द्रु = गतौ भ्वा० पर० सक० अनिट्। द्रवति स्वार्थे चङ् अदुद्रवत्। णिचि चङि तु अदि(दु)द्रवत् त। दुद्रवे। गतिश्चेह संयोगानुकूलव्यापारः द्रवद्रव्याणां दूरप्रसरणरूपं स्यन्दनं च “द्रवत्वात् स्यन्दनम्” कणा० सूत्रम् “स्यन्दनं द्रव्यत्वादसमवायिकारणादुत्पद्यते। तथा हि पतितानामपां विन्दूर्ना परस्परं संयोगेन महत् जलस्रोतोयज्जायते तस्य यत् स्यन्दनं दूरप्रसरणं तत् द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणादप्सु समवायिकारणेषु” उप० वृत्तिः णिचः सनि दि(दु)द्रावयिषति। तत्र गतौ “समुद्रमेवाभिमुखा द्रवन्ति” गीता “ततः किरीटी सहसा पाञ्चालान् समरेऽद्रवत्” भा० आ० ५४ ७८ श्लो० “तं दुद्रावाद्रिणा कपिः” भट्टिः
द्रु = अनुतापे स्वा० पर० सक० अनिट्। द्रुणोति अद्रौषीत्। बध च “स भस्मसात् चकारारीन् दुद्राव च कृतान्तवत्” भट्टिः।
द्रु = पु० द्रवत्यूर्द्धं द्रु–बा० डु। १ वृक्षे २ शाखायाञ्च। ३ गतौ स्त्री। “अदादीताथ षड्भागं द्रुमांसमधुसर्पिषाम्” मनुः द्रुघणः। ४ वृक्षविकारे न० “द्रुण इद्भूतिमूदिम” ऋ० १। १६१। १ “द्रुणो द्रुमविकारस्य” भा० विकारे प्रकृतिशब्दः ततश्च तत्रस्थः तच्छब्द इति च तत्र न्यायोक्तिः। ५ द्रवयुक्ते त्रि०। “द्रुणा सधस्थमासदत्” ऋ० ९। १। २ “द्रुणा द्रोणकलसेन” भा० तत्र पुस्त्वमपि “आ तू षिञ्च हरिनीं द्रोरुपस्थे” ऋ० १०। १०१। १० “द्रोर्द्रुमविकारस्य” भा०
द्रुकिलिम = न० किलति किल–श्वैत्यक्रीडनयोः बा० किमच्। कर्म०। देवदारुवृक्षे अमरः।
द्रुघण = पु० द्रुः वृक्षः ससारगतिर्वा हन्यतेऽनेन द्रु–हन करणे अप् घनादेशो णत्वञ्च। १ मुद्गरे लौहमुद्गरे सूत्रघारादीनां मुद्गराकारे लौहमयास्त्रभेदे २ कुठारे ३ ब्रह्मणि च मेदि० ४ भूमिचम्पकेशब्दचान्द्रका पूर्वपदात् संज्ञाया- मिति णत्वे विहिते शब्दकल्पद्रुमे दन्त्यमध्यतोक्तिः प्रामादिकी ५ द्रुममये घने च “काष्ठाया मध्ये द्रुघणं शयानम्” ऋ० १०। १०२। ९ “द्रुघणं द्रुममयघणम्” भा० छान्दसोऽसंज्ञात्वेऽपि णत्वम्।
द्रुड = मज्जने तु० कु० पर० सक० सेट्। द्रुडति अद्रोडीत्। दुद्रोड। द्रुडः।
द्रुण = कुटिलीभवने तु० पर० अक० सेट् कुटादि। द्रुणति अद्रुणीत्। दुद्रोण। गतौ कुटिलीचरणे हिंसायाञ्च सक० पा०।
द्रुण = न० द्रुणति हिनस्ति कुटिलीभवति वा द्रुण–क। धनुषि २ खड्गे च हेमच० ३ वृश्चिके ४ भृङ्गे च पुंस्त्री० स्त्रियां जातित्वात् ङीष्। ५ पिशुने त्रि० शब्दमाला।
द्रुणस = त्रि० द्रुरिव दीर्घा नासिकाऽस्य अच् समा० नसादेशः पूर्वपदात् संज्ञायां णत्वम्। दीर्घनासायुक्ते शब्दस्तोमे द्रुणस् इति हलन्ततोक्तिः मुद्रादोषात्।
द्रुणह = पु० द्रुणं खड्गं जहाति स्वावकाशस्थानतोऽपसारणात् हा–क। खड्गपिधाने हारा०।
द्रुणा = स्त्री द्रुण्यते कुटिलीक्रियतेऽनया द्रु–घञर्थे क। ज्यायां मौर्व्याम् हेमच०।
द्रुणि = स्त्री द्रोणी–पृषो०। १ द्रोण्यां भरतः वा ङीप्। २ कर्णजलौकसि ३ कच्छप्यां ५ काष्ठाम्बुवाहिन्याञ्च भरतः।
द्रुत = त्रि० द्रु–क्त। १ जातद्रवे घृतसुवर्णादौ “द्रुतं द्रुतं वह्निसमागतं गतम्” भट्टिः “द्रुतशातकुम्भनिभमंशुमतः” माघः। २ शीघ्रे न० ३ शीघ्रतायुक्ते त्रि०। “ससम्भ्रमेन्द्रद्रुतपातितार्गलाः” काव्यप्र० “द्रुतपदमिति मा वयस्य! यासीः” माघः। ४ विडाले मेदि०
द्रुतपद = न० द्रुतं शीघ्रगामि पदम्। १ शीघ्रगामिपदे। ६ ब०। २ तद्युक्ते त्रि०। “द्रुतपदं भवति नभनयाश्चेत्” वृत्तरौक्ते द्वादशाक्षरपादके वर्णवृत्तभेदे।
द्रुतमध्या = स्त्री “भत्रयमोजगतं गुरुणी चेद् युजि च नजौ ज्ययुतौ द्रुतमध्या” छन्दो० उक्ते अर्द्धसमाख्ये वर्णवृत्तभेदे।
द्रुतविलम्बित = न० “द्रुतविलम्बितमाह नभौ भरौ” वृत्तर० उक्ते द्वादशाक्षरपादके १ वर्णवृत्तभेदे “किञ्चित् द्रुतञ्च विलम्बितञ्च किञ्चित्। २ किञ्चिच्छीघ्रे किञ्चिद्विलम्बिते च “तरणिजा पुलिने नववल्लवीपरिषदा सह केलिकुतूहलात्। द्रुतविलम्बितचारुविहारिणं हरिम हं हृदयेन सदा वहे”। छन्दोमञ्जरी।
द्रुति = स्त्री द्रु–भावे क्तिन। १ दवे २ नतौ च।
द्रुनख = पु० द्रीर्नख इव न संज्ञात्वेऽपि णत्वम्। १ कण्टके त्रिका०
द्रुपद = पु० पञ्चालानामधिपे यज्ञसेनापरनामके नृपभेदे “गच्छताद्यैव पाञ्चालान् द्रुपदस्य निवेशने। स्वयंवरो महांस्तत्र भविता सुमहाधनः। एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय!। राज्ञा दक्षिणपाञ्चालान् द्रुपदेनाभिरक्षितान्” भा० आः १८४ अ० स च मरुद्गणांशाज्जातः यथाह भा० आ० ६७ अ० “सात्यकिः सत्यसन्ध्यश्च योऽसौ वृष्णिकुलोद्भवः। पक्षात् स जज्ञे मरुतां देवाना मरिमर्दनः। द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात्। मानुषे नृपलोकेऽस्मिन् सर्वशस्त्रभृतांवरः” स च भरद्वाजसखस्य पृषतनृपस्य पुत्रः यथोक्तं भा० आ० १३० अ० “भरद्वाजसखा चासीत् पृषतो नाम पार्थिवः। तस्यापि द्रुपदो० नाम तदा समभवत् सुतः। स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः। चिक्रीडाध्ययनञ्चैव चकार क्षत्रियर्षभः। ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्। पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वर!” तस्य द्रोणेन वालसख्येऽपि पश्चात् वैरं जातं यथोक्तं भा० आ० १३१ अ० “ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्। अब्रवीत् पार्थिवं राजन्! सखायं विद्धि मामिह। इत्येवमुक्तः सख्या स प्रीतिपूर्वं जनेश्वरः। भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत्। सक्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः। ऐश्वर्यमदसम्पन्नो द्रोणं राजाऽब्रवीदिदम्। द्रुपद उवाच। अकृ तेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी। यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज। न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित्। सख्यं भवति मन्दात्मन्! श्रिया हीनैर्धनच्युतैः। सौहृदं मे त्वया ह्यासीत् पूर्वं सामर्थ्यबन्धनम्। न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्। कालोह्येनं विहरति क्रोधो वैनं हरत्युत। मैवं जीर्णमुपास्स्वं त्वं सख्यं भवत्यपाकृधि। आसीत् सख्यं द्विजश्रेष्ठ! त्वया मेऽर्थनिबन्धनम्। दरिद्रो न वसुमतो नाविद्वान् विदुषः सखा। न शूरस्य सखा क्लीवः सखिपूर्वं किमिष्यते। ययोरेव समं वित्तं ययोरेव समं श्रुतम्। तयोर्विवाहः सख्यञ्च न तु पुष्ट विपुष्टयोः। नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा। नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते। वैशम्पायन उवाच। द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्। मुहूर्तं चिन्तयित्वा तु मन्युनाऽभिपरिप्लुतः। स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्। जगाम कुरुमुख्यानां नगरं नागसाह्वयम्” द्रोणश्चार्जुनादीन् शिष्यान् कृत्वा तद्द्वारा द्रुपदं पराजित्य वशमानाय्य राज्यार्द्धहरणपूर्वकं द्रुपदेन पुनः सख्यं यथास्थितमकरोत् यथाह भा० आ० १३९ अ० “ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्द्धनि। उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभ!। भग्नदर्पं हृतधनं तं तथा बशमागतम्। स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमव्रवीत्। विमृद्य तरसा राष्ट्रं पुरन्ते मृदितो मया। प्राप्य जीवं रिपुवशं सखिपूर्वं किमिष्यते। एवमुक्त्वा प्रहस्यैवं किञ्चित् स पुनरब्रवीत्। मा भैः प्राणभयाद्वीर! क्षमिणो ब्राह्मणा वयम्। आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह। तेन संवर्द्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ!। प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप!। वरं ददामि ते राजन्! राज्यस्यार्द्धमवाप्नु हि। अराजा किल नो राज्ञः सखा भवितुमर्हति। अतः प्रयतितं राज्ये यज्ञसेन! मया तव। राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे। सखायं मां विजानीहि पाञ्चाल! यदि मन्यसे। द्रुपद उवाच। अनाश्चर्यमिदं ब्रह्मन्! विक्रान्तेषु महात्मसु। प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाथतीम्। वैशम्पायन उवाच। एवमुक्तः स तं द्रोणो मोक्षयाभास भारत!। सत्कृत्य चैनं प्रीतात्मा राज्यार्द्धं प्रत्यपादयत्। माकन्दीमथ गङ्गायास्तीरे जनपदायुताम्। सोऽध्यावसद्दीनमनाः काम्पिल्यञ्च पुरोत्तमम्। दक्षिणांश्चापि पाञ्चालान् यावच्चर्मण्वतीं नदीम्। द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः। क्षात्रेण च बलेनास्य नापश्यत् स पराजयम्। हीनं विदित्वा चात्मानं व्राह्मेण स बलेन तु। पुत्रजन्म परीप्सन् वै पृथिवीमन्वसञ्चरत्। अहिंच्छत्रञ्च विषयं द्रोणः समभिपद्यत। एवं राजन्न हिच्छत्रा पुरी जनपदायुता। युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता” ६ त०। २ द्रोःकाष्ठस्य देशभेदे “आदित्यं द्रुपदेषु वद्धम्” ऋ० १। २४। १३ “द्रोः काष्ठस्य पदेषु यूपस्य प्रदेशविशेषेषु” भा० द्रुमयं काष्ठभयं पदम्। ३ काष्ठपादुकायाम् “द्रुपदादिव मुमुचानः” यजु० २०। २० “द्रुस्तरुस्तन्मयं पदं पादुका तस्मात् मुमुचानः पृथग्भवन्। यथा पादुकादोषैरसम्बद्धोभवति” वेददी० द्रुपदं तच्छब्दोऽस्त्यस्थामृचि अच्। ४ द्रुपदशब्दयुक्तायामृचि स्त्री “गायत्र्यष्टसहस्नं तु द्रुपदां वा शतं जपेत्” आ० त०। साच ऋक् “द्रुपदादिव मुमुचानः” इत्यादिका यजु० २०। २० “द्रुपदान्तु ततोजप्त्वा जलमादाय पाणिना” काशी० ३५ अ०
द्रुपदात्मज = पु० ६ त०। १ द्रुपदस्य राज्ञो नन्दने शिखण्डिनि २ धृष्टद्युम्ने ३ याज्ञसेन्यां स्त्री। शिखण्डी च स्त्रीरूपेण पूर्यं जातः पश्चात् स्थूणयक्षवरेण पुंस्त्वमाप तत्कथा भा० उद्यो० १९२। ९३ अ० दृश्या “रवमेव महाराज! स्त्रीपुमान् द्रुपदात्मजः। स सम्भूतः कुरुश्रेष्ठ! शिखण्डी भरतर्षभ!” इत्यन्त ग्रन्थे द्रुपदशब्दे दर्शिते द्रोणद्रुपदयो वैरे जाते तन्मूलनिर्वेदात् द्रुपदस्य द्रोणान्तकपुत्रेच्छया याजोपयाजाभ्यां यज्ञस्य करणे अग्निमध्यात् धृष्टद्युम्न कृष्णयोरुत्पत्तिकथा भा० आ० १६७ अ०
“द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्। द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्। तत् कर्म कुरु मे याज! वितराम्यर्वुदं गवाम्। तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयन्। गुर्वर्थ इति चाकाममुपयाजमचोदयत्। याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः। ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः। आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै। स च पुत्रो महावीर्य्यो महातेजा महाबलः। दृष्यते यद्विधो राजन्! भविता ते तथाविधः। भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः। आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये। या जस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा। प्रैहि मां राज्ञि पृषति! मिथुनं त्वामुपस्थितम्। राज्ञ्युवाच। अवलिप्त मुखं ब्रह्मन्! दिव्यान गन्धान् बिभर्म्मि च। सुतार्थे नोपलब्धास्मि तिष्ठ याज मम प्रिये। याज उवाच। याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम्। कथं कामं न सन्दध्यात् सा त्वं विप्रेहि तिष्ठ वा। ब्राह्मण उवाच। एवमुक्त्वा तु याजेन हुते हविषि सत्कृते। उत्तस्थौ पावकात्तस्मात् कुमारो देवसन्निभः। ज्वालावर्णो घोररूपः किरीटी वर्म्म चोत्तमम्। बिभ्रत सं० खड्गः सशरो धनुष्मान् विनदन्मुहुः। सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा। ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति। हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा। भयापहो राजपुत्रः पाञ्चालानां यशस्करः। राज्ञः शोकापहो जात एष द्रोणबधाय वे। इत्युवाच महद्भूतमदृश्यं खेचरं तदा। कुमारी चापि पाञ्चाली येदीमध्यात् समुत्थिता। सुभगा दर्शनीयाङ्गी स्वसिता- यतलोचना। श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्द्धजा। ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा। मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी। नालोत्पलसमो गन्धो यस्याः क्रोशात् प्रधावति। या विभर्त्ति परं रूपं यस्या नास्त्युपमा भुवि। देवदानवयक्षाणामीप्सिता देवरूपिणी। ताञ्चापि जातां सुश्रोणीं वागुवाचाशरीरिणी। सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्त्रियान् क्षयम्। सुरकार्य्यमियं काले करिष्यति सुमध्यमा। अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम्। तं श्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत्। न चैतान् हर्षसम्पूर्णानियं सेहे वसुन्धरा। तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी। न वै मदन्यां जननीं जानीयातामिमाविति। तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया। तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः। धृष्टत्वादतिधृष्णुत्वाद्द्युम्नादुत्सम्भवादपि। धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति। कृष्णेत्येवाब्रुवन् कृष्णां कृष्णाभूत् सा हि वर्णतः। तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे। धृष्टद्युम्नन्तु पाञ्चाल्यमानीय स्वं निवेशनम्। उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्। अमोक्षणीयं दैवं हि भावि मत्वा महामतिः। तथा तत् कृतवान् द्रोण आत्मकीर्त्त्यनुरक्षणात्”। द्रुपदसुतादयोऽप्यत्र।
द्रुपदी = स्त्री द्रुरिव दीर्घः पादोऽस्याः कुम्भपद्या० ङीषि पद्भावः। द्रुमतुल्यपादयुक्तायां स्त्रियाम्।
द्रुपदादित्य = पु० काशीस्थे द्रौपद्याः स्थापिते आदित्यलिङ्गभेदे तदाविर्भवकथा काशीख० ४९ अ०
“आकर्णय मुने। पूर्वं पञ्चवक्त्रो हरेः स्वयम्। पृथिव्यां पञ्चधा भूत्वा प्रादुरासीज्जगद्धितः। उमापि च जगद्धात्री द्रुपदस्य महीभुजः। यजतो वह्निकुण्डाच्च पादुश्चक्रेऽतिसुन्दरी। पञ्चापि पाण्डुतनयाः साक्षाद्रुद्रवपुर्द्धराः। अवतेरुरिह स्वर्गाद् दुष्टसंहारकारिणः। नारायणोऽपि कृष्णत्वं प्राप्य तत्साहचर्य्यकृत्। दुर्वृत्तवृत्तशमनः सद्वृत्तस्थितिकारकः। प्रतपन्तः पृथिव्यान्ते पार्थाश्चेरुः पृथक् पृथक्। उदयानुदयौ तस्मिन् सम्पदां विपदामपि। कदाचित्ते महावीरा भ्रातृव्यप्रतिपादिताम्। विपत्तिमाप्य महतीं बभूवुः काननौकसः। पाञ्चाल्यपि च तत्पत्री पतिव्यसनकर्षिता। घर्म्मज्ञा प्राप्य तन्वङ्गी व्रध्नमाराधयद्भृशम्। आराधितोऽथ सविता तया द्रुपदन्यया। सदर्वीं सपिधानाञ्च स्थालिकामक्षयान्ददौ। उवाच च प्रसन्नात्मा भास्करो द्रुपदात्मजाम्। आराधयन्तीं भावेन सर्वत्र शुचिमानसाम्। स्थाल्यैतया महाभागे! यावन्तोन्नार्थिनोजनाः। तावन्तस्तृप्तिमाप्स्यन्ति यावच्च त्वं न भोक्ष्यसे। भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविष्यति। रसवद्व्यञ्जननिधिंरिच्छाभक्ष्यप्रदायिनी। इत्थं वरस्तया लब्धः काश्यामादित्यतो सुने!। अपरश्च वरो दत्तस्तस्यै देवेन भास्वता। रविरुवाच। विश्वेशाद्दक्षिणे भागे यो मां त्वत्पुरतस्थितम्। आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति। अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते!। तपसा परितुष्टेन तं निशामय वच्मि ते। प्राग्रवे! त्वां समाराध्य यो मां द्रक्ष्यति मानवः। तस्य त्वं दुःखतिमिरमपानुद निजैः करैः। अतो धर्मप्रिये! नित्यं प्राप्य विश्वेश्वराद्वरम्। काशीस्थितानां जन्तूनां नाशयाम्यघ सञ्जयम्। ये मामत्र भजिष्यन्ति मानवाः श्रद्धयान्विताः। त्वद्वरोद्यतपाणिञ्च तेषां दास्यामि चिन्तितम्। भवतीं मत्सभीपस्थां युधिष्ठिरपतिव्रताम्। विश्वेशाद्दक्षिणे भागे दण्डपाणेः समीपतः। येऽर्च्चयिष्यन्ति भावेन पुरुषा वा स्त्रियोऽपि वा। तेषां कदाचिन्नो भावि भयं प्रियवियोगजाम्। न व्याधिजं भयं क्वापि न क्षुत्तृट्श्लेष्मसम्भवम्। द्रौपदीक्षणतः काश्यां तव धर्मप्रियेऽनघे!। इति दत्त्वा वरान्देव आदित्यः सर्वदः सताम्। शम्भुमाराधयामास धर्मं द्रौपद्युपाययौ। आदित्यस्य कथामेतां द्रौपद्याराधितस्य वै। यः श्रोष्यति नरो भक्त्या तस्यैनः कथमेध्यति। स्कन्द उवाच। द्रौपदादित्यमाहात्म्यं संक्षेपात् कथितं मया। मयूखादित्यमाहात्म्यं शृण्वि दानीं घटोद्भव!” “चतुर्थो द्रुपदादित्यः” काशीख० ४६ अ० द्रौपदादित्योऽप्यत्र। “इदानीं द्रौपदादित्यं कथयिष्यामि तेऽनघ” तत्र।
द्रुम = पु० द्रुः शाखास्त्यस्य म। १ वृक्षे अमरः। २ पारिजाते ३ कुवेरे च मेदि०। “बद्धप्रल्लवपुटाञ्जलिं द्रुमम्” रघुः। “तस्य तद्वर्द्धते नित्यं सिच्यमान इव द्रुमः” मनुः ४ किम्पुरुषाधीशभेदे “द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम्” भा० स० ४१० श्लो० “किंपुरुषाधिराज्यमिव मुनिजनगृहीतजलकलशपरिषिच्यमानद्रुमम्” काद० कृष्णमहिलायां रुक्मिण्यां जाते ५ पुत्रभेदे “प्रद्युम्नः प्रथमं जज्ञे शंवरान्तकरः सुतः। द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः। चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एव च” हरिवं० १६२ अ०। शिविनामदैत्यांशजाते द्वापरयुगीये ६ नृपभेदे “यस्तु राजञ्छिविर्नाम दैत्येशः परिकीर्तितः। द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः” भा० आ० ६७ अ० प्राचीने नृपवरभेदे “उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः” भा० आ० १ अ० प्राचीननृपोक्तौ।
द्रुमनख = पु० द्रुमस्य नख इव संज्ञात्वेऽपि न णत्वम्। कण्टके शब्दरत्ना०।
द्रुममय = पु० नि०। द्रुम + विकारे मयट्। वृक्षविकारे यूपादौ
द्रुममर = पु० द्रुमोम्रियतेऽनेन मृ–करणे अप्। कण्टके हारा०।
द्रुमव्याधि = पु० द्रुमस्य व्याधिरिव। द्रुमामये १ लाक्षायाम् राजनि०। ६ त०। २ वृक्षरोगे च
द्रुमशीर्ष = न० द्रुमस्य शीर्षमिव शीर्षमग्रमस्य। वृक्षतुल्याग्रयुक्ते कुट्टिमभेदे “कपिशीर्षं द्रुमशीर्षं तथा चाखोट शीर्षकम्। इति कुट्टिमभेदांः स्युः शाब्दिकैः समुदाहृताः” शब्दर०। ६ त०। २ वृक्षाग्रे न०।
द्रुमश्रेष्ठ = पु० द्रुमेषु श्रेष्ठः। १ प्रधानवृक्षे २ तालवृक्षे च शब्दार्थक०।
द्रुमषण्ड = न० द्रुमाणां समूहः द्रुम + षण्डच्। वृक्षसमूहे “जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि। पङ्कजै र्द्रुमषण्डैश्च सर्वतः प्रतिभूषितम्” हरिवं० ९७ अ०
द्रुमसेन = पु० राजभेदे सच गविठासुरांशाज्जातः द्वापरयुगीयो नृपभेदः “गधिष्ठस्तु महातेजा यः प्रख्यातो महासुरः। द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः” भा० आ० ६७ अ०।
द्रुमामय = पु० द्रुमस्यामय इव। लाक्षायां अमरः। ६ त०। वृक्षस्य रोगे च।
द्रुमारि = पु० ६ त०। १ हस्तिनि गजे राजनि० २ वृक्षनाशकमात्रे च
द्रुमाश्रय = त्रि० द्रुम आश्रयो यस्य। १ वृक्षाश्रिते २ सरटे पुंस्त्री० राजनि०। स्त्रियां जातित्वात् ङीष्।
द्रुमिणी = स्त्री द्रुमाणां समूहः खला० समूहे इनि ङीप्। वृक्षसमूहे।
द्रुमेश्वर = पु० द्रुमेषु ईश्वर इव श्रेष्ठत्वात्। १ तालवृक्षे शब्दार्थक०। २ द्रुमाणां श्रेष्ठे च “स्वर्गादिहानयित्वा च पारिजातं द्रुमेश्वरम्” हरिवं० १२६ अ०। ३ ओषधीशे चन्द्रे च
द्रुमोत्पल = पु० द्रुमे उत्पलमिव पुष्पमस्य। कर्णिकारवृक्षे अमरः
द्रुम्म = गतौ भ्वा० पर० सक० सेट् निघण्टुः। द्रुम्मति अद्रुम्मीत् दद्रुम्म। निघण्टौ द्रम्मेति पाठान्तरम्।
द्रुवय = पु० “द्रोश्च माने वयः” पा० द्रु + माने वय। माने अमरः।
द्रुसल्लक = पु० द्रुषु सल्लक इव। पियालवृक्षे शब्दर०।
द्रुह = अनिष्टचिन्तने दिवा० पर० सक० वेट्। द्रुह्यति अद्रोहीत्- अध्रुक्षत्। द्रोहिता द्रोग्धा द्रोढा द्रोहिष्यति ध्रोक्ष्यति। ध्रुक् ध्रुट्। “क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः” पा० कोपविषयस्य सम्प्रदानता। शत्रवे द्रुह्यति। उपसृष्टस्य तस्य सम्प्रदानस्य कर्मता भृत्यमभिद्रुह्यति। “न यजमानाय द्रुह्यति” शत० ब्रा० २। ३। ४। ३८। “मा द्रुमेभ्यो महाभाग! दीनोभ्यो द्रोग्धुमर्हसि!” भाग० ६। ४। ७ “नाभि द्रुह्यति भृत्येभ्यः” भाग० ४। २०। ३ आर्षत्वात् न कर्मता। “मातरञ्चाभिद्रुह्यन्ति मनसा कर्मणा च ये” भा० शा० “भवांस्तानभिद्रुह्येत” कामन्दकी० अत्र तङ् असाधुः।
द्रुह = त्रि० द्रुह–क्विप्। द्रोहकारके मित्रध्रुक्ट्।
द्रुह = त्रि० द्रुह–कर्तरि क। १ द्रोहकारके “द्रुहा तन्वं गूहमाना” ऋ० ७। १०४। १७। २ पुत्रे शब्दार्थकल्प०। पुत्रस्य वित्ताश या पितुरनिष्टचिन्तनस्य प्रायशः सम्भावनात् तथात्वम्। ३ दुहितरि स्त्री ङीष् शब्दार्थकल्प०।
द्रुहण = पु० द्रुं संसारगतिं हन्ति–हन अच् “पूर्वपदात् संज्ञायाम्” पा० णत्वम्। ब्रह्मणि। द्रुहणेन निर्वृत्तादि अरीणादि० वुञ्। द्रौहणक तन्निवृत्तादौ त्रि०।
द्रुहिण = पु० द्रुह्यति कामक्रोधादिभ्यो दुष्टेभ्यो वा द्रुहबा० इनन् किच्च। चतुर्मुखे ब्रह्मणि अमरः “दुरालभा दानशीला द्राविणी द्रुहिणस्तुता” काशीख० २९ अ० गङ्गासहस्रनाम। २ विष्णौ च “महादेव! देवस्तुत! द्रुहिण! अनन्त! विश्वकर्मन् नस्तायस्वेति” हरिवं० २५९ अ०।
द्रुह्य = त्रि० शिवादिगणेद्रुह्येति पाठात् द्रुह–न ण्यत् किन्तु क्यप्। द्रोहविषये तस्यापत्यम् शिवा० अण् द्रौह्य तदपत्ये बहुषु यस्कादि० अणो लुक्। द्रुह्या इत्येव।
द्रुह्यु = पु० ययातेर्नृपस्य शर्मिष्ठायां जाते पुत्रभेदे तुर्वसुशब्दे दृश्यम्। तस्मै ययातिशापकथा “ययातिरुवाच “द्रुह्यो! त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्। जरां वर्षसहस्रं मे यौवनं स्वन्ददस्व च। पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह। द्रुह्युरुवाच। न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्। वाग्भङ्गश्चास्य भवति तां जरां नाभिकामये। ययातिरुवाच। यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्माद्रुह्यो! प्रियः कामो न ते सम्पत्स्यते क्वचित्। यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च। हस्तिनां पीठकानाञ्च गर्दभानान्तथैव च। वस्तानाञ्च गवाञ्चैव शिविकायास्तथैव च। उद्भुपप्लवस- न्तारो यत्र नित्यं भविष्यति। अराजभाजशब्दन्तं तत्र प्राप्स्यसि सान्वयः” भा० आ० ८४ अ०।
द्रू = गतौ बधे च स्वा० क्य्रा० च उ० सक० सेट्। द्रूणोति द्रूणुते द्रूणाति द्रूणीते अद्रावीत् अद्रविष्ट। दुद्राव। दुद्रविथ। द्रविता द्रविष्यति।
द्रू = पु० द्रू–क्विप्। हिरण्ये उज्ज्वद०।
द्रूघण = पु० द्रुघण + पृषो० दीर्घः। मुद्गरे द्विरूपकोषः।
द्रूण = पु० द्रू–हिंसायाम् बा० नक्। वृश्चिके शब्दार्थकल्प०।
द्रेक = स्वने उत्साहे च भ्वा० आत्म० अक० सेट्। द्रेकते अद्रेकिष्ट। ऋदित् णिचि चङि अदिद्रेकत् त।
द्रेक्क = पु० द्रेक्काण + पृषो०। द्रेक्काणे राशेस्तृतीयांशे।
द्रेक्काण = पु० “स्वपञ्चनवमानां ये राशीनामधिपा ग्रहाः। एते द्रेक्काणपाराशौ द्रेक्काणास्त्नय एव हि” ज्यो० त० उक्ते राशेस्तृतीयाभागे तदधिपाश्च उक्तदिशाज्ञेयाः। दृक्काणशब्दे दृश्यम्।
द्रेश्य = त्रि० दृश–कर्मणि क्यप् वेदे पृषो०। दृश्ये “यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रम्” मुण्डको०। “अद्रेश्यम् अदृश्यं सर्वेषां बुद्धीन्द्रियाणामगम्यमित्येतत् दृशेर्बहिःप्रस्थितस्य पञ्चेन्द्रियवाचकत्वात्” भा०
द्रेष्काण = पु० द्रेक्काण + पृषो०। द्रेकाणे राशेस्तृतीये भागे।
द्रोघ = त्रि० द्रुह्–कर्मणि घञ् बा० वेदे कुत्वम्। द्रोहविषये “हेषसा द्रोघमित्रान्” ऋ० १०। ८९। १२ “द्रोघमित्रान् द्रुग्धानि मित्राणि यैः ते द्रोघमित्राः” भा०। करणे घञ्। द्रोहसूचकवाक्यादौ “द्रोघाय चिद्वचस आनवाय” ऋ० ६। ६२। ९ “द्रोघायातिद्रोहात्मकाय वचसे” मा० “द्रोघवाचस्ते निरृथं सचन्ताम्” ऋ० ७। १०४। १४
द्रोण = पु० द्रोणः कलशः उत्पत्तिस्थानत्वेनास्त्यस्य अच्। भारद्वाजे कौरवाणां धनुर्वेदाचार्ये तदुत्पत्तिकथा
“गङ्गाद्वारं प्रति महान् बभूव भगवान् ऋषिः। भरद्वाज इति ख्यातः सततं शंसितव्रतः। सोऽभिषेक्तु ततो गङ्गां पूर्वमेवागमन्नदीम्। महर्षिभिर्भरद्वाजो हविर्द्धाने चरन् पुरा। ददर्शाप्सरसां साक्षात् घृताची साप्लुतामृषिः। रूपयौवनसम्पन्नां मददृप्तां मदालसाम्। तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत। व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः। तत्र संसक्तमनसो भरद्वाजस्य धीमतः। ततोऽस्य रतश्चस्कन्द तदृषिर्द्रोण आदधे। ततः समभवद्द्रोणः कलशे तस्य धीमतः। अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः। अग्निवेशं महाभागं भारद्वाजः प्रतापवान्। प्रत्यपादयदाग्नेयमस्त्रमस्त्र विदां वरः। अग्नेस्तु जातः स मुनिस्ततो मरतसत्तम!। भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्” भा० आ० १३० अ०। (डा~डकाक) २ दण्डकाके पुंस्त्री० स्त्रियां ङीष् मेदि० ३ वृश्चिके राजनि०। चतुःशतधनुः परिमिते ४ जलाशये “शतेन धनुर्भिः पुष्करिणी त्रिभिः दीर्घिका चतुर्भिद्रोणः” जला० त०। द्रुण–क द्रु–न किद्वा। ५ मेघनायकभेदे तदानयनादि ज्यो० त० यथा “त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात्। आवर्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम्। आवर्त्तो निर्जलो मेघः संवर्तश्चरणोदकः। पुष्करो दुष्करजलो द्रोणः शस्यप्रपूरकः”। “कोऽयमेवंविधे काले कालपाशस्थिते मयि। अनावृष्टिहते शस्ये द्रोणमेघ इवोत्थितः” मृच्छ० “केयमभ्युद्यते शस्त्रे मृत्युवक्त्रगते मयि। अनावृष्टिहते शस्ये द्रोणवृष्टिरिवागता” मृच्छ० (घलघचिया) ६ पुष्पप्रधाने वृक्षे। “ब्रह्मविष्णुशिवादीनां द्रोणपुष्पं सदा प्रियम्” दुगार्च्चाप्रयोगः। ७ आढके पु० न० ८ आढकचतुष्टये च (३२ सेर) “द्रोणस्तु खार्य्याः खलु षोडशांशः” लीला० उक्ते ९ खार्य्याः षोडशभागे। आढकशब्दे ६५६ पृ० दृश्यम्। “धान्यद्रोणस्तु मासिकः” मनुः “दशद्रोणा भवेत् खारी कुम्भोऽपि द्रोण विंशतिः” १० उक्तमाने “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ तु पुष्कलम्। पुष्कलानि च चत्वारि आढकः परिकी र्तितः। चतुराढको भवेत् द्रोण इत्येतन्मानलक्षणम्” कल्पतरौ द्वासशप्रसृतिभिः कुडवस्तच्चतुर्गुणोत्तरप्रस्थाढकद्रोण इत्युक्तं कुडवचतुर्गुणादष्टाचत्वारिंशत्प्रसृतिभिः प्रस्थस्तच्चतुर्गुणाद्द्विनवत्यधिकशतेन प्रसृतिभिराढकः। तच्चतुर्गुणादष्टषष्ठ्यधिकसप्तशतप्रसृतिभिर्द्रोणः” प्रा० त० रघु०। गोपथब्राह्मणञ्च “द्वात्रिंशत् पलिकं प्रस्थमुक्तं स्वयमथर्वणा। आढकस्तु चतुःप्रस्थश्चतुर्भिर्द्रोण आढकैः” एषां। कार्यविशेषे परिमाणभेदाव्यवस्थाप्याः। मानार्थे अयमर्द्धर्च्चादिः। ११ द्रुमे वृक्षमात्रे। द्रोणस्य गोत्रापत्यम् वा–फक् पक्षे इञ्। द्रौणायन द्रौणि तदपत्ये “अनादिरिह द्रोणः अश्वत्थाम्न्यनन्तरे तूपचारात्” सि० कौ० एतच्च पाणिनेर्द्रोणात् प्राचीनत्वस्थापनायोक्तं वस्तुतः कुर्वादि वृष्ण्यन्धकादीनां बहूलां पा० सूत्रे कीर्तनात् ततोऽर्वाचीनत्वं पाणिनेर्व्यक्तं प्रतिमाति सर्वत्रानादित्व कत्पने मानाभावात् इत्यवधारितं सरलाख्यव्याख्यानोप- क्रमेऽस्माभिः “द्रौण्यस्त्रविप्लुष्टमिदं यदङ्गम” भाग०। कुशद्वीपस्थे १२ वर्षपर्वतभेदे “चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महागिरौ। विशल्यकरणी चैव मृतसञ्जीवनी तथा” मत्स्यपु० १२१ अ० स्वार्थे क। द्रोणक तत्रार्थे।
द्रोणकलश = पुं० द्रोण इव कलशः। द्रुममये यज्ञपात्रभेदे “आहवनीयं गच्छन्त्यादाय ग्रावद्रोणकलशसोमपात्राणि” कात्या० श्रौ० ८। ७। ५। पञ्चग्रावाणोऽभिषवार्थाः ते च पूर्वमभिषवणे स्थापिता अपि वचनात्तत आनीयन्ते संस्कारार्थं द्रोणकलशः द्रुममयः कलशाकारोवैकङ्कतः यस्योपरिधाराग्रहा गृह्यन्ते” कर्कः। यज्ञपात्रभेदे “स्रुचश्च मे चमसाश्च च मे वायव्यानि च मे द्रोणकलशश्च मे” यजु० १८। २१।
द्रोणकाक = पुंस्त्री० कर्म०। (दा~डकाक) ख्याते दण्डकाके काकभेदे अमरः।
द्रोणक्षीरा = स्त्री द्रोणमितं क्षीरमस्याः। द्रोणमितदुग्धवत्यां गवि अमरः।
द्रोणगन्धिका = स्त्री द्रोणस्य तन्नामपुष्पस्य गन्ध इव गन्धो यस्याः कप् अत इत्त्वम्। रास्नायां जटा०।
द्रोणघा = स्त्री द्रोणदुघा + पृषो०। द्रोणमितदुग्धवत्यां गवि शब्दच०।
द्रोणचित् = पु० यज्ञिये अग्निभेदे “एतया विकृत्यान्यां चितिं चिन्वन्ति द्रोणचिद्रथचक्रचित्कङ्कचित्प्रौगचिदुभयतः समुह्य पुरीषः” कात्या० श्रौ० १६। ५। ९। “एते अग्निविशेषाः” कर्कः “तं हैके एतया विकृत्याभिमन्त्र्यान्यां चितिं चिन्वन्ति द्रोणचितं वा रथचक्रचितं वा कङ्कचितं वा प्रौगचितं वा” शत० व्रा० ६। ७। २। ८
द्रोणदुग्धा = स्त्री द्रोणमितं दुग्धं यस्याः। द्रोणमितक्षीरायां द्रोणदुघायां गवि हेमच०।
द्रोणदुघा = स्त्री द्रोणमितं दोग्धि दुह–कः घश्चान्तादेशः। द्रोणमितदुग्धायां गवि अमरः।
द्रोणपदी = स्त्री द्रोण इव पादोऽस्याः कुम्भपद्या० ङीषि पादोऽन्त्यलोपे पद्भावः। द्रोणतुल्यपादयुक्तायां स्त्रियाम्।
द्रोणपर्णी = स्त्री द्रोणस्य वृक्षभेदस्य पर्णमिव पर्णमस्याः जातित्वात् ङीष्। भूमिकदल्याम् शब्दार्थ०।
द्रोणपुष्पी = स्त्री द्रोणस्य पुष्पमिव पुष्पमस्याः जातित्वात् ङीष्। (गुमक) इति ख्याते १ क्षुपभेदे “द्रोणपुष्पी गुरुः स्वादू रूक्षोष्णा वातपित्तकृत्। स क्षारलबणा स्वादुपाका कट्वी च भेदिनी। कफायकामलाशोथतमक श्वासजन्तुजित्” भावप्र०। २ द्रोणवृक्षे रत्नमाला। “द्रोणपुष्पीदलं स्वादु रूक्षं गुरु च पित्तकृत्। भेदकं कामलाशोथमेहपूयहरं कट्” वैद्यकम्।
द्रोणमाना = स्त्री द्रोणो मानं दुग्धेऽस्याः। द्रोणदुघायां गवि शब्दच०। द्रोणो मानं यस्याः। द्रोणमिते द्रव्यादौ त्रि०
द्रोणमुखम् = न० चतुःशतग्राममनोहरग्रामे हारा०।
द्रोणशर्म्मपद = न० तीर्थभेदे “शरस्तम्भे कुशस्तम्भे द्रोणशर्मपदे तथा। अपां प्रपतनासेवी सेव्यते सोऽप्सरो गणैः” भा० अनु० २५ अ०।
द्रोणसाच = त्रि० द्रोणं द्रोणकलशं सचते सच–अण्। द्रोणकलशसेवके। “एवा पतिं द्रोणसाचमचेतसम्” ऋ० १०। ४४। ४ “द्रोणसाचं द्रोणकलशस्य सेवितारम्” भा०
द्रोणा = स्त्री १ द्रोण्याम् २ द्रोणपुष्पायां शब्दार्थ०।
द्रोणाचार्य्य = पु० कर्म०। कौरवाणां शस्त्रशिक्षके भारद्वाजे
द्रोणाहाव = पु० आह्वयन्त्यत्र पानार्थं बलीवर्द्धान् आहावो जलाधारः जलाशयभेदः द्रोणमयः द्रुममयः आहावः। द्रुममये जलाधारभेदे “द्रोणाहावमवतमश्वचक्रम्” ऋ० १०। १०१। ७।
द्रोणि(णी) = स्त्री द्रवति गच्छति जलम् द्रु–नि वा ङीप्। १ काष्ठाम्बुवाहिन्याम् अमरः। (डोङ्गा) २ जलाधारे कदलीत्वगादि निर्मिते पात्रभेदे “तैलपूर्णे कटाहे वा द्रोण्यां वा शायवेत् नृपम्” सुश्रुतः “भरद्वाजस्य च स्कन्नं शुक्रं द्रोण्यामवर्द्धत” भा० आ० ६३ अ० ४ काष्ठमये स्नानपात्रे ५ पर्वतानाममन्तरे देशभेदे च “शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः” शब्दार्थचि० धृतवाक्यम्। “पूर्यन्तां पयसा नद्यो द्रौण्यश्च विपुलायताः” हरिवं० ७४ अ०। द्रोणस्य पत्नी ङीष्। ७ द्रोणपत्न्यां स्त्री ८ द्विसूर्पपरिमाणे वैद्यकभाषा ९ कदल्यां मेदि०। १० नीलीवृक्षे शब्दरत्ना० ११ शैलसन्धौ हेमच० १२ इन्द्रचिर्भट्यां १३ द्रीणोजलबणे च राजनि० १४ नदीभेदे उणादिकी० १५ द्रुते च
द्रोणीदल = पु० द्रोणीव दलमस्य। केतकीवृक्षे हारा०
द्रोणीलवण = न० द्रोण्यां भवं लबणम्। उपकर्णाटदेशभवे लबणे राजनि०। “विज्ञेयं द्रोणीलबणं पाके नात्युष्णतां गतम्। अविदाहि भेदकञ्च स्निग्धं शूलविनाशनम्। अल्पपित्तकरं चैव भिषग्भिः समुदाहृतम्” राजनि०।
द्रोण्य = त्रि० द्रोणं द्रुममयं यूपमर्हति यत्। द्रुममययूपार्हे पश्वादौ “द्रववद् द्रोण्यः पशुः” ऋ० ५। ५०। ४। “द्रोण्यः यूपार्हः पशुः” भा०
द्रोण्यश्व = त्रि० द्रोणिं द्रुतमश्नुते अश–व्याप्तौ बा० व। द्रुतव्यापके “द्रोण्यश्वास ईरन्ते घृतं वा” ऋ० १०९९। ४ “द्रोण्यश्वासः द्रुतव्यापनाः” भा०।
द्रोमिल = पु० चाणक्ये मुनौ हेमच० द्रामिल इति वा तत्र पाठः। अन्यतरस्य प्रामादिकत्वं मुद्रादोषात्।
द्रोह = पु० द्रुह–भावे घञ्। १ अनिष्टचिन्तने २ छद्मबधे ३ हिंसा मात्रे च। “पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजीऽपि गणोऽष्टकः” मनुः द्रोहश्छद्मबधः” कुल्लू० “द्रोहो जिघांसा” म० त० रघु० “विनापि शीर्षकात् कुर्य्यात् नृपद्रोहे तु पातके” मनुः अत्र हन्तुमिच्छा अनिष्टचिन्तनं वा द्रोहपदार्थः। “द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम्” काव्यप्र० द्रोहः जातोऽस्य तारका० इतच्। द्रोहित जातद्रोहे त्रि०।
द्रोहचिन्तन = न० द्रोहार्थं चिन्तनम्। परानिष्टचिञ्चने अमरः।
द्रोहाट = त्रि० द्रोहेणाटति अट–अच्। १ वैडालव्रतिके छद्मना परहिंसार्थं व्रतधारिणि २ मृगलुब्धके ३ वेदशाखाप्रभेदे पु० मेदि०।
द्रौण = त्रि० द्रोणं सम्भवति अवहरति पचति वा अण् पक्षे ठन्। द्रोणमितधान्यादेः स्वस्मिन् १ समावेशके २ तदपहारके ३ तत्पाचके च स्त्रियां ङीप्। पक्षे ठनि द्रोणिक तत्रार्थे स्त्रियां टाप्। तत्रार्थे द्रौणिक इति शब्दकल्पनं प्रामादिकमेव ठनि वृद्धेरप्रसक्तेः।
द्रौणीज = न० द्रोण्यां जायते जन–ड। १ द्रोणीजाते लबणे राजनि०। २ द्रोण्यां जाते द्रोणाचार्य्ये द्रोणस्य पत्नी ङीष् द्रोणी तस्यां जाते ३ अश्वत्थाम्नि च।
द्रौणायन = पु० अश्वत्थाम्नि द्रोणशब्दे दृश्यम् द्रौणिरप्यत्र।
द्रौणायनि = पु० द्रोणस्थापत्यं बा० फिञ्। अश्वत्थाम्नि “सकर्ण दुर्य्योधनशाल्वशल्यद्रौणायनिक्राथसुनीथवक्राः” भा० आ० १८७ अ०। “द्रौणायने! अलमत्यर्थमात्मानं शोकानले प्रक्षेप्तुम्” वेणीसं०
द्रौणिक = त्रि० द्रोणस्य वापः क्षेत्रम् ठञ्। द्रोणमितवीजवपनयोग्ये १ क्षेत्रादौ अमरः। तेन क्रीतमित्याद्यर्थे असमासे ठक्। २ द्रोणक्रीतादौ, समासे तु निष्का० ठञ्। स्वरे भेदः।
द्रौपद = पुंस्त्री० द्रुपदस्यापत्यं शिवा० अण्। १ द्रुपदराजपुत्रे तत्कन्यायां २ कृष्णाय्यां स्त्री। द्रुपदात्मजशब्दे दृश्यम् “द्रौपद्या च महातेजास्तथैवच सुभद्रया” हरिवं० १३५ अ० “द्रौपदी त्वथ संजज्ञे शचीभागादनिन्दिता। नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी। पद्मायताक्षी सुश्रोणी स्वक्रिताञ्चितमूर्द्धजा। सर्वलक्ष्मणसम्पूर्णा वैदूर्य्य मणिसन्निभा। पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः” भा० आ० ६७ अ० तस्याः पञ्चपतिकत्वकारणं भा० आ० १९८। ९९ अ० उक्ता दिङ्मात्रमत्रोच्यते तत्र द्रौपद्याः पूर्ववृत्तान्तकथनेन पञ्चपतिकत्वनिरूपणाय “व्यास उवाच आसीत्तपोवने काचिदृषो कन्या महात्मनः। नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती। तोषयामास तपसा सा किलोग्रेण शङ्करम्। तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम्। सैवमुक्ताऽब्रवीत् कन्या देवं वरदमीश्वरम्। पतिं सर्वगुणोपेतमिच्छामीति पुनः। पुनः। ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः पञ्च ते पतयो भद्रे! भविष्यन्तीति शङ्करः। सा प्रसादयती देवमिदं भूयोऽभ्यभाषत। एकं पतिं गुणोपेतं त्वत्तोऽर्हामीत्यथ शङ्कर!। तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः। पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः। तत्तथा भविता भद्रे! वचस्तद्भद्रमस्तु ते। देहमन्यं गतायास्ते सर्वमेतद्भविष्यति। द्रौपद्येषा हि सा जज्ञे सुता वै देवरूपिणी। पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता। स्वर्गश्रीः पाण्डवार्थन्तु समुत्पन्ना महामखे। सेह तप्ता तपो घोरं दुहितृत्वं तवागता। सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेनेह कर्मणा। सृष्टा स्वयं देवपत्नी स्वयम्भुवा राजन्! द्रुपदेष्टं कुरुष्व”। ब्रह्मवैवर्त्ते तु जन्मखण्डे ११५ अ० अन्यथा वर्णितं यथा “वह्निरुवाच शृणु राम! महाभाग! सीतासंगोपनं कुरु। सप्ताहाभ्यन्तरे चैव रावणो दुष्टराक्षसः। दुर्निवार्य्यः प्राक्तनेन जानकीञ्च हरिष्यति। राम उवाच। सीतां गृहीत्वा त्वं गच्छ च्छायात्रैव तु तिष्ठतु। कलत्र वर्जनं कर्म सर्वेषाञ्च जुगुपसितम्। सीतां गृहीत्वा प्रययौ रुदन्तीञ्च हुताशनः। सीतायाः सदृशी छाया तस्थौ श्रीरामसन्निधौ। सा च छाया हृता पूर्वं रावणेन बलीयसा। समुद्दधार तां रामो निहत्य तं सबान्धवम्। वह्नौ परीक्षाकाले च छाया वह्नौ विवेश ह। अग्निश्छायाञ्च संरक्ष्य ददौ रामाय जानकीम्। सा च छाया तपश्चक्रे नारायणसरोवरे। तपश्चकार दिव्यञ्च शतवर्षञ्च शूलिनः। वरं वृणुष्व भद्रे! त्वमुवाच शङ्करश्च ताम्। उवाच तां शिवं व्यग्रा भर्तुर्दुःखेन दुःखिता। पतिन्देहि पञ्चधा सा वरं वव्रे त्रिलोचनम्। सर्वसम्पत्प्रदस्तुष्टस्तस्यै शर्वो वरं ददौ। महादेव उवाच। साध्वि! त्वं पञ्चधा ब्रूषे पतिन्देहीति व्याकुला। पञ्चेन्द्राश्च हरेरंशा भविष्यन्ति प्रियास्तव। ते च सर्वे च पञ्चेन्द्राश्चाधुना पञ्च पाण्डवाः। सा च छाया द्रौपदी च यज्ञकुण्डसमुद्भवा। कृते युगे वेदवती त्रेतायां जनकात्मजा। द्वापरे द्रौपदी च्छाया तेन कृष्णा त्रिहायणी। वैष्णवी कृष्णभक्ता च तेन कृष्णा प्रकीर्तिता। स्वर्गलक्ष्मीर्महेन्द्राणां सा च पश्चाद्भविष्यति। राजा ददौ फाल्गुनाय कन्यायाश्च स्वयंवरे। पप्रच्छ मातरं वीरो वस्तु प्राप्तं मयाधुना। तमुवाच स्वयं माता गृहाण भ्रातृभिः सह। शम्भोर्वरेण पूर्वञ्च परत्र मातुराज्ञया। द्रौपद्याः स्वामिनस्तेन हेतुना पञ्चपाण्डवाः। चतुर्द्दशानामिन्द्राणां पञ्चेन्द्राः पञ्चपाण्डवाः” “अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा। पञ्च कन्याः स्मरेन्नित्यं महापातकनाशनम्” प्रातःस्मरणीयकीर्त्तने।
द्रौपदायनि = त्रि० द्रुपदेन निर्वृत्तादि कर्णा० फिञ्। द्रुपदेन निर्वृत्तादौ।
द्रौपदेय = पु० द्रौपद्या अपत्यम् ढक्। युधिष्ठिरादीनां द्रौपद्यासुत्पन्ने प्रतिविन्ध्यादौ ते च विश्वदेवगणांशेनोत्पन्नाः यथाह भा० आ० ६७ अ०। “द्रौपदेयाश्च ये पञ्च बभुवुर्भरतर्षभ!। विश्वान् देवगणान् विद्धि सञ्जातान् भरतर्षभ!। प्रतिविन्ध्यः सुतसोमः श्रुतकर्मा तथा परः। नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान्। पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा। लेभे पञ्च सुतान् वीरान् श्रेष्ठान् पञ्चाचलानिव। युधिष्ठिरात् प्रतिविन्ध्यं सुतसोमं वृकोदरात्। अर्जुनाच्छ्रुतकर्माणं शतानीकञ्च नाकुलिम्। सहदेवाच्छ्रुतसेनमेतान् पञ्च महारथान्। पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा। शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रा युधिष्ठिरम्। परप्रहरण ज्ञाने प्रतिविन्ध्यो भवत्वयम्। सुते सोमसहस्रे तु सोमार्कसमतेजसम्। सुतसोमं महेष्वासं मुषुवे भीमसेनतः। श्रुतं कर्म महत् कृत्वा निवृत्तेन किरीटिना। जातः सुतस्तथेत्येवं श्रुतकर्मा ततोऽभवत्। शतानीकम्य राजर्षेः कौरवस्य महात्मनः। चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्द्धनम्। ततस्त्वजीजनत् कृष्णा नक्षत्रे वह्निदैवते। सहदेवात् सुतं तस्मात् श्रुतसेनेति यं विदुः। एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः” भा० आ० २२२ अ०।
द्रौहिक = त्रि० द्रोहं नित्यमर्हति छेदा० ठञ्। नित्यं द्रोहार्हे।
द्रौह्य = त्रि० द्रुह्यस्यापत्यं शिवा० श्वण्। द्रह्यस्यापत्ये
द्वन्द = न० द्वन्द्व + पृषो० बलोपः। द्वन्द्वशब्दार्थे त्रिकाण्डशेषः।
द्वन्द्व = न० द्वौ द्वौ सहाभिव्यक्तौ “द्वन्द्वं रहस्यमर्य्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु” पा० द्विशब्दस्य द्विर्वचनं पूर्वपदस्याम्भावोऽत्त्वञ्चोत्तरपदस्य नपुंसकत्वञ्च निपात्यते एष्वेर्थेषु” सि० कौ० उक्ते १ रहस्यादौ “तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् इतरे विषयभूताः। द्वन्द्वम्मत्त्रयते रहस्यमित्यर्थः। मर्य्यादा स्थित्यनतिक्रमः। आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते माता पुत्रेण मिथुनं गच्छति पौत्रेण प्रपौत्रेणापीति मर्य्यादार्थः। व्युत्क्रमणं पृथगवस्थानम्। द्वन्द्वं व्युत्क्रान्ताः द्विवर्ग सम्बन्धेन पृथगवस्थिताः। द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति द्वन्द्वं संकर्षणवासुदेवौ। अभिव्यक्तौ साहचर्येणेत्यर्थः। योगविभागादन्यत्रापि द्वन्द्व इष्यते” सि० कौ “अत्र अन्यत्रापि तेन द्वन्द्वयुद्धान्यवर्त्तन्तेत्यादि सिद्धं द्वयोर्द्वयोर्युद्धान्यवर्तन्तेत्यर्थः वीप्सायां द्विर्वचनेऽप्यनेन तस्य रूप निष्पत्तिः। द्वन्द्वसमाहारादौ तु द्वन्द्वशब्दप्रयोगः रूद्या वृत्त्या अवयवार्थराहित्येनाव्युत्पन्नत्वादिति बोध्यम्” शब्देन्दु०। तत्र रहस्यं द्वाभ्यामेव ज्ञेयम्। २ कलहे ३ मिथुने स्त्रीपुंसयोर्द्वये ४ युगले च मेदि० ५ रोगभेदे ६ समासभेदे च पु० सच द्विधा समाहारेतरेतरयोगभेदात् तत्र सहतिप्राधान्ये समाहारद्वन्द्वः संहन्यमानप्राधान्ये इतरेतरयोगः इति वैयाकरणाः इतरेतरयोगशब्दे ९२३ पृ० दृश्यम् शब्दश० प्र० अन्यथा निरणायि यथा
“यद्यदर्थकयन्नामव्यूहो यद्यत्प्रकारके। बोधे समर्थः स द्वन्द्वः समासस्तावदर्थकः।” “यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य निश्चयस्तत्तदर्थप्रकारकान्वयबोधं प्रति तत्त्वेन समर्थस्तादृशनामनिवह एव तावदर्थको द्वन्द्वससासः। पाणिपादं वादय धवखदिरौ छिन्धीत्यादौ हि कर्मत्वाद्यंशे करचरणादिप्रकारकान्वयबोधं प्रत्यमादिधर्मिकः करचरणाद्युपस्थापकस्य पाणिपादादिक्रमिकनामस्तोमस्याव्यवहितोत्तरत्वसम्बन्धेन निश्चयः कारणम् अतः पाणिपादादिसमुदायः करचरणादितत्तदर्थे द्वन्द्वः। यत्तु पाणिपादमित्यादौ समाहारद्वन्द्वे सर्वत्रोत्तरपदे पाणिपादादिसाहित्ये लक्षणा अतएव नित्यं तत्रैकवचनं ससाहारस्यैकत्वात् पदान्तरन्तु तादृशलक्षणायानिरूढत्वसम्पादकं तथाविधसाहित्यस्य च स्वाश्रयनिष्ठत्वादिसम्बन्धेमैव द्वितीयाद्यर्थकर्मत्वादौ साकाङ्क्षत्वात् पाणिपादं वादयेग्वादेर्नायोग्यत्वमिति प्राच्यैरुक्तं तन्न युक्तं तुल्यवदेकक्रियान्वयित्वं बुद्धिविशेषविशेष्यत्वं वा पाणिपादयोः साहित्यं तस्य च नानात्वसम्भवेन तद्गतद्वित्वादिबोधार्थं समाहारद्वन्द्वादपि द्विवचनाद्यापत्तेर्दुर्वारत्वात्। साहित्यस्य द्विबहुत्वेऽपि न समाहारद्वन्द्वस्य द्विवचनादिसाकाङ्क्षत्वं तादृशद्विगोरिवेति चेत् तर्हि पाणिपादप्रभृतीनां नानात्वेऽपि न तदर्थकस्य द्वन्द्वस्य द्विवचनाद्याकाङ्क्षत्वमित्येव वक्तुमुचितं कृतं साहित्यभक्त्या हस्त्यश्वं धनमित्यादेरयोग्यताया दुर्वारतापाताच्च नामार्थयोर्भेदान्वयस्याव्युत्पन्नत्वेन हस्तिनामश्वानाञ्च साहित्यस्य स्वाश्रयत्वादिसम्बन्धेन धनादावन्वयायोगात् तादृशसाहित्ये धनादेरभेदविरहाच्च। समाहारपरिभाषा तु क्लीवलिङ्गत्वनित्यैकवचनत्वादिपदसंस्कारोपयोगितयैवोपपन्ना न द्वन्द्वस्यार्थव्यवस्थापिका। एतेन धवखदिरावित्यादावितरेतरद्वन्द्वेऽप्युत्तरपदे धवखदिरसाहित्याश्रये लक्षणा अन्यथा द्विवचनादेः प्रकृत्यर्दतावच्छेदकवत्येव पर्य्याप्तिसम्बन्धेन स्वार्थद्वित्वाद्यनुभावकत्वव्युत्पत्तेर्धवखदिरावित्यतो धवद्वयस्य खदिरद्वयस्य च प्रतीत्यापत्तेरितिमीमांसकानाम्मतमप्यपास्तं तुल्यवदेकक्रियान्वयित्वं धवखदिरविशेष्यकधीविशेष्यत्वं वा धवखदिरयोः साहित्यं तदाश्रयश्च धवद्वयादिरपीति तादृशसाहित्याश्रयलक्षकत्वपक्षेऽपि धवखदिरावित्यतो धबद्वयादिबोधस्य दुर्वारतापत्तेः। न च त्रितयाविशेष्यकधवखदिरधर्मिकर्धाविशेष्यत्वमेव प्रकृते धवखदिरयोः साहित्यं तच्च न धवद्वयादेरिति वाच्यं तादृशसाहित्यान्वयस्यानुभवेनास्पर्शनात् तस्माद्यत्र नानाधर्माणां प्रकृत्यर्थतावच्छेदकत्वं तत्र तत्तद्धर्मावच्छिन्ने समुदित एव पर्य्याप्तिसम्बन्धेन द्वित्वादिबोधने द्विवचनादिकं साकाङ्क्षं न तु तादृशैकधर्मावच्छिन्नं परित्यज्य तथाविधापरधर्मावच्छिन्ने, यतो धवखदिरावित्यादितो धवयोः खदिरयोश्च नाबोधप्रसङ्ग इति तत्त्वम्। घटघटेत्यादिकस्य घटकलसेत्यादिकस्य घटतद्घटेत्यादिकस्य च क्रमिकनामस्तोमस्य निश्चयत्वेन घटादेरन्वयबोधं प्रत्यहेतुत्वमतो न तादृङ्नामनिवहो घटाद्यर्थे द्वन्द्बः। अतएव समस्यमानपदार्थयोस्तत्त्वावच्छेदकयोर्वा यत्र मिथोभेदस्तत्रैव द्वन्द्वस्य साधुत्वसूचनाय “चार्थे द्वन्द्व” इति पाणिनिः प्राह। अतएव भेदगर्भसमुच्चयार्थकं चशब्दमन्तर्भाव्यंधवश्च खदिरश्चेत्यादिकं विग्रहमस्य प्रयुञ्जते वृद्धाः, समुपाददते च तत्र मिथोभेदप्राप्त्यर्थञ्चकारद्वयं, पीततत्पटयोस्तादात्म्यमित्यादो तत्पदादेः पीताद्यभिन्नत्वेऽपि पीतत्व- तत्पटत्वाद्योः पदार्थतावच्छेदकयोरस्त्येव भेदः सुबर्थस्तु द्वित्वं न तत्र प्रकृत्यर्थेऽन्वेति पर्य्याप्तिसम्बन्धेन पीततत्पटे तस्य बाधात् सुबर्थद्वित्वादेस्तादृशसम्बन्धेनैव प्रकृत्यर्थसाकाङ्क्षत्वात् परन्तु प्रकृत्यर्थतावच्छेदकयोः पीतत्वतत्पटत्वयोरेव व्युत्पत्तिवैचित्र्यात्। अतएव द्व्यणुकारम्भकसंयोगना शेभ्यः कार्य्यद्रव्यं नश्यतीति भाष्यस्य योग्यतासम्पत्तयेसुवर्थैकत्वस्य कार्यद्रव्यत्वेऽन्वयमभिधित्सुनाचार्येण जात्यभिप्रायकमेकवचनमिति गुणकिरणावल्यामभिहितम्। अतएव च “श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ” इत्यत्र च द्विवचनमहिम्ना स्वामिनो भ्राता देवृदेवरोभयपदवाच्य इत्यर्थः सुभूत्यादिसिद्धः सङ्गच्छते। यदि च पटद्वयासत्त्वेऽपि भूतले पीतपटावित्यादिकः प्रयोगः स्यात् पीतत्वपटत्वोभयाश्रयस्य तत्र सत्त्वादेवं पीतपटयोरभेद इत्यादितः शुद्धपटत्वादेरबोधप्रसङ्गश्च तदंशे सुबर्थद्वित्वस्य प्रकारत्वादित्यादिसूक्ष्ममीक्ष्यते तदा गोदौ ग्राम इत्यादाविव साधुत्वार्थमेव तत्र द्विवचनमिति वदन्ति। विद्यतविन्दतिविनत्तीनामनिट् इत्यत्र विद्यत इत्यादिशब्दो न विदधातुत्वेनोपस्थापकः किन्तु सत्ताद्यर्थकतादृशधातुत्वेनैव। मृगपाण्डरयोः पदार्थयोर्भेदेऽपि हरिणहरिणावित्यप्रयोगात्। समानशब्दथोर्द्वन्द्वप्रसक्तावेकशेषोव्युत्पत्तिसिद्धस्तेन हरिणावित्यत्र लुप्तश्रुताभ्यामेव हरिणपदाभ्यामुपस्थितयोर्मृगपाण्डरयोर्बोधः हरी नमस्यावित्यत्राप्युक्तरीत्यैव हरिपदाभ्यां विष्णु चन्द्रयोरवगतिः। अन्यथा हरिहरो नमस्यावित्यपि प्रयोगापत्तेः हरी च हरयश्चेति विग्रहस्थले यत्र हरय इत्यादितः समस्यमानपदार्थानामवान्तरमंख्यावगमस्तत्र तत्तत्संख्यावच्छिन्नस्वार्थलक्षकस्य लुप्तस्य हर्य्यादिपदस्यी त्तरत्वेन प्रतिसंहितमेव हर्य्यादिपदं तथाविधस्वार्थस्य लक्षणया बोधकं तदप्रतिसन्धाने तु श्रुतमेव हरिपदंविष्णुद्वयोः सिंहत्रयस्य चैकया लक्षणया शक्तिभ्रान्त्यैव वा। नच बिग्रहस्थ सुबंर्थस्य द्वित्वादेः समसाप्रतिपाद्यत्वनियमात्तथाविधद्वित्वत्रित्वान्तर्भावेण द्वन्द्वस्यैवासाधुत्वादुक्तक्रमेणैकशेषो न युक्तः, शलाकापरि हस्त्यश्वमित्यादौ व्यभिचारेणोक्तनियमस्यासत्त्वात् एकत्वे चैकत्वानि चेति विग्रहे च एकत्वानीत्येकशेषस्य गुणकिरणावल्यामाचार्य्यैरमिहितत्वाच्च। हंसश्च हंसी च इत्यर्थे हंसहंस्यावित्यप्रयोगात् तत्रापि “पुंसा स्त्रियाः सारूप्ये” इत्यनुशिष्टेर्हंवीपदस्य लोपे हंसाबित्यत्र लुप्तमेव हसीपदमनुसन्धाय स्त्रीपुंसयोर्बोधः तल्लोपमजानतस्तु हंसपदे स्त्रीहंसत्वपुरुषहंसत्वाभ्यां विभिन्नरूपाभ्यामेकस्याः शक्तेर्लक्षणया वा ग्रहादेव। यत्तु तत्र हंसपदमेव लक्षणया हंसीत्वेन शक्त्या च हंसत्वेन बोधकं सुबर्थस्तु पुंस्त्वं हंस एवान्वेति न तु हंस्यामयोग्यत्वात् इति मतं तन्न तथासति स्त्रीहंसत्वहंसत्वयोः पदार्थतावच्छेदकयोर्मिथोभेदविरहेण द्वन्द्वाप्रसक्तावेकशेषस्य हंसश्च हंसी च इत्यस्य दुष्करत्वापत्तेः अन्यथा घटतद्वटावित्यपि द्वन्द्वप्रसङ्गात् हंसौ च हंसाश्चेति विग्रहेऽपि हंसा इत्यतो हंसद्वयहंसत्रययोः प्रागु क्तरीत्यावगमः। दुन्दुभी च दुन्दुभिश्चेति विग्रहे दुन्दुभी सुन्दरावित्यत्राक्षभेर्य्योर्बोधनस्थले पुंलिङ्गस्यैव दुन्दुभिशब्दस्य शिष्टतया तद्विशेषणत्वादेव सुन्दरादेः पुंस्त्वम्। युवा च युवतिश्च इत्यर्थे युवानावित्यत्राप्युक्तरीत्यैव युवतीयौवनवतोर्बोधः वरटाहंसौ लक्षणासारसावित्यादौ तु स्त्रीपुंसयोर्द्धन्द्वेऽपि पदसारूप्यविरहान्नैकशेषः दम्पत्यर्च्चनप्रकरणे ब्राह्मणावानयेदित्यत्रापि ब्राह्मणश्च ब्राह्मणी च इति विग्रहे प्रागुक्तदिशा ब्राह्मणभार्य्यापत्योरवगमः। एकश्चैका चेत्यत्र एकौ, द्वौ च द्वे चेत्यत्र द्वौ, उभे चोभौ चेत्यत्र उभौ त्रयश्च तिस्रश्च इत्यत्र च विग्रहे त्रय इत्यादिरेकशेष इष्यत एव। ग्राम्यानेकशफेष्वतरुणेषु स्त्रीपुंसयोर्बहुत्वमन्तर्भाव्य सारूप्येण द्वन्द्वस्थले तु पुंस एव लुक् तेन मेष्यश्च मेषाश्चेद्त्यर्थे मेष्य इत्यत्रापि लुप्तं बहुमेषाणां लक्षकं मेषपदं प्रतिसन्दधत एव बहुमेषाणामनेकमेषीणाञ्चावगमः। एवं महिषाश्च महिष्यश्चेत्यर्थे महिष्य इत्यत्रापि महिषपदं बहूनां महिषाणां, मृगाश्च मृग्यश्चेत्यर्थे मृगा इत्यत्र तु मृगादेरग्राम्यत्वान्न पुंसो लुक् परन्तु स्त्रियाः। तथा गर्द्दभाश्च गर्द्दभ्यश्चेत्यर्थे गर्द्दभा इत्यत्रापि खराणामेकशफत्वात् वर्कराश्च वर्कर्य्यश्च इत्यर्थे वर्करा इत्यत्रापितरुणार्थकत्वात्। स्वसा च भ्राता चेत्यर्थे भ्रातरावित्यत्र पुत्रश्च दुहिता चेत्यर्थे पुत्रावित्यत्र च विरूपैकशेषेऽपि स्वसृपदं दुहितृपदञ्च लुप्तं प्रतिसन्धायैव भ्रातृभगिन्योः पुत्रकन्ययोश्चावगमः। “ज्येष्ठपुत्रदुहित्रीश्च ज्यैष्ठे मासि न कारयेत्” इत्यादिकस्तु प्रयोगः परिचिन्तनीयः। स च मैत्रश्चेति विग्रहे त्यदादिना तदन्यस्य द्वन्द्वे लुकि तावित्यत्रापि लुप्तं मैत्रादिपदमनुसन्दधत एव मैत्राद्यवंगमः स च त्वञ्चेत्यादि विग्रहेण किंपदान्यत्यदादिद्वयगर्भद्वन्द्वे तु पूर्वस्यैव वा लुक् अन्त्यस्यैव वा त्यदादेर्लुति युवामित्यत्र त्यादावप्युक्तक्रमेणैव तदर्थयुष्मदर्थयोर्बोधः स च स चेत्यत्रापि विभिन्नार्थयोर्विग्रहे स्वपूर्वागणितोऽपि तदादिः स्वोत्तरापठित एव “तत्तन्मानुषतुल्योऽसौ यद्यद्विद्यातिनिर्म्मलेत्यादौ तु न त्यदादिगणेन द्वन्द्वः परन्तु तदाद्यव्ययेन यथा “तत्तत्तामसभूतभीतय” इत्यादौ यत्तदा दिव्यतिरिक्तानामेवाव्ययानां सरूपैकशेषस्य व्युत्पन्नत्वात् प्रयोगानुरोधित्वात् कल्पनायाः। कश्च त्यञ्चेत्यादिविग्रहेण किमा तादृशद्वन्द्वे तु तदन्यस्यैव त्यदादेर्लुकि कावित्यादिक एव प्रयोगः चैत्रस्य पितराबित्यत्रापि विरूपैकशेषे लुप्तस्य मातृपदस्य स्मरणान्मातुरवगमः तदस्मरतस्तु पितृपदे जनकशरीरत्वेन लक्षणया मातापित्रोरवगतिरिति प्राञ्चः। कौमारास्तु मात्रा पितुर्द्वन्द्वे माता पितृभ्यां मातारपितराभ्यामिति प्रयोगद्वयीदर्शनाच्चैत्रस्य पितरावित्यत्र नैकशेषः परन्तु पुष्पवन्तादिपदवन्मातृत्वपितृत्वाभ्यां विभिन्नरूपाभ्यागेकशक्तिमदेव नियतद्विवचनाकाङ्खं पितृपदं प्रकृत्यन्तरम्। एवं श्वश्रूश्च श्वशुरश्चेत्यर्थे श्वशुरावित्यत्र श्वशुरपदमपि श्वश्र्वा श्वशुरस्य द्वन्द्वे श्वश्रूश्वशुरावित्येव प्रयोगादित्याहुः”। द्वन्द्वं विभजते। “द्वौ भेदावस्य शास्त्रौक्तौ समाहारेतरेतरौ। एकान्यवचनाकाङ्क्षाहीनोपादानतश्च तौ”। “अस्य द्वन्द्वस्य द्वौ भेदौ समाहार इतरेतरश्च शास्त्रसिद्धौ तत्रैकवचनान्यसुबाकाङ्क्षाविहीनः समाहारः तथाविधसुबाकाङ्क्षश्चेतरेतरः पाणिपादं हस्त्यश्वमित्यादितो हि करचरणादीनां बहूनामप्यगतावेकवचनमेव प्रमाणं धवखदिरावित्यादौ द्विवचनादेः पदिस्कन्दिखिदेर्दादित्यादौ तु पदिस्कन्दिभ्यां सहितः खिदिरिति विगृह्य मध्यपदलोपी कर्म्मधारयो यथा अव्याप्त्यतिव्याप्तेरिति मणिग्रन्थादौ”। केचित् पदभेदे द्वन्द्वमिच्छन्तः “अप्येकदन्तहेरम्ब लम्बोदरगजाननाः” इत्युदाजह्रुः तन्न समीचीनम् चोऽवधारणे इत्यादिवत् एकदन्तादिशब्दानामेवात्र पदार्थत्वात् तथाभूतशब्दानाञ्च विभिन्नानुपूर्वीकत्वेन भिन्नत्वात् एते शब्दा गणेशे वृत्तिमन्त इत्येवं कोषादायवन्वयबोधात्। वटकलसयोरभेद इत्यादौ तु घटपदकलसपदप्रतिपाद्यत्वरूपपदार्थतावच्छेदकभेदात् न द्वन्द्वानुपत्तिरिति दिक् “देवताद्वन्ट्ने” “चार्थे द्वन्द्वः” पा० “द्वन्द्वः समासिकस्य च” गीता। तत्र युगले “द्वन्द्वं ते मन्दचेता यदि जपति जनोवारमेकं कदाचित्” कर्पूरस्तवः। “विरहविधुरकोकद्वन्तशोकं विभिन्दन्” उद्भटः। मिथुनम् स्त्रीपुंसयोर्द्वित्वम् तत्र “द्वन्द्वानि भावं क्रियया विव्रब्रुः” कुमा० “मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु” रघुः। “क्षुत्पिपासे शोकमोहौ रागद्वेषौ तथैव च। लाभालाभौ च शीतोष्णे तथा मानापमानकौ। कामक्रोधप्रभृतयोः द्वन्द्वशब्देन वर्णिता” इत्युक्ते परस्परविरुद्धस्वभावे शीतोष्णादौ “न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि” माघः “तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता” वेदान्तसा० “द्वन्द्वातोतो विमत्सरः” गीता। आसनजये च द्वन्द्वदुःखैरनभिभवः योगसू० उक्तः “ततो द्वन्द्वानभिघातः” “शीतोष्णादिभिर्द्वन्द्वैरासनजयान्नाभिभूयते” भा०। ७ दुर्गे युक्तिकल्प० तद्विशेषादिकं तत्रोक्तं यथा “राज्ञोबलं न हि बलं द्वन्द्वमेव बलं बलम्। अप्यल्पबलवान् राजा स्थिरो द्वन्द्वबलाद्भवेत्” तथा च “एकः शतं योधयति प्राकारस्थो धनुर्धरः। शतं दशसहस्राणि तस्माद्दुर्गं विशिष्यते। अकृत्रिमं कृत्रिमञ्च तत् पुनर्द्विविधं भवेत्। यद्दैवसूचितं द्वन्द्वं गिरिनद्यादि संश्रितम्। अकृत्रिममिदं ज्ञेयं दुर्लङ्घ्यमरिभूभुजाम्। प्राकारपरिखारण्यसंश्रयं यद्भवेदिह। कृत्रिमं नामविज्ञेयं लङ्घ्यालङ्घ्यन्तु वैरिणाम्” तत्राकृत्रिमद्वन्द्वमुक्तं तत्रैव यथा “अत्युच्चविस्तीर्णशिरा दुरारोह सकाननः। सजलाशयसम्भारभोज्यद्रव्यसमाश्रयः। सुखनिःसरणो द्वन्द्वः पर्वताख्यो महीभुजाम्। नद्योगभीरविस्तीर्णाश्चतुर्दिक्षु व्यवस्थिताः। तन्मध्ये भूप्रदेशो यो नदीद्वन्द्वः स उच्यते। यदन्यच्चिरकालीनं दुर्लङ्घ्य विपिनादिकम्। तन्मध्यरचिता भूमिर्द्वन्द्वत्वेनोपतिष्ठते। वनद्वन्द्वमिति ख्यातं यथापूर्वं महत्तरम्” कृत्रिमद्वन्द्वमुक्तं तत्रैव यथा “यस्मिन् राज्ये गिरिर्नास्ति नद्यो वा गहनोदकाः। तस्य मध्ये महीपालः कृत्रिमं द्वन्द्वमारभेत्। गजैरलङ्घ्या विस्तीर्णा गम्भीराः पूर्णवारयः। द्वन्द्वत्वेन समादिष्टाः परिखा बहुयादसः। विशालशालं सुघनं वहुकण्टकिसङ्कटम्। द्वन्द्वत्वेन समादिष्टं विस्तीर्णं विषमं बलम्। अधोऽधोबध्यमानोऽपि कन्दरोऽल्पजलं स्रवन्। द्वन्द्वत्वेन समुद्दिष्टः दुर्लङ्घ्यो हि स भूभुजा। सर्वतः परिखां कृत्वा निवन्धोपरिकन्दरम्। तज्जलप्लुतदेशत्वात् जलद्वन्द्वं तदुच्यते। एषामभावे निम्नस्य भूप्रदेशस्य बन्धनात्। वर्षासु प्लवते वारि जलद्वन्द्वं ततोभवेत्। एतयोरपि संमिश्रात् संमिश्रं द्वन्द्वमाचरेत्। आश्रित्य कृत्रिमं द्वन्द्वद्वं बलवद्- वैरिणो दिशि। अन्यत्र कृत्रिमं द्वन्द्वं कृत्वा मरपति र्वसेत्। रघपतिर्यदा वैरी स्थलद्वन्द्वं तदाचरेत्। गजाश्चनाथश्चेद्वैरी चद्वन्द्वं तदाचरेत्। गिरिद्वन्द्वं नृपः सेवेत् यस्य स्याद् द्विविधो रिपुः। सर्वो हि त्रिविधो युद्धः समासादुपदिश्यते। प्रतिराजस्य राज्यान्ते प्रकटे गुप्त एव प। राज्यान्ते सैनिकान् रक्षेत् प्रकटे निवसेत् स्वयम्। गुप्तेऽस्त्रकोषसम्भारं संरक्षेदिति निश्चयः”। तस्य सामान्यतो गुणा नीतिशास्त्रोक्ताः यथा “सप्रवेशापसरणं द्वन्द्वसुत्तममुच्यते। अन्यत्र वन्दिशालेव न तादृग्वशमाश्रयेत्। धनुर्द्वन्द्वं महीद्वन्द्वं गिरिद्वन्द्वं तथैव च। मनुष्यद्वन्द्वमित्याहुर्योद्धृद्वन्द्वं प्रकीर्तितम्। योद्धृशून्यं हि यत् द्वन्द्वं मृतकायसमं हि तत्”। अन्यत्र च “यावत् प्रमाणं नगर हि राज्ञां ततो भवेदुत्तममध्यमान्तम्। त्रिंशत्तदर्द्धाश्च गुणोत्तरेण त्रिदेशजानां धरणीपतीनाम्” गर्गस्तु “यदन्यद् द्विविधं द्वन्द्वं श्रयूते धरणीभुजाम्। ताभ्यामेवातिरिच्येत मन्त्रद्वन्द्वं विशेषतः। अन्येषु दैवात् भिन्नेषु मन्त्रद्वन्द्वात् जनेन्नृपः। मन्त्रद्वन्द्वे हि भिन्ने हि न चान्यत् कार्यकारकम्”। भोजः “तदैव वैरिदुर्लङ्घ्यं विस्तीर्णविषमञ्च तत्। सप्रवेशापसरणं तद्वन्द्वमुत्तमं विदुः”।
द्वन्द्वगद = पु० द्वन्द्वरूपो गदः। रागद्वेषादिरूपे रोगे। “अहं हरिः सर्वमिदं जनार्दनो नान्यं ततः कारणकार्यजातम। ईदृङमनो थस्य न तस्य भूयो भवोद्भवा द्वन्द्व गदा भवन्ति” विष्णुपु०।
द्वन्द्वचर = पुंस्त्री द्वन्द्वीभूय मिथुनीभूय चरति चर–ट। चक्रवाके हेमच० स्त्रियां जातित्वात् ङीष्। “शशिना पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्त्रिणम्” रघुः। णिनि द्वन्द्वचारिन् अप्यत्र त्रिका० स्त्रियां ङीप्।
द्वन्द्वज = त्रि० द्वन्द्वात् जायते जन–ड। वातपित्तश्लेष्मणां मध्ये द्वाभ्यां दोषाभ्यां जाते १ रोगादौ माधवनिदानम् २ कलहात् जाते च।
द्वन्द्वयुद्ध = न० द्वयोर्द्वयोर्युद्धम्। द्वयोर्द्वयोर्युद्धे “कैराते द्वन्द्वयुद्धे च यदिदं समबर्तत” भा० उ० १९५ अ०। “वहूनि भुवि चित्राणि द्वन्द्वयुद्धानि सञ्जय!” भा० द्रो० १५ अ०
द्वय = न० अवयवम् द्वि–अवयवे तयप् तस्य वा अयच्। १ द्वयोरव यवे २ द्वित्वे अत्र स्त्रीत्वमपि ङीप्। “अतद्द्वयीजित्वरसुन्दरान्तरे” नैष० “कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः” भा० र० द्वे अवयवे यस्य अयच्। २ द्वित्वान्विते त्रि० अयचः तयप्स्थानिकत्वात् जसि सर्वनामता “द्वयेऽप्यमुच्यन्त विनीतमार्गाः” माघः “व्यथां द्वयेषामपि मेदिनी भृतामिति” माघे द्वयेषामित्यसाधु अन्ये तु द्वयं द्वित्वमिच्छन्ति इष–क्विप् तेषामिति समर्थन्ते। स्त्रियां ङीप्। “द्वयीषु निःक्षेप इवार्पितं द्वयम्” कुमा० अत्र द्वयेऽपीति पाठान्तरम्।
द्वयाग्नि = पु० द्वयः द्विरूपोऽग्निरत्र। पाठिद्रुमे चित्रके (चिता) इति भाषा वृक्षे शब्दच० तस्य प्रचुराग्निरूपत्वात्तथात्वम्।
द्वयातिग = त्रि० द्वयं रजस्तमसो द्वित्वमतिगच्छति अति + गम–ड। रजस्तमोभ्यामनभिभूतसत्वगुणयुक्ते अमरः।
द्वयाविन् = त्रि० द्वयमस्त्यस्य वेदे “बहुलं छन्दसि” मत्वर्थे विनि “छन्दोविन्प्रकरणे ओष्ठामेखलाद्वयोभयरुजा हदवानां दीर्घश्चेति वव्यक्तम्” वार्ति० विनि पूर्वपददीर्घश्च। द्वित्वयुक्ते स्त्रियां ङीप्।
द्वयु = पु० द्वाभ्यां प्रकाराभ्यां युक्ता द्वि + यु–ज–डु पृषो०। प्रत्यक्षतो हितवादिनि परोक्षतोऽहितवादिनि एवं द्विप्रकारयुते शत्रौ “दुर्हणा वा उपद्वयुः” ऋ० ८। १८। १४ माधवभा०
द्वर = त्रि० द्वृ–आवृतौ अच्। आवरणकारके द्वृ–इन्। द्वरि तत्रार्थे “स हि द्वरो द्वरिषु वत्रे” ऋ० १। ५२। ३
द्वाः(द्वा)स्थ = पु० द्वारि तिष्ठति स्था–क वा विसर्गलोपः। द्वारपाले अमरः। “ते सद्मनि गिरेर्वेगात् दुर्मुखद्वाःस्थवीक्षिताः” कुमा० “विद्वानपि तयोर्द्वाःस्थः समय लक्ष्मणोऽभिनत्” रघुः।
द्वाः(द्वा)स्थित = द्वारि स्थितः वा विसर्गलोपः। द्वारपाले अमरः।
द्वा(द्वि)चत्वारिंश = त्रि० द्वा(द्वि)चत्वारिंशतः पूरणः डट्। येन द्वाचत्वारिंत् संख्या पूर्यते तस्मिन्। स्त्रियां ङीप्।
द्वा(द्वि)चत्वारिंशत् = स्त्री द्व्यधिका चत्वारिंशत् द्विशब्दस्य वा आत्वम्। द्व्यधिकचत्वारिंशत्संख्यायाम् तदन्विते च। साप्रमाणमस्य ठत्। द्वा(द्वि)चत्वारिंशतिक तत्प्रमाणेत्रि० पूरणे तमप् द्वा(द्वि)चत्वारिंशत्तम तत्संख्यापूरणे त्रि०।
द्वाज = पु० द्वाभ्यां जायते जन–ड पृषो०। द्वाभ्यां जाते “नाम निर्वचनं तस्य श्लोकमेकं पुरा जगुः। मूढे! भरद्वाजमिमं भरद्वाजं वृहस्पते!। यातौ यदुक्त्वा पितरौ भरद्वाजमथाह्वयत्” भाग० ९। २०। ५ “तत्र प्रथमं पुत्रं त्यक्त्वा यान्तीं ममतां वृहस्पतिराह ह मूढे! इमं पुत्रं भर पुषाण। भर्तुर्बिभेमीति चेत्तत्राह द्वाजम् एकस्य क्षेत्रे अन्यस्य वीजेनेत्यादिरूपं द्वाभ्यां जातं अतस्तस्याप्ययं पुत्र इति तस्मात् न भयशङ्केत्यर्थः। एवमुक्ता सती तं प्रत्याह हे वृहस्पते! त्वमिमं भर यतो द्वाजं द्वाभ्यां आवाभ्याम् अन्यायतो जातं अतो नाहमेकाकिनी भरामीत्यर्थः। यद्यस्मादेवमुक्त्वा पितरौ ममतावृहस्पती विवदमानौ पुत्रं परित्यज्य यातौ ततो हेतोरयं भरद्वाज इति” श्रीधरस्वामी।
द्वात्रिंशत् = स्त्री द्व्यधिका त्रिंशत द्वादेशः। १ द्व्यधिकत्रिंशत् संख्यायां २ तदन्विते। तस्याः पूरणः डट्। द्वात्रिंशतमप् द्वात्रिंशत्तम तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।
द्वात्रिंशदपराध = पु० कर्म०। भक्तानामीश्वरविषये द्वात्रिंशत् संख्यकेषु अपराधेषु। ते च अपराधाः तन्त्रसारे दर्शिता यथा “तन्त्रान्तरे यानैर्वा पादुकाभिर्वा यानं भगवतो गृहे। दैवोत्सवेष्वसेवा च अप्रणामस्तदग्रतः। उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम्। एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणम्। पादप्रसारणञ्चाग्रे तथा पर्य्यङ्कवन्धनम्। शयनम्भक्षणञ्चापि मिथ्याभाषणमेव च। उच्चैर्भाषो मिथो जल्पो रोदनानि च विग्रहः। निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरमाषणम्। कम्बलावरणञ्चैव परकीर्त्तेरपहुतिः। अश्लीलभाषणञ्चैव अधोवायुविमोक्षणम्। शक्तौ गौणोऽपचारश्च अनिवेदितभक्षणम्। तत्तत्कालभवानाञ्च फलादीनामनर्पणम्। विनिजुष्टावशिष्टस्य प्रदानं व्यञ्जनस्य यत्। स्पष्टीकृतासनञ्चैव परनिन्दा परस्तुतिः। गुरौ मौनं निजस्त्रोत्रं देवतानिन्दनं तथा। अपराधास्तथा विष्णोर्द्वात्रिंशत् परिकीर्त्तिताः”।
द्वात्रिशल्लक्षण = पु० द्वात्रिंशत् लक्षणानि शुभलक्षणानि यस्य। शुभलक्षणान्विते महापुरुषलक्षणयुते नरे। काशी० स्व० ११ अ०। “पञ्चदीर्घः पञ्चसूक्ष्मः सप्तरक्तः षडुन्नतः। त्रिपृथुलघुगम्भीरोद्वात्रिंशलक्षणस्त्विति” “पञ्च दीर्घाणि शस्यानि यथा दीर्घाण्यथास्य वै। भूजौ नेत्रे हनू नासावक्षसी तनयस्य ते। त्वक्केशाङ्गुलिदशनाः पर्व्वाण्यङ्गुलि जान्थपि। तस्यास्य पञ्च सूक्ष्माणि दिक्पालपदभाक् यथा। पाण्यङ्घ्रितलनेत्रान्तं तालुजिह्वाधरौष्ठकम्। सप्तारुणञ्च सनखमस्मिन् राज्यसुखप्रदम्। कक्षा कुक्ष्यलिकस्कन्धकरवक्त्रं षडुन्नतम्। तथात्र दृश्यते बाले महदैश्चर्य्यभाग् यथा। ललाटकटिवक्षोभि स्त्रिविस्तीर्णो यथाह्यसौ। सर्वतेजोतिगैश्वर्य्यं तथा प्राप्स्यति नान्यथा। ग्रीवाजङ्घामेहनैश्च त्रिभिर्ह्रस्वोऽयमीडितः। स्वरेण स्वत्वनाभिभ्यां त्रिगम्भीरः शिशुः शुभः।”
***