सवद्रोपान्तिके श्रीवासुदेवनिर्मिते पुरीभेदे तत्पुरी निर्माणप्रकारस्थानादिकं हरिवं० विस्तरती वर्णितं दिङ्मात्रमत्रोच्यते।

“आनूपं सिन्धुराजस्य प्रपेदुर्यदुपुङ्गवाः। ते तत्र रमणीयेषु विषयेषु सुखप्रियाः। मुसुदुर्यादवाः सर्वे देवाः स्वर्गगता यथा। पुरवास्तु विचिन्वन् स कृष्णस्तु परवीरहा। ददर्श विपुलं देशं सागरानूपशोभितम्। वाहनानां हितञ्चैव सिकताताम्रमृत्तिकम्। पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया। सागरानिलसंवीजं सागराम्बुनिषेवितम्। विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः। तत्र रैवतकोनाम पर्वतोनातिदूरतः। मन्दरोदारशिखरः सर्वतोऽभिविराजते। तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम्। प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः। विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता। नाम्ना द्वारवती नाम स्वाय ताऽष्टापदोपमा। केशवेन मतिस्तत्र पुर्य्यर्थे विनिवेशिता। निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः। तै रक्तसूर्य्ये दिवमे तत्र यादवपुङ्गवाः। सेनापालाश्च सञ्चक्रुः स्कन्धावारनिवेशनम्। ध्रुवाय तत्र न्यवसत् केशवः सह यादवैः। देशे पुरनिवेशाय स यदु प्रवरो विभुः। तस्यास्तु विविधं नाम वास्तूनि च गदाग्रजः। निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः। एवं द्वारावतीञ्चैव पुरीं प्राप्य सवान्धवाः”। हरिवं० ११४ अ०। “इयं द्वारावती नाम पृथिव्यां निर्मिता मया। भविष्यति पुरी रम्या शक्रस्येवामरावती। तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च। चत्वरान् राजमार्गांश्च समानन्तःपुराणि च। देवा इवात्र मोदन्तां वसन्तो विगतज्वराः। बाधमाना रिपूनुग्रानुग्रसेनपुरोगमाः। गृह्यन्तां गृहवास्तूनि कार्य्यन्तां त्रिकचत्वराः। मीयन्तां राजमार्गाश्च प्राकारस्य च या गतिः। प्रेष्यन्तां शिल्पिमुख्या वै नियुक्ता वेश्मकर्मसु। नियुज्यन्ताञ्च देशेषु प्रेष्यकर्मकराजनाः। एवमुक्तास्तु यदवो गृहसंग्रहतत्पराः। यथानिवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम्। सूत्रहस्तास्ततोमानं चक्रुर्यादवपुङ्गवाः। पुण्येऽहनि महाराज! द्विजातीन् प्रतिपूज्य च। वास्तुदैवतकर्माणि विधिनाऽकारयंस्ततः। स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः। अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम्। विभक्तचत्वरपथं सुनिविष्टेष्टदैवतम्। ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा। दुर्गकर्मणि सम्भारानुपलभ्य यथाविधि। यथान्यायं निर्ममिरे द्वाराण्यायतनानि च। स्थानानि विदधुस्तस्यां ब्रह्मादीनां यथाक्रमम्। अपामग्नेः सुरेशस्य वृषदोलूखलस्य च। चातुर्द्देवानि चत्वारि द्वाराणि विदधुश्च ते। शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च। ते वेश्मसु युक्तेषु यादवेषु महात्मसु। पुर्य्याः क्षिप्रं प्रवेशार्थं चिन्तयामास माधवः। तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी। पुर्य्याः सा वै प्रियकरी यदूनामभिवर्द्धिनी। शिल्पिमुख्यस्तु देवानां प्रजापतिसुतः प्रभुः। विश्वकर्मा खमत्या वै पुरीं संस्थापयिष्यति। मनसा समनुध्याय तस्यागमनकारणात्। त्रिदशाभिसुखः कृष्णो विविक्ते समपद्यत। तस्मिन्नेव ततः काले शिल्प्याचार्य्यो महामतिः। विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः। यदीच्छेत् सागरः किञ्चिदुत्स्रष्टुमिह तोयराट्। ततः स्वायतलक्षण्या पुरी स्यात् पुरुषोत्तम!। एवमुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः। सागरं सरितां नाथमुवाच वदतां वरः। समुद्र! दश च द्वे च योजनानि जलाशये। प्रतिसंह्रियतामात्मा यद्यस्ति मयि मान्यता। अवकाशे त्वया दत्ते पुरीयं मामके बले। पर्य्याप्तविषयारामा समग्रं विषहिष्यते। ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः। समारुतेन योगेन उत्ससर्ज्ज जलाशयम्। विश्वकर्मा ततः प्रीतः पुर्य्याः संदृश्य वास्तु तत्। गीविन्दे चैव सम्मानं सागरः कृतवां स्तदा” हरिव० ११६ अ० ततो देवस्य लीलासंवरणानन्तरं तत्कलत्रादीनां ततोऽपगमने समुद्रेण तत्पुर्य्याः प्लावनं कृतम् तत्कथा भा० मौ० ७ अ०। “निर्याते तु जने तस्मिन् सागरो मकरालयः। द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत्तदा। यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत। तत्तत् संप्लावयामास सलिलेन स सागरः। तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः। तूर्णात्तूर्णतरं जग्मुरहो दैवमथाब्रुवन्” “काशी काञ्ची च मायाख्या त्वयोध्या द्वारवत्यपि। मथुराऽवन्तिका चैव सप्त पुर्य्योऽत्र मोक्षदाः। श्रीशैलः मोक्षदः सर्वः केदारोऽपि ततोऽधिकः। श्रीशैलाच्चापि केदारात् प्रयागं मोक्षदं परम्। प्रयागादपि तीर्थाग्र्यादविमुक्तं विशिष्यते। यथाऽविमुक्ते निर्वाणं न तथान्यत्र कुत्रचित्। अन्यानि मुक्तिक्षेत्राणि काशीप्राप्ति कराणि च। काशीं प्राप्य विमुच्येत नान्यथा तीर्थकोटिभिः” काशी० ७ अ० निषिद्धमपि तप्तमुद्रादिधारणञ्च तन्माहात्म्यकथनात् तत्र विहितं तन्नाम निर्वचनञ्चोक्तं काशीख० ७ अ० “सप्तरात्रमुषित्वा तु ययौ द्वारावतीं प्रति। चतुर्णामपि वर्ण्णानां यत्र द्वाराणि सर्वतः। अतो द्वारवतीत्युक्ता विद्वद्भितत्त्ववेदिभिः। अस्थीन्यपि च जन्तूनां यत्र चक्राङ्कितान्यहो। किं चित्रं यत्र तत्र स्युः शङ्खचक्राङ्किताः करैः। अन्तकः शिक्षयत्येवं निजदूतान् मुहुर्मुहुः। ते त्याज्या यैर्द्वारवत्या नामापि परिगृह्यते। श्रीखण्डे क्व स आमोदः स्वर्णे वर्ण्णः क्व तादृशः। तत् पावित्रं क्व वै तीर्थे, तद्गोपीचन्दने यथा। दूताः! शृणुत यद्भालं गोपीचन्दनलाञ्छितम्। ज्वलदिन्धनवत् सोऽपि दूरे त्याज्यः प्रयत्नतः। तुलस्य लङ्कृताये ये तुलसीनामजापकाः। तुलसीवनमालाये ते त्याज्या दूरतोभटाः। पवित्राणां च सर्वेषां सुपवित्रा बलाधिका। तुलां स्यति यतस्तस्मात्तुलसीति निरुच्यते। युगे युगे द्वारवत्यारत्नानि परितोमूषन्। अब्धीरत्नाकरोऽद्यापि लोकेषु परिगीयते। द्वारवत्यां म्रियन्तोये जन्तवः कालचोदिताः। चतुर्भुजाः स्युर्वैकुण्ठे ते पीताम्बरधारिणः। तत्रापि सन्तर्प्य पितॄन् सहदेवर्षि मानवान्। तत्र तेषु च तीर्थेषु सस्नौ सर्वेषु तन्त्रितः” दीर्घे द्वारावती तत्रार्थे “अयोध्या मथुरा माया काशी काञ्ची अवन्तिका। पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः। एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन। पुरी द्वारावती विष्णोः प्राञ्चजन्योपरिस्थिता। मुक्तिदा गणिता एताः सर्वाश्च मानिताः सुरैः। यानि कानि च क्षेत्राणि काशीप्राप्तिकराणि षट्” इति भूतशुद्धितन्त्रम्।

द्वारशाखा = स्त्री ६ त०। द्वारस्यावयवे (वाजु) शब्दार्थक०।

द्वारस्तम्भ = पु० ६ त०। द्वाराङ्गस्तम्भे शब्दार्थक०।

द्वारस्थ = त्रि० द्वारे तिष्ठति स्था–क। १ द्वारपाले शब्दक० २ द्वारस्थितमात्रे च।

द्वारकाशिला = स्त्री द्वारकोद्भवा शिला। एकादिचक्रयुक्तायां द्वारकोद्भवशिलायां शालग्रामशिलावत् तस्याः पूज्यता लक्षणं पूजनादौ माहात्म्यञ्च नानास्थानात् प्रदर्श्यते पुराणसारे द्वारकाकार्त्तिकमाहात्म्ये “चक्रमेकं मध्यभागे श्वेतभागे खुरान्विता। शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा”। खुरान्विता वीथियुक्ता। ब्रह्माण्डपुराणे “कूर्म्माकृतिरधोषागे लिङ्गभागे खुरान्विता। शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा”। नृसिंहपुराणे “कूर्मचक्रमधोभागे श्वेतभागे खुरान्विता। शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा। यवसात्रस्तुगर्त्तः स्वाद् यबार्द्धं लिङ्गमुच्यते। शिवनाभिरिति ख्यातस्त्रिषु लोकेषु दुर्लभः” शिवनाभिलक्षणम्। ब्रह्माण्डपुराणे “जटापाशी अघोरा सा गृहिभिर्यदिपूजिता। हेमवर्णजटायुक्ता हेमविन्दुसमन्विता। मस्तकेगोखुरा तावदञ्जनाचलसन्निभा। सद्योजाताभिधा श्रेष्ठा पुत्रपौत्रधनप्रदा” इति सद्योजातलक्षणम्। तत्रैव “शिरोमध्ये रक्तवर्णा श्वेतचन्द्रजटायुता। वामदेवाभिधाश्रेष्ठा गृहिभिः पूजिता सदा” इति वामदेवलक्षणम्। तत्रैव “किञ्चित्कपिलसंयुक्ता कृष्णनीलजटायुता। पार्श्वरेखासमुपेता ऐशानीमुक्तिदा भवेत्” इति ईशानलक्षणम्। “सूर्य्यविद्युत्तमनिभा पार्श्वदेशे जटाशशी। तत्पुम्षाभिधा सा स्यात् दुर्ल्लभा सर्वकामदा” इति तत्पुरुषलक्षणम्। “द्विलिङ्गो वा त्रिलीङ्गो वा चतुष्पञ्चादिलिङ्गवान्। तापिञ्छकरकाकारो देवदेवः सदाशिवः” इति सदाशिवलक्षणम्। इत्यघोरादिपञ्चकलक्षणम्। प्रयोगपारिजाते वराहपु० “द्विनाभिश्चक्ररूपा या भवेद्धरिहरात्मिका। नाभौ लिङ्गेन युक्ता वा श्वेत भागे खुरान्विता। शिवनाभिरिति ख्याता भुक्तिमुक्तिफलपदा। वासुदेवमयं क्षेत्रं लिङ्गं शिवमयं स्मृतम्। तप्याद्धरिहरक्षेत्रे पूजयेत् शङ्कराच्युतम्। भवेच्छिलाशतैः शस्ता चतुर्वर्गफलप्रदा”। तस्या माहात्म्यम् स्कन्दपुराणे “द्वाराचक्रशिला देवि! भद्रावास समन्विता। तत् पात्रसहितं यत् स्यात् तीर्थं द्वादशयोजनम्। म्लेच्छदेशे शुचा वापि चक्राङ्को यत्र तिष्ठति। योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे!। तन्मध्ये म्रियते यस्तु पूजकः सुसमाहितः। शतबाधाविनिर्मुक्तो न पुनः सोऽपि जायते। चक्राङ्कितस्य सान्निध्ये यत्कर्म क्रियते नरैः। स्नानं दानं तपो होमः सर्वं भवति चाक्षयम्। संवत्सरन्तु यत् पापं मनसा कर्मणा कृतम्। तत्सर्वं नश्यते पुंसां सकृच्चक्राङ्क दर्शनात्। ज्वरदाही विषञ्चैव अग्निचौरभयं तथा। सर्वे ते प्रशमं यान्ति सकृच्चक्राङ्कमार्जनात्। भूतप्रेतपिशाचाश्च डाकिन्यश्च वसुन्धरे!। सर्वे ते प्रलयं यान्ति पञ्चचक्रान्वितं न्यसेत्। भक्त्या वा यदि वाऽभक्त्या चक्राङ्कं पूजयेन्नरः। अपि चेत् सुदुराचारो मुच्यते नात्र संशयः। संवत्सरन्तु यः कुर्य्यात् पूजास्पर्शन दर्शनम्। विना साङ्ख्येन योगेन मुच्यते नात्र संशयः”। द्वारकाशिलावर्णविशेषलक्षणम् पद्मपुराणे “कृष्णा मृत्युप्रदा नित्यं कपिला तु भयावहा। औन्मत्त्यं कर्वुरा दद्यात् पीता धनविनाशिनी। धूम्राभा पुत्रनाशाय भग्ना भार्य्याधनापहा। श्वेतास्तिलाः सुसंपूर्णौः सर्वकामार्थदायिकाः। अच्छिद्रचक्रा सा पूज्या दुःखदारिद्र्यनाशिनी। वर्त्तुला चतुरस्रा च पूजिता सिद्धिदायिका। सुखदा समचक्रा च विषमा दुःखदा मवेत्। निषिद्धशिलापि तत्रैव “छिद्रा मग्ना त्रिकोणा च तथा विषमचक्रिका। अर्द्धचन्द्राकतिर्या च पूज्यास्ता न भवन्ति हि”। प्रयोगपारिजाते तु विशेषः “भिन्नश्चैवार्थनाशाय स्थूलो बुद्धिविनाशकः। दीर्घश्चायुर्हरो ज्ञेयो रूक्ष ऋद्धिविनाशकृत्। शुक्लवर्णा शुभा ज्ञेया दन्तचक्रा तथैव च”। चक्रभेदे मूर्त्तिभेदोऽग्निपुराणे उक्तो यथा “सुदर्शनस्त्वेकचक्रे लक्ष्मीनारायणो द्वये। अच्युतः स्यात्तत्त्रिकेण युतो देवस्त्रिविक्रमः”। जनार्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः। षट्चक्रश्चैव प्रद्युम्नः संकर्षणश्च सप्तमिः। पुरुषोत्तमश्चाष्टचक्रो नवव्यूहो नवात्मकः। दशावतारो दशभिर्दशैकेनानिरुद्धकः। द्वादशात्मा द्वादशभिरत ऊर्द्ध्वमनन्तकः”। गरुडपुराणे तु चतुश्चक्रश्चतुर्भुज इति विशेषः। चक्रभेदेन विशेषोऽपि तत्रैव। “एकचक्रशिला पूज्या भुक्तिमुक्तिफलप्रदा। द्विचक्रश्चाच्युतो देवो देवेन्द्रत्व फलप्रदः। श्रीप्रदो रिपुहन्ता च चतुश्चक्रो जनार्दनः। पूजयेद्भक्तिसंयुक्तः सुगन्घैः कुसमादिभिः। पञ्चभिर्वासुदेवः स्यात् प्रभुश्चक्रैः सदार्चितः। जन्ममृत्युभयात्त्राता भवेन्नैवात्र संशयः। षड्भिश्चक्रैश्च प्रद्युम्नो लक्ष्मी कीर्त्तिप्रदो भवेत्। पूजितो भक्तिभावेन चक्रतीर्थशिलोद्भवः। वलभद्रशिला ज्ञेया सप्तचक्राङ्किता खग!। पूजितस्तुष्यते देवः पुत्त्रपौत्त्रप्रदो भवेत्। वाञ्छितं वसुभिश्चक्रैर्ददाति पुरुषोत्तमः। नवव्यूहो नवचक्रो दुर्लभं यत् सुरैरपि। पूजितः केशवस्तस्य ददाति स्थानमुत्तमम्। राज्यदो दशभिश्चक्रैर्दशावतारसंज्ञकः। दशावतारपूजा स्याच्चक्राङ्कस्यास्य पूजनात्। एकादशभिरैश्वर्य्यमधिकञ्च प्रयच्छति। पूजितो भक्तिभावेन चक्रतीर्थशिलोद्भवः। तत्रैव प्राप्यते देवश्चक्रैर्द्वादशभिश्चितः। पूजितः सर्वकामानामनन्तफलदायकः। द्वादशात्मा स विज्ञेयो भुक्तिमुक्तिप्रदोऽर्च्चितः। अत ऊर्द्धं परात्मासौ सदा प्रीतिविवर्द्धनः। पूजितः सर्वलोकात्मा विष्णुलोकप्रदायकः इति चक्राङ्कितशिलाः कथिताः कुलनामतः”। एकचक्रविषये विशेषस्तु प्रयोगपारिजाते। “एकचक्रे विशेषोऽस्ति सविशेषस्तथोच्यते। शुक्लरक्तं तथा रक्तं द्विवर्णं बहुवर्णकम्। यद्येकचक्रिणः स्युश्च तेषां संज्ञा भवेत् क्रमात्। पुण्डरीकः प्रलम्बघ्नो रामो वैकुण्ठ एव च। विश्वेश्वर इति ब्रह्मन् तेषां पूजाफलं शृणु। मोक्षं मृत्यु विवादञ्च दारिद्र्यं परतन्त्रताम्। ददाति पूजकस्यासो तस्मात्तां परिवर्जयेत्”।

द्वारादि = “द्वारादीनाञ्च” य्वाभ्यां पूर्वमैजागमनिमित्ते पा० ग० सू० उक्ते शब्दगणे स च गणः “द्वार स्वर स्वाध्याय व्यल्कश स्वस्ति स्वर् स्फ्याकृत स्वादुमृदु श्वस् स्व” द्वारे नियुक्तः ठक्। दौवारिकः।

द्वाराध्यक्ष = पु० द्वारेऽध्यक्षः। प्रतीहारे “वेत्रव्यासक्त हस्ताश्च द्वाराध्यक्षा विशां पते!” भा० स० ३० अ०

द्वारिक = त्रि० द्वारं पाल्यतयाऽस्त्यस्य ठन्। द्वारपाले सारसुन्दरी प्रशस्तानि चत्वारि द्वाराणि सन्त्यस्याम् ठन् टाप्। द्वारिका २ द्वारवत्यां स्त्री शब्दरत्ना।

द्वारिन् = त्रि० द्वारं पाल्यत्वेनाऽस्त्यस्य इनि। १ द्वारपाले २ द्वारयुते त्रि० द्वारशब्दे दृश्यम्।

द्वार्य्य = त्रि० द्वारि भवः यत्। द्वारिभवे “द्वार्य्य स्थूणे देवी द्वारौ” आश्व० श्रौ० ४। १३। ५ द्वारिभवे द्वार्य्ये स्थूणे” नारा० वृत्तिः “चतुर्गृहीतं शालाद्वार्य्ये जुहोति” कात्या० श्रौ० ८। ३। २९

द्वा(द्बि)विंश = त्रि० द्वा(द्विं)विंशतेः पूरणः डट्। द्वाविंशति संख्यापूरणे स्त्रियां ङीप्। द्वा(द्वि)विंशत्या युतं शतादि ड। २ तद्युते शतादौ त्रि०।

द्वा(द्वि)विंशति = स्त्री द्व्यधिका विंशतिः द्वौ च विंशतिश्च वा आत् बहुत्वेऽपि एकव०। (वाइस) १ द्व्यधिकविंशतिसंख्यायां २ तत्संख्यायुते च “कर्णो द्वाविंशतिं भल्लान्” भा० द्रो० ४७ अ० द्वा(द्विं)विंशतिः प्रमाणमस्य ठन्। द्वा(द्वि) विंशतिक तत्संख्यान्विते त्रि० पूरणे तमप्। द्वा(द्वि) विंशतितम द्वाविंशतिसंख्यापूरणे त्रि०। एवं द्वा(द्वि)त्रिंशद्द्वा(द्वि)चत्वारिंशदादयोऽपितत्तत्संख्यायां तत्संख्यान्यिते स्त्री एकव० पूरणे ड तयपौ उन्नेयौ ठन्। एवं ड। द्वा(द्वि)त्रिंशादि तद्युते शतादौ त्रि० सा परिमाणमस्यठन्। द्वा(द्वि)त्रिंशतिकादि तत्तत्संख्यापरिमाणके त्रि०।

द्वा(द्वि)षष्टि = स्त्री द्व्यधिका षष्टिः द्वौ च षष्टिश्च च वा वा आत् एकव०। १ द्व्यधिकषष्टिसंख्यायां २ तद्युते च। पक्षे द्विषष्टिरप्यत्र तया युतं शतादि ड। द्वा(द्वि)षष्ट तद्युते शतादौ। सा परिमाणमस्य ठन्। द्वा(द्वि)षष्टिक तत्परिमाणके त्रि० पूरणे तमप्। द्वा(द्वि)षष्टितम डट् द्वा(द्वि)षष्ट तत्संख्यापूरणे डटि स्त्रियां ङीप्।

द्वा(द्वि)सप्तति = स्त्री द्व्यधिका सप्ततिः द्वौ च सप्ततिश्च वा वा आत् एकव०। १ द्व्यधिकसप्ततिसंख्यायां २ तत्संख्याते च “द्वासप्ततिर्महत्यस्ते पादास्ते द्वादश क्रमात्” ज्यो० त०। द्विसप्ततिरप्यत्र। तया युतं शतादि ड। द्वा(द्वि)सप्तत तद्युते शतादौ त्रि० तस्याः पूरणे तमप्। द्वा(द्विसप्ततितम डट्। द्वा(द्वि)सप्तत तत्संख्यापूरणे त्रि० स्त्रियां डटि ङीप्।

***